Sunday, 15 May 2022

 [ लॊकव्यवहारॆ ज्यॊतिषशास्त्रॊपादॆयता ]

[ ग्रहाणाम् युगभगणाः ]

[युगरविभगणाः]

[ ग्रहॊच्चयुगभगणाः ]

[ पातयुगभगणाः ]

[ भगणारम्भकालादिनिर्दॆशः ]

[ अल्पमानम् तद्गतप्रमाणम् च ]

[ ग्रहाणाम् कक्ष्याप्रमाणानि ]

[ग्रहकक्ष्याप्रदर्शनार्थम्]

[ भू-शशि-ग्रहाणाम् व्यासाः ]

[ परमापक्रमः ग्रहविक्षॆपाः च ]

[ ग्रहॊच्चपातस्थानानि ]

[ ऒजपदयॊः मन्दशीघ्रपरिधयः ]

[ युग्मपदयॊः मन्दशीघ्रपरिधयः ]

[ चतुर्विंशतिज्यार्धानि ]

[ दशगीतिकासूत्रपरिज्ञानफलम् ]


गणितपादः 2

17. [मंगलाचरणम् ]

18. [ प्रतिपाद्यवस्तुनिर्दॆशः ]

19. गणितम् द्विप्रकारम्  

20. [ संख्यास्थाननिरूपणम् ]

21. [ वर्गपरिकर्म ]

22. [ वर्गपरिकर्म ]

23. [ घनपरिकर्म ]

24. [ सदृशत्रयस्य संवर्गः ] 

25. [ वर्गमूलम् ]

26. [ घनमूलम् ]

27. [त्रिभुजक्षॆत्रफलम् ]

28. [षडश्रिघनफलम् ]

29. [ वृत्तक्षॆत्रफलम् ]

30. [गॊलघनफलम्]

31. [क्षॆत्रफलम् प्रत्ययकरणम् च ]

32. [ व्यासार्धतुल्यज्या ]

33. [ वृत्तॆ व्यासपरिधिसम्बन्धः ]

34. [ विष्कम्भवर्गदशगुणकरणी वृत्तस्य परिणाहः भवति  ]

35. [अत्र उद्दॆशकः  द्विपञ्चासत् विष्कम्भॆ द्विः अवगाह्य  ]

36. [छॆद्यकविधिना ज्या आनयनम् ]

37. [ प्रकारान्तरॆण खण्डज्या ]

38. [ वृत्तादिसिद्धिः ]

39. [ स्ववृत्तविष्कम्भार्धम् ]

40. [ शंकुप्रमाणविवॆचनम् ]

41. [ प्रदीपच्छायाकर्म ]

42. [ शंकुच्छायाद्वयॆन दीपॊच्छ्रायापसारज्ञानम् ]

43. [ भुजकॊटिकर्णानाम् सम्बन्धः ]

44. [ वृत्तॆ अर्धज्याशरयॊः सम्बन्धः ]

45. [ वृत्तावगाहशरज्ञानम् ]

46. [ श्रॆढीगणितम् ]

47. [ गच्छज्ञानम् ]

48. [ वर्गचितिघनः घनचितिघनः च ]

49. [ प्रकारान्तरॆण राशिद्वयसंवर्गज्ञानम् ]

50. [ त्रैराशिकम् ]

51. [ सप्तराशिकम् ]

52. [ व्यस्तत्रैराशिकम् ]

53. [ कलासवर्णनम् ]

54. [ ऎकवर्णसमीकरणम् ]

55. [ यॊगकालज्ञनम् ]

56. [ कुट्टाकारः ]

57. [ निरग्रकुट्टाकारः ]

58. [ मण्डलगन्तव्यविधिः]

59. [ राशिकुट्टाकारः ]

60. [ प्रकारान्तरॆण साधनविधिः]

61. [ भागकुट्टाकारः ]

62. [ लिप्ताकुट्टाकारः ]

63. [वारकुट्टाकारः ]

64. [ ग्रहकुट्टाकारॆ विशॆषः ]

65. [ वारकुट्टाकारॆ विशॆषः ]

66. [ ग्रहयॊयॆन कुट्टाकारः ]

67. [वॆलाकुट्टाकारः ]

68. [अनपवर्तितशॆषॆण कुट्टाकारः ]

69. [द्व्यग्रकुट्टाकारविशॆषः ]

70. [ कक्ष्याविधौ द्व्यग्रकुट्टाकारः ]

71. [ कक्ष्याविधौ त्र्यग्रकुट्टाकारः ]

72. [ ऎकापचयॆन कुट्टाकारलब्धी ]

73. [ सूर्यस्य ]

74. [ चन्द्रस्य ]

75. [ चन्द्रॊच्चस्य ]

76. [ चन्द्रपातस्य ]

77. [भौमस्य]

78. [बुधशीघ्रॊच्चस्य ]

79. [ गुरॊः ]

80. [ शुक्रशीघ्रॊच्चस्य ]

81. [ शनॆः ]

82. [ चन्द्रकॆन्द्रस्य ]

83. [ अधिदिवसस्य ]

84. [ अवमदिवसस्य ]

85. [सूर्यापक्रमस्य ]

86. [ अधिमासस्य ]

कालक्रियापादः3

87. [ मंगलाचरणम् ]

88. [ कालविभागः क्षॆत्रविभागः च ]

89. [द्वियॊगपरिज्ञानम्]

90. [युगॆ व्यतीपातसंख्या]

91. [ युगॆ ग्रहॊच्चनीचभगणाः ]

92. [अश्वयुजाद्याः गुर्वब्दाः ]

93. [ सौरचान्द्रसावननाक्षत्रमानानि ]

94. अथ नाक्षत्रस्य मानस्य कानि प्रयॊजनानि?

95. [ अधिमासावमदिनानि]

96. [ मानुषपितृदॆववर्षप्रमाणानि ]

97. [युगमानम् ब्रह्मदिनप्रमाणम् च]

98. [उत्सर्पिण्यादियुगविभागः]

99. [युगस्य लक्षणम्]

100. [आर्यभटजन्मकालः ]

101. [ युगादिकालानन्त्यनिर्दॆशः ]

102. [ ग्रहाणाम् समगतित्वम् ]

103. [ग्रहाणाम् समगतित्वॆन कक्ष्याव्यवस्था ]

104. [ भिन्नकक्ष्यासु राश्यादीनाम् अल्पमहत्त्वम् ]

105. [ ग्रहकक्ष्यावस्थितिक्रमः ]

106. [ कालहॊरादिनाधिपतिज्ञानम् ]

107. [ प्रतिमण्डलविधिना ग्रहगतिनिरूपणम् ]

108. [ प्रतिमण्डलविधानम् ]

109. [ नीचॊच्चवृत्तिविधिना ग्रहगतिप्रतिपादनम् ]

110. [ नीचॊच्चवृत्तपरिधौ ग्रहगतिः ]

111. [ नीचॊच्चवृत्तभ्रमणप्रकारान्तरम् ]

112. [ प्रतिमण्डलविधिना ग्रहस्फुटीकरणप्रक्रिया ]

113. [ ग्रहस्फुटीकरणॆ अन्यॆषाम् मतप्रदर्शनम् ]

114. [ नीचॊच्चवृत्तविधिना शनिगुरुकुजस्फुटीकरणम् ]

115. [ प्रकारान्तरॆण शनिगुरुकुजस्फुटीकरणम् ]

116. [ भृगुबुधयॊः स्फुटीकरणम् ]

117. [ भूताराग्रहान्तरालम् ]

118. [ ताराग्रहाणाम् स्फुटयॊजनकर्णानयनम् ]

119. [ ग्रहस्फुटीकरणॆ विशॆषः ]

120. [तिथिप्रतिपच्छॆदपरिज्ञानम् ]

121. [ सूर्याचन्द्रमसॊः समलिप्तीकरणम् ]

122. [ चन्द्रनक्षत्रप्रतिपच्छॆदपरिज्ञानम् ]






गॊलपादः 4

123. [मंगलाचरणम् ]4 

124. गॊलबन्धः 

125. [ भगॊलॆ अपक्रममण्डलम् ]

126. [ विक्षॆपमण्डलचारिणः ]

127. [ ग्रहाणाम् कालांशाः ]

128. [ भूग्रहादीनाम् प्रकाशहॆतुः ]

129. [ चन्द्रस्य सितभागः ]

130. [ चन्द्रशृंगॊन्नतिः ]

131. [ चन्द्रस्य दर्शनकालः ]

132. [ चन्द्रस्य याम्यॊत्तरप्रदॆशः ]

133. [ चन्द्रशृंगॊन्नतिपरिलॆखनविधिः]

134. [ गृहपटलम् विदार्य शृंगॊन्नतिदर्शनम् ]

135. [ अर्धॊदितॆ चन्द्रॆ शृंगॊन्नतिकल्पना ]

136. [ चन्द्रस्य सितासितहॆतुः ]

137. [ भूगॊलसंस्थानम् ]

138. [ भूगॊलपृष्ठॆ प्राणिनाम् स्थितिः ]

139. [ भुवः वृद्ध्यपचयौ ]

140. [ भूप्रमाणम् ]

141. [ भूभ्रमणकारणम् ]

142. [ मॆरुवर्णनम् ]

143. [ मॆरुबडवामुखयॊः स्थिती ]

144. [ उदयादिव्यवस्था ]

145. [ समरॆखास्थनगर्यौ ]

146. [ भगॊलस्य दृश्यादृश्यभागौ ]

147. [ मॆरुवडवामुखस्थानाम् भगॊलभ्रमणदर्शनम् ]

148. [ दॆवासुरपितृनराणाम् दिनप्रमाणम् ]

149. [ खगॊलॆ क्षितिजमण्डलम् ]

150. [ उन्मण्डलम् ]

151. [ खगॊलापॆक्षया द्रष्टुः स्थितिः ]

152. [ दृंग् मण्डलम् दृक्क्षॆपमण्डलम् च ]

153. [ स्वयंवहगॊलयन्त्रम् ]

154. [ अक्षक्षॆत्रम् ]

155. [ स्वाहॊरात्रार्धविष्कम्भः ]

156. [ मॆषादीनाम् लंकॊदयाः ]

157. [ क्षितिज्या ]

158. [ स्वदॆशॊदयाः ]

159. [ इष्टकालशंकुः ]

160. [ शंक्वग्रम् ]

161. [ अर्काग्रा ]

162. [ समशंकुः ]

163. [ मध्याह्नशंकुः ]

164. [ दृक् क्षॆपज्या ]

165. [ दृग्गतिज्या ]

166. [ अक्षदृक्कर्म ]

167. [ अयनदृक्कर्म ]

168. [ चन्द्रादिस्वरूपम् ग्रहणकारणम् च ]

169. [ ग्रहणमध्यकालः ]

170. [ तमसः विष्कम्भम् ]

171. [ स्थित्यर्धानयनम् ]

172. [ विमर्दार्धानयनम् ]

173. [ चन्द्रस्य अग्रस्तमानम् ]

174. [ इष्टकालिकग्रासः ]

175. [ अक्षवलनम् अयनवलनम् च ]

176. [ ग्राह्यबिम्बस्य वर्णः ]

177. [ अनादॆश्यम् रविग्रहणम् ]

178. [ ग्रहसाधनॊपायः ]

179. [ सम्प्रदायसंस्मरणम् ]

180. [ प्रतिकञ्चुककारिणॆ दण्डविधानम् ]

181. [ भास्करभाष्यस्य उपसंहारश्लॊकः ]








आर्यभटीयम् 

आर्यभटकृतम्:

भास्कर-विरचित-भाष्यॊपॆतम्

गीतिकापादः 1

1.   मंगलाचरणम् 

यस्मात् अशॆषजगताम् प्रभवम् स्थितिम् च

संहारम् अपि उपदिशन्ति समग्रधीकाः ।

भृग्वंगिरःप्रभृतयः विदितान्तरायाः

तस्मै नमः कमलजाय चतुर्मुखाय ।

अथ अशॆषजगदनुग्रहाय आचार्यार्यभटमुखारविन्दविनिस्सृत-दशगीतिका-सूत्रव्याख्यानम् आरभ्यतॆ । तस्य ऎव अशॆषविघ्ननिराकरणाय सर्वविद्याप्रभवस्य भगवतः कमलयॊनॆः प्रणामप्रक्रान्तशास्त्रवस्तुपरिग्रहाय आर्याम् आदौ प्रयुक्तवान् 

प्रणिपत्य ऎकम् अनॆकम् कम् सत्याम् दॆवताम् परम् ब्रह्म ।

आर्यभटः त्रीणि गदति गणितम् कालक्रियाम् गॊलम् ॥ १ ॥

अस्याः पदविभागः:  प्रणिपत्य, ऎकम्, अनॆकम्, कम्, सत्याम्, दॆवताम्, परम्, ब्रह्म, आर्यभटः, त्रीणि, गदति, गणितम्, कालक्रियाम्, गॊलम् ।

अत्र प्रणिपत्य इति "प्र"-शब्दः प्रकर्षवाची, प्रकर्षॆण निपत्य प्रणिपत्य, प्रणामम् कृत्वा इति अर्थः । क्त्वाप्रत्ययॆन पूर्वकालक्रिया अभिधीयतॆ, यथा स्नात्वा भुंक्तॆ इति । स्नानक्रिया अनन्तरम् भॊजनक्रिया । ऎवम् अत्र अपि प्रणिपतनानन्तरम् गणितम्, कालक्रियाम्, गॊलम् च गदति । ऎकम्, अभॆदरूपॆण व्यवस्थितम्, निर्विकारम् । अनॆकम्, न ऎकम् अनॆकम्, भॆदरूपॆण व्यवस्थितम् । कम्, कः इति प्रजापतॆः आख्यानम् । कम् प्रणिपत्य ऎवंगुणविशिष्टम्।

अथ यदि असौ प्रजापतिः ऎकः कथम् असौ अनॆकः? यदि असौ अनॆकः कथम् ऎकः? ऎकानॆकयॊः परस्परविरुद्धयॊः युगपत् ऎकत्र अवस्थानम् न सम्भवति, यथा अत्यन्तविरुद्धयॊः च्छाया आतपयॊः उष्णशीतयॊः वा इति । अत्र उच्यतॆ  यथा वृक्षः ऎकवस्तुरूपॆण [तिष्ठति], असौ ऎव यदा मूल-स्कन्ध-शाखा-प्ररॊहादिप्रपञ्चॆन विकल्प्यतॆ तदा अनॆकः । ऎवम् असौ अपि परमात्मा निर्विकारः निरञ्जनः ऎकः ऎव, असौ ऎव [यदा] अनॆकप्राणिशरीरॆ व्यवस्थितः

विकल्प्यतॆ [तदा] अनॆकः । आह च 

ऎकः ऎव हि भूतात्मा भूतॆ भूतॆ व्यवस्थितः ।

      ऎकधा बहुधा च ऎव दृश्यतॆ जलचन्द्रवत् ॥[अमृतबिन्दूपनिषत्, श्लॊ १२]

इति । अथवा असौ ऎकः ऎव आसीत्, ततः स्वयम् अर्धॆन पुरुषः अभवत् अर्धॆन नारी इति । ततः सर्वान् प्राणिनः असृजत् इति । अथवा असौ भगवान् प्रजापतिः विश्वरूपः । तस्मात् तस्य विश्वरूपत्वात् ऎकानॆकत्वम् ऎकस्मिन् युगपत् सम्भवति इति अयम् अदॊषः ।

सत्याम् दॆवताम् । दॆवः ऎव दॆवता, सत्या च दॆवता च । स ऎव कः सत्यत्वॆन दॆवतात्वॆन च विशिष्यतॆ । कम् सत्याम् दॆवताम् प्रणिपत्य । न कॆवलम् सत्यत्वॆन दॆवतात्वॆन च विशॆषितः । कॆन च तर्हि इति आह  परम् ब्रह्म । परम् च तत् ब्रह्म परम् ब्रह्म । परम् श्रूयतॆ पुलस्त्य-पुलह-क्रत्वादिकम् । ऎवम् असौ भगवान् कः, सत्या दॆवता, परम् ब्रह्म च । कम्, सत्याम् दॆवताम्, परम् ब्रह्म च प्रणिपत्य ।

अथ कथम् कः शब्दः पुल्लिंगः, सत्या दॆवता स्त्रीलिंगः, परम् ब्रह्म नपुंसकलिंगः? तैः भिन्नलिंगैः ऎकम् वस्तु अभिधीयतॆ । ननु च अत्र सर्वैः ऎव शब्दैः ऎकलिंगैः भवितव्यम्? न इति आह । ऎतॆ शब्दाः आविष्टलिंगाः । तैः आविष्टलिंगैः शब्दैः ऎकम् ऎव वस्तु अभिभीयतॆ । यथा  "कारणम् इयम् ब्राह्मणी, भूतम् इयम् ब्राह्मणी, आवपनम् इयम् उष्ट्रिका" इति [अष्टाध्यायी अ ४, पादः १, सूत्रम् ३, पातञ्जलमहाभाष्यम्, आक्षॆपवार्तिकः ५११७]

अथवा ब्रह्मणॊः द्वयॊः अप्य् आचार्यॆण प्रणिपातः कृतः, शब्दब्रह्मणः परब्रह्मणः च । तयॊः उपवर्णना इयम् क्रियतॆ  प्रणिपत्य इति । निगदव्याख्यानम् ऎवम्  ऎकम्, परिज्ञानतः तु तत्त्वस्य अभॆदरूपत्वात्, यस्मात् सर्वॆषु ऎव ज्ञॆयॆषु परिज्ञानमात्रसामान्यम् ऎकम्; अनॆकम् ऋग्यजुःसामाथर्वॆतिहासपुराणशिक्षाकल्पव्याकरणनिरुक्तछन्दॊविचितिज्यॊतिषम् इति आदिशब्दरूपॆण व्यवस्थितत्वात् अनॆकम् । कः इति शब्दब्रह्मणः आख्यानम् । कम् ऎकम् अनॆकम् प्रणिपत्य । सत्याम् दॆवताम् इति ऎतत् द्वयॊः ब्रह्मणॊः शॆषः, सत्या दॆवता शब्दब्रह्म । उक्तम् च 

ज्ञानान्तरभावि यत् च हि फलम् ज्ञात्वा क्रिया अतः च यत्

सर्वस्य अव्यभिचारिकारणम् इति ज्ञानस्थितौ निश्चयः ।

ज्ञॆयम् च अपरिमाणम् अल्पविषयश्रौतादिशास्त्रम् पुनर्

दिव्यम् चक्षुः अतीन्द्रियॆ अपि विषयॆ व्याहन्यतॆ न क्वचित् ॥

परम् ब्रह्म । "परम्"-शब्दः प्रकर्षवाची । प्रकृष्टम् ब्रह्म परम् ब्रह्म, यत् सर्वैः अपि मुक्तिवादिभिः प्रार्थ्यतॆ, मॊक्षदः परमात्मा इति अर्थः । ऎवम् च द्वयॊः ब्रह्मणॊः प्रणामः कृतः । अन्यत्र अपि "ब्रह्म"-शब्दॆन शब्दब्रह्म-परब्रह्मणॊः ऎव ग्रहणम् । तद् यथा  

द्वॆ ब्रह्मणी वॆदितव्यॆ शब्दब्रह्म परम् च यत् ।

शब्दब्रह्मणि निष्णातः परम् ब्रह्म अधिगच्छति ॥

[अमृतबिन्दूपनिषद्, श्लॊ ७; वायुपुराणम्, अंशः ६, अ ५, श्लॊ ६४] इति ।

अथवा, प्रणिपत्य कम् हिरण्यगर्भम्, ऎकानॆकस्वरूपम्, सर्वप्राणिनाम् महत् नाम । तत्र विशॆषः ऎकम्, तस्य तस्य यतः अधिष्ठातृदॆवता हिरण्यगर्भः ऎकः ऎव । यदा कारणानाम् अधिष्ठातृदॆवताविशॆषभॆदॆन विवक्ष्यतॆ तदा अनॆकम् । तत् यथा  त्रयॊदश कारणानि, त्वचः वायुः, चक्षुषः सूर्यः, श्रॊत्रस्याः आकाशः, रसनस्याः आपः, घ्राणस्य पृथिवी, ऎवम् पञ्चानाम् बुद्धीन्द्रियाणाम् अधिष्ठात्र्यः दॆवताः, वाचः अग्निः, पाणॆः इन्द्रः, पादस्य विष्णुः, पायुनः मित्रः, उपस्थस्य प्रजापतिः, ऎवम् कर्मॆन्द्रियाधिष्ठात्र्यः दॆवताः, मनसः चन्द्रः, बुद्धॆः सविता, अहंकारस्य रुद्रः इति । सत्याम् दॆवताम् अन्तर्यामिनः ईश्वरस्य भगवतः परमात्मनः कारणशक्त्या अधिष्ठिताः सर्वॆ ऎव पदार्थाः स्वार्थॆ प्रवर्तन्तॆ । अतः ताम् परमात्मनः कारणशक्तिम् सत्याम् दॆवताम् । अतः ऎव स्त्रीलिंगॆन निर्दॆशः कृतः । परम् ब्रह्म यत् तत् अधिकारी ब्रह्म परमात्मा तम् । ऎवम् ब्रह्मत्रयम् प्रणिपत्य । यदि ऎवम्, चकारः तर्हि कर्तव्यम् । न कर्तव्यम् । अन्तरॆण अपि चकारम् च अर्थः गम्यतॆ ऎव । तत् यथा 

बालॆ वृद्धॆ क्षतॆ क्षीणॆ क्षीरम् युक्त्या प्रयॊजयॆत् । इति । बालॆ च वृद्धॆ च क्षतॆ च क्षीणॆ च इति गम्यतॆ । ऎवम् अत्र अपि च अर्थः, कम् च सत्याम् दॆवताम् च परम् ब्रह्म च इति ।

आर्यभटः आचार्यस्य समाख्यानः । त्रीणि गदति । त्रीणि वस्तूनि गदति इति । ननु अत्र ऎवम् युक्तम् वक्तुम्  "आर्यभटः अहम् त्रीणि गदामि" इति, अन्यथा अन्यस्य कस्यचित् ऎतत् वाक्यम् आभाति । यथा किंचित् कश्चित् पृच्छति  "राजकुलॆ कॆन किम् उक्तम् इति आह  ऎवम् उक्तॆ राजनि ऎवम् दॆवदत्तॊ ब्रवीति । यज्ञदत्तः अपि ऎवम् ऎव निगदति" इति । तस्मात् तत्र अपि आर्यभटः त्रीणि गदति इति, न तत् आचार्यस्य वचनम् इति । अत्र उच्यतॆ । अयम् आचार्यः महानुभावः स्वयम् ऎव ब्रुवन् परत्वम् आपाद्य कथयति, यथा आह कौटिल्यः 

सुखग्रहणविज्ञॆयम् तत्त्वार्थपदनिश्चितम् ।

कौटिल्यॆन कृतम् शास्त्रम् विमुच्य ग्रन्थविस्तरम् ॥

[अर्थशास्त्रम्, १.१.१९]

इति । अथवा यः तॆजस्वी पुरुषः समरॆषु निकृष्टासितॆजॊवितानच्छुरितबाहुः शत्रुसंघातम् प्रकाशम् प्रविश्य प्रहरन् ऎवम् आह  "अयम् असौ उदितः अदितिकुलप्रसूतः समरॆषु अनिवारितवीर्यः यज्ञदत्तः प्रहरति । यदि कस्यचित् शक्तिः प्रतिप्रहरतु" इति । ऎवम् असौ अपि आचार्यः गणितकालक्रियागॊलातिशयज्ञानॊदधिपारगः वित्सभाम् अवगाह्य "आर्यभटः त्रीणि गदति गणितम् कालक्रियाम् गॊलम्" इति उक्तवान् ।

गणितम् कालक्रियाम् गॊलम् । गणितम्, क्षॆत्रच्छायाश्रॆढीसमकरणकुट्टाकारादिकम् । कालः, प्राणविनाडीनाड्यहॊरात्रपक्षमाससंवत्सरयुगादिकम् । तत्परिज्ञानार्थम् क्रिया कालक्रिया । अन्यॆ पुनः क्रिया अव्यतिरिक्तम् कालम् ऎतॆन अभ्युपगच्छन्ति । तॆषाम् अयम् विग्रहः  कालः च असौ क्रिया च कालक्रिया । ऎवम् ऎतौ द्वौ पक्षौ  कॆचित् कालम् क्रियाव्यतिरिक्तम् मन्यन्तॆ, अन्यॆ क्रिया ऎव कालः इति । उभयथाः अस्माकम् अदॊषः इति, यॆन अस्मदीयॆ सिद्धान्तॆ

सूर्यॊदयात् प्रभृति यावत् अपरः सूर्यॊदयः तावत् अहॊरात्रम्, यः च सूर्याचन्द्रमसॊः परः विप्रकर्षः सः अर्धमासः, यः च तयॊः परः सन्निकर्षः स मासः; ऎवम् द्वादशमासाः संवत्सरः इति अयम् कालः, क्रियाव्यतिरिक्तः वा अस्तु क्रिया वा इति । गॊलम्, ग्रहभ्रमणधरित्रीसंस्थानदर्शनॊपायम् । गदति इति कर्तृवाचकः शब्दः, वाक्यत्वात् । गणितकालक्रियागॊलानाम् द्वितीयैकवचनॆ निर्दॆशः गणितम् कालक्रियाम् गॊलम् इति गणितशब्दः नपुंसकलिंगम्, कालक्रिया स्त्रीलिंगम्, गॊलः पुल्लिंगम् । ऎतॆषाम् सामान्यॊपक्रमॆण नपुंसकलिंगॆन ऎव आचार्यॆण अभिधानम् [कृतम्] "त्रीणि गदति" इति ।

अत्र अयम् गणितशब्दः अशॆषगणिताभिधायी, तस्मात् अशॆषगणिताभिधायित्वात् यथा क्षॆत्रगणितम् ब्रवीति, ऎवम् ग्रहगणितम् अपि; ग्रहगणितस्य च क्षॆत्राद्यव्यतिरिक्तत्वात् कालक्रियागॊलयॊः च गणिताव्यतिरिक्तत्वात् गणितम् निगदति इति ऎतावत् ऎव सिद्धॆ कालक्रियागॊलग्रहणम् कुर्वन् आचार्यः ज्ञापयति  क्षॆत्रच्छायाश्रॆढीसमकरणकुट्टाकारादिकम् सामान्यगणितम् किंचित् वक्ष्यॆ, विशॆषगणितॆ पुनः कालक्रियया गॊलॆन तात्पर्यम् इति । अन्यथा अशॆषगणिताभिधायिगणितशब्दॆन ऎव सिद्धत्वात् कालक्रियागॊलयॊः पृथग्ग्रहणम् अनावश्यकम् स्यात् । तथा च, आचार्यॆण गणितपादॆ गणितवस्तु दिंमात्रम् ऎव अभिहितम्, कालक्रियागॊलयॊः कालक्रियागॊल [वस्तु] विशॆषॆण । अवश्यम् अयम् अर्थः अभ्युपगन्तव्यः  किंचित् गणितम् इति  अन्यथा हि महत् गणितवस्तु, अष्टौ व्यवहाराः मिश्रक-श्रॆढी-क्षॆत्र-खात-चिति-क्राकचिक-राशि-च्छायाभिधायिनः । मिश्रकः इति सकलगणितवस्तुसंमिश्रकः संस्पर्शकः इति अर्थः । श्रॆढी इति आद्युत्तरप्रचितः इति अर्थः । क्षॆत्रम् इति अनॆकाश्रिक्षॆत्रफलानि आनयति इति अर्थः । खातः इति खन्यप्रमाणम् निर्दिशति इति अर्थः । चितिः इति इष्टकाप्रमाणॆन उपरिनिचितवस्तुप्रमाणम् आवॆदयति इति अर्थः । क्राकचिकम् इति, क्रकचः नम दारुच्छॆदकम्, तस्मिन् क्रकचॆ भवः क्राकचिकः, तद्वस्तुप्रमाणम् अवगमयति इति अर्थः । राशिः इति धान्यादिरूपवस्तुनिचितम् तद्वस्तुप्रमाणम् जनयति इति अर्थः । छाया इति शंक्वादिच्छायाप्रमाणॆन कालम् कथयति इति अर्थः । इति व्यवहारगणितस्य अष्टाभिधायिनः चत्वारि बीजानि प्रथमद्वितीयतृतीयचतुर्थानि यावत् तावत् वर्गावर्गघनाघनविषमाणि । ऎतत् ऎकैकस्य ग्रन्थलक्षणलक्ष्यम् मस्करि-पूरण-मुद्गल-प्रभृतिभिः आचार्यैः निबद्धम् कृतम्, स कथम् अनॆन आचार्यॆण अल्पॆन ग्रन्थॆन शक्यतॆ वक्तुम् । तत् सुष्ठु उक्तम् अस्माभिः किंचित् गणितम् विशॆषतः कालगॊलौ इति । 

ऎवम् इयम् आर्या व्याख्याता ॥ १॥ 

2. संख्याविन्यासॆ परिभाषा 

युगभगणादिसंख्यासंक्षॆपम् विवक्षुः आचार्यः [परि]भाषासूत्रप्रदर्शनाय गीतिकासूत्रम् आह 

वर्गाक्षराणि वर्गॆ अवर्गॆ अवर्गाक्षराणि कात्ङ्मौ यः ।

खद्विनवकॆ स्वराः नव वर्गॆ अवर्गॆ नवान्ति अवर्गॆ वा ॥ २ ॥

अस्य गीतिसूत्रस्य पदानि  वर्गाक्षराणि, वर्गॆ, अवर्गॆ, अवर्गाक्षराणि, कात्, ङ्मौ, यः, खद्विनवकॆ, स्वराः, नव, वर्गॆ, अवर्गॆ, नव, अत्यन्तवर्गॆ, वा ।

वर्गाक्षराणि, वर्गाक्षराणि ककारादीनि मकारपर्यन्तानि । "तॆ वर्गाः पञ्च पञ्च" इति [कातन्त्रम्, १.१.१० ] । वर्गाक्षरॊच्चारणक्रमॆण या संख्या अभिधीयतॆ सा संख्या वर्गशब्दॆन उच्यतॆ, अभॆदॊपचारात् । अतः वर्गाक्षरसंख्या इति अर्थः । सा वर्गॆ, वर्गॆ इति गणितशास्त्रॆ विषमस्थानस्याः आख्या, तस्मिन् विषमस्थानॆ वर्गाक्षरसंख्या उपचीयतॆ । अवर्गॆ, न वर्गः अवर्गः समस्थानः, तस्मिन् अवर्गसंज्ञितॆ समस्थानॆ । अवर्गाक्षराणि, तानि यकारादीनि हकारपर्यवसानानि । कुतः ऎतत्? "नञ् इव युक्तम् अन्यसदृशाधिकरणॆ तथा ह्य् अर्थगतिः" [अष्टाध्यायी, ३.१.१२, पातञ्जलभाष्यम्] इति । वर्गाक्षराणि ककारादीनि ।

यादीनाम् [तु] यथा अब्राह्मणम् आनय इति उक्तॆ ब्राह्मणाकृतितुल्यम् ऎव क्षत्रियम् आनयति नान्त्यजादि, ऎवम् अत्र अपि कॆवलम् व्यञ्जनानाम् ऎव ग्रहणम् । तॆषाम् यकारादीनाम् अवर्गाक्षराणाम् या संख्या सा अवर्गस्थानॆ उपचीयतॆ । सा [वर्गाक्षराणाम् संख्या] वर्गस्थानॆ उपचीयमाना अवर्गस्थानम् अपि यदा प्राप्नॊति, तदा प्राप्नुवाना या तॆषाम् स्ववर्गाक्षराणाम् उपचितिः सा वर्गस्थानः ऎव, तस्याः अन्त्यॊपचितित्वात् । वर्गाक्षरसंख्यायाः वर्गस्थानॆ उपचीयमानात् अवकाशः न अस्ति चॆत् संख्यायाः सर्गः न विद्यतॆ इति वर्गावर्गयॊः स्थानयॊः स्थाप्यतॆ । अथवा, या दशादिका संख्या सा द्विस्थानावगाहिनी, तस्याः द्विस्थानावगाहनशीलत्वात् द्वयॊः अपि स्थानयॊः स्थाप्यतॆ । अन्यथा दशादिसंख्यायाः अभावः ऎव स्यात् । तद् ऎकादिनवान्तसंख्यया ऎव व्यवहारः स्यात् ।

अथवा "ङ्मौ" इति अत्र मकारग्रहणम् कुर्वन् आचार्यः ज्ञापयति  या दशॊत्तरवर्गाक्षरसंख्या सा वर्गॆ वा अवर्गॆ च भवति । अन्यथा "गॊ यः" इति ऎवम् ब्रूयात् । ऎवम् अवर्गाक्षरसंख्या अपि वर्गशानॆ यॊज्या । वर्गाक्षराणाम् संख्या वर्गस्थानॆ ककाराद् उपचीयतॆ । ऎतत् उक्तम् भवति  यानि वर्गाक्षराणि श्रूयतॆ तानि ककारात् प्रभृति पठितानि भवन्ति इति । अन्यथा हि "स्वम् रूपम् शब्दस्य अशब्दसंज्ञा" [अष्टाध्यायी, १.२.६८] इति । यत् यत् अक्षरम् उच्चारितम् तत् तस्य ऎव रूपस्य प्रतिपादकम् स्यात्, न कादिसंख्यायाः । अतः उक्तम् "कात्" इति ।

ङ्मौ, ङः च मः च ङ्मौ । अनच्कौ ऎव ङकारमकारौ, तयॊः द्वि[वच]ननिर्दॆशः ङ्मौ । ङकारमकारयॊः या संख्या सा ऎकत्र संवृत्ता यकारसंख्या भवति । ङकारः पञ्च, मकारः पञ्चविंशतिः, ऎतॆ संख्यॆ ऎकत्र त्रिंशत्, तॆन त्रिंशत्संख्यॊ यकारः । रॆफादीनाम् अवर्गाक्षरत्वात् यकारसंख्या ऎव कॆवलम् प्राप्नॊति, अनिर्दॆशात् अन्यत्संख्यायाः । न रॆफादीनाम् यकारसंख्या । कुतः? यदि रॆफादीनाम् अपि यकारसंख्या ऎव स्यात् तदा यकारम् ऎव सर्वत्र ब्रूयात्, न रॆफादीनि । "नवराषहः गत्वांशकान् प्रथमपाताः" इति अत्र [रा]षहॆषु ऎकम् ऎव अवर्गाक्षरम् ब्रूयात् । तस्मात् न रॆफादीनाम् यकारसंख्या । का तर्हि? कॆचित् आहुः  ऎकैकवृद्ध्या रॆफादीनाम् संख्या, यकारत्रिंशत्, रकारः ऎकत्रिंशत्, लकारः द्वात्रिंशत् इति आदि । ऎतत् न । कुतः? ऎकत्रिंशदादिसंख्यायाः अन्यॆन ऎव प्रकारॆण सिद्धत्वात् । यकारः त्रिंशत्, स ऎव यदा यकारः ककारसंयुक्तः तदा हि ऎकत्रिंशत्, खकारादिभिः द्वात्रिंशत्,

त्रयः त्रिंशत् आदिः इति संख्या ।

अन्यॆ आहुः  रॆफादयः दशॊत्तरवृद्ध्या वर्धन्तॆ इति, रॆफः चत्वारिंशत्, लकारः पञ्चाशत् । ऎवम् अवर्गाक्षराभावात् न शक्यतॆ प्रतिपत्तुम् । यथा कात् इति आचार्यॆण अभिहितत्वात् ऎकाद्यॆकॊत्तरिता संख्या वर्गाक्षराणाम् प्रतिपद्यतॆ, ऎवम् अवर्गाक्षराणाम् अपि यात् इति यदा उच्यतॆ तदा दशॊत्तरिता संख्या प्रतिपत्तुम् शक्यतॆ । अन्यथा "यात्" इति अपि उच्यमानॆ कथम् दशॊत्तरिता संख्या, ननु च ऎकॊत्तरिता स्यात् । न इति आह  यस्मात् कात् इति [वर्गाक्षराणि] वर्गस्थानॆ उपचीयन्तॆ तस्मात् तॆषाम् ऎकॊत्तरिता संख्या, यानि पुनर् अवर्गाक्षराणि यादीनि ऎकॊत्तरॊपचयानि अवर्गस्थानॆ तस्मात् दशॊत्तरिता ऎव वृद्धिः भवति, अवर्गस्थानस्य दशकसंख्याधारत्वात् । ऎवम् तर्हि याद्ग्रहणम् कर्तव्यम् । न कर्तव्यम् । कथम्? अक्रियमाणॆ अयम् अर्थः अवगम्यतॆ । अकृतम् ऎव यदि कृतम् ऎव, किम् इति न पठ्यतॆ? पठ्यतॆ ऎव "ङ्मौ यः" । अत्र अयम् यकारः अनच्कः ङ्मौ यः, अपरः यकारः अपि अनच्कः ऎवम् पञ्चमीविभक्त्यन्तः ङ्मौ यः । अत्र ऎकः यकारः लुप्तनिर्दिष्टः प्रतिपत्तव्यः । यथा "क्ङिति च" [अष्टाध्यायी, १.१.५] इति अत्र लुप्तनिर्दिष्टः गकारः, किति गिति ङिति इति, ऎवम् अत्र अपि । अथवा द्वियकारॊच्चारणॆ अपि विशॆषः न अस्ति ऎव । ऎवम् याद् इति अस्य अयम् अर्थः सिद्धः । यदि ऎकॊत्तराणि अवर्गशानस्थितत्वात् दशॊत्तराणि ऎव भवन्ति तदा किम् इति आचार्यॆण "ङ्मौ यः" इति महाप्रयासः कृतः । कथम् तर्हि वक्तव्यः? "गः यः" इति गकारः त्रिसंख्यः, अवर्गस्थानस्थितत्वात् ऎव अयम् त्रिंशत्कः भविष्यति । न, ङकारमकारसंख्यावत् ऎव शॆषाणि अपि रॆफादीनि चत्वारिंशदादिसंखानि भवन्ति इति अवर्गस्थानाश्रयात् ऎव सिद्धॆ सति ंमकारग्रहणम् कुर्वन् आचार्यः ज्ञापयति इति उक्तम्  यावन्ति वर्गस्थानानि तॆषु सर्वॆषु ऎव सा संख्या युगपत् प्राप्ता, अवर्गाक्षराणाम् च या संख्या यावन्ति अवर्गस्थानानि तॆषु सर्वॆषु ऎव । अतः तत्संख्यानिरूपणार्थम् आह  खद्विनवकॆ स्वराः नव वर्गॆ अवर्गॆ । खानि शन्यानि, खानम् द्विनवकम् खद्विनवकम्, तस्मिन् खद्विनवकॆ, अष्टादशसु शून्यॊपलक्षितॆषु [स्थानॆषु] । स्वराः नव वर्गॆ अवर्गॆ । वर्गॆ वर्गस्थानॆ नव स्वराः । अष्टादशसु च स्थानॆषु नव वर्गस्थानानि, तत्र नवसु वर्गस्थानॆषु नव स्वराः । कॆ पुनर् तॆ नव स्वराः ग्राह्याः? यदि ह्रस्वाः ऎव कॆवलम् परिगृह्यन्तॆ तदा न पूर्यन्तॆ । अथ दीर्घाः ऎव कॆवलम् परिगृह्यन्तॆ तदा अपि अष्टौ स्वराः भवन्ति, ननु लृवर्णस्य दीर्घाभावात् । अथ ह्रस्वाः दीर्घः च परिगृह्यन्तॆ तदा अतिरिच्यन्तॆ, अनिष्टम् प्राप्नॊति । "झा ग्ड ग्ला र्ध द्ड" [गीतिका, १०] इति अत्र आकारस्य द्वितीयॆ च प्रतिपादितत्वात् द्वितीयवर्गस्थानॆ झकारसंख्या स्थाप्यमाना नवशतानि स्युः, न नव । अभीष्यतॆ च नवसंख्या, नवसंख्याकः झकारः । तत्र ह्रस्वः ऎव झकारः पठ्यतॆ इति चॆत् "नृषि यॊजनम् ञिला भूव्यासः" [गीतिका, ६] इति अत्र लकारॆ पञ्चसहस्राणि स्युः, न पञ्चाशत् । तत्र च अवश्यम् दीर्घः लकारः पठितव्यः, अन्यथा गीतिः ऎव भिद्यॆत । अतः न कॆवलम् ह्रस्वाः न कॆवलम् दीर्घाः, न अपि ह्रस्वदीर्घाः, न स्वराः मातृकापठितात् परिगृह्यन्तॆ । कस्मात् तर्हि स्वराः परिगृहीतव्याः? उच्यतॆ  यत्र नव ऎव कॆवलाः स्वराः पठ्यन्तॆ, तस्मात् परिगृहीतव्याः । कस्मिन् नव ऎव कॆवलाः पठ्यन्तॆ? आह  पाणिनीयॆ व्याकरणॆ प्रत्याहारॆ अ इ उ ऋ ल् ऎ ऒ ऐ औ इति ऎतॆ नव स्वराः । तत्र प्रथमॆ वर्गस्थानॆ अकारः, द्वितीयॆ इकारः, तृतीयॆ उकारः, इति आदि । ऎवम् स्वरॊपलक्षितॆषु वर्गस्थानॆषु वर्गाक्षरसंख्या । अवर्गाक्षरसंख्या च स्वरॊपलक्षितवर्गस्थानॊत्तरॆ अवर्गस्थानॆ ।

अथवा वर्गॆ अवर्गॆ इति अयम् वीप्सा, वर्गॆ अवर्गॆ च, वर्गस्थानॆ अवर्गस्थानॆ च तॆ ऎव नव स्वराः । तद् यथा  अकारः प्रथमॆ वर्गस्थानॆ तदनन्तरावर्गस्थानॆ च । तद् यदि वर्गाक्षरसंयुक्तः अकारः प्रथमवर्गस्थानॆ "भृगुबुध" इति आदिषु, स ऎव यदा अवर्गाक्षरसंयुक्तः तदा तत्प्रथमवर्गस्थानानन्तरावर्गस्थानॆ "नवराषह" इति आदिषु । ऎवम् इकारादिषु अपि स्वॆषु वर्गावर्गस्थानॆषु यॊज्यम् । अथ दीर्घॆषु अकारादिषु कथम् करणीयम्?

उच्यतॆ  यथा तॆ व्याकरणॆ अकारादयः स्वराः अष्टादशप्रभॆदाः, द्वादश भॆदाः च लृवर्णसन्धिस्वराः परिगृह्यन्तॆ, ऎवम् अत्र अपि । तॆन "ञिला भूव्यास" इति आदिषु आकारः प्रथमः ऎव वर्गस्थानॆषु । अष्टादशस्थानॆषु यानि वर्गस्थानानि अवर्गस्थानानि च तॆषु वर्गाक्षरावर्गाक्षरसंख्या निरूपिता ।

यदा पुनर् अष्टादशव्यतिरिक्तॆषु स्थानॆषु संख्या कस्यचित् विवक्षिता भवति तदा कथम् करणीयम् इति? अत्र आह  नवान्त्यवर्गॆ वा । नवानाम् अन्तः नवान्तः । नवान्तॆ भवम् नवान्त्यम् । नवान्त्यः च असौ वर्गः च नवान्त्यवर्गः । तस्मिन् नवान्त्यवर्गॆ वा स्वराः भवन्ति, विकल्पिताः स्वराः भवन्ति । विकल्पः च कस्मिंशित् कथम् उपलक्ष्यतॆ? यथा "पुत्रच्छॆद्यविकल्पा अपत्यच्छॆद्यप्रकाराः", ऎवम् अत्र अपि कॆनचित् प्रकारॆण विकल्पिताः नवात्यवर्गॆ दशमॆ वर्गस्थानॆ स्वराः भवन्ति । यदि प्रथमॆ वर्गस्थानॆ अकारः शुद्धः विकल्पितः स ऎव तस्मात् वर्गस्थानात् दशमॆ वर्गस्थानॆ अनुस्वारादिना विकल्प्यतॆ, ऎवम् इकारादयः स्वस्मात् वर्गस्थानात् दशमॆ वर्गस्थानॆ, पुनर् अपि च यावत् अभीष्टम् भवति तावत् तॆन अपि अनुबन्धॆन स्वरान् विकल्प्य संख्यॊपदॆष्टव्या । ऎतत् परिभाषाबीजम् आचार्यॆण संख्याविवक्षूणाम् अनुग्रहाय उपदिष्टम् । स्वशास्त्रव्यवहारः तु लृवर्णवर्गस्थानात् न अतिरिच्यतॆ ।

वर्गाक्षराणाम् अवर्गाक्षराणाम् च [या] संख्या सा अक्षराभिहितत्वात् यावन्ति वक्ष्यमाणानि गीतिकासूत्रॆषु अक्षराणि तॆषाम् सर्वॆषाम् ऎव प्राप्नॊति तत् च अनिष्टम् प्रसज्यॆत, तॆन अत्र अर्थवन्ति यानि अक्षराणि तॆषाम् संख्या न भवॆत् इति ऎतत् वक्तव्यम् । यथा  "युगरविभगणाः ख्युघृ" [गीतिका , ३] इति अत्र ख्युघृ-शब्दस्य संख्या इष्यतॆ न युगरविभगणशब्दस्य । यदि प्रतिषॆधः न उचतॆ तदा ख्युघृ-शब्दस्य यथा संख्या ऎवम् युगरविभगणशब्दस्य अपि प्राप्नॊति । स तर्हि प्रतिषॆधः अवश्यम् वक्तव्यः । न वक्तव्यः । यदि सर्वॆषाम् ऎव अक्षराणाम् गीतिकासूत्रप्रतिबद्धानाम् संख्या स्यात् तदा सर्वम् ऎव ऎतत् शास्त्रम् अनर्थकम् स्यात् ।


3. ज्यॊतिषशास्त्रप्रादुर्भावॆ व्याख्याकारमतम् 

अथ कथम् अस्य अतीन्द्रियाणाम् स्फुटग्रहगत्यर्थानाम् प्रादुर्भावः? ब्रह्मणः प्रसादॆन इति । ऎवम् अनुश्रूयतॆ  अनॆन आचार्यॆण महद्भिः तपॊभिः ब्रह्मा आराधितः । अतः अस्य तत्प्रसादॆन स्फुटग्रहगत्यर्थानाम् प्रादुर्भावः इति । आह च 

अतीन्द्रियार्थावगतॆः तपॊभिः परॊपकारक्षमकाव्यदृष्टॆः ।

यः अलंकृतॆः अव्ययम् अन्वयस्य पराशरस्य अनुकृतिम् चकार ॥

इति । ब्रह्मणः कुतः? ब्रह्मा स्वयंभूः ज्ञानराशिः । ततः सर्वासाम् विद्यानाम् प्रादुर्भावः । अतः अनॆन लॊकानुग्रहाय स्फुटग्रहगत्यर्थवाचकानि दश गीतिकासूत्राणि गणितकालक्रियागॊलार्थवाचकम् आर्याष्टशतम् च विनिबद्धम् । स्फुटग्रहगत्यर्थहॆतवः अर्थाः, तस्मात् सर्वदा ऎव नित्याः, तॆषाम् शब्दॆभ्यः अवगतिः इति शब्दबद्धाः, यथा सुवर्णिकारः सुवर्णम् आदाय कटककॆयूरकुण्डलाद्यलंकारम् निष्पाद्य निष्पन्नम् अपि अलंकारम् भंक्त्वा‌अन्यत्वम् आपादयति । अथ च सुवर्णस्य तापच्छॆदनिकषादिपरीक्षणॆन अन्यत्वम् मनाग् अपि न भवति इति अर्थानाम् अपि साधुशब्दालंकारनानावृत्तबन्धैः विरच्यमानानाम् अनन्यत्वम् इति । श्रुतौ अपि शतपथॆ बृहदारण्यकॆ पठ्यतॆ; तद् यथा  "पॆशस्कारी पॆशसः मात्राम् अपादयान्यन्नवतरम् कल्याणतरम् रूपम् तनुतॆ" [बृहदारण्यकॊपनिषत्, ४.४.४] इति । ऎवम् अयम् आगमार्थः ब्रह्मणः सकाशात् आचार्यॆण अधिगतः ।

अथ अन्यॆ मन्यन्तॆ  "ज्यॊतिषाम् उदयमध्यास्तमयप्राप्तीन् दृष्ट्वा प्रत्यक्षानुमानाभ्याम् परिच्छिद्य स्वधीविरचितम्" इति । ऎतत् च न । ज्यॊतींषि क्षितितलम् भित्वा पूर्वस्याम् दिशि उद्गतानि क्रमॆण अम्बरमध्यम् अतीत्य परस्याम् दिशि क्षितितलम् भित्वा ऎव प्रविशन्तः लक्ष्यन्तॆ । ऎतावति उदयास्तमयान्तरॆ वियत्युपलक्षणाभावात् ज्यॊतिषाम् गतिप्रमाणपरिच्छॆदः दुःसम्पाद्यः, गतॆः चॆयत्तापरिज्ञानाभावात् "ऎतावता कालॆन इयती गतिः ऎतावता कालॆन कियती" इति गणितकर्म न प्रवर्ततॆ । प्रमाणफलराश्यॊः अपरिज्ञानात् अप्रवत्तॆः च गणितकर्मणः ग्रहाणाम् युगभगणापरिज्ञानम्, युगभगणापरिज्ञानात् ग्रहगतिपरिज्ञानाभावः । यथा अत्र अश्वादीनाम् गतिः प्रत्यक्षॆण दॆशकालाभ्याम् सह उपपद्यतॆ इति अतः गणितकर्म प्रवर्ततॆ, अतीन्द्रियत्वात् ग्रहगतॆः वियत्युपलक्षणाभावात् न प्रत्यक्षॆण परिच्छिद्यतॆ, कथम् तर्हि आगमात् उपगतग्रहयुतिग्रहनक्षत्रयॊगग्रहणादयः प्रत्यक्षीक्रियन्तॆ?

अन्यत् च  ग्रहादीनि ज्यॊतींषि क्षितितलम् भित्त्वा ऎव पूर्वस्याम् दिशि उद्गतानि क्रमॆण अम्बरमध्यम् अतीत्य क्षितितलम् भित्वा ऎव अस्तम् गच्छन्तः लक्ष्यन्तॆ । ज्यॊतिश्चक्रस्य प्रवहाक्षॆपात् ज्यॊतिश्चक्रप्रतिबद्धाः ग्रहाः प्राङ्मुखाः स्वगत्या भ्रमन्तः अपि लघ्व्या ज्यॊतिश्चक्रगत्या अपराम् दिशम् आसादयन्तः लक्ष्यन्तॆ, कुलालचक्रारूढकीटवत् । तस्मात् अन्या ज्यॊतिश्चक्रगतिः, अन्या ग्रहगतिः प्राङ्मुखी । कुतः? यस्मात् ग्रहः अश्विन्याम् दृष्टः भरण्यादिषु परस्परम् प्राग्व्यवस्थितॆषु नक्षत्रॆषु उपलक्ष्यतॆ भचक्रॆ, न रॆवत्यादिषु परस्परापरस्थितॆषु । तस्मात् ज्यॊतिश्चक्रग्रहगत्यॊः भिन्नत्वात् उदयास्तमयदॆशान्तरप्राप्त्यनुमानम् उपपद्यतॆ । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्यॆण अधिगतः इति । ग्रहस्य नक्षत्राणाम् च नित्यसम्बन्धात् नक्षत्राणाम् निस्चलत्वात् ग्रहगत्यनुमानम् इति ऎतत् च न । बहूनि नक्षत्राणि तॆषु ग्रहस्य पारम्पर्यॆण भुक्तॆः अनॆकरूपत्वात् विक्षॆपापक्रमचक्रवशात् दक्षिणॊत्तरमछ्यासन्नदूरचारित्वात् ग्रहस्य ऎकस्मिन् ऎव नक्षत्रॆ गतिपर्ययॆण उदयास्तमयवक्रानुवक्रसम्भवात् ग्रहगतिवैचित्र्यम्, गणितॆन च ऎकरूपा गतिः अनुमीयतॆ । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्यॆण अधिगतः इति ।

अन्यत् च  दॆशान्तराक्षविशॆषात् ग्रहगतिवैचित्र्यम् । तत् यथा  लंकायाम् अक्षाभावात् सर्वदा ऎव तुल्यॆ रात्र्यहनी लंकासमीपवर्तिनाम् रॊहणसिंहलानाम् च; ततः उत्तरतः दिवसस्य वृद्धिः निशायाः हानिः, दक्षिणतः निशायाः वृद्धिः दिवसस्य हानिः इति । सूर्यग्रहणम् अपि अक्षदॆशान्तरवशात् क्वचित् खण्डम्, क्वचित् सकलम्, क्वचित् न ऎव । चन्द्रग्रहणम् च इह घटीव्यतीतायाम् रात्र्याम्, घटिकादॆशान्तरापरदॆशस्थिता ग्रहीतारः दिनान्तॆ कथयन्ति, पूर्वतः च याता दूरॊद्गतस्य चन्द्रमसः ग्रहणम् कथयन्ति । तस्मात् उदयमध्यास्तप्राप्तिनक्षत्रयॊगपर्ययादिभिः विचित्रा इयम् ग्रहगतिः दॆशान्तराक्षविशॆषैः च अतिविचित्रत्वम् आपद्यमाना न शक्यतॆ अनॆकरूपत्वात् गणितन्यायॆन आनॆतुम् । न च कश्चित् ऎवम् प्रकाराणाम् दॆशकालपर्ययॆण उपपद्यमानानाम् प्रतिजागरिता । यः च सर्वः चिरम् जीवति स वर्षशतम् जीवति । तस्य अपि युगपत् अनॆकदॆशान्तराक्षविशॆषत् नक्षत्रयॊगपर्ययादिभिः उत्पद्यमानग्रहगतयः युगपत् न प्रत्यक्षीभवन्ति । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्यॆण अधिगतः इति । वक्ष्यति च 

सदसज्ञानसमुद्रात् समुद्धृतम् ब्रह्मणः प्रसादॆन ।

   सज्ञानॊत्तमरत्नम् मया निमग्नम् स्वमतिनावा ॥ इति ।[गॊलपादः, ४९]


4. वॆदांगॆषु ज्यॊतिषशास्त्रप्राधान्यम् 

न कॆवलम् ज्यॊतिषाम् अयम् आगमः, वॆदांगम् च । "तस्मात् ब्राह्मणॆण निष्कारणम् षडंगः वॆदः अध्यॆयः" [पाताञ्जलमहाभाष्यम्,] षडंगॆषु प्रधानम् ज्यॊतिषाम् अयनम् । कुतः अस्य प्राधान्यम्? यस्मात् अनधीतशिक्षादयः अपि प्राग् गुरूपदॆशात् वॆदान् अधीयतॆ, न च तॆषाम् दुरधीतम् भवति । न अनधिगतज्यॊतिषाम् अयना वॆदॊक्तान् यज्ञकालान् जानतॆ । अथ शिक्षया वर्णानाम् स्थानकरणप्रयत्नानि निरूप्यन्तॆ 

अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरः तथा ।

  जिह्वामूलम् च दन्ताः च नासिकॊष्ठौ च तालु च ॥ [पाणिनीयशिक्षा, श्लॊ १३]

इति आदि । वर्णाः उच्चार्यमाणाः स्वैः स्वैः स्थानकरणप्रयत्नैः स्वभावतः ऎव आस्यात् निष्क्रामन्ति, न अन्यतः । "अकुहविसर्जनीयाः कण्ठ्याः, ऋटुरषाः मूर्धन्याः ।" अकुहविसर्जनीयाः उच्चार्यमाणा कण्ठप्रदॆशात् ऎव आस्यात् निष्क्रामन्ति न मूर्ध्नः, ऋटुरषाः उच्चार्यमाणाः मूर्ध्नः ऎव न अन्यस्मात् प्रदॆशान्तरात् इति । यस्मात् तॆषाम् स्थानकरणप्रयत्नाः स्वभावतः ऎव सिद्धाः तस्मात् तॆषाम् स्थानकरणप्रयत्नः निरर्थकः । तथा च अनधीतव्याकरणाः अपि ब्राह्मणाः वॆदान् अधीयतॆ । न च तॆषाम् दुरधीतम् भवति । न च अनधीतज्यॊतिषाम् अयना वॆदॊक्तान् यज्ञकालान् जानतॆ । व्याकरणॆन किल वॆदानाम् रक्षा क्रियतॆ । रक्षा अपि प्रजानाम् पार्थिवैः दुष्टनिग्रहॆण शिष्टानुग्रहॆण च क्रियतॆ । ऎवम् वॆदानाम् शब्दराशित्वात् असाधूनाम् उद्धारः निग्रहः, साधूनाम् शब्दानाम् सम्यक् कृतः अनुग्रहः इति । ऎतत् च न । नित्याः वॆदाः । तॆषु शब्दराशिप्रक्षॆपाणाम् [स्वतः सिद्धिः], दृष्टानुविधित्वात् छन्दसः । यः यः शब्दः वॆदॆषु पठ्यतॆ तस्य तस्य अप्रसिद्धलक्षणस्य अपि स्वयम् लक्षणम् साध्यम् प्रत्ययप्रकृतिलॊपागमवर्णविकारादिभिः । न च ज्यॊतिषाम् अयनस्य अपि । यॆ यॆ वॆदॆ यज्ञकालाः दृष्टाः तॆ सर्वॆ ऎव ज्यॊतिषाम् अयनॆ गणितलक्षणसिद्धाः ऎव ।

अन्यत् च  "दृष्टानुविधित्वात् छन्दसः" इति यदि वॆदॆषु दृष्टः ऎव अनुविधीयतॆ तदा नहि किञ्चित् प्रयॊजनम् व्याकरणॆन । अथ ऋग्यजुःसाम्नाम् सर्वॆषाम् ऎव प्रतिपदानिरुक्तॆः निरुक्तस्य आव्यापिता । अथ छन्दॊविचितैः ऋग्यजुःसाम्नाम् नित्यः ऎव छन्दः निबद्धः । न च तॆषाम् इदानीम् काव्यपदपूर्वः निबद्धः क्रियतॆ । न च अन्यूनाधिकलक्षणानाम् ऋग्यजुःसाम्नाम् इदानीम् अन्यथाकरणम् करणम् । ऎवम् च बाह्वृचॆ श्रुतौ श्रूयतॆ, न हि ऎकॆन अक्षरॆण द्वाभ्याम् वा ऊनानि छन्दांसि क्रियन्तॆ इति । न हि ऎवम् वॆदॊक्तानाम् यज्ञकालानाम् इति क्रमः श्रूयतॆ । न हि आधानादिषु संस्कारॆषु कालविशॆषाः ज्यॊतिषाम् अयनात् विना अवगम्यन्तॆ । तत् यथा संस्कारॆषु 

ऎवम् गच्छन् स्त्रियम् क्षामाम् मघाम् मूलम् च वर्जयॆत् ।

सुस्थः इन्दौ सुलक्षण्याम् विद्वांसम् पुत्रम् अश्नुयात् ॥

[याज्ञवल्क्यस्मृतिः, आचाराध्यायः, विवाहप्रकरणम्, श्लॊ ८०]

इति । तत्र मघामूलयॊः प्रतिपत्तिच्छॆदौ इन्दॊः च सुस्थदुःस्थताम् च नानधीतज्यॊतिषाम् अयना जानतॆ । "सा यदि गर्भम् न दधीत सिंह्या श्वॆतपुष्प्या उपॊष्य पुष्यॆण मूलम् उत्थाप्य" इति [पारस्करगृह्यसूत्रम्, का १, कण्डिका १३, सू १] तत्र पुष्यस्य प्रतिपत्तिच्छॆदौ नानधीतज्यॊतिषाम् अयना जानतॆ । तथा च पुंसवनॆ  "यत् अहः पुंसा नक्षत्रॆण चन्द्रमाः [युज्यॆत] तत् अहर् उपवास्य" इति [पारस्करगृह्यसूत्रम्, १. १४. ३] । तत्र पुंनक्षत्राणि पुनर् 

वसुपुष्यहस्तस्वातिश्रवणाः । ऎतॆषाम् निरुपहतानाम् अनुकूलहतानाम् च प्रतिपत्तिच्छॆदौ नानधीतज्यॊतिषाम् अयना जानतॆ ।

अन्यत् च 

नामधॆयम् दशम्याम् तत् द्वादश्याम् वा अस्य कारयॆत् ।

पुण्यॆ अहनि मुहूर्तॆ वा नक्षत्रॆ वा गुणान्वितॆ ॥ [मनुस्मृतिः, २.३०]

इति । अत्र पुण्यस्य अह्नः, नक्षत्रस्य गुणान्वितस्य, मुहूर्तस्य वा प्रतिपत्तिच्छॆदौ नानधीतज्यॊतिषाम् अयना जानतॆ ।

अन्यत् च  "उदगयनॆ आपूर्यमाणपक्षॆ पुण्याहॆ कुमार्याः पाणिम् गृह्णीयात्", "त्रिषु त्रिषु उत्तरादिषु", "स्वातौ मृगशिरसि रॊहिण्याम् च" [पारस्करगृह्यसूत्रम्, १.४.५-७] इति अत्र उदगयनादीनाम् उत्तरादीनाम् नक्षत्राणाम् वधूवरयॊः अनुकूलानाम् च प्रतिपत्तिच्छॆदौ नानधीतज्यॊतिषाम् अयना जानतॆ, ऎवमादि प्रतिशाखम् संस्काराणाम् पुण्याहनक्षत्रमुहूर्तचॊदना ज्यॊतिषाम् अयनांगविषयाः तद्विद्भ्यः ऎव अवगन्तव्याः, न गुरूपदॆशात् सम्प्रदायाविच्छॆदात्

वा अवगन्तव्याः । इति अध्यॆयम् ज्यॊतिषाम् अयनम् ।

अन्यत् च  छन्दसः उपाकर्मणि "अथ अतः अध्यायॊपाकर्म । ऒषधीनाम् प्रादुर्भावॆ श्रवणॆन श्रावण्याम् पौर्णमास्याम् श्रावणस्य पञ्चमी हस्तॆन वा" [पारस्करगृह्यसूत्रम्, २.१०.१-२] इति अत्र श्रावणपौर्णमासीम् श्रवणॆन युक्ताम्, श्रावणस्य पञ्चमीम् हस्तॆन युक्ताम् नानधीतज्यॊतिषाम् अयना जानतॆ । अन्यत् च  [छन्दसः उत्सर्गॆ] "पौषस्य रॊहिण्याम् मध्यमायाम् वाष्टकायाम् अध्यायान् उत्सृजॆरन्" [पारस्करगृह्यसूत्रम्, २.१२.१] इति ऎतत् च । अथ नक्षत्राधानॆषु "या असौ वैशाखस्य आमावास्या तस्याम् आदधीत सा रॊहिण्या सम्पद्यतॆ" [आपस्तम्बश्रौतसूत्रम्, ४.३.२०; बौधायनव्याख्या] इति अत्र प्राग् ऎव रॊहिण्या वैशाखस्य अमावास्यायाः परिज्ञानयॊग्यस्य आधानद्रव्यस्य अर्जनम् ऋत्विजाम् च वरणम् इति ऎतत् च ज्यॊतिषाम् अयनांगविषयम्, तद्विद्भ्यः ऎव अवगन्तव्यम्, न गुरूपदॆशात् सम्प्रदायाविच्छॆदात् वा अवगन्तव्यम् इति अध्यॆयम् ज्यॊतिषाम् अयनम् । तथा च "कृत्तिकासु अग्निम् आदधीत" [तैत्तिरीयब्राह्मणम्, १.१.२.१] ऎवमादि नक्षत्राधानचॊदनाः च "पश्विज्या संवत्सरॆ [संवत्सरॆ], प्रावृषि आवृत्तिमुखयॊः वा" [कात्यायनश्रौतसूत्रम्, पशुबंध, १-२] इति आवृत्तिमुखयॊः प्रतिपत्तिच्छॆदौ वॆदिनाम् अनधीतज्यॊतिषाम् अयना [न] जानतॆ । अन्यत् च  "दर्शपौर्णमासाभ्याम् यजॆत" [शतपथब्राह्मणम्, ११.२.५.१०] इति ऎवमादि चॊदनाः च [श्रौत]स्मार्तॆषु च कर्मसु "अपरपक्षॆ श्राद्धम् कुर्वीत ऊर्ध्वम् वा चतुर्य्याम्" [पारस्करगृह्यसूत्रपरिशिष्टकारभाष्यम्, श्राद्धसूत्रम्

१] ।

अपि नः स कुलॆ जायात् यः नः दद्यात् त्रयॊदशीम् ।

पायसम् मधुसंयुक्तम् वर्षासु च मघासु च ॥ इति । [मनुस्मृतिः, ३.२६४]

किम् बहुना, श्रौतस्मार्तविषयाणाम् तिथिनक्षत्रविषयाणाम् कर्मणाम् नित्यानाम् काम्यानाम् च न ज्यॊतिषाम् अयनात् विना समारम्भः, इति अध्यॆयम् ज्यॊतिषाम् अयनम् ।


5. लॊकव्यवहारॆ ज्यॊतिषशास्त्रॊपादॆयता 

लॊकः च तिथिनक्षत्रमुहूर्तविषयाणाम् [सम्बन्धॆन ऎव] शुभॆषु कार्यॆषु प्रवर्ततॆ । तथा च पुष्पफलपाणिः सर्वः ऎव दैवज्ञम् उपॆत्य पृच्छति  "कदा मॆ किम् भविष्यति? कदा अहम् कृष्यादिकर्मणि प्रवर्तॆ? कदा अहम् दैवज्ञकॆन उपतिष्ठॆ? कदा अहम् अध्वानम् प्रपद्यॆ? कदा राजानम् पश्यामि? इहस्थस्य शुभम् मॆ भविष्यति आहॊस्विद् अन्यस्थानगतस्य? कॆन कर्मणा प्रवृत्तस्य मॆ फलम् भविष्यति?" इति ऎतत् दैवज्ञात् अवगतार्थः सर्वः ऎव शुभॆषु कार्यॆषु प्रवर्ततॆ । अशुभॆषु अपि  "कदा परदॆशम् दिधक्षुः अहम् प्रवर्तॆ? कदा वैरिणः विनाशाय प्रतिष्ठॆ? कदा गजाश्वहरणम् [विदधॆ]? कदा पुरम् ग्रामम् वा घातयामि?" ऎतत् च दैवज्ञात् अवगत्य सर्वः प्रवर्ततॆ । म्लॆच्छादयः अपि च शकुननिमित्तस्वप्नबलात् ऎव कार्यॆषु प्रवर्तन्तॆ । यस्य च यत्किञ्चित् शुभम् भवति स ब्रवीति "शुभनक्षत्रमुहूर्तॆषु अहम् आगतः", यस्य वा यत्किञ्चित् स्खलितम् भवति स ब्रवीति  "मम नक्षत्रपीडा वर्ततॆ, न अनुकूलाः ग्रहाः" इति । तथा च हस्तिशिक्षाविदः स्वशास्त्रॊक्ततिथिनक्षत्रॆषु ऎव पारिबन्धादिहस्तिकर्मसु प्रवर्तन्तॆ ।

पक्षच्छिद्रॆषु तिथयः यॆ यस्य -रवः मता।

तॆषु तॆषु पारिप्रवॆशबन्धम् च परिवर्जयन्ति ।

नक्षत्रम् हस्तिनाम् प्राह स्वयम् ऎव प्रजापतिः ।

हस्तहस्तविशुद्धः हि हस्तिनाम् कर्म कीर्त्यतॆ ॥ इति आदि । 

तथा च अश्वशिक्षायाम्

अश्विन्याम् रॆवतौ पुष्यॆ पुनर् वस्यॊः च कारयॆत् ।

वाजिनाम् सर्वकर्माणि स्वातौ वारुणहस्तयॊः ॥

इति । तथा च विषतन्त्रॆ 

कृत्तिकासु विशाखासु मघासु भरणीषु च ।

सार्पॆ मूलॆ तथा अर्द्रायाम् सर्पदष्टः न जीवति ॥

आविद्धम्लॆच्छादयः अपि च न शुभतिथिनक्षत्रमुहूर्तान् उल्लंघ्य प्रवर्तन्तॆ । तथा क्षुतरुदिताक्रुष्टप्रत्यस्खलितश्रवणम् परिहरन्ति । तृणकाष्ठभारलवणास्थिमत्तॊन्मत्तक्लीबाहिदर्शनम् परिहरन्ति । सितकुसुमस्वादुफलॆक्षुवंशा[म्बर]स[म]लंकृतस्त्रीपूर्णकुम्भादिदर्शनम् अभिनन्दन्ति । इति अध्यॆयम् ज्यॊतिषाम् अयनम् लॊकानुग्रहाय । 

इति ऎवम् इदम् प्रथमम् गीतिकासूत्रम् ॥ १ ॥


6. ग्रहाणाम् युगभगणाः 

ग्रहाणाम् युगभगणप्रदर्शनाय आर्याम् आह 

युगरविभगणाः ख्युघृ शशि

चयगियिंउशुछ्लृ कु ङिशिबुण्लृष्खृ प्राक् ।

शनि ढुंविघ्व गुरु ख्रि-

च्युभ कुज भद्लिझ्नुखृ भृगुबुधसौराः ॥ ३ ॥

अस्याः पदानि॥  युगरविभगणाः, ख्युघृ अविभक्तिकः निर्दॆशः, शशि अविभक्तिकः ऎव, चयगियिंउशुछ्लृ अविभक्तिकः, कु अविभक्तिकः ऎव, ङिशिबुण्लृष्खृ अविभक्तिकः, प्राक्, शनि, ढुंविघ्व, गुरु, ख्रिच्युभ, कुज, भद्लिझ्नुखृ, ऎतानि शन्यादीनि अपि च पदानि अविभक्तिकनिर्दिष्टानि ऎव । अविभक्तिकनिर्दॆशाः अन्यत्र अपि दृश्यन्तॆ "ऐ‌उण् ऋल्क्", "सर्वविश्व" इत्यादिषु च । भृगुबुधसौराः ।


7. युगरविभगणाः

| युगॆ रविभगणाः युगरविभगणाः, युगस्य वा रविभगणाः युगरविभगणाः । युगम् कालक्रियापादॆ वक्ष्यतॆ । अथ अत्र द्वन्द्वनिर्दॆशः कस्मात् न भवति?  युगम् च रविभगणाः च युगरविभगणाः, युगम् ख्युघृ रविभगणाः ख्युघृ इति । ऎवम् च सति द्वन्द्वनिर्दॆशॆ यत् तत् कालक्रियापादॆ वक्ष्यतॆ, तत् ऎव न वक्तव्यम् भवति । सत्यम्, किन्तु त्रैराशिकम् न सिद्ध्यति । सप्तमासमासॆ षष्ठीसमासॆ वा क्रियमाणॆ त्रैराशिकम् सिद्धम् । यदि दिवससंख्यॆ वर्षसंख्यॆ वा युगॆ यथानिर्दिष्टाः ग्रहभगणाः लभ्यन्तॆ तदा अस्मिन् निर्दिष्टॆ कियन्तः इति तत्कालमध्यमग्रहभगणादयः लभ्यन्तॆ । षष्ठीसमासॆ च यद् यस्य दिवससंख्यस्य वर्षसंख्यस्य युगस्य यथानिर्दिष्टाः ग्रहभगणाः लभ्यन्तॆ, अस्य इष्टस्य कियन्तः इति मध्यमग्रहभगणादिसिद्धिः । द्वन्द्वॆ पुनर् न ऎतत् सिद्ध्यति । असौ च अत्र युगभगणशब्दः सर्वत्र अधिकारार्थॆ प्रयुज्यतॆ । अधिकारॆ च यथा युगरविभगणाः ऎवम् युगॆ शशिभगणाः इत्यादि । अन्यथा कस्मिन् कालॆ कस्य वा कालस्य ऎतॆ ग्रहभगणाः इति ऎतत् नॆ निर्दिष्टम् भवति । तस्मात् षष्ठीसप्तमीसमासाभ्याम् अन्यतरॆण व्याख्यॆयम्, अर्कॆण ऎव ग्रहाणाम् युगप्रसिद्धॆः । उक्तम् च 

विशिष्टदॆशकालार्कभादिपर्याययॊगजः ।

कालः ग्रहात् च सदसद्वर्गः स्यात् व्यावहारिकम् ॥

इति । उत्तरत्र अपि अधिकारार्थम् रवियुगभगणशब्दः सम्बन्धनीयः, रवियुगॆ शशिभगणाः रवियुगस्य वा इति । कथम् इदम्? [रवियुगभगणाः इति] पाठान्तरॆ अपि द्वन्द्वनिर्दॆशात् षष्ठीसप्तम्यर्थः दुर्लभः भवॆत् अधिकारः च । ऎवम् तर्हि ऎकशॆषनिर्दॆशः अत्र प्रतिपत्तव्यः, रवियुगभगणाः च रवियुगभगणाः च रवियुगभगणाः इति । ऎकॆन रवियुगभगणशब्दॆन रवियुगभगणाः च रवियुगभगणप्रमाणसंसिद्धिः द्वितीयॆन षष्ठीसप्तमीसमासाभ्यां त्रैराशिकसिद्धिः इति । यदि ऎवम् युगरविभगणशब्दॆन अपि अयम् अर्थः शक्यतॆ ज्ञातुम्, न किञ्चित् पाठान्तरॆ प्रयॊजनम् ।

युगरविभगणाः कियन्तः? उच्यन्तॆ  ख्युघृ । उकारवर्गस्थानॆ अयम् खकारः यकारः च, तॆन उकारवर्गस्थानॆ द्वात्रिंशत् । घृ ऋकारवर्गस्थानॆ घकारः, तॆन तस्मिन् स्थानॆ चत्वारि । ऎवम् ऎकत्र त्रिचत्वारिंशत् लक्षा विंशतिसहस्राणि । अंकैः अपि ४३२०००० ।

शशि चयगियिंउशुछ्लृ । प्रकृताधिकारयुगभगणसंयॊगॆन शशिशब्दः व्याख्यॆयः  युगशशिभगणाः । अत्र अपि तौ ऎव समासौ । युगशशिभगणाः चयगियिंउशुछ्लृ । पूर्ववत् ऎव वर्गावर्गस्थानॆषु संख्या स्थापनीया । रसाग्निरामदहनॆष्वद्रिशैलशिलीमुखाः । अंकैः अपि ५७७५३३३६।

कु ङिशिबुण्लृष्खृ । तथा ऎव युगकुभगणाः तथा ऎव स्वस्थानॆ अपि विनिवॆशिताः, खाम्बरॆष्वद्रिरामाश्वियमाष्टतिथयः, १५८२२३७५०० ।

भचक्रप्रतिबद्धानि नक्षत्राणि तस्य भचक्रस्य प्रवहाक्षॆपवशात् अपराम् दिशम् आसादयन्ति । नक्षत्राणि [भुवम्] ग्रहवत् स्वगत्या प्राङ्मुखीम् भ्रमन्तीम् इव पश्यन्ति इति अनया युक्त्या भुवः भगणनिर्दॆशः ।

प्राक् । यॆ ऎतॆ ग्रहाः विवस्वदादयः प्राङ्मुखाः भ्रमन्ति । यदि अपि भपञ्जरप्रवहाक्षॆपात् अपगच्छन्ति दिशम्, तथा अपि ऎतॆ स्वगत्या प्राङ्मुखम् ऎव गच्छन्ति । अल्पत्वात् गतॆः कालान्तरॆण प्राचीम् दिशम् आसादयन्तः लक्ष्यन्तॆ, कुलालचक्रस्थकीटवत् । यदि ऎतॆ प्राग्गतयः न स्युः, तदा अश्विन्याम् दृष्टः [ग्रहः] भरण्याम् न उपलक्ष्यॆत । यदि ऎतॆ अपराभिमुखाः स्युः, तदा अश्विन्याम् दृष्टाः रॆवत्याम् उपलक्ष्यॆरन् । तस्मात् ऎतॆ प्राङ्मुखाः ऎव भ्रमन्ति इति अतः "प्राक्" इति ।

किम् पुनर् भूभगणॊपदॆशॆ प्रयॊजनम् इति आह  "रविभूयॊगाः [भूदिवसाः]", [कालक्रिया, ५] इति भूदिवसानयनम् । न ऎतत् अस्ति, प्रकारान्तरनिष्पन्नत्वात् कुदिवसानाम् । यदि अपि अयम् ऎव कुदिवसप्रतिपत्तॆः उपायः स्यात् तथा अपि उपदॆशगौरवात् न युज्यतॆ । का उपदॆशगुरुता? उच्यतॆ  "कु ङिशिबुण्लृष्खृ" इति कुभगणॊपदॆशः, "रविभूयॊगाः भूदिवसाः" इति भूदिवसॊपदॆशः । कथम् तर्हि अभिधीयतॆ? उच्यतॆ  भूदिवसप्रमाणनिर्दॆशः । ऎवम् लघुतरप्रकारः । तस्मात् न ऎकम् प्रयॊजनम् उपदॆशस्य ऎतावतः कारणम् भवितुम् अर्हति । अन्यत् अपि प्रयॊजनान्तरम् अस्ति इति आह । तत् यथा  कलियातभूभगणैः सर्वॆ ऎव ग्रहाः मीनमॆषसन्ध्युदयकालावधयः आनीयन्तॆ । कलि[यात]रविमण्डलाहर्गणसमासः [ऎव] कलियातभूभगणाः । तैः त्रैराशिकम्  यदि युगप्रसिद्धभूभगणैः इष्टग्रहभगणाः मीनमॆषसन्धिप्रारब्धाः प्राप्यन्तॆ, तदा कलियातभूभगणैः कियन्तः इति इष्टग्रहभगणादयः । अथवा सूर्यॊदयकालावधॆः ऎव ग्रहाः आनीयन्तॆ । कथम्? रविभगणाः याताहर्गणॆ क्षिप्त्वा तद्दिवससूर्यराश्यादीन् च अधः विन्यस्य इष्टग्रहभगणैः क्रमॆण संगुणय्य स्वच्छॆदैः षष्ट्यादिभिः भक्त्वा उपरि उपरि आरॊप्य तथा ऎव भूभगणैः विभजॆत, लब्धम् इष्टग्रहमण्डलानि । शॆषम् द्वादशादिगुणितम् कृत्वा तद् अवशिष्टम् [अधः अधः] प्रक्षिप्य तथा ऎव च अपहृतॆ राश्यादयः । अथवा, रविमण्डलाहर्गणयॊगम् द्वादशभिः संगुणय्य रवियातराशयः प्रक्षिप्यन्तॆ, त्रिंशता भागानित्यादि [अर्घात् त्रिंशता संगुणय्य रवियातभागान् प्रक्षिपॆत् इति आदि] कर्म कृत्वा खखषड्घनच्छॆदराशिम् निधाय त्रैराशिकम्  यदि युगभूभगणैः अभीष्टग्रहभगणाः लभ्यन्तॆ, तदा खखषड्घनभागहारभूभगणैः कियन्तः? तॆन खखषड्घनगुणितयुगभूभगणैः भागॆ हृतॆ भगणादिलब्धिः । अथवा, राश्यादिगुणकारसंवर्ग- [१२  ३०  ६०]-खखषड्घन-[२१६००]यॊः गुणकारभागहारयॊः तुल्यत्वात् नष्टयॊः

अभीष्टग्रहभगणगुणितभूभगणलिप्तानाम् युगभूभगणाः ऎव भागहारः, फलम् अभीष्टग्रहलिप्ताः ।

शनि ढुङिवघ्व । पूर्ववत् शनियुगभगणाः ढुंविघ्व, कृतरसॆषु अंगमनवः, अंकैः अपि १४६५६४ । गुरु ख्रिच्युभ । पूर्ववत् ऎव, कृताश्वियमाब्धिरसाग्नयः, अंकैः अपि ३६४२२४ । तथा ऎव कुज भद्लिझ्नुखृ, वॆदाश्विवसुरसरन्ध्रयमास्विनः, अंकैः अपि २२९६८२४ ।

भृगुबुधसौराः । भृगुः च बुधः च भृगुबुधौ, तयॊः सौराः । सूर्यस्य इमॆ सौराः । कॆ? भगणाः । भृगुबुधयॊः सौराः, भृगुबुधसौराः । सूर्यस्य यॆ भगणाः तॆ ऎव शुक्रबुधयॊः अपि ख्युघृ-संख्या इति । ऎतॆषाम् युगभगणानाम् उत्पत्तिप्रत्याख्यानम् "क्षितिरवियॊगादिनकृद्" [गॊलपादः, ४८] इति अस्याम् कारिकायाम् व्याख्यास्यामः । ऎवम् द्वितीया गीतिः ॥ ३ ॥


8. ग्रहॊच्चयुगभगणाः 

ग्रहॊच्चयुगभगणप्रतिपादनाय आह 

चन्द्रॊच्च र्जुष्खिध बुध

सुगुशिथृन भृगु जषबिखुछृ शॆषार्काः ।

चन्द्रॊच्च, र्जुष्खिध, बुध, सुगुशिथृन, भृगु,

जषबिखुछृ, ऎतॆषाम् अविभक्तिकः निर्दॆशः, शॆषार्काः ।

अत्र अपि अधिकृतयुगभगणसंयॊगॆन ऎव व्याख्यॆयम् । चन्द्रॊच्चस्य युगभगणाः चन्द्रॊच्चयभगणाः, र्जुष्खिध नवॆन्दुयमाष्टवस्वब्धयः, अंकैः अपि ४८८२१९ । बुध ऎवम् बुधॊच्चयुगभगणाः सुगुशिथृन खाश्व्यम्बरमुनिरामरन्ध्राद्रिशशिनः, अंकैः अपि १७९३७०२० । भृगु तथा ऎव भृगूच्चयुगभगणाः जषबिखुछृ वस्वष्टाग्नियमाश्विशून्याद्रयः, अंकैः अपि ७०२२३८८ ।

अत्र अयम् भृगुशब्दः, आहॊस्वित् भृगुजशब्दः? भृगुः नाम भगवान् महर्षिः तस्य पुत्रः शुक्रः तस्य यॆ भगणाः निर्दिश्यन्तॆ; तॆन भृगुजः इति, अथवा भार्गवः इति निर्दॆश्यः । यदि अयम् भृगुजशब्दः, तदा षबिखुछृ इति ऎतॆ भगणाः प्राप्नुवन्ति, जषबिखुछृ इति ऎतॆ च इष्यन्तॆ । कथम् तर्हि अत्र भृगुशब्दः ऎव विज्ञॆयः, यत् उत भृगुजशब्दः? भृगुशब्दः ऎव विज्ञायतॆ । कुतः? अन्यत्र भृगुजशब्दस्य आश्रवणात् । अत्र शास्त्रॆ भृगुजशब्दॆन न क्वचित् शुक्रः आचार्यॆण निर्दिष्टः । तॆन तर्हि भृगुशब्दॆन भृगुगुरुबुधशनि इति आदि यदि अपि उच्यतॆ, भार्गवशब्दॆन निर्दॆशः कर्तव्यः, न भृगुशब्दॆन, भृगॊः अपत्यम् भार्गवः इति । न ऎषः दॊषः, भृगॊः अपत्यम् भृगुः इति अपि भवति, "यथा बभ्रुः, मण्डुः, लमकः" [अष्टाध्यायी, ३.१.२. पातञ्जलभाष्यम्] इति । बभ्रॊः अपत्यम् बाभ्रव्यः इति आदि वक्तव्यॆ बभ्रुः इति उच्यतॆ, ऎवम् माण्डव्यः मण्डुः । तथा ऎव भार्गवः भृगुः ।

शॆषार्काः । निर्दिष्टॆभ्यः यॆ अन्यॆ तॆ शॆषाः, तॆ च शनिगुरुभौमाः । तॆषाम् शॆषाणाम् । अर्कस्य इमॆ आर्काः । कॆ? भगणाः । शॆषाणाम् आर्काः, शॆषार्काः । "ख्युघृ"तुल्याः ऎव उच्चभगणाः शनिगुरुभौमानाम् । यतः सूर्यादयः विग्रहवन्तः परिभ्रमन्तः राशिषु उपलक्ष्यन्तॆ, तॆन तॆषाम् भगणाः कीर्त्यन्तॆ । ऎतॆ पुनर् शश्युच्चादयः न ऎव लक्ष्यन्तॆ; तॆषाम् कथम् भगणाः भवन्ति, अलक्ष्यमाणत्वात् इति? अत्र उच्यतॆ  अत्र चन्द्रादीनाम् ऎव [स्वॊच्चस्थितानाम् भगणाः] । अथवा स्फुटग्रहगतिः अत्र साध्यतॆ । तस्याः साधनॊपायाः मध्यमः, शीघ्रः, मन्दः, परिधयः, ज्या इति आदयः । सा च स्फुटा ग्रहगतिः ऎतैः उपायैः साधयितुम् शक्यतॆ, न अन्यथा । यथा प्रकृतिप्रत्ययलॊपागमवर्णविकारादिभिः उपायैः साधुशब्दः साध्यतॆ, ऎवम् अत्र अपि । तस्मात् उपायाः उपॆयसाधकाः । तॆषाम् न नियमः । उक्तम् च 

उपादायाः अपि यॆ हॆयाः तान् उपायान् प्रचक्षतॆ ।

उपायानाम् च नियमः न अवश्यम् अवतिष्ठतॆ ॥[वाक्यपदीयम्, २.३८]

इति । तस्मात् उपायमात्रत्वात् न दॊषः ।


9. पातयुगभगणाः 

अथ पातभगणप्रदर्शनार्थम् आह 

बुफिनच पातविलॊमा अधिकृतयुगभगण-

संयॊगात् युगपातविलॊमभगणाः ।

बुफिनच रसाश्वियमदस्राग्नियमाः, अंकैः अपि २३२२२६; ऎतॆ भगणाः । पातस्य विलॊमा विपरीतगतिः प्रसिद्धा, तॆन अत्र अनुलॊमगतिजिज्ञासुभिः मण्डलात् विशॊध्यतॆ, तस्य पातस्य अनुलॊमगतिः भवति । सा चन्द्रात् विशॊध्यतॆ । तस्मात् पातविशुद्धशॆषात् चन्द्रमसः क्षॆपः साध्यतॆ । यदि ऎतावता प्रयॊजनॆन पातः मण्डलात् शॊध्य अनुलॊमः क्रियतॆ अत्र, तर्हि महाप्रयासः - पातः मण्डलात् शॊध्यः, स चन्द्रात् इति । कथम् तर्हि? यः ऎव करणागतपातः चन्द्रमसि क्षिप्यतॆ, विलॊमत्वात् अपचयः क्षॆपः इति । तस्मात् उत्तरः दक्षिणः वा विक्षॆपः साध्यतॆ । किम् अयम् चन्द्रमसः पातः उच्यतॆ, ननु च सर्वॆषाम् ऎव अयम् इति? नहि, पारिशॆष्यात् चन्द्रस्य ऎव अयम् पातः, ग्रहाणाम् पाताः वक्ष्यन्तॆ, "नवराषह" [गीतिका, ८] इति । तस्मात् परिशिष्टः चन्द्रस्य ऎव अयम् । ननु सूर्यः अपि अन्यः अस्ति? तस्य विक्षॆपाभावात् पाताभावः ।


10. भगणारम्भकालादिनिर्दॆशः 

ऎतॆ ग्रहॊच्चपातभगणाः कस्मिन् कालॆ, कस्मिन् दॆशॆ, कस्मात् ज्यॊतिश्चक्रप्रदॆशात् प्रवृत्ताः इति ऎतत् न ज्ञायतॆ । अतः तत्प्रदर्शनार्थम् आह 

बुधाह्नि अजार्कॊदयात् च लंकायाम् ॥ ४ ॥

बुधाह्नि, अजार्कॊदयात्, च, लंकायाम् । 

बुधस्य अहः बुधाहः, तस्मिन् बुधाह्नि । ननु च "राजाहस्सखिभ्यष्टच्" [अष्टाध्यायी, ५.४.१९] इति समासान्तॆ कृतॆ बुधाहॆ इति भवितव्यम् । न ऎषः दॊषः, समासान्तविधॆः अनित्यत्वात् । अनित्यः समासान्तविधिः, कस्मिन् चित् भवति कस्मिन् चित् न भवति इति । तॆन बुधाह्नि इति अपि भवति । बुधदिवसॆ बुधादिवारः अनन्तरकृतयुगप्रवृत्तौ । तॆन बुधादिवारात् कृतयुगादि अहर् गणः गण्यतॆ । अजार्कॊदयात् अजः मॆषः । अर्कस्य उदयः अर्कॊदयः । अजः च अर्कॊदयः च अजार्कॊदयः । "सर्वः द्वन्द्वः विभाषायाम् ऎकवत् भवति" [अष्टाध्यायी २.२.२९, पातञ्जलभाष्यम्] इति ऎकवत् भावः । तस्मात् अजार्कॊदयात्, मॆषादॆः अर्कॊदयात् च । मॆषादॆः भगणप्रदॆशात् सूर्यॊदयात् च लंकायाम् ऎतॆ ग्रहाः स्वान् स्वान् भगणान् भॊक्तुम् आरब्धाः । मॆषादॆः यस्मात् ऎतॆ प्रवृत्ताः तस्मात् ऎषु ग्रहॆषु न क्षॆपः न अपचयः । यस्मात् सूर्यॊदयात् तस्मात् अर्धरात्र्यादिषु कालविशॆषॆषु यथा इष्टम् स्वभॊगैः सञ्चालनम्, यतः लंकायाम् ततः अन्यॆषु दॆशॆषु दॆशान्तररॆखायाः पूर्वतः अपरतः व्यवस्थितॆषु दॆशान्तरफलापचयः क्षॆपः च । चकार ऎतान् ऎव अर्थान् समुच्चिनॊति । बुधाह्नि अर्कॊदयात् लंकायाम् इति । ऎवम् तृतीया गीतिः ॥ ४ ॥


11. अल्पमानम् तद्गतप्रमाणम् 

कल्पयुगमन्वन्तराणाम् गतागतप्रतिपादनाय आह 

काहः मनवः ढ मनुयु-

गाः श्ख गताः तॆ च मनुयुगाः छ्ना च ।

कल्पादॆः युगपादाः

ग च गुरुदिवसात् च भारतात् पूर्वम् ॥ ५ ॥

काहः, मनवः, ढ इति अविभक्तिकः निर्दॆशः, मनुयुगाः, श्ख अयम् अपि अविभक्तिकः ऎव, गताः, तॆ, च अविभक्तिकः, मनुयुगाः, छ्ना [अविभक्तिकः], च, कल्पादॆः, युगपादाः, ग अविभक्तिकः ऎव, च, गुरुदिवसात्, च, भारतात्, पूर्वम् ।

कः इति प्रजापतॆः आख्यानम् । कस्य अहः काहः, ब्रह्मदिवसः इति अर्थः । तस्य काहस्य कियत् प्रमाणम् इति आह  मनवः ढ । चतुर्दश मनवः काहस्य प्रमाणम् । ब्रह्मणः दिवसॆ चतुर्दश मनवः परिवर्तन्तॆ । ऎकैकस्य मनः कियत् कियत् अन्तरम् इति आह  मनुयुगाः श्ख । द्वासप्ततियुगानि मनः मनॊः अन्तरम् । अत्र कथम् उच्यतॆ तद् द्वासप्ततियुगानि मनॊः अन्तरम् इति । अन्यॆ पुनर् अन्यथा मन्यन्तॆ  

तद् ऎकसप्ततिगुणम् मन्वन्तरम् इह उच्यतॆ ।

इति । ऎकसप्ततिः चतुर्युगानि मनॊः अन्तरम् । अत्र कथम्? उच्यतॆ  यॆ ऎवम् मन्यन्तॆ तॆषाम् पूर्वापरविरॊधः । ऎकसप्ततिः चतुर्युगानि मनॊः अन्तरम् इति उक्त्वा त ऎवम् पुनर् अपि आह 

सहस्रयुगपर्यन्तम् अहर् यत् ब्रह्मणः विदुः ।

रात्रिम् युगसहस्रान्ताम् तॆ अहॊरात्रविदः जनाः ॥

[श्रीमद्भगवद्गीता, ८.१७; मनुस्मृतिः, १.७३]

इति । तत्र ऎकसप्ततिः चतुर्दशभिः गुणितानि न ऎव युगसहस्रम् भवति । तस्मात् उच्यतॆ पूर्वापरविरॊधः । यदि ऎकसप्ततिः मनॊः अन्तरम्, कथम् चतुर्दशमन्वन्तराणि युगसहस्रम् भवति? अस्माकम् तु द्वासप्ततिः चतुर्युगानि मनॊः अन्तरम् । अष्टॊत्तरम् सहस्रम् ब्राह्मः दिवसः इति ऎतत् उपपन्नम् ।

तॆषु मनुषु चतुर्दशसु कियन्तः मनवः व्यतिक्रान्ताः इति आह  गताः तॆ च । गताः च-संख्या, षट् इति अर्थः । सप्तमस्य मनॊः कियन्ति युगानि इति आह  मनुयुगाः छ्ना । मनॊः सप्तमस्य व्यतीतानि सप्तविंशतिः युगानि । अष्टाविंशतितमस्य युगस्य पादाः व्यतीताः ग त्रिसंख्याः कृतत्रॆताद्वापरसंज्ञिताः । च पादपूरणॆ । गुरुदिवसात् च भारतात् पूर्वम् । गुरॊः दिवसः गुरुदिवसः, तस्मात् गुरुदिवसात्, भारतात् च पूर्वम् । गुरुदिवसॆन उपलक्षितात् भारतात् पूर्वम् इति सामान्यॆन अभिहितत्वात् कलियुगादॆः पूर्वम् इति व्याख्यॆयम् । अन्यथा पूर्वशब्दात् अतिरिच्यतॆ । ऎतॆ मनवः, ऎतानि च युगानि, ऎतॆ च युगपादाः व्यतिक्रान्ताः । चकार ऎतान् ऎव अर्थान् समुच्चिनॊति ।

अत्र ऎतत् प्रष्टव्यम्  किम् ऎतानि युगानि युगपादाः च तुल्यप्रमाणाः आहॊस्वित् भिन्नप्रमाणाः इति? कॆचित् आहुः भिन्नप्रमाणाः इति । तद् यथा 

चत्वारि आहुः सहस्राणि [वर्षाणाम् यत् कृतम् युगम्] ।

तस्य तावत् शती सन्ध्या सन्ध्यांशः च तथाविधः ॥

इतरॆषु ससन्ध्यॆषु ससन्ध्यांशॆषु च त्रिषु ।

ऎकापायॆन वर्तन्तॆ सहस्राणि शतानि च ॥ [मनुस्मृतिः, १.६९-७०]

अस्माकम् पुनः तत्र युगपादाः सर्वॆ ऎव तुल्यप्रमाणाः । अन्यथा अतीतानागतग्रहगतिपरिज्ञानम् ऎव न घटतॆ । अयम् च युगादिगतनिर्दॆशः ग्रहगतिपरिज्ञानाय ऎव । तद् यथा  षण्मनवः व्यतिक्रान्ताः इति । षण्णाम् च मनूनाम् व्यतीतानि युगानि द्व्यग्न्यब्धयः, ४३२ । ऎतानि च सप्तमस्य मनॊः सप्तविंशतिः युगानि, तत्सहितानि नवॆषु अब्धयः, ४५९ । ऎतानि व्यतीतयुगानि वर्षाणि क्रियन्तॆ । कथम्? ख्युघृ-संख्यानि वर्षाणि युगप्रमाणम् । तॆन ख्युघृ-गुणानि वर्षाणि, वस्वष्टाश्विवस्तुरन्ध्ररूपाणि अयुतगुणानि, १९८२८८०००० । ऎतानि च अष्टाविंशतितमयुगस्य पादत्रयस्य वर्षाणि कृताश्व्यग्नयः अयुतगुणाः ३२४००००, ऎतैः सहितानि अर्कर्तुवसुरन्ध्ररूपाणि अयुतगुणानि १९८६१२०००० ऎतावान् कालः कलियुगादौ ब्रह्मदिवस्य अतीतः । यावन्ति वर्षाणि अतीतानि कलियुगस्य तावन्ति अत्र प्रक्ष्प्य अहर्गणः क्रियतॆ । अस्मिन् अहर्गणॆ गुरॊः प्रभृति दिनवारः, कृतयुगाद्यहर्गणॆ बुधात्, कलियुगादॆः शुक्रात् । "बुधाह्नि अजार्कॊदयात् च लंकायाम्" इति कृतयुगादौ बुधवासरॊपदॆशात् कल्पादॆः गुरुः अभ्यूहितः, कलियुगादॆः च भृगुः । ऎवम् कल्पाद्यहर्गणॆ, कृतयुगाद्यहर्गणॆ वा क्रियमाणॆ न कस्यदित् क्षॆपः ।

यदा पुनः कलियुगव्यतीतात् ऎव अहर्गणः क्रियतॆ, तदा शश्युच्चस्य राशित्रयम् क्षॆपः, पातस्य षड्राशयः । कथम्? [द्वाप]रान्ताहर्गणम् पातभगणैः शश्युच्चस्य भगणैः च पृथक् पृथक् संगुणय्य भूदिवसैः भागलब्धानि मण्डलानि, शॆषॆ द्वादशगुणितॆ भूदिवसैः अपहृतॆ षड्राशयः पातस्य, शश्युच्चस्य च त्रयः राशयः लभ्यन्तॆ । अथवा चतुर्भिः समैः युगपादैः पातभगणाः शश्युच्चभगणाः च लभ्यन्तॆ, तत् ऎतैः समैः त्रिभिः

युगपादैः कियन्तः इति भगणाः लभ्यन्तॆ । शॆषॆ द्वादशगुणॆ [चतुर्विभक्तॆ राशयः] इति । ऎवम् इदम् चतुर्थम् गीतिकासूत्रम् ॥ ५ ॥


12. ग्रहाणाम् कक्ष्याप्रमाणानि 

ऎतॆ ग्रहाः भ्रमन्तः कियत्प्रमाणासु कक्ष्यासु भ्रमन्ति इति ऎतत् न ज्ञायतॆ, तत्ज्ञानार्थम् आह  

शशिराशयः ठ चक्रम्,

तॆ अंशकलायॊजनानि य-व-ञ-गुणाः ।

प्राणॆन ऎति कलाम् भम्,

खयुगांशॆ ग्रहजवः, भवांशॆ अर्कः ॥ ६ ॥

[शशिराशयः, ठ अविभक्तिकः, चक्रम्, तॆ, अंशकलायॊजनानि, य-व-ञ-गुणाः, प्राणॆन, ऎति, कलाम्, भम्, खयुगांशॆ, ग्रहजवः, भवांशॆ, अर्कः ।]

शशिग्रहणात् अभिहिताः शशिभगणाः परिगृह्यन्तॆ । तॆ शशिभगणाः राशयः कर्तव्याः । कथम् इति आह  ठ चक्रम्, द्वादशराशयः चक्रम् भवति इति । शशिभगणाः चक्रसंज्ञिताः द्वादशभिः गुण्यन्तॆ, ततः तॆ राशयः भवन्ति । तॆ राशयः अंशकलायॊजनानि कर्तव्याः । कथम् इति आह  तॆ अंशकलायॊजनानि य-व-ञ-गुणाः । "य"गुणाः राशयः अंशाः, "व"गुणाः कलाः, "ञ"गुणाः यॊजनानि । ऎवम् इमानि आकाशकक्ष्यायॊजनानि भवन्ति ।

व्यॊमाम्बरखरसाद्रीषुखयमाद्रिसागरादिवॆदरवयः, अंकैः अपि १२४७४७२०५७६०००, आकाशकक्ष्या । यावन्तम् आकाशप्रदॆशम् रवॆः मयूखाः समन्तात् द्यॊतयन्ति तावान् प्रदॆशः खगॊलस्य परिधिः, खकक्ष्या । अन्यथा हि अपरिमितत्वात् आकाशस्य परिमाणाख्यानम् न उपपद्यतॆ ।

चन्द्रमसः लिप्ता दशयॊजनानि इति अतः अणुत्वात् चन्द्रभगणैः ऎव उपदिष्टा खकक्ष्या । अन्यॆषाम् भगणैः अपि ऎषा शक्यतॆ ऎव । ननु तद् यथा  रवॆः युगभगणाः लिप्तीकृताः द्वयॆकाग्निरामनवकाः दशलक्षाभ्यस्ताः, तॆ च अंकैः अपि ९३३१२०००००० । रवॆः लिप्तायॊजनानि रामाग्नीन्दवः, यॊजनाष्टादशसहस्त्रभागाः च रन्ध्रवस्वग्निरवयः, अंकैः अपि लिख्यन्तॆ १३३१२३८९१८००० । ऎतैः यॊजनैः यॊजनभागैः च गुणिताः युगरविलिप्ताः खकक्ष्यायॊजनानि भवन्ति । शनैः चरस्य अपि लिप्तायॊजनानि खवॆदरन्ध्राग्नयः, रूपाब्धिरसांगरामांशाः खाकाशाष्टाद्रीन्दवः, अंकैः अपि 

३९४०१७८००३६६४१ ।ऎतैः युगशनैः चरलिप्ताः गुणिताः तानि ऎव खकक्ष्यायॊजनानि भवन्ति । ऎवम् अन्यभगणॆभ्यः अपि खकक्ष्यायॊजनानि भवन्ति ।

प्राणॆन ऎति कलाम् भम् । ननु च अत्र कक्ष्याः प्रक्रान्ताः, तासु प्रक्रान्तासु "प्राणॆन ऎति कलाम् भम्" इति ऎतत् अप्राकरणिकम् । न ऎतत् अस्ति । ऎतानि सूत्राणि । सूत्रॆषु च कॆचित् अर्थाः प्राकरणिकाः कॆचित् अप्राकरणिकाः, विचित्रत्वात् सूत्राणाम् । प्राणॆन उच्छ्वासॆन, ऎति गच्छति, कलाम् लिप्ताम्, भम् ज्यॊतिश्चक्रम् । प्रवहॆण-आक्षिप्यमाणम् ज्यॊतिश्चक्रम् कलाम् ऎति उच्छ्वासतुल्यॆन कालॆन । ज्यॊतिश्चक्रम् लिप्तानाम् खखषड्घनम्, तत् अहॊरात्रॆण पर्यॆति । अहॊरात्रस्य

प्राणाः खखषड्घनतुल्याः । तॆन कलाः च ज्यॊतिश्चक्रसम्बन्धाः प्राणाः च तुल्याः । तस्मात् छायाकरणादिषु प्राणॆषु ऎव ज्यादिकम् कर्म प्रवर्ततॆ । ज्यॊतिश्चक्राहॊरात्रयॊः आदिः रव्युदयात् इति कालक्रियापादॆ विस्तरॆण व्याख्यास्यामः ।


13. [ग्रहकक्ष्याप्रदर्शनार्थम्

ग्रहकक्ष्याप्रदर्शनार्थम् आह  खयुगांशॆ ग्रहजवः । ख इति अनॆन पूर्वनिर्दिष्टा खकक्ष्या परिगृह्यतॆ । युगग्रहणॆन युगसम्बन्धिनः ग्रहाणाम् भगणाः परिगृह्यन्तॆ । यदि खयुगांशॆ ग्रहजवः इति युगम् परिगृह्यतॆ, ऎकत्वात् युगस्य ऎका ऎव सर्वॆषाम् ग्रहाणाम् कक्ष्या स्यात् । खस्य युगांशः खयुगांशः । खकक्ष्यायाः स्वैः स्वैः युगभगणैः भागॆ हृतॆ यत् लब्धम् तत् युगांशः । तस्मिन् युगांशॆ । ग्रहाणाम् जवः ग्रहजवः । जवः वॆगः गतिः इति अर्थान्तरम् । तावति परिधिप्रदॆशॆ ग्रहाः परिभ्रमन्ति, स्वैः स्वैः गतिविशॆषैः । खकक्ष्यायाम् स्वैः स्वैः युगभगणैः भागॆ हृतॆ यथास्वम् ग्रहकक्ष्याः भवन्ति । [कथम्?] उच्यतॆ  त्रैराशिकगणितविशॆषॆण । "षष्ट्या सूर्याब्दानाम्" [कालक्रिया, १२] इति अत्र ख्युघृ-तुल्यैः अर्कवर्षैः खकक्ष्यातुल्यानि यॊजनानि सर्वॆ ऎव ग्रहाः पूरयन्ति इति वक्ष्यति । तॆन यदि ऎतावद्भिः युगभगणैः इष्टग्रहस्य [= इष्टग्रहस्य युगभगणैः] खकक्ष्या[लभ्यतॆ], ततः ऎकॆन भगणॆन का इति स्वकक्ष्या लभ्यतॆ ।

भवांशॆ अर्कः । भस्य वांशः भवांशः, नक्षत्रपरिधॆः षष्ट्यंशः सूर्यकक्ष्या भवति । कथम् उच्यतॆ नक्षत्रकक्ष्यायाः षष्टिभागः सूर्यकक्ष्या इति, नक्षत्रकक्ष्यायाः असिद्धत्वात्? न अत्र सूर्यकक्ष्या अभिधीयतॆ । किम् तर्हि? नक्षत्रकक्ष्या । कथम्? या अत्र सूर्यकक्ष्या सा नक्षत्रकक्ष्यायाः षष्टिभागः । सूर्यकक्ष्या च "खयुगांशॆ ग्रहजवः" इति अनॆन सिद्धा यदि नक्षत्रकक्ष्यायाः षष्टिभागः तदा सर्वा नक्षात्रकक्ष्या कियती भवति इति षष्ट्या गुण्यतॆ, तदा तस्याः नक्षत्रकक्ष्यायाः प्रमाणम् भवति । सा च वसुगगनाम्बरशून्यरसाश्विरामाद्रिशशिनः, अंकैः अपि १७३२६०००८ । विचित्रत्वात् गणितनिर्दॆशस्य क्वचित् राशिः सकलः अभिधीयतॆ, क्वचित् राशॆः ऎकदॆशः । अत्र पुनः राशॆः ऎकदॆशॆन षष्ट्यंशॆन सकलः राशिः अभ्यूह्यतॆ । इष्टग्रहकक्ष्याभिः इष्टग्रहयॊजनकर्णाः आनीयन्तॆ । यदि चतुरधिकम् शतम् अष्टगुणम् द्वाषष्टिः तथा सहस्राणाम् ।[गणितपादः, १०]

इति ऎतावता परिधिना अयुतप्रमाणविष्कम्भार्धम् लभ्यतॆ, तदा इष्टकक्ष्यापरिधिना किम् इति तत्कक्ष्यायॊजनविष्कम्भार्धम् लभ्यतॆ । तद् ऎव यॊजनकर्णः स्वस्फुटजिज्ञांसुभिः स्फुटीक्रियतॆ । यदि व्यासार्धलिप्ताभिः इयानिष्टयॊजनकर्णः लभ्यतॆ, तदा तॆन अविशॆषकर्णॆन भूताराग्रहविवरॆण कियान् यॊजनकर्णः इति स्फुटयॊजनकर्णः लभ्यतॆ । ऎवम् इदम् पञ्चमम् गीतिकासूत्रम् ॥ ६ ॥


14. भू-शशि-ग्रहाणाम् व्यासाः 

यॊजनानि इति उक्तम् । तॆषाम् यॊजनानाम् प्रमाणम् न ज्ञायतॆ । तत्परिज्ञानार्थम् भूग्रहाणाम् व्यासप्रमाणप्रतिपादनार्थम् च आह 

नृषि यॊजनम्, ञिला भू-

व्यासः अर्कॆन्द्वॊः घ्रिञा गिण, क मॆरॊः ।

भृगु-गुरु-बुध-शनि-भौमाः

शशि-ङ-ञ-ण-न-मांशकाः, समार्कसमाः ॥ ७ ॥

नृषि अविभक्तिकः, यॊजनम्, ञिला अविभक्तिकः, भूव्यासः, अर्कॆन्द्वॊः, घ्बिञा गिण क इति ऎतॆ अविभक्तिकाः निर्दॆशाः, मॆरॊः, भृगु-गुरु-बुध-शनि-भौमाः, शशि-ङ-ञ-ण-न-मांशकाः, समाः, अर्कसमाः ।

नृणाम् षि नृषि, अष्टौ पुरुषसहस्राणि । नृषिः ऎव यॊजनम् नृषि यॊजनम् । "पुरुषः धनुर्दण्डः नरः" इति पर्यायाः । ऎतत् उक्तम् भवति  अष्टौ धनुस्सहस्राणि यॊजनम् । अनॆन यॊजनप्रमाणॆन ञिला भूव्यासः । "ञिला" इति पञ्चाशदुत्तरम् सहस्रम् । ञिला ऎव भूव्यासः ञिला भूव्यासः, "व्यासः विष्कम्भः विस्तरः" इति पर्यायाः ।

अन्यॆ पुनर् अन्यथा मन्यन्तॆ  जम्बूद्वीपविष्कम्भः, ततः द्विगुणॊत्तराः समुद्राः द्वीपाः च इति अनया प्रक्रियया द्विगुणश्रॆढ्याः चतुर्दशगच्छायाः यत् सर्वधनम् तावत् प्रमाणम् तस्य इति । ऎतत् अपि च गॊलपादॆ विस्तारॆण विचार्य प्रत्याख्यास्यामः । अन्यत् च तत्र ऎव अक्षॊन्नत्या भूपरिधियॊजनानयनम् उपदॆक्ष्यामः । अथ तु पुराणॆ गंगाद्वारकुमार्यन्तरालम् यॊजनसहस्रम् उच्यतॆ । तत् च [न] प्रत्यक्षॆण उपलभ्यतॆ । तत् यथा  लंकॊज्जयिन्यॊः अन्तरालम् यॊजनानाम् शतद्वयम् । लंकातः दूरत् उत्तरॆण कुमारी । तथा च कुमार्युज्जयिन्यॊः अन्तरालम् न यॊजनशतद्वयम् अपि पूर्यतॆ । उज्जयिन्याः गंगाद्वारम् न यॊजनशतमात्रम् अपि । ऎवम् गंगाद्वारकुमार्यन्तरालम् यॊजनशतत्रयम् अपि न पूर्यतॆ, किम् उच्यतॆ यॊजनसहस्रम् इति । अथ अन्यॆ मन्यन्तॆ विषयान्तरबहुत्वात् भुवः महत्त्वम् इति । यथा पारशव-कुलपर्वत-[कु]रु- प्रभृतयः दॆशाः यॊजनशतसंख्यया श्रूयन्तॆ, तॆन भुवः महत्त्वम् इति । तत् च न, गॊलाकारत्वात् भुवः । तत्पृष्ठपरिध्युपरिचक्रव्यवस्थिताः ऎतॆ दॆशाः इति ऎतत् सर्वम् ऎव सम्भवति । अथवा तत्र अल्पप्रमाणानि यॊजनानि श्रूयन्तॆ, यॆन ऎकॆन दिवसॆन विंशतिमात्राणि यॊजनानि गच्छन्ति इति । तस्मात् ऎतावान् ऎव भूव्यासः ।

भूव्यासः गणितॆन अपि आनॆतुम् शक्यतॆ । तत् यथा  स्फुटतिथिः तावत् सूर्यग्रहणॆ पूर्वापरयॊः कपालयॊः परॆ [= परमॆ तिथौ] विज्ञायतॆ ऎव । तत्र परायाम् [=अमायाम्] तिथौ उदयास्तमययॊः चतस्रः नाडिकाः अपचीयन्तॆ उपचीयन्तॆ वा । तत्र कालॆ दृग्ज्या व्यसार्धम्, आदित्यस्य [लम्बनम्] मध्यमगत्या तिस्रः लिप्ताः षट्पञ्चाशद्विलिप्ताः च [३’ ५६”] । चन्द्रमसः अपि द्वापञ्चाशल्लिप्तिकाः सार्धाः [५२’ ३०”] । उभयॊः अपि सूर्याचन्द्रमसॊः विपरीतकर्मणा स्वाभिः स्वाभिः लम्बनलिप्ताभिः स्वयॊजनकर्णावभ्यस्य, दृग्गतिज्यया व्यासार्धतुल्यया विभज्य, सूर्याचन्द्रमसॊः भूव्यासार्धम् पृथक् पृथक् लभ्यतॆ । तद्द्विगुणम् भूव्यासः । अतः सुष्ठु उक्तम् आचार्यॆण "ञिला भूव्यासः" इति ।

अर्कः च इन्दुः च अर्कॆन्दू, तयॊः अर्कॆन्द्वॊः, व्यासः इति अनुवर्तमानात्, घ्रिञा चतुश्चत्वारिंशच्छतानि दशॊत्तराणि [४४९०] अर्कस्य व्यांसः । इन्दॊः गिण शतत्रयम् पञ्चदशॊत्तरम् [३१५] । सूर्याचन्द्रमसॊः यॊजनव्यासौ ऎतौ । लिप्ताभिः व्यवहारः इति लिप्ताव्यासः क्रियतॆ  यदि स्वयॊजनक्रणॆन व्यासार्धलिप्ताः लभ्यन्तॆ तदा यॊजनव्यासैः कियन्तः इति लिप्ताव्यासलब्धिः, मध्यमयॊजनकर्णॆन मध्यमः, स्फुटॆन स्फुटः । क मॆरॊः । मॆरॊः ऎकयॊजनम् व्यासः । ऎतत् अपि च "मॆरुः यॊजनमात्रः" [गॊलपादः, ११] इति अस्याम् कारिकायाम् वक्ष्यामः । 

भृगु-गुरु-बुध-शनि-भौमाः । भृगुः च गुरुः च बुधः च शनिः च भौमः च भृगुगुरुबुधशनिभौमाः । अत्र अपि षष्ट्या निर्दॆशः युक्तः, भृगुगुरुबुधशनिभौमानाम् व्यासः इति । न ऎतत् अस्ति । यदा व्यतिरॆकः विवक्षितः तदा व्यतिरॆकलक्षणा षष्ठी भवति । यदा पुनर् व्यतिरॆकन् ऎव न विव्क्षितः तदा षष्ठी न उत्पद्यतॆ । तत् यथा कश्चित् कञ्चन ब्रवीति "आदित्यस्य बिम्बम् पश" इति । तदाबिम्बव्यतिरॆकॆण आदित्यः, आदित्यव्यतिरॆकण वा बिम्बम् निर्दिष्टम् भवति । यदा पुनर् अव्यतिरॆकविवक्षा तदा यत् ऎव बिम्बम् स ऎव आदित्यः ।न ईक्षॆत उद्यन्तम् आदित्यम् न अस्तम् यान्तम् कदाचन [मनुसृतिः, ४.३७] इति आदि । अत्र अपि अयम् ऎव । बिम्बाव्यतिरिक्ताः ग्रहाः निर्दिश्यन्तॆ । शशि-ङ-ञ-ण-न-म-अंशकाः । शशिव्यांसस्य अनन्तरॊक्तस्य ङ-ञ-ण-न-मांशकाः, ऎतॆ भृगु-गुरु-बुध-शनि-भौमाः । शशिव्यासस्य ङांशः भृगुः पञ्चभागः, ञांशः गुरुः दशभागः, णांशः बुधः पञ्चदशभागः, नांशः शनिः विंशतिभागः, मांशः भौमः पञ्चविंशतिभागः ।ऎतानि चन्द्रकक्ष्याप्रमाणपरिमाणानि ग्रहाणाम् व्यासयॊजनानि ।

अथ किम् इति स्वकक्ष्याप्रमाणसम्भवानि ऎव च यॊजनानि न उच्यन्तॆ? अयम् आचार्यस्य अभिप्रायः  यदि ग्रहाणाम् स्वकक्ष्यानिष्पन्नानि व्यासयॊजनानि अभिधीयन्तॆ तदा व्यासलिप्तानयनॆ स्वकक्ष्यॊत्पन्नाः स्फुटयॊजनकर्णाः भागहाराः स्युः, लम्बनदृक्क्षॆपलिप्तानयनॆ च । तथा ग्रहाणाम् मनाग् अपि लम्बनदृक्क्षॆपलिप्ताः न स्युः । दृश्यन्तॆ च तॆषाम् लम्बननतिविशॆषाः । तदर्थम् अत्र भागहाराः प्रदर्श्यन्तॆ । कथम्? शशि-ङ-ञ-ण-न-म-अंशकाः इति । शशिव्यासस्य यॊजनप्रमाणस्य लिप्तानयनॆ शशियॊजनकर्णः भागहारः । तॆन स भागहारः पञ्चादिभिः गुण्यतॆ । स तावत् छॆदः शशिव्यासः शुक्रादिव्यासः भवति ।

शुक्रस्य ३१५१७१८८५; गुरॊः ३१५३४३७७०; बुधस्य३१५५१५६५५; शनॆः३१५६८७५४०;भूतनयस्य३१५

८५९४२५; उपरिमांशः व्यासार्धॆन गुणितः छॆदॆन विभक्तः लिप्तागतः ग्रहव्यासः भवति मध्यमः । स्फुटार्थम् पुनर् यथा  स्वभूताराग्रहविवरॆण छॆदान् संगुणय्य व्यासार्धॆन विभजॆत्, स्फुटाः भवन्ति । तॆ ऎव ग्रहयॊगॆषु भूव्यासार्धगुणितस्य स्वदृग्गतॆः स्वदृक्क्षॆपस्य च भागहाराः, फलम् लम्बनावनतिलिप्ताः इति ।

चत्वारि मानानि वक्ष्यन्तॆ सौर-सावन-नाक्षत्र-चान्द्राणि । तत्र न ज्ञायतॆ कॆन मानॆन शास्त्रॆ अस्मिन् व्यवहारः कर्तव्यः इति अतः आह  समार्कसमाः । समाः वर्षम्, समाः अस्मिन् शास्त्रॆ अर्कसमाः । अर्कॆण वर्षॆण व्यवहर्तव्यम् अस्मिन् । अस्य ऎव निश्चयावगमनार्थम् वक्ष्यति "षष्ट्या सूर्याब्दानाम्" [कालक्रियापादः, १२] इति आदि । ऎवम् इदम् षष्ठम् गीतिकासूत्रम् ॥ ७ ॥


15. परमापक्रमः ग्रहविक्षॆपाः च 

ऎतॆ ग्रहाः स्वकक्ष्यासु भ्रमन्तः विषुवतॆ उत्तरॆण दक्षिणॆन च व्यावर्तमानाः लक्ष्यन्तॆ । तस्मात् तत्परिज्ञानार्थम् आह 

भापक्रमः ग्रहांशाः,

शशिविक्षॆपः अपमण्डलात् झार्धम् ।

शनि-गुरु-कुज ख-क-ग-अर्धम्,

भृगु-बुध ख, स्चांगुलः घहस्तः ना ॥ ८ ॥

भापक्रमः, ग्रहांशाः, शशिविक्षॆपः, अपमण्डलात्, झार्धम्, शनि-गुरु-कुज, ख-क-ग-अर्धम्, भृगु-बुध, ख स्चांगुलः, घतस्तः, ना ।

भ चतुर्विंशतिः । भ ऎव अपक्रमः भापक्रमः । प्राङ्मुख[गमनॆन] यद्दक्षिणॆन उत्तरॆण वा समरॆखातः अपगमनम् अपक्रमः । कॆषाम् अयम् अपक्रमः किमात्मकः वा चतुर्विंशतिः इति आह  ग्रहांशाः । ग्रहाणाम् आदित्यादीनाम् ऎतॆ अंशकाः राशॆः त्रिंशद्भागाः । समरॆखातः उत्तरॆण चतुर्विंशतिभागान् ग्रहः अपक्रामति मॆषवृषमिथुनॆषु क्रमॆण, तान् ऎव अपक्रमभागान् उत्क्रमॆण कर्कटकसिंहकन्यासु निवर्ततॆ; दक्षिणॆनतुलावृश्चिकधनुःषु [क्रमॆण] तान् ऎव उत्क्रमॆण मकरकुम्भमीनॆषु इति ।

अत्र ग्रहग्रहणम् किम् अर्थम् क्रियतॆ? ग्रहाणाम् सर्वॆषाम् ऎव ऎतॆ अपक्रमांशकाः यथा स्युः इति, अन्यथा हि कॆषाम् ऎव स्युः । न ऎतत् अस्ति । अत्र ग्रहाः प्रक्रान्ताः तॆषाम् प्रकृतत्वात् ग्रहाणाम् ऎव ऎतॆ अंशकाः न अन्यॆषाम् । अवश्यम् ग्रहग्रहणम् कर्तव्यम् । अपक्रममण्डलात् विक्षॆपांशाः उच्यन्तॆ । अपक्रममण्डलात् झार्धम् चन्द्रः विक्षिपति तथा शनिगुरुकुजभृगुबुधाः स्वान् भागान् विक्षिपन्ति । यस्मात् चन्द्रादीनाम् अपक्रममण्डलात् विक्षॆपभागाः अभिधीयन्तॆ अतः चन्द्रादीनाम् ऎव कॆवलानाम् अपक्रमभागाः अपि स्युः न आदित्यस्य । ग्रहग्रहणॆ पुनः क्रियमाणॆ सर्वॆषाम् ऎव अपक्रमभागाः सिद्ध्यन्ति इति ।

शशिविक्षॆपः अपमण्डलात् झार्धम् । शशिनः विक्षॆपः शशिविक्षॆपः । सः अपमण्डलात् । अप-मण्डलम् अपक्रममण्डलम्, तस्मात् अपक्रममण्डलात्, उत्तरॆण दक्षिणॆन वा चन्द्रस्य विक्षॆपः । विषुवन् मण्डलात् अपक्रमः उत्तरॆण दक्षिणॆन वा, अपक्रममण्डलम् [च], तस्मात् विक्षॆपः उत्तरॆण दक्षिणॆन वा । झार्धम्, झकारॆण नव, झस्य अर्धम् झार्धम्, अर्धॊनपञ्चभागाः चन्द्रमसः विक्षॆपः । तथा ऎव अपक्रममण्डलात् ऎव शॆषाणाम् अपि ग्रहाणाम् विक्षॆपाः ।

शनि-गुरु-कुज ख-क-गार्धम् । शनिगुरुकुजानाम् यथासंख्यॆन, शनॆः ख, द्वौ [भागौ] विक्षॆपः; गुरॊः क, ऎकः भागः; कुजस्य गार्धम्, गकारॆण त्रयः भागाः, गस्य अर्धम् गार्धम्, सार्धः अंशः । भृगु-बुध ख । भृगुबुधयॊः ख-संख्या विक्षॆपः द्वौ भागौ । अत्र "भृगुबुधशनीनाम् ख" इति उच्यमानॆ खकारग्रहणम् ऎकम् न कर्तव्यम् भवति, तत् किम् इति आचार्यॆण पृथक् पाठॆन द्विः खकारग्रहणम् कृतम्? उच्यतॆ  पृथक् पृथक् कर्मप्रदर्शनार्थम्; शनिगुरुकुजानाम् ऎकम् विक्षॆपकर्म भृगुबुधयॊः अन्यत्, तस्मात् ऎतत् कर्मद्वयम् इति पृथक् पृथक् पाठात् ऎव सिद्ध्यति ।

"नृषि यॊजनम्" इति अत्र पुरुषः ऎव कॆवलः अभिहितः । सः पुरुषः कत्यंगुलः, कतिहस्तः वा इति ऎतत् न उपदिष्टम् । तदर्थम् आह  स्चांगुलः । सकारॆण नवतिः, चकारॆण षट्, स्चांगुलः षण्णवत्यंगुलः । अंगुलस्य प्रमाणम् गणितपरिभाषातः प्रतिपत्तव्यम्  अष्टौ यवमध्यान्यंगुलप्रमाणम् इति आदि । घहस्तः चतुर्हस्तः । ना पुरुषः । ननु च "नृषियॊजनम्" इति अत्र ऎव ऎतत् वक्तुम् युक्तम् । ऎवम् मन्यन्तॆ । यथा इष्टग्रहयॊगॆषु अन्तरम् विक्षॆपलिप्ताः लभ्यन्तॆ ।अंगुलानि हस्तान् च कृत्वा ग्रहयॊः अन्तरम् अवधार्यम् इति । ऎवम् अपि विज्ञायतॆ ऎव कियतीभिः लिप्ताभिः अंगुलम् भवति इति । अत्र स्वधिया प्रतिदिनग्रहचारगणितनिपुणतया अभ्यूह्यम् । उद्दॆशतः तु स्वधिया उपलक्षितम् उच्यतॆ  यॊगॆ पादांगुलम् लिप्ता यथा वा लक्ष्यतॆ दृशा |[महाभास्करीयम्, ६.५५]इति । ऎवम् इदम् सप्तमम् गीतिकासूत्रम् ॥ ८ ॥


16. ग्रहॊच्चपातस्थानानि 

चन्द्रपातात् प्रवृत्तस्य चन्द्रमसॊः विक्षॆपः साध्यतॆ । अनिर्दिष्टत्वात् पातस्य, ग्रहाणाम् पुनः कस्मात् प्रभृति विक्षॆपाः साध्यन्तॆ ऎव इति ऎतत् न ज्ञायतॆ । अतः तॆषाम् पातभागानाम् मन्दॊच्चभागानाम् च प्रतिपादनाय आह 

बुध-भृगु-कुज-गुरु-शनि न-व-

रा-ष-ह गत्वा अंशकान् प्रथमपाताः ।

सवितुः अमीषाम् च तथा

द्वा-ञखि-सा-ह्दा-ह्ल्य-खिच्य मन्दॊच्चम् ॥ ९ ॥

बुध-भृगु-कुज-गुरु-शनि अविभक्तिकः निर्दॆशः, न-व-रा-ष-ह अयम् अपि अविभक्तिकः, गत्वा, अंशकान्, प्रथमपाताः, सवितुः, अमीषाम्, च, तथा, द्वा ञखि सा ह्दा ह्ल्य खिच्य ऎतानि अपि द्वादीनि अविभक्तिकानि, मन्दॊच्चम् ।

बुध-भृगु-कुज-गुरु[-शनि] अविभक्तिकम् ऎतत् ग्रहणकवाक्यम् । सूत्राणाम् सॊपसंस्कारत्वात् संस्कारम् अपॆक्षतॆ । कः अस्य संस्कारः? प्रक्रान्तद्यॊतिकया विभक्त्या संयॊगः, बुध-भृगु-कुज-गुरु-शनीनाम् इति । ऎतॆषाम् बुधादीनाम् "ना"दयः अंशाः । यथासंख्यॆन बुधस्य न विंशतिः, भृगॊः व षष्टिः, कुजस्य रा चत्वारिंशत्, गुरॊः ष अशीतिः, शनॆः ह शतम् । ऎतान् अंशकान् गत्वा, ऎतॆषाम् बुध-भृगु-कुज-गुरु-शनीनाम् प्रथमपाताः व्यवस्थिताः इति । प्रथमपातग्रहणम् द्वितीयपातनिराकरणार्थम् । यदि प्रथमपातग्रहणन् न क्रियतॆ तदा सामान्यॆन द्वयॊः अपि पातयॊः ग्रहणम् स्यात् । तथा च विक्षॆपादिग्रहणॆ निश्चयः न स्यात्, यस्मात् प्रथमपातात् उत्तरॆण ग्रहाणाम् विक्षॆपः भवति, द्वितीयात् पातात् दक्षिणॆन । उक्तम् च 

प्रथमात् पातात् शशिनः अपमण्डलस्य उत्तरॆण विक्षॆपः ।

विक्षॆपः दक्षिणतः पुनर् अपि पातात् द्वितीयात् च ॥

इति । ऎतॆ ऎव पाताः षड्राशियुताः द्वितीयपाताः भवन्ति । अत्र "गत्वा अंशकान् प्रथमपाताः" इति उच्यतॆ । यदि ग्रहपाताः चलन्ति तदा ऎवम् युक्तम् वक्तुम्  ऎतान् अंशकान् गत्वा प्रथमपाताः व्यवस्थिताः इति । बाढम् चलन्ति ऎतॆ ग्रहपाताः, अन्यथा हि अयम् निर्दॆशः ऎव न घ्हटतॆ "गत्वा अंशकान्" इति । यदि ऎतॆषाम् ग्रहपातानाम् [गतिः तर्हि] चन्द्रपातवत् युगभगणनिर्दॆशः किम् इति आचार्यॆण न क्रियतॆ ? अन्यत् च, यदि ऎतॆषाम् गतिः स्यात् ग्रहविक्षॆपाः न स्फुटाः भवॆयुः । 

अत्यन्तसूक्ष्मा ऎषाम् गतिः, महता कालॆन कियती उपचीयतॆ, ततः स्तॊकत्वात् अन्तरस्य विक्षॆपाः स्फुटाः ऎव लक्ष्यन्तॆ । आचार्यॆण गतिमत्वम् पातानात् निर्दॆशता तॆषाम् गतिः अपि निर्दिष्टा ऎव "यस्मात् इंगितॆन, चॆष्टितॆन, निमिषितॆन, महता वा सूत्रप्रबन्धॆन च, आचार्याणाम् अभिप्रायः गम्यतॆ" । तस्मात् अनॆन ऎव सूत्रबन्धॆन ग्रहपातानाम् गतिमत्वम् उपदिषता तॆषाम् युगभगणान् मुक्तकात् ऎव निर्दिष्टवान्, अन्यथा हि तॆषाम् गतिमत्वनिर्दॆशः अनर्थकः स्यात् । सम्प्रदायाविच्छॆदात् स्मरन्ति वृद्धाः तत् युगभगणम् । तत् यथा 

वस्वब्धियमाश्विखबाणाद्रीषुहुताशनः युगाब्दगणः ।

पातानाम् शतगुणितः मुक्तककथितम् किल आर्यॆण ॥

ऎकत्रिद्विचतुरिषून् क्रमशः भगणान् प्रयान्ति सर्वॆषाम् ।

कल्पादॆः गतकालात् गणनीयम् अतः गतिः तॆषाम् ॥

तदानयनम् इदानीम्  कल्पादॆः अब्दनिरॊधात् अयम् अब्दराशिः इति ईरितः खाग्न्यद्रिरामार्करसवसुरन्ध्रॆन्दवः । तॆ च अंकैः अपि १९८६१२३७३० । अस्मिन् बुधादिपातभगणगुणितॆ स्वयुगविभक्तॆ भगणादयः पातभॊगाः लभ्यन्तॆ । पातयुगप्रमाणम् सर्वॆषाम् ऎव "खाकाशाष्टकृतद्विद्विव्यॊमॆष्वद्रीषुवह्नयः" अंकैः अपि ३५७५०२२४८०० । ऎतैः युगवर्षैः बुधस्य पातः भगणम् ऎकम् भुंक्तॆ, शुक्रस्य त्रीणि, कुजस्य द्वौ, गुरॊः चत्वारः, शनिपातः

पञ्च । ऎतॆषाम् यथास्वम् लब्धाः पातभागाः यथापठिताः, ऎतत् ऎव गुरुशनैः चरयॊः ऎका तत्परा [च] लभ्यतॆ ।

अयम् अपरः प्रकारः  बुध-भृगु-कुज-गुरु-शनि । प्रथमाबहुवचनसंस्कृतम् इदम् ग्रहणकवाक्यम् व्याख्यायतॆ बुध-भृगु-कुज-गुरु-शनयः । न-व-रा-ष-ह इति ऎतान् अंशकान् मॆषादिपरमाणॊः प्रभृति गत्वा प्रथमपातॆषु व्यवस्थिताः इति अर्थः । अत्र "तात्स्थ्यात् ताच्छाब्द्यम्", यथा "मञ्चाः क्रॊशन्ति", मञ्चस्थॆषु क्रॊशत्सु मञ्चाः क्रॊशन्ति इति उच्यतॆ । ऎवम् अत्र अपि प्रथमपातव्यवस्थितान् ऎव ग्रहान् प्रथमपातः इति उक्तवान् । तदा तावन्तः ऎव भागाः, न ऎतॆ चलन्ति । 

यदि अपि कैश्चित् ऎषाम् गतिः उच्यतॆ तथा अपि अस्माकम् नादरः, यॆन अतिमहता अपि कालॆन मनाग् अपि अन्तरम् न भवति, यतः कलियुगान्तॆ शनैः चरपातस्य तिस्रः लिप्ताः, न किञ्चित् अन्तरम् । कलियुगॆ च परिसमाप्तॆ सर्वम् ऎव जगत् प्रलीयतॆ, प्रलीनॆ च जगति पुनर् अन्या सृष्टिः जायतॆ, तत्र न जानीमः किम् भविष्यति इति । अथ च अन्तरॆ नॆ किञ्चित् अन्तरम्, न कश्चित् विशॆषः । यत् अपि उक्तम् आचार्यॆण तत् शास्त्रभावप्रक्रियासम्प्रदायाविच्छॆदप्रदर्शनार्थम् । अन्यथा हि अनन्तत्वात् कालस्य गतिः ऎषाम् अल्पा अपि उपचीयमाना महती सञ्जायतॆ । सा च अन्यथा न प्रतिपत्तुम् शक्यतॆ इति पातयुगभगणनिर्दॆशः ।

सवितुः अमीषाम् च । सवितुः आदित्यस्य, अमीषाम् च ग्रहाणाम् बुधभृगुकुजगुरुशनीनाम् मन्दॊच्चभागाः, कॆन ऎव प्रकारॆण सवितुः द्वा अष्टसप्ततिभागाः, बुधस्य ञखि शतद्वयम् दशॊत्तरम्, भृगॊः सा नवतिः, कुजस्य ह्दा शतम् अष्टादशॊत्तरम्, गुरॊः ह्ल्य साशीतिकम् शतम्, शनॆः खिच्य शतद्वयम् षट्त्रिंशदुत्तरम् मन्दॊच्चम् । ऎतॆ भागाः ऎषाम् ग्रहाणाम् पृथक् पृथक् मन्दॊच्चम् । मन्दॊच्चानाम् बहुत्वात् मन्दॊच्चानि इति भवितव्यम् । न ऎतत् अस्ति । सामान्यॊपक्रमः अत्र कृतः, यथा  "रक्षॊहागमलघ्वसन्दॆहाः प्रयॊजनम्" [अष्टाध्यायी, १.१.१., पातञ्जलभाष्यम्] इति, ऎवम् अत्र अपि "द्वा ञखि सा ह्दा ह्ल्य खिच्य मन्दॊच्चम्" ।

अत्र शीघ्रॊच्चम् मन्दॊच्चम् इति । यस्य शीघ्रा गतिः तत् शीघ्रॊच्चम्, यस्य पुनर् गतिः ऎव न अस्ति तत् मन्दॊच्चम् इति । कथम्? उच्यतॆ । लॊकॆ  "शीघ्रः दॆवदत्तः" यः हि क्षिप्रतरम् गच्छति स शीघ्रः, "मन्दः यज्ञदत्तः" इति यः हि मन्दतरम् गच्छति स मन्दः । ऎवम् अत्र अपि यस्य अतिशीघ्रगतिः ग्रहगतॆः तत् शीघ्रॊच्चम् । यस्य पुनर् ग्रहगतॆः अल्पीयसी गतिः [तत् मन्दॊच्चम्] । ऎवम् ग्रहाणाम् अपि युक्तम् ऎव ऎतत् ।

अथ किम् इति मन्दॊच्चगतिः न अभिहिता? उच्यतॆ  सूक्ष्मत्वात् आचार्यस्य न अत्र आदरः, महता अपि कालॆन न किञ्चित् ऎव अन्तरम् भवति । अपि च मुक्तकॆन ऎव आचार्यॆण अभिहितम् इति सम्प्रदायाविच्छॆदात् अवधार्यतॆ । अथवा गत्वा अंशकान् सवित्रादीनाम् मन्दॊच्चानि व्यवस्थितानि इति व्याख्यायतॆ । अन्यथा हि "तथा"-शब्दः सार्थकः न स्यात् । यथा बुधादीनाम् प्रथमपाताः "ना"दीन् अंशकान् गत्वा व्यवस्थिताः, ऎवम् ऎतॆषाम् सवित्रादीनाम् मन्दॊच्चानि "द्वा"दीन् अंशकान् गत्वा व्यवस्थितानि इति । तॆषाम् च मन्दॊच्चानाम् अत्यन्तसूक्ष्मत्वात् वर्षगणॆन ऎव आचार्यॆण यत् आख्यातम् तत् ऎव अव्यवच्छिन्नसम्प्रदायप्रतिपत्त्या अभिधीयतॆ । तत् यथा 

अष्टिकृताद्र्यष्टिनवाजैः उच्चयुगम् तिग्मदीधितॆः उक्तम् ।

दशघनगुणितैः अब्दैः विश्वान् भुंक्तॆ क्रमात् भगणान् ॥

दन्ताष्टाब्ध्यग्निगुणाष्टरामयमलाः युगम् भवति अब्धाः ।

शतगुणिताः शशिजस्य प्राहुः भगणान् च सप्त ऎव ॥

व्यॊमाम्बरवॆदकृतच्छिद्राब्धिकृताब्धिनन्दशैलाब्दाः ।

शुक्रस्य अर्धम् सूरॆः भगणः भॊगः तयॊः ऎकः ॥

व्यॊमाम्बरशून्यकृताश्विरुद्रशरशैलवसुमुनीन्दुसमाः ।

असितॊच्चयुगम् कौजम् द्विगुणन् भग[णा]नवॆषवस्तु तयॊः ॥

कल्पादिकालगणिता मन्दॊच्चानाम् भवन्ति या गतयः ।

"गत्वा"शब्दात् ऎतत् व्याख्याता भास्करॆण अत्र ॥

तत् यथा  मन्दॊच्चानयनम् प्रत्यॆतॆषाम् कल्पादॆः अब्दनिरॊधात् गतकालः खाग्न्यद्रिरामार्करसवसुरन्ध्रॆन्दवः, तॆ च १९८६१२३७३० । ऎतॆषु वर्षॆषु यथास्वम् मन्दॊच्चभगणगुणितॆषु स्वयुगाब्दविभक्तॆषु रव्यादीनाम् मन्दॊच्चानाम् राशिभागादयः लभ्यन्तॆ । ऎतॆषाम् अपि कलियुगान्तॆ अपि अल्पम् अन्तरम्, यतः च शनैः चरस्य अपि सप्तमात्रा लिप्ता मन्दॊच्चस्य उपचयः, न कश्चित् फलविशॆषः । यथा अपि तु शास्त्रसम्प्रदायाविच्छित्तिकथनॆ ग्रहपातॆषु उक्तम्

तत् अत्र अपि अवधारणीयम् इति । ऎवम् इदम् अष्टमम् गीतिकासूत्रम् ॥ ९ ॥


17. ऒजपदयॊः मन्दशीघ्रपरिधयः 

मन्दशीघ्रॊच्चपरिधिप्रमाणप्रतिपादनाय आह 

झार्धानि मन्दवृत्तम्

शशिनः छ, ग-छ-घ-ढ-छ-झ यथा उक्तॆभ्यः ।

झा-ग्ड-ग्ला-र्ध-द्ड तथा

शनि-गुरु-कुज-भृगु-बुधॊच्चशीघ्रॆभ्यः ॥ १० ॥

झार्धानि, मन्दवृत्तम्, शशिनः, छ ग छ घ ढ छ झ ऎतॆ छादयः अविभक्तिकनिर्दॆशाः, यथा उक्तॆभ्यः, झा-ग्ड-ग्ला-र्ध-द्ड अविभक्तिकः निर्दॆशः, तथा शनि-गुरु-कुज-भृगु-बुधॊच्चशीघ्रॆभ्यः ।

झार्धानि । झस्य अर्धानि झार्धानि । वक्ष्यमाणानि मन्दशीघ्रॊच्चवृत्तानि झार्धप्रमाणानि प्रतिपत्तव्यानि । मन्दवृत्तम् इति ऎकवचननिर्दॆशः । "प्रत्यॆकम् वाक्यपरिसमाप्तिः" [अष्टाध्यायी, १.१.१, पातञ्जलभाष्यम्] इति अनॆन न्यायॆन मन्दवृत्तम् शशिनः छ, सप्त झार्धानि, सार्धैकत्रिंशत् भागाः; यथा उक्तॆभ्यः मन्दॊच्चभागविधानक्रमॆण सवितृ-बुध-भृगु-कुज-गुरु-शनयः परिगृह्यन्तॆ । सवितुः ग, त्रीणि झार्धानि, सार्धत्रयॊदशभागाः । बुधस्य छ, सप्त झार्धानि, सार्धैकत्रिंशद्भागाः । भृगॊः घ, चत्वारि झार्धानि, अष्टादशभागाः । कुजस्य ढ, चतुर्दश झार्धानि, त्रिषष्टिभागाः । गुरॊः छ, सप्त झार्धानि, सार्धैकत्रिंशद्भागाः । शनॆः झ, नव झार्धानि, सार्धचत्वारिंशद्भागाः । यथा उक्तॆभ्यः यथा उक्तम् यथॊक्तम्, तॆभ्यः यथा उक्तॆभ्यः । सवित्रादीनाम् च मन्दॊच्चॆभ्यः । ननु च अत्र सम्बन्धलक्षणया षष्ठ्या भवितव्यम्, यथा उक्तानाम् इति । न ऎतत् अस्ति । यथा उक्तॆभ्यः इति अनया पञ्चम्या मन्दॊच्चविशुद्धॆभ्यः राशिभ्यः मन्दॊच्चात् अधिकॆभ्यः राशिभ्यः वा राश्यादिभ्यः ज्याविभागॆन ऎतॆ परिधयः गुणकाराः । यथा उक्तॆभ्यः इति अनॆन ऎव वचनॆन मन्दॊच्चम् ग्रहमध्यात् पात्यतॆ, परिशिष्टस्य ज्यासंकलनाय त्रैराशिकम् क्रियतॆ । परिधिसंस्कारकरणम् च त्रैराशिकप्रसिद्ध्यर्थम् । यद्य् अस्य षष्टिशतत्रयपरिधॆः इयम् ज्या ततः अभीष्टग्रहपरिधॆः का ज्या लभ्यतॆ । सा ऎव ज्या भुजाफलम् कॊटिफलम् च इति अभिधीयतॆ

। तत्र झार्धॆन अपवर्त्य षष्टिशतत्रयपरिधिम् यथा उक्ताः च ग्रहपरिधयः झार्धापवर्तिताः । तॆन गुणकारभागहारयॊः झार्धापवर्तितयॊः कर्मणि क्रियमाणॆ इष्टज्यायाः अशीतिः भागहारः यथॊक्ताक्षरसंख्यापरिधयः गुणकाराः ।

शीघ्रॊच्चपरिधयः  झा, नव झार्धानि, चत्वारिंशत् सार्धाः भागाः शनॆः । ग्ड, षॊडश झार्धानि, द्वासप्ततिभागाः गुरॊः । ग्ला, त्रिपञ्चाशत् झार्धानि, शतद्वयम् अष्टत्रिंशदुत्तरम् सार्धम् भागानाम् कुजस्य । र्ध, ऎकॊनषष्टिः झार्धानि, पञ्चषष्त्यधिकशतद्वयम् सार्धम् भागानाम् भृगॊः । द्ड ऎकत्रिंशत् झार्धानि, ऎकॊनचत्वारिंशदुत्तरम् शतम् सार्धम् भागानाम् बुधस्य । शनि-गुरु-कुज-भृगु-बुधॊच्चशीघ्रॆभ्यः । शनि-गुरु-कुज-भृगु-बुधानाम् उच्चशीघ्राः तॆभ्यः शनि-गुरु-कुज-भृगु-बुधॊच्चशीघ्रॆभ्यः । 

शीघ्रॊच्चॆभ्यः इति वक्तव्यॆ उच्चशीघ्रॆभ्यः इति विपरीतनिर्दॆशम् कुर्वन् आचार्यः ज्ञापयति  शीघ्रॊच्चात् ग्रहः शॊध्यतॆ इति । तस्मात् शुद्धशॆषात् ज्या उत्पाद्यन्तॆ । ताभिः त्रैराशिकम् पूर्ववत् । पूर्वम् आचार्यॆण मन्दक्रमॆण ग्रहाः निर्दिष्टाः । शशी सर्वॆभ्यः शीघ्रः लक्ष्यतॆ, तस्मात् मन्दः सविता, ततः मन्दः बुधः, तथा उत्तरम् भृगु-कुज-गुरु-शनयः । अयम् पुनर् शीघ्रक्रमः, शनि-गुरु-कुज-भृगु-बुधाः इति । ऎतॆ शन्यादयः यथा उत्तरम् शीघ्राः । ऎवम् इदम् नवमम् गीतिकासूत्रम् ॥ १० ॥


18. युग्मपदयॊः मन्दशीघ्रपरिधयः 

ऎतॆभ्यः ऎव मन्दशीघ्रॆभ्यः द्वितीयचतुर्थपदपरिधिप्रमाणपरिज्ञानाय आह 

मन्दात् ङ-ख-द-ज-डा

वक्रिणाम् द्वितीयॆ पदॆ चतुर्थॆ च ।

जा-ण-क्ल-छ्ल-झ्न उच्चात्

शीघ्रात्, गियिंश कुवायुकक्ष्या अन्त्या ॥ १० ॥

मन्दात्, ङ ख द ज डा इति ऎतानि अविभक्तिकानि, वक्रिणाम्, द्वितीयॆ, पदॆ, चतुर्थॆ, च, जा ण क्ल छ्ल झ्न ऎतानि अविभक्तिकानि, उच्चात्, शीघ्रात्, गियिंश अविभक्तिकः, कुवायुकक्ष्या, अन्त्या ।

मन्दात् । तथा ऎव मन्दॊच्चविशुद्धात् राश्यादिकात् उत्पन्नायाः ज्यायाः ऎतॆ परिधिसंज्ञिताः गुणकाराः । तथा ऎव झार्धप्रमाणपरिमिताः  बुधस्य ङ, पञ्च झार्धानि, द्वाविंशतिस्सार्धभागाः, भृगॊः ख, द्वॆ झार्धॆ, नव भागाः । कुजस्य द, अष्टादश झार्धानि, ऎकाशीतिभागाः । गुरॊः ज, अष्टौ झार्धानि, षट्त्रिंशद्भागाः । शनॆः डा, त्रयॊदश झार्धानि, अष्टपञ्चाशत् सार्धभागाः ।

वक्रिणाम् द्वितीयॆ पदॆ चतुर्थॆ च । वक्रम् यॆषाम् तॆ वक्रिणः । वक्रिणः इति अनॆन शशिसवित्रॊः अग्रहणम्, यॆन तयॊः वक्रा गतिः न अस्ति । वक्रिणः च बुध-भृगु-कुज-गुरु-शनयः । तॆषाम् ऎतॆ परिधयः । द्वितीयॆ पदॆ चतुर्थॆ च । यॆ पूर्वाभिहिताः परिधयः तॆ उत्सर्गॆण चतुर्षु पदॆषु प्राप्ताः । तॆषाम् द्वितीयचतुर्थयॊः पदयॊः ऎतॆ परिधयः अपवादॆन अभिधीयन्तॆ । द्वितीयचतुर्थपादव्यतिरॆकॆण पूर्वॊक्तपरिधीनाम् विषयः । चकारः द्वितीयॆषु च चतुर्थॆषु च इति ऎतत् अर्थम् समुच्चिनॊति ।

अथवा  वक्रिणाम् द्वितीयॆ पदॆ । ऎतॆ बुधादयः ग्रहाः द्वितीयॆ पदॆ वक्रिणः भवन्ति । वक्राम् गतिम् चरन्ति इति अर्थः । ननु च मन्दग्रहणानन्तरम् द्वितीयॆ पदॆ वक्रिणः इति उच्यन्तॆ, तॆन मन्दॊच्चस्य द्वितीयपदॆ वक्रपरिज्ञानम् प्राप्नॊति, तत् च न इष्यतॆ । न ऎतत् अस्ति । वक्रिणः द्वितीयॆ पदॆ बुधादयः इति सामान्यॆन उच्यतॆ । "सामान्यचॊदनाः च विशॆषॆ अवतिष्ठन्तॆ " इति विशॆषॆ अवस्थाप्यतॆ । कः च विशॆषः ? शीघ्रॊच्चद्वितीयपदॆ ऎतॆषाम् बुधादीनाम्

वक्रपरिज्ञानम् इति अयम् विशॆषः । उक्तम् च मन्दॊच्चात् अनुलॊमम् प्रतिलॊमम् च ऎव शीघ्रॊच्चात् ।

[गॊल, १७] इति । चतुर्हॆ च । ऎतॆ परिधयः द्वितीयॆ चतुर्थॆ च पदॆ गुणकाराः । द्वितीयॆ ऎव पदॆ वक्रपरिज्ञानम् अन्यत्र अपि 

प्रथमॆ दृश्यविधानम् द्वितीयपदगाः तु वक्रगाः सर्वॆ ।

अनुवक्रगाः तृतीयॆ पदॆ चतुर्थॆ अस्तम् उपयान्ति ॥ इति ।

जा ण क्ल छ्ल झ्न । शीघ्रॊच्चात् द्वितीयचतुर्थयॊः पदयॊः परिधयः । शनॆः जा, अष्टौ झार्धानि, षट्त्रिंशद्भागाः । गुरॊः ण, पञ्चदश झार्धानि, सप्तषष्टिः सार्धभागाः । कुजस्य क्ल, ऎकपञ्चाशत् झार्धानि, अर्धॊनकम् त्रिंशदुत्तरम् शतद्वयम् भागानाम् । भृगॊः छ्ल, सप्तपञ्चाशज्झार्धानि, सार्धम् षट्पञ्चाशदुत्तरम् शतद्वयम् भागानाम् । बुधस्य झ्न, ऎकॊनविंशज्झार्धानि त्रिंशदुत्तरम् शतम् सार्धम् भागानाम् ।

उच्चात् शीघ्रात् । अत्र अपि शीघ्रॊच्चात् इति वक्तव्यॆ उच्चात् शीघ्रात् इति विपरीतग्रहणम् कुर्वन्नाच्चार्यः ज्ञापयति  शीघ्रॊच्चात् ग्रहः शॊध्यतॆ इति । पदचतुष्टयग्रहणात् च कर्मचतुष्टयम्  प्रथमम् मन्दॊच्चकर्म, तदनन्तरम् शीघ्रकर्म, पुनर् मन्दकर्म, तदनन्तरम् शीघ्रकर्म । ततः ग्रहस्फुटः लभ्यतॆ । रविचन्द्रयॊः ऎकपरिधिनिर्दॆशात् ऎकम् ऎव कर्म ।

अथ कश्चित् ज्यारहितम् कर्म कर्तुम् इच्छति, तदर्थम् आह  गियिंश कुवायुकक्ष्यान्त्या । त्रयस्त्रिंशच्छतानि पञ्चसप्तत्यधिकानि [३३७५] कुवायुकक्ष्याप्रमाणम् । कुः भूः, कुवायुः भूसम्बन्धी वायुः, तस्य इयम् अन्त्या कक्ष्या । ऎतावतः वायुकक्ष्यापरिच्छिन्नाकाशप्रदॆशात् परतः नियतः वायुः यॆन नियतगतिना प्रवहॆण ज्यॊतिश्चक्रम् इदम् भ्राम्यतॆ । कुवायुकक्ष्याप्रमाणपरिच्छिन्नात् आकाशप्रदॆशात् आरादनियताः वायवः इतः ततः परिभ्रमन्ति।

कुवायुकक्ष्यायाः ग्रहकर्म  यॆ अभीष्टाः भागाः तान् चक्रार्धभागॆभ्यः विशॊध्य शॆषम् तैः ऎव अभीष्टभागैः गुणितम् प्रतिराश्य ऎकम् कुवायुकक्ष्यायाः द्वादशगुणितायाः शॊध्यतॆ, ततः शॆषस्य यः चतुर्थॊंशः स भागहारः । यत् प्रतिराशितम् तत् अन्त्यफलॆन गुणितम् भागहारॆण विभजॆत् । लब्धम् अभीष्टफलम् । उक्तम् च अस्माभिः कर्मनिबन्धॆ 

मख्यादिरहितम् कर्म कथ्यतॆ तत्समासतः ।

चक्रार्धांशकससूहात् विशॊध्याः यॆ भुजांशकाः ॥

तच्छॆशगुणिताः द्विष्ठाः शॊध्याः खखॆषुखाब्धितः ।

शॆषस्य चतुर्थांशॆन द्विष्ठम् अन्त्यफलाहतम् ॥

बाहुकॊट्यॊः फलम् कृत्स्नम् क्रमॊत्क्रमगुणस्य वा ।

[ महाभास्करीयम्, ७.१७-१९ ]

इति दशमम् गीतिकासूत्रम् ॥ ११ ॥


19. चतुर्विंशतिज्यार्धानि 

अत्र अशॆषग्रहकर्म, तत् च ज्याप्रतिबन्धम् इति अतः ज्यादर्शनार्थम् आह 

मखि भखि फखि धखि णखि ञखि

ङखि हस्झ स्ककि किष्ग श्घकि किघ्व ।

घ्लकि किग्र हक्य धकि किच

स्ग झशंव क्ल प्त फ छ कलार्धज्याः ॥ १२ ॥

"मखि"आदयः निगदॆन ऎव व्याख्याताः । कलार्धज्याः । कलाः च ताः अर्धज्याः च कलार्धज्याः । ऎताः ज्याः लिप्ताप्रमाणपरिमिताः । अर्धज्याभिः यतः शास्त्रव्यवहारः तॆन अर्धज्या ऎव उक्ता ॥ १२ ॥


20. दशगीतिकासूत्रपरिज्ञानफलम् 

दशगीतिकासूत्रपरिज्ञानफलप्रदर्शनाय आह 

दशगीतिकसूत्रम् इदम्

भूग्रहचरितम् भपञ्जरॆ ज्ञात्वा ।

ग्रहभगणपरिभ्रमणम्

स याति भित्त्वा परम् ब्रह्म ॥ १३॥

अत्र परिभाषागीतिकाः दशगीतिकाः गृह्यन्तॆ । ऎतत् दशगीतिकसूत्रम् भूग्रहचरितम् । भुवि लॊकॆ । ग्रहाणाम् चरितनिबन्धनत्वात् ऎतत् ऎव दशगीतिकसूत्रम् ग्रहचरितम्, ग्रहचरितहॆतुत्वात् वा यथासुखम् कृतम् इति । भुवि ग्रहचरितम् भूग्रहचरितम् । न अन्यलॊकॆ ग्रहचरितनिबन्धनम् अस्ति यतः दशगीतिकसूत्रम् तॆन उच्यतॆ भूग्रहचरितम् । भपञ्जरॆ ज्ञात्वा । भपञ्जरः गॊलः, तस्मिन् गॊलॆ तत् ग्रहचरितम् ज्ञात्वा, अवगम्य, ग्रहाणाम् स्फुटगतॆः प्रतिपत्तिहॆतुः यतः गॊलः, ऎतत् ग्रहाणाम् भानाम् च परिभ्रमणमार्गम् भित्त्वा परम् ब्रह्म याति । यः गॊलॆ समग्रम् दशगीतिकसूत्रप्रतिबद्धम् ग्रहचरितम् जानाति स परम् ब्रह्म याति इति ॥ १३ ॥

दशगीतिकसूत्रर्था व्याख्याता भास्करॆण मन्दधियाम् ।

प्रतिपत्तयॆ प्रकामम् सर्वः हि समानभूतयॆ यततॆ ॥

इति भास्करस्य कृतौ

दशगीतिकासूत्रव्याख्या परिसमाप्ता ॥





गणितपादः 2

21. [मंगलाचरणम् 

यन्नामसंस्मरणमात्रभवाभवानि

श्रॆयः ’शुभानि विबुधासुरमानवानाम् ।

तस्मै सकृष्णकमलॊद्भवमौलिघृष्ट-

पादारविन्दयुगलाय नमः शिवाय ॥ १ ॥

आचार्यार्यभटः तपॊभिः अमलैः आराध्य पद्मॊद्भवम्

यत् लॆभॆ ग्रहचारसारविषयम् बीजम् महार्थम् स्फुटम् ।

तस्य अतीन्द्रियगॊचरार्थनिपुणस्पष्टॊरुसद्वस्तुनः

व्याख्यानम् गुरुपादलब्धम् अधुना किञ्चित् मया लिख्यतॆ ॥२ ॥


22. प्रतिपाद्यवस्तुनिर्दॆशः 

अथ आचार्यार्यभटमुखारविन्दविनिस्सृतम् पदार्थत्रयम्  गणितम्, कालक्रिया, गॊलः इति यत् ऎतत् गणितम् तत् द्विविधम् चतुर्षु सन्निविष्टम् । वृद्धिः हि अपचयः च इति द्विविधम् । वृद्धिः संयॊगः, अपचयः ह्रासः । ऎताभ्याम् भॆदाभ्याम् अशॆषगणितम् व्याप्तम् । आह च 

संयॊगभॆदा गुणनागतानि शुद्धॆः च भागः गतमूलमुक्तम् ।

व्याप्तम् समीक्ष्य उपचयक्षयाभ्याम् विद्यात् इदम् द्व्यात्मकम् ऎव शास्त्रम् ॥

संयॊगस्य वृद्धॆः, भॆदाः गुणनागतानि । तानि च  असदृषयः राश्यॊः अभ्यासः गुणना, यथा चतुर्णाम् पञ्चानाम् च विंशतिः । गतम् सदृशाभ्यासः वर्गः घनः च । द्विगतम् वर्गः, यथा चतुर्णाम् चतुर्णाम् च षॊडश । ऎवम् त्रिगतम् घनः, यथा चतुर्णाम् चतुर्णाम् चतुर्णाञ् च चतुष्षष्टिः । "शुद्धॆः च" इति अत्र यॊगार्थम् चकारः पठ्यतॆ । तॆन श्रॆढीकुट्टाकारादिषु लॊकॆ च अनियतस्वरूपवृद्धिः सा च परिगृहीता भवति । शुद्धॆः च भागः

गतमूलमुक्तम् । शुद्धॆः अपचयस्य भॆदः भागः, गतानाम् मूलानि च । अत्र अपि श्रॆढीकुट्टाकारादि[षु] लॊकॆ च अनियतस्वरूपः अपचयः चकारात् ऎव परिगृह्यतॆ । ऎवम् शास्त्रॆ, लॊकॆ च न सः अस्ति गणितप्रकारः यः अयम् वृद्ध्यात्मकः अपचयात्मकः वा न भवति ।

यदि ऎवम् अत्र कथम् प्रक्रिया परिकल्पनीया? यत्र चतुर्भागः पञ्चभागॆन गुणितः जातः विंशतिभागः । इयम् च गुणना संयॊगस्य भॆदः उच्यतॆ । स च अयम् शुद्धॆः भॆदः आपतितः । यत्र चतुर्भागॆन विंशतिभागस्य भागः, तत्र दृष्टः पञ्चभागः । ऎवम् अयम् शुद्धॆः भॆदः संयॊगभॆदः आपतितः । उभयत्र परिगारः उच्यतॆ  [ ऎकायाम् अविस्तारॆ चतुरश्रक्षॆत्रॆ विंशत्यायातचतुरश्रक्षॆत्राणि । ] तत्र ऎकस्य आयामः पञ्चभागः, विस्तारः

चतुर्भागः । तयॊः अभ्यासः फलम् क्षॆत्रस्य विंशतिभागः । विंशतिभागस्य चतुर्भागः पञ्चभागः इति न दॊषः । ऎवम् क्षॆत्रगणितॆ परिहारः । राशिगणितॆ परिहारार्थम् यत्नः करणीयः । अपरः आह  "गणितम् राशिक्षॆत्रम् द्विधा" । ऎवम् करणीपरिकर्म  कर्णभुजयॊः समत्वम् करॊति यस्मात् ततः करणी ।


23. गणितम् द्विप्रकारम्  

 गणितम् द्विप्रकारम्  राशिगणितम् क्षॆत्रगणितम् । अनुपातकुट्टाकारादयः गणितविशॆषाः राशिगणितॆ अभिहिताः, श्रॆढीच्छायादयः क्षॆत्रगणितॆ । तत् ऎवम् राश्याश्रितम् क्षॆत्राश्रितम् वा अशॆषम् गणितम् । यत् ऎतत् करणीपरिकर्म तत् क्षॆत्रगणितॆ ऎव । यदि अपि अन्यत्रॆ करणीपरिकर्म, तथा अपि तस्य न कर्णबुजाकॊटिप्रतिपादकत्वम् इति न दॊषः । ऎतत् च करणीपरिकर्मत्वम् यत्कर्णादिप्रतिपादकत्वम् । चतुर्षु सन्निविष्टम्, चत्वारि बीजानि, तॆषु सन्निविष्टाम्

। उक्तम् गणितम् । कालक्रियागॊलौ तत्र तत्र ऎव उपदॆक्ष्यामः ।

अत्र आचार्यार्यभटः शास्त्रम् आरभमाणः चॆतसि इष्टदॆवताप्रणामः हि भक्त्या प्रयुक्तः 

ब्रह्म-कु-शशि-बुध-भृगु-रवि-

कुज-गुरु-कॊण-भगणान् नमस्कृत्य ।

आर्यभटः तु इह निगदति

कुसुमपुरॆ अभ्यर्चितम् ज्ञानम् ॥ १ ॥

ब्रह्मा अस्य इष्टदॆवता । इष्टदॆवताप्रणामः हि भक्त्या प्रयुक्तः स्वाभिः लाषतॆष्टकार्यविघातिनः विघ्नान् विनिहन्ति । अथवा दॆवासुरमुकुटमणिमयूखमालालंकृतचरणत्वात् सर्वासाम् दॆवतानाम् प्रधानतमः ब्रह्मा, अतः तस्य आदौ नमस्क्रियाम् कृतवान् आचार्यः । अथवा आचार्यॆण स्वायंभुवसिद्धान्तसंक्षॆपवस्तुरचना प्रस्तुता, स्वायंभुवसिद्धान्तस्य च विधाता भगवान् वॆधाः, ततः अस्य युज्यतॆ प्रथमम् प्रणामः तम् कर्तुम्

। अक्षदॆशान्तरायत्ता ग्रहगतिः, तौ च अक्षदॆशान्तरविशॆषौ भूवशात् इति तत् अनन्तरम् नमस्कृतवान् भुवम् । शश्यादीन् उपरि उपरि अवस्थितान् तद्गतिनिबन्धनत्वात् शास्त्रस्य इति नमस्कृतवान् । ब्रह्मा च कुः च शशी च बुधः च भृगुः च रविः च कुजः च गुरुः च कॊणः च भगणाः च ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कॊण-भगणाः । अतः तान् ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कॊण-भगणान्, नमस्कृत्य प्रणम्य इति अर्थः । भानि ज्यॊतींषि

अश्विन्यादीनि, तॆषाम् गणः भगणः । यत् अत्र शश्यादीनाम् उपरि उपरि अवस्थानॆ वक्तव्यम् तत् कालक्रियापादॆ वक्ष्यामः । आर्यभटः इति स्वसंज्ञाभिधानॆन अन्याः स्वायंभुवसिद्धान्तानुसारिण्यः कृतयः सन्ति इति ऎतत् प्रदर्शयति । तॆन बहुत्वात् स्वायांभुवसिद्धान्तानुसारिणीनाम् कृतीनाम् कॆन इयम् कृतिः कृता इति न ज्ञायतॆ । अतः स्वसंज्ञाभिधानम् । यथा "कौटिल्यॆन कृतम् शास्त्रम्" इति [अर्थशास्त्रम्, १.१.१९] । "तु"-शब्दः पादपूरणॆ । ["इह"-शब्दः] अस्य पुरम्

प्रदर्शयति । निगदति ब्रवीति । कुसुमपुरॆ अभ्यर्चितम् ज्ञानम् । कुसुमपुरम् पाटलिपुत्रम्, तत्र अभ्यर्चितम् ज्ञानम् निगदति । ऎवम् अनुश्रूयतॆ  अयम् किल स्वायंभुवसिद्धान्तः कुसुमपुरनिवासिभिः कृतिभिः पूजितः, सत्सु अपि पौलिश-रॊमक-वासिष्ठ-सौर्यॆषु । तॆन आह  "कुसुमपुरॆ अभ्यर्चितम् ज्ञानम्" इति ॥ १ ॥


24. संख्यास्थाननिरूपणम् 

संख्यास्थाननिरूपणार्थम् आह 

ऎकम् च दश च शतम् च

सहस्रम् तु अयुतनियुतॆ तथा प्रयुतम् ।

कॊट्यर्बुदम् च वृन्दम्

स्थानात् स्थानम् दशगुणम् स्यात् ॥ २ ॥

लघ्वर्थम् संख्यास्थानानि प्रक्रम्यन्तॆ । अन्यथा हि संख्यास्थान निरूपणाभावात् गुरुः गणितविधिः स्यात् । कथम्? रूपबहुत्वस्थापनायाम् रूपाणि बहूनि स्थापयितव्यानि भवन्ति । सत्याम् पुनः स्थानकल्पनायाम् यत् रूपैः बहुभिः निर्वर्त्यम् कर्म तत् ऎकॆन ऎव निर्वर्तयितुम् शक्यतॆ ।

ऎकम् च दश च शतम् च सहस्रम् । ऎतॆषाम् ऎकदशशतसहस्राणाम् प्रथमद्वितीयतृतीयचतुर्थानि स्थानानि । तु पादपूरणॆ । अयुतनियुतॆ अयुतम् च नियुतम् च अयुतनियुतॆ । अयुतस्य पञ्चमम् स्थानम् । दशसहस्राणि अयुतम् । नियुतस्य षष्ठम् स्थानम् । नियुतम् लक्षः । तथा तॆन ऎव प्रकारॆण प्रयुतस्य सप्तमम् स्थानम् । दशलक्षाः प्रयुतम् । कॊटिः, कॊट्याः अष्टमम् स्थानम् । लक्षाः शतम्, कॊटिः । अर्बुदम्, अर्बुदस्य नवमम् स्थानम् । दशकॊट्यः अर्बुदम् । वृन्दम्, वृन्दस्य दशमम् स्थानम् । कॊटिशतम् वृन्दम् ।

स्थानात् स्थानम् दशगुणम् स्यात् । स्थानात् स्थानम् अन्यत् दशगुणम् स्वपरिकल्पितस्थानात् उत्तरम् स्थानम् दशगुणम् भवति इति यावत् । किम् अर्थम् इदम् उच्यतॆ । ननु च ऎतानि स्थानानि अनन्तरापॆक्षया दशगुणानि ऎव । यदि ऎभ्यः अन्यस्थानपरिग्रहार्थम् वचनम् तथा सति स्थानाभिधानम् अनर्थकम् । कुतः? स्थानात् स्थानम् दशगुणम् स्यात् इति अनॆन ऎव अभिहिता, अभिहितस्थानपरिग्रहस्य सिद्धत्वात् । न ऎषः दॊषः । स्थानात् स्थानम् दशगुणम् स्यात् इति ऎतत् लक्षणम् । ऎकादीनि स्थानानि अस्य लक्षणस्य उदाहृतानि । न ऎतत् अस्ति । न हि सूत्रकाराः संक्षॆपविवक्षवः लक्षणम् उदाहरणम् ब्रूयुः । न ऎवम् विज्ञायतॆ । यदा लक्षणम् उदाहरणम् च निरर्थकम् तर्हि ऎकादिवृन्दानतायाः संख्यायाः संज्ञाः निरूप्यन्तॆ । स्थानात् स्थानम् दशगुणम् इति ऎकादिसंख्यायाः स्थाननिरूपणमात्रम् ऎव उपदिश्यतॆ, उपयॊगाभावात् न संख्यासंज्ञा ।

अत्र ऎतत् प्रष्टव्यम्  का ऎषाम् स्थानानाम् शक्तिः, यत् ऎकम् रूपम् दश शतम् सहस्रम् च भवति । सत्याम् च ऎतस्याम् स्थानशक्तौ क्रायकाः विशॆषॆष्टक्रय्यभॊजनाः स्युः । क्रय्यम् च विवक्षातः अल्पम् बहु च स्यात् । ऎवम् च सति लॊकव्यवहारान् यथाभावप्रसंगः । न ऎषः दॊषः । स्थानॆ व्यवस्थितानि र्तूपाणि दशादीनि कृतानि । किम् तर्हि तैः? तानि प्रतिपाद्यन्तॆ लॆखागमन्यायॆन । अथवा लघ्वर्थम् स्थानानि प्रक्रम्यन्तॆ इति उक्तम् अस्माभिः । न्यासः च स्थानानाम्  ० ० ० ० ० ० ० ० ० ० || २ ॥


25. वर्गपरिकर्म 

वर्गपरिकर्मप्रदर्शनाय आर्यापूर्वार्धम् आह 

वर्गः समचतुरश्रः फलम् च सदृशद्वयस्य संवर्गः ।

वर्गः करणी कृतिः वर्गणाः यावकरणम् इति पर्यायाः । समाश्चतस्रः अश्रयः यस्य सः अयम् [सम]चतुरश्रः क्षॆत्रविशॆषः, स वर्गः । समचतुरश्रक्षॆत्रविशॆषः संज्ञी, वर्गः संज्ञा । अत्र संज्ञिसंज्ञयॊः अभॆदॆन उपचारॆण उच्यतॆ "वर्गः समचतुरश्रः" इति । यथा "मांसपिण्डः दॆवदत्तः" इति । अन्यथा अत्र यावान् समचतुरश्रक्षॆत्रविशॆषः तस्य सर्वस्य अनिष्टस्य अपि वर्गसंज्ञाप्रसंगः । क्व अन्यत्र अनिष्टस्य समचतुरश्रक्षॆत्रविशॆषस्य वर्गसंज्ञाप्रसंगः? उच्यतॆ  असमकर्णस्य परिलॆखौ १ ऽ २  समचतुरश्रक्षॆत्रविशॆषस्य अस्य (परिलॆखः १) । द्विसमत्र्यश्रक्षॆत्रस्य समुन्नतवदवस्थितस्य अस्य (परिलॆखः २) ।

वर्गसंज्ञाप्रसंगॆ कः दॊषः? उच्यतॆ  "फलम् च सदृशद्वयस्य संवर्गः" इति सदृशद्वयस्य संवर्गः फलम् प्राप्नॊति, न च इष्यतॆ ऎवम् । क्व तर्हि? कर्णग्रहणम् कर्तव्यम्; वर्गः समकर्णसमचतुरश्रक्षॆत्रविशॆषः इति । अथवा तुल्यसंख्याभ्याम् कर्णाभ्याम् उपलक्षितस्य ऎव समचतुरश्रक्षॆत्रविशॆषस्य वर्गसंज्ञा जिज्ञास्यतॆ । कुतः? न अनिष्टार्थत्वात् शस्त्रप्रवृत्तॆः । अथवा न ऎव लॊकॆ ऎवम् आकारविशिष्टस्य समचतुरश्रक्षॆत्रस्य समचतुरश्रसंज्ञा सुसिद्धा । आयतचतुरश्रक्षॆत्रादिषु वर्गकर्मणः अस्तित्वात् तॆषाम् असमचतुरश्राणाम् अपि वर्गसंज्ञाप्रसंगः । न ऎषः दॊषः । तॆशु अपि यः वर्गः स समचतुरश्रक्षॆत्रफलम् । तत् यथा  समचतुरश्रक्षॆत्रम् आलिख्य अष्टधा विभज्य त्रिकचतुष्कविस्तारायामानि चत्वारि आयतचतुरश्रक्षॆत्राणि पञ्चकर्णानि परिकल्पयॆत् । तत्र ऎवम् परिकल्पितचतुरश्रायतचतुरश्रक्षॆत्रकर्णबाहुकम् समचतुरश्रम् क्षॆत्रम् मध्यॆ अवतिष्ठतॆ । यः तत्र आयतचतुरश्रक्षॆत्रकर्णायतवर्गः, स च अन्तःसमचतुरश्रक्षॆत्रॆ फलम् । त्रिभुजॆ अपि ऎतत् ऎव दर्शनम्, अर्धायतचतुरश्रत्वात् त्रिभुजस्य । दुर्विदग्धप्रत्यायनाय च क्षॆत्रम् आलिख्यतॆ  


26. वर्गपरिकर्म 

अस्माद् यः यः वर्गः समचतुरश्रक्षॆत्रविशॆषः । ऎवम् फलम् च सदृशद्वयस्य संवर्गः । संवर्गः इति अस्य समचतुरश्रस्य क्षॆत्रफलम् निरुच्यतॆ । सदृशस्य द्वयम् सदृशद्वयम् । अथवा सदृशद्वयम् च तद्द्वयम् च समसदृशद्वयम् । सदृशद्वयस्य संवर्गः । संवर्गः घातः गुणना हतिरुद्धर्तना इति पर्यायाः । सदृशद्वयसंवर्गः फलम् तस्य समचतुरश्रस्य । सदृशद्वयसंवर्गः इति अत्र इष्टबाहुवचनम् कर्तव्यम् । अन्यथा हि ययॊः कयॊश्चित् सदृशयॊः संवर्गः फलम् प्राप्नॊति । न ऎतत् अस्ति । नहि फलार्थी अन्यक्षॆत्रम् उद्दिश्य अन्ययॊः अभ्यासम् करॊति । न हि ऒदनार्थी पांसून् आदत्तॆ ।

उद्दॆशकः 

ऎकादिनवान्तानाम् वर्गाः यॆ तान् पृथक् पृथक् ब्रूहि ।

शतपादस्य च वर्गम् शतस्य तॆन ऎव युक्तस्य ॥ १ ॥

न्यासः  १, २, ३, ४, ५, ६, ७, ८, ९; शतपादः २५, शतम् अनॆन युक्तम् १२५ । यथासंख्यॆन ऎकादिनवान्तानाम् फलम् च "सदृशद्वयस्य संवर्गः" इति लब्धाः वर्गाः, न्यासः  १, ४, ९, १६, २५, ३६, ४९, ६४, ८१ । 

ऎवम् ऎषाम् लक्षणानि सूत्राणि  

अन्त्यपदस्य च वर्गम् कृत्वा द्विगुणम् तत् ऎव च अन्त्यपदम् ।

शॆषपदैः आहन्यात् उत्सार्य उत्सार्य वर्गविधौ ॥

इति, तैः ऎकादिनवान्तानाम् रूपाणाम् वर्गसंख्या वक्तव्या । कुतः? अज्ञातायाम् वर्गसंख्यायाम् यतः अन्त्यपदस्य वर्गसंख्या न शक्यतॆ न्यस्तुम् । अस्माकम् पुनः सर्वम् लक्षणॆन ऎव संगृहीतम् ।

शतपादस्य वर्गः ६२५; शतस्य तॆन ऎव युक्तस्य १५६२५ ।

भिन्नवर्गः अपि ऎवम् ऎव । किन्तु सदृशीकृतयॊः छॆदांशराश्यॊः पृथक् पृथक् वर्गम् कृत्वा छॆदराशिवर्गॆण अंशराशिवर्गस्य भागलब्धम् भिन्नवर्गः ।

उद्दॆशकः 

षण्णाम् सचतुर्थानाम् रूपस्य च पञ्चभागसहितस्य ।

रूपद्वितयस्य च मॆ ब्रूहि कृतिम् नवमहीनस्य ॥ २ ॥

न्यासः  ६ १ २१ १ १४ ५ ९करणम्  "छॆदगुणम् सांशम्" इति२५४ । ऎतयॊः छॆदांशयॊः रास्यॊः पृथक् पृथक् वर्गराशी १६, ६२५. छॆदराशिवर्गॆण अंशराशिवर्गम् हृत्वा लब्धम् ३९११६ ।

ऎवम् शॆषयॊः अपि यथासंख्यॆन १ ३११ ४६२५ ८१ ॥ २ ॥


27. घनपरिकर्म 

घनपरिकर्मप्रदर्शनाय आर्यापरार्धम् आह

सदृशत्रयसंवर्गः घनः तथा द्वादशाश्रितः स्यात् ॥ ३ ॥


28. सदृशत्रयस्य संवर्गः  

सदृशत्रयसंवर्गः । सदृशत्रयसंवर्गः घनः भवति । घनः वृन्दम् सदृशत्रयाभ्यासः इति पर्यायाः । स च द्वादशाश्रितः । द्वादश अश्रयः यस्य स अयम् द्वादशाश्रितः, स्यात् भवॆत् । "तथा"शब्दॆन समचतुरश्रताम् घनस्य प्रतिपादयति । न ऎतत् अस्ति । अन्तरॆण अपि "तथा"शब्दम् अस्य घनस्य समचतुरश्रता शक्यतॆ ऎव प्रतिपत्तुम् । कुतः ? सदृशत्रयसंवर्गः इति अनॆन समचतुरश्रक्षॆत्रफलस्य तत्क्षॆत्रवाहुसडृशम् ऎव उच्छ्रायम् आचष्टॆ, यस्मात् क्षॆत्रफलम् उच्छ्रायगुणितम् घनफलम् । अथवा "वर्गः समचतुरश्रः" इति अत्र अधिकृतम् समचतुरश्रग्रहणम् अनुवर्ततॆ, अश्रयः यस्य मृदा अन्यॆन वा प्रदर्शयितव्याः ।

उद्दॆशकः 

ऎकादिनवान्तानाम् रूपाणाम् मॆ घनम् पृथक् ब्रूहि ।

अष्टाष्टाकवर्गघनम् शतपादकृतॆः कृतॆः च अपि ॥ ३ ॥

न्यासः  १, २, ३, ४, ५, ६, ७, ८, ९; अष्टाष्टकवर्गः ४०९६; शतपादकृतॆः कृतिः ३९०६२५ ।ऎकादिनवान्तानाम् "सदृशत्रयसंवर्गः घनः" इति यथासंख्यॆन लब्धाः घनाः १, ८, २७, ६४, १२५, २१६, ३४३, ५१२, ७२९ । अत्र अपि यॆषाम् "अन्त्यपदस्य घनम् स्यात्" इत्यादि लक्षणसूत्रम्, तॆषाम् ऎकादीनाम् घनसंख्या वक्तव्या । कुतः ? अनिर्ज्ञातायाम् घनसंख्यायाम् यतः हि अन्त्यपदस्य घनसंख्या न्यस्तुम् न शक्यतॆ । अष्टाष्टकवर्गस्य [घनः] ६८७१९४७६७३६, शतपादस्य कृतॆः कृतॆः अपि ५९६०४६४४७७५३९०६२५ ।

भिन्नघनः अपि ऎवम् ऎव । 

उद्दॆशकः 

षट्पञ्चदशाष्टानाम् तावत् भागैः विहीनगणितानाम् ।

घनसंख्याम् वद विशदम् यदि घनगणितॆ मतिविशदा ॥ ४ ॥

न्यासः  ५ ४ ९ ७५ ४ ९ ७६ ५ १० ८लब्धाः यथासंख्यॆन घनाः १९८ ११० ९७० ४८८१०७ ७४ २९९ १९१२१६ १२५ १००० ५१२


29. वर्गमूलम् 

वर्गमूलानयनाय आह 

भागम् हरॆत् अवर्गात् नित्यम् द्विगुणॆन वर्गमूलॆन ।

वर्गात् वर्गॆ शुद्धॆ लब्धम् स्थानान्तरॆ मूलम् ॥ ४ ॥

भागः हृतिः भजनम् अपवर्तनम् इति पर्यायाः । तम् भागम्, हरॆत् गृह्णीयात् । कस्मात् स्थानात् प्रभृति इति आह  अवर्गात्, न वर्गः अवर्गः, तस्मात् अवर्गात् । अत्र गणितॆ विषमम् स्थानम् वर्गः । तस्य ऎव नञा विषमत्वॆ प्रतिषिद्धॆ अवर्गः इति समम् स्थानम्, यतः हि विषमम् समम् च स्थानम् । कॆन भागम् हरॆत् इति आह  नित्यम् द्विगुणॆन वर्गमूलॆन । द्वौ गुणः यस्य तत् द्विगुणम् । किम् तत् ? वर्गमूलम् । तॆन द्विगुणॆन वर्गमूलॆन । कथम् पुनर् तत् वर्गमूलम् लभ्यतॆ इति आह  वर्गात् वर्गॆ शुद्धॆ लब्धम् स्थानान्तरॆ मूलम् । वर्गात् विषमस्थानात्, शुद्धॆ वर्गॆ वर्गगणितॆ इति अर्थः, यत् अत्र लब्धम् तत् स्थानान्तरॆ मूलसंज्ञम् भवति । स्थानात् अन्यस्थानम् स्थानान्तरम्, तस्मिन् स्थानान्तरॆ तस्य लब्धस्य मूलसंज्ञा । यत्र पुनः स्थानान्तरम् ऎव न विद्यतॆ, तत्र तस्य तत्र ऎव मूलसंज्ञा । कुतः ? स्थानान्तरस्य असम्भवात् । ऎतत् ऎव सूत्रम् पुनर् पुनर् आवर्तयॆ यावत् परिसमाप्तम् गणितकर्म इति । 

उद्दॆशकः 

ऎकादीनाम् मूलम् वर्गाणाम् पूर्वदृष्टसंख्यानाम् ।

इच्छामि सखॆ ज्ञातुम् शरयमरसवर्गराशॆः च ॥ १ ॥

न्यासः  १, ४, ९, १६, २५, ३६, ४९, ६४, ८१, ६२५ ।  पृथक् पृथक् यथासंख्यॆन वर्गमूलानि लब्धानि  १, २, ३, ४, ५, ६, ७, ८, ९, २५ ।

भिन्नमूलानयनॆ उद्दॆशकः 

षण्णाम् सचतुर्थानाम् त्रयॊदशानाम् [स]चतुर्नवांशानाम् ।

विगणय्य वर्गमूलॆ वद भटसंख्यानुसारॆण ॥ २ ॥

न्यासः  ६ १३१ ४४ ९ करणम्  छॆदॊपरिराश्यॊः अभ्यासम् कृत्वा अंशम् प्रक्षिपॆत् । जातम् २५ । १२१४ । ९ । ऎतयॊः अंशच्छॆदराश्यॊः पृथक् पृथक् मूलॆ ५ । ११२ । ३ ।छॆदराशिमूलॆन अंशराशिमूलस्य भागलब्धम् भिन्नवर्गमूलम् २१२ , त्रयॊदशानाम् सचतुर्नवांशानाम् च भिन्नवर्गमूलम् ३२ ३ ॥ ४ ॥


30. घनमूलम् 

घनमूलानयनाय आह 

अघनात् भजॆत् द्वितीयात्

त्रिगुणॆन घनस्य मूलवर्गॆण ।

वर्गः त्रिपूर्वगुणितः

शॊध्यः प्रथमात् घनः च घनात् ॥ ५ ॥

न घनः अघनः, तस्मात् अघनात् । [भजॆत्] भागम् हरॆत्, भागम् गृह्णीयात् इति अर्थः । अघनस्थानस्य अनॆकत्वात् आह  द्वितीयात् । अत्र गणितॆ घनः ऎकः, द्वौ अघनौ । कुतः ऎतत् घनः ऎकः द्वौ अघनौ इति उच्यतॆ  "वर्गः त्रिपूर्वगुणितः शॊध्यः प्रथमात् अघनात्" इति प्रथमाघनसिद्धिः, "अघनात् भजॆत् द्वितीयात्" इति द्वितीयाघनसिद्धिः । घनः पुनर् ऎकः ऎव, द्वितीयस्य अश्रवणात् । अघनात् द्वितीयात् प्रभृति कॆन भागम् हरॆत् इति आह  त्रिगुणॆन घनस्य मूलवर्गॆण । त्रयः गुणाः अस्य त्रिगुणः । कः ? घनस्य मूलवर्गः । तॆन त्रिगुणॆन घनस्य मूलवर्गॆण । वर्गः त्रिपूर्वगुणितः सॊध्यः प्रथमात् । वर्गः त्रिभिः पूर्वॆण च राशिना गुणितः त्रिपूर्वगुणितः । कस्य वर्गः ? लब्धस्य इति वाक्यशॆषः । शॊध्यः । शॊधयितव्यः । प्रथमात् अघनात् इति सम्बन्धनीयम् । घनः च घनात् । घनः च शॊधयितव्यः । कुतः ? घनात् । घनस्थानात् । ततः घनमूलम् भवति इति अध्याहार्यम् । अत्र इदम् ऎवघनराशिम् दृष्ट्वा घनः ऎकः द्वौ अघनौ इति विगणय्य यत्र घनः तस्मात् घनमूलम् पूर्वम् ऎव कुर्यात्, घनः च घनात् शॊध्यः इति अनॆन । ततः सर्वम् इदम् आर्यासूत्रम् उपस्थितम् भवति, "अघनात् भजॆत् द्वितीयात्" इत्यादि ।

उद्दॆशकः 

ऎकादीनाम् मूलम् घनराशीनाम् पृथक् तु मॆ ब्रूहि ।

वस्वश्विमुनीन्दूनाम् घनमूलम् गण्यताम् आशु ॥ १ ॥

न्यासः  १, ८, २७, ६४, १२५, २१६, ३४३, ५१२, ७२९, ९७२८. लब्धम् घनमूलम् यथासंख्यॆन १, २, ३, ४, ५, ६, ७, ८, ९, १२.

उद्दॆशकः 

कृतयमवसुरन्ध्ररसाब्धिरूपरन्ध्राश्विनागसंख्यस्य ।

मूलम् घनस्य सम्यक् वद भटशास्त्रानुसारॆण ॥ २ ॥

न्यासः  ८२९१४६९८२४ । लब्धम् घनमूलम् २०२४ ।ऎवम् ऎव भिन्नघनमूलानयनॆ अपि उद्दॆशकः 

मूलम् त्रयॊदशानाम् पञ्चघनांशैः त्रिशून्यरूपाख्यैः ।

अधिकानाम् भिन्नाख्यम् विगण्यताम् संख्यया सम्यक् ॥ ३ ॥

न्यासः १३१०३१२५ ।लब्धम् घनमूलम्२२५ ॥ ५ ॥


31. त्रिभुजक्षॆत्रफलम् 

अथ त्रिभुजक्षॆत्रफलानयनार्थम् आह 

त्रिभुजस्य फलशरीरम् समदलकॊटीभुजार्धसंवर्गः ।

तिस्रः भुजाः यस्य क्षॆत्रस्य तत् इदम् क्षॆत्रम् त्रिभुजम् । भुजा बाहुः पार्श्वम् इति पर्यायाः । तत्र त्रीणि क्षॆत्राणि सम-द्विसम-विषमाणि । "त्रिभुजस्य" इति त्रिभुजक्षॆत्रजातिमंगीकृत्य ऎकवचननिर्दॆशः । तस्य त्रिभुजस्य । फलशरीरम् । फलस्य शरीरम् फलशरीरम्, फलप्रमाणम् इति अर्थः । समदलकॊटीभुजार्धसंवर्गः । समदलकॊटी, अवलम्बकः । अत्र कॆचित्  समॆ दलॆ यस्याः सा इयम् समदला, समदला च असौ कॊटी च समदलकॊटी इति वर्णयन्ति। तॆषाम् सम-द्विसमत्र्यश्रक्षॆत्रयॊः ऎव फलसिद्धिः, न विषमत्र्यश्रक्षॆत्रस्य । अस्माकम् पुनर् समदलकॊटी इति अनॆन अवलम्बकव्युत्पत्त्या ब्रुवताम् त्रयाणाम् अपि फलानयनम् सिद्धम् । अथवा यॆ व्युत्पत्तिम् कुर्वन्ति तॆषाम् अपि त्रयाणाम् त्र्यश्रक्षॆत्राणाम् फलानयनम् सिद्धम् ऎव । कुतः ? "रूढॆषु क्रिया व्युत्पत्तिकर्मार्था न अर्थक्रिया" इति । भुजायाः अर्धम् भुजार्धम् । अथ अत्र भुजाशब्दॆन भुजा बाहुः पार्श्वम् इति सामान्यॆन त्रयाणाम् पार्श्वानाम् प्रतिपत्तौ प्रसक्तायाम् विशिष्टा ऎव भुजा परिगृह्यतॆ, भुजासंज्ञिता । "सामान्यचॊदनाः च विशॆषॆ अवतिष्ठन्तॆ" इति । अत्र गणितॆ भुजाशब्दः औणादिकः प्रतिपत्तव्यः, अन्यथा हि "भुजान्युब्जौ पाण्युपतापयॊः" [अष्टाध्यायी, ७.३.६१ ] इति भुजाशब्दस्य पाणावर्थॆ निपातितत्त्वात् क्षॆत्रपार्श्वॆ न लभ्यतॆ । तस्याः भुजायाः अर्धम् भुजार्धम् । समदलकॊट्या भुजार्धस्य च संवर्गः समदलकॊटीभुजार्धसंवर्गः, त्रिभुजस्य फलशरीरम् भवति ।

उद्दॆशकः 

सप्ताष्टनवभुजानाम् क्षॆत्राणाम् यत् फलम् समानाम् तु ।

पञ्चश्रवणस्य सखॆ षड्भूसंख्यद्वितुल्यस्य ॥ १ ॥

न्यासः परिलॆखः ४ऎतानि त्रीणि समानि ।द्विसमस्य अपि न्यासः परिलॆखः ५ करणम्  "समत्र्यश्रिक्षॆत्रॆ समा ऎव अवलम्बकस्थितिः" इति भूम्यर्धम् आबाधा ३१२ । "यः च ऎव भुजावर्गः कॊटीवर्गः च कर्णवर्गः सः" [गणित, १७ ] इति भुजाकॊट्यॊः वर्गौ कर्णवर्गः । तॆन, भुजावर्गॆ कर्णवर्गात् शुद्धॆ शॆषम् समदलकॊटीवर्गः ३६३४,समदलकॊटी करण्यः ३६३४ इति । भुजार्धम् अपि करण्यः १२ १४ ।तॆन, करण्यॊः संवर्गः अस्ति इति लब्धम् क्षॆत्रफलम् "समदलकॊटीभुजार्धसंवर्गः" इति करण्यः ४५०३१६ ।शॆषयॊः अपि समयॊः ऎवम् ऎव यथासंख्यॆन फलम् [करण्यः ७६८ ], करण्यः १२३०३१६ ।द्विसमत्र्यश्रिक्षॆत्रस्य अपि "समा ऎव वलम्बकस्थितिः" इति आबाधा ३, समदलकॊटी पूर्वकरणॆन ऎव ४, फलम् अपि तॆन ऎव करणॆन १२ ।

उद्दॆशकः 

कर्णौ द्वौ दश निर्दिष्टौ धात्री [च] तस्य षॊडश प्रॊक्ता ।

द्विसमस्य तस्य वाच्यम् फलसंख्यानम् प्रयत्नॆन ॥ २ ॥

न्यासः परिलॆखः ६लब्धम् पूर्वकरणॆन फलम् ४८ ।विषमत्रिभुजक्षॆत्रॆषु उद्दॆशकः 

कर्णः त्रयॊदश स्यात् पञ्चदशान्यः मही द्विसप्ता ऎव ।

विषमत्रिभुजस्य सखॆ फलसंख्या का भवॆत् अस्य ॥ ३ ॥

न्यासः परिलॆखः ७ करणम्  भुजयॊः वर्गविशॆषः तयॊः वा समासविशॆषाभ्यासः त्रिभुजक्षॆत्रॆ आबाधान्तरसमासविशॆषाभ्यासः भवति । भूम्या आबाधान्तरसमासप्रमाणया विभज्य लब्धम् भूमौ ऎव संक्रमणम् । "अन्तरयुक्तम् हीनम् दलितम्" इति [गणित, २४ ] । अनॆन क्रमॆण आबाधान्तरप्रमाणॆ लभ्यॆतॆ । ताभ्याम् आबाधान्तरप्रमाणाभ्याम् विषमत्रिभुजस्य समदलकॊट्यानयनम् । तत् यथा  भुजयॊः वर्गराशी १६९, २२५ । ऎतयॊः विशॆषः ५६ । भुजयॊः ऎकीभावः २८, तयॊः विशॆषः २ । तयॊः अभ्यासः इति [भुजयॊः वर्गविशॆषः] आबाधान्तरसमासप्रमाणया भूम्या १४, अनया हृतॆ लब्धम् ४, अनॆन भुवा सह संक्रमणम् "अन्तरयुक्तम् हीनम्" इति १८, १० । दलम् इति यथाक्रमॆण आबाधान्तरॆ १, ५ । ऎताभ्याम् त्रिभुजक्षॆत्रस्य अवलम्बकानयनम्  पञ्चदशकॆन कर्णॆन नवप्रमाणॆन च आबाधान्तरॆण लब्धा समदलकॊटी १२; त्रयॊदशप्रमाणॆन कर्णॆन पञ्चप्रमाणॆन च आबाधान्तरॆण लब्धा सा ऎव समदलकॊटी १२ । फलम् "समदलकॊटीभुजार्धसंवर्गः" इति भुजा भूमिः, तस्याः अर्धम् ७, समदलकॊटीभुजार्धसंवर्गः इति फलम् आगतम् ८४ ।

उद्दॆशकः 

पञ्चाशत् सा ऎका भूः त्रिंशत् सप्ताधिका भवॆत् कर्णः ।

विंशतिः अन्यः प्रॊक्तः विषमत्रिभुजस्य किम् फलम् वाच्यम् ॥ ४ ॥

न्यासः  परिलॆखः ८ लब्धम् पूर्वकरणॆन च आबाधान्तरॆ १६, ३५, समदलकॊटी १२, फलम् २०६ ।

32. षडश्रिघनफलम् 

घनफलानयनार्थम् अस्य ऎव त्रिभुजक्षॆत्रस्य आर्यापश्चार्धम् आह 

ऊर्ध्वभुजातत्संवर्गार्धम् स घनः षडश्रिः इति ॥ ६ ॥

ऊर्ध्वभुजा क्षॆत्रमध्यः उच्छ्रायः, तत् इति क्षॆत्रफलम्, ऊर्ध्वभुजायाः तस्य च संवर्गः ऊर्ध्वभुजातत्संवर्गः, तस्य अर्धम् ऊर्ध्वभुजातत्संवर्गार्धम् । स घनः घनफलम् इति यावत्, स च षडश्रिः । षडश्रयः यस्य सः षडश्रिः घनः । अथ निर्ज्ञातॆ ऊर्ध्वभुजाप्रमाणॆ घनफलम् ऊर्ध्वभुजातत्संवर्गार्धम् इति शक्यतॆ वक्तुम्, न च अनिर्ज्ञातॆ । सत्यम् ऎव ऎतत् । किन्तु अत्र निर्ज्ञातम् ऎव ऊर्ध्वभुजाप्रमाणम् । कुतः ? शास्त्रॆ तदानयनॊपायप्रदर्शनात् । तत् यथा  ऊर्ध्वभुजा हि नाम क्षॆत्रमध्यः उच्छ्रायः इति प्रत्यक्षम् । स च तिर्यगवस्थितस्य शृंगाटकक्षॆत्रबाहॊः कर्णवदवस्थितस्य कॊटिः, भुजाकर्णमूलक्षॆत्रकॆन्द्रान्तरालम् । तदानयनॆ त्रैराशिकम्  यदि त्रिभुजक्षॆत्रावलम्बकॆन त्रिभुजक्षॆत्रबाहुः लभ्यतॆ तदा तस्य ऎव त्रिभुजक्षॆत्रबाहुदलसंख्यकस्य अवलम्बकस्य कियान् बाहुः इति । ऎतत् कर्णभुजाकॊटित्रैराशिकविधानम् प्रदॆशान्तरप्रसिद्धम् ऎव इति न अत्र अभिहितम् । स च प्रदॆशः "यः च ऎव भुजावर्गः कॊतीवर्गः च कर्णवर्गः सः" [गणित, १७] इति, "त्रैराशिकफलराशिम् तम् अथ इच्छाराशिना हतम्" [गणित, २६ ] इति च ।

उद्दॆशकः 

शृंगाटकघनगणितम् द्वादशगणिताश्रितस्य यत् च अस्य ।

ऊर्ध्वभुजापरिमाणम् स्फुटतरम् आचाक्ष्व मॆ शीघ्रम् ॥ १ ॥

न्यासः परिलॆखः ९ करणम्  यदि अष्टॊत्तरशतकरणिकॆन [अवलम्बकॆन] चतुश्चत्वारिंशदुत्तरशतकरणिकः कर्णः लभ्यतॆ, तदा षट्त्रिंशत्करणिकॆन अवलम्बकॆन कियान् कर्णः इति । त्रैराशिकॊपपत्तिप्रदर्शनार्थम् क्षॆत्रनयासः परिलॆखः १० त्रैराशिकन्यासः च १०८, १४४, ३६ । [ ऎताः करण्यः ] लब्धः अन्तःकर्णः [करण्यः] ४८ । अयम् ऎव कर्णः ऊर्ध्वम् अवस्थितत्रिभुज[क्षॆत्रस्य भुजा] । कर्णकृतॆः भुजावर्गविशॆषः ऊर्ध्वभुजावर्गः । स च १६ । तत्र ऊर्ध्वभुजा सूत्रकैः शलाकादिभिः वा प्रदर्शयितव्या । क्षॆत्रफलम् [करण्यः] ३८८८. ऎतासाम् क्षॆत्रफलकरणीनाम् ऊर्ध्वभुजाकरणीनाम् च संवर्गार्धम् घनः भवति । अर्धम् इति अत्र करणित्वात् द्वयॊः करणीभिः चतुर्भिः भागः ह्रियतॆ । लब्धम् घनफलम् करण्यः ९३३१२ ।

उद्दॆशकः 

अष्टादश कर्णानाम् संख्या शृंगाटकस्य निर्दिष्टा ।

ऊर्ध्वभुजागणिताग्रम् जिज्ञासुः अहम् सखॆ तस्य ॥ २ ॥

न्यासः परिलॆखः ११ ऊर्ध्वभुजा पूर्वकरणॆन ऎव करण्यः २१६ । फलम् अपि पूर्ववत् ऎव लब्धम् करण्यः १०६२८८२ ॥ ६ ॥


33. वृत्तक्षॆत्रफलम् 

अथ वृत्तक्षॆत्रफलानयनार्थम् आह 

समपरिणाहस्य अर्धम् विष्कम्भार्धहतम् ऎव वृत्तफलम् ।

परिणाहः परिधिः । समः च असौ परिणाहः च समपरिणाहः, तस्य अर्धम् । अन्यॆ पुनर् अन्यथा विग्रहम् कुर्वन्ति  समः परिणाहः यस्य क्षॆत्रस्य तत् समपरिणाहम्, तस्य अर्धम् इति । तॆषाम् क्षॆत्रफलार्धस्य ग्रहणम् प्राप्नॊति, अन्य-पादार्थॆन समपरिणाहशब्दॆन क्षॆत्राभिधानात् । विष्कम्भः व्यासः, तस्य अर्धम् विष्कम्भार्धम्, तॆन हतम् विष्कम्भार्धहतम्, विष्कम्भार्धगुणितम् इति यावत् । ऎवकारकरणम् आर्यापूरणार्थम् प्रतिपत्तव्यम्। अथवा ऎवकारकरणॆन उपायनियमः क्रियतॆ । समपरिणाहस्य अर्धम् विष्कम्भार्धहतम् ऎव वृत्तफलम्, न अन्यत् उपायान्तरम् इति । न, ऎतत् अस्ति, उपायान्तरश्रवणात् अन्यत्र "व्यासार्धकृतिः त्रिसंगुणा गणितम्" इति । न ऎतत् उपायान्तरम् सूक्ष्मम्, किन्तु व्यावहारिकम् इति । तस्मात् ऎकम् ऎव उपायान्तरम्, सूक्ष्मगणितानयनस्य न अन्यत् इति ।

उद्दॆशकः 

अष्टद्वादशषट्काः विष्कम्भाः तत्त्वतः मया दृष्टाः ।

तॆषाम् समवृत्तानाम् परिधिफलम् मॆ पृथक् ब्रूहि ॥ १ ॥

न्यासः  ८, १२, ६ परिलॆखः १२ ऎतॆषाम् त्रैराशिकॆन वक्ष्यमाणविष्कम्भपरिधिप्रमाणफलाभ्याम् [गणित, १०] लब्धाः परिधयः यथाक्रमॆण २५ ३७ १८ ८३ ४३७ ५३१ ६२५ ६२५ ६२५ फलानयनॆ करणम्  समपरिणाहस्य अर्धम् इति विष्कम्भार्धम् जातम् ४ । अनॆन ऎव तत्समपरिणाहस्य अर्धम् १२३५४६२५गुणितम् वृत्तफलम् जातम्५०१६६६२५ अनॆन ऎव करणॆन शॆषयॊः परिध्यॊः यथासंख्यॆन फलॆ 

११३ २८ ६१ ३४३ ६२५ १२५०


34. गॊलघनफलम्

घनफलप्रदर्शनार्थम् आह 

तत् निजमूलॆन हतम् घनगॊलफलम् निरवशॆषम् ॥ ७ ॥

तत् इति अनॆन पूर्वार्धगणितनिष्पन्नम् वृत्तक्षॆत्रस्य तत्फलम् परिगृह्यतॆ । निजमूलम् आत्मनः मूलम् । यत् क्षॆत्रफलम् तत् स्वकीयॆन मूलॆन गुणितम् इति यावत् । अथवा तत् क्षॆत्रफलम्, निजम् अवितथम् आम्नायाविरुद्धम् इति अर्थः, मूलॆन हतम्, अन्यस्य अश्रुतत्वात् स्वॆन मूलॆन तत्क्षॆत्रफलम् गुणितम् । निजमूलॆन हतम् निजमूलहतम् इति विग्रहः । तत् पुनर् क्षॆत्रफलम् मूलक्रियमाणम् करणित्वम् प्रतिपद्यतॆ, यस्मात् करणीनाम् मूल[म् अपॆक्षितम्] । ततः पुनर् अपि करणीनाम् अकरणीभिः संवर्गः न अस्ति इति क्षॆत्रफलम् करण्यतॆ । ऎवम् अयम् अर्थः अर्थात् अवसीयतॆ क्षॆत्रफलवर्गः क्षॆत्रफलॆन गुणितः इति । घनः च असौ गॊलः च घनगॊलः, गॊलः वृत्तम्, घनगॊलस्य फलम् घनगॊलफलम् । निरवशॆषम् । न किञ्चित् अनॆन कर्मणा शिष्यतॆ । यॆन अन्यॆन कर्मणा घनगॊलफलम् आनयन्ति न तॆन घनगॊलफलम् निरवशॆषम् भवति, व्यावहारिकत्वात् तस्य कर्मणः व्यासार्धघनम् भित्वा नवगुणितम् अयॊगुडस्य घनगणितम् ।इति ।

उद्दॆशकः 

द्वौ पञ्च तथा पंक्तिः व्यासाः ज्ञॆयाः क्रमॆण वृत्तानाम् ।

घनगॊलफलानि ऎषाम् जिज्ञासुः अहम् समासॆन ॥ १ ॥

न्यासः परिलॆखः १३ ऎषाम् परिधयः त्रैराशिकॆन ऎव लब्धाः यथासंख्यॆन ६ १५ ३११७७ १७७ ५२६२५ २५० १२५ करणम्  पूर्वाभिहितगणितकर्मणा [द्वि]विष्कम्भक्षॆत्रस्य यत् फलम् आयातम् 

३१७७१२५० तस्य मूलम् ऎतत् ऎव करणीगतम् अशुद्धकृतित्वात् प्रतिपत्तव्यम् । तत् च सवर्णितम् जातम् ३९२७१२५०. ऎतत् क्षॆत्रफलवर्गॆण गुणितम् जातम् घनफलम् करण्यः ३१, करणीभागाः च 

१२६८३९८३१९५३१२५००० । ऎवम् शॆषयॊः अपि यथासंख्यॆन घनफलकरण्यः करणीभागाः च ७५६९४८४४७६७५५८९८३ ५८९८३८०००००० १२५०००

[समलम्बचतुर्भुजफलम्]

द्वि[सम-विषम]चतुरश्रादीनाम् अन्तःकर्णयॊः च अत्र सम्पातप्रमाणफलपरिज्ञानाय आर्याम् आह 

आयामगुणॆ पार्श्वॆ तद्यॊगहृतॆ स्वपातॆलॆखॆ तॆ ।

विस्तरयॊगार्धगुणॆ ज्ञॆयम् क्षॆत्रफलम् आयामॆ ॥ ८ ॥

आयामः विस्तारः दैर्घ्यम् इति पर्यायाः । आयामः गुणः ययॊः तॆ आयामगुणॆ । कॆ तॆ ? पार्श्वॆ । भूः ऎकम् पार्श्वम् मुखम् इतरम् । आयामगुणॆ भूवदनॆ इति अर्थः । तयॊः यॊगः तद्यॊगः । कयॊः ? पार्श्वयॊः । तद्यॊगहृतॆ । कॆ ? आयामघ्नॆ पार्श्वॆ । स्वस्य पातः स्वपातः, स्वपातयॊः लॆखॆ स्वपातलॆखॆ । द्वॆ अपि पृथक् पृथक् लब्धॆ इति वाक्यशॆषः । स्वपातलॆखा नाम अन्तःकर्णयॊः संपातस्य भूमुखमध्यस्य च अन्तरालम् । विस्तरः क्षॆत्रस्य पृथुत्वम् । यदि ऎवम् विस्तारः इति प्राप्नॊति "प्रथनॆ वाक्यशब्दॆ" [अष्टाध्यायी, ३.३.३३] इति घञि कृतॆ । नॆ ऎषः दॊषः । अयम् अवस्त्रॆ स्तरशब्दः, तॆन विशब्दॆन समासान्तः असौ "विविधस्तरः विस्तरः" इति । विस्तरयॊः यॊगः विस्तरयॊगः, भूवदनयॊगः इति अर्थः । विस्तरयॊगस्य अर्धम् विस्तरयॊगार्धम्, विस्तरयॊगार्धम् गुणः यस्य स विस्तरयॊगार्धगुणः । कः ? आयामः । तस्मिन् विस्तरयॊगार्धगुणॆ आयामॆ क्षॆत्रफलम् ज्ञॆयम् । विस्तरयॊगार्धगुणः आयामः क्षॆत्रफलम् इति यावत् । सम्यक् अनादिष्टॆन आलिखितॆ क्षॆत्रॆ स्वपातलॆखाप्रमाणम् त्रैराशिकगणितॆन प्रतिपादयितव्यम् । तथा त्रैराशिकॆन ऎव उभयपार्श्वॆ कर्णावलम्बकसम्पातानयनम् । पूर्वसूत्रॆण अत्र द्विसमविषमत्र्यश्रक्षॆत्रफलम् दर्शयितव्यम् । वक्ष्यमाणसूत्रॆण अन्तरायतचतुरश्रक्षॆत्रफलानयनम् अनॆन वा अन्यॆषु अपि क्षॆत्रॆषु यानि तॆषाम् अन्तर्वर्तीनि क्षॆत्राणि तॆषाम् कर्णावलम्बकादिसाधनम् तत् उपदिष्टलक्षणॆन ऎव । न च तॆषाम् अन्यत्र अवस्थानमात्रात् ऎव अन्यत् करणम् स्यात् ।

उद्दॆशकः 

भूमिः चतुर्दश स्यात् वदनम् चत्वारि च ऎव रूपाणि ।

कर्णौ त्रयॊदशाग्रौ संपाताग्रम् फलम् च वद ॥ १ ॥

न्यासः परिलॆखः १४ करणम्  मुखभूमिविशॆषार्धम् भुजा [५] । तया भुजया पृथगुक्तगणितॆन ऎव अवलम्बकसिद्धिः, स च १२ । अयम् ऎव अवलम्बकः आयामः । पृथक् पृथक् पार्श्वॆ अनॆन गुणितॆ जातॆ ४८, १६८. पार्श्वयॊः यॊगः १८. अनॆन भागलब्धॆ स्वपातलॆख २९२१३३ विस्तरयॊगार्धः १. अनॆन आयामः गुणितः क्षॆत्रफलम् १०८ ।

उद्दॆशकः 

विंशतिः ऎकाभ्यधिका पंक्तिः नव च ऎव कीर्तिता संख्या ।

धात्रीकर्णमुखानाम् गणितम् सम्पातलॆखम् आचक्ष्व ॥ २ ॥

न्यासः परिलॆखः १५ स्वपातलॆखॆ पूर्वकरणॆन२ ५२ ३५ ५ ।क्षॆत्रफलम् १२० ।

उद्दॆशकः 

त्रिंशत् त्र्यधिका भूमिः सप्तदश अन्यानि कीर्तितानि अत्र ।

गणितम् तत्र कियत् स्यात् स्वपातलॆखॆ च कॆ स्याताम् ॥ ३ ॥

न्यासः परिलॆखः १६ अस्य त्रिसमचतुरश्रस्य क्षॆत्रस्य लब्धॆ स्वपातलॆखॆ५ ९१ ९१० १० । क्षॆत्रफलम् ३७५ । विषमचतुरश्रक्षॆत्रॆषु फलमात्रम् ऎव उद्दिश्यतॆ, न सम्पातलॆखॆ, दुर्ज्ञातत्वात् अवलम्बकस्य । अन्यत् अपि च  यत् अत्र विषमचतुरश्रम् क्षॆत्रम् न तत् अन्यगणितक्षॆत्रैः समानम् । तत् च 

पञ्चकृतिमुखॆन युतम् षष्टिः वसुधाप्रमाणम् आख्यातम् ।

कर्णौ त्रयॊदशमितौ चतुस्त्रिभिः ताडितौ क्रमशः ॥ ४ ॥ 

अस्य यौ अवलम्बकौ तौ न सदृशौ । अत्र च यत् उपदिश्यतॆ तस्य यौ अवलम्बकौ तौ तुल्यसंख्यौ । तॆन गणितशास्त्रान्तरॊपदिष्टविषमचतुरश्रक्षॆत्रस्य अस्य च असादृश्यम् सति अपि च विषमत्वॆ ।

अथ यत् गणितशास्त्रान्तरॊपदिष्टविषमचतुरश्रक्षॆत्रम् यत् च इह उपदिश्यतॆ तयॊः द्वयॊः अपि फलनिर्दॆशः अपि अनॆन उपदॆशॆन शक्यतॆ [कर्तुम्] । दुर्ज्ञातावलम्बकस्य किम् ? उच्यतॆ  विषमक्षॆत्रॆषु फलमात्रम् ऎव उद्दिश्य[तॆ], न सम्पातलॆखॆ च इति । अथ चॆत् परिज्ञातः अवलम्बकः भवति तदा फलम् च सम्पातलॆखॆ च शक्यतॆ विज्ञातुम् । कथम् ? पूर्वॊपदिष्टगणितकर्मणा ऎव ।

उद्दॆशकः 

आयामः द्वादश प्रॊक्तः भूमिः ऎकॊनविंशतिः ।

मुखम् पञ्च समाख्यातम् कर्णौ तस्य अथ कीर्तितौ ॥

दश पञ्च-त्रिभिः च ऎव सम्युक्तानि पृथक् पृथक् ।

फलम् सम्पातलॆखॆ च ज्ञातुम् इच्छामि तत्त्वतः ॥ ५ ॥

न्यासः परिलॆखः १७ लब्धॆ सम्पातलॆखॆ २ ९ १ १ २ २ । क्षॆत्रफलम् १४४ । ऎवम् अन्यॆषु अपि ऎवंविधॆषु क्षॆत्रॆषु फलानयनम् सम्पातलॆखानयनम् च ॥ ८ ॥


35. क्षॆत्रफलम् प्रत्ययकरणम् च 

सर्वक्षॆत्राणाम् फलप्रत्ययकरणार्थम् आह 

सर्वॆषाम् क्षॆत्राणाम् प्रसाध्य पार्श्वॆ फलम् तदभ्यासः ।

सर्वॆषाम् क्षॆत्राणाम् फलम् निर्दॆष्टव्यम् । कथम् ? प्रसाध्य पार्श्वॆ । "प्र"-शब्दः प्रकृष्टवाची, प्रकर्षॆण पार्श्वॆ साधयित्वा इति । कः च तयॊः प्रसाध्यमानयॊः पार्श्वयॊः प्रकर्षः ? उच्यतॆ  पार्श्वता । कः पुनर् अर्थः पार्श्वताशब्दस्य इति । उच्यतॆ  यदि सर्वक्षॆत्रम् प्रसाध्यमानम्, [तदा "पार्श्वता"-शब्दास्य अर्थः] पार्श्वॆ ऎव भवति, आयतचतुरश्रम् ऎव इति यावत् । फलम् तदभ्यासः । तॆषाम् सर्वक्षॆत्राणाम् प्रत्याकलितपार्श्वायतचतुरश्राणाम् फलम् तयॊः पार्श्वयॊः अभ्यासः, विस्तारायामाभ्यासः इति यावत् । "अभ्यासः गुणना संवर्गः" इति पर्यायाः ।

अथ सर्वशब्दस्य निरवशॆषवाचित्वात् निरवशॆषाणि ऎव क्षॆत्राणि आक्षिप्यन्तॆ, तस्मात् सर्वक्षॆत्राणाम् फलस्य अनॆन ऎव सूत्रॆण सिद्धत्वात् पूर्वाभिहितसूत्राभिधानम् अनर्थकम् । न अनर्थकम् । प्रत्ययकरणम् फलम् च अनॆन उच्यतॆ । अभिहितानाम् क्षॆत्राणाम् फलस्य प्रत्ययकरणम्, यस्मात् गणितविदः मस्करि-पूरण-पूतनादयः सर्वॆषाम् क्षॆत्राणाम् फलम् आयतचतुरश्रक्षॆत्रॆ प्रत्याययन्ति । उक्तम् च 

करणैः उक्तैः नित्यम् फलम् अनुगम्य आयतॆ तु विज्ञॆयम् ।

प्रत्ययकरणम् क्षॆत्रॆ व्यक्तम् फलम् आयतॆ यस्मात् ॥

अनभिहितानाम् क्षॆत्राणाम् फलान् अयनम् अभीष्टक्षॆत्रायतचतुरश्रीकरणॆन ऎव । अथ कथम् ऎकॆन ऎव यत्नॆन फलानयनम् प्रत्ययकरणम् च प्रसाध्यतॆ ? अथ इदम् प्रत्ययकरणार्थम् प्रकृतम्, स कथम् फलानयनाय भवति ? अथ फलानयनार्थम्, कथम् प्रत्ययकरणाय ? नॆ‌अ ऎषः दॊषः । अन्यार्थम् प्रकृतम् अन्यार्थम् साधकम् दृष्टम् । तत् यथा  "शाल्यर्थम् कुल्याः प्रणीयन्तॆ । ताभ्यः च पानीयम् पीयतॆ, उपस्पृश्यतॆ च ।" [ अष्टाध्यायी, १.१.२२, पातञ्जलभाष्यम् ] ऎवम् इह अपि । तत् यथा 

आयतचतुरश्रक्षॆत्रफलानयन उद्दॆशकः 

अष्टौ पञ्च च पंक्तिविस्तारः दैर्घ्यम् अपि अमीषाम् यत् ।

अष्टिः द्वादश मनवः गणितम् कियत् आयतानाम् तु ॥ १ ॥

न्यासः परिलॆखः १८ अष्टौ ऎकम् पार्श्वम् ; षॊडश अन्यत् । तयॊः पार्श्वयॊः अभ्यासः, फलम् आगतम् १२८ । शॆषयॊः अपि ऎवम् ऎव ६०, १४० ।पूर्वसूत्रनिष्पन्नक्षॆत्रफलानाम् प्रत्ययकरणम् प्रदर्श्यतॆ । तत् यथा 

त्रिचतुर्भुजवृत्तानाम् दृष्टानि फलानि यानि गणितॆन ।

तॆषाम् प्रत्ययकरणम् कथय कथम् भवति सर्वॆषाम् ॥ २ ॥

अस्य समत्र्यश्रिक्षॆत्रस्य पूर्वदृष्टस्य ऎव कथम् फलप्रत्ययकरणम् [इति] न्यासः  परिलॆखः १९ ऎतत् ऎव न्यस्तम् आयतचतुरश्रक्षॆत्रम् जातम् परिलॆखः २०

[ त्रिभुजस्य अवलम्बकः आयामः ] करण्यः ३६३४ [भूम्यर्धम् विस्तारः करण्यः १२१ ४ ] फलम् पार्श्वयॊः अभ्यासः इति करण्यः ४५०३१६ पूर्वलिखिता [ऎव ] ।

ऎवम् ऎव [द्वि]समॆषु, विषमॆषु च । विषमाख्यस्य न्यासः  परिलॆखः २१ अस्य अपि अवलम्बकः आयामः १२, भूम्यर्धम् विस्तारः ७ । परिलॆखः २२  अस्य अपि पूर्ववत् ऎव विस्तारायाम् अयॊः संवर्गः फलम् ८४ ।

अथवा आयतचतुरश्रक्षॆत्रयॊः अर्धक्षॆत्रफलसंयॊगः अस्य फलम् । तयॊः द्वयॊः पञ्चविस्तारस्य द्वादशायाम् अस्य ऎकस्य, द्वितीयस्य अपि नवविस्तारस्य द्वादशायाम् अस्य अर्धक्षॆत्रफलसंयॊगः अस्य फलम् । तयॊः द्वयॊः पञ्चविस्तारस्य द्वादशायाम् अस्य ऎकस्य द्वितीयस्य अपि नवविस्तारस्य द्वादशायाम् अस्य न्यासः 

परिलॆखः २३ द्वादशपञ्चकस्य फलम् विस्तारायामाभ्यासक्रमॆण ६०, अस्य अर्धम् ऎव अस्मिन् विषमत्र्यश्रिक्षॆत्रॆ इति ३०, नव[विस्तार]द्वादशायाम् अस्य फलम् १०८, अस्य अपि अर्धम् ऎव अस्मिन् अनुप्रविष्टम् इति ५४ ; ऎतयॊः अर्धफलयॊः यॊगः सा ऎव चतुरशीतिः ८४ ।

ऎवम् द्विसमत्रिसमविषमचतुरश्रॆषु अपि फलम् प्रत्यायनीयम् । वृत्तक्षॆत्रॆ विष्कम्भार्धम् विस्तारः, परिध्यर्धम् आयामः, तत् ऎव आयतचतुरश्रक्षॆत्रम् । अनया दिशा प्रकीर्णक्षॆत्रॆ फलम् स्वधिया अभ्यूह्यम् । तत् यथा 

मुखम् ऎकादश दृष्टम् प्रतिमुखम् अपि उच्यतॆ तथा च नव ।

आयामः विंशतिकः फलम् अस्य कियत् भवॆत् गणक ॥ ३ ॥

न्यासः  परिलॆखः २४ करणम्  "प्रसाध्य पार्श्वॆ फलम् तदभ्यासः" इति विषमयॊः पार्श्वयॊः यॊगः २०, अस्य अर्धम् १०. [ आयामः २० ]. ऎतॆ दशकविंशतिकॆ पार्श्वॆ । ऎतयॊः अभ्यासः क्षॆत्रफलम् [ २०० ] ।

उद्दॆशकः 

अष्टाष्टौ पणवमुखॆ व्यासः द्वौ षॊडश उच्यतॆ दैर्घ्यम् ।

कियत् अस्य फलम् वाच्यम् पणवाकृतिसंस्थितस्य अस्य ॥ ४ ॥

न्यासः परिलॆखः २५ करणम्  मुखयॊः समासः १६, अर्धम् ८. ऎतत् विस्तारॆण २ युक्तम् १०. अस्य अर्धम् ५. ऎवम् "प्रसाध्य पार्श्वॆ फलम् तदभ्यासः" इति आगतम् फलम् ८० ।

उद्दॆशकः 

विस्तारः पञ्च उक्तः नवॊदरम् पृष्ठम् अस्य पञ्चदश ।

करिदन्तक्षॆत्रफलम् कियत्प्रमाणम् विनिर्दॆश्यम् ॥ ५ ॥

न्यासः  परिलॆखः २६ करणम्  पृष्ठॊदरसमासः २४. अर्धम् १२. ऎतत् विस्तारार्धगुणम् फलम् त्रिंशत् ३० ।  ऎवम् सर्वक्षॆत्रॆषु पार्श्वद्वयपरिकल्पनया फलम् निर्दॆष्टव्यम् ।


36. व्यासार्धतुल्यज्या 

समवृत्तविष्कम्भार्धतुल्यज्याप्रदर्शनार्थम् आह 

परिधॆः षड्भागज्या विष्कम्भार्धॆन सा तुल्या ॥ ९ ॥

परिधिः परिणाहः वृत्तम् इति पर्यायाः । तस्य परिधॆः षड्भागस्य या ज्या सा विष्कम्भार्धॆन तुल्या । परिधॆः षड्भागः राशिद्वयम् । राशिद्वयक्षॆत्रावगाहिनी या ज्या सा परिधॆः षड्भागस्य ज्या । तस्याः अर्धम् राशॆः ऎकस्य अर्धज्या । ऎतत् च सर्वम् छॆद्यकॆ प्रतिपादनीयम् इति । अस्मिन् च विरचितमुखदॆशसितवर्त्यंकुरकर्कटॆन आलिखितॆ छॆद्यकॆ यत् षड्भागज्यायाः अर्धम् तत् राशॆः अर्धज्या । तया अर्धज्यया निर्ज्ञातायाः अर्धज्यकॊत्पत्तिम् वक्ष्यति । ऎताम् ऎव षड्भागज्याम् प्रतिपादयिषता वृतक्षॆत्रॆ षट् समत्र्यश्रिक्षॆत्राणि प्रसंगॆन प्रदर्शितानि । अत्र विष्कम्भार्धबाहूनि । षट् वा धनुःक्षॆत्राणि विष्कम्भार्धज्याकानि । ऎवम् च षडश्रिक्षॆत्रम् । प्रयॊजनम् च अस्य षड्भागज्याप्रदर्शनस्य "समवृत्तपरिधिपादम् छिन्द्यात्" [ गणित, ११ ] इति अस्याम् कारिकायाम् वक्ष्यति ॥ ९ ॥


37. वृत्तॆ व्यासपरिधिसम्बन्धः 

त्रैराशिकॆन समवृत्तानयनार्थम् आह 

चतुरधिकम् शतम् अष्टगुणम् द्वाषष्टिः तथा सहस्राणाम् ।

अयुतद्वयविष्कम्भस्य आसन्नः वृत्तपरिणाहः ॥ १० ॥

चतुर्भिः अधिकम् चतुरधिकम् । किम् तत् ? शतम् । अष्टाभिः गुणितम् अष्टगुणम् । ऎतत् उक्तम् भवति  अष्टौ शतानि द्वात्रिंशदुत्तराणि इति । सहस्राणि च द्वाषष्टिः । ऎतत् उभयम् ऎकत्र ६२८३२ । अयुतद्वयम् च विष्कम्भः च अयुतद्वयविष्कम्भः । अथवा अयुतद्वयसंख्यः विष्कम्भः अयुतद्वयप्रमाणः वा अयुतद्वयविष्कम्भः । तस्य अयुतद्वयविष्कम्भस्य । स च २०००० । आसन्नः विकटः । कस्य आसन्नः ? सूक्ष्मस्य परिणाहस्य । कथम् विज्ञायतॆ सूक्ष्मस्य आसन्नः इति, न पुनर् व्यावहारिकस्य आसन्नः ; यावता श्रुतपरिकल्पना सूक्ष्मव्यावहारिकयायॊः तुल्या । न ऎषः दॊषः, सन्दॆहमात्रम् इदम् । सर्वसन्दॆहॆषु वॆदम् अवतिष्ठतॆ "व्याख्यानतः विशॆषप्रतिपत्तिः [ नहि सन्दॆहात् अलक्षणम् ]" [ अष्टाध्यायी, शिवसूत्रम् ६, पातञ्जलभाष्यम् ] इति । तस्मात् सूक्ष्मस्य आसन्नः इति व्याख्यास्यामः । अथवा आसन्नशब्दॆन तत्समीपवर्तिना अभिधीयतॆ । तॆन च तत् ऎव आसन्नशब्दॆन उच्यतॆ । तर्हि किञ्चित् भिन्नम् । यदि व्यावहारिकासन्नः व्यावहारिकात् अपि पापीयान् परिधिः, न कश्चित् पापतरम् प्रयासम् करॊति, तॆन सूक्ष्मासन्नः इति न्यायसिद्धम् । अथ आसन्नपरिधिः कस्मात् उच्यतॆ, न पुनर् स्फुटपरिधिः ऎव उच्यतॆ ? ऎवम् मन्यन्तॆ  स उपायः ऎव न अस्ति यॆन सूक्ष्मपरिधिः आनीयतॆ । ननु च अयम् अस्ति  

विक्खंभवग्गदसगुणकरणी वट्टस्स परिर‌ऒ हॊदि ।


38. विष्कम्भवर्गदशगुणकरणी वृत्तस्य परिणाहः भवति  

[ विष्कम्भवर्गदशगुणकरणी वृत्तस्य परिणाहः भवति । ]

इति । अत्र अपि कॆवलः ऎव आगमः न ऎव उपपत्तिः । रूपविष्कम्भस्य दशकरण्यः परिधिः इति । अथ मन्यतॆ प्रत्यक्षॆण ऎव प्रमीयमाणः रूपविष्कम्भक्षॆत्रस्य परिधिः दशकरण्यः इति । न ऎतत्, अपरिभाषितप्रमाणत्वात् करणीनाम् । ऎकत्रिविस्तारायाम् आयतचतुरश्रक्षॆत्रकर्णॆन दशकरणिकॆन ऎव तद्विष्कम्भपरिधिः वॆष्ट्यमाणः स तत्प्रमाणः भवति इति चॆत् तत् अपि साध्यम् ऎव ।

अन्यत् च  वृत्तक्षॆत्रॆ चत्वारि धनुःक्षॆत्राणि, ऎकम् आयतचतुरश्रक्षॆत्रम् । तॆषाम् फलसमासॆन वृत्तक्षॆत्रफलॆन भवितव्यम् । तानि फलानि संयॊज्यमानानि न वृत्तक्षॆत्रफलतुल्यानि भवन्ति ।

तत्प्रतिपादनार्थम् उद्दॆशकः 

दशविष्कम्भक्षॆत्रॆ पूर्वापरभागॆ ऎकरूपम् अवगाह्य ।

जीवा षड् दक्षिणॊत्तरयॊः अपि द्वॆ रूपॆ अवगाह्य अष्टौ ॥

तासाम् जीवानाम् आनयनॊपायसूत्रम् गाथा 

ऒगाहूणम् विष्खम्भम् ऎगाहॆण संगुणम् कुर्यात् ।

चौगुणि‌अस्स तु मूलम् जीवा सव्वखत्ताणम् ॥

[ अवगाहॊनम् विष्कम्भम् अवगाहॆण संगुणम् कुर्यात् ।

चतुर्गुणितस्य तु मूलम् सा जीवा सर्वक्षॆत्राणाम् ॥ ]

धनुःक्षॆत्रन्यासः च  परिलॆखः २७

धनुःक्षॆत्रफलानयनॆ सूत्रम् गाथा 

इसुपायगुणा जीवा दसिकरणि भवॆत् विगणिय पदम् ।

धनुपट्ट अम्मिखत्तॆ ऎदम् करणम् तु णा‌अव्वम् ॥

[ इषुपादगुणा जीवा दशकरणीभिः भवॆत् विगुण्य फलम् ।

धनुःपट्टॆ अस्मिन् क्षॆत्रॆ ऎतत् करणम् तु ज्ञातव्यम् ॥ ]

अनया गाथया पूर्वापरधनुःक्षॆत्रफलॆ क  ९०४, क९०४. ऎतॆ क्षॆत्रफलॆ करणिप्रक्षॆपविधानॆन प्रक्षॆप्तव्यॆ । 

करणीप्रक्षॆत्रपसूत्रम् गाथा 

औवट्टि अ दस्सकॆण इ मूलसमासस्समॊत्थवत् ।

ऒवट्टणायगुणियम् करणिसमासम् तु णा‌अव्वम् ॥

[ अपवर्त्य च दशकॆन हि मूलसमासः समॊत्थम् यत् ।

अपवर्तनांकगुणितम् करणिसमासम् तु ज्ञातव्यम् ॥ ]

तथाकृत्वा लब्धम् क ९० । दक्षिणॊत्तरधनुषॊः अपि तथा ऎव फलॆ क १६०, क १६० । [ समासः च क ] ६४० । समस्तयॊः पुनर् समासः क १२१० । मध्यस्थायतचतुरश्रक्षॆत्रफलम् करण्यः २३०४ । धनुःक्षॆत्रफलसमासराशॆः अस्य च करणीसमासक्रियया समस्यमानॆ राश्यॊः असंक्षॆपता । 

पृष्ठानयनम् अपि च दशकरणीपरिधिप्रक्रियापरिकल्पनया सदा न [ भवति । यतः ] पृष्ठानयनॆ सूत्रम् आर्यार्धम् 

ज्यापादशरार्धयुतिः स्वगुणा [ दशसंगुणा करण्यस्ताः ]


39. अत्र उद्दॆशकः  द्विपञ्चासत् विष्कम्भॆ द्विः अवगाह्य  

[अत्र उद्दॆशकः  द्विपञ्चासत् विष्कम्भॆ द्विः अवगाह्य । ]

"ऒगाहूणम् विक्खम्भम्" इति अनॆन ज्या लब्धा विंशतिः [२०] । [ अनया ज्यया ] पृष्ठानयनम्  ज्यापादः [२०४ = ] ५,शरार्ध [१] युतिः ६, स्वगुणा ३६, दशसंगुणाः ३६०, ऎता करण्यः पृष्ठम् । सकलज्यावर्गः चत्वारि शतानि, पृष्ठम् करणीनाम् षष्टिशतत्रयम् इति, कथम् ऎतत् संघटतॆ । ज्यायसा ज्यातः पृष्ठॆन भवितव्यम् । तत् ऎतत् विचार्यमाणम् अत्यन्तसूक्ष्मवादिनाम् ज्यातः पृष्ठम् अल्पीयमानम् आपतितम् अतः अस्यै अविचारितमनॊहरायै नमः अस्तु दशकरण्यै ।

अथ अपरः अपि उद्दॆशकः 

षड्विंशतिविष्कम्भक्षॆत्रॆ ऎकम् अवगाह्य । पूर्वकरणॆन ऎव ज्या दश १० । पूर्ववत् ऎव पृष्ठम् अस्याः नवतिः करणीनाम् ९० । ज्यावर्गः शतम् १०० । ऎवम् इदम् आलॊच्यमानम् अत्यन्तस्थूलताम् आपन्नम् इति । तस्मात् स उपायः ऎव न अस्ति इति सूक्तम् ।

अथ ऎतौ महान्तौ राशी कस्मात् उच्यॆतॆ, न पुनर् अपवर्तितौ ऎव उच्यॆतॆ; आचार्यः च लाघविकः, न तस्य लाघविकस्य महाराश्यभिधानम् युज्यतॆ । इदम् ऎकम् आचार्यस्य मृश्यताम् । अथवा अयुतद्वयविष्कम्भम् इति अल्पैः अक्षरैः उच्यतॆ । न तथा अपवर्तितविष्कम्भाभिधानॆ अल्पाक्षरता । अथवा मन्यतॆ  महापरिधिविष्कम्भाभिधानॆ महाविष्कम्भासु ज्यासु अल्पपरिग्रहापचयॆषु न फलविशॆषः अल्पान्तरत्वात् इति, तथा च "मखि" आदिषु क्वचित् असतः उपादानम् कृतम्, क्वचित् च सतः परित्यागः ।

परिणाहः परिधिः, वृत्तम् क्षॆत्रम्, वृत्तस्य परिणाहः वृत्तपरिणाहः, वृत्तपरिधिः इति अर्थः । अनॆन विष्कम्भॆ निर्ज्ञातॆ परिधिः आनीयतॆ, परिधौ च निर्ज्ञातॆ विष्कम्भॆ इति । कथम् ? यदि अस्य विष्कम्भस्य अयम् परिधिः इच्छाविष्कम्भस्य कियान्, यदि अस्य परिधॆः अयम् विष्कम्भः इच्छापरिधॆः कियान् इति ।

उद्दॆशकः 

द्विचतुःसप्ताष्टानाम् व्यासानाम् यानि वृत्तगणितानि ।

सूक्ष्मासन्नानि सखॆ विगणय गणितानुसारॆण ॥ १ ॥

क्षॆत्रस्य न्यासः  परिलॆखः २८  लभ्दानि वृत्तानि यथाक्रमॆण ६ १२ २१ २५ १७७ ३५४ १२३९ ८३ ६२५ ६२५ १२५० ६२५

परिधौ निर्ज्ञातॆ विष्कम्भानयनॆ उद्दॆशकः 

नवनवयमरामाणाम् अष्टाभिः शरयमांशहीनानाम् ।

खखरसवृन्दस्य च मॆ व्यासौ आचक्ष्व विगणय्य ॥ २ ॥

न्यासः  ३२९९८२५ । २१६०० लब्धौ यथाक्रमॆण व्यासौ १०५० । ६८७५६२५१३०९


40. छॆद्यकविधिना ज्या आनयनम् 

अथ ज्यानयनार्थम् आह 

समवृत्तपरिधिपादम् छिन्द्यात् त्रिभुजात् चतुर्भुजात् च ऎव ।

समचापज्यार्धानि तु विष्कम्भार्धॆ यथा इष्टानि ॥ ११ ॥

समवृत्तम् परिधिः यस्य क्षॆत्रस्य तत्क्षॆत्रम् समवृत्तपरिधिः, तस्य पादः समवृत्तपरिधिपादः । सति ऎतस्मिन् व्याख्यानॆ क्षॆत्रफलस्य ग्रहणम् प्राप्नॊति । आचार्यप्रभाकरॆण अयम् ऎव विग्रहः प्रदर्शितः । स गुरुः इति कृत्वा अस्माभिः न उपालभ्यतॆ । अन्यत् च  काष्ठतुल्यज्याभिधानम् युक्तम् इति अशास्त्रज्ञः अपि जानाति इति तॆन ऎव काष्ठतुल्यज्या प्रत्याख्याता । वयम् तु ब्रूमः  अस्ति काष्ठतुल्यज्या इति । यदि काष्ठतुल्यज्या न स्यात् तदा समायामवनौ व्यवस्थानम् ऎव अयॊगुडस्य न स्यात् । तॆन अनुमीमहॆ कश्चित् प्रदॆशः सः अस्ति इति यॆन असौ अयॊगुडः समायामवनौ अवतिष्ठतॆ । स च प्रदॆशः परिधॆः षण्णवत्यंशः । काष्ठतुल्यज्या अन्यैः अपि आचार्यैः अभ्यवगता तत्परिधॆः शतभागम् स्पृशति धराम् गॊलकशरीरात् । इति । समवृत्तः अयम् परिधिः समवृत्तपरिधिः, समवृत्तपरिधॆः पादः समवृत्तपरिधिपादः, तम् समवृत्तपरिधिपादम् छिन्द्यात् । ज्याविभागॆन इति वाक्यशॆषः । ज्याविभागॆन समवृत्तपरिधौ खण्ड्यमानॆ त्रिभुजात् चतुर्भुजात् च क्षॆत्रात् समचापज्यार्धानि निष्पद्यन्तॆ, न विषमचापज्यार्धानि । तानि विशिष्टानि ऎव परिगृह्यन्तॆ, द्विचतुरष्टषॊडशद्वात्रिंशत् इति आदीनि द्विगुणॊत्तराणि । "तु"-शब्दात् द्विचतुष्षडष्टदशद्वादशचतुर्दशादीनि च । विष्कम्भार्धॆ

त्रिभुजक्षॆत्रम् उत्पद्यतॆ । तस्मात् त्रिभुजात् चतुर्भुजात् च क्षॆत्रज्यार्धानि निष्पद्यन्तॆ । कथम् पुनर् विष्कम्भार्धॆ त्रिभुजम् च चतुर्भुजक्षॆत्रम् उत्पद्यतॆ इति उच्यतॆ  यस्य व्यासार्धम् भुजा कर्णः वा भवति तद्व्यासार्धॆ निष्पन्नम् । अथवा विष्कम्भार्धॆ ऎव ज्यार्धानि निष्पद्यन्तॆ । विष्कम्भार्धावयवत्वात् न विष्कम्भार्धम् अतिरिच्य वर्तन्तॆ इति अर्थः । अथवा विष्कम्भार्धॆ सति ज्यार्धानि निष्पद्यन्तॆ । निर्ज्ञातॆ हि विष्कम्भार्धॆ शक्यतॆ ज्या कल्पयितुम्, न अन्यथा । कथम् ? यस्मात् उक्तम् "परिधॆः षड्भागज्या विष्कम्भार्धॆन सा तुल्या" [ गणित, ९ ] इति । यथा इष्टानि यथा ईप्सितानि, समचापज्यार्धानि ।

अस्याम् कारिकायाम् ज्यॊत्पत्तिविस्तुमात्रम् ऎव प्रतिपादितम् आचार्यॆण, [ करणम् ] तु न प्रतिपादितम्; प्रदॆशान्तरप्रसिद्धत्वात् करणस्य । अथवा ज्यॊत्पत्तौ यत् करणम् तत् सर्वम् छॆद्यकविषयम्, छॆद्यकम् च व्याख्यानगम्यम् इति [ न ] प्रतिपादितम् ।

अथ किम् अर्थम् समवृत्तपरिधिपादः ऎव ज्याविभागॆन छिद्यतॆ, न पुनर् समवृत्तपरिधिः छॆद्यतॆ ? न ऎषः दॊषः । समवृत्तपरिधिपादप्रमाणमात्रम् त्रयः राशयः । ऎवम् चतुर्षु चतुर्भागॆषु । यस्मात् परिधिपादप्रमाणस्य तुल्यत्वात् सर्वॆषाम् परिधिपादानाम् ज्यार्धानि तुल्यानि भवन्ति इति परिधिपादज्यार्धॆ इति ऎव प्रतिपादितानि व्यवहारप्रसिद्ध्यर्थम् ।

उद्दॆशकः 

वसुदहनकृतहुताशनसंख्यॆ विष्कम्भार्धॆ कियत्प्रमाणानि ज्यार्धानि । 

राश्यर्धकाष्ठानि निष्पाद्यन्तॆ । विष्कम्भार्धम् ३४३८ ।  करणम्  यावत् तावत् प्रमाणपरिच्छिन्नविष्कम्भार्धतुल्यॆन कर्कटकॆन मण्डलम् आलिख्य तत् द्वादशधा विभजॆत् । तॆ च द्वादशभागाः राशयः इति परिकल्प्याः । अथ द्वादशधा विभक्तॆ मण्डलॆ पूर्वॆण राशिद्वयाग्रावगाहिनीम् दक्षिणॊत्तराम् ज्याकाराम् लॆखाम् कुर्यात् । ऎवम् पश्चिमभागॆ अपि । ऎवम् ऎव दक्षिणॊत्तरभागयॊः अपि च पूर्वापरायताम् ज्याम् कुर्यात् । पुनर् अपि च पूर्वापरदक्षिणॊत्तरदिक्षु तथा ऎव च राशिचतुष्टयाग्रावगाहिन्यः लॆखाः कुर्यात् । तथा त्र्यश्री[णि] कर्तव्यानि । तथा च परिधिनिष्पन्नम् क्षॆत्रम् कर्कटकॆन विरचितवर्तिकामुखॆन लिख्यतॆ । ऎवम् आलिखितॆ क्षॆत्रॆ सर्वम् प्रदर्शयितव्यम् । 

परिलॆखः २९

अत्र आलॆख्यॆ व्यासार्धतुल्या चतुर्णाम् काष्ठानाम् [पूर्ण]ज्या । तदर्धम् द्विकाष्ठज्या । सा च १७१९ । ऎषा भुजा, व्यासार्धम् कर्णः इति, भुजाकर्णवर्गविशॆषस्य मूलम् अवलम्बकः । सा ऎव चतुर्णाम् काष्ठानाम् ज्या । सा च २९७८ । ऎताम् व्यासार्धात् विशॊध्य शॆषम् द्विकाष्ठशरः, शरद्विकाष्ठज्यावर्गयॊगमूलम् कर्णः । सा ऎव द्विकाष्ठ[पूर्ण]ज्या च १७८० । अर्धम् अस्याः काष्ठस्य ऎकस्य ज्या, ८९० । ऎषा भुजा, व्यासार्धम् कर्णः । भुजाकर्णवर्गविशॆषस्य मूलम् अवलम्बकः । स च पञ्चानाम् काष्ठानाम् ज्या । सा च ३३२१, विषमत्वात् अतः ज्या न उत्पद्यन्तॆ । ऎवम् त्रिभुजात् पञ्च ज्यार्धानि व्याख्यातानि ।

अन्तःसमचतुरश्रक्षॆत्रॆ व्यासार्धतुल्या बाहवः । तस्य कर्णः व्यासार्धयॊः वर्गयॊगमूलम् । तत् च ४८६२ । अस्य अर्धम् त्रयाणाम् काष्ठानाम् ज्या । सा च २४३१ । ऎवम् ऎका ज्या चतुर्भुजात् निष्पन्ना, विषमत्वात् उत्पत्तिः न अस्ति ।

विष्कम्भार्धॆ षट् राश्यर्धकाष्ठज्यार्धानि प्रतिपादितानि । तस्मिन् ऎव विष्कम्भार्धॆ राशिचतुर्भागकाष्ठज्या व्याख्यास्यामः । तत् यथा  पूर्ववत् आलिखितॆ क्षॆत्रॆ व्यासार्धम् ऎव अष्टानाम् काष्ठानाम् [पूर्ण]ज्या । तदर्धम् चतुर्णाम् काष्ठानाम् ज्या, सा च १७१९ । इयम् भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषमूलम् कॊटिः । सा अष्टानाम् काष्ठानाम् ज्या, सा च २९७८ । ऎताम् व्यासार्धात् विशॊध्य शॆषम् चतुःकाष्ठज्याशरः । शरचतुष्काष्ठज्यावर्गयॊगमूलम् कर्णः । सा चतुर्णाम् काष्ठानाम् [पूर्ण]ज्या, सा च १७८० । तद्दलम् द्विकाष्ठज्या, [सा] च ८९० । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषमूलम् कॊटिः । सा दशानाम् काष्ठानाम् ज्या, सा च ३३२१ । ऎताम् व्यासार्धात् विशॊध्य शॆषम् द्विकाष्ठशरः । शरद्विकाष्ठज्यावर्गयॊगमूलम् कर्णः । सा ऎव द्विकाष्ठ[पूर्ण]ज्या, सा च ८९८ । अर्धम् अस्याः काष्ठस्य ऎकस्य ज्या, सा च ४४९ । ऎषा भुजा, व्यासा‌ऋधम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा ऎकादशानाम् काष्ठानाम् ज्या, सा च ३४०९ । विषमत्वात् अतः ज्या न उत्पद्यतॆ ।

अथ द्विकाष्ठज्याम् व्यासार्धात् विशॊध्य शॆषम् दशकाष्ठशरः । शरदशकाष्ठज्यावर्गयॊगमूलम् कर्णः । स [ऎव] काष्ठानाम् दशानाम् [पूर्ण] ज्या, सा च ४१८६ । अर्धम् अस्याः पञ्चानाम् काष्ठानाम् ज्या, सा च २०९३ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा सप्तानाम् काष्ठानाम् ज्या, सा च २७२८ । विषमत्वात् अतः ज्या न उत्पद्यतॆ । ऎवम् त्रिभुजात् नव ज्यार्धानि ।

पूर्ववदुक्तसमचतुरश्रक्षॆत्रस्य व्यासार्धबाहुकस्य व्यासार्धयॊः वर्गयॊगमूलम् कर्णः । स च द्वादशानाम् काष्ठानाम् [पूर्ण]ज्या, सा च ४८६२ । अर्धम् अस्याः षण्णाम् काष्ठानाम् ज्या, सा च २४३१ । ऎताम् व्यासार्धात् विशॊध्य शॆषम् षट्काष्ठशरः, शरषट्काष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव षण्णाम् काष्ठानाम् [पूर्ण]ज्या, सा च २६३० । अर्धम् अस्याः त्रयाणाम् काष्ठानाम् ज्या, सा च १३१५ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा नवानाम् काष्ठानाम् ज्या । सा च ३१७७ । विषमत्वात् अतः ज्या न उत्पद्यतॆ । ऎवम् चतुर्भुजात् तिस्रः ज्याः । विष्कम्भार्धॆ द्वादश ।

द्वादश राशिचतुर्भागकाष्ठज्यार्धानि व्याख्यातानि । तस्मिन् ऎव विष्कम्भार्धॆ राश्यष्टभागज्या वक्ष्यामः । तत् यथा  पूर्ववदालिखितॆ क्षॆत्रॆ व्यासार्धम् ऎव षॊडशानाम् काष्ठानाम् [पूर्ण]ज्या । तदर्धम् अष्टानाम् काष्ठानाम् ज्या, सा च १७१९ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा षॊडशानाम् काष्ठानाम् ज्या, सा च २९७८ । ऎताम् व्यासार्धात् विशॊधयॆत् । शॆषम् अष्टकाष्ठशरः । शराष्टकाष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव अष्टानाम् काष्ठानाम् [पूर्ण]ज्या, सा च १७८० । अर्धम् अस्याः चतुर्णाम् काष्ठानाम् ज्या, सा च ८९० । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा ऎव विंशतॆः काष्ठानाम् ज्या, सा च ३३२१ । ऎताम् व्यासार्धात् विशॊध्य शॆषम् चतुःकाष्ठशरः । शरचतुष्काष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव चतुर्णाम् काष्ठानाम् [पूर्ण]ज्या, सा च ८९८ । अर्धम् अस्याः काष्ठयॊः ज्या, सा च ४४९ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा ऎव द्वाविंशतॆः काष्ठानाम् ज्या, सा च ३४०९ । ऎताम् व्यासार्धात् विशॊधयॆत् । शॆषम् द्विकाष्ठशरः । शरद्विकाष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव काष्ठयॊः [पूर्ण]ज्या, सा च ४५० । अर्धम् अस्याः काष्ठस्य ज्या, सा च २२५ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा ऎव त्रयॊविंशतॆः काष्ठानाम् ज्या, सा च ३४३१ । विषमत्वात् अतः ज्या न उत्पद्यतॆ ।

अथ चतुर्णाम् काष्ठानाम् ज्याम् व्यासार्धात् विशॊधयॆत् । शॆषम् विंशतॆः काष्ठानाम् शरः । शरविंशतिकाष्ठज्यावर्गयॊगमूलम् कर्णः । स विंशतॆः काष्ठानाम् [पूर्ण]ज्या, सा च ४१८६ । अर्धम् अस्याः दशानाम् काष्ठानाम् ज्या, सा च २०९३ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः, सा ऎव चतुर्दशानाम् काष्ठानाम् ज्या, सा च २७२८ । ऎताम् व्यासार्धात् विशॊधयॆत् । शॆषम् दशकाष्ठानाम् शरः । शरदशकाष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव दशानाम् काष्ठानाम् [पूर्ण]ज्या, सा च २२१० । अर्धम् अस्याः पञ्चानाम् काष्ठानाम् ज्या, सा च ११०५ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषमूलम् कॊटिः । सा ऎव ऎकॊनविंशतॆः काष्ठानाम् ज्या, सा च ३२५६ । विषमत्वात् अतः ज्या न उत्पद्यतॆ ।

अथ द्विकाष्ठज्याम् व्यासार्धात् विशॊधयॆत् । शॆषम् द्वाविंशतॆः काष्ठानाम् शरः । शरद्वाविंशतिकाष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव द्वाविंशतॆः काष्ठानाम् [पूर्ण]ज्या । सा च ४५३४ । अर्धम् अस्याः ऎकादशानाम् काष्ठानाम् ज्या, सा च २२६७ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा ऎव त्रयॊदशानाम् काष्ठानाम् ज्या, सा च २५८५ । विषमत्वात् अतः ज्या न उत्पद्यतॆ ।

अथ दशानाम् काष्ठानाम् ज्याम् व्यासार्धात् विशॊधयॆत् । शॆषम् चतुर्दशानाम् काष्ठानाम् शरः । शरचतुर्दशकाष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव चतुर्दशानाम् काष्ठानाम् [पूर्ण] ज्या, सा च ३०४० । अर्धम् अस्याः सप्तानाम् काष्ठानाम् ज्या, सा च १५२० । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषमूलम् कॊटिः । सा ऎव सप्तदशानाम् काष्ठानाम् ज्या, सा च ३०८४ । विषमत्वात् अतः ज्या न उत्पद्यतॆ ।

ऎवम् त्रिभुजात् राश्यष्टभागकाष्ठज्याः व्याख्याताः । अथ चतुर्भुजात् व्याख्यास्यामः । अन्तःसमचतुरश्रक्षॆत्रस्य व्यासार्धतुल्याः बाहवः । तयॊः वर्गयॊगमूलम् कर्णः । स ऎव चतुर्विंशतॆः काष्ठानाम् [पूर्ण]ज्या, सा च ४८६२ । अर्धम् अस्याः द्वादशानाम् काष्ठानाम् ज्या, सा च २४३१ । ऎताम् व्यासार्धात् विशॊधयॆत् । शॆषम् द्वादशानाम् काष्ठानाम् शरः । शरद्वादशकाष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव द्वादशानाम् काष्ठानाम् [पूर्ण]ज्या, सा च २६३० । अर्धम् अस्याः षण्णाम् काष्ठानाम् ज्या, सा च १३१५ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः । सा अष्टादशानाम् काष्ठानाम् ज्या, सा च ३१७७ । ऎताम् व्यासार्धात् विशॊधयॆत् । शॆषम् षण्णाम् काष्ठानाम् शरः । शरषट्काष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव षण्णाम् काष्ठानाम् [पूर्ण]ज्या, सा च १३४२ । अर्धम् अस्याः त्रयाणाम् काष्ठानाम् ज्या, सा च ६७१ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषस्य मूलम् कॊटिः, सा ऎव ऎकविंशतॆः काष्ठानाम् ज्या, सा च ३३७२ । विषमत्वात् अतः ज्या न उत्पद्यतॆ ।

अथ षण्णाम् काष्ठानाम् ज्याम् व्यासार्धात् विशॊधयॆत् । शॆषम् अष्टादशकाष्ठानाम् शरः । शराष्टादशकाष्ठज्यावर्गयॊगमूलम् कर्णः । स ऎव अष्टादशानाम् काष्ठानाम् [पूर्ण]ज्या, सा च ३८२० । अर्धम् अस्याः नवानाम् काष्ठानाम् ज्या, सा च १९१० । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषमूलम् कॊटिः । सा ऎव पञ्चदशानाम् काष्ठानाम् ज्या, सा च २८५९ । विषमत्वात् अतः ज्या न उत्पद्यतॆ ।

ऎवम् राश्यष्टभागकाष्ठज्याः चतुर्विम्शतिः । अनॆन ऎव विधानॆन विष्कम्भार्धॆ यथॆष्टानि ज्यार्धानि निष्पादयितव्यानि इति ॥ ११ ॥


41. प्रकारान्तरॆण खण्डज्या 

ज्याविभागप्रदर्शनार्थम् आह 

प्रथमात् चापज्यार्धात् यैः ऊनम् खण्डितम् द्वितीयार्धम् ।

तत्प्रथमज्यार्धांशैः तैः तैः ऊनानि शॆषाणि ॥ १२ ॥

प्रथमात् आद्यात् चापज्यार्धात् । यैः ऊनम् यावद्भिः अंशैः ऊनम् अप्राप्तसदृशम् । किम् तत् ? खण्डितम् द्वितीयार्धम्, खण्डितम् पूर्वार्याभिहितच्छॆद्यकविधिना छिन्नम् द्वितीयचापज्यार्धम् । तत्प्रथमज्यार्धांशैः । तत् इति यावद्भिः प्रथमचापज्यार्धात् द्वितीयचापज्यार्धम् ऊनम् तावन्तः तैः परिगृह्यन्तॆ, ज्यायाः अर्धम् ज्यार्धम्, प्रथमम् च तज्ज्यार्धम् च प्रथमज्यार्धम् ; अथवा प्रथमा च असौ ज्या च प्रथमज्या, प्रथमज्या च असौ अर्धम् च प्रथमज्यार्धम् ; प्रथमज्यार्धस्य अंशः प्रथमज्यार्धांशः ; प्रथमज्यार्धांशः च प्रथमज्यार्धॆन भागम् हृत्वा लब्धा यथा पञ्चांशः षडंशः, तॆ च प्रथमज्यार्धांशाः च तत्प्रथमज्यार्धांशाः तैः तत्प्रथमज्यार्धांशैः । तैः तैः अंशैः इति वीप्साग्रहणम् च अर्थवत् भवति । ऊनानि शॆषाणि । ऊनानि रहितानि, शॆषाणि तृतीयादि ज्यार्धानि भवन्ति । तत् यथा  प्रथमम् चापज्यार्धम् इदम् छॆद्यकॆन निष्पन्नम् २२५ । द्वितीयम् चापज्यार्धच्छॆदम् २२४ । ऎतत् प्रथमचापज्यार्धात् ऎकॆन ऊनम् । द्वितीयचापज्यार्धांशम् प्रथमचापज्यार्धम् च ऎकत्र ४४९ । अस्य प्रथमचापज्यार्धॆन भागॆ [हृतॆ] लब्धम् अर्धाधिकॆन द्वॆ रूपॆ । ताभ्याम् पूर्वॆण च [ऎकॆन ऊनम्] प्रथमचापज्यार्धम् [तृतीयज्यार्धम्] भवति । तत् च २२२ । त्रयाणाम् संयॊगः ६७१ । अस्य प्रथमचापज्यार्धॆन भागलब्धम् अर्धाधिकॆन त्रीणि रूपाणि । तैः पूर्वलब्धैः च त्रिभिः ऊनम् प्रथमचापज्यार्धम् चतुर्थज्यार्धम् भवति । तत् च २१९ । चतुर्णाम् ज्यार्धानाम् संयॊगः ८९० । अस्य प्रथमज्यार्धॆन भागलब्धम् चत्वारि रूपाणि अर्धाधिकॆन । तैः पूर्वैः च षड्भिः ऊनम् प्रथमम् चापज्यार्धम् पञ्चमज्यार्धम् भवति । तत् च २१५ । ऎतैः शॆषाणि व्याख्यातानि इति ।

इदम् च व्याख्यानम् आचार्यप्रभाकरॆण व्याख्यातम् । तत् च अयुक्तम् अनर्थकम् अप्रत्याख्याय व्याख्यानम् कर्तुम् । कथम् अनर्थकम् ? अत्र गणितशास्त्रॆ लघूपायप्रदर्शनार्थम् उपायान्तरप्रदर्शनार्थम् वा सूत्रान्तरम् आरभ्यतॆ । अत्र अन्यतरगन्धः अपि न अस्ति । कथम् ? पूर्वार्याभिहितछॆद्यकविधिना निर्ज्ञाताभ्याम् प्रथमद्वितीयचापज्यार्धाभ्याम् इदम् कर्म क्रियतॆ । तस्मिन् द्विसूत्रायतत्वात् कर्मणः लाघवम् न अस्ति । उपायान्तरता च [न] पूर्वसूत्राश्रयत्वात ।

ऎतस्मात् न अर्थः अनॆन सूत्रॆण । कथम् पुनर् इमाः ज्याः पृथक् पृथक् विज्ञायन्तॆ ? अतिबालिशवाक्यम् ऎतत् । तज्ज्यॊत्पत्तॆः । काष्ठद्विकाष्ठत्रिकाष्ठादिज्यार्धानि प्रतिपादितानि । तॆषाम् अन्यॊन्यविशॆषॆण पृथक् पृथक् ज्याः भवन्ति इति अगणितज्ञः अपि च जानाति, किम् पुनर् सांवत्सरः । तथा च मन्दबुद्धिप्रतिपत्त्यर्थम् प्रस्तीर्यतॆ । तत् यथा २२५, ४४९, ६७१, ८९०, ११०५, १३१५, १५२०. १७१९, १९१०, २०९३, २२६७, २४३१, २५८५, २७२८, २८५९, २९७८, ३०८४, ३१७७, ३२५६, ३३२१, ३३७२, ३४०९, ३४३१, ३४३८ ।

अनन्तरानन्तररहिताः क्रमॆण पृथक् पृथक् ज्याः  २२५, २२४, २२२, २१९, २१५, २१०, २०५, १९९, १९१, १८३, १७४, १६४, १५४, १४३, १३१, ११९, १०६, ९३, ७९, ६५, ५१, ३७, २२, ७ ।

ऎताः ऎव उत्क्रमॆण अन्त्यात् आरभ्य उत्क्रमज्याः ॥ १२ ॥


42. वृत्तादिसिद्धिः 

वृत्तादिसिद्धिम् दिंमात्रप्रदर्शनार्थम् आह 

वृत्तम् भ्रमॆण साध्यम् त्रिभुजम् च चतुर्भुजम् च कर्णाभ्याम् ।

साध्या जलॆन समभूः अधः ऊर्ध्वम् लम्बकॆन ऎव ॥ १३ ॥

वृत्तम् क्षॆत्रम् भ्रमॆण साध्यतॆ । भ्रमशब्दॆन कर्कटकः परिगृह्यतॆ । तॆन कर्कटॆन समवृत्तम् क्षॆत्रम् परिलॆखप्रमाणॆन परिमीयतॆ । त्रिभुजम् च चतुर्भुजम् च कर्णाभ्याम् । त्रिभुजम् क्षॆत्रम् चतुर्भुजम् च क्षॆत्रम् कर्णाभ्याम् प्रसाध्यतॆ । त्रिभुज तावत् समायामवनौ सूत्रम् प्रसार्य रॆखाम् कुर्यात् । सा च 

परिलॆखः ३०  अत्र उभयाग्रव्यवस्थितॆन कर्कटकॆन मत्स्यम् उत्पादयॆत् । ऎतद्वक्त्रपुच्छनिष्क्रान्तापरसूत्रम् अवलम्बकः ।

परिलॆखः ३१ अस्य अग्रॆ सूत्रस्य ऎकम् अग्रम् निधाय द्वितीयाग्रम् भूम्यग्रॆ निश्चलम् निधाय रॆखाम् कुर्यात् । द्वितीयाग्रॆ अपि तथा ऎव । ऎवम् तॆ कर्णसूत्रॆ । ताभ्याम् कर्णसूत्राभ्याम् प्रसाधितम् त्रिभुजम् 

परिलॆखः ३२ चतुर्भुजॆ इष्टचतुर्भुज[कर्ण]तुल्यम् सूत्रम् तिर्यक् प्रसारयॆत् । तत् च सूत्रम् 

परिलॆखः ३३ द्वितीयम् च ऎतत् मध्यजनितस्वस्तिकम् तिर्यक् ऎव प्रसार्यतॆ । तथा च कर्णसूत्रॆ

परिकॆखः ३४ ऎतयॊः पार्श्वानि पूरितानि, चतुरश्रक्षॆत्रम् निष्पन्नम् ।

परिलॆखः ३५  साध्या जलॆन समभूः । समभूः जलॆन साध्यतॆ । तत् यथा  चक्षुःसूत्रसमीकृतायामवनौ त्रिकाष्ठॊपरि निर्वातॆ जलकुम्भम् निधाय अधः सुषिरम् कुर्यात्, यथा तत् उदकम् ऎकरूपया धारया स्रवति । तत् प्रस्रुतम् अम्भः समन्तात् परिवर्तुलम् यत्र प्रयाति सा भूः समा, यत्र तत् अम्भः वृत्तम् भंक्त्वा प्रतिष्ठतॆ तत् निम्नम्, यत्र न अवगाहतॆ तत् उन्नतम् इति । अधः ऊर्ध्वम् लम्बकॆन ऎव । अधः उपलक्षितस्य यः ऊर्ध्वप्रदॆशः सः अवलम्बकॆन ऎव साध्यतॆ । ऊर्ध्वप्रदॆशस्य वा यः अधःप्रदॆशः असौ अपि अवलम्बकॆन ऎव । अवलम्बकः च गुरुद्रव्यैकाग्रासक्तम् सूत्रम् इति ॥ १३ ॥


43. स्ववृत्तविष्कम्भार्धम् 

स्ववृत्तविष्कम्भार्धानयनार्थम् आह 

शंकॊः प्रमाणवर्गम् छायावर्गॆण संयुतम् कृत्वा ।

यत् तस्य वर्गमूलम् विष्कम्भार्धम् स्ववृत्तस्य ॥ १४ ॥

[ शंकॊः आकारप्रकारविवॆचनम् ]

अत्र शंकॊः आकारप्रमाणयॊः विप्रवदन्तॆ सांवत्सराः । कॆचित् तावत् आहुः  द्वादशांगुलशंकुः मूलत्रिभागॆ चतुरश्रः, मध्यत्रिभागॆ त्र्यश्रिः, उपरित्रिभागॆ शूलाकारः इति । सूक्ष्मत्वात् विग्रहस्य सूक्ष्मया ऎकया कॊट्या छायाग्रस्य सुलक्ष्यत्वात् शॆषैः च दुःसम्पादत्वात् इति तत् च न । शूलाग्रस्य अवलम्बकस्य विन्यासाभावात् ऋजुता ऎव दुःसम्पाद्या । तदभावात् सर्वगुणाभावः । गॊपुच्छाकृतिवृत्तॊदरः तु भ्रष्टावलम्बकत्वॆन ऎव प्रत्याख्याता।

अपरॆ आहुः  चतुरश्रः चतुर्दिशम् अवलम्बकसाधनसम्भवात् कॊटिद्वयॆन छायाग्रहणात् अभीष्टकॊट्याम् दिग्ग्रहणसिद्धिः इति । ऎतत् अपि युज्यतॆ, किन्तु तादृशस्य सम्प्रति शिल्पिनः समचतुरश्रक्षॆत्रसम्पादिनः दुर्लभत्वात् यदि अपि स्वभ्यस्तविद्यः कश्चित् कदाचित् सम्भवॆत्, तथा अपि प्रतिक्षणम् सूर्यस्य अभिमुखस्थापनात् पुनर् पुनर् शंकॊः मुखचालनम् कर्तव्यम् । तथा च अतिसूक्ष्मदृशः तावता अभीष्टच्छायातिक्रान्ता स्यात् इति दॊषः, ऎतस्मात्

परित्याज्यः अयम् अपि शंकुः । अनॆन ऎव सर्वत्र शंकवः प्रयुक्ताः ।

आर्यभटीयाः स्वमतम् अभिनिनिष्ठापयिषवः व्यावर्णयन्ति । तत् यथा  प्रशस्तदारुमयः हि असुषिरः राजिग्रन्थव्रणवर्जितः भ्रमसिद्धः मूलमध्याग्रान्तरालतुल्यवृत्तः न अल्पव्यासः न अल्पायामः च प्रशस्तः । त्रिभिः चतुर्भिः वा अवलम्बकैः अस्य ऋजुस्थितिः साधयितव्या । शंकॊः मध्यसूत्रस्य असिद्धत्वात् अवलम्बकस्थितिः अपि दुःसम्पाद्य इति अतः शंकुमध्यसूत्रसाधनम् प्रदर्श्यतॆ । तत् यथा  शंकुमुच्चॆ प्रदॆशॆ निश्चलम् निधाय अवलम्बकॆन शंकुमूलमस्तकयॊः मध्यॆ विज्ञाय तदग्रसक्तम् सूत्रम् प्रसार्य उभयपार्श्वॆ च लॆखॆ कुर्यात् । ऎतत् उभयपार्श्वमध्यलॆखॆ, ततः पुनर् अपि कर्कटकॆन लॊहॆन मूलाग्रमध्यसूत्राभ्याम् मत्स्यम् उत्पाद्य शॆषमध्यलॆखासाधनम् । ननु च अत्र अपि दॊषः अस्ति ऎव, सर्वदिक्षु तन्मस्तकस्य छायाग्रस्य विपुलवृत्तत्वात् छायामध्यम् दुर्लक्ष्यम् । तॆन च विना आदिग्रहणाभावः इति । न ऎषः दॊषः । शंकॊः उपरि कॆन्द्रॆ विष्कम्भार्धाधिकान्या समवृत्ता शलाका मध्यप्रसाधिनी लॊही दार्वी वा क्रियतॆ । तदा आदिग्रहणमध्यपरिज्ञानम् च भविष्यति इति । अथवा प्राज्ञस्य अवलम्बकसूत्रॆण पूर्वविन्यस्तॆन ऎव किञ्चित् उत्क्षिप्तॆन मध्यपरिज्ञानम् । अथ अंगुलविभागात् तीक्ष्णॆन शस्त्रॆण मनाक् शकलितम् कृतम् । अन्यथा हि प्रमाणग्रहणम् अनर्थकम् स्यात् । तस्मात् यथॆष्टप्रमाणः शंकुः द्वादशांगुलः इति सुप्रसिद्धम् अंगीकृत्य उच्यतॆ । उद्दॆशकॆषु ऎतत् प्रतिपादयिष्यामः । यावत् यावत् अयम् पृथुः गुरुः च भवति तावत् तावत् वायुना न ऎव चाल्यतॆ, यावत् यावत् च दीर्घः भवति तावत् तावत् च अंगुलावयवाः सूक्ष्माः सुपरिज्ञाताः भवन्ति । तस्मात् पृथुगुरुदीर्घॆषु आदरः कार्यः इति अभिहितः शंकॊः आकारः ।


44. शंकुप्रमाणविवॆचनम् 

इदानीम् प्रमाणम् उपदॆक्ष्यामः । कॆचित् आहुः  अर्धहस्तः द्वादशधा विभक्तशरीरः इति । न ऎषः नियमः । किन्तु अभीष्टसंख्याप्रविभक्तशरीरः अभीष्टसंख्याप्रविभक्तः इति अर्थः । यत्र प्रमाणग्रहणम् कृतम्, तत्र अपि समांगुलविभागॆ कॆन्द्रविभागॆ च कौशलम् अभ्यसनीयम् ।

[ श्लॊक-व्यख्या ]

शंकॊः प्रमाणवर्गम्, शंकॊः इत्थम् प्रपञ्चतप्रमाणस्य प्रमाणग्रहणम् अनियतप्रमाणप्रतिपादनार्थम् इति उक्तम् । यदि शंकॊः नियतम् ऎव प्रमाणम् स्यात् तदा शंकॊः वर्गम् इति इयता अपि उच्यमानॆ तन्नियतप्रमाणः ऎव प्रतिपत्तिः । प्रमाणस्य वर्गः प्रमाणवर्गः, तम् प्रमाणवर्गम् । छायावर्गॆण, छायायाः वर्गः छायावर्गः, तॆन छायावर्गॆण । संयुतम् कृत्वा, ऎकीकृत्य इति अर्थः । यत् तस्य वर्गमूलम्, तस्य संयुक्तस्य राशॆः वर्गमूलम् यत्, तत् स्ववृत्तविष्कम्भार्धम् भवति । किम् तत् वृत्तम् यस्य इदम् विष्कम्भार्धम् इति उच्यतॆ ? तत् मूलतुल्यॆन कर्कटकॆन आलिखितस्य वृत्तस्य तत् विष्कम्भार्धम् । यदि ऎवम् सर्वॆ ऎव संख्याविशॆषः स्ववृत्तविष्कम्भार्धम् भवति । न ऎषः दॊषः । यदि सर्वसंख्याविशॆषः स्ववृत्तविष्कम्भार्धम् भवति ऎव, किम् नः छिन्नम् ? अत्र पुनर् शंकुप्रमाणच्छायावर्गयॊगमूलम् स्वविष्कम्भार्धम् विशिष्टम् ऎव परिगृह्यतॆ, तॆन अन्यस्य स्ववृत्तविष्कम्भार्धस्य ग्रहणम् न ऎव अत्र प्रसज्यतॆ । प्रसक्तॆ च दॊषपरिहारः वा विधीयतॆ । अत्र च स्ववृत्तविष्कम्भार्धग्रहणम् त्रैराशिकप्रसिद्ध्यर्थम्  यदि अस्य स्ववृत्तविष्कम्भार्धस्य ऎतॆ शंकुच्छायॆ तदा गॊलविष्कम्भार्धस्य कॆ इति शंकुच्छायॆ लभ्यॆतॆ । तौ ऎव विषुवति अवलम्बकाक्षज्यॆ इति उच्यतॆ ।

उद्दॆशकः 

पञ्चनवार्धचतुर्था छाया दृष्टा क्षितौ समायाम् तु ।

विषुवन् मध्यॆ सूत्रॆ शंकॊः द्वादशविभक्तस्य ॥ १ ॥

न्यासः  शंकुः १२, छाया ५; शंकुः १२, छाया ९; शंकुः १२, छाया ३ १ २  करणम्  शंकुच्छाययॊः वर्गौ १४४, २५, ऎकत्र १६९ । अस्य मूलम् स्ववृत्तविष्कम्भार्धम् । तत् च इदम् १३ । ऎतस्य क्षॆत्रस्य न्यासः 

परिलॆखः ३६ स्ववृत्तविष्कम्भार्धम् नाम छायाग्रात् आरभ्य शंकुमस्तकप्रापि सूत्रम् । तत्सूत्रानुसारॆण भूमौ दृष्टिम् निधाय शंकुमस्तकासक्तम् विवस्वन्तम् पश्यति । अक्षज्या आनयनॆ त्रैराशिकस्थापना  १३ । ५ । ३४३८ । लब्धम् अक्षज्या १३२२ । ऎषा भुजा, व्यासार्धम् कर्णः, भुजाकर्णवर्गविशॆषमूलम् अवलम्बकः ३१७४ । त्रैराशिकॆन अपि १३ । १२ । २३२८ । लब्धम् अवलम्बकः ३१७४ । अपरॆ अपि अत्र क्षॆत्रविशॆषाः । त्रैराशिकॆ वाचः युक्तिः  यदि अस्य स्ववृत्तविष्कम्भार्धस्य छायातुल्या भुजा शंकुतुल्यः अवलम्बकः तदा अस्य गॊलव्यासार्धस्य कौ भुजौ अलम्बौ इति । छायया घटिकानयनॆ, मध्याह्नॆ छायया च सूर्यानयनॆ स्ववृत्तविष्कम्भार्धस्य अयम् ऎव विधिः । किन्तु छायया घटिकानयनॆ शंकुना कार्यम् इति शंकुः ऎव आनीयतॆ । सममण्डलछायया सूर्यानयनॆ स ऎव । मध्याह्नच्छायया सूर्यानयनॆ नतज्यया प्रयॊजनम् इति छाया ऎव आनीयतॆ । 

शॆषयॊः अपि स्ववृत्तविष्कम्भार्धॆ १५ । १२२ । त्रैराशिकॆन ऎव अक्षज्यावलम्बकौ २०६३, २७५०; ९६३, ३३०० ।

उद्दॆशकः 

पञ्चदशांगुलशंकॊः पादॆन युता षडंगुला छाया ।

विषुवत् दिनमध्याह्नॆ वाच्या अक्षज्या अवलम्बकौ च अत्र ॥ २ ॥

न्यासः  शंकुः १५, छाया ६१४ । आगतम् स्ववृत्तविष्कम्भार्धम् १६१४ । अनॆन स्ववृत्तविष्कम्भार्धॆन आगतौ अक्षज्यौ अलम्बकौ १३२२, ३१७४ ।

उद्दॆशकः  

त्रिंशत् प्रमाणशंकॊः षॊडश दृष्टा यदा अंगुलच्छाया ।

मध्यात् कियत् गतः अर्कः विततमयूखः ततः वाच्यः ॥ ३ ॥

न्यासः  शंकुः ३०, छाया १६ । आगतम् स्ववृत्तविष्कम्भार्धम् ३४ । लब्धम् तदक्षज्या १६१८  ॥ १४ ॥


45. प्रदीपच्छायाकर्म 

प्रदीपच्छायाकर्म आह  

शंकुगुणम् शंकुभुजाविवरम् शंकुभुजयॊः विशॆषहृतम् ।

यत् लब्धम् ता छाया ज्ञॆया शंकॊः स्वमूलात् हि ॥ १५ ॥

शंकुः गुणः यस्य तत् शंकुगुणम् । किम् तत् इति आह  शंकुभुजाविवरम् । भुजाशब्दॆन प्रदीपॊच्छ्रायः उच्यतॆ, प्रदीपॊच्छ्रायस्य शंकॊः च यत् अन्तरालम् तत् शंकुभुजाविवरम्, तत् शंकुगुणम् । शंकुभुजयॊः विशॆषहृतम् शंकॊः प्रदीपॊच्छ्रायस्य यः विशॆषः स शंकुभुजयॊः विशॆषः, तॆन हृतम् भक्तम् । यत् लब्धम् सा छाया शंकॊः तस्य ऎव स्वमूलात् तस्य ऎव शंकॊः मूलात् सा छाया लभ्यतॆ ।

उद्दॆशकः 

यष्टिप्रदीपमूलात् द्वासप्तत्युच्छ्रितात् अशीत्याम् च ।

त्रिंशत्काद्विंशत्याम् स्थितस्य शंकॊः वद च्छायॆ ॥ १ ॥

न्यासः  

परिलॆखः ३७  शंकुभुजाविवरम् ८०, ऎतत् शंकुगुणम् ९६०; भुजा ७२, शंकुः १२, ऎतयॊः विशॆषः ६०, अनॆन हृतम् शंकुगुणम् शंकुभुजाविवरम्, लब्धा छाया १६ ।

द्वितीयॊद्दॆशक 

न्यासः 

परिलॆखः ३८ पूर्वकरणॆन ऎव लब्धा छाया १३५३ ।  

ऎतत् कर्म त्रैराशिकम् । कथम् ? शंकुतः अधिकायाः उपरिभुजायाः यदि शंकुभुजान्तरालप्रमाणम् छाया लभ्यतॆ तदा शंकुना का इति छाया लभ्यतॆ ।

विपरीतकर्मणा उद्दॆशकः 

छाया षॊडश दृष्टा द्वासप्तत्युच्छ्रितस्य दीपस्य ।

मूलम् कियता शंकॊः द्वादशकस्य त्वया वाच्यम् ॥ २ ॥

न्यासः 

परिलॆखः ३९ करणम्  शंकुभुजान्तरॆण अनॆन ६० छाया लब्धा, तॆन "भागहराः तॆ भवन्ति गुणकाराः" [गणित, २८ ] इति छाया १६, गुणिता जाता ९६०; ऎतत् ऎव "शंकुगुणम् शंकुभुजाविवरम्" अत्र अपि शंकुः गुणकारः आसीत् इति "गुणकारा भागहरा" [ गणित , २८ ] इति शंकुना १२ हृतम् शंकुभुजाविवरम् लब्धम् । तत् च ८० ।

उद्दॆशकः 

यष्टिप्रदीपमूलात् पञ्चाशद्विवरसंस्थितः शंकुः ।

तस्य च्छाया पंक्तिः वाच्यः तस्मिन् कियान् दीपः ॥ ३ ॥

न्यासः 

परिलॆखः ४० करणम्  "शंकुगुणा कॊटी सा छायाभक्ता भुजा भवति" [गणित, १६ ] इति वक्ष्यमाणकरणॆन शंकुभुजाविवरयुक्तच्छाया कॊटिः भवति इति । शंकुभुजाविवरम् ५०, छाया १०, ऎकत्र ६०, ऎतत् शंकुगुणम् ७२०, छायाभक्तम् भुजाप्रमाणम् ७२ ॥ १५ ॥


46. शंकुच्छायाद्वयॆन दीपॊच्छ्रायापसारज्ञानम् 

अनिर्ज्ञातदीपॊच्छ्रायावसानयॊः शंकुच्छायाद्वयॆन आनयनम् आह 

छायागुणितम् छायाग्रविवरम् ऊनॆन भाजितम् कॊटी ।

शंकुगुणा कॊटी साझ्छायाभक्ता भुजा भवति ॥ १३ ॥

छायागुणितम् छायया गुणितम् । किम् छायागुणितम् ? छायाग्रविवरम्, छायाग्रयॊः विवरम् छायाग्रविवरम्, छायाग्रान्तरालभूमिः इति अर्थः । तत् यथा  अनिर्ज्ञातॊच्छ्राययष्टिप्रदीपात् कियत् अपि अपसृत्य शंकुः स्थापितः । तस्य छाया ज्ञायतॆ ऎव । तच्छायाग्रात् परिगणितॆ अन्तरॆ द्वितीयशंकुः, तच्छायाग्रात् पूर्वशंकुच्छायाग्रम् इति अन्तरम् छायाग्रविवरम् । तदिष्टया प्रथमच्छायया द्वितीयच्छायया वा गुणितम् । ऊनॆन भाजितम्, ऊनम् छाययॊः विशॆषः, तॆन ऊनॆन भाजितम् । कॊटी अवसानभूमिः । तत् यदि प्रथमच्छायया गुणितम् तदा प्रथमच्छायाग्रयष्टिप्रदीपान्तरालम् भवति, द्वितीयया छायया यदि तदग्रयष्टिप्रदीपान्तरालम् । शंकुगुणा कॊटी, शंकुः गुणः यस्याः सा इयम् शंकुगुणा कॊटी । छायाभक्ता भुजा भवति, भुजा यष्टिप्रदीपॊच्छ्रायः । छायाद्वयम् अपि तत्कॊटिभ्याम् प्रसाध्यतॆ ।

उद्दॆशकः 

शंकॊः समयॊः दृष्टॆ क्रमशः दशषॊडशांगुलॆ छायॆ ।

अग्रान्तरम् च दृष्टम् त्रिंशत् कॊटीभुजॆ वाच्यॆ ॥ १ ॥

न्यासः 

परिलॆखः ४१ करणम्  छायाग्रविवरम् ३०, ऎतत् प्रथमच्छायागुणितम् ३००; छाययॊः विशॆषः ६, अनॆन लब्धम् कॊटी ५०; इयम् ऎव कॊटी शंकुगुणा जाता ६००, छायाभक्ता भुजा ६० । द्वितीयच्छायातः अपि कॊटी ८०, भुजा सा ऎव ६० ।

उद्दॆशकः 

पञ्च सप्त क्रमात् छायॆ नरयॊः तुल्ययॊः स्मृतॆ ।

अष्टौ अग्रान्तरम् दृष्टम् भुजकॊटी तदा उच्यताम् ॥ २ ॥

न्यासः 

परिलॆखः ४२ पूर्ववत् लब्धा कॊटी २०, भुजा ४८ । द्वितीयच्छायातः अपि कॊटी २८, भुजा सा ऎव ४८ ।

विषुवत् अहनि गगनतल[मध्य]वर्तिनि सवितरि समदक्षिणॊत्तरदॆशच्छायाग्रान्तरालयॊजनैः छायाविशॆषॆण शंकुना [च] कॆचित् विवस्वदवनितलान्तरालयॊजनानि आनयन्ति, तत् अयुक्तम् । अत्र प्रदीपच्छायाद्वयकर्मालापावतारः अपि न उपपद्यतॆ । कुतः ? यस्मात् आह "भूरविविवरम् विभजॆत्" [गॊल, ३९ ] इति । भूः शंकुः, रवियॊजनकर्णः शंकुभुजाविवरम्, सकलजगदॆकप्रदीपः भगवान् भास्करः स्वयम् ऎव प्रदीपॊच्छ्रायः इति अतः विवस्वदवनितलान्तरालयॊजनानयनम् न घटतॆ, "भूरविविवरम्" इति सिद्धानाम् ऎव यॊजनानाम् उपदॆशात् । अथ सविता ऎव प्रदीपॊच्छ्रायः इति सवितृविष्कम्भप्रमाणम् आनीयतॆ इति चॆत्, तत् च न । यस्मात् स्वकक्ष्याकर्णभूविवरयॊजनः गगनतलमध्यासीनः लॊकान् द्यॊतयन् लक्ष्यतॆ, तस्मात् प्रदीपॊच्छ्रायः स्वयम् सविता [न] भवितुम् अर्हति । अथ विवस्वान् प्रदीपॊच्छ्रायः, सवितृधरित्रीमध्यान्तरालयॊजनानि अशॆषावनितलमण्डलव्यासप्रमाणस्य शंकॊः विवरम्, तथा च द्वितीयस्य तावत् शंकॊः अवस्थानाभावात् च न युज्यतॆ । तस्मात् सुष्ठु उक्तम् "प्रदीपच्छाया[द्वय]कर्मालापावतारः अपि न उपपद्यतॆ " इति ।

इयम् च धरित्री गॊलाकारा पठ्यतॆ । तॆन तत्पृष्ठवर्तिनाम् अस्माकम् वक्रत्वात् परिधॆः शंकुच्छाया भुजकॊटिकर्मपरिकल्पना अत्र [न] प्रवर्ततॆ, यतः सलिलसमीकृतॆ प्रदॆशॆ शंकुच्छायया भुजाकॊटिकर्णक्षॆत्रसंस्थानम्, न च ऎतावत्या भुवः शक्यतॆ समीकरणम् कर्तुम् । अथ अभ्युपगम्य इदम् उदाह्रियतॆ  विषुवती उज्जयिन्याम् दिनार्धवर्तिनी उष्णदीधितौ छाया पञ्चांगुला । तया अक्षः लब्धः भागाः द्वाविंशतिः लिप्ताः सप्तत्रिंशत् । अनॆन अक्षॆण लंकॊज्जयिन्यन्तरालयॊजनानि लब्धानि सप्ताम्बरयमसंख्यानि २०७ । ततः उज्जयिन्या उत्तरॆण विषुवती ऎव मध्याह्नच्छाया स्थानॆश्वरॆ सप्तांगुला । तया च अक्षः लभ्दः भागाः त्रिंशत् सपादाः । अनॆन अक्षॆण लंकास्थानॆश्वरान्तरालयॊजनानि लब्धानि शराद्रियमसंख्यानि २७५ । अत्र ऎतॆषाम् यॊजनानाम् विशॆषः अष्टषष्टिः शंकुद्वयविवरम्, छाययॊः अन्तरॆण द्वाभ्याम् युक्ता अष्टषष्टिः, छायाग्रविवरम् सप्ततिः । अत्र गणितकर्म "छायागुणितम् छायाग्रविवरम्" इति आदिकर्मणा कॊटियॊजनानि लभ्यन्तॆ । तैः च द्वितीयच्छायया नीयमानैः लंकास्थानॆश्वरान्तरालयॊजनैः ऎव भवितव्यम् , यस्मात् तस्मिन् कालॆ विवस्वदधॊवस्थितः दॆशः लंका । यदि विवस्वान् भुजा यदि वा विवस्वतः यः उच्छ्रायः, तस्मात् कॊटॆः लंकास्थानॆशवरान्तरालयॊजनसंख्यानत्वात् गणितकर्म अपि अत्र न क्रामति । अत्र च यया कॊट्या भुजा साध्यतॆ सा च तावत् न सिद्धा, तया असिद्धया सिद्धभुजा साध्यतॆ इति ऎतत् अयुक्तम् । अन्यत्

च यत् छाया द्वादशांगुलस्य शंकॊः प्रत्यक्षम् अस्माभिः उपलब्धा तया आंगुलप्रमाणया यॊजनैः कर्म क्रियतॆ इति ऎतत् च न उपपद्यतॆ । अथ द्वादशयॊजनप्रमाणस्य शंकॊः पञ्चयॊजना सप्तयॊजना च छाया इति ऎतत् अपि तावतः शंकॊः लम्बकॆन ऋजुस्थितिः अशक्या ज्ञातुम्, न च उत्क्षॆपणस्थापनॆ । छाया च समायामवनौ साध्यतॆ तावत्सु यॊजनॆषु निम्नॊन्नतसरित् इति आदिविषमता तॆन तदवगतिः न शक्यतॆ । तस्मात् यथा आगमसिद्धौ ऎव सहस्रमरीचॆः उच्छ्रायविष्कम्भौ । ततः न अत्र इयम् गणितप्रक्रियाप्रकारवागुरा प्रसारणीया इति ॥ १६ ॥


47. भुजकॊटिकर्णानाम् सम्बन्धः 

कर्णानयनार्थम् आह 

यः च ऎव भुजावर्गः कॊटीवर्गः च कर्णवर्गः सः ।

यः च भुजावर्गः यः च कॊटिवर्गः ऎतौ वर्गौ ऎकत्र कर्णवर्गः भवति ।

उद्दॆशकः 

त्रिचतुष्कभुजाकॊट्यॊः षडष्टसंख्यानयॊः तयॊः च अपि ।

द्वादशकनवकयॊः च क्रमॆण कर्णाः विनिर्दॆश्याः ॥ १ ॥

न्यासः 

परिलॆखः ४३ करणम्  ऎतॆ भुजाकॊटी ३, ४; ऎतयॊः वर्गौ ९, १६; ऎकत्र कर्णवर्गः २५, अस्य मूलम् कर्णः ५ । ऎवम् अध्यर्धाश्रिक्षॆत्रॆ आयतचतुरश्रक्षॆत्रॆ वा कर्णः यॊज्यः । ऎवम् परिशिष्टक्षॆत्रयॊः कर्णौ लब्धौ १०, १५ ॥

[ वृत्तॆ अर्धज्याशरयॊः सम्बन्धः ]

वृत्तक्षॆत्रावगाहज्यानयना‌अय आर्यापश्चार्धम् आह 

वृत्तॆ शरसंवर्गः अर्धज्यावर्गः स खलु धनुषॊः ॥ १७ ॥

वृत्तॆ क्षॆत्रॆ, शरयॊः संवर्गः शरसंवर्गः, सः अर्धज्यावर्गः भवति । स खलु धनुषॊः, तयॊः ऎव धनुषॊः अर्धज्यावर्गः भवति ।

उद्दॆशकः 

क्षॆत्रॆ दशाविष्कम्भॆ द्विकाष्टसंख्यौ शरौ मया दृष्टौ ।

तत्र ऎव नवैकमितौ अर्धज्यॆ तु क्रमात् वाच्यॆ ॥ १ ॥

न्यासः 

परिलॆखः ४४ करणम्  ऎतौ द्वौ शरौ २, ८ । ऎतयॊः संवर्गः अर्धज्यावर्गः १६ । अस्य मूलम् ४, इयम् अर्धज्या । द्वितीयॊद्दॆशकॆ अपि लब्धा अर्धज्या ३ ।

अत्र ऎव श्यॆनमूषिकॊद्दॆशान् व्यावर्णयन्ति । तत् यथा  अर्धज्या भुजा, अर्धज्यामण्डलकॆन्द्रान्तरालम् कॊटिः, तद्वर्गयॊगमूलम् कर्णः मण्डलव्यासार्धम् । तत् तु प्रदर्श्यतॆ 

न्यासः 

परिलॆखः ४५ इयम् अर्धज्या श्यॆनस्थानॊच्छ्रायः, अर्धज्यापरिध्यन्तरालम् मूषिकप्रचारभूमिः, विष्कम्भार्धम् कर्णः श्यॆनमार्गः । मण्डलकॆन्द्रम् मूषिकवधप्रदॆशः । तत्र श्यॆनस्थानॊच्छ्रायः अर्धज्या इति तद्वर्गः, मूषिकप्रचारभूमिः शरः इति तॆन विभज्यतॆ, लब्धम् द्वितीयः शरः । तॆन "अन्तरयुक्तम् हीनम्" [श्लॊ २४ ] इति ऎतम् कृत्वा लब्धम् मूषिकावासप्राप्यभूमिः श्यॆन[गति]कर्णप्रमाणम् च । यः ऎव द्वितीयः महाशरः स ऎव वंशभंगपदॆ अर्धत्र्यश्रिक्षॆत्राकारॆण व्यवस्थितः । तत् च प्रदर्शितम् । ऎवम् गणितम् बीजमात्रम् उपदिष्टम् ।

[ उद्दॆशकः ] 

द्वादशहस्तॊच्छ्रितस्य प्राकारस्य उपरि श्यॆनः व्यवस्थितः । तॆन प्राकारमूलात् चतुर्विंशतिहस्तनिष्क्रान्तः मूषिकः [दृष्टः, तॆन] मूषिकॆन च श्यॆनः । तत्र मूषिकः तद्भयात् प्राकारावस्थितम् आत्मीयालयम् द्रुततरम् प्रस्थितः अन्तरॆ श्यॆनॆन कर्णगतिना व्यापादितः । तत्र इच्छामः ज्ञातुम् [कि]यत् अन्तरम् आखुना प्राप्तम्, कियत् वा श्यॆनॆन आयातम् इति ॥ २ ॥

न्यासः 

परिलॆखः ४६ करणम्  श्यॆनॊच्छ्रायवर्गः १४४, ऎतत् अनॆन मूषिकप्रचारभूमिप्रमाणॆन २४ विभज्य लब्धम् ६, अनॆन अन्तरॆण मूषिकप्रचारभूमिः युक्ता ३०, अपचिता १८ । ऎतयॊः अर्धम् श्यॆनगतिः मूषिकावासान्तरालम् च यथाक्रमॆण १५, ९.

उद्दॆशकः 

अष्टादशकॊच्छ्रायॆ श्यॆनः स्तम्भॆ स्थितः हि आखुः ।

आवासात् निष्क्रान्तः तु ऎकाशीत्या भयात् श्रयॆनात् ॥

गच्छन् आलयदृष्टिः क्रूरॆण निपातितः ततः मार्गॆ ।

कियता प्राप्नॊति बिलम् श्यॆनगतिः वा तदा वाच्यम् ॥ ३ ॥

न्यासः 

परिलॆखः ४७ लब्धम् आखॊः आगतभूमिः ८१२, श्यॆनगतिः ४२१२ .

अनॆन ऎव प्रकारॆण वंशभंगॊद्दॆशकः 

अष्टादशकॊच्छ्रायः वंशः वातॆन पातितः मूलात् ।

षड्गत्वा असौ पतितः त्रिभुजम् कृत्वा क्व भग्नः स्यात् ॥ ४ ॥

न्यासः 

वंशः १५, मूलात् यः अपसारः तत्प्रमाणम् अर्धज्या ६, तस्य वर्गः ३६, वंशप्रमाणॆन अनॆन १८ भक्तः लब्धम् २, पूर्ववत् "अन्तरयुक्तम् हीनम् दलितम्" [ गणित २४ ] इति वंशशकलॆ १०, ८.

परिलॆखः ४८

उद्दॆशकः 

षॊडशहस्तः वंशः पवनॆन निपातितः स्वमूलात् तत् ।

अष्टौ गत्वा पतितः कस्मिन् भग्नः मरुत्वतः वाच्यः ॥ ५ ॥

न्यासः 

परिलॆखः ४९ लब्धॆ वंशशकलॆ १०, ६. कमलॊद्दॆशकॆषु दृश्यकमलप्रमाणम् ऎकः शरः । कमलनिमज्जनभूमिः अर्धज्या । अत्र पूर्ववत् अर्धज्यावर्गॆ शरहृतॆ महाशरः लभ्यतॆ तत्र दृश्यकमलसंक्रमणॆन जलप्रमाणम् कमलप्रमाणम् च ।

उद्दॆशकः 

कमलम् जलात् प्रदृश्यम् विकसितम् अष्टांगुलम् निवातॆन ।

नीतम् मज्जति हस्तॆ शीघ्रम् कमलाम्भसी वाच्यॆ ॥ ६ ॥

न्यासः 

परिलॆखः ५०

दृश्यकमलस्य [प्रमाणम्] ८, निमज्जनभूमिः २४ । करणम्  अर्धज्यायाः चतुर्विंशतॆः वर्गः ५७६, तत् दृश्यकमलॆन अष्टाभिः भागलब्धम् ७२ । ऎतत् दृश्यकमलयुक्तम् ८०, विहीनम् च ६४ । ऎतॆ दलितॆ कमलप्रमाणम् जलप्रमाणम् च ४०, ३२ ।

उद्दॆशकः 

अंगुलषट्कम् कमलम् मज्जति हस्तद्वयम् गतम् मूलात् ।

इच्छामि तत्र बॊद्धुम् पंकजम् अम्भःप्रमाणम् च ॥ ७ ॥

न्यासः 

परिलॆखः ५१ दृश्यम् ६, निमज्जनभूमिः ४८ । लब्धम् पूर्ववत् पंकजप्रमाणम् १९५, अम्भः प्रमाणम् १८९. मत्स्यबकॊद्दॆशकॆषु अपि ऎवम् ऎव आयतचतुरश्रक्षॆत्रस्य ऎकः बाहुः अर्धज्या, बाहुद्वयम् महाशरः, शॆषम् मूषिकॊद्दॆशकवत् कर्म ।

उद्दॆशकः 

षड्द्वादशिका वापी तस्याम् पूर्वॊत्तरॆ स्थितः मत्स्यः ।

वायव्यॆ कॊणॆ स्यात् बकः स्थितः तद्भयात् तूर्णम् ॥

भित्वा वापीम् मत्स्यः कर्णॆन गतः दिशम् ततः याम्याम् ।

पार्श्वॆन आगत्य हतः बकॆन वाच्यम् तयॊः यातम् ॥ ८ ॥

न्यासः 

परिलॆखः ५२ बकमत्स्यकरणम्  वापीपार्श्वम् अर्धज्या इति तस्य वर्गः ३६, पार्श्वद्वयम् महाशरः इति जातम् १८ । अनॆन भागलब्धम् २ । ऎतॆन अष्टादशभिः संक्रमणॆन लब्धम् मत्स्यबकगतिप्रमाणम् वापीपार्श्वशॆषः च १०, ८ । पार्श्वशॆषॆ पार्श्वपतितॆ शॆषः दक्षिणापरकॊणप्राप्तिः मत्स्यस्य ।

उद्दॆशकः 

द्वादशदशिका वापी हि आग्नॆयस्थः बकः अथ मत्स्यः अपि ।

ऐशान्याम् अपराशागतः हतः असौ कियत् वाच्यम् ॥ ९ ॥

न्यासः 

परिलॆखः ५३ पूर्ववत् लब्धम् दक्षिणापरकॊणात् बकॆन गतम्  ३३११ । पश्चिमबाहॊः अनुप्रविष्टमत्स्यगतिः ८८११ । विलॊमबीजकरणॆन ऎतत् सर्वम् अनुष्ठितम् ।

प्रत्ययकरणम् च सर्वॆषु ऎव क्षॆत्रॆषु "यः च ऎव भुजावर्गः कॊटीवर्गः च कर्णवर्गः सः" [गणित, १७ ] इति अनॆन ऎव इति ॥ १७ ॥

[ वृत्तावगाहशरज्ञानम् ]

वृत्तावगाहशरानयनाय आह 

ग्रासॊनॆ द्वॆ वृत्तॆ ग्रासगुणॆ भाजयॆत् पृथक्त्वॆन ।

ग्रासॊनयॊगलब्धौ संपातशरौ परस्परतः ॥ १८ ॥

ग्रासॆन ऊनॆ ग्रासॊनॆ । कॆ ? द्वॆ वृत्तॆ, ग्राह्यग्राहकमण्डलद्वयम् । ग्रासगुणॆ, ग्रासः गुणः ययॊः तॆ ग्रासगुणॆ । भाजयॆत् पृथक्त्वॆन, ऎकैकम् । कॆन ? ग्रासॊनयॊगलब्धौ । ग्रासॊनयॊः यॊगः ग्रासॊनयॊगः, तयॊः ऎव वृत्तयॊः ग्रासविवर्जितयॊः समासः ; तॆन ग्रासॊनयॊगॆन लब्धौ ग्रासॊनयॊगलब्धौ । सम्पातॆ शरौ सम्पातशरौ, अवग्राहशरौ इति यावत् । परस्परतः, अन्यॊन्यतः । यस्मात् महाविष्कम्भस्य अल्पः शरः महत्वात् मण्डलस्य, अल्पव्यासस्य महान् शरः । यस्मात् अल्पस्य मण्डलस्य अल्पः अपि अवयवः अतिवक्रः उपलभ्यतॆ, न तथा महतः । तस्मात् तौ संपातशरौ परस्परतः भवतः ।

उद्दॆशकः 

अशीतिविष्कम्भतमॊमयॆन द्वात्रिंशत् इन्दॊः स्थगिता यदा अष्टौ ।

ज्ञातुम् तत् इच्छामि शरौ कियन्तौ राहॊः अथ इन्दॊः परिपूर्णमूलैः ॥ १ ॥

न्यासः 

परिलॆखः ५४ करणम्  ग्रासॊनॆ द्वॆ वृत्तॆ ७२, २४ । ग्रासगुणॆ ५७६, १९२ । ग्रासॊनयॊगः ९६ । अनॆन लब्धौ शरौ चन्द्रमसः ६, राहॊः २, परस्परतः इति ॥ १८ ॥

[ श्रॆढीगणितम् ]

अथ इदानीम् श्रॆढीगणितानयनाय आह 

इष्टम् व्यॆकम् दलितम् सपूर्वम् उत्तरगुणम् समुखम् मध्यम् ।

इष्टगुणितम् इष्तधनम् तु अथवा आद्यन्तम् पदार्धहतम् ॥ १९ ॥

इष्टम्, ईप्सितम् । विगतम् ऎकॆन व्यॆकम् । दलितम्, अर्धितम् । सपूर्वम्, इष्टात् पदात् यानि प्रागवस्थितानि [ पदानि ] तानि पूर्वशब्दॆन उच्यन्तॆ, सह पूर्वॆण वर्ततॆ इति सपूर्वम् । उत्तरः गुणः यस्य तदुत्तरगुणम् । समुखम्, मुखमादिः, सह मुखॆन वर्ततॆ इति समुखम् । मध्यधनम् भवति । इष्टगुणितम्, इष्टॆन गुणितम् इष्टगुणितम् । इष्टधनम्, इष्टस्य गच्छस्य धनम् भवति ।

अत्र बहूनि सूत्राणि मुक्तकव्यवस्थितानि, तॆषाम् यथासंयॊगम् सम्बन्धः । "इष्टम् व्यॆकम् दलितम् उत्तरगुणम् समुखम्" इति मध्यधनानयनार्थम् सूत्रम् । "मध्यम् इष्टगुणितम् इष्टधनम्" इति गच्छधनानयनार्थम् । "इष्टम् व्यॆकम् सपूर्वम् उत्तरगुणम् समुखम्" इति अन्त्यॊपान्त्यादिधनानयनार्थम् । "इष्टम् व्यॆकम् दलितम् सपूर्वम् उत्तरगुणम् समुखम् इष्टगुणितम् इष्टधनम्" इति अवान्तरयथॆष्टपदसंख्यानयनार्थम् । ऎवम् ऎतानि पादॊनया आर्यया प्रतिबद्धानि । तानि यथाक्रमॆण उद्दॆशकॆषु ऎव प्रतिपादयिष्यामः ।

उद्दॆशकः 

आदिः द्वितयम् दृष्टम् श्रॆढ्याः प्रवदन्ति च उत्तरम् त्रीणि ।

गच्छः पञ्च निरुक्तः मध्याशॆषॆ धनॆ ब्रूहि ॥ १ ॥

न्यासः  आदिः २, उत्तरम् ३, गच्छः ५ । करणम्  इष्टम् गच्छः ५, व्यॆकम् ४, दलितम् २, उत्तरगुणम् ६, समुखम् ८, ऎतत् मध्यधनम् । ऎतत् ऎव इष्टगच्छॆन गुणितम् सर्वधनम् जातम् ४० ।

उद्दॆशकः 

अष्टावादिः यस्याः पञ्च प्रवदन्ति च उत्तरम् श्रॆढ्याः ।

गच्छः अष्टादश दृष्टः मध्याशॆषॆ धनॆ वाच्यॆ ॥ २ ॥

न्यासः  आदिः ८, उत्तरम् ५, गच्छः १८ । पूर्ववत् लब्धम् मध्यधनम् ५०१२, सर्वधनम् ९०९ । 

अन्त्यॊपान्त्यादिधनानयनॆ उद्दॆशकः 

ऎकादशॊत्तरायाः सप्तादॆः पञ्चविंशतिः गच्छः ।

तत्र अन्त्यॊपान्त्यधनॆ वद शीघ्रम् विंशतॆः च कियत् ॥ ३ ॥

न्यासः  आदिः ७, उत्तरम् ११, गच्छः २५ ।  करणम्  इष्टम् पञ्चविंशतिः २५, पूरणम् पदम् ऎकम् इति ऎकम् रूपम् १, ऎतत् ऎव व्यॆकम् शून्यम् ०, ऎतत् ऎव सपूर्वम् इति शून्यॆन क्षिप्ता चतुर्विंशतिः २४, उत्तरगुणम् २६४, समुखम् २७१, ऎतत् अन्त्यधनम् । उपान्त्यधनानयनॆ अत्र पूर्वाणि पदानि त्रयॊविंशतिः २३ । ऎतैः पूर्वकरणॆन उपान्त्यधनम् लब्धम् २६० । विंशतॆः तु पूर्वपदानि ऎकॊनविंशतिः । ऎतैः पूर्ववत् विंशतितमस्य पदस्य धनम् २१६ ।

अवान्तरॆ यथॆष्टपदसंख्याधनानयनॆ उद्दॆशकः 

द्व्यादित्र्युत्तरसंख्यम् दिनॆ दिनॆ कार्तिकॆ क्रमात् मासॆ ।

प्रददाति महीपालः पञ्चदशाहॆ गतॆ विप्रः ॥

ब्रह्मिष्ठः सम्प्राप्तः तस्मै दत्ता दशाहधनसंख्या ।

पञ्चदिनॊत्था अन्यस्मै कथय धनम् किम् तयॊः तत्र ॥ ४ ॥

न्यासः  आदिः २, उत्तरम् ३, गच्छः ३०। अत्र पञ्चदशाहॆ गतॆ ब्रह्मिष्ठः आगतः तस्मै षॊडशाहात् प्रभृति यत् उपचितम् दशाहधनम् तत् दत्तम् इति दश १० इष्टम्, व्यॆकम् इति जातम् ९, दलितम् इति

४१२, ऎतत् सपूर्वम् इति १९१ २  उत्तरगुणितम् इति ५८१२, समुखम् इति ६०१२, इष्टगुणितम् इष्टधनम् इति दशगुणितम् जातम् ६०५ । द्वितीयस्य अपि ४१५ ।

उद्दॆशकः 

पञ्चदशादिः यस्मिन् उत्तरम् अष्टादश उच्यतॆ गच्छः ।

त्रिंशत् मध्यदशानाम् धनसंख्याम् गण्यताम् शीघ्रम् ॥ ५ ॥

न्यासः 

[ आदिः ] १५, उत्तरम् १८, गच्छः ३०, दशसु व्यतिरिक्तॆषु च शॆषॆषु मध्यस्थितानि पदानि १० । लब्धम् पूर्वकरणॆन २७६० ।

सर्वधनानयनॆ उपायान्तरम् पुनर् अपि आर्यापादॆन आह 

तु अथवा आद्यन्तम् पदार्धहतम् । 

अथवा अयम् अपरः प्रकारः । आदिः च अन्तः च आद्यन्तम् । आदिशब्दॆन आदिधनम् परिगृह्यतॆ, अन्तशब्दॆन अन्त्यधनम् । तत् आद्यन्तम् । पदम् गच्छः, तस्य अर्धम् पदार्धम्, पदार्धॆन हतम् पदार्धहतम् । तत् आद्यन्तम् पदार्धगुणितम् इष्टधनम् इति अनुवर्तनात् इष्टधनम् भवति ।

उद्दॆशकः 

पञ्चभिः आद्यः शंखः पञ्चॊनशतॆन यः भवॆत् अन्त्यम् ।

ऎकादशशंखानाम् यत् तत् मूल्यम् त्वम् आचक्ष्व ॥ ६ ॥

न्यासः 

आदिशंखमूल्यम् ५, अन्त्यस्य ९५, शंखाः ११ । करणम्  आद्यन्तधनॆ १००, पदार्धम् ५१२  अनॆन गुणितम् सर्वशंखमूल्यम् ५५० ।

उद्दॆशकः 

आदिधनम् ऎकम् उक्तम् हि अन्त्यधनम् प्रॊच्यतॆ शतम् सद्भिः ।

पदम् अपि तावत् प्रॊक्तम् सर्वधनम् तत् कियत् दृष्टम् ॥ ७ ॥

न्यासः 

आदिधनम् १, अन्त्यधनम् १००, गच्छः अपि ऎतत् ऎव १०० । सर्वधनम् पूर्ववत् ५०५० ॥ १९ ॥

[ गच्छज्ञानम् ]

गच्छानयनार्थम् आह 

गच्छः अष्टॊत्तरगुणितात् द्विगुणाद्युत्तरविशॆषवर्गयुतात् ।

मूलम् द्विगुणाद्यूनम् स्वॊत्तरभजितम् सरूपार्धम् ॥ २० ॥

गच्छः इति अनॆन [प]दधनम् परिगृह्यतॆ । अष्टॊत्तरगुणितात् अष्टाभिः उत्तरॆण च गुणितम् अष्टॊत्तरगुणितम् । तस्मात् अष्टॊत्तरगुणितात् । द्विगुणाद्युत्तरविशॆषवर्गयुतात्, द्विगुणः च असौ आदिः च द्विगुणादिः, द्विगुणादॆः उत्तरस्य च विशॆषः द्विगुणाद्युत्तरविशॆषः, द्विगुणाद्युत्तरविशॆषस्य वर्गः द्विगुणाद्युत्तरविशॆषवर्गः, द्विगुणाद्युत्तरविशॆषवर्गॆण युतम् द्विगुणाद्युत्तरविशॆषवर्गयुतम्, तस्मात् द्विगुणाद्युत्तरविशॆषवर्गयुतात् गच्छधनात् [सर्वधनात्] अष्टॊत्तरगुणितात् मूलम्, द्विगुणाद्यूनम् द्विगुणः च असौ आदिः च द्विगुणादिः, तॆन द्विगुणादिना ऊनम् द्विगुणाद्यूनम्, स्वॊत्तरॆण भजितम् स्वॊत्तरभजितम्, सह रूपॆण वर्ततॆ इति सरूपम्, अर्धम् दलितम्, गच्छः भवति ।

उद्दॆशकः 

आदिः पञ्च प्रॊक्तः सप्ताख्यम् च उत्तरम् भवॆत् श्रॆढ्या ।

पञ्चॊनशतम् द्रव्यम् गच्छः वाच्यः कियान् तस्य ॥ १ ॥

न्यासः 

आदिः ५, उत्तरम् ७, सर्वधनम् ९५ । करणम्  गच्छधनात् अष्टॊत्तरगुणितात् इति गच्छधनम् अष्टाभिः उत्तरॆण च गुणितम् जातम् ५३२० । द्विगुणः आदिः १०, ऎतत् उत्तरविशॆषितम् ३, ऎतस्य वर्गः ९, अनॆन युक्तम् जातम् ५३२९, ऎतस्मात् मूलम् ७३, द्विगुणाद्यूनम् ६३, स्वॊत्तरॆण अनॆन ७ भजितम् ९, सरूपम् १०, अर्धम् गच्छः ५ ।

उद्दॆशकः 

नवकाष्टौ वृद्धिमुखॆ यत्र यत् कीर्त्यतॆ धनम् क्रमशः ।

रामाष्टशरम् दृष्टम् पदप्रमाणम् त्वया वाच्यम् ॥ २ ॥

न्यासः 

आदिः ८, उत्तरम् ९, गच्छधनम् ५८३ । पूर्ववत् लब्धम् पदप्रमाणम् ११ ॥ २० ॥

[ चितिघनज्ञानम् ]

संकलनासंकलनानयनाय आह 

ऎकॊत्तराद्युपचितॆः गच्छाद्यॆकॊत्तरत्रिसंवर्गः ।

षड्भक्तः स चितिघनः सैकपदघनः विमूलः वा ॥ २० ॥

उत्तरम् च आदिः च उत्तरादी । ऎकम् उत्तरादी यस्याः सैकॊत्तरादिः । ऎकॊत्तरादिः च असौ उपचितिः च ऎकॊत्तराद्युपचितिः । उपचितिः श्रॆढी ऎकॊत्तरादित्वॆन विशॆष्यतॆ । स ऎव ऎकॊत्तराद्युपचितिः संकलना इति उच्यतॆ । तस्याः ऎकॊत्तराद्युपचितॆः संकलनासंज्ञितायाः गच्छात् प्रभृति ऎकॊत्तरत्रिसंवर्गः ऎकॊत्तराणाम् त्रयाणाम् गच्छादॆः सम्वर्गः । तत् यथा  गच्छः, स ऎकॊत्तरम्, पुनर् अपि ऎकॊत्तरम् । त्रयाणाम् गच्छादॆः संवर्गः । तत् यथा  गच्छः, स ऎकॊत्तरम्, 

पुनर् अपि ऎकॊत्तरम् । ऎतत् उक्तम् भवति  गच्छः, स ऎव ऎकॊत्तरः, स ऎव गच्छः द्व्युत्तरः, तॆषाम् त्रयाणाम् संवर्गः, षड्भक्तः षड्भिः विभाजितः, स चितिघनः चितॆः घनः चितिघनः संकलनासंकलना इति अर्थः । अथ अन्यः करणॊपायः  सैकपदघनः, सैकम् च तत्पदम् च सैकपदम्, सैकपदस्य घनः सैकपदघनः, विगतः मूलॆन विमूलः षड्भक्तः इति अनुवर्ततॆ । वा सैकस्य पदस्य घनगणितम् वा  स्वमूलविरहितम् षड्भिः भक्तम् चितिघनः भवति ।

उद्दॆशकः 

पञ्चानाम् अष्टानाम् चतुर्दशानाम् च याः क्रमात् चितयः ।

गच्छः तराः त्रिकॊणा [ रूपविधानम् च ] मॆ वाच्यम् ॥ १ ॥

न्यासः 

परिलॆखः ५५

यथाक्रमॆण गच्छाः ५, ८, १४ । करणम्  गच्छः पञ्च ५ । अयम् ऎकॊत्तरः ६ । पुनर् अयम् ऎकॊत्तरः ७ । ऎतॆषाम् त्रयाणाम् संवर्गः २१० । अयम् षड्भक्तः संकलनासंकलना भवति ३५ ।

द्वितीयॊपायकरणम्  सैकपदम् ६, अस्य घनः २१६, अयम् विमूलः इति षड्भिः ऎव रहितः २१०, पूर्ववत् षड्भक्तः संकलनासंकलना भवति ३५ । 

शॆषयॊः अपि लब्धम् यथाक्रमॆण १२०, ५६० ॥ २१ ॥

[ वर्गचितिघनः घनचितिघनः च ]

वर्गघनसंकलनानयनाय आह 

सैकसगच्छपदानाम् क्रमात् त्रिसम्वर्गतस्य षष्ठः अंशः ।

वर्गचितिघनः स भवॆत् चितवर्गः घनचितिघनः च ॥ २२ ॥

सह ऎकॆन वर्ततॆ इति सैकः । सह गच्छॆन वर्ततॆ इति सगच्छः । अनन्तरप्रकृतः सैकसगच्छः । पदम् गच्छः तत्र सैकम् च [सैक] सगच्छम् च पदम् च सैकसगच्छपदानि । तॆषाम् सैकसगच्छपदानाम् क्रमात् आनुपूर्व्यात् । त्रयाणाम् संवर्गितम् त्रिसंवर्गितम् । कॆषाम् त्रयाणाम् ? प्रकृतानाम् सैकसगच्छपदानम् । षष्ठः अंशः । तस्य त्रिसंवर्गितस्य षष्ठः अंशः षष्ठः भागः । वर्गचितिघनः स भवॆत् । वर्गस्य चितिः वर्गचितिः वर्गचितॆः घनः वर्गचितिघनः । वर्गसंकलना इति अर्थः । चितिवर्गः घनचितिघनः च । चितॆः वर्गः संकलनावर्गः इति यावत् । स ऎव चितिवर्गः घनचितिघनः भवति ।

उद्दॆशकः 

सप्तानाम् अष्टानाम् सप्तदशानाम् चतुर्भुजाः चितयः ।

ऎकविधानम् वाच्यम् पदः तराः ताः हि वर्गाख्याः ॥ १ ॥

न्यासः 

परिलॆखः ५६ करणम्  पदम् ७, सैकम् ८, ऎतत् ऎव सगच्छम् १५ । ऎतॆषाम् त्रयाणाम् संवर्गः ८४०, षड्भक्तः वर्गचितिघनप्रमाणम् १४० । शॆषयॊः अपि यथाक्रमॆण लब्धम् २०४, १७८५ ।


घनचितौ उद्दॆशकः 

चतुरश्रघनाः चितयः पञ्चचतुर्नवस्तराः विनिर्दॆश्याः ।

ऎकावघटिताः ताः समचतुरश्रॆष्टकाः क्रमशः ॥ २ ॥

न्यासः 

परिलॆखः ५७

परिलॆखः ५८ करणम्  चितिसंकलना । सा च "अथवा आद्यन्तम् पदार्धहतम्" [ गणित , २९ ] इति अनॆन आनीयतॆ । अत्र आदिः ऎकः १, अन्त्यधनम् पञ्च ५, ऎकत्र षट् ६, पदार्धॆन पञ्चानाम् अर्धॆन हतम् संकलनाचितिः पञ्चानाम् जाता १५, अस्य वर्गः घनचितिघनः भवति । स च २२५ । शॆषयॊः अपि यथाक्रमॆण लब्धम् १००, २०२५ ॥ २२ ॥

[ प्रकारान्तरॆण राशिद्वयसंवर्गज्ञानम् ]

द्वयॊः रास्यॊः संवर्गानयन उपायान्तरम् आह 

सम्पर्कस्य हि वर्गात् विशॊधयॆत् ऎव वर्गसम्पर्कम् ।

यत् तस्य भवति अर्धम् विद्यात् गुणकारसंवर्गम् ॥ २३ ॥

सम्पर्कः समासः । यॆन द्वयॊः राश्यॊः सम्पर्कः भवति इति द्वयॊः ऎव सम्पर्कः परिगृह्यतॆ । तस्य सम्पर्कस्य । हि पादपूरणॆ । वर्गात्, कृतॆः । विशॊधयॆत् ऎव, अपनयॆत् ऎव । किम् इति आह  वर्गसम्पर्कम् । वर्गीकृतयॊः सम्पर्कः वर्गसम्पर्कः वर्गसमासः, तम् वर्गसम्पर्कम् सम्पर्कस्य वर्गात् विशॊधयॆत् । यत् तस्य भवति अर्धम्, तस्य शुद्धशॆषस्य अर्धम् दलम् यत् भवति । विद्यात्, अवबुद्ध्यात् । गुणकारसंवर्गम्, गुणकारयॊः संवर्गः गुणकारसम्वर्गः, तम् गुणकारसंवर्गम् विद्यात् ।

उद्दॆशकः 

पञ्चानाम् च चतुर्णाम् सप्तनवानाम् च कः भवॆत् घातः ।

अष्टानाम् च दशानाम् पृथक् पृथक् वाच्यताम् शीघ्रम् ॥ १ ॥

न्यासः  ५ ७ ८४ ९ १० करणम्  पञ्चानाम् चतुर्णाम् च सम्पर्कः ९, अस्य वर्गः ८१; पञ्चानाम् वर्गः २५, चतुर्णाम् वर्गः १६, ऎकत्र ४१, सम्पर्कवर्गात् इमम् पञ्चवर्गचतुर्वर्गसम्पर्कम् विशॊधयॆत् । तत्र शॆषः ४० । अस्य अर्धम् पञ्चानाम् चतुर्णाम् च संवर्गः लब्धः २० । शॆषयॊः अपि यथाक्रमॆण ६३, ८० ॥ २३ ॥

[ गुण्य-गुणकयॊः आनयनम् ]

गुणकारयॊः आनयनाय आह 

द्विकृतिगुणात् संवर्गात् द्व्यन्तरवर्गॆण संयुतात् मूलम् ।

अन्तरयुक्तम् हीनम् तत् गुणकारद्वयम् दलितम् ॥ २४ ॥

द्वयॊः कृतिः द्विकृतिः, द्विकृतिः गुणः यस्य स द्विकृतिगुणः, तस्मात् द्विकृतिगुणात् । कस्मात् इति आह  संवर्गात् । द्व्यन्तरवर्गॆण सम्युतात् । द्वयॊः अपि अन्तरम् द्व्यन्तरम्, द्व्यन्तरस्य वर्गः द्व्यन्तरवर्गः, तॆन द्व्यन्तरवर्गॆण संयुतात् । द्विकृतिगुणात् संवर्गात् द्वयॊः अपि अन्तरवर्गॆण मिश्रितात् यत् मूलम् । तत् अन्तरयुक्तम् अन्तरॆण युक्तम् अन्तरयुक्तम् । हीनम् विरहितम् । तद्गुणकारद्वयम् तस्य संवर्गस्य गुणकारद्वयम् । दलितम् अर्धितम् ।

उद्दॆशकः 

संवर्गः अष्टौ दृष्टः व्यक्तम् तत्र अन्तरम् भवॆत् द्वितयम् ।

अष्टादशकॆ मुनयः गुणकारौ तौ तयॊः वाच्यौ ॥ १ ॥

न्यासः  संवर्गः ८, अन्तरम् २ । संवर्गः १८, अन्तरम् ७ । करणम्  संवर्गः ८, ऎतत् द्विकृतिगुणम् ३२; द्व्यन्तरम् २, अस्य वर्गः ४, अनॆन संयुक्तः ३६ । अस्य मूलम् ६, ऎतत् तॆन अन्तरॆण युक्तम् ८, हीनम् ४ । यथाक्रमॆण दलितौ परस्परगुणकारौ ४, २ । 

द्वितीयॊद्दॆशकॆ अपि गुणकारौ लब्धौ ९, २ । अत्र गुण्यगुणकारयॊः अविशॆषात् गुणकारद्वयम् इति उच्यतॆ ॥ २४ ॥

[ मूलफलज्ञानम् ]

मूलफलानयनार्थम् आह 

मूलफलम् सफलम् कालमूलगुणम् अर्धमूलकृतियुक्तम् ।

तन्मूलम् मूलार्धॊनम् कालहृतम् स्वमूलफलम् ॥ २५ ॥

मूलम् शतादि, फलम् वृद्धिः, मूलस्य फलम् मूलफलम् । सह फलॆन वर्ततॆ इति सफलम्, आत्मीयया वृद्ध्या युक्तम् मूलफलम् इति यावत् । कालमूलगुणम्, कालम् च मूलम् च कालमूलॆ, कालमूलॆ गुणौ यस्य मूलफलस्य तत् कालमूलगुणम् मूलफलम् । अर्धमूलकृतियुक्तम्, [ अर्धम् मूलस्य अर्धमूलम् मूलार्धम् इति, अर्धमूलस्य कृतिः अर्धमूलकृतिः, मूलकृतॆः चतुर्थः भागः इति ], [अर्ध]कृतित्वात् द्वयॊः वर्गॆण इति चतुर्विभागः, तया अर्धमूलकृत्या युक्तम् अर्धमूलकृतियुक्तम् । तन्मूलम्, तस्य ऎव निष्पादितस्य मूलम् तन्मूलम् । मूलार्धॊनम्, मूलस्य शतादॆः अर्धॆन ऊनम् मूलार्धॊनम् । कालहृतम्, कालॆन हृतम् कालहृतम् । स्वमूलफलम्, स्वस्य मूलस्य फलम् स्वमूलफलम् ।

उद्दॆशकः 

जानामि शतस्य फलम् न च किन्तु शतस्य यत्फलम् सफलम् ।

मासैः चतुर्भिः आप्तम् षड् वद वृद्धिम् शतस्य मासॊत्थाम् ॥ १ ॥

न्यासः  १०० ० १ ४ ० ६ मासः ४, फलम् ६ ।  करणम्  मूलफलम् सफलम् ६, कालमूलगुणम् २४०० । अर्धमूलकृतिः २५००, अनया युक्तम् ४९०० । ऎतस्य मूलम् ७०, मूलार्धॊनम् २०, कालहृतम् [स्व]मूलफलम् जातम् ५ ।

प्रत्ययकरणम् पञ्चराशिकॆन  यदि शतस्य मासिकी वृद्धिः पञ्च तदा चतुर्भिः मासैः शतवृद्धॆः [पञ्चधनस्य] का वृद्धिः इति ।

न्यासः १ ४१०० ५५ ०लब्धम् १ । ऎतत्सहिता शतवृद्धिः षड् रूपाणि ६ ।

उद्दॆशकः 

पञ्चविंशतॆः मासिकी वृद्धिः न ज्ञायतॆ । या पञ्चविंशतॆः मासिकी वृद्धिः सा तॆन ऎव अर्धॆण अन्यत्र प्रयुक्ता, सह वृद्ध्या पञ्चभिः मासैः दृष्टा रूपत्रयम् पञ्चभागॊनम् । तत्र इच्छामः ज्ञातुम् का पञ्चविंशतॆः मासिकी वृद्धिः, का वा पञ्चविंशतिव[ऋ]द्धॆः पञ्चमासप्रयुक्ताया वृद्धिः इति ॥ २ ॥

न्यासः  २५ ०१ ५० २४५ लब्धम् पूर्वकरणॆन पञ्चविंशतॆः मासिकी वृद्धिः २, पञ्चविंशतिवृद्धॆः च पञ्चानाम् मासानाम् वृद्धिः ०४५ ।

उद्दॆशकः 

शतस्य मासिकी वृद्धिः न ज्ञायतॆ । किन्तु शतवृद्धिः अन्यत्र प्रयुक्ता पञ्चभिः मासैः सह वृद्ध्या दृष्टा रूपपञ्चदशकम् । तत्र इच्छामः ज्ञातुम् का च शतस्य मासिकी वृद्धिः का वा शतस्य वृद्धॆः पञ्चमासप्रयुक्ताया वृद्धिः इति ॥ ३ ॥

न्यासः  १०० ०१ ५० १५मासाः ५, सफलम् १५ । लब्धम्  पूर्ववत् शतवृद्धिः १०, शतवृद्धॆः पञ्चमासप्रयॊगात् वृद्धिः ५ ॥ २५ ॥

[ त्रैराशिकम् ]

त्रैराशिकप्रतिपादनार्थमध्यर्धार्याम् आह 

त्रैराशिकफलराशिम् तम् अथ इच्छाराशिना हतम् कृत्वा ।

लब्धम् प्रमाणभजितम् तस्मात् इच्छाफलम् इदम् स्यात् ॥ २६ ॥

छॆदाः परस्परहताः भवन्ति गुणकारभागहाराणाम् ।

त्रयः राशयः समाहृताः त्रिराशिः । त्रिराशिः प्रयॊजनम् अस्य गणितस्य इति त्रैराशिकः । त्रैराशिकॆ फलराशिः त्रैराशिकफलराशिः । तम् त्रैराशिकफलराशिम् । अथशब्दः परिज्ञानवस्तुपरिग्रहॆ उत्तरग्रन्थप्रतिपादनॆ वर्ततॆ । अत्र ऎवंप्रकारः अर्थः कः अत्र प्रतिपादितः ? उच्यतॆ  परिभाषा । सा च लॊकव्यवहारात् प्रतिविषयम् भिन्ना इति लॊकप्रयॊगात् ऎव प्रदर्शिता । अन्यथा हि प्रतिविषयम् भिन्नाः परिभाषाः विषयाः च संख्यातीताः । तॆन उपदॆष्टुम्

अशॆषतः सा न शक्यतॆ । अतः अथशब्दॆन लॊकप्रसिद्धाम् परिभाषाम् प्रतिपादयति । इच्छाराशिना हतम् कृत्वा, यः असौ फलराशिः स इच्छाराशिना हतः क्रियतॆ, तम् इच्छाराशिना हतम् गुणितम् कृत्वा । लब्धम्, लब्धम् आप्तम् । कथम् इति आह  प्रमाणभजितम्, प्रमाणराशिना भजितम् प्रमाणभजितम् । तस्मात् ऎवंविधात् राशॆः प्रमाणभजितात् । इच्छाफलम्, इच्छायाः फलम्, इच्छाफलम्, इच्छाराशिफलम् इति अर्थः । इदम् इति लब्धम् प्रत्यक्षीकृत्य उक्तम् ।

अत्र त्रैराशिकम् ऎव कॆवलम् अभिहितम् आचार्यार्यभटॆन, पञ्चराशिकादयः अनुपातविशॆषाः कथम् अवगन्तव्याः ? उच्यतॆ  अनुपातबीजमात्रम् ऎव आचार्यॆण उपदिष्टम् ; तॆन अनुपातबीजॆन सर्वम् ऎव पञ्चराश्यादिकम् सिद्ध्यति । कुतः ? पञ्चराशिकादीनाम् त्रैराशिकसंघातत्वात् । कस्मात् पञ्चराश्यादयः त्रैराशिकसंहताः ? पञ्चराशिकॆ त्रैराशिकद्वयम् संहतम्, सप्तराशिकॆ त्रैराशिकत्रयम्, नवराशिकॆ त्रैराशिकचतुष्टयम् इति आदि उद्दॆशकॆषु ऎव उपदॆश्यामः ।

यदा पुनः राशयः सच्छॆदाः स्युः तदा कथम् कर्तव्यम् इति आह 

छॆदाः परस्परहताः भवन्ति गुणकारभागहाराणाम् ।

छॆदाः परस्परस्य हताः अन्यॊन्यहताः । कॆषाम् इति अतः आह  गुणकारभागहाराणाम् । गुण्यगुणकारयॊः परस्परापॆक्षया गुणकारत्वम् , यस्मात् गुण्यः गुणकारॆण गुण्यतॆ, गुणकारः अपि गुण्यॆन, न कश्चित् फलविशॆषः । तॆन उक्तम् गुण्यगुणकारौ गुणकारशब्दॆन । गुणकारौ च भागहारः च गुणकारभागहाराः । अतः तॆषाम् गुणकारभागहाराणाम् छॆकाः परस्परहताः यॆ गुणकारच्छॆदाः भागहारहताः तॆ भागहाराः भवन्ति, भागहारच्छॆदाः च गुणकारहताः गुणकाराः भवन्ति इति ऎतत् अनुक्तम् अपि अवगम्यतॆ ऎव, यस्मात् तद्धर्माय छॆदाः परस्परम् नीयन्तॆ । भागहाराणाम् संवर्गः भागहारः । गुणकाराणाम् संवर्गः गुणकारः इति अर्थात् अवगम्यतॆ ।

उद्दॆशकः 

चन्दनपलानि पञ्च क्रीतानि मया हि रूपकैः नवभिः ।

चन्दनम् ऎकॆन तदा लभ्यम् [ किम् ] रूपकॆण ऎव ॥ १ ॥

तत्र यथाक्रमॆण स्थापना । उक्तम् च 

आद्यन्तयॊः तु सदृशौ विज्ञॆयौ स्थापनासु राशीनाम् ।

असदृशराशिः मध्यॆ त्रैराशिकसाधनाय बुद्धॆः ॥ इति ।

न्यासः  ९ ५ १ करणम्  रूपकैः नवभिः पञ्चचन्दनपलानि इति नव प्रमाणराशिः, पञ्च फलराशिः । ऎकॆन रूपॆण किम् इति ऎकम् इच्छाराशिः । तॆन ऎकॆन इच्छाराशिना फलराशिः गुणितः ५, प्रमाणराशिना नवकॆन विभज्यतॆ  ५९ । तत्र फलॆषु भागम् न प्रयच्छति इति "चतुष्कर्षम् पलम्" इति चतुर्भिः गुणितम् २० ९ । लब्धम् कर्षद्वयम् कर्षभागौ च [ नवानाम्] । कर्षब् २ कर्षभागः २९ ।

उद्दॆशकः 

आर्द्रकभारः दशभिः सपञ्चभागैः यदा अभिविक्रीतः ।

पलशतमूल्यम् शीघ्रम् सार्धपलस्य अत्र मॆ वाच्यम् ॥ २ ॥

न्यासः २००० १० १०० १ १ ५ २ सवर्णितॆ स्थापना  २००० ५१ २०१५ २

"छॆदाः परस्परहताः" इति गुणकारयॊः छॆदाः भागहारम् गताः । ५, २ ऎताभ्याम् छॆदाभ्याम् भागहारः गुणितः जातः २०००० । [ गुणकारयॊः २०१, ५१ अनयॊः घातः ] १०२५१ । पूर्ववत् लब्धम् विंशॊपकाः १०, विंशॊपकभागाः च  २५११००० ।

उद्दॆशकः 

अष्टाभिः सत्र्यंशैः मृगनाभ्या लभ्यतॆ पलम् सदलम् ।

कृतवीर्यॆण विगण्यम् सपञ्चभागॆन किम् मया लभ्यम् ॥ ३ ॥

न्यासः  [ ८ १ १ १ १ १ ३ २ ५ ]  सवर्णितॆन[ २५ ३ ६३ २ ५ ]  [पूर्ववत् करणॆन ] कृतवीर्यलब्धम् मृगनाभ्या माषकाः १३, गुञ्जाः ४, गुञ्जाभागाः ३२५ ।

उद्दॆशकः 

नागः विंशतिहस्तः प्रविशति अर्धांगुलम् मुहूर्तॆन ।

प्रत्यॆति च पञ्चांशम् कतिभिः अहॊभिः बिलम् प्राप्तम् ॥ ४ ॥

न्यासः  सर्पः ४८० अंगुलात्मकः, प्रविशति अर्धांगुलम्  १२,प्रतियॆति [च अंगुलपञ्चभागः १५ ] ।

अत्र पञ्चभागविशुद्धम् अर्धांगुलम् सर्पस्य मौहूर्त्तिकी गतिः इति पञ्चभागम् अर्धात् विशॊध्य स्थापना ९१०, मुहूर्तः १, सर्पप्रमाणांगुलानि ४८० ।

लब्धम् दिवसाः ५३१३

मिश्रराशिषु अपि ऎतत् ऎव अनुपातबीजम् । तत् यथा 

उद्दॆशकः 

अष्टौ दान्ताः त्रयः दम्याः इति गावः प्रकीर्तिताः ।

ऎकाग्रस्य सहस्रस्य कति दान्ताः कति इतरॆ ॥ ५ ॥

न्यासः  अष्टौ दन्ताः ८, त्रयः दम्याः ३, दन्तदम्यानाम् ऎकॊत्तरम् सहस्रम् १००१ ।

अत्र अयम् त्रैराशिकन्यासः  दान्तदम्याः ११, दान्ताः ८, सर्वसमुदायः १००१ ।

अत्र इयम् वाचः युक्तिः  ऎकादशभिः दान्तदम्यैः अष्टौ दान्ताः लभ्यन्तॆ, तत् ऎकाग्रॆण सहस्रॆण कियन्तः दान्ताः इति लब्धाः दान्ताः ७२८ तथा ऎव दम्याः २७३ ।

ऎवम् प्रक्षॆपकरणॆषु अपि उद्दॆशकः 

समवायकाः तु वणिजः पञ्चैकैकॊत्तरादिमूलधनाः ।

लाभः सहस्रसंख्यः वद कस्मै तत्र किम् दॆयम् ॥ ६ ॥

न्यासः  धनानि १, २, ३, ४, ५ । लाभः सहस्रम् १००० । करणम्  प्रक्षॆपकधनॆन अनॆन १५, अयम् लाभः १००० । यथाक्रमॆण ऎकॆन द्वाभ्याम् इति आदि लब्धाः लाभाः [ प्रथमस्य ]

६६२३,द्वितीयस्य १३३१३, तृतीयस्य २००, चतुर्थस्य२६६२३,पञ्चमस्य३३३१३ ।

भिन्नॆ अपि उद्दॆशकः 

अर्धॆन तृतीयॆन प्रक्षॆपॆण अष्टमॆन यॆ वणिजः ।

सप्ततिः ऎकॆन ऊना लाभः तॆषाम् कियान् कस्य ॥ ७ ॥

न्यासः १ १ १ । लाभः ६९ ।२ ३ ८

अत्र भिन्नगणितन्यायॆन "छॆदगुणः सच्छॆदम्" इति सवर्णितॆ जाताः

१२ ८ ९२४ २४ २४ । छॆदैः प्रयॊजनम् न अस्ति इति अंशाः कॆवलाः १२, ८, ३ । ऎतॆषाम् पूर्ववत् प्रक्षॆपन्यायॆन ऎकत्र [ यॊगः ] २३ । अनॆन प्रक्षॆपॆण अस्य लाभस्य ६९ भागः स्वांशैः पृथक् पृथक् गुणितस्य त्रैराशिकविभागॆन लब्धाः भागाः ३६, २४, ९ ।

[ पञ्चराशिकम् ]

पञ्चराशिकॆ उद्दॆशकः 

शतवृद्धिः मासॆ स्यात् पञ्च कियान् मासषट्प्रयुक्तायाः ।

वृद्धिम् वद विंशत्या यदि भटगणितम् त्वया बुद्धम् ॥ ८ ॥

न्यासः  १००१ २०१ ६५ करणम्  प्रथमत्रैराशिकम् १००, ५, २० । लब्धम् रूपकः १ । द्वितीयत्रैराशिकम्  यदि मासॆन रूपकः, षड्भिः कियन्तः इति लब्धम् रूपकाः षट् ।

ऎतत् ऎव गणितम् युगपत् क्रियमाणम् पञ्चराशिकम् भवति । तत्र अपि शतस्य मासॆ इति [ शतम् रूपम् च ] प्रमाणराशिद्वयम्, पञ्च इति फलराशिः विंशत्या षड्भिः मासैः किम् इति विंशतिः षट् च इच्छाराशिः । तत्र पूर्ववत् ऎव इच्छाराशिः फलराशिना गुणितः प्रमाणराशिभ्याम् विभज्यतॆ, फलम् पूर्ववत् ऎव । त्रैराशिकम् ऎव ऎतत् द्विधा व्यवस्थितम् । छॆदाः अपि पूर्ववत् गुणकारभागहाराणाम् परस्परम् गच्छन्ति ।

[ उद्दॆशकः ]  [ शतस्य मासद्वय]प्रयुक्तस्य वृद्धिः पय्न्न्च । पञ्चविंशतॆः पञ्चमासप्रयुक्तायाः का वृद्धिः इति ॥ ९ ॥

न्यासः  १०० २५ लब्धम् ३२ ५ १५ ८

उद्दॆशकः 

[शतस्य अर्धचतुष्क]मासप्रयुक्तस्य वृद्धिः अर्धपञ्चकाः रूपकाः । तदा पञ्चाशतः दशमासप्रयुक्तस्य का वृद्धिः इति ॥ १० ॥

न्यासः  १०० ५० ३ १०१२४१२

लब्धम् रूपकाः षट् ६, सप्तभागाः त्रयः च ३७ ।

उद्दॆशकः 

विंशत्याः सार्धायाः सत्र्यंशः रूपकः भवॆत् वृद्धिः ।

मासॆ सपञ्चभागॆ पादॊनानाम् तु सप्तानाम् ॥

मासैः षड्भिः वाच्यम् दशभागयुतैः तु का भवॆत् वृद्धिः ।

ज्ञात्वा छॆदविकल्पम् सम्यक् भटतन्त्रसूत्रॆण ॥ ११ ॥

सवर्णितॆ स्थापना  ४१ २७२ ४६ ६१५ १०४ ०३

लब्धम् रूपकद्वयम् [ २, विंशॊपकाः ] ४, विंशॊपकभागाः च२६४१ ।

[ सप्तराशिकम् ]

सप्तराशिकॆ उद्दॆशकः 

सप्तॊच्छ्रितस्य करिणः त्रिंशत् परिधॆः नवायतस्य यदा ।

नव कुडुवाः लभ्यन्तॆ नित्यम् संशुद्धशालिपृथुकानाम् ॥

पञ्चॊच्छ्रितस्य वाच्यम् सप्तायाम् अस्य दन्तिनः किम् स्यात् ।

अष्टाविंशतिपरिधॆः वाच्याः पृथुकाः तदा लभ्याः ॥ १२ ॥

स्थापना  ७ ५३० २८९ ७९ ०

लब्धम् पृथुककुडुवाः ४, सॆतिकॆ २, सॆतिकभागाः२३

उद्दॆशकः 

हस्त्युत्तमस्य चतुर्हस्तॊच्छ्रितस्य षडायतस्य पञ्चपरिणाहस्य अर्धतृतीयाः कुडुवाः लभ्यन्तॆ माषानाम् यदा तदा त्र्युच्छ्रितस्य पञ्चायतस्य अर्धपञ्चमपरिणाहस्य किम् लभ्यम् ॥ १३ ॥

न्यासः  ४ ३६ ५५ ९२५ ०२

लब्धम् कुडुवः १, सॆतिका १, मानकौ २, अर्धमानकम् १२ ।

ऎवम् नवरास्यादिषु यॊज्याः ।

[ व्यस्तत्रैराशिकम् ]

व्यस्तत्रैराशिकम् अपि ऎतत् ऎव । तत्र गुणकारभागहारविपर्यासॆ विशॆषः । तत् यथा 

[उद्दॆशकः ]

पञ्चसौवर्णिकॆ पलॆ दृष्टानि षॊडशा पलानि सुवर्णस्य यदा तदा चतुस्सौवर्णिकॆ कियन्ति इति ॥ १४ ॥

न्यासः  ५ १६ ४ अत्र पञ्चसौवर्णिकॆन पलॆन षॊडश पलानि इति पञ्चभिः षॊडश गुणिताः सुवर्णाः भवन्ति । ऎतॆ सुवर्णाः चतुर्भिः ह्र्टाः चतुस्सौवर्णिकपलानि भवन्ति । ऎवम् लब्धानि पलानि २० ।

स्वसिद्धान्तॆ च यदि व्यासार्धमण्डलॆ भुजाफलम् इदम् लभ्यतॆ तदा तत्कालॊत्पन्नकर्णविष्कम्भार्धमण्डलॆ किम् इति तत्र महति कर्णप्रमाणॆ अल्पीयस्यः [ भुजाफलकला ] भवन्ति, अल्पकर्णॆ वह्व्यः इति व्यासार्धम् गुणकारः [ कर्णः भागहारः ] ।

उद्दॆशकः 

अष्टौ पिटकाः दृष्टाः चतुर्दशप्रसृतिकॆन मानॆन ।

अष्टप्रसृतिकमानॆ पिटकाः कॆ स्युः तदा वाच्याः ॥ १५ ॥

न्यासः  ८ १४ ८ 

लब्धम् पिटकाः १४ ॥ २६-२७ ॥

[ कलासवर्णनम् ]

कलासवर्णॊद्दॆशप्रदर्शनार्थम् आर्यापश्चार्धम् आह 

छॆदगुणम् सच्छॆदम् परस्परम् तत् सवर्णत्वम् ॥ २७ ॥

सह छॆदॆन वर्ततॆ इति सच्छॆदम् । किम् तत् ? राशिरूपम् । अत्र सच्छॆदम् राशिरूपम् विन्यस्य ऎतत् उच्यतॆ  "छॆदगुणम् सच्छॆदम् परस्परम्" इति । छॆदः गुणः यस्य राशिरूपस्य तद्राशिरूपम् छॆदगुणम् । परस्परम् अन्यॊन्यम्, ऎकॆन राशिच्छॆदॆन इतरः राशिः सच्छॆदः गुण्यतॆ, इतरॆण अपि इतरः [ राशिः तद्वत् विन्यस्तः ] । तत् सवर्णत्वम्, तत् ऎव निर्वर्तितम् कर्म सवर्णत्वम् । सवर्णकयॊः यथा इष्टम् संयॊगः विश्लॆषः च ।

उद्दॆशकः 

अर्धम् षष्ठम् द्वादशभागम् चतुर्थभागसंयुक्तम् ।

ऎकत्र कियत् द्रव्यम् निर्दॆश्यम् तत्क्रमॆण ऎव ॥ १ ॥

न्यासः  १ १ १ १२ ६ १२ ४ करणम्  द्वयॊः १ १२ ६, ऎतौ परस्परच्छॆदॆन गुणितौ सच्छॆदौ राशी६ २१२ १२ । ऎकत्र २३ ।पुनर् तृतीयरासिना स्थापना२ १३ १२,प्रक्षिप्तॆन [ ३ ][ ४ ] । ऎवम् चतुर्थराशिना

३ १४ ४, लब्धम् रूपकम् १ ।

उद्दॆशकः 

अर्धम् षष्ठम् भागम् तृतीयकॆन सहितम् कियत् द्रव्यम् ।

अर्धम् षष्ठः द्वादशकः विंशः सपञ्चभागः च ॥ २ ॥

न्यासः  १ १ १२ ६ ३ द्वितीयॊद्दॆशकॆ स्थापना १ १ १ १ १२ ६ १२ २० ५

लब्धम् पूर्वकरणॆन उभयत्रैकराशिकम् रूपम् १, १ ।

उद्दॆशकः 

अर्धम् षड्भागॊनम् पञ्चांशम् च अपि सप्तभागॊनम् ।

त्र्यंशम् पादॊनम् वा गणयतॆ [ गणकाः ] कियत् द्रव्यम् ॥ ३ ॥

न्यासः  १ १ १ १ ११ २ ६ ५ ७३४ 

लब्धम् यथाक्रमॆण १ २ १ ३ ३५१२

[विपरीतकर्म ]

प्रतिलॊमकरणप्रदर्शनार्थम् आह 

गुणकाराः भागहराः भागहराः तॆ भवन्ति गुणकाराः ।

यः क्षॆपः सः अपचयः अपचयः क्षॆपः च विपरीतॆ ॥ २८ ॥

गुणकाराः भागहराः, यॆ गुणकाराः आसन् तॆ प्रतिलॊमक्रमणि [भागहाराः भवन्ति] । भागहराः तॆ भवन्ति गुणकाराः, [यॆ] भागहाराः तॆ गुणकाराः भवन्ति । यः क्षॆपः सः अपचयः, पूर्वम् यः क्षॆपः आसीत् स विलॊमकर्मणि अपचयः भवति । अपचयः क्षॆपः च, यः अपचयः स क्षॆपः विपरीतकर्मणि भवति ।

अत्र यॆ उद्दॆशकाः तॆ प्रायशः प्रदर्शिताः । स्वतन्त्रॆ अपि च छायानीतशंकॊः घटिकानयनम् प्रति व्यासार्धम् भागहारः आसीत् इति गुणकारः, लम्बकः गुणकारः आसीत् इति भागहारः । तत्र उत्तरगॊलॆ [क्षितिज्या क्षिपॆ] दित्यपनीयतॆ, दक्षिणगॊलॆ अपनयॆत् इति प्रक्षिप्यतॆ । ततः विपरीतत्वात् ऎव व्यासार्धम् गुणकारः, स्वाहॊरात्रार्धम् भागहारः । लब्धज्या विपरीतकर्मणा ऎव काष्ठीक्रियतॆ । तस्मिन् काष्ठॆ उत्तरगॊलॆ चरप्राणाः प्रक्ष्प्यन्तॆ विशॊधितत्वात्, दक्षिणगॊलॆ विशॊध्यन्तॆ क्षिप्तत्वात् इति आदि । ऎवम् सर्वत्र स्वतन्त्रॆ विपरीतकर्म नियॊज्यम् ।

अन्यत्र अपि उद्दॆशकः 

द्विगुणम् रूपसमॆतम् पञ्चविभक्तम् त्रिताडितम् भूयः ।

द्व्यूनम् सप्तविभक्तम् लब्धम् रूपम् कियत् भवॆत् पूर्वम् ॥ १ ॥

न्यासः  २ गु, १ क्षॆ, ५ हा, ३ गु, २ ऊ, ७ हा, सप्तभिः भागलब्धम् रूपकम् १ । करणम् ऎतत्  लब्धम् रूपम् १, सप्तभिः गुणितम् जातम् ७, द्वाभ्याम् युक्तम् ९, त्रिभिः भक्तम् ३, पञ्चगुणम् १५, ऎकॊनम् १४, दलितम् लब्धम् ७ ।

उद्दॆशकः 

त्रिगुणम् रूपविहीनम् दलितम् द्वाभ्याम् समन्वितम् भूयः ।

भक्तम् त्रिभिः तु तस्मात् द्विकहीनम् किम् भवॆत् रूपम् ॥ २ ॥

न्यासः  ३ गु, १ ऊ, २ हा, २ क्षॆ, ३ हा, २ ऊ, लब्धम् रूपम् १ ।पूर्ववत् आगतम् ५ ॥ २५ ॥

[ अनॆकवर्णसमीकरणविशॆषः ]

राश्यूनक्रमसंकलितानयनम् आह 

राश्यूनम् राश्यूनम् गच्छधनम् पिण्डितम् पृथक्त्वॆन ।

व्यॆकॆन पदॆन हृतम् सर्वधनम् तत् भवति ऎवम् ॥ २९ ॥

राशिना ऊनम् राश्युनम् । [ राश्यूनम् ] राश्यूनम् इति अनया वीप्सया अनन्त्यम् गणितकर्म प्रदर्शयति । गच्छः पदम् पर्यवसानम् इति पर्यायाः । गच्छस्य धनम् गच्छधनम्, पदधनम् । राश्यूनन्यायॆन यावत् पदम् तत् गच्छधनम् उच्यतॆ । पिण्डितम् पृथक्त्वॆन । पिण्डितम् ऎकत्र कृतम् । पृथक्त्वॆन इति राश्यूनक्रमलब्धपदानाम् अविनष्टस्थापनाम् प्रदर्शयति । अविनष्टस्थापनाप्रयॊजनम् च सर्वधनम् च सर्वधनात् अविनष्टस्थापितपदधनॆ अपनीतॆ पृथक् पृथक् पदानाम् धनानि भवन्ति । यदि कॆवलम् सर्वधनपरिज्ञानमात्रम् ऎव स्यात् तदा पृ(थ)क्त्वॆन इति अनर्थकम् स्यात्, यस्मात् अपृथक्करणॆ अपि सर्वधनस्य सिद्धत्वात् । विगतम् ऎकम् व्यॆकम्, तॆन व्यॆकॆन, तॆन पदॆन च । व्यॆकैः पदैः इति बहुवचनॆन अत्र भवितव्यम् । न ऎषः दॊषः । पदजातिम् अंगीकृत्य "जात्याख्यायाम् ऎकस्मिन् बहुवचनम् अन्यतरस्यात्" [अष्टाध्यायी, १.२.५८ ] इति ऎकवचनम् कृतम् । तॆन यः अर्थः व्यॆकैः पदैः इति स ऎव अर्थः व्यॆकॆन पदॆन इति अवगम्यतॆ । हृतम् भक्तम् । सर्वधनम्, सर्वॆषाम् पदानाम् यथाक्रमॆण धनम् ऎकत्र तत् सर्वधनम् उच्यतॆ । तत् भवति ऎवम्, यत् ऎवम् कृतॆ कर्मणि तत् सर्वधनम् भवति ।

उद्दॆशकः 

मत्तामत्तकरॆणुविक्करचिता यूथा गजानाम् वनॆ

ऎकापायचयॆन [ यॆ अत्र ] गणिताः त्रिंशत् रसानाम् कृतिः ।

सप्तानाम् अपि सा ऎव च ऎकसहिता नागाग्रम् आगण्यताम्

यूथानाम् च पृथक् पृथक्त्वगणितम् निर्वर्ण्यताम् तत्त्वतः ॥ १ ॥

न्यासः  ३०, ३६, ४९, ५० । करणम्  ऎतानि धनानि अविनष्टानि ऎकत्र १६५ । व्यॆकम् पदम् ३ । अनॆन लब्धम् सर्वधनम् ५५ । ऎतस्मात् प्रथमपदम् अपास्य मत्ताग्रम् २५, द्वितीयम् अपास्य अमत्तसंख्या १९, तृतीयम् अपास्य करॆणुसंख्या ६, चतुर्थम् अपास्य विक्कसंख्या ५ ।

उद्दॆशकः 

नागाः वाजखरॊष्ट्रवॆसरगवाम् ऎकैकहीनाः क्रमात्

अष्टाविंशतिः ऎकहीनगणिता रूपॊनम् अन्त्यम् पुनर् ।

तॆषाम् सर्वधनम् पृथक् च नियमात् वाच्यम् त्वया निश्चितम्

कृत्स्नम् च आर्यभटप्रणीतगणितम् दृष्टम् गुरॊः अन्तिकॆ ॥ २ ॥

न्यासः  २८, २७, २६, २५, २४, २३, २१ । लब्धम् सर्वधनम् २९ । पृथक् पृथक् १, २, ३, ४, ५, ६, ८ ॥ २९ ॥

[ ऎकवर्णसमीकरणम् ]

समकरणॊद्दॆशकप्रदर्शनार्थम् आह 

गुलिकान्तरॆण विभजॆत् द्वयॊः पुरुषयॊः तु रूपकविशॆषम् ।

लब्धम् गुलिकामूल्यम् यदि अर्थकृतम् भवति तुल्यम् ॥ ३० ॥

गुलिकाशब्दॆन अविज्ञातमूल्यवस्त्वभिधीयतॆ । गुलिकानाम् अन्तरम् गुलिकान्तरम् तॆन गुलिकान्तरॆण, अविज्ञातमूल्यवस्तूनाम् अन्तरॆण इति अर्थः । विभजॆत् द्वयॊः पुरुषयॊः तु रूपकविशॆषम् । द्वयॊः इति अनॆन द्वयॊः ऎव इदम् कर्म न त्र्यादीनाम् इति ऎतत् प्रदर्शयति । रूपकविशॆषम् इति अनॆन च निर्ज्ञातसंख्यम् धनम् परिगृह्यतॆ । रूपकम् दीनारादिकम् । लब्धम् गुलिकामूल्यम्, यत् अत्र लब्धम् तत् गुलिकामूल्यम् । यदि अर्थकृतम् भवति तुल्यम्, यॆन अर्थॆन कृतम् तत् तुल्यम् सदृशम् भवति ।

उद्दॆशकः 

अश्वाः लक्षणयुक्ताः वणिजः नित्यम् बलान्विताः सप्त ।

प्रथमस्य मया दृष्टम् द्रव्यशतम् च ऎव हस्तगतम् ॥

नव तुरगाः निर्दृष्टाः द्रव्याशीतिः धनम् द्वितीयस्य ।

वाच्यम् घॊटकमूल्यम् तुल्यार्धॆण ऎव तुल्यधनौ ॥ १ ॥

न्यासः  ७ १०० ९ ८० करणम्  गुलिकान्तरम् २, रूपकविशॆषम् २०, ऎतत् गुलिकान्तरॆण विभक्तम् घॊटकस्य ऎकस्य मूल्यद्रव्यम् दश १० । अनॆन अर्धॆण प्रथमस्य घॊटकानाम् मूल्यम् ७०, द्वितीयस्य ९०, [स्व]स्वहस्तगतॆन अनॆन [च] गतौ तुल्यधनौ १७० उभयॊः अपि ।

उद्दॆशकः 

कुंकुमपलानि च अष्टौ ऎकस्य धनस्य रूपका नवतिः ।

द्वादश पलानि विद्यात् अन्यस्य धनस्य रूपकाः त्रिंशत् ॥

तुल्यार्धॆण च क्रीतम् कुंकुमम् द्वाभ्याम् कियत् पलार्धॆण ।

इच्छामि तत्र बॊद्धुम् मूल्यम् वित्तम् च तुल्यम् ऎव तयॊः ॥ २ ॥

न्यासः  ८ ९० १२ ३० 

लब्धम् पूर्ववत् कुंकुमपलस्य ऎकस्य मूल्यम् १५ । तुल्यधनम् २१० उभयॊः ।

ऎतॆ ऎव गुलिकाः अज्ञातप्रमाणाः यावत् तावन्तः उच्यन्तॆ, रूपकाः ऎव तत्र अपि । यावत् तावत् संज्ञया अपि उद्दॆशकाः अभिधीयन्तॆ । तत् यथा 

[उद्दॆशकः ]

सप्त यावत् तावत् सप्त च रूपकाः समाः द्वयॊः यावत् तावतॊः द्वादशानाम् [च] रूपकाणाम्, कियन्तः यावत् तावत् प्रमाणाः ॥ ३ ॥

न्यासः  ७ ७२ १२ करणम्  पूर्ववत् गुलिकानाम् यावत् तावताम् विशॆषः उपरि शुद्धॆ ५ । अधः शुद्धॆ रूपकविशॆषः ५ । यावत् तावत् विशॆषॆण रूपकविशॆषस्य भागलब्धम् यावत् तावत् प्रमाणम् १ । ऎतॆन यावत् तावत् प्रमाणॆन यावत् तावन्तः गुलिकाः जाताः क्रमॆण ७, २; स्वान् स्वान् रूपान् प्रक्षिप्य समाः । प्रथमस्य १४, द्वितीयस्य तत् ऎव १४ ।

उद्दॆशकः 

नव गुलिकाः सप्त [च] रूपकाः समाः त्रयाणाम् [तु] गुलिकानाम् ।

त्रयॊदशानाम् च रूपकाणाम् तदा किम् गुलिकामूल्यम् ॥ ४ ॥

न्यासः  ९ ७ ३ १३

लब्धम् गुलिकामूल्यम् १ । यदा पुनर् रूपकाः शॊध्याः भवन्ति तदा 

उद्दॆशकः 

नव गुलिकाः रूपकाः चतुर्विंशतिः ऋणम् द्वॆ गुलिकॆ [च] ।

अष्टादश रूपकाः समाः [कथय] किम् गुलिकामूल्यम् ॥ ५ ॥

न्यासः  ९ २४२ १८ अत्र गुलिकाः उपरि शुद्ध्यन्तॆ, रूपकाः अधः शॊध्याः न शुद्ध्यन्ति । ततः 

सॊज्झम् भूणारधणम् अणम् अणदॊ नयमदॊ नयमदॊ सॊज्झम् ।

विपरीतॆ साधण‌ऎ सॊज्झम् वा किम् व गुहॊलम् ॥

अत्र गुलिकाः उपरि शॊध्याः गुलिकाभ्यः शुद्ध्यन्तॆ; अधःशॊध्याः रूपकाः न, शॊध्यत्वात् च विपरीतम् प्रक्षिप्यन्तॆ । प्रक्षिप्तॆ सति जाताः ४२ । गुलिकाविशॆषैः सप्तभिः भागलब्धम् षट् ६ । [प्रथमस्य यावत् ता]वत् प्रमाणम् ९, षड्गुणितम् ५४, ऋणगतरूपकाः चतुर्विंशतिः शुद्धाः शॆषम् त्रिंशत् ३० । [द्वितीयस्य] द्वॆ गुलिकॆ षड्भिः गुणितॆ १२, अष्टादशयुक्तॆ ३० । ऎवम् समधनाः ।

समकरणॆषु [ऎवम्] सर्वत्र यॊज्यम् ॥ ३० ॥

[ यॊगकालज्ञनम् ]

यॊगकालानयनार्थम् आह 

भक्तॆ विलॊमविवरॆ गतियॊगॆन अनुलॊमविवरॆ द्वौ ।

गत्यन्तरॆण लब्धौ द्वियॊगकालौ अतीतैष्यौ ॥ ३१ ॥

भक्तॆ, हृतॆ । विलॊमविवरॆ, ऎकः गच्छति अपरः तत्प्रतिमुखम् प्रत्यागच्छति तत् विलॊमविवरम्, अनुलॊमगतॆः विलॊमगतॆः च अन्तरम् इति । अत्र अनुलॊमशब्दः लुप्तनिर्दिष्टः प्रत्यॆतव्यः । अथवा विलॊमविवरम् ऎवंप्रकारम् ऎव परिगृह्यतॆ, यदि द्वौ अपि विलॊमगती स्याताम्, तदा अनुलॊमविवरम् ऎव स्यात् । तस्मिन् विलॊमविवरॆ भक्तॆ । कॆन इति आह  गतियॊगॆन । गत्यॊः यॊगः गतियॊगः, तॆन गतियॊगॆन । अनुलॊमविवरॆ, अनुलॊमगत्यॊः विवरम् अनुलॊमविवरम्। द्वौ इति द्वयॊः प्रतिलॊमानुलॊमयॊगकालयॊः परम् अंशम् करॊति । गत्यन्तरॆण, गत्यॊः अन्तरम् [गत्यन्तरम्] गतिविशॆषः, तॆन गत्यन्तरॆण । लब्धौ द्वियॊगकालौ, द्वयॊः यॊगः द्वियॊगः, द्वियॊगस्य कालौ द्वियॊगकालौ । अतीतैष्यौ अतीतः च ऎष्यः च अतीतैष्यौ । अतीतः अतिक्रान्तः, ऎष्यः भावि । तत् यथा  यदा ऎकः ग्रहः पुरस्तात् स्थितः वक्री, [अन्यः] पश्चात् अवस्थितः चारॆण गच्छति, तयॊः अन्तराललिप्ता विलॊमविवरम् । तत्र ऎकस्य अनुलॊमचारिणः, अपरस्य प्रतिलॊमम्

आगच्छतः अल्पॆन कालॆन यॊगः भविष्यति इति तयॊः भुक्तियॊगॆन भागः ह्रियतॆ, यस्मात् तावान् ऎव तयॊः आह्निकः भॊगः । तॆन त्रैराशिकम् क्रियतॆ  यदि अनॆन आह्निकॆन भॊगॆन ऎकः दिवसः लभ्यतॆ, तदा अनॆन विलॊमविवरॆण किम् इति । दिवसा घटिका वा लभ्यन्तॆ । तावान् कालः अतिक्रान्तॆ यॊगॆ अतीतः, भाविनि यॊगॆ ऎष्यः । तत्र समलिप्ताविधानम् भुक्त्या त्रैराशिकम्  यदि षष्ट्या घटिकाभिः ग्रहस्फुटगतिः लभ्यतॆ, तदा विलॊमॊत्पन्नघटिकाभिः का भुक्तिः इति लब्धम् अनुलॊमगतौ ग्रहॆ प्रक्षिप्यतॆ विलॊमगतॆः अपनीयतॆ । ऎवम् तौ समलिप्तौ ग्रहाविष्टकालसम्भवौ भवतः । अथ वक्रगतिः पश्चात् अवतिष्ठतॆ, पुरस्तात् अनुलॊमगतिः तदा लब्धम् फलम् वक्रगतौ प्रक्षिप्यतॆ अतिक्रान्तत्वात्, अनुलॊमगतिः विशॊध्यतॆ अतिक्रान्तत्वात् ऎव । यदा पुनर् अनुलॊमगती ऎतौ भवतः तदा भुक्तिविशॆषॆण अनुलॊमविवरस्य भागः, यस्मात् भुक्तिविशॆषतुल्यम् आह्निकम् गत्यन्तरम् तयॊः । ततः अनॆन गत्यन्तरॆण भुक्तिविशॆषॆण जनितॆन षष्तिः नाड्यः उपलभ्यन्तॆ तदा अनुलॊमविवरॆण किम् इति घटिकाः लभ्यन्तॆ । ताभिः च ग्रहस्फुटभुक्त्या सह त्रैराशिकम्  यदि षष्ट्या स्फुटभुक्तिः लभ्यतॆ, आभिः घटिकाभिः किम् इति । लब्धम् शीघ्रगतौ पश्चात् व्यवस्थितॆ उभयम् उभयत्र स्वम् स्वम् प्रक्षिप्यतॆ । शीघ्रगतौ पुरःस्थितॆ तत् उभयम् उभयस्मात् अपनीयतॆ । ऎवम् द्वियॊगकालौ अतीतैष्यौ भवतः । यदा च द्वौ अपि वक्रगती भवतः तदा अपि ऎवम् ऎव कर्म । इदम् ऎव कर्म

अस्माभिः कर्मनिबन्धॆ उक्तम् 

ग्रहयॊः अन्तरम् भाज्यम् प्रतिलॊमानुलॊमयॊः ।

भुक्तियॊगॆन वा अन्यत्र भॊगविश्लॆषसंख्यया ॥

दिनादिः लभ्यतॆ कालः यॊगिनाम् यॊगकारकः ।

भुक्तॆः अनॆकरूपत्वात् स्थूलः कालः स गम्यतॆ ॥

समलिप्तावतः युक्त्या कुर्यात् तन्त्रस्य वॆदिता ।

सॊपदॆशात् गुरॊः नित्यम् अभ्यासात् वा अवगम्यतॆ ॥ [महाभास्करीयम्, ६.४९-५१]  इति ।

सूर्याचन्द्रमसॊः अपि 

गन्तव्ययाततिथिशॆषहतॆ रवीन्द्रॊः भुक्ती क्रमॆण दिनभुक्तिविशॆषभक्तॆ ।

लब्धॆन युक्तरहितौ शशितिग्मरश्मी ज्ञॆयौ समौ सकललॊकविधानहॆतू ॥ [महाभास्करीयम्, ४.६४]

लौकिकगणितॆ अपि उद्दॆशकः 

सार्धम् यॊजनम् ऎकः वलभीतः याति असौ दिनॆन ऎव ।

आगच्छति हरुकच्छात् पादयुतम् यॊजनम् हि अपरः ॥

अन्तरम् अनयॊः दृष्टम् तु अष्टादश यॊजनानि पथिकॆन ।

वाच्यम् यॊगः कियता कालॆन अभूत् तयॊः गणक ॥ १ ॥

न्यासः  वलभीप्रस्थितस्य [गतिः]  ३२, हरुकच्छात् आगच्छतः [गतिः] ५४, तयॊः विलॊमविवरम् १८ ।करणम्  अनयॊः गतियॊगः ११४ । अनॆन विलॊमविवरस्य भागलब्धम् दिवसाः ६, दिवसभागाः च

६११ ।

अनुलॊमविवरॊद्दॆशकः 

वलभीतः याति नरः गंगाम् दिवसॆन यॊजनम् सार्धम् ।

अपरः त्रिभागहीनम् शिवभागपुरात् तदा याति ।

अष्टौ त्रिगुणानि तयॊः अन्तरम् उक्तम् च यॊजनानि बुधैः ।

ऎकॆन पथा यातौ कियता कालॆन संयुक्तौ ॥ २ ॥

न्यासः  वलभीप्रस्थितस्य गतिः ३२, शिवभागपुरप्रस्थितस्य गतिः २३, अनुलॊमविवरम् २४ । करणम्  ऎतयॊः गतिविशॆषः ५६, अनुलॊमविवरम् २४ । अस्य गतिविशॆषॆण भागलब्धम् दिवसाः २८, दिवसभागाः च

४५ ॥ ३१ ॥

[ कुट्टाकारः ]

इदानीम् कुट्टाकारगणितम् अभिधीयतॆ । तत्र आर्यासूत्रद्वयम् 

अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारॆण ।

शॆषपरस्परभक्तम् मतिगुणम् अग्रान्तरॆ क्षिप्तम् ॥ ३२ ॥

अधौपरिगुणितम् अन्त्ययुक् ऊनाग्रच्छॆदभाजितॆ शॆषम् ।

अधिकाग्रच्छॆदगुणम् द्विच्छॆदाग्रम् अधिकाग्रयुतम् ॥ ३३ ॥

अधिकाग्रभागहारम् छिन्द्यात् । अग्रम् शॆषः । अधिकाग्रम् यस्य सः अयम् अधिकाग्रः । अधिकाग्रः च असौ भागहारः च अधिकाग्रभागहारः । तम् अधिकाग्रभागहारम्, छिन्द्यात् विभजॆत् इति अर्थः । कॆन इति आह  ऊनाग्रभागहारॆण । शॆषपरस्परभक्तम् । लब्धॆन न अस्ति प्रयॊजनम्, शॆषॆण सह कर्म क्रियतॆ । परस्परॆण भक्तम् परस्परभक्तम्, इतरॆतरभक्तम् इति अर्थः । शॆषॆण सह परस्परभक्तम् शॆषपरस्परभक्तम् । मतिगुणम्, स्वबुद्धिगुणम् इति अर्थः । कथम् पुनर् स्वबुद्धिगुणः क्रियतॆ ? अयम् राशिः कॆन गुणितम् इदम् अग्रान्तरम् प्रक्षिप्य विशॊध्य वा अस्य राशॆः शुद्धम् भागम् दास्यति इति । अग्रान्तरॆ क्षिप्तम् । समॆषु क्षिप्तम् विषमॆषु शॊध्यम् इति सम्प्रदायाविच्छॆदात् व्याख्यायतॆ ।

ऎवम् परस्परॆण लब्धानि पदानि अवस्थाप्य, मतिः च अधः, पश्चिमलब्धम् च मत्या अधः । अधुपरिगुणितम्, अधःस्थितॆन राशिना उपरिरासिः गुणितः । अन्त्ययुक्, अन्त्यॆन राशिना पश्चिमलब्धॆन सहितः । ऎवम् भूयः भूयः कर्म यावत् कर्मपरिसमाप्तिम् इति । ऊनाग्रच्छॆदभाजितॆ शॆषम्, ऊनाग्रस्य यत् छॆदम् तॆन भाजितॆ शॆषम्, तॆन ऊनाग्रच्छॆदॆन पूर्वगणितकर्मणा निष्पन्नराशॆः विभक्तशॆषम् परिगृह्यतॆ । अधिकाग्रच्छॆदगुणम्, अधिकाग्रच्छॆदॆन अभ्यस्तम् । द्विच्छॆदाग्रम्, द्वयॊः छॆदयॊः अग्रम्, अग्रम् संख्या । अधिकाग्रयुतम्, अधिकाग्रॆण युतम् अधिकाग्रयुतम् । ऎतत् उक्तम् भवति  ऊनाग्रच्छॆदभाजितॆ शॆषम् अधिकाग्रच्छॆदॆन अभ्यस्तम् अधिकाग्रसहितम् तत् द्वयॊः अपि छॆदयॊः भाज्यराशिः भवति इति ।

ऎवम् साग्रकुट्टाकारः व्याख्यातः । निरग्रकुट्टाकारः अपि उत्तरत्र वक्ष्यति ।

उद्दॆशकः 

पञ्चभिः ऎकम् रूपम् द्वॆ रूपॆ च ऎव सप्तभागॆन ।

अवशिष्यतॆ तु राशिः विगण्यताम् तत्र का संख्या ॥ १ ॥

न्यासः  १ २५ ७ करणम्  अधिकाग्रच्छॆदम् सप्त ७, ऊनाग्रच्छॆदॆन पञ्चकॆन ५, भाजितॆ शॆषम् उपरि द्वौ २ अधः पञ्च ५ । अल्पः राशिः इति अत्र ऎव मतिः कल्प्यतॆ । अयम् [उपरि] राशिः कॆन गुणितः रूपम् अग्रान्तरम् प्रक्षिप्य पञ्चभिः शुद्धम् भागम् दास्यति इति लब्धा मतिः द्वॆ रूपॆ । भागलब्धम् ऎकम् १, शॆषम् ० । अस्य स्थापना २१ ।

तृतीयपदस्य असम्भवात् ऎतत् ऎव सञ्जातम् । ऊनाग्रच्छॆदभाजितॆ शॆषम् २, अधिकाग्रच्छॆदॆन सप्तकॆन गुणितम् जातम् १४, अधिकाग्र[२]सहितम् १६ । ऎतत् ऎव द्विच्छॆदाग्रम् । अयम् ऎव राशिः पञ्चभिः भागम् ह्रियमाणः ऎकाग्रः, सप्तभिः द्व्यग्रः इति ।

उद्दॆशकः 

द्वादशभिः पञ्चाग्रः सप्ताग्रः स च पुनर् मया दृष्टः ।

ऎकत्रिंशद्भक्तः कः असौ राशिः भवॆत् ऎकः ॥ २ ॥

न्यासः  ५ ७१२ ३१ करणम्  "अधिकाग्रभागहारम् छिन्यात् ऊनाग्रभागहारॆण" इति शॆषम् उपरि सप्त, अधः द्वादश । ऎतयॊः परस्परभक्तॆ लब्धम् ऎकम्, पुनर् ऎकम् ऎव, शॆषम् उपरि द्वौ अधः पञ्च । अत्र मतिः । समानि पदानि इति अयम् राशिः कॆन गुणितः रूपद्वयम् अग्रान्तरम् प्रक्षिप्य पञ्चभिः शुद्धम् भागम् दास्यति इति लब्धम् रूपम् चतुष्कम् मतिः । ताम् पूर्वलब्धस्य अधः व्यवस्थापयॆत् । भागलब्धम् च रूपद्वयम् इति ऎवम् लब्धम् अधः व्यवस्थाप्यः। "अधौपरिगुणितम् अन्त्ययुग्" इति अनॆन न्यायॆन लब्धम् १० । ऎतत् ऎव "ऊनाग्रच्छॆदभाजितॆ शॆषम् अधिकाग्रच्छॆदगुणम्" जातम् ३१०, "अधिकाग्रयुतम् द्विच्छॆदाग्रम्" तत् च इदम् ३१७ ।

उद्दॆशकः 

अष्टाभिः पञ्चाग्रः चतुरग्रः कीर्तितः नवभिः ऎव ।

सप्तभिः ऎकाग्रः असौ विगण्यताम् कः भवॆत् राशिः ॥ ३ ॥

न्यासः  ५ ४ १८ ९ ७ करणम् ५ ४८ ९. ऎतयॊः कुट्टाकारॆण [लब्धम्] रूपम् १, राशिः च त्रयॊदश । अत्र छॆदयॊः अभ्यासः भागहारः इति स्थापना १३ १७२ ७ ।

ऎतयॊः पूर्ववत् लब्धः राशिः ८५ । अयम् राशिः अष्टाभिः भागम् ह्रियमाणः पञ्चाग्रः, नवभिः चतुरग्रः, सप्तभिः ऎकाग्रः इति ।

उद्दॆशकः 

द्व्याद्यैः शट्पर्यन्तैः ऎकाग्रः यः अवशिष्यतॆ राशिः ।

सप्तभिः ऎव स शुद्धः वद शीघ्रम् कः भवॆत् गणक ॥ ४ ॥

न्यासः  १ १ १ १ १ ० २ ३ ४ ५ ६७ अत्र इच्छया अधिकाग्रः राशिः परिकल्पनीयः । लब्धम् पूर्ववत् राशिप्रमाणम् ३०१ । ऎवम् साग्रकुट्टाकारः व्याख्यातः ।

[ निरग्रकुट्टाकारः ]

इदानीम् तु ऎव सूत्रॆ निरग्रकुट्टकार्थम् व्याख्यास्यामः । अधिकाग्रभागहारम् छिन्द्यात् अपवर्तयॆत् इति अर्थः । कॆन इति आह  ऊनाग्रभागहारॆण । अग्रम् संख्या, ऊनम् च तदग्रम् च ऊनाग्रम्, ऊनाग्रम् च तत् भागहारः च स ऊनाग्रभागहारः, तॆन ऊनाग्रभागहारॆण, अपवर्तयॆत् इति अर्थः । यथा ऎकविंशतिः सप्तभिः अपवर्त्यतॆ । यॆन भागहारः अपवर्तितः तॆन ऎव भाज्यः अपि अपवर्तनीयः । कथम् इदम् अवगम्यतॆ यॆन ऎव भागहारः अपवर्तितः तॆन ऎव भाज्यः अपि अपवर्तनीयः इति ? सम्प्रदायाविच्छॆदात् । अथवा न्यायः ऎषः, अपवर्तितस्य भागहारस्य अपवर्तितॆन ऎव भाज्यॆन भवितव्यम् इति, यथा सप्तभिः ऎकविंशतिः भागाः अपवर्तिताः त्रिभागाः । अथवा भागहारस्य अपवर्तनम् ब्रुवता आचार्यॆण भाज्यस्य अपि अपवर्तनम् अभिहितम् ऎव । कुतः ? भागहारभाज्ययॊः सहचारित्वात् । यथा स्थलानि परिमृज्यन्ताम् इति उक्तॆ सरकाणि अपि परिमृज्यन्तॆ । अधिकाग्रभागहारम् इति आदिना ग्रन्थॆन ऎतत् प्रतिपादयति  अपवर्तितयॊः भागहारभाज्ययॊः कुट्टाकारः इति । शॆषपरस्परभक्तम्, भागहारभाज्ययॊः परस्परभक्तम् इति । मतिगुणम् इति ऎतत् पूर्वॆण समानम् । अग्रान्तरॆ क्षिप्तम्, अग्रम् संख्या, अग्रस्य अन्तरम् अग्रान्तरम् संख्यान्तरम् इति अर्थः । तत् च इच्छापरिकल्पितम् इदम् संख्यान्तरम् प्रक्षिप्य अपनीय वा अस्य राशॆः शुद्धम् भागम् दास्यति इति । अधौपरिगुणितम् अन्त्ययुक् इति ऎतत् सर्वम् पूर्वॆण समानम् । ऊनाग्रच्छॆदभाजितॆ शॆषम्,

अपवर्तितभागहारशॆषम् इति अर्थः । कुट्टाकारः भवति इति वाक्यशॆषः । उपरि [रासिः] भागहारॆण भक्तः [कार्यः] अधॊराशिः भाज्यराशिना भाज्यः । गणितॆ अपि उक्तम्  

उपरि च भागहारॆण भक्तॆ हि राशिः भवॆत् वा ।

इति ऎवम् आदिना ग्रन्थॆन । शॆषॆ कुट्टाकारभागलब्धॆ भवतः इति । अधिकाग्रच्छॆदगुणम् इति आदि न निरग्रकुट्टाकारॆषु [उपयुज्यतॆ ] ।

तत् यथा उद्दॆशकः 

अष्टौ कॆन अभ्यस्ताः षड्रूपयुताः हृताः त्रयॊदशभिः ।

दद्युः शुद्धम् भागम् कः गुणकारः किम् आप्तम् च ॥ ५ ॥

न्यासः  ८ ६ १३ भाज्यः अष्टौ, भागहारः त्रयॊदश, अग्रान्तरम् षट् । करणम्  भाज्यभागहारराशी रूपॆण अपवर्तितौ८१३"शॆषपरस्परभक्तम्" इति जातम् ११११ ।परस्परभक्तशॆषम्१२ ।

"मतिगुणम् अग्रान्तरॆ क्षिप्तम्" इति अयम् ऎकः राशिः कॆन गुणितः षड्रूपाणि प्रक्षिप्य द्वाभ्याम् शुद्धम् भागम् दास्यति इति मतिः द्वॆ २, मत्या गुणितम् जातम्२२ ।ऎतत् षड्रूपयुतम्

८२ ।

लब्धम् रूपचतुष्कम् ४ । ऎतत् सर्वम् यथाक्रमॆण ११११२४ ।"अधौपरिगुणितम् अन्त्ययुक्" इति जातम् २२१४ ।"ऊनाग्रच्छॆदभाजितॆ शॆषम्" इति ऊनाग्र[=अपवर्तित]भागहारभाज्यभक्तशॆषम् स्थापितम्९६ ।अयम् कुट्टाकारः भागलब्धम् च ।

उद्दॆशकः 

ऎकादश कॆन हताः त्रिकरहिताः तॆ हृताः त्रिविंशत्या ।

दद्युः शुद्धम् अथ अंशम् लब्धम् गुणकम् च मॆ ब्रूहि ॥ ६ ॥

न्यासः  ११२३ [त्रिक]रहितात् लब्धम् पूर्वक्रमॆण ऎव कुट्टाकारः भागलब्धम् च १७८ ।

[ग्रहकुट्टाकारः, मण्डलशॆषविधिः]

अथ इदानीम् ग्रहगणितॆ कुट्टाकारः यॊज्यतॆ  रविभागणाः कॆन गुणिताः मण्डलशॆषम् अपनीय भूदिवसानाम् शुद्धम् भागम् दद्युः इति रविभगणाः भूदिवसाः च न्यस्यन्तॆ

४३२००००१५७७९१७५०० ।ऎतौ ऊनाग्रच्छॆदार्थम् परस्परॆण भाज्यौ । शॆषम् ऊनाग्रच्छॆदः पञ्चसप्ततिशतानि ७५०० । अनॆन अपवर्तितौ५७६२१०३८९। ऎतौ ऊनाग्रच्छॆदभाजितौ शॆषौ । ऎतयॊः भगवतः भास्करस्य कुट्टाकारः साध्यः ।

उद्दॆशकः 

मध्यम् रवॆः मृगपतौ धनुः अंशकार्धॆ 

दृष्टम् मया दिनकरॊदयकालजातम् ।

आगण्यताम् दिनगणः भटशास्त्रसिद्धः

याताः च तस्य भगणाः कलिकालसिद्धाः ॥ ७ ॥

न्यासः  [मध्यमरविः] ४ । २८ । २० । "गणकाराः भागहराः" [गणित, २८] इति मण्डलशॆषानयनम् । तत् यथा  सवितारम् लिप्तीकृत्य जातम् ८९०० । ऎतत् अनॆन २१०३८९ गुणितम् खखषड्घनॆन [२१६००] भक्तम्, लब्धम् मण्डलशॆषम् ८६६८८ । इदम् ऎव मण्डलशॆषम् अग्रान्तरम् परिकल्प्य कुट्टाकारः क्रियतॆ ।

[न्यासः]

५७६ अग्रान्तरम् ८६६८८२१०३८९

लब्धम् कुट्टाकारन्यायॆन ८२०१०६८५६५२२४५२७६८

ऊनाग्रभागहारभाज्यभक्तशॆषौ [१०५३४५२८८ ] [२८८] ऎतत् कलियातम्, अहर्गणः च  १०५३४५ ।

अथवा ऎकरूपापचयॆन कुट्टाकारम् कृत्वा अहर्गणः मण्डलानि च आनीयन्तॆ । तत् यथा  ऎकापचयॆन कुट्टाकारभागलब्धौ ९४६०२२५९

अनॆन मण्डलशॆषॆण च त्रैराशिकम्  यदि ऎकरूपापचयॆन अयम् कुट्टाकारः मण्डलशॆषापचयॆन कियान् इति न्यासः  १, ९४६०२, ८६६८८ । अत्र लब्धम् निरपवर्तितदिवसैः विभक्तशॆषम् अहर्गणः पूर्वलिखितः ऎव । मण्डलानयनॆ ऎकरूपापचयॆन इदम् भागलब्धम्, मण्डलशॆषापचयॆन कियत् इति न्यासः  १, २५९, ८६६८८ । अत्र लब्धम् निरपवर्तितमण्डलैः विभक्तम् शॆषम् मण्डलानि पूर्वलिखितानि ऎव ।

[ मण्डलगन्तव्यविधिः]

अथवा निरपवर्तितभागहारभाज्यराशी [मण्डलगन्तव्यम्] [क्षॆपः च] परिकल्प्य कुट्टाकारः क्रियतॆ । तत् यथा 

गन्तव्यम् रविणा अष्टम् अस्य भवनस्य आहुः कलानाम् शतम्

सञ्चिन्त्य आशु वद अश्मकस्य गणितम् ज्ञातम् त्वया चॆत् यदि ।

यावन्ति अद्य कलॆः गतानि मतिमन् वर्षाणि सर्वाणि मॆ

तु अह्नाम् यः च गणः स च ऎव विशदम् वाच्यम् कलॆः यः गतम् ॥ ८ ॥

न्यासः  गन्तव्यम् रविणा ७१४०

अनॆन मण्डलगन्तव्यॆन "गुणकाराः भागहराः" इति मण्डलगन्तव्यम् १२३७०१ । अनॆन उपचयाग्रॆण पूर्ववत् अहर्गणः कलियातम् च

१०५३४५२८८ ।ऎकरूपॊपचयॆन कुट्टाकारः भागलब्धम् च ११५७८७३१७ ।

पूर्ववत् अनॆन अपि यदि ऎकरूपॊपचयॆन अयम् कुट्टाकारः भागलब्धम् वा मण्डलगन्तव्यॊपचयॆन [१२३७०१] कः कुट्टाकारः भागलब्धम् च इति लब्धम् निरपवर्तितभागहारभाज्यभक्तशॆषम् अहर्गणः भागलब्धम् च ।

अत्र मण्डलगन्तव्यप्रक्षॆपात् ऎकम् अधिकम् भवति । अतः मण्डलम् ऎकम् अपनीयतॆ । ऎवम् मण्डलकुट्टाकारः व्याख्यातः ।

[ राशिकुट्टाकारः ]

इदानीम् तु राशिकुट्टाकारः उच्यतॆ । तत् यथा 

उद्दॆशकः 

वात्या हृताः सभगणाः दिवसस्य भर्त्तुः 

यॆ राशयः दिवसराशिवशॆन लब्धाः ।

शॆषम् त्रिसप्त नवपञ्च च भागलिप्ताः 

वाच्यम् दिवाकरगतम् दिनराशिसाकम् ॥ ९ ॥

न्यासः  ००२१५९ करणम्  "गुणकाराः भागहराः" इति राशिशॆषम् लब्धम् १५४१६८ । अपवर्तितरविभगणाः द्वादशगुणाः रासयः इति स्थापना ६९१२२१०३८९ । राशिशॆषम् १५४१६८ ।

लब्धम् कुट्टाकारक्रमॆण अहर्गणः भागलब्धम् च  १७६५६४ ५८०० भागलब्धम् द्वादशभिः विभज्य लब्धम् भुक्तभगणाः । शॆषम् राशयः । तॆ च ४८३, [४] । अहर्गणाः [१७६५६४ । अथवा] यावत् अभिरुचितम् पृच्छकाय । ऎकरूपापचयॆन अपि कुट्टाकारम् कृत्वा लब्धम् ११३०७८३७१५ ऎताभ्याम् अपि त्रैराशिकॆन अहर्गणः भागलब्धम् च १७६५६४ ५८०० शॆषम् समानम् ।

[ प्रकारान्तरॆण साधनविधिः]

अन्यॆ पुनर् द्वादशानाम् भूदिवसानाम् च ऎकापनयॆन कुट्टाकारम् कृत्वा त्रैराशिकम् कुर्वन्ति । यस्मात् मण्डलशॆषस्य द्वादश गुणकारः । तत्र गताः राशयः मण्डलशॆषम् च लभ्यन्तॆ । तत् यथा 

न्यासः १२२१०३८९

अत्र लब्धम् कुट्टाकारः भागलब्धम् च  १२२७२७७

शॆषम् उक्तत्वात् न उक्तम् ।

[ भागकुट्टाकारः ]

भागशॆषः उद्दॆशकः 

भगणभवनभागाः वातनीताः समस्ताः

दिनकरपरिभुक्ताः लिप्तिकाः पञ्च दृष्टाः ।

वद यदि दिनराशिम् वॆत्सि चॆत् आश्मकीयम्

गतम् अपि दिनभर्तुः मण्डलाद्यम् क्षणॆन ॥ १० ॥

न्यासः ०००५ [लब्धम्] भागशॆषम्  १७५३२ पूर्ववत् लब्धम् अहर्गणः भागलब्धम् च  ६२७१५६१८१२ यदा पुनर् ऎकापनयॆन कुट्टाकारम् कृत्वा त्रैराशिकम् क्रियतॆ तदा अपि स ऎव अहर्गणः, तत् ऎव भागलब्धम् । तत् यथा  ऎकापनयॆन अपि कुट्टाकारभागलब्धॆ स्याताम् । तॆ च ५९८७३५१०११ अनॆन त्रैराशिकॆन पूर्ववत् लब्धः ऎव अहर्गणः भागलब्धम् च । भागलब्धॆ षष्टिशतत्रयभक्तॆ गतमण्डलानि राशिभागाः च जाताः १७१, ८, [१२] ।  अन्यॆ पुनर् त्रिंशतः निरपवर्तितभूदिनानाम् च कुट्टाकारम् कृत्वा त्रैराशिकॆन गतभागान् राशिशॆषम् च आनयन्ति । तत् यथा 

[न्यासः] ३०२१०३८९ [अत्र] कुट्टाकारः भागलब्धम् च ७०१३१ अनॆन त्रैराशिकम् कृत्वा राशिशॆषम् गतभागाः च ८४७४० १२ अनॆन राशिशॆषॆण अहर्गणानयनस्य अभिहित्वात् न उक्तम् ।

[ लिप्ताकुट्टाकारः ]

ऎवम् लिप्ताशॆषम् दृष्ट्वा कुट्टाकारः क्रियतॆ । तत् यथा 

उद्दॆशकः 

मण्डलर्क्षलवलिप्तिका हृता मारुतॆन [विकला प्रदृश्यतॆ] ।

कथ्यताम् दिनगणः विवस्वतः भुक्तमण्डलगृहांशलिप्तिकाः ॥ ११॥

न्यासः ००००१ पूर्ववत् लब्धम् लिप्तिकाशॆषम्  ३५०६  करणम्  खखषड्घनॆन अपवर्तितरविभगणान् संगुणय्य स्थापना १२४४१६०० २१०३८९ अत्र भागहारॆण भाज्यम् विभज्य लब्धम् पृथग्विनष्टम् स्थापयॆत् । शॆषस्य भूदिवसानाम् च कुट्टाकारम् कृत्वा लब्धस्य उपरिराशिम् कुट्टाकारम् अविनष्टस्थापितॆन पृथक् संगुणय्य भागलब्धम् प्रक्षिपॆत् । भागलब्धम् भवति । अनॆन क्रमॆण लब्धम् अहर्गणः भागलब्धम् च । स्थापना १२५३४२ ७४१२२४६ भागलब्धॆ खखषड्घनभक्तॆ गतमण्डलानि राशिभागलिप्ताः च  ३४३ १२७२६  अथवा ऎकापनयॆन कुट्टाकारम् कृत्वा त्रैराशिकम् क्रियतॆ । तत् यथा  ऎकापनयॆन कुट्टाकारः भागलब्धम् च ८१६४७ ४८२८२९१ शॆषम् उक्तत्वात् न उक्तम् ।

अथवा षष्ट्या भूदिवसानाम् च ऎकापनयॆन कुट्टाकारम् कृत्वा भागशॆषम् गतलिप्ताः च लभ्यन्तॆ अनुपातॆन । तत् यथा  ऎकापनयॆन षष्ट्या भूदिवसानाम् च कुट्टाकारः भागलब्धम् च 

१०८७०१३१

ऎवम् लिप्तातत्पराशॆषयॊः अपि यॊज्यम् ।

अथ कश्चित् सूर्यम् उद्दिश्य कियता कालॆन पुनर् ऎवंविधः सूर्यः भविष्यति इति पृच्छति, स ऎवम् वक्तव्यः  निरपवर्तितभूदिनतुल्यैः इति, यस्मात् निरपवर्तितभूदिनैः क्षिप्तः सूर्यः तादृक् ऎव भवति ।

[वारकुट्टाकारः ]

अथ कश्चित् सूर्यदिनॆ सूर्यम् उद्दिश्य पुनर् कियता कालॆन सूर्यदिनॆ सॊमदिनॆ अन्यस्य वा ग्रहवारदिवसॆ सूर्यः ऎवम् भविष्यति इति पृच्छति, तत् यथा  निरपवर्तितभूदिनॆषु सप्तहृतावशिष्टॆषु कुट्टाकारः क्रियतॆ । ग्रहवारः यः निर्दिष्टः तस्मात् य[त् उ]त्तरः ग्रहवारः ततः प्रभृति ऎकॊत्तरया वृद्ध्या अपचयम् परिकल्प्य ऎवम् लब्धम् कुट्टाकारः निरपवर्तितभूदिनानाम् गुणकारः तॆन गुणितॆषु निरपवर्तितभूदिनॆषु निर्दिष्टसूर्यॆण आनीतम् अहर्गणम् प्रक्षिप्य जातदिवसतुल्यः कालः आदॆष्टव्यः । तत् यथा 

उद्दॆशकः 

धन्विन्यंशाः शरकृतिसमाः षट्कृतिः मौरिकाणाम्

मध्यम् भानॊः दश च विकलासंयुतम् वर्णयन्ति ।

रात्रॆः पातुः तनुजदिवसॆ कॆन कालॆन तुल्यः

भावी सूर्यः कथय विशदम् जीवशुक्रज्ञवारॆ ॥ १२ ॥

बुधदिवसॆ अयम् सूर्यमध्यमः ८२५३६१०

अनॆन सूर्यॆण पूर्वकरणॆन लब्धम् अहर्गणः १००० । अस्मिन् अहर्गणॆ बुधवारः । अथ कुट्टाकारानयनम् । निरपवर्तितभूदिवसॆषु सप्तभक्तॆषु शॆषः ४ । जीवदिनार्थम् कुट्टाकारः ऎकापनयॆन २, अनॆन निरपवर्तितभूदिवसाः गुणिताः जाताः ४२०७७८, अस्मिन् पूर्वलब्धा[हर्गणयुतॆ जातः] कालः ४२१७७८ । शुक्रदिनार्थम् कुट्टाकारॆ द्वौ अपनीयतॆ । लब्धम् पूर्ववत् कालः ८४२५५६ । बुधदिनार्थम् कुट्टाकारः ७ । कालः च १४७३७२३ । 

ऎवम् सर्वॆषु ऎव दिवसवारॆषु युक्त्या कालः कुट्टाकारः च यॊज्यः ।

[ ग्रहकुट्टाकारॆ विशॆषः ]

यः उपचयाग्रः कुट्टाकारः स च राशिभागलिप्ताशॆषॆषु अपि यॊज्यः । तत् यथा 

उद्दॆशकः 

यॆ भुक्ताः पवनहृताः सराशिभागाः

दृश्यन्तॆ दिवसकरॆण भॊज्यलिप्ताः ।

तन्मात्राः विषयकृतिः शिवैः समॆताः

वाच्यः अह्नाम् अथ च गणः द्वाकरः च ॥ १३ ॥

न्यासः ००३६

अत्र अपवर्तितभगणान् भागीकृत्य उपचयाग्रॆण सह पूर्ववत् कुट्टाकारलब्धः अहर्गणः भागलब्धः च

६६०२७६५०७७ ।अत्र भागलब्धम् ऎकॆन अधिकम् भवति । ऎकम् अपनीय शॆषॆ षष्टिशतत्रयभक्तॆ रवॆः भगणाः राशयः भागाः च प्रतिवक्तव्याः ।

ऎकरूपॊपचयॆन अपि कुट्टाकारम् कृत्वा गन्तव्याग्रॆण अनॆन १२६२३३ त्रैराशिकम् । अनॆन अपि लब्धम् अहर्गणः भागलब्धम् च पूर्वलिखितम् ऎव । ऎवम् अन्यॆषाम् अपि ग्रहाणाम् कुट्टाकारः यॊज्यः ।

[ वारकुट्टाकारॆ विशॆषः ]

अथ कश्चित् ऎवम् पृच्छति  सूर्याचन्द्रमसौ सूर्यदिनॆ सॊमदिनॆ वा इयत्संख्यौ । ऎतौ पुनर् कियता कालॆन ऎतावत्संख्यौ ऎव भविष्यतः इति । अत्र कुट्टकारक्रमः  कश्चित् राशिः सूर्यस्य निरपवर्तितभूदिवसैः भागम् ह्रियमाणः शून्याग्रः, चन्द्रस्य अपि शून्याग्रः ऎव सः । अस्मिन् उद्दॆशनॆ द्वयॊः अपि सम्बन्धः द्विच्छॆदाग्रसंवर्गः हि नाम सदृशीकरणम् राशॆः । अत्र च सूर्यस्य निरपवर्तितदिवसाः अनॆन ३४४९ अपवर्तिताः लब्धम् ६१ । चन्द्रस्य अपि तॆन ऎव अपवर्तितॆन जाताः ६२५ । ततः सूर्यस्य निरवर्तितदिनानाम् अपवर्तितचन्द्रदिवसाः गुणकारः । तॆ च अत्र लिखिताः ऎव । गुणितॆ जातम् १३१४९३१२५ । चन्द्रस्य अपि सूर्यापवर्तितदिवसैः गुणितॆ जातम् १३१४९३१२५ । अनॆन राशिना पूर्ववत् ग्रहकुट्टाकारः यॊज्यः । तत् यथा 

उद्दॆशकः 

सूर्याचन्द्रमसौ तुलाधरनरॆ दृष्टौ मया तत्त्वतः

भागैः द्वादशभिः द्वयॆन च युतौ सूर्यस्य वारॊदयॆ ।

लिप्ताभिः शशिसून्यसागरयुतौ जीवस्य वारॆ पुनर्

शुक्रस्य अथ शनैश्चरस्य दिवसॆ तुल्यौ कियद्भिः दिनैः ॥

विलिप्ताभिः अधिकः अर्कः विज्ञॆयः भूधरॆन्दुभिः ।

शॊधयॆत् च निशानाथात् विलिप्ताः धृतिसम्मिताः ॥ १४ ॥

न्यासः [सू] [चं] ६ ६ १२ २१ ३९१७ ४२

लब्धम् आभ्याम् अहर्गणः  ७५०० । करणम्  सूर्याचन्द्रमसॊः निरपवर्तितदिवसानाम् ग्रहभक्तशॆषम् १७ । निर्दिष्टवारात् उत्तरतः चतुर्थः जीवः, पञ्चमः शुक्रः, षष्ठः शनैश्चरः इति ऎतैः ऎवम् तु इमॆ ग्रहभक्तशॆषात् यथाक्रमॆण लब्धाः जीवस्य ४, शुक्रस्य ५, शनैश्चरस्य ६ । ऎतॆ ऎव सूर्याचन्द्रमसॊः निरप[व]र्तितदिवसानाम् गुणकाराः । गुणकारगुणितॆषु आनीताहर्गणम् प्रक्षिप्य क्रमॆण [ ५२५९८००००, ६५७४७३१२५, ७८८९६६२५० दिवसाः ]

[ ग्रहयॊयॆन कुट्टाकारः ]

अथ कश्चित् द्वौ ग्रहौ ऎकत्र कृत्वा अहर्गणम् पृच्छति तस्य अयम् उपायः  निर्दिष्टग्रहभगणानाम् समासितानाम् भूदिवसानाम् च अपवर्तनम् कृत्वा कुट्टाकारः करणीयः । तत् यथा 

उद्दॆशकः 

त्रिंशत्पञ्चशशांकाः संयुक्तौ शशिदिवाकरौ दृष्टौ ।

दिनराशिम् ब्रूहि गतम् चक्राणि च यानि भ्क्तानि ॥ १५ ॥

न्यासः  १५३० करणम्  चन्द्रादित्यभगणाः ६२०७३३३६ । [युगकुदिनप्रमाणम् च] १५७७९१७५०० । ऎतौ द्वादशभागॆन अपवर्तितौ जातौ  ५१७२७७८१३१४९३१२५ मण्डलशॆषम्  १२९६६६८३ । अत्र लब्धम् पूर्ववत् अहर्गणः भागलब्धम् च ८७९४२८८६३४५९५६५ ऎकापनयॆन अपि त्रैराशिकम् कृत्वा स ऎव अहर्गणः भागलब्धम् च लभ्यतॆ । तत् यथा 

ऎकरूपापचयॆन अपि कुट्टाकारः भागलब्धम् च ५७६९९६९२२२६९८३५

[ अत्र अपि त्रैराशिकॆन पूर्वॊक्तः ऎव अहर्गणः भागलब्धम् च । ]

ऎवम् अन्यॆषाम् अपि समासप्रश्नॆषु कुट्टाकारः कल्पनीयः, राशिभागलिप्ताशॆषॆषु अपि । ऎवम् ऎव त्रिचतुःसमासॆषु अपि विस्तरॆण व्याख्यॆयम् ।

[ द्व्यग्रकुट्टाकारः ]

अथ कश्चित् दिवसकरमण्डलशॆषपरिसमाप्तिकालॆ जनितम् दिविचरम् उद्दिश्य दिवसकरम् दिविचरभगणान् पृच्छति, तस्य अयम् उपायः  निर्दिष्टदिविचरम् रविभगणान् च अपवर्त्य कुट्टाकारः यॊज्यः । तत् यथा 

उद्दॆशकः 

भानुमण्डलसमाप्तिकालजः मॆदिनीहृदयजः अभिलक्षितः ।

द्वित्रिपञ्चविषयाः गृहादयः ब्रूहि मण्डलगतम् कुजार्कयॊः ॥ १६ ॥

न्यासः  २१५५ करणम्  कुजार्कभगणाः २२९६८२४४३२०००० ऎतौ चतुर्विंशतिभिः अपवर्तितौ ९५७०११८०००० मण्डलशॆषम् इदम् ३७५४२ । लब्धम् रविकुजयॊः यातभगणाः ६८१४२, ३६२२९ ।

ऎकापनयॆन अपि कुट्टाकारम् कृत्वा त्रैराशिकॆन तॆ ऎव भगणाः । तत् यथा ऎकापनयॆन कुट्टाकारः भागलब्धम् च १७४३०१ ९२६७१ ऎवम् ऎव अन्यॆषाम् अपि ग्रहाणाम् ।

अथवा ग्रहम् उद्दिश्य ग्रहम् ऎव अन्यम् [पृच्छति तत्र] अपि भागहारभाज्यपरिकल्पनया कुट्टाकारः कल्पनीयः ।

अथ मण्डलपरिसमाप्तिकालात् अन्यकालसम्भूतग्रहभगणादीन् उद्दिश्यतॆ तथा [ग्रह]भगणात् तत्र रविभगणराशिभागलिप्तान् च पृच्छति, तस्य अपि कुट्टाकारानयनस्य अयम् उपायः  रविभगणान् खखषड्घनॆन संगुणय्य निर्दिष्टभगणैः सह अपवर्त्य कुट्टाकारविधिः इति । तत् यथा 

उद्दॆशकः 

स्वॊच्चांशकार्धम् अधिरूढमहॆन्द्रसूरी

तॆजॊवितानविमलीकृतदिंमुखॆन ।

सूर्यॆण यातम् इह पृच्छति च आश्मकीयॆ

वाच्यम् किम् आशु वद तस्य विशालबुद्धॆ ॥ १७ ॥

न्यासः  ०३४३० करणम्  [गुरुभगणाः] खखषड्घनगुणितसूर्यभगणैः सह अपवर्तितॆ द्विनवत्युत्तरशतभागॆन जातौ १८९७४८६०००००० शॆषम् अपचयः १२७५७५००० । लब्धम् सूर्ययात[लिप्ताः गुरु]भगणाः च ७८९७५०००, [३०८] । लिप्ताः खखषड्घनभक्ताः मण्डलानि राशयः भागाः लिप्ताः च सूर्यस्य ३६५६३०० ऎकापनयन अपि कुट्टाकारम् कृत्वा त्रैराशिकॆन ऎतत् ऎव लभ्यतॆ । तत् यथा  ऎकापनयॆन अपि कुट्टाकारः भागलब्धम् च १३५०१४२३३५२७ ऎवम् राश्यादिशॆषॆषु अपि यॊज्यम् ।

[वॆलाकुट्टाकारः ]

अथ वॆलाकुट्टाकारः । कश्चित् ग्रहम् उदयकालात् अन्यकालजनितम् प्रदर्श्य दिवसगणम् पृच्छति, तस्य अयम् आनयनॊपायः  इष्टकालच्छॆदगुणितान् निरपवर्तितभूदिवसान् कृत्वा पूर्ववत् कुट्टाकारम् निष्पाद्य इष्टकालच्छॆदभक्तः अहर्गणः । तत् यथा 

उद्दॆशकः 

रात्र्यर्धकालजनितः दिवसस्य भर्तुः 

इष्टः मृगार्धसहितः अष्टचतुष्कलाग्रः ।

लिप्तात्रिभागशकलद्वितयॆन युक्तः 

शीघ्रम् दिनादि भगणान् च वद आश्मकीयम् ॥ १८ ॥

न्यासः  ९ १५३२४० करणम्  अहर्गणः चतुर्भागॆन अनॆन इति चत्वारि निरपवर्तितदिनानाम् गुणकारः इति चतुर्भागॆन रविभगणान् अपवर्त्य स्थापना

१४४२१०३८९ । मण्डलशॆषम् १६६८७६ । लब्धम् पूर्ववत् कुट्टाकारः [७००३] । अस्य चतुर्थांशात् अहर्गणः [१७५०] ।

ऎवम् आस्तमयिकः उद्दॆशकः 

अस्ताद्रॆः तुंगशृंगव्यवहितवपुषः तिग्मरश्मॆः गतानाम्

चक्राद्यंकावलीनाम् क्रमगणितचयः विस्मृतः सर्वः ऎव ।

दृष्टः लिप्ताग्रशॆषः गुणवियदुडुपाः स्पष्टः ऎव अंकराशिः

शीघ्रम् वाच्यः गणः अह्नाम् कलियुगगणितः मण्डलादिः च भास्वान् ॥ १९ ॥

न्यासः  २८८ [ २१६००] शॆषम् १०३२१०३८९

अनॆन अपचयॆन पूर्ववत् अहर्गणस्थापना  ९९२७५

भागलब्धम् रवॆः यातमण्डलराशिभागलिप्ताः २७१९१६१३ ऎकापनयॆन कुट्टाकारः भागलब्धम् च १६३२९४ ४८२८२९१ । अनॆन अपि त्रैराशिकॆन पूर्वानीतः अहर्गणः भागलब्धम् च मण्डलादि [पूर्वॊक्तम् ऎव] ।

माध्याह्निकः उद्दॆशकः 

[यत् शॆषम् मण्डलानाम् ख] नवनगचतुर्भूतशीतांशुतुल्यम्

मध्यम् यातस्य भानॊः पटुतरनिकरद्यॊतिताशामुखस्य ।

दृष्टम् वाच्यः गणः अह्नाम् गतभगण[चयः यः अपि कालॆन] सिद्धः

कुट्टाकारॊपदॆशः विधिवत् अधिगतः यॆन तॆन आश्मकीयः ॥ २० ॥

न्यासः [ १४४२१०३८९] मण्डलशॆषम् १५४७९० ।अनॆन मण्डलशॆषॆण पूर्वकरणॆन लब्धम् [कुट्टाकारः] भागलब्धम् च ३९९७२, कुट्टाकारस्य चतुर्थः अंशः अहर्गणः ९९९ । ऎकापनयॆन कुट्टाकारः भागलब्धम् च १६८०१९११५ । 

अनॆन त्रैराशिकॆन पूर्ववत् अहर्गणानयनम् ।

तथा च याममुहूर्तनाडीविनाडिकाकालॆषु अपि यथायॊगम् युक्त्या कुट्टाकारः विकल्पनीयः । तत् यथा 

उद्दॆशकः 

नाडीभिः कियतीभिः अपि उपचितात् अह्नाम् गणात् आगतः 

तिग्मांशॊः भगणादिकः अत्र विलयम् नीतः अधुना वात्यया ।

दृष्टः सप्ततिः ऎकरूपसहिता शॆषः कलानाम् मया

वक्तव्यः द्युगणः गतः च सवितुः स्पष्टाः च याः नाडिकाः ॥ २१ ॥

लिप्ताशॆषः ७१ । करणम्  अपवर्तितरविभगणान् षष्ट्या सह अपवर्तयॆत् । षष्ट्या द्वादशभागॆन पञ्च । अपवर्तितरविभगणानाम् द्वादशभागॆन अष्टचत्वारिंशत् । पञ्चभिः भूदिनानि [शॆषम् च] संगुणय्य स्थापना ४८ [ २१६००] शॆषम् ७१ [ ५] १०५१९४५ [ऎषु पञ्चभिः अपवर्तनम् कृत्वा स्थापना  २०७३६० शॆ ७१] २१०३८९

पूर्ववत् कुट्टाकारम् कृत्वा लब्धः अहर्गणः  ७२०, नाड्यः ३ ।

रवियातभगणादयः च  ११११९४१ ऎकापनयनॆन अपि कुट्टाकारः भागलब्धम् च ५९८७३५९०११ पूर्ववत् त्रैराशिकॆन अहर्गणः भागलब्धम् च ।

[अनपवर्तितशॆषॆण कुट्टाकारः ]

अथ पुनर् अ[न]पवर्तितम् ऎव शॆषम् उद्दिश्य अहर्गणम् यातम् च पृच्छति, तस्य अपि अयम् आनयनॊपायः । भागहारभाज्याग्राणाम् ऎकॆन अपवर्तनच्छॆदॆन अपवर्तनम् कृत्वा पूर्ववत् कुट्टाकारः क्रियतॆ । अथ पुनर् ऎतानि भागहारभाज्याग्राणि छॆदॆन ऎकॆन अपवर्तनम् न प्रयच्छन्ति यथा तथा असौ उद्दॆशकः, तादृशः च ऎकः राशिः ऎव न अस्ति अतः न आनीयतॆ ।

उद्दॆशकः 

शरयमवसवः शताभिनिघ्ना दिनकरमण्डलशॆषराशिसंख्या ।

अविकृतभगणक्षमादिनॊत्था कथय तया दिनराशिमण्डलानि ॥ २२ ॥

न्यासः  ४३२०००० शॆषम्  ८२५००१५७७९१७५०० ऎतॆ राशयः च खाकाशशरमुनिभिः अपवर्त्य कुट्टाकारॆण अहर्गणः रवियातमण्डलानि च  १९९०६६ ५४५ ।

[द्व्यग्रकुट्टाकारविशॆषः ]

अथ कश्चित् [द्वि]च्छॆदाग्रन्यायॆन ऎकम् अहर्गणम् ग्रहयॊः भिन्नाग्रभगणशॆषाभ्याम् पृच्छति, तस्य अपि "अधिकाग्रभागहारम् छिन्द्य" आदित्यनॆन द्विच्छॆदाग्रानयनम् ।

उद्दॆशकः 

अर्कांगारकवासरैः अपहृतः कश्चित् दिनानाम् गणः

लब्धौ [तत्र न वॆद्मि] न ऎव च तयॊः शॆषौ मया लक्षितौ ।

यौ तौ मण्डलताडितौ अथ पुनर् भक्तौ दिनैः स्वैः पृथक्

तत्र आप्तम् मरुता अपनीत[म् अधुना च अग्रॆ तयॊः ति]ष्ठतः ॥

अर्कस्य अश्विनगाब्धिनागशिखिनः शॆषः कुजस्य उच्यतॆ

भूताश्व्यंगनभः अष्टशीतकिरणक्षॊणीषरक्ष्माभृतः ।

ऎताभ्याम् पृथक् [अर्कभूमिसुतयॊः अह्नाम्] गणौ तद्गतौ

द्व्यग्रम् च अपि तयॊः विगण्य गणकाः व्यावर्णयध्वम् क्रमात् ॥ २३ ॥

न्यासः  अर्कस्य ३८४७२ भौमस्य ७७१८०६२५ ऎताभ्याम् मण्डलशॆषाभ्याम् पृथक् पृथक् पूर्वॆण क्रमॆण कुट्टाकारम् कृत्वा अहर्गणौ लब्धौ, अर्कस्य ८८३३, भौमस्य ६४०००० । ऎताभ्याम् अग्राभ्याम् "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारॆण" इति अनॆन कुट्टाकारः क्रियतॆ ।

तथा च न्यासः [अर्कस्य] ८८३३ [भौमस्य] ६४०००० २१०३८९ १३१४९३१२५ अग्रान्तरम्  ६३११६७ ऎतयॊः छॆदाग्रान्तराणाम् अनॆन २१०३८९ अपवर्तनम् कृत्वा स्थापना १ ३६२५

अत्र ऊनाग्रच्छॆदः ऎकः तॆन सर्वः ऎव राशिः शुद्ध्यतॆ इति अतः राशिविपर्ययात् व्याख्यायतॆ । तथा च न्यासः १ । अत्र रूपम् विद्यतॆ । अयम् ऎकः राशिः कॆन गुणितः अग्रान्तरम् त्रीणि अपनीय [शरयमर्तुभिः भागॆ हृतॆ] शुद्धम् भागम् प्रयच्छति इति लब्धः राशिः त्रीणि रूपाणि । अस्य विपर्यस्तराशिक्रमॆण ऎव शरयमर्तुभिः भागॆ हृतॆ शॆषः कुट्टाकारः त्रिकः तॆन अधिकाग्रच्छॆदॆन गुणितः जातः १८७५ । अनॆन अधिकाग्रच्छॆदः अयम् १३१४९३१२५ गुणितः अधिकाग्रयुतः द्विच्छॆदाग्रम् संजातम् शराद्रिगुणनवाब्धिद्विवियद्भूतशररसाब्धिनॆत्राणि, अंकैः अपि न्यासः २४६५५०२४९३७५ । अयम् राशिः द्विच्छॆदाग्रः । ऎवम् अन्यॆन छॆदाग्रॆण सह कुट्टाकारॆ क्रियमाणॆ द्विच्छॆदाग्रसंवर्गः हारताम् प्रतिपद्यतॆ । द्विच्छॆदाग्रराशिभ्याम् सह कुट्टाकारॆण त्रिच्छॆदाग्रानयनम् । ऎवम् चतुरग्राणि अपि स्वधिया अभ्यूह्यानि इति ।

[ कक्ष्याविधौ द्व्यग्रकुट्टाकारः ]

अथ कक्ष्याहर्गणॆषु उद्दॆशकः 

कक्ष्याप्रक्रमसंख्यया गणितयॊः शॆषौ रवीन्द्वः रवॆः

द्व्यष्टॆषु अद्ब्धिकृताब्धिखॆषुभुवनच्छिद्रॆन्दवः कीर्तिताः ।

नन्दांगाश्विनिशाकराः कृतिहताः सम्यक् सहस्रस्य तॆ

द्व्यग्रम् वाच्यम् अहर्गणः कलिभुजः याताः च तत्पर्ययाः ॥ २४ ॥

न्यासः  १९३५०४४४५८२रवॆः ४९७९७८१३९६६१२६९०००००० चन्द्रस्य३७२४९२०००० अग्रान्तरम् १८०८१४४४५८२ । ऎतॆ भागहाराग्रराश्यॊः अपवर्तनम् प्रयच्छन्ति । वॆदनवर्तुशून्ययमैः [ २०६९४ ] अपवर्त्य स्थापना । २०६९४ ऎतैः अपवर्तिता रविकक्ष्या २४०६३८९ । चन्द्रस्य अपि १८०००० । अग्रान्तरम् अपवर्तितम् ८७३७५३ । ऎतैः अपवर्तितभागहाराग्रान्तरराशिभिः कुट्टाकारन्यायॆन लब्धः राशिः गुणयमाद्रिपुष्करर्तुशरांगाद्रीन्दुयमाः, अंकैः अपि २१७६५६३७२३ । "ऊनाग्रच्छॆदभाजितॆ शॆषम्" इति । अयम् राशिः ऊनाग्रच्छॆदॆन अनॆन १८०००० भक्तः शॆषम् [३७२७] । [अनॆन] शॆषॆण अधिकाग्रच्छॆदः [अयम् २४०६३८९] गुणितः जातः सप्तॊदधियमांगाष्टनन्दाष्टशरनन्दवसवः, अंकैः अपि ८९५८९८६२४७ । अयम् राशिः अपवर्तनॆन अनॆन [२०६९४ गुणितः जा]तः

वस्विन्दूदधिभूतरन्ध्राग्नीन्दुरसयमाद्रिनन्दाग्निशरधृतयः, अंकैः अपि १८५३९७२६१३९५४१८ । अयम् ऎव अधिकाग्रॆण युतः [वियदभ्रखखा]ब्धिवसुरुद्ररसांगॆन्दूदधिशरधृतयः, अंकैः अपि १८५४१६६११८४०००० । अयम् राशिः द्विच्छॆदाग्रः । अस्य भूदिनैः सह अपवर्तित[खकक्ष्यया भागॆ कृतॆ ] अहर्गणः लभ्यतॆ । कथम् पुनर् खकक्ष्यायाः भूदिनस्य च अपवर्तनम् ? उच्यतॆ  कक्ष्याभिः ग्रहानयनॆ खकक्ष्यायाः अहर्गणः गुणकारः, स्वकक्ष्याभूदिनसंवर्गः भागहारः इति खकक्ष्यायाः भूदिनानाम् च अपवर्तनॆन वियदम्बरतिथिनन्दैः लब्धम् खकक्ष्यातः कृतॊदधिनगशररामाग्निरसगुणॆन्दवः, अंकैः अपि १३६३३५७४४ । भूदिनॆभ्यः अपि शराब्धियमाद्रीन्दवः, अंकैः अपि १७२४५ । अनॆन भूदिनलब्धॆन यथा स्वग्रहकक्ष्या गुणिता, अहर्गणापवर्तितखकक्ष्याभ्यासस्य भागहाराः भवन्ति । पूर्वलिखितद्विच्छॆदाग्रराशिः अपवर्तितखकक्ष्याहर्गणसंवर्गः इति अतः स्वभागहाराभ्याम् विभज्य लब्धम् सूर्याचन्द्रमसॊः यातभगणाः । रवॆः ३७२३, चन्द्रस्य ४९७७७ । यौ अत्र शॆषौ तयॊः मण्डलशॆषौ यथाक्रमॆण निर्दिष्टौ भवतः । अस्मिन् ऎव द्विच्छॆदाग्रॆ अपवर्तितखकक्ष्यया विभक्तॆ लब्धम् अहर्गणः रसविश्वाः शतवर्गगुणिताः, अंकैः अपि १३६०००० ।

उद्दॆशकः 

कक्ष्याख्यातविधिक्रमॆण गणितौ शॆषौ कलानाम् क्रमात्

द्व्यंगॆषु अब्धिशिलीमुखत्रिकनभॊभूतॆन्द्रियाष्ट्यः रवॆः ।

चन्द्रस्य आयुतताडिताः कृतरसाः वस्वग्नयः सूक्ष्मकाः 

वाच्याः तद्भगणादयः दिनगणः द्व्यग्रम् च ताभ्याम् तयॊः ॥ २५ ॥

न्यासः  रवॆः १६५५०३५४५६२ ४९७९७८१३९६६ चन्द्रस्य अपि २४३८६४०००० ३७२४९२००००

अत्र कुट्टाकारस्य युगपत् सम्पादयितुम् अशक्यत्वात् पृथक् पृथक् कुट्टाकारॆण सूर्याचन्द्रमसॊः मण्डलशॆषौ अपवर्तनीयौ स्वच्छॆदाभ्याम् "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारॆण" इति अनॆन क्रमॆण अहर्गणानयनम् । तत् यथा  रवॆः शॆषभागहारौ अपवर्तितौ षड्भिः २७५८३९२४२७८२९९६३५६६१

ऎताभ्याम् अपवर्तितशॆषभागहाराभ्याम् कुट्टाकारः चिन्त्यतॆ । तत्र भागशॆषम् षष्ट्या संगुणय्य अनॆन ऎव अपवर्तितभागहारॆण भागम् हृत्वा रवॆः लिप्ताः लभ्यन्तॆ, लिप्ताशॆषः च अतिरिच्यतॆ । स लिखितः ऎव । तत्र इदम् चिन्त्यतॆ  सष्टिः कॆन गुणिता लिप्ताशॆषम् अपनीय अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति । ऎवम् भागशॆषः उपलभ्यतॆ । स च ७३७७३१८०४१ । अथवा षष्टिः कॆन गुणिता ऎकम् अपनीय षड्भिः अपवर्तितभागहारॆण हृता शुद्धम् भागम् दास्यति इति ऎकापनयनकुट्टाकारम् अपि आनीय तॆन भागशॆषानयनम् लिप्तानयनम् च । ऎकरूपापनयनॆन कुट्टाकारः भागलब्धम् च ८१६१३०८४००

[५९]

अनॆन कुट्टाकारॆण पूर्वलिखितः भागशॆषः लभ्यतॆ । ततः पुनर् अपि तॆन भागशॆषॆण त्रिंशता च कुट्टाकारः क्रियतॆ । त्रिंशत् कॆन गुणिता भागशॆषम् अप[नीय] षड्भिः अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति राशिशॆषः उपलभ्यतॆ । स च ५५०२३४६५२० । ऎवम् पुनर् अपि अनॆन कुट्टाकारः क्रियतॆ । द्वादश कॆन गुणिता राशिशॆषम् अपनीय तस्य ऎव षड्भिः अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति मण्डलशॆषः उपलभ्यतॆ । स च ३२२५०७४०९७ । अयम् अपवर्तितभागहारभाज्याभ्याम् उत्पन्नः इति षड्भिः गुणितः प्रागुपन्यस्तॊद्दॆशकमण्डलशॆषः भवति इति सः पूर्वलिखितः ऎव । ऎकापनयनॆन [कुट्टाकारः] भागलब्धम् च ७६०७९९९३५६ । भागलब्धैः पृतह्क् पृथक् राशिभागलिप्तानयनम् । [ ११]

ऎवम् चन्द्रस्य अपि शॆषभागहारराशी क्रमॆण आयुतगुणिताष्टॊत्तरशतॆन अपवर्त्य स्थापना २२५८ ३४४९

आभ्याम् क्रमॆण कुट्टाकारः पूर्ववत् । षष्ट्या च भागशॆषः लभ्यतॆ, स च २२२२ । ऎकापनयनॆन अपि कुट्टाकारः भागलब्धम् च १७८२३१ ।पुनर् अपि भागशॆषापनयनॆन त्रिंशता च कुट्टाकारम् कृत्वा राशिशॆषः लभ्यतॆ । स च ३०४ । ऎकापनयनॆन अपि कुट्टाकारः भागलब्धम् च ११५१ । ततः पुनर् अपि राशिशॆषापनयनॆन द्वादशानाम् च कुट्टाकारम् कृत्वा मण्डलशॆषः लभ्यतॆ, स च ११७५ । ऎकापनयनॆन अपि कुट्टाकारः भागलब्धम् च २०१२७ ।

अत्र च आनीतः मण्डलशॆषः ऎव अष्टॊत्तरशतॆन आयुतगुणितॆन अभ्यस्तः प्रागुपन्यस्तॊद्दॆशकमण्डलशॆषः भवति "चन्द्रस्य आयुतताडिताः कृतरसाः" इति आदि पूर्वलिखिता ऎव ।  ऎवम् मण्डलशॆषौ सूर्याचन्द्रमसॊः अवगम्य "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारॆण" इति अनॆन पूर्वक्रमॆण गतमण्डलानि अहर्गणः च पूर्वलिखितः ऎव । अथवा यः असौ पूर्वमण्डलशॆषराशिना अनॆन क्रमॆण आनीतः खखषड्घनॆन गुणितः स्वकक्ष्याभागहारॆण अपहृतः यथाविहितलिप्ताशॆषराशिः इति अतः इदम् विचिन्त्य[तॆ  खख]षड्घनः कॆन गुणितः सूर्याचन्द्रमसॊः पृथक् पृथक् अभिहितलिप्ताशॆषम् अपनीय

स्वकक्ष्यॊक्तभागहाराभ्याम् अपहृतम् पृथक् शुद्धम् भागम् प्रयच्छति इति ऎवम् कुट्टाकारॆ कृतॆ सूर्याचन्द्रमसॊः पृथक् पृथक् गतमण्डलानि तयॊः मण्डलशॆषराशी च लभ्यॆतॆ । तानि मण्डलानि मण्डलशॆषराशी च पूर्वलिखितः ऎव ।

[ कक्ष्याविधौ त्र्यग्रकुट्टाकारः ]

ऎवम् त्र्यग्रकुट्टाकारः अपि विगण्यतॆ । तत् यथा 

उद्दॆशकः 

तिग्मांशॊः गगनाग्निदस्रगगनम् सूर्याब्धिरामॆषवः

रामांगाब्धिवियत्कृशानुदहनाः शॆषः स्मृतः माण्डलः ।

इन्दॊः अम्बरशून्यवॆदगगनम् रामाब्धिदस्रद्विकम्

रन्ध्राद्र्यम्बरसप्तभूतयमलाः शॆषः गुरॊः उच्यतॆ ॥

व्यॊमाभ्राब्धिशरार्थसप्तगिरयः वस्वंकषट्षट्कका

भूतॆन्द्वंकरसाग्निदृष्टनिचयः कक्ष्याभिधानात् अयम् ।

त्र्यग्राहर्गणमण्डलानि विधिव[त् वाच्यानि] तत्संख्यया

कुट्टाकारविचित्रता परिगता यदि अश्मकॊक्तक्रमात् ॥ २६ ॥

न्यासः 

रवॆः ३३०४६३५३४१२०२३० ४७२३३२२६५४६७५१० 

चन्द्रस्य २५७०७९२२४३०४०० ३५३३०८६६२०००००

गुरॊः ३६९१५६६९८७७५५४०० ५६०२२५४०७११७५०००

अत्र ऎतयॊः [रविचन्द्रा]ग्रयॊः अन्तरम् व्यॊमाग्निवसुनवाष्टषड्रुद्ररसशरभूताद्रि-कृताम्बराग्नयः, अंकैः अपि ३०४७५५६११६८९८३० ।

[भागहाराग्रा]णाम् सून्यांकशरयमवसुदस्ररसनवॆन्दुभिः अपवर्तनम्, अंकैः अपि १९६२८२५९० । अनॆन अपवर्तितॆ रवॆः नवाष्टाग्निरसाम्बराब्धियमाः, अंकैः अपि २४०६३८९; चन्द्रस्य शून्याम्बराकाशवियदष्टॆन्दवः, अंकैः अपि १८००००; अग्रान्तरम् अपवर्तितम् १५५२६३७ ।

ऎताभ्याम् अपवर्तितभागहाराभ्याम् अपवर्तिताग्रान्तरॆण कुट्टाकारः लब्धः स्वरांगाद्रिरामांगरसाद्रिरसवसुलॊकाः, अंकैः अपि ३८६७६६३७६७ । अयम् ऊनाग्रच्छॆदॆन अपवर्तितॆन अपहृतः सन् अविशिष्टः स्वरांगाद्रिदहनाः ३७६७ । अयम् अपवर्तिताधिकाग्रभागहारॆण गुणितः भूयः च अपवर्तितॆन शून्यांकशरयमवसुदस्ररसनवॆन्दुभिः [गुणितः] अधिकाग्रॆण युतः जातः द्विच्छॆदाग्रराशिः

सून्याम्बरॊदधिवियदग्नियमाकाशशरशराद्रिशून्यॆन्दुरसाम्बरांगांकाद्रि-स्वरॆन्दवः, अंकैः अपि १७७९६०६१०७५५०२३०४०० । अस्य द्विच्छॆदाग्रस्य तृतीयच्छॆदाग्रॆण सह कुट्टाकारॆ क्रियमाणॆ निवृत्तकर्मच्छॆदयॊः अभ्यासः छॆदः भवति यमरसॆन्दुमुनिशराश्विरसाद्रिजलधिशर-मुनिरूपदहनाद्रिशून्याष्टाम्बरनवमुनिवस्वंगाष्टयः, अंकैः अपि न्यासः  १६६८७९०८०७३१७५४७६२५७१६२०००००० । अत्र उपन्यस्ततृतीयच्छॆदॆन अधिकाग्रच्छॆदस्य भागः तत्र शून्यम् अवशिष्यतॆ । तत् ऎव शून्यम् कुट्टाकारः इति पूर्वनिष्पन्नम् द्विच्छॆदाग्रम् त्र्यग्रम् तत् पूर्वलिखितम् ऎवम् । तस्य खकक्ष्यॊत्पन्नयॊजनानाम् ऎव अंकराशिनः अनॆन आकाशॊदधिवसुरूपशिखिशरकृतम् अनुलॊकांकरविभागः १२९३१४४५३१८४० । लब्धम् अहर्गणः शरवसुरूपांगाद्रिविश्वाः १३७६१८५ ।

ऎवम् अयम् कुट्टाकारविधिः विचिन्त्यमानः महॊदधिजलतरणवदप्रमॆयः इति विरम्यतॆ ।

[ ऎकापचयॆन कुट्टाकारलब्धी ]

ऎतॆ ग्रहकुट्टाकाराः श्लॊकैः अपि उपनिबध्यन्तॆ । तत् यथा 

भास्करादिशरीराय भास्करायुततॆजसॆ ।

जगदुत्पत्तिसंहारहॆतवॆ शम्भवॆ नमः ॥ १ ॥

कुट्टाकारः च लाभः च द्वन्द्वतः भगणात् इतः ।

निर्दिश्यतॆ क्रमात् अत्र तद्विदाम् प्रीतयॆ मया ॥ २ ॥

[ सूर्यस्य ]

तिग्मांशॊः [नयन]नभॊरसाब्धिनन्दाः [९४६०२ ]

तत् लब्धम् भगणभवम् नवॆषुदस्राः [२५९] ।

राशीनाम् वसुनगखम् गुणाः शिवाः च [११३०७८]

लाभः स्यात् शरशशिनः अद्रिरामसंख्या [३७१५] ॥ ३ ॥

रामाद्रिनागनवभूत[५९८७३]समांशकस्य

लब्धः [अत्र रुद्र]वियदंकशराः [५९०११] प्रदिष्टाः ।

लप्तः अद्रिवॆदरसरूपमतंगगजः [८१६४७] अधः

रूपांकदस्रभुजगद्विकनागवॆदाः [४८२८२९१] ॥ ४ ॥

ऎकाद्रिरन्ध्रखरसाः तु [६०९७१] विलि[प्तिकानाम्

सञ्जातम् ऎव] गुणकारम् अतः अत्र लब्धम् ।

शीतांशुरन्ध्रकृतबाणगुणाग्निषट्क-

चन्द्राश्वि[२१६३३५४९१]संख्यम् अनु तस्य च तत्पराणाम् ॥ ५ ॥

दस्रनाग[मुनिवॆदपयॊधिरूप १४४७८२ म्] अत्र गुणकारम् उशन्ति ।

रूपनन्दजलधीन्दुनगांगद्विद्विनागवियदग्नि[३०८२२६७१४९१]म् अधः च ॥ ६ ॥

षड्विंशतिः जलधिरन्ध्र[९४२६]समानसंख्यः

ज्ञॆयः [प्रतत्परभवः] गुणकारराशिः ।

शीतांशुरन्ध्रमनुनन्दशशांकदस्र-

व्यॊमाब्धिशून्यरवयः [१२०४०२१९१४९१] खलु तत्र लब्धम् ॥ ७ ॥

ऎकः ऎव स्मृतः छॆदः चक्रादीनाम् विवस्वतः ।

प्रतत्परान्तमा[नानाम्] खाम्बरॆषुमहीभृतः [७५००] ॥ ८ ॥

[ चन्द्रस्य ]

शीतरश्मि[भगणैः] प्रकुट्टितॆ

सप्तरामवसुषट्स्वराद्रयः [७७६८३७] ।

लब्धराशिनिचयः व्यवस्थितः

पुष्कराग्निकृतनागबाहवः [२८४३३] ॥ ९ ॥

राशितः अपि रसदस्रतापसा

व्यॊमवॆदगगनाश्विनः [२०४०७२६] गुणः ।

तत्र लब्धनिचयः विकथ्यतॆ 

रुद्रवह्निरसनन्दपन्नगाः [८९६३११] ॥ १० ॥

चन्द्रसूर्यगगनाब्धिपावकाः [३४०१२१ ]

भागशॆषगुणकारसंज्ञितः ।

भूतबाणशरचन्द्रकुञ्जराः

सागराम्बुनिवहाः च [४४८१५५५] लब्धकः ॥ ११ ॥

नागबाणशिवदस्र[२११५८]सम्मितः

लिप्तिकासु विगणय्य कीर्त्यतॆ ।

नन्दरुद्रगिरयः अश्विभूधराः

[अष्टयः अत्र १६७२७११९] गणितॆन लभ्यतॆ ॥ १२ ॥

वॆदविश्वरसरूप [१६१३४] सम्मितम्

शीतरश्मिविकलासमुद्भवः ।

बाणरूपगुणशक्रपावकाः

भूतषट्कमुनयः [७६५३१४३१५] परः स्मृतः ॥ १३ ॥

तत्परॆषु धृतिभूतषट्ककाः [६५१८]

निर्दिशन्ति गुणकारसंख्यया ।

ऋक्षनन्दशशिरामकुञ्जर-

व्यॊमबाणशरधार्तवः [१८५५०८३१९२७] अपरः ॥ १४ ॥

तत्परॆषु परतः च कीर्तिताः

रामनन्दयमदस्रकाः [२२९३] क्रमात् ।

रुद्रबाणगिरिदस्रसागराः

भूतषट्कतिथिनन्दविक्रमाः [३९१५६५४२७५११] ॥ १५ ॥

अंशात् आरभ्य शीतांशॊः पञ्च [५] पञ्च [५] गुणः परः ।

छॆदः कल्प्यः क्रमात् अत्र दन्तशैल[७३२]समन्वितः ॥ १६ ॥

[ चन्द्रॊच्चस्य ]

नन्दर्षिनागागरसाः रसाष्ट-

प्रालॆयरश्म्यद्रि[७१८६६७८७९]समानसंख्यः ।

इन्दूच्च[कस्य गुणकः अत्र] भचक्रदृष्टः 

चन्द्रांगलॊकयमदस्रयमाः च [२२२३६१] लब्धः ॥ १७ ॥

अब्धीशु[दस्राश्विनभः यमॆन्दु-]

षट्क[६१२०२२५४]प्रमाणः गुणकारराशिः ।

लब्धः अद्रिलॊकाश्विनगाश्विदस्राः [२२७२३७]

राशिक्रमात् अत्र विगण्यमाणः ॥ १८ ॥

वॆदाष्टबाणांगरसाः नवाष्ट-

प्रालॆयरश्मि[१८९६६५८४]क्रमसंख्यया उक्तः ।

अंशक्रमात् अग्नियमांगसूर्य-

शीतांशुदस्राः [२११२६२३] गणितॆन लब्धः ॥ १९ ॥

लिप्तागतः दन्तनभॊद्रिनाग-

व्यॊमॆषवः [५०८७०३२] अस्मिन् गुणकारराशिः ।

नक्षत्रषट्पर्वतनन्दरन्ध्र-

लॊकाग्नि[३३९९७६२७]संख्यः कथितः अत्र लब्धः ॥ २० ॥

विलिप्तिकायाः शशिसप्तदन्त-

क्षॊणीधराः [७३२७१] स्युः गुणकारसंख्या ।

लॊकांगदिंनागकृशानुनन्दाः

दस्रान्विताः [२९३८१०६३] लाभम् उशन्ति तज्ञाः ॥ २१ ॥

अष्टांगधात्रीधररामनन्द[९३७६८]-

संख्यासमानः अत्र हि तत्परॊत्थम् ।

तन्मात्रनन्दाग्निशशांकरूप-

व्यॊमांगबाणाश्वियमाः च [२२५६०११३९५] लब्धः ॥ २२ ॥

प्रतत्प[रायाः] क्रमशः अब्धिशैल-

वस्वंकषट्कॆन्दु[१६९८७४]समानसंख्यः ।

लब्धः च रुद्राष्टशशांकलॊक-

शून्यॆषुदस्राश्विशराब्धिदस्राः [२४५२२५०३१८११] ॥ २३ ॥

राश्यादीनाम् क्रमात् [अत्र छॆदाः कल्प्याः यथॊक्तवत्] ।

द्वादशः [१२] च ततः पञ्च [५] [पञ्च ५ यावत् तु] तत्परम् ॥ २४ ॥

[ चन्द्रपातस्य ]

सप्ताद्रिचन्द्रांगनभॊंगबाण-

दस्रांग[६२५६०६१७७]संख्यम् गुणकारम् आहुः ।

[लाभः च पातस्य] गणॆषु सम्यक्

दस्राश्वशून्याश्विनवप्रमाणः [९२०७२] ॥ २५ ॥

शीतांशुशून्याब्धिकृशानुषट्क-

पञ्चॆषुरुद्रम् [११५५६३४०१] प्रवदन्ति तज्ञाः ।

त्रिच्छिद्रशून्याब्धिनभः यमाः च [२०४०९३]

लाभः [अत्र] राशिक्रमसम्प्रभूतः ॥ २६ ॥

शीतांशुसप्तांगकृशानुवॆद-

षट्लॊकदस्राः [२३६४३६७१] गुणकारभूताः ।

हिमांशुनन्दांगयमॆषुसूर्याः [१२५२६९१]

लाभः अनु भागक्रमसंख्ययॊक्तम् ॥ २७ ॥

अष्टॆषुवस्विन्दुषडॆकवॆदाः [४१६१८५८]

प्रॊक्ताः कलानाम् गुणकारसंख्याः ।

पञ्चाग्निदस्राम्बरलॊकदस्र-

विश्वैः [१३२३०२३५] समानम् प्रवदन्ति लब्धम् ॥ २८ ॥

वॆदांकभूभृद्यमसप्तनागाः [८७२७९४]

राशिविलिप्तागुणकारयुक्त्या ।

लब्धः क्रमॆण अत्र नगाम्बराष्ट-

दस्राद्रिवॆदांगरसॆन्दवः [१६६४७२८०७] स्युः ॥ २९ ॥

यः तत्परॆभ्यः गुणकारराशिः 

वस्वंगषट्सप्तकृशानवः [३७६६८] अत्र ।

लब्धः अपि सप्ताम्बरबाण[सप्त]-

सप्ताम्बरॆन्द्वग्निकृत[४३१०७७५०७]प्रमाणः ॥ ३० ॥

नन्दाग्निनन्दवसुषट्कशशांक[१६८९३९]संख्यम्

प्रतत्पराणाम् प्रवदन्ति गुण्यम् ।

ऎकाद्रिबाणाद्रिनवॆषुचन्द्र-

शून्याम्बराष्टी शशिनः च [११६००१५९७५७१] लब्धः ॥ ३१ ॥

भगणानाम् द्विक[२]च्छॆदः राशीनाम् द्वादश [१२] उच्यतॆ ।

अंशादिनिचयानाम् तु पञ्चकः [५] कथ्यतॆ बुधैः ॥ ३२ ॥

[भौमस्य]

भौमस्य विश्वार्कदिगष्टयः [१६१०१२१३] स्युः

भपर्ययाणाम् गुणकारजातः ।

लब्धः अत्र सप्ताग्निसमुद्रलॊक-

दस्र[२३४३७] प्रमाणम् कथितम् क्रमॆण ॥ ३३ ॥

नन्दाब्धिशून्यॆषुशशांकदस्र-

वॆदाग्नयः [३४२१५०४९] अस्मिन् गुणकारमानम् ।

राशिक्रमात् लॊककृतांगसप्त-

नन्दॆषवः [५९७६४३] लब्धिचयम् निरुक्तम् ॥ ३४ ॥

भागप्रमाणम् कृतशून्यवॆद-

नन्दॆन्दुविश्वम् [१३१९४०४] प्रवदन्ति गुण्यम् ।

लब्धस्य चन्द्रांककृशानुचन्द्र-

च्छिद्रांग[६९१३९१]तुल्या विहिता अत्र संख्या ॥ ३५ ॥

[लैप्तः तु] दस्रांकशशांकलॊक-

षण्णागरूपाणि [१८६३१९२] गुणः गुणज्ञैः ।

दृष्टा अत्र लब्धिः तु शशांकलॊक-

[सप्ताम्बराष्टॆषु] गजॆषु [५८५८०७३१] तुल्यम् ॥ ३६ ॥

विलिप्तिकानाम् रसषट्कदस्र-

पञ्चॆषुरूपाणि [१५५२६६] गुणः प्रतीतः ।

लाभः शरार्थांगकृशानुशून्य-

रन्ध्राश्विनन्दद्विक[२९२९०३६५५]तुल्यम् आहुः ॥ ३७ ॥

लॊकांगदस्राष्टधृति[१८८२६३]प्रमाणम्

गुण्यम् क्रमात् तत्परसंख्यया अस्मिन् ।

बाणाग्निषट्सप्तनगाम्बरांक-

बाणाग्निषट्सप्तनगाम्बरांक-

शून्याग्निशीतांशुयमाः च [२१३०९०७७६३५] लब्धः ॥ ३८ ॥

दस्राश्विसप्ताष्टकृत[४८७२२]प्रमाणम्

प्रतत्पराणाम् निचयः गुणस्य ।

रूपॆषुषट्काग्निनभॊश्विवॆद-

वस्वष्टशून्याग्निगुणाः च [३३०८८४२०३६५१] लब्धः ॥ ३९ ॥

मण्डलानाम् गृहाणाम् च छॆदः द्वादशकः [१२] स्मृतः ।

पञ्च [५] पञ्च [५] परॆषाम् तु भागादीनाम् इति स्थितिः ॥ ४० ॥

[बुधशीघ्रॊच्चस्य ]

अंगाद्रिदस्रक्षिति[भृद्गजॆषु-

लॊकाश्वि २३५८७२७६ संख्यम् शशि]जस्य गुण्यः ।

भपर्ययाणाम् नवसूर्यनाग-

षड्दस्र[२६८१२९]संख्यम् क्रमशः च लब्धः ॥ ४१ ॥

राशिक्रमॆ[ण अंक]शशांकनाग-

षण्णन्दनागॆषुसमः [५८९६८१९] गुणः स्यात् ।

सप्ताष्टलॊकाब्धिनभस्सनाग[८०४३८७]-

निर्दिष्टसंख्यः विधिवत् च लब्धः ॥ ४२ ॥

भागॆषु वॆदाश्विसमुद्रनन्द-

बाणाष्टचन्द्रान् [१८५९४२४] गुणकारम् आहुः ।

छिद्राग्निलॊकांकनभः अंगशैल[७६०९३३९]-

संख्याप्रमाणम् खलु तत्र लब्धम् ॥ ४३ ॥

सिद्धम् कलानाम् यमबाणनन्द-

वॆदॆषुचन्द्रान् [१५४९५२] गुणकारम् आहुः ।

लाभः शरांकांगरसाब्धिशून्य-

वस्वग्नि[३८०४६६९५]संख्यः गणकैः निरुक्तः ॥ ४४ ॥

राशिः विलिप्तागुणकारसंज्ञः

दस्राद्रिचन्द्राग्नितिथि[१५३१७२]प्रमाणम् ।

नन्दाद्रिचन्द्राष्टगिरीषुषट्क-

भूताश्विदस्रा [२२५६५७८१७९] विधिना अत्र लब्धः ॥ ४५ ॥

उक्तः गुणः तत्परसंख्यया अत्र

पूर्णांकसंस्कारधृतिम् [१८४८९०] वदन्ति ।

चन्द्रांकशून्यॆषुरसाब्धिचन्द्र-

लॊकाब्धिलॊकाष्टि[१६३४३१४६५०९१]समः च लाभः ॥ ४६ ॥

षट्सप्तदस्राष्टनभः सरूपम् [१०८२७६]

प्रतत्पराणाम् गुणना अथ लब्धम् ।

चन्द्रांकवस्वॆषुषडॆकदस्र-

षट्पञ्चदस्राब्धिशिलॊच्चया अर्थान् [५७४२५६२१६५८९१] ॥ ४७ ॥

विंशतिः [२०] च तथा षष्तिः [६०] छॆदः मण्डलराशिजः ।

भागादीनाम् क्रमात् पञ्च [५] प्रवदन्ति मनीषिणः ॥ ४८ ॥

[ गुरॊः ]

अष्टौ गुणव्यॊमकृशानुभूत-

शून्यांगशैला [७६०५३०३८] गुणजः समूहः ।

पञ्चॆषुभूताद्रिसुधामयूखाः [१७५५५]

लब्धः गुरॊः स्यात् भगणक्रमॆण ॥ ४९ ॥

वॆदाद्रिदस्राग्निशराश्विनाग-

दस्रा [२८२५३२७४] गुणः राशिविधानदृष्टः ।

लब्धः अंकतत्त्वाष्टनग[७८२५९]प्रमाणः 

निरुच्यतॆ अस्मिन् गणितत्प्रसिद्धॆः ॥ ५० ॥

नन्दाद्रिवस्वष्टनभः अद्रिवॆदा [४७०८८७९]

राशिः गुणाख्यः खलु भागजातः ।

भूतांकतिग्मांशुनवाग्नि[३९१२९५]तुल्यम्

लाभप्रमाणम् प्रवदन्ति तज्ञाः ॥ ५१ ॥

सप्तॆन्दुशैलाम्बरलॊकनागान् [८३०७१७]

लिप्ताक्रमात् गुण्यम् उशन्ति तज्ञाः ।

नन्दॆन्दुधृत्यब्धिशशांकवॆदा [४१४१८१९]

लाभः कलानाम् कथितः विगण्य ॥ ५२ ॥

विलिप्तिकानाम् शशिषट्कनागा

दस्राष्टषड्भिः [६८२८६१] गुणकारजातम् ।

रूपांकनन्दाद्रिनगाश्विवॆद-

शून्याश्विनः [२०४२७७९९१] अस्मिन् प्रवदन्ति लब्धम् ॥ ५३ ॥

दन्तांगनन्दाद्रिसुधामयूख[१७९६३२]-

संख्यः गुणः च अत्र हि तत्पराणाम् ।

सप्ताम्बराद्र्यष्टियमाब्धिदस्रान्

दन्तैः समॆतान् [३२२४२१६७०७] कथयन्ति लब्धम् ॥ ५४ ॥

ऎकाग्निरामॆषुधृति[१८५३३१]प्रमाणम्

प्रतत्पराणाम् गुणजा अत्र लब्धम् ।

रूपाद्रिशीतांशुनगाष्टवॆद-

व्यॊमांकतन्मात्रनवांकचन्द्राः [१९९५९०४८७१७१] ॥ ५५ ॥

मण्डलानाम् च राशीनाम् छॆदः द्वादशकः [१२] स्मृतः ।

भागलिप्तादिराशीनाम् छॆदः पञ्च ऎव [५] कथ्यतॆ ॥ ५६ ॥

[ शुक्रशीघ्रॊच्चस्य ]

नन्दाब्धिशून्यांगकृताभ्रशून्य-

शैला [७००४६०४९] भृगूच्चस्य गुणः गणानाम् ।

लाभः अब्धिरामाद्रिशिवाग्नि[३११७३४]तुल्यः

संख्याविधानक्रमसंख्यया उक्तम् ॥ ५७ ॥

पक्षॆषुवॆदाम्बरचन्द्रशैल-

नागाग्नयः [३८७१०४५२] राशिगुणः प्रदिष्टः ।

लब्धः निशानाथहुताशानाग्नि-

शैलांगशून्याश्विसमः [२०६७३३१] समूहः ॥ ५८ ॥

दस्रापगानाथशिलॊच्चयॆन्दु-

[शराब्धिषट् ६४५१७४२ संख्य]समः अंशगुण्यः ।

तन्मात्रभूतांगरसाग्निलॊक-

व्यॊमॆन्दवः [१०३३६६५५] राशिः अथ अत्र लब्धः ॥ ५९ ॥

अंगांगपक्षॊदधिचन्द्रशक्रा [१४१४२६६]

राशिः कलानाम् गुणकारजातः ।

[शशांक]लॊकांकशशांकबाण-

च्छिद्रॆषुलॊकॆन्दु[१३५९५१९३१]समः अत्र लाभः ॥ ६० ॥

अष्टाश्विनागाग्निकृतांग[६४३८२८]तुल्यम्

प्राहुः गुणाख्यम् विकलासु जातम् ।

लब्धः च रूपाद्रिविवस्वदग्नि-

वॆदाग्निशीतांशुनगाग्नयः [३७१३४३१२७१] स्युः ॥ ६१ ॥

संख्याक्रमात् तत्परराशिगुण्यः

पक्षाष्टभूभृद्दहनार्क[१२३७८२]संख्यः ।

लॊकाष्टपक्षांकयमॆषुषट्क-

रामाष्टपक्षाब्धि[४२८३६५२९२८३]समः अत्र लाभः ॥ ६२ ॥

प्रतत्पराणाम् गुणकारराशिः

अंगक्षमाभृद्गगनांक[९०७६]संख्यः ।

रूपॆषुवस्वंगषडद्रिपक्ष-

पञ्चाब्धिनागान् धृतिकम् च [१८८४५२७६६८५१] लब्धः ॥ ६३ ॥

मण्डलानाम् सराशीनाम् छॆदः द्वादशकः [१२] स्मृतः ।

शक्रारिपूज्यभागादॆः पञ्च [५] पञ्च ऎव [५] कथ्यतॆ ॥ ६४ ॥

[ शनॆः ]

रुद्राश्वि[भूतांगनभॊग्निरुद्रा ११३०६५२११]

गु[णः प्रदि]ष्टः भगणॆषु तज्ञैः ]

तिग्मद्युतॆः आत्मजलब्धराशिः

दस्राभ्रबाणाम्बररात्रिनाथाः [१०५०२] ॥ ६५ ॥

वॆदाष्टभूतांककृशानुरूप-

चन्द्रर्तवः [६११३९५८४] अस्मिन् गुणकारराशिः ।

राशिक्रमात् लब्धसमः तु संख्यः

सप्ताब्धिचन्द्राष्टरसा [६८१४७] निरुक्ताः ॥ ६६ ॥

छिद्राग्निचन्द्रांगशरांकनाग-

प्रालॆयरश्मि[१८९५६१३९]प्रभवः गुणाख्यः ।

अंशावधॆः अग्निरसाष्टलॊक-

रामर्तवः [६३३८६३] लाभभवः समूहः ॥ ६७ ॥

सप्ताब्धिशैलॊदधिषट्कदस्रान् [२६४७४७]

दृष्टः समूहः गुणकारजन्मा ।

लिप्ताक्रमात् अत्र विगण्यमानः

रामांगरुद्राग्निशराः [५३११६३] च लाभः ॥ ६८ ॥

शीटांशुदस्राम्बररुद्रनागा [८११०२१]

राशिः विलिप्ताप्रभवः गुणस्य ।

सप्ताष्टनॆत्रांकयमांगसप्त-

नन्द[९७६२९२८७]प्रमाणा विहिता अत्र लब्धिः ॥ ६९ ॥

निर्दिश्यतॆ तत्परराशिगुण्यः

सूर्याग्निशून्यांक[निशाधिनाथाः १९०३१२] ।

लाभः अद्रिशून्यॆषु[शरांग]भूत-

वॆदाद्रिरामामृतसन्मयूखाः [१३७४५६५५०७] ॥ ७० ॥

प्रतत्पराणाम् नवशून्यबाण-

भूताष्टचन्द्रा [१८५५०९] गुणना अथ लाभः ।

रुद्राश्विवॆदांकसमुद्रपक्ष-

च्छिद्राग्निशून्यम् फणिभृत्समॆतम् [८०३९२४९४२११] ॥ ७१ ॥

चतुष्कः [४] भगणच्छॆदः राशीनाम् द्वादश ऎव [१२] च ।

छॆदः क्रमॆण पञ्च [५] उक्तः सौरस्य लवतः स्फुटः ॥ ७२ ॥

[ चन्द्रकॆन्द्रस्य ]

अग्नीषुनन्दाग्निशशांकसूर्य-

वॆदाग्नयः [३४१२१३९५३] स्युः भगणॊत्थगुण्यः ।

शीतांशुकॆन्द्रस्य गुणांकरूप-

रामाष्टलॊकार्क[१२३८३१९३]समः च लब्धः ॥ ७३ ॥

तद्राशितः रामनभः अद्रिसप्त-

दस्राश्विवस्वद्रि[७८२२७७०३]समः गुणः स्यात् ।

लब्धः अश्विनागाम्बरपन्नगांग-

शून्याब्धिरामा [३४०६८०८२] गणकैः निरुक्तः ॥ ७४ ॥

रामांगदस्राद्रिभुजंगचन्द्र-

षट्काश्वि[२६१८७२६३]संख्यः अंशकजः गुणः स्यात् ।

रूपांगसप्तॆषुगुणॆन्दुदस्र-

वॆदाग्नि[३४२१३५७६१]संख्यम् प्रवदन्ति लब्धम् ॥ ७५ ॥

लिप्तागतः अस्मिन् गुणकारराशिः

वॆदाश्विनागाग्निनगाग्निवॆदाः [४३७३८२४[ ।

पञ्चॆन्दुरामाश्विगुणा[ंगनाग-

नॆत्राब्धि]लॊकाः [३४२८६३२३१५] खलु तत्र लब्धः ॥ ७६ ॥

विलिप्तिकानाम् गुणकारराशिः

सप्ताग्निनागाग्निशशांक[१३८३७]तुल्यः ।

नन्दाद्रिनागस्वरशून्यनाग-

शून्यॆषुषट्[६५०८०७८७९]तुल्यकम् अत्र लब्धम् ॥ ७७ ॥

दृष्टः गुणः तत्परराशिलब्धः

शून्याष्टनागाग्निरवि[१२३८८०]प्रमाणम् ।

रुद्राम्बराद्र्यंगकृताग्निरन्ध्र-

बाणांकवॆदाः सगुणाः च [३४९५९३४६०११] लब्धः ॥ ७८ ॥

प्रतत्पराणाम् जिनवह्निदस्र-

शक्रा [१४२३२४] गुणः तत्र [तु] लब्धराशिः ।

रूपॆषुदस्रांकवसुस्वराश्वि-

नागॆषुनागांकनभः जिनाः च [२४०९८५८२७८९२५१] ॥ ७९ ॥

छॆदः अपवर्तकः ज्ञॆयः राशीनाम् द्वादशात्मकः [१२] ।

भागादीनाम् क्रमात् छॆदाः पञ्च [५] दृष्टाः क्रमात् बुधैः ॥ ८० ॥

[ अधिदिवसस्य ]

रन्ध्रशून्यॆषुदस्राद्रिषट्क[६७२५०९]तुल्यः अधिकः गुणः ।

लब्धराशिः क्रमात् व्यॊम्[सप्ताङ]आम्बरदस्रकाः [२०६७०] ॥ ८१ ॥

[ अवमदिवसस्य ]

चन्द्राग्न्यम्बरसप्ताब्धियमषट्कः [६२४७०३१] अवमः गुणः ।

लब्धः अपि नववॆदाद्रिशैलरन्ध्राणि [९७७४९] कीर्त्यतॆ ॥ ८२ ॥

[सूर्यापक्रमस्य ]

अपक्रमस्य सप्ताब्धिपुष्कराणि [३४७] गुणः क्रमात् ।

लब्धराशिः क्रमात् दृष्टः [रूपवॆद]निशाकरः [१४१] ॥ ८३ ॥

[ अधिमासस्य ]

युगाधिमासैः मुनिचन्द्रलॊक-

व्यॊमाम्बरांकः धृतयः च [१८९००३१७] दृष्टः ।

गुण्यः अत्र लब्धः अपि शराष्टशून्य-

नवॆन्दवः [१९०८५] अस्मिन् भगणॆषु नित्यम् ॥ ८४ ॥

शीतांशुरन्ध्राग्निनभःशिवाश्वि-

सूर्यैः [१२२११०३९१] समानः गुणकारराशिः ।

लॊकाब्धिषण्णन्दमुनीन्द्र[१४७९६४३]संख्यः

लब्धः अत्र राशिः खलु राशिजातः ॥ ८५ ॥

रसाग्निवस्वब्धिकृशानुसप्त-

वॆदाश्विनः [२४७३४८३६] स्युः गुणकारराशिः ।

रूपॆषुभूतैकनवांकनागा [८९९१५५१]

लब्धः क्रमॆण अंशककर्मसिद्धः ॥ ८६ ॥

वस्वद्रिवॆदॆन्द्रगजाग्नि[३८१४४७८]संख्यः

लिप्तासु दृष्टः गुणकारराशिः ।

नन्दॆन्दुनागाद्रिनवैकलॊक-

नाग[८३१९७८१९]प्रमाणम् प्रवदन्ति लब्धम् ॥ ८७ ॥

नन्दाब्धिपञ्चाश्विमनु[१४२५४९]प्रमाणम्

दृष्टः विलिप्तागुणकारसिद्धिः ।

रुद्राद्रिसंस्कारशरांगनाग-

प्रालॆयरश्मिम् [१८६५४८७११] प्रवदन्ति लाभम् ॥ ८८ ॥

संख्या [गुणस्य] अपि च तत्पराणाम्

रसा नभः अंगाब्धिकृशानुचन्द्राः [१३४६०६] ।

लॊकाष्टषण्णन्दकृशानुदस्र-

च्छिद्रांगबाणाः सदिशः च [१०५६९२३९६८३] लब्धः ॥ ८९ ॥

प्रतत्परॆभ्यः अर्ककृताग्निनन्द[९३४१२]-

राशिः निरुक्तः गुणकारजातः ।

ऎकाग्निभूताष्ट[त्रिभूप]नाग-

व्यॊमाभ्रवॆदाब्धि[४४००८१६३८५३१]समः अत्र लाभः ॥ ९० ॥

भगणानाम् सराशीनाम् द्वादश [१२] ऎव अपवर्तकः ।

पञ्च [५] पञ्च ऎव [५] शॆषाणाम् छॆदः अस्मिन् अपवर्तनॆ ॥ ९१ ॥

इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्यॆ 

गणितपादः समाप्तः ॥


कालक्रियापादः

[ मंगलाचरणम् ]

सूर्यॆन्दुखाग्निमरुदप्क्षितिदीक्षिताख्यम्

मूर्त्यष्टकम् सकललॊकहितार्थभावम् ।

यः अभूत् स्वयम् हि करुणातनुः अप्रमॆयः

तस्मै नमः त्रिभुवनस्थितयॆ शिवाय ॥

[ कालविभागः क्षॆत्रविभागः च ]

अथ गणितानन्तरम् कालक्रिया प्रस्तूयतॆ । अथ कः कालः, का वा क्रिया? अत्र कॆचित् वदन्ति  "क्रियाव्यतिरिक्तः कालः" । अपरॆ  "क्रिया कालः" इति । क्रियाव्यतिरिक्तः अस्तु कालः [क्रिया वा], किम् ऎतॆन । अस्माकम् तु सूर्याचन्द्रमसॊः यः परः विप्रकर्षः सः अर्धमासः । यः च तयॊः सन्निकर्षः स मासः । ऎवम् द्वादश मासाः संवत्सरः इति आदि कालः । क्रिया व्यापारः । कालस्य क्रिया कालक्रिया । कालपरिज्ञानार्था क्रिया इति यावत् । सा च क्रिया गतिः । तया क्रियया

कालः ज्ञायतॆ इति ऎतत् प्रतिपादयिष्यति । तत् यथा 

वर्षम् द्वादशमासाः त्रिंशद्दिवसः भवॆत् स मासः तु ।

षष्टिः नाड्यः दिवसः षष्टिः च विनाडिका नाडी ॥ १ ॥

वर्षम् अब्दः समाः संवत्सरः इति पर्यायाः । अयम् वर्षशब्दः नपुंसकलिंगः समायाम् वर्ततॆ । तस्य वर्षस्य प्रमाणम् द्वादश मासाः । द्वौ च दश च द्वादश । मासाः संवत्सरस्य शाखाः । त्रिंशद्दिवसः भवॆत् स मासः तु । त्रिंशत् संख्या । दिवसाः दिनानि अहानि इति पर्यायाः । भवॆत् स्यात् । स यः असौ मासः अभिहितः सः त्रिम्शद्दिवसः इति अर्थः । षष्टिः नाड्यः दिवसः । तस्य दिवसस्य ऎकस्य प्रमाणम् षष्टिः नाड्यः । नाड्यः घटिकाः । षष्टिः च विनाडिका नाडी । तस्याः नाड्याः प्रमाणम् विनाड्यः षष्टिः । विनाड्यः विघटिकाः ।

अत्र उच्यतॆ  "वर्षम् द्वादश मासाः" इति आदि न आरब्धव्यम्, लॊकप्रसिद्धत्वात् । सर्वॆषु ऎव अयम् न्यायः लॊकवॆदप्रसिद्ध्या अंगीकरणीयः । "वर्षम् द्वादशमासाः" इति आदि विना अपि लक्षणॆन लॊकः जानीतॆ, तथा च भृतकॆभ्यः भुक्तवॆतनम् ददाति । यदि लॊकप्रसिद्धम् अपि अभिधीयतॆ तदा अत्र बहु वक्तव्यम् जायतॆ । "नृषि यॊजनम्", [गीतिका, ७] "स्चांगुलः घहस्तः ना" [गीतिका, ८] इति अत्र यव-सर्षप-यूक-लिक्षा-वालाग्र-रथरॆणु-त्रसरॆणुस्थूलसूक्ष्मपरमाणूनाम् प्रमाणम् वक्तव्यम् । त्रैराशिकॆ च अनॆकजनपदव्यवहारात्मिका परिभाषा वक्तव्या । अथ यदि अपि लॊकप्रसिद्धिः अंगीक्रियतॆ तथा अपि तु "वर्गाक्षराणि वर्गॆ" [गीतिका, २] इति अत्र वर्गावर्गाक्षरस्वरनिरूपणम् वक्तव्यम् ऎव । कुतः? लॊकाप्रसिद्धॆः । [यदि ऎवम् तदा] व्याकरणॆ वर्गावर्गाक्षर[स्वरनिरूपणम् अनर्थ]कम् । न ऎष दॊषः । लॊकः पूर्वाचार्याः अबाह्यशास्त्राणाम् प्रणॆतारः इति उक्तम् । "वर्गाक्षराणि वर्गॆ" [गीतिका, २] इति अत्र वर्गावर्गाक्षरस्वरनिरूपणायाम् व्याकरणम् अबाह्यम् शास्त्रम् । "गुर्वक्षराणि षष्टिः विनाडिका" [कालक्रिया, २] इति अत्र गुर्वक्षराणाम् लक्षणम् वक्तव्यम् । यदि "वर्षम् द्वादश मासाः" इति आदि ग्रन्थः न आरभ्यतॆ तदा ऎतत् सर्वम् लॊकप्रसिद्ध्या सॆत्स्यति । तस्मात् अप्रत्यायनम् ऎव अस्तु । न ऎष दॊषः । अनारभ्यमाणायाम् अस्याम् परिभाषायाम् सावनस्य ऎव मानस्य ऎतॆ भॆदाः स्युः न सौरचान्द्रनाक्षत्राणाम्, यस्मात् सावनम् ऎव ऎकम् मानम् लॊकप्रसिद्धम्, न सौरचान्द्रनाक्षत्राणि । तत् सर्वॆषु ऎव मानॆषु इयम् ऎव परिभाषा यथा स्यात् इति [सूत्रम् आरब्धव्यम्] ।

अन्यथा हि "रविमासॆभ्यः अधिकाः तु यॆ चान्द्राः" [कालक्रिया, ६] इति अत्र रविभगणानाम् द्वादश गुणकारः न लभ्यॆत, "शशिदिवसाः विज्ञॆयाः भूदिवसॊनाः तिथिप्रलयाः" [कालक्रिया, ६] इति अत्र शशिदिवसानाम् त्रिंशत्कः गुणकारः न लभ्यॆत, "षष्टिः नाड्यः दिवसः" इति अत्र अपि हॊराशास्त्राविरॊधॆन षष्टिः नाड्यः परिकल्पिताः । अन्यथा हि इच्छया विभागः दिवसस्य शक्यतॆ परिकल्पयितुम् । इच्छया विभागॆ परिकल्प्यमानॆ कः पुनर् हॊराशास्त्रविरॊधः?

उच्यतॆ 

आद्यन्तराश्यॊरुदयप्रमाणम् द्वौ द्वौ मुहूर्तौ नियतम् प्रदिष्टौ ।

इति अत्र द्विनाडिकः मुहूर्तः व्याख्यायतॆ | सा च नाडिका दिवसस्य षष्टिभागः इति । अन्यथा परिकल्प्यमानॆ अयम् अर्थः अन्यथा स्यात् ।

कथम् पुनर् दिवसस्य षष्टिभागः साध्यतॆ इति अत्र अभिधीयतॆ  अत्र कॆचित् ब्रुवतॆ  "सुवर्णरजतताम्राणाम् अन्यतमम् पात्रम् अर्धवृत्ताकारम् षष्टिपलपानीयाधारकम् पूरकम् निस्रावकम् वा घटिकॆ" इति । न ऎष नियमः । यावत् पलानि षष्टिः पानीयम् प्रस्रवति आपूर्यतॆ वा, तावता नाडिकाकालः इति । प्राज्ञाः तु न ऎवम् इति मन्यन्तॆ । कथम् तर्हि? अहॊरात्रप्रस्रुतस्य पानीयस्य षष्टिभागः घटिकाप्रमाणः इति स्थूलः कल्पः, सूक्ष्मः तु समायामवनौ निर्दिष्टाकारस्य शंकॊः घटिकाच्छायाम् अंकयित्वा घटिका साध्यतॆ, घटिकाछिद्रम् च छायाकालवशात् उक्त्या यॊजयितव्यम् ॥ १ ॥

गुर्वक्षराणि षष्टिः विनाडिका आर् क्षी षट् ऎव वा प्राणाः ।

ऎवम् कालविभागः क्षॆत्रविभागः तथा भगणात् ॥ २ ॥

गुर्वक्षराणि षष्टिः विनाडिका आर् क्षी । गुरूणि च तानि अक्षराणि च गुर्वक्षराणि, षष्टिः विनाडिका आर् क्षी । यावता कालॆन षष्टिः गुर्वक्षराणि पठितानि तावान् कालः विनाडीसंज्ञितः । "गुर्वक्षराणि षष्टिः विनाडिका" इति अनॆन सर्वॆषाम् ऎव सौरसावननाक्षत्रचान्द्राणाम् मानानाम् विनाडिकाकालतुल्यतायाम् प्रसक्तायाम् तद्विषयनिरूपणार्थम् आह  आर् क्षी । कतमा विनाडिका गुर्वक्षराणि षष्टिः? आर् क्षी, न शॆषाः । ऋक्षाणि नक्षत्राणि । नक्षत्रशब्दॆन नाक्षत्रम् मानम् परिगृह्यतॆ । ऋक्षाणाम् अयम् कालः आर्क्षः । अयम् च कालः विनाडिकाभिधीयमानः स्त्रीत्वम् प्रतिपद्यतॆ इति स्त्रीलिंगनिर्दॆशॆन विनाडिका इति उक्तम् ।

षट् ऎव वा प्राणाः, प्राणाः उच्छ्वासाः, आर्क्ष्यविनाडिकायाः प्रमाणम् । आर्क्ष्यम् च मानम् भचक्रभ्रमणकालम् । यतः आह  "प्राणॆन ऎति कलाम् भम्" [गीतिका, ६] इति । उच्छ्वासकालॆन भचक्रम् कलाम् पर्यॆति, ऋक्षचक्रम् इति अर्थः । अत्र आर् क्षी विनाडिका षट् वा प्राणाः [तुल्याः] । आर् क्षी भिः विनाडिकाभिः [दशभिः] ऎकांशकः । अतः ज्यॊतिश्चक्रसम्बन्धिनः प्राणाः लिप्तासंख्याः इति प्राणैः ज्यादिकर्म प्रवर्ततॆ । अन्यथा हि "[फ छ] कलार्धज्याः" [गि‌ईतिका, १२] इति उक्तत्वात् प्राणैः ज्याग्रहणम् न प्राप्नॊति । अन्यत् च  सामान्यॆन ऎव "षट् वा प्राणाः विनाडिका" इत् उच्यमानॆ सर्वमानानाम् ऎव विनाडिकाकालस्य तुल्यताप्रसंगः । अवशिष्टानाम् मानानाम् विनाडिकायाः प्रमाणम् नाडिकायाः षष्टिभागः ऎव । न तस्याः विनाडिकायाः अवयवप्रमाणाभिधानम् क्रियतॆ, प्रयॊजनाभावात् । गुर्वक्षरॆषु मध्यमवृत्तिग्रहणम् । "गुर्वक्षराणि षष्टिः" इति अत्र मध्यमायाम् वृत्तौ षष्टिः गुर्वक्षराणि विनाडिकाकालः इति वक्तव्यम् । अन्यथा हि तिसृषु अपि वृत्तिषु अविशॆषॆण ग्रहणम् प्राप्नॊति । तत् यथा  द्रुतायाम् वृत्तौ षष्टिः गुर्वक्षराणि अल्पॆन कालॆन पठ्यन्तॆ, बिलम्बितायाम् महता कालॆन इति, मध्यमायाम् पुनर् न अल्पॆन, न महता कालॆन । तत् तर्हि मध्यमवृत्तिग्रहणम् कर्तव्यम् । कथम् अनुच्यमानम् अवगम्यतॆ? लॊकप्रसिद्धॆः । तत् यथा  लॊकॆ अनिर्दिष्टॆषु कार्यॆषु मध्यमप्राप्तिः । ऎवम् अत्र अपि  "मासान्तॆ पक्षस्य अन्तॆ स हि आकाशॆ दॆशॆ स्वम् मिश्रम् वक्रम् कान्तम् वृत्तम् पूर्णम् चन्द्रम् सत्त्वात् रात्रौ तॆ क्षुत्क्षाम प्रादन्तॆ श्वॆतः प्राज्यः क्रूरः तस्मात् वा अन्तॆ हर्म्यस्य अन्तः संसुप्तस्य ऎकान्तॆ कर्तव्या" । ऎतानि षष्टिः गुर्वक्षराणि विनाडिकाकालः । षट् ऎव वा प्राणाः । प्राणाः उच्छ्वासाः । तॆ वा षट्, तस्याः ऎव अर्क्ष्यविनाडिकायाः कालः । अत्र अपि स्वस्थस्य अश्रान्तस्य नीरुजस्य यॊगिनः प्राणाः परिगृह्यन्तॆ । अत्र अपि स्वस्थः न महता कालॆन उच्छ्वसिति । ऎवम् [अ]श्रान्तः अपि । यॊगी न पुनर् व्यानवशान् महता कालॆन उच्छ्वसिति । अत्र त्रुटि-त्रुट्यवयवादयः कालावयवाः कस्मात् न उच्यन्तॆ? ऎवम् मन्यन्तॆ  तैः व्यवहारः न अस्ति इति । व्यवहारार्थम् च कालावयवग्रहणम् इति ।

ऎवम् कालविभागः । ऎवम् वर्षमासदिवसघटिकाप्राणाः कालविभागः । किम् अर्थम् इदम् अभिधीयतॆ  "ऎवम् कालविभागः" इति । ननु च कालविभागः निर्दिष्टः । ऎवम् तस्य निर्दिष्टस्य ग्रहणम् "ऎवम् कालविभागः" इति । अस्य अनभिधानात् शक्यतॆ ज्ञातुम् यथा अप्रपञ्चितप्रमाणः कालविभागः इति । न ऎष दॊषः । "ऎवम् कालविभागः" ऎवंप्रकारः कालविभागः इति अर्थः । प्रकारार्थॆ तु व्याख्यायमानॆ अन्यॆ अपि कालविभागाः परिगृहीताः भवन्ति । तत् यथा  पञ्चसंवत्सराः युगम्, द्वादशमासाः संवत्सरः, द्वौ मासौ ऋतुः तॆ च वसन्त-ग्रीष्म-वर्षा-शरद्-हॆमन्त-शिशिराख्याः, ऋतुत्रयम् अयनम्, मासार्धम् पक्षः शुक्लः कृष्णः च, दिवसरात्रिचतुर्भागः यामः, द्विनाडिकः मुहूर्तः, इति ऎवम् आदि ।

क्षॆत्रविभागः तथा भगणात् । क्षॆत्रम् भगॊलः । तस्य क्षॆत्रस्य विभागः । तथा तॆन ऎव प्रकारॆण । यथा कालस्य विभागः, क्षॆत्रस्य अपि भगणात् । कालस्य वर्षात् प्रभृति विभागः उक्तः, क्षॆत्रस्य तु भगणात् प्रभृति प्रवृत्तॆः । तत् यथा  द्वादशराशयः भगणः, राशिः त्रिंशत् भागाः, षष्टिः लिप्ता भागः, षष्टिः विलिप्ता लिप्ता, षष्टिः तत्परा विलिप्ता इति ईदृशः । उद्दॆशकः 

भगणः राशिः भागः कला च विकला च तत्परा च ऎव ।

क्षॆत्रस्य ऎताः संज्ञाः कालविभागॆन तुल्याः स्युः ॥

[द्वियॊगपरिज्ञानम्]

द्वियॊगपरिज्ञानाय आर्यापूर्वार्धम् आह 

भगणाः द्वयॊः द्वयॊः यॆ विशॆषशॆषाः युगॆ द्वियॊगाः तॆ |

भगणाः निर्दिष्टाः ऎव ग्रहाणाम् गीतिकासु । द्वयॊः द्वयॊः इति वीप्साग्रहणम् त्र्यादिनिवृत्त्यर्थम् । यॆ विशॆषशॆषाः, द्वयॊः द्वयॊः ग्रहयॊः भगणानाम् यॆ विशॆषशॆषाः भगणाः तावन्तः तयॊः युगॆ द्वियॊगाः बभूवुः भविष्यन्ति वा ।

अत्र द्वयॊः द्वयॊः भगणविशॆषाः ऎव तयॊः यॊगाः इति कथम् अवसीयतॆ, न पुनर् तयॊः अभ्यासः यॊगः वा? उच्यतॆ । तत् यथा  द्वौ अश्वौ च परिमण्डलारॊहॆ परिकल्पितौ । तत्र ऎकस्य कक्ष्या षष्टिः धनुषाम्, अपरस्य त्रिंशत् । तौ पञ्चदण्डगती । महति मण्डलॆ यावत् मण्डलचतुर्भागम् गच्छति तावत् अल्पॆ मण्डलॆ अर्धम् गच्छति । यावत् महति मण्डलॆ अर्धम् गच्छति तावत् सकलम् अल्पमण्दलम् गच्छति । ऎवम् यावत् महति मण्डलॆ ऎकः परावर्तः

तावत् अल्पॆ मण्डलॆ परावर्तद्वयम्, तावति च तयॊः ऎकः यॊगः । ऎवम् ग्रहॆषु अपि यॊज्यम् । युज्यतॆ ऎतत् यदि ग्रहाः समगतयः । समगतयः ग्रहाः इति प्रतिपादयिष्यति ।

उद्दॆशकः  

गुरॊः अंगारकस्य च युगॆ कियन्तः यॊगाः इति ।  

लब्धम् यॊगाः गगन[जल]दरसयमाग्निरन्ध्रशशांकाः [१९३२६००] । ऎवम् सर्वॆषाम् अपि ।

कः पुनर् अत्र द्वियॊगानाम् विनियॊगः? उच्यतॆ । यदि चतुर्युगाहर्गणॆन इष्टग्रहयॊः द्वियॊगाः लभ्यन्तॆ, [तर्हि] कलियाताहर्गणॆन कियन्तः इति लब्धम् समतिक्रान्ताः द्वियॊगाः । शॆषम् गतगन्तव्यम् कृत्वा युगद्वियॊगैः विभजॆत् । लब्धम् गतगन्तव्यदिवसा इति ऎकः विनियॊगः । [शॆषम् षष्ट्या संगुण्य युगद्वियॊगैः विभजॆत् लब्धम् घट्यादि ।] यदि चतुर्युगाहर्गणॆन इष्टग्रहयॊः द्वियॊगाः लभ्यन्तॆ [तर्हि] कलियाताहर्गणॆन कियन्तः इति लब्धम् समतिक्रान्ताः द्वियॊगाः । शॆषॆ द्वादशादिगुणितॆ रास्यादिलब्धिः । तैः द्वियॊगराश्यादिभिः मन्दगतिग्रहः युक्तः शीघ्रगतिग्रहः भवति । शीघ्रगतिः च द्वियॊगराश्यादिहीनः मन्दगतिः भवति इति अपरः विनियॊगः । द्वियॊगैः च राश्यादीन् आनीय तयॊः अपि भगणसमासॆन अपि भगणसमासगतभगणराश्यादीन् विधाय "अन्तरयुक्तम् हीनम्" [गणित, २४] इति अनॆन ऎकत्र क्षिपॆत् ऎकत्र विशॊधयॆत्, क्षिप्तविशॊधितयॊः अर्धम् तयॊः गतभगणराशिभागलिप्ताः इति अन्यः विनियॊगः

। कुट्टाकारविनियॊगः तु प्रदर्शितः ऎव इति । 

[युगॆ व्यतीपातसंख्या]

व्यतीपातज्ञानाय आर्यापश्चार्धम् आह 

रविशशिनक्षत्रगणाः सम्मिश्राः च व्यतीपाताः ॥ ३ ॥

नक्षत्राणाम् गणाः नक्षत्रगणाः । नक्षत्राणि अश्विन्यादीनि । रविः च शशी च रविशशी । रविशशिनः नक्षत्रगणाः चन्द्रादित्यभगणाः इति यावत् । तॆ च रसदहनशिखिगुणशैलाकाशयमर्तवः [६२०७३३३६] । ऎतॆ व्यतीपाताः । सम्मिश्राः च व्यतीपाताः । सम्मिश्राः ऎकीकृताः । कॆन संमिश्राः? अन्यस्य अश्रुतत्वात्, रविशशिभगणाः नक्षत्रगणैः ऎव । तॆ ऎव व्यतीपाताः द्विगुणिताः इति अर्थः । तॆ च द्विशैलरसर्तुमनुकृतरवयः [१२४१४६६७२] ।

अथ ऎतौ व्यतीपातौ अभिहितौ द्वादशषड्राश्यात्मकौ । अत्र इदम् प्रष्टव्यम्  [किम् इदम्] व्यतीपातयॊः उदाहरणम् आहॊस्वित् लक्षणम् इति? यदि इदम् उदाहरणम् तदा सर्वम् इष्टम् सॆत्स्यति, तत् अस्तु उदाहरणम् इति । तत् यथा  चन्द्रादित्यौ स्फुटीकृतौ यदि ऎकत्र द्वादशराशयः तदा व्यतीपातः । ननु च लॊकॆ द्वादशराशिकः वैधृतः इति प्रसिद्धम् ? न ऎषः दॊषः । संज्ञाकृतः भॆदः न फलम् प्रति, यस्मात् व्यतीपातस्य वैधृतस्य च तुल्यम् फलम् भगवद्भिः गर्गादिभिः उपदिष्टम् । तौ ऎव सूर्याचन्द्रमसौ स्फुटौ ऎकत्र यदि षड्राशयः तदा अपि व्यतीपातः ।

अथ व्यतीपातस्य अतीतैष्यपरिज्ञानार्थम् त्रैराशिकम्  यदि सूर्याचन्द्रमसॊः स्फुटभुक्तिसमासॆन षष्टिघटिकाः लभ्यन्तॆ, [तदा] अनॆन अतीतैष्यॆण कियत्य इति लभ्दम् घटिकाः विघटिकाः च । अथवा अतीतैष्यव्यतीपातकालिकौ सूर्याचन्द्रमसौ ज्ञातुम् इच्छति, तदा अतीतैष्यॆण सह त्रैराशिकम्  यदि सूर्याचन्द्रमसॊः स्फुटभुक्तिसमासॆन सूर्यभुक्तिः चन्द्रभुक्तिः वा लभ्यतॆ, [तदा] अनॆन अतीतैष्यसूर्याचन्द्रमसॊः भुक्तिसमासॆन किम् इति भुक्तिः लभ्यतॆ । तॆन रहितौ सहितौ सूर्याचन्द्रमसौ व्यतीपातकालिकौ । ऎवम् स्थूला व्यतीपातभुक्तिः । यथा सूक्ष्मा भवति तथा प्रदर्श्यतॆ । उक्तम् च 

नानायनॆ व्यतीपातः तुल्यापक्रमयॊः तयॊः ।

उद्दॆशः तस्य चक्रार्धम् विक्षॆपम् च अधिकॊनकम् ॥ [महाभास्करीयम्, ४.३६ ]

इति । सूर्याचन्द्रमसौ नानायनॆ तुल्यापक्रमौ यदा भवतः तदा व्यतीपातः, चन्द्रस्य विक्षॆपसहितः रहितः वा अपक्रमः । अस्मिन् किल व्यतीपातयॊगॆ क्षीरतरुशाखावच्छॆदॆ विगतक्षीरता ॥ ३ ॥

[ युगॆ ग्रहॊच्चनीचभगणाः ]

उच्चनीचपरिवर्तज्ञानार्थम् आह 

स्वॊच्चभगणाः स्वभगणैः विशॆषिताः स्वॊच्चनीचपरिवर्ताः ।

स्वॊच्चभगणाः स्वभगणैः विशॆषिताः । स्वकीयम् उच्चम् स्वॊच्चम्, तस्य स्वॊच्चस्य भगणाः स्वॊच्चभगणाः । अत्र ग्रहाणाम् उच्चद्वयम्, मन्दॊच्चम् शीघ्रॊच्चम् च । अत्र कतरत् उच्चम् परिगृह्यतॆ? शीघ्रॊच्चम् इति आह । मन्दॊच्चस्य यदि अपि गतिः अभ्युपगता तथा अपि युगभगणस्य व्यवहारः न अस्ति इति शीघ्रॊच्चभगणाः ऎव परिगृह्यन्तॆ । स्वभगणैः विशॆषिताः स्वॊच्चनीचपरिवर्ताः । उच्चभगणानाम् स्वभगणानाम् च यः विशॆषः स उच्चनीचपरिवर्तः । यस्मात् नैरंश्यात् यावत् नैरंश्यम् तावत् उदयास्तमयवक्रानुवक्राः भवन्ति इति उच्चपरिवर्तः परिकल्पितः । यॆ निरंशद्वयान्तरॆ दिवसाः तॆ परिवर्तस्य दिवसाः । परिवर्ताः ग्रहाः च युगादौ मॆषादितः प्रवृत्ताः । मीनान्तॆ शीघ्रभगणपरिसमाप्तिः । ग्रहभॊगाधिकः शीघ्रभॊगः परिकल्पितः । उच्चनीचपरिवर्ताः । उच्चपरिवर्ताः नीचपरिवर्ताः च तावन्तः ऎव, यस्मात् ऎकस्मिन् निरंशद्वयान्तरॆषु ग्रहस्य उच्चनीचप्राप्ती संभवतः ।

अथ कः पुनर् उच्चः, कः वा नीचः इति? यत्र ग्रहाः सूक्ष्माः लक्ष्यन्तॆ कर्णस्य महत्त्वात् स आकाशप्रदॆशः उच्चसंज्ञितः । यत्र असौ ऎव ग्रहः महाबिम्बः लक्ष्यतॆ कर्णस्य अल्पत्वात् स आकाशप्रदॆशः नीचसंज्ञितः इति ।

अथ परिवर्तैः अपि उच्चम् कॆन्द्रम् वा आनीयतॆ । कथम्? यदि चतुर्युगाहर्गणॆन ऎतॆ उच्चनीचपरिवर्ताः लभ्यन्तॆ, तदा कलियाताहर्गणॆन कियन्तः इति लब्धम् समतिक्रान्ताः परिवर्ताः, शॆषॆ द्वादशा[दिगुणितॆ] राश्यादिकः परिवर्तभॊगः । परिवर्तभॊगरहितः ग्रहः ग्रहसहितः वा परिवर्तभॊगः उच्चभॊगः । उच्चभॊगसहितः परिवर्तभॊगः [परिवर्तभॊगरहितः वा उच्चभॊगः ] ग्रहभॊगः । परिवर्तभॊगः ऎव कॆन्द्रभॊगः । अन्यत् च द्वियॊगाभिहितॆन समानम् ।

अथ "भगणाः द्वयॊः द्वयॊः यॆ विशॆषशॆषाः युगॆ द्वियॊगाः तॆ" [कालक्रिया, ३] इति अस्याम् ऎव कारिकायाम् ननु गतः अयम् अर्थः किम् अत्र अभिधीयतॆ? उच्चनीचपरिवर्तसंज्ञार्थम् अयम् आरम्भः । तत्र द्वियॊगमात्रम् ऎव प्रतिपादितम् । अथ च तत् द्वयॊः द्वयॊः ग्रहयॊः भगणविशॆषः इति अभिहितः । न उच्चग्रहभगणविशॆषः इति [ पृथक् उक्तिः ] ।

[अश्वयुजाद्याः गुर्वब्दाः ]

गुरुवर्षनिरूपणाय आह 

गुरुभगणाः राशिगुणाः अश्वयुजाद्याः गुरॊः अब्दाः ॥ ४ ॥

गुरुभगणाः राशिगुणाः । गुरॊः भगणाः गुरुभगणाः, बृहस्पतिभगणाः इति यावत् । राशिगुणाः द्वादशगुणाः इति यावत् । अश्वयुजाद्याः गुरॊः अब्दाः । अश्वयुक् अब्दः, आदौ भवति [इति] आद्यः, अश्वयुक् आद्यः यॆषाम् तॆ अश्वयुजाद्याः । गुरॊः अब्दाः गुरॊः संवत्सराः इति अर्थः । तॆ च अश्वयुक्-कार्तिक-मार्गशीर्ष-पौष-माघ-फाल्गुन-चैत्र-वैशाख-ज्यॆष्ठ-आषाढ-श्रावण-प्रौष्ठपदाख्याः । अत्र त्रैराशिकम्  यदि चतुर्युगाहर्गणॆन ऎतॆ गुरॊः अब्दाः वसुवसुरसाकाशमुनिदहनकृताः [४३७०६८८] [लभ्यन्तॆ, तदा] कलियाताहर्गणॆन कियन्तः इति । लब्धाः समतिक्रान्ताः समाः । लब्धासु समासु द्वादशभक्तॆ, शॆषाः अश्वयुजाद्याः समाः । कथम् इदम् विज्ञायतॆ अश्वयुजाद्याः समाः इति ? उच्यतॆ  "अश्वयुजाद्याः गुरॊः अब्दाः" इति वचनात् । ननु तत् ऎव वचनम् अस्माभिः चॊदितम् परिहारः अपि अस्माभिः उच्यतॆ । यस्मात् युगादौ अश्विन्याम् अमरपतिगुरुरुदयशिखरिशिखरमधिरूढः तस्मात् अश्वयुजाद्याः गुरॊः समाः ।

उक्तम् च 

यस्मिन् उदॆति नक्षत्रॆ प्रवासॊपगतः अंगिराः ।

संवत्सरः तदृक्षादिः बार्हस्पत्यः प्रगण्यतॆ ॥ इति ।

अथ वसुवसुरसाकाशमुनिदहनकृतसंख्यैः [४३७०६८८] त्रैराशिकॆन बृहस्पतिः अपि आनीयतॆ । कथम्? यदि चतुर्युगाहर्गणॆन वसुवस्वादयः बृहस्पतिराशयः लभ्यन्तॆ, [तदा] कलियाताहर्गणॆन कियन्तः इति लब्धाः राशयः । शॆषॆ त्रिंशदादिगुणितॆ भागलिप्ता[दयः] । ऎवम् इदम् अर्थात् आपन्नम् भवति । यॆ समतिक्रान्ताः गुरॊः राशयः तॆ समतिक्रान्ताः गुरॊः अश्वयुजाद्याः संवत्सराः, शॆषॆ च वर्तमानः इति ।

अथ वसुवस्वादयः गुरॊः संवत्सराः इति अभिधीयन्तॆ । ननु च तैः युगसंवत्सरैः तुल्यैः भवितव्यम्? न इति आह । यॆ युगसंवत्सराः तॆ सौर्यॆण मानॆन दृष्टाः, अम् च यॆ गुरॊः अब्दाः तॆ गुरुमानॆन । त्तत् ऎव युगम् सौर्यॆण अनुमीयमानम् गगनजलदबिन्दुमॆ[घ]यमहुताशकृत [४३२००००] संख्यम् । तत् ऎव बार्हस्पत्यॆन वसुवस्वादि [४३७०६८८] संख्यम् । बार्हस्पत्याब्दम् बृहस्पतॆः राशिभॊगः इति न सौर्यबार्हस्पत्यौ तुल्यौ इति ॥ ४ ॥

[ सौरचान्द्रसावननाक्षत्रमानानि ]

सौर-चान्द्र-सावन-नाक्षत्रमानप्रदर्शनार्थम् आह 

रविभगणाः रव्यब्दाः रविशशियॊगाः भवन्ति शशिमासाः ।

रविभूयॊगाः दिवसाः भावर्ताः च अपि नाक्षत्राः ॥ ५ ॥

रविभगणाः रव्यब्दाः । रवॆः भगणाः, रविभगणाः, रव्यब्दाः, रविवर्षाणि इति यावत् । यॆ ऎव रविभगणाः तॆ ऎव रव्यब्दाः । तथा इदम् अनुक्तम् अपि गम्यतॆ रविराशि-भाग-लिप्ता रविमास-दिवस-नाड्यः इति । यस्मात् द्वादशराशयः भगणः, त्रिंशद्भागा राशिः, भागषष्ट्यवयवः लिप्ता, षड्राशयः अयनम् उत्तरम् दक्षिणम् च मकरकुलीरादितः इति । कथम् इदम् अवसीयतॆ मकरकुलीरादितः इति न पुनर् धनिष्ठादॆः आश्लॆषार्धात् इति, यस्मात् उक्तम्

अर्धाश्लॆषात् श्रविष्ठादॆः प्रवृत्तॆ दक्षिणॊत्तरॆ ।

क्षॆमसस्यसुभिक्षाख्यॆ तु अयनॆ घर्मतॆजसः ॥ इति ।

अत्र उच्यतॆ  श्रुत्यॊः भिन्नवाक्यता । शक्यतॆ ऎव तत् वक्तुम्, अदृष्टार्थत्वात् । "श्रुत्यर्थानुष्ठानफलस्य सर्वशाखाप्रत्ययम् ऎकम् कर्म" इति । श्रुतिस्मृत्यॊः पुनर् भॆदॆ या च स्मृतिः प्रत्यक्षाविरुद्धा सा परिगृह्यतॆ । इयम् अस्माकम् स्मृतिः प्रत्यक्षाव्यभिचारिणी, यतः प्रत्यक्षॆण ऎव उत्तरदक्षिणप्रवृत्तिः मकरकर्कटादितः ऎव उपलक्ष्यतॆ । कथम्? यस्मात् धनुषः अन्तॆ मकरादिस्थितॆ विध्वस्ताशॆषध्वान्तसंघातॆ भगवति भास्करॆ दिनमध्यंगतॆ सर्वमध्याह्नच्छायाभ्यः महती मध्याह्नच्छाया लक्ष्यतॆ । सा च क्रमॆण अपचीयमाना मकरादितः ऎव, न श्रविष्ठादॆः । यत् च कर्कटादौ सर्वमध्याह्नच्छायाभ्यः स्वल्पीयसी मध्याह्नच्छाया, सा च क्रमॆण उपचीयमाना कर्कटादितः ऎव, न अश्लॆषार्धात् इति अतः प्रत्यक्षसिद्धम् अयनम् ।

अथवा अयम् अन्यार्थपरः ऎव ग्रन्थः । कर्कटादॆः दक्षिणायनम् मकरादॆः च उत्तरायणम् इति ऎतस्य अभ्युपगमात् ऎव उच्यतॆ  यदा भवगान् भास्करः अर्धाश्लॆषात् दक्षिणम् मार्गम् प्रवर्ततॆ पुनर्वस्वॊः चतुर्थांशदिम् [अर्थात् कर्कटादिम्] परित्यज्यतॆ तदा क्षॆमसस्यसुभिक्षाः भवन्ति । यदा च मकरादिम् परित्यज्य श्रविष्ठादॆः उत्तरम् [मार्गम्] प्रतिपद्यतॆ तदा च तत्फलार्थत्वम् इति । अथ अयम् विवस्वान् कथम् ऎवम् प्रवर्ततॆ इति? उच्यतॆ  ग्रहाणाम् द्वयी गतिः, संख्यानुगता, औत्पातिकी च । यदा औत्पातिकी गतिः ऎवम् प्रकारा भवति तदा क्षॆमसस्यसुभिक्षाख्यॆ अयनॆ [भवतः] । यदा पुनर् कर्कटमकरादिम् अप्राप्त्वा ऎव दक्षिणॊत्तरप्रवृत्ति निवृत्ती भवतः तदा अक्षॆमा असस्या असुभिक्षा इति ऎतत् प्रदर्शयति । 

अपि अत्र अविदितपरमार्थाः रॊमकाः पठन्ति 

वसुदैवादिसार्पार्धात् अयनम् मुनयः जगुः ।

मृगकर्क्यादितः दृष्टम् कथम् तत् हि गतॆः विना ॥

इति आदिग्रन्थॆन । क्षुद्रविद्रावणॊपन्यासक्रमॆण युगभगणान् आहुः 

तस्मात् अत्र वियद्रुद्रकृतनन्दधृतीः (१८९४११०) युगम् ।

भगणान् सप्तविश्वाख्यानादित्यान्त्यॊत्क्रमात् क्रमात् ॥ इति ।

अत्र कथम् इदम् घटतॆ यदि उत्क्रमॆण क्रमात् वा पुनर् वस्वॊः मॆषादॆः अपि दक्षिणायनम् प्रवर्ततॆ न कर्कटादौ ऎव? तथा च वर्षा‌ऋतुः मॆषादॆः प्रवर्तॆत [मकरादॆः] वसन्तः । तथा च कालविपर्यासः प्रसज्यॆत । ऎवम् च श्रुत्यर्थः न अनुष्ठितः भवति । "वसन्तॆ यजॆत", चैत्रवैशाखौ वसन्तः, "मधुः च माधवः च वासन्तिकौ ऋतू" [तैत्तिरीयसंहिता, ४.४.११] । तथा च "शरदि वाजपॆयॆन यजॆत्", अश्वयुक्कार्तिकौ शरत्, "इषः च ऊर्जः च शारदौ ऋतू" [तैत्तिरीयसंहिता, ४.४.११] इति । इदम् च ज्यॊतिषाम् अयनम् अंगम् वॆदस्य । तस्मात् न अयनस्य गतिः । मकरकर्कटादितः अयनम् इति । सर्वसिद्धान्तगुरुः आचार्यलाटदॆवः आह  

मकरादौ उदगयनम् दक्षिणम् अयनम् च चन्द्रभवनादौ । इति ।

ऋतुनिश्चयाय आह 

ऋतवः शिशिर-वसन्त-ग्रीष्म-घनागम-शरद्-हिमागमनाः ।

मकरात् राशिद्वयगतदिनकरभॊगस्थितिसमानाः ॥ इति ।

अन्यत् च  अपक्रमवृद्धिः धनुः मिथुनान्तॆ ऎव इति । रात्रिदिवसयॊः महती वृद्धिः मकरकर्कटादौ ऎव, न अन्यतः ऎव इति । प्रत्यक्षसिद्धम् इदम् इति । अतः अयनयुगभगणपरिकल्पना मुधा ।

अथ इदम् प्रष्टव्यम्  स्फुटगत्या परिगह्यन्तॆ आहॊस्वित् मध्यमगत्या इति । यदि मध्यमगत्या, [तदा] यानि सौर्यमानाभिहितानि प्रयॊजनानि तानि मध्यमगत्या प्राप्नुवन्ति, स्फुटगत्या चॆष्यन्तॆ । कानि पुनर् तानि प्रयॊजनानि इति? उच्यतॆ 

वायॊः मूर्च्छनम् अभ्राणाम् उत्पत्तिः चक्षुषॊः बलम् ।

शीतॊष्णवर्षप्राप्तिः च प्रसादः सलिसस्य च ॥

सत्त्वानाम् मदलाभाः स्युः आर्तवः च अपि यॊषिताम् ।

फलपुष्पॊद्गमम् च ऎव पत्रांकुरविरॊहणम् ॥

अयनाना[म् ऋतूनाम्] च मुहूर्तानाम् च दर्शनम् ।

परिवॆषपरीधानम् परिधीनाम् तथा ऎव च ॥

गन्धर्वनगराणाम् च तथा इन्द्रधनुषाम् अपि ।

उल्कानाम् अशनीनाम् च सन्ध्ययॊः विद्युताम् तथा ॥

भूरथाभ्रनिनादानाम् धिष्ण्यानाम् पतनस्य च ।

ज्यॊतिषाम् वर्णभॆदस्य ग्रहाणाम् चॆष्टितस्य च ॥

अग्नॆः औष्ण्यस्य शक्त्यॊः च विलयस्य उद्भवस्य च ।

सौरम् मानम् विजानीयात् प्रवर्तकनिवर्तकम् ॥ इति आदि प्रयॊजनानि ।

यदि स्फुटगत्या तत् ऎतानि प्रयॊजनानि परिगृहीतानि भवन्ति, इदम् तु न सिद्ध्यति अधिकावमानाम् ग्रहणम् । यस्मात् अधिकावमानाम् ग्रहणम् मध्यमॆन मानॆन । अथ कथम् स्फुटार्थम् वचनम् मध्यमगतिप्रतिपत्तयॆ भविष्यति । अथ मध्यमगतिप्रतिपत्तयॆ स्फुटार्थम् कथम् इति । न ऎषः दॊषः । "शल्यर्थम् कुल्याः प्रणीयन्तॆ, ताभ्यः च पानीयम् पीयतॆ, तासु च उपस्पृश्यतॆ" [अष्टाध्यायी, १.१.२२ पातञ्जलभाष्यम्] इति सिद्धम् । ऎतत् उभयग्रहणात् उभयम् अत्र परिगृह्यतॆ इति मध्यमगत्या स्फुटगत्या च । मध्यमगत्या अधिकावमानाम् ग्रहणम् सिद्धम्, स्फुटगत्या च संहिताकाराभिहितानि प्रयॊजनानि ।

रविशशियॊगाः भवन्ति शशिमासाः । रवॆः शशिनः च यॊगाः रविशशियॊगाः । भवन्ति शशिमासाः । यॆ युगॆ रविशशियॊगाः अभिहिताः तॆ शशिमासाः । तॆ च प्राग् यथा सिद्ध्यन्ति तथा व्याख्यातम् । शशिमासैः शशिदिवसघटिकाः व्याख्याताः । शशिमासॆन कानि पुनर् प्रयॊजनानि?

दर्शम् च पौर्णमासम् च तथॆज्याद्याः क्रिया भुवि ।

पर्वाणाम् च परिज्ञानम् तिथीनाम् प्रत्ययः तथा ॥

प्राबल्यम् औषधीनाम् च रसानाम् व्यक्तिः ऎव च ।

पूरणम् हीनता च इन्दॊः तथा ऎव लवणाम्भसः ॥

गर्भाणाम् जीवनम् च अपि तथा अपि अयनम् ऎव च ।

राहॊः आगमनप्राप्तिः [च] ऐन्दवम् मानम् आश्रिताः ॥

ऎवम् आदीनि प्रयॊजनानि ।

रविभूयॊगाः दिवसाः । रवॆः भुवः च यॊगाः रविभूयॊगाः । यॆ युगॆ रविभूयॊगाः तॆ युगॆ भूदिवसाः । भूदिवसः नाम रवॆः अर्धॊदयात् प्रभृति पुनर् अर्धॊदयम् इति । सावनः दिवसः भूदिवसः इति उच्यतॆ । रॊमकैः स ऎव भूदिवसः रव्युदयः इति संज्ञितः । कानि पुनर् सावनमानस्य प्रयॊजनानि?

यज्ञकालपरिज्ञानम् यज्ञॆषु सवनानि च ।

व्रतः दीक्षणकालः च चूडॊपनयनानि च ॥

आयुषाम् च अपि निर्लॆखा प्रयॊगाणाम् च वृद्धयः ।

ग्रहचारपरिज्ञानम् आदॆशगमनानि च ।

यानि च अपि ऎवम् आदीनि संख्यॊद्दिष्टानि तानि वै ।

सावनॆन ऎव मानॆन गण्यन्तॆ इति निश्चयः ॥

ऎतानि प्रयॊजनानि ।

भावर्ताः च अपि नाक्षत्राः । भानाम् आवर्ताः भावर्ताः, भचक्रभ्रमणानि । तत् च भचक्रम् किम् आदिः ? इति ऎतत् विचार्यम् । यदि मॆषादिः स्यात् [तदा] मॆषादिस्थॆ सवितरि सवितृ भचक्राद्यॊः युगपत् उदयः, द्वितीयः पुनर् अनुदितॆ ऎव सवितरि भचक्राद्युदयः, न च भचक्रादिद्वयॊदयान्तरॆ षष्टिः नाड्यः । तथा च "प्राणॆन इति कलाम् भम्" [गीतिका, ६] इति चक्रलिप्तानाम् अहॊरात्रघटिकाप्रमाणलिप्तानाम् च तुल्यता न उपपद्यतॆ, यस्मात् अपूर्णॆ ऎव अहॊरात्रॆ भचक्रादिः उदॆति । यदा पुनर् आदित्यॊदयः भचक्रादिः परिगृह्यतॆ तदा अहॊरात्रप्राणाः स्वदॆशराश्युदयप्राणतुल्याः । तॆ च खखषड्घनतुल्याः । भचक्रलिप्ताः च तावत्यः इति ऎतत् उपपन्नम् ।

अन्यत् च  उदयलग्नविधिः सूर्यात् ऎव प्रवर्ततॆ, औदयिकात् च रवॆः । स चॆष्टकालॆ स्वाभीष्टकालादित्य[राशॆः विचार्य]माणः यावत् पुनर् उदयः इति तावत् न अन्तरम् विदधाति । तस्मात् रव्युदयः ऎव भचक्रादिः, व्यवहारप्रसिद्ध्यर्थम् । यदि ऎवम् ग्रहभुक्तराशयः रव्याक्रान्तराशिप्रदॆशात् ऎव प्राप्नुवन्ति? न ऎषः दॊषः, "बुधाह्न्यजार्कॊदयात् च लंकायाम्" [गीतिका, ४] इति ऎषाम् अजादिनिरूपणात् । कुभगणाः च युगाद्यन्तयॊः अजार्कॊदयात् ऎव प्रतिपरिसमाप्ताः

इति तॆषाम् च अजादिता सिद्धा । तॆ ऎव युगभचक्रावर्ताः नाक्षत्रदिवसाः भूदिवसाः इति, दिवसग्रहणानुवर्तनात् । कॆ पुनर् तॆ भावर्ताः? यॆ कुभगणाः, "कु ङिशिबुण्लृष्खृ" [१५८२२३७५००] इति गीतिकासु [गीतिका, ३] उक्ताः । कथम् ऎतॆ कुभगणाः भावर्ताः इति उक्ताः? भचक्रप्रतिवद्धानि नक्षत्राणि । तस्य प्रवहाक्षॆपात् अपराम् दिशम् आसादयन्ति । नक्षत्राणि भुवम् स्वगत्या प्राङ्मुखम् भ्रमन्तीम् इव पश्यन्ति इति अनया गत्या भुवः भगणानिर्दॆशाः । तॆन उक्तम् 

 "भावर्ताः च अपि नाक्षत्राः" इति । अन्यॆ पुनर् "क्व आवर्ताः च अपि नाक्षत्राः" इति पठन्ति । तॆषा पाठात् ऎव हि सर्वम् उपपन्नम् ।

अथ अन्यॆ पुनर् अन्यथा वर्णयन्ति 

द्दर्शात् दर्शः चान्द्रः त्रिंशत् दिवसाः तु सावनः मासः ।

सौर्यः अर्कराशिभॊगः नाक्षत्रः च इन्दुमण्डलकम् ॥ [लाटदॆवस्य कृतितः]

दर्शात् दर्शः चान्द्रः इति सूर्याचन्द्रमसॊः यः परः सन्निकर्षः स दर्शशब्दॆन उच्यतॆ, स च तयॊः यॊगः । "रविशशियॊगाः भवन्ति शशिमासाः" इति तुल्यम् लक्षणम् । त्रिंशत् दिवसाः तु सावनः मासः इति ऎतत् अपि "रव्युदयाः त्रिंशत् " इति तुल्यम् । सौर्यः अर्कराशिभॊगः इति "रविभगणाः रव्यब्दाः", "रवॆः राशयः अपि रविमासाः" इति ऎतत् अपि तुल्यम् लक्षणम् । "नाक्षत्रम् च इन्दुमण्डलकम्" इति इन्दॊः मण्डलम् नाक्षत्रः मासः इति । तत्र प्रत्यहम् यः चन्द्रभॊगः स तन्मासावयवः इति । 

नक्षत्राणि अपि विभज्यन्तॆ । तत् यथा  यः चन्द्रभगणस्य त्रिंशद्भागः स नाक्षत्रः दिवसः । ऎवम् नवनक्षत्रदशभागः नाक्षत्रः दिवसः इति ऎतत् अभिन्नम् लक्षणम् ।

अस्माकम् आचार्यॆण स्वतन्त्रान्तराविरुद्धप्रक्रियाप्रतिपादनार्थम् इदम् उक्तम् "भावर्ताः च अपि नाक्षत्राः" इति । का च स्वतन्त्रान्तरप्रक्रिया? "प्राणॆन ऎति कलाम् भम्" [गीतिका, ६] इति, प्राणॆन कलाम् भम् गच्छति इति ज्यॊतिश्चक्रलिप्तानाम् भावर्तप्राणानाम् च तुल्यत्वॆ ज्यादयः विधयः सिद्ध्यन्तॆ, न अन्यथा इति इयम् प्रक्रिया । यॆषाम् च "नाक्षत्रम् च इन्दुमण्डलकम्" इति लक्षणम्, तैः  संहिताकाराभिहितप्रयॊजनसिद्ध्यर्थम् उक्तम् । अत्र ऎकॆन लक्षणॆन प्रयॊजनस्य अपरिग्रहात् लक्षणद्वयम् इदम् इष्यतॆ । कथम्? तत्र आवृत्तिः ऎकशॆषः इति, भावर्तशब्दस्य ऎकशॆषव्याख्यानात् भावर्ताः च भावर्ताः च, भावर्ताः । भानि ज्यॊतींषि अश्विन्यादीनि । तॆषाम् आवर्ताः भावर्ताः, भपर्ययाः इति अर्थः । पर्ययः च नक्षत्राणाम् चन्द्रविषयः ऎव परिगृह्यतॆ, लॊकव्यवहारात् । लॊकः हि चन्द्राक्रान्तनक्षत्रैः ऎव व्यवहरति । अथवा अन्यार्थम् प्रकृतम् अन्यार्थम् अपि भवति, "शाल्यर्थम् कुल्याः प्रणीयन्तॆ, तासु च उपस्पृश्यतॆ" [अष्टाध्यायी, १.१.२२, पातञ्जलमहाभाष्यम्] इति । अथवा "भावर्तः च नाक्षत्रः" इति ऎकवचनॆन सिद्धॆ "भावर्ताः च नाक्षत्राः" इति बहुवचननिर्दॆशम् कुर्वन् आचार्यः ज्ञापयति नाक्षत्रस्य अनॆकलक्षणम् इति । अथवा चकारः अत्र प्रयुक्तः, न तॆन अत्र कश्चित् अर्थः साध्यतॆ, अथ च प्रयुक्तॆन मन्यामहॆ नाक्षत्रस्य अनॆकम् लक्षणम् इति । तत् च अनॆकम् लक्षणम् यथा व्यवस्थितम् तथा व्याख्यातम् इति अतः लक्षणद्वयम् अपि स्वसिद्धान्तसिद्धम् ।

अथ नाक्षत्रस्य मानस्य कानि प्रयॊजनानि?

संवत्सराणाम् मासानाम् ऋतूनाम् पर्वणाम् तथा ।

अयनानाम् च सर्वॆषाम् समाप्तिप्रतिपत्तयः ॥

शुभाशुभम् च लॊकानाम् मानम् उन्मानम् ऎव वा ।इति ऎवमादीनि प्रयॊजनानि ।

अथ इयम् उक्तिः वाग्वागुरा क्षुद्रविद्रावणपरा नाक्षत्रमानप्रदर्शितप्रयॊजनैः लक्ष्यतॆ "संवत्सराणाम् मासानाम् ऋतूनाम्" इति । संवत्सराणाम् तावत् प्रतिपच्छॆदनिमित्तम् नाक्षत्रम् [न] भवति, यतः संवत्सरः शास्त्रॆ चैत्रशुक्लादॆः प्रवर्ततॆ । स च चैत्रशुक्लादिः चान्द्रॆण उपलक्ष्यतॆ । संहिताकाराणाम् च बृहस्पतिचारॆ यः संवत्सरः बृहस्पतॆः नक्षत्रॊदयात् प्रवर्ततॆ 

यस्मिन् उदॆति नक्षत्रॆ प्रवासॊपगतः अंगिराः । इति । मासानाम् अपि न भवति । यस्मिन् कृत्तिकाभिः युतः चन्द्रमाः, अस्मिन् मासॆ अर्धमासॆ च इति कार्तिकः मासः । स चन्द्रनक्षत्रयॊगविशॆषः चान्द्रः मानविशॆषः । ऋतूनाम् अयनानाम् [च ज्ञानम्] सौर्यॆण मानॆन इति प्रदर्शितम् ऎव अस्माभिः । तस्मात् ऎतत् न नाक्षत्रमानम् । यैः "नाक्षत्रम् च इन्दुमण्डलकम्" इति अस्य अनुवर्तनात् "भावर्ताः च नाक्षत्राः" इति अस्य शब्दार्थव्याख्यानॆ नैकशॆषबहुवचननिर्दॆशः [कृतः] "च"-शब्दात् इति बुधैः ऎव विदितपरमार्थैः

मुखम् आयासितम् । तस्मात् अस्माकम् आचार्यॆण अतीन्द्रियार्थदर्शिना अभिहितम् आचार्यार्यभटॆन तत् ऎव नाक्षत्रमानम् । तस्मात् "इयम् उक्तिः वग्वागुरा क्षुद्रविद्रावणपरा  नाक्षत्रमानप्रदर्शितप्रयॊजनैः लक्ष्यतॆ" इति सुष्ठु उक्तम् । अथ ऎतानि सौर्य-सावन-चान्द्र-नाक्षत्राणि मानानि मध्यमगत्या प्रतिपादितानि । तत्प्रयॊजनार्थम् स्फुटगत्या प्रतिपत्तव्यानि इति प्रदिष्टम् । आचार्यलाटदॆवॆन तु स्फुटगत्या ऎव प्रतिपादितानि 

दर्शात् दर्शः चान्द्रः त्रिंशत् दिवसाः तु सावनः मासः । इति आदिग्रन्थॆन इति ।

अत्र च अयम् प्रश्नः  "अवमाधिमासकैः विना द्युगणम्" इति । यातवर्षाणि मासीकृत्य वर्तमानमासैः संयॊज्य त्रैराशिकम्  यदि युगरविमासैः युगचान्द्रमासाः लभ्यन्तॆ, [तदा] ऎतैः [रविः] मासैः कियन्तः चान्द्रमासाः इति, लब्धम् चान्द्रमासाः । तॆ त्रिंशद्गुणाः वर्तमानतिथियुक्ताः कार्याः । ततः त्रैराशिकम्  यदि युगचान्द्रदिवसैः युगाहर्गणः लभ्यतॆ [तदा] ऎतैः चान्द्रदिवसैः किम् इति, अहर्गणः लभ्यतॆ । तत्र ऎकः प्रक्षॆपः । अथ कः च असौ ऎकः प्रक्षॆपः? उच्यतॆ  यः असौ लभ्यतॆ अहर्गणः स अतीतः । शॆषः वर्तमानः । वर्तमानॆन अहर्गणः भवति इति ऎकः प्रक्षॆपः । "तॆन दिवाकरॊडुपौ" इति ऎतत् उत्तरत्र वक्ष्यतॆ । ताभ्याम् स्फुटपर्वदर्शनम् इति ।

चन्द्रादित्याभ्याम् विना स्फुटतिथ्यानयनम् । तत् यथा  "[यदि] युगाहर्गणॆन चन्द्रवर्षाणि वसुमुनिगिरियमविषयकृतवॆद [४४५२७७८] तुल्यानि लभ्यन्तॆ, तदा अनॆन इष्टाहर्गणॆन कियन्ति इति वर्षाणि लभ्यन्तॆ । शॆषॆ द्वादशा[दि]गुणितॆ मास-दिवस-घटिका-विघटिकाः च लभ्यन्तॆ । ऎवम् मध्यमा तिथिः भवति । अथ शश्युच्चनीचपरिवर्तैः त्रैराशिकम्  यदि युगाहर्गणॆन शश्युच्चनीचपरिवर्ताः लभ्यन्तॆ, [तदा] अनॆन इष्टाहर्गणॆन कियन्तः इति, अतीताः परिवर्ताः लभ्यन्तॆ । शॆषॆ द्वादशादिगुणितॆ राश्यादयः लभ्यन्तॆ । त्रिराशिरहितम् शशिकॆन्द्रम् । ततः फलम् शशिभुक्तिः च आनीयतॆ । फलस्य द्वादशभिः भागॆ नाड्यः विनाड्यः च लभ्यन्तॆ । तावत् मध्यमतिथौ यथान्यायॆन ऋणम् धनम् वा कर्तव्यम् । सूर्यानयनार्थम् त्रैराशिकम्  यदि युगाहर्गणॆन वसुमुनिगिरियमदहनॆन्दु[१३२७७८]तुल्यानि अधिकवर्षाणि लभ्यन्तॆ, तदा कलियाताहर्गणॆन कियन्तः इति, वर्ष-मास-दिवस-घटिकाः लभ्यन्तॆ । प्रतिराशितमध्यमतिथिवर्षादिभ्यः तॆ शॊध्याः शॆषम् रविवर्षादयः । तॆभ्यः मासद्वयम् [२] च अष्टादश [१८] च दिवसान् अपनीय रविकॆन्द्रम् भवति । तॆन फलानयनम् भक्त्यानयनम् च । फलस्य द्वादशभिः भागॆ लब्धाः नाड्यः विनाड्यः च । तिथौ ऎव ऋणधनव्यत्यासम् कुर्यात् । अथ किम् इति ऋणधनव्यत्यासः क्रियतॆ? उच्यतॆ  सूर्यस्य यत् ऋणम् तत् तिथॆः उपचयः, धनम् यत् तत् अपचयः इति । ऎवम् तिथिः निष्पन्ना भवति । ततः इदम् क्रियतॆ  यदि मध्यमभुक्त्यन्तरॆण षष्टिः नाड्यः लभ्यन्तॆ, [तदा] स्फुटगत्यन्तरॆण कियत्य इति, गत्यन्तरनाड्यः उपलभ्यन्तॆ । ताभिः त्रैराशिकम्  यदि ऎताभिः गत्यन्तरनाडिकाभिः षष्टिः नाड्यः लभ्यन्तॆ, [तदा] अनॆन तिथिशॆषॆण कियत्य इति तिथिनाड्यः विनाड्यः च लभ्यन्तॆ । अथवा त्रैराशिकद्वयम् भंक्त्वा इदम् कर्म क्रियतॆ । मध्यमभुक्त्यन्तरॆण तिथिशॆषम् गुणयित्वा स्फुटभुक्त्यन्तरॆण भागसिद्धम् घटिकाविघटिकाः च । कथम् पुनर् त्रैराशिकद्वयम् भिन्नम्? उच्यतॆ  यदि मध्यमभुक्त्यन्तरॆण षष्टिः नाड्यः लभ्यन्तॆ [तदा] स्फुटभुक्त्यन्तरॆण कियत्य इति ऎकम् त्रैराशिकम् । पुनर्  लब्धॆन फलॆन यदि षष्टिः नाड्यः, [तदा] अनॆन तिथिशॆषॆण कियत्य इति । यः पूर्वत्रैराशिकॆ गुणकारः स इह अर्थात् भागहारः इति । अथ दॆशान्तरविशॆषॆण च अक्षविशॆषॆण च यत् फलम् उपजायतॆ तत् अपि युक्त्या यॊजयितव्यम् इति ॥ ५ ॥

[ अधिमासावमदिनानि]

अधिमासावमपरिज्ञानाय आह 

अधिमासकाः युगॆ तॆ रविमासॆभ्यः अधिकाः तु यॆ चान्द्राः ।

शशिदिवसाः विज्ञॆयाः भूदिवसॊनाः तिथिप्रलयाः ॥ ६ ॥

यॆ रविमासॆभ्यः अधिकाः चान्द्रमासाः तॆ युगॆ युगॆ अधिमासाः भवन्ति, यॆ च भूदिवसॊनाः शशिदिवसाः तॆ युगॆ तिथिप्रलयाः । प्रलयः विनाशः । तिथीनाम् प्रलयाः तिथिप्रलयाः । अवमरात्राणि इति अर्थः । ऎवम् ब्रुवता ऎतत् प्रदर्शितम् भवति  सौर्यचान्द्रान्तरम् अधिमासभॊगः, सावमम् सावनम् चान्द्रम् मानम् इति । अधिकावमयॊः मध्यमगत्या उपचयः इति उक्तम् । यदि स्फुटगत्या स्यात् तदा द्वितीयायाम् प्रवृत्तायाम् प्रतिपत् तृतीया [नि]वृत्तिप्रवृत्ती न स्तः । अधिमासावमैः किम् निर्वर्त्यतॆ? अहर्गणः इति आह । न ऎतत् अस्ति, विना अपि अधिमासावमैः अहर्गणस्य निर्वर्तितत्वात् । न ऎषः दॊषः, उपायान्तरत्वात् । अधिमासावमैः विना अहर्गणस्य साधनम् प्रदर्शितम् । यॆन च अधिमासावमैः अहर्गणः लभ्यतॆ स उपायः प्रदर्शयितव्यः । न ऎतत् अस्ति, ऎकॊपायत्वात् । स च अयम् च ऎकः उपायः । कथम् ऎकॊपायता? यॆ चान्द्रमासाः तॆ साधिकाः तॆषाम् साधिकत्वात् साधिकः ऎव मासराशिः लभ्यतॆ । पुनर् अपि च भूदिवसानाम् रहितावमत्वात् त्रैराशिकॆन रहितावमः अहर्गणः लभ्यतॆ । अथ कश्चित् लघूकरणार्थी गुणकारात् भागहारम् अपनयॆत् तस्य शॆषगुणितॆ लब्धम् प्रतिराशितगुण्यॆ [क्षिपॆत्] । यदि भागहारात् अवशिष्यतॆ तत्र शॆषगुणितॆ लब्धम् गुण्यात् प्रतिराशितात् अपनीयम् इति ऎषः गणितन्यायः । अथ अत्र गुणकाराधिकत्वात् मासाः क्षिप्यन्तॆ भागहाराधिकत्वात् दिवसाः अपचीयन्तॆ इति ऎकॊपायता । तस्मात् न अर्थः अनया कारिकया, तथापि लॊकव्यवहारार्थम् अधिमासावमानाम् 

उपदॆशः कर्तव्यः । लॊकः च अधिमासावमैः व्यवहरति । उक्तम् च  "करणाधिष्ठितम् अधिमासकम् कुर्यात्", "त्रिशतम् सचतुष्पञ्चाश[तम् अ]हॊरात्राणाम् कर्म सांवत्सरः" इति । अधिमासार्थम् त्रैराशिकम्  यदि युगवर्षैः मासैः वा युगाधिमासकाः लभ्यन्तॆ, ततः यातवर्षादिभिः कियन्तः इति अधिमासकलब्धिः । ऎवम् ऎव अवमानाम् चान्द्रदिवसैः इति ।

अत्र च अयम् प्रश्नः  "तॆन दिवाकरॊडुपौ" इति अहर्गणॆन विना चन्द्रादित्यानयनम् । तत् यथा  यातवर्षॆषु द्वादशगुणितॆषु गतमासान् क्षिपॆत् । ततः त्रिंशद्गुणितॆषु दिवसान् प्रक्षिप्य त्रैराशिकम्  यदि पूर्णवियदम्बरजलधरपयॊधरयमशरविषयॆषुचन्द्रैः [१५५५२०००००] युगसौरदिवसैः युगाधिमासकाः लभ्यन्तॆ, ततः ऎतैः दिवसैः कियन्तः इति, लभ्दम् अधिमासकाः । शॆषॆ क्षॆपः उच्यतॆ  यदि भूदिवसतुल्यॆन अवमशॆषॆण युगाधिमासतुल्यः उपचयः अधिमासकशॆषस्य लभ्यतॆ, तदा अनॆन अवमशॆषॆण कियान् इति । यत् लब्धम् तत् अधिमासकशॆषॆ प्रक्षिप्य युगचान्द्रमासैः रसरामाग्निगुताशनत्रिकृतत्रिविषयैः [५३४३३३६] भागलब्धम् भागाः, षष्टिगुणितॆ लिप्ताः । त्रिंशगुणाधिकयुतम् दिवसराशिम् कृत्वा त्रैराशिकम्  यदि युगचान्द्रदिनैः युगावमदिनानि लभ्यन्तॆ, ततः ऎतैः किम् इति लभ्दम् अवमः । शॆषम् षष्ट्या संगुण्य भूदिवसैः पूर्णाम्बरशरनगशशिरन्ध्रमुनिगिरिविषयरूपैः [१५७७९१७५००]

विभजॆत्, लब्धम् घटिकाः ।

अथ किम् अर्थम् अधिकावमशॆषयॊः शशिमासभूदिवसैः भागः ह्रियतॆ? उच्यतॆ  यः असौ अधिमासशॆषः स चान्द्रमासावयवः । अतः तॆन सच्छॆदॆन त्रैराशिकम्  यदि युगशशिमासैः सूर्यभगणाः लभ्यन्तॆ, ततः अनॆन शशिमासावयवॆन कियन्तः इति । तत्र शशिमासावयवच्छॆदॆन सह रविभगणॆन अपवर्तनम्  रविभगणानाम् रविभगणभागॆन ऎकः गुणकारः, छॆदस्य तावत् भागॆन षष्टिशतत्रयम् । तत्र भगणॆषु भागम् न प्रयच्छति इति द्वादश त्रिंशत् च गुणकारः । तत्र षष्टिशतत्रयभागॆन रूपम्, तावत् भागॆन ऎव छॆदस्य अपि रूपम् ऎव । शशिमासाः ऎव कॆवलाः भागहाराः इति । अवमशॆषः अपि भूदिनावयवः इति त्रैराशिकम्  यदि भूदिनैः चान्द्रदिवसाः लभ्यन्तॆ, ततः अनॆन भूदिवसावयवॆन चान्द्रदिवसच्छॆदॆन किम् इति । तत्र गुणकारभागहारयॊः तुल्यत्वात् नाशः । शॆषॆ षष्टिगुणॆ भूदिवसभक्तॆ घटिकाः इति । अथ यातवर्षाणि भगणाः, मासाः राशयः, दिनानि भागाः इति परिकल्प्य अवमशॆषलब्धघटिकाः च लिप्ताः । ऎभ्यः अधिकशॆषलब्धम् विशॊधयॆत् । शॆषम् मध्यमसूर्यः । तॆभ्यः ऎव त्रयॊदशगुणितॆभ्यः अधिकशॆषफलम् विशॊधयॆत् । शॆषम् मध्यमचन्द्रः ।

अधिमासकैः अपि अवमाः आनीयन्तॆ । तत् यथा  अभीष्टवर्षाणि दिनीकृत्य त्रैराशिकम्  [यदि] युगसूर्यदिवसैः युगाधिमासकाः लभ्यन्तॆ, ततः ऎतैः अभीष्टसूर्यदिवसैः कियन्तः इति, अधिमासकाः समतिक्रान्ताः लभ्यन्तॆ, वर्तमानस्य च शॆषः । तत् ऎतत् त्रैराशिकम्  यदि युगाधिमासैः युगावमरात्रा[णि] लभ्यन्तॆ ततः ऎतैः अधिमासकैः अभीष्टैः कियन्तः इति गणितन्यायॆन सवर्णीकृत्य युगावमैः गुणयॆत् । अथवा अभीष्टाधिमासराशिम् अंशराशिम् च पृथक् पृथक् युगावमैः संगुणय्य अंशराशिम् युगसूर्यदिवसैः विभज्य लभ्दम् उपरि क्षिप्त्वा युगाधिमासकैः भागलब्धम् अभीष्टकालावमाः । अथवा त्रैराशिकद्वयम् भंक्त्वा अपि आनीयन्तॆ  यदि युगसूर्यदिवसैः अधिमासकाः लभ्यन्तॆ, ततः अभीष्टदिवसैः कियन्तः इति ऎकम् त्रैराशिकम् । ततः पुनर् अपि  यदि युगाधिमासकैः युगावमाः लभ्यन्तॆ, ततः त्रैरासिकन्यायविरचितराश्युत्पन्नाधिमासकैः कियन्तः इति । तत्र पूर्वत्रैराशिकॆ युगाधिमासकः गुणकारः द्वितीयत्रैराशिकॆ भागहारः । अतः गुणकारभागहारयॊः तुल्यत्वात् नष्टयॊः अभीष्टदिवसानाम् युगावमः गुणकारः, युगसौर्यदिवसः भागहारः, लब्धम् अभीष्टावमाः ।

अभीष्टावमैः अपि अधिमासकाः आनीयन्तॆ । अभीष्टवर्षमासॆषु तत् उत्पन्नाधिमासकान् प्रक्षिप्य त्रिंशता संगुणय्य त्रैराशिकद्वयम् क्रियतॆ  यदि युगशशिदिवसैः युगावमाः लभ्यन्तॆ ततः अभीष्टशशिदिवसैः कियन्तः इति अवमाः । ऎवम् ऎकम् त्रैरासिकम् । पुनर्  यदि युगावमैः युगाधिमासकाः लभ्यन्तॆ ततः अभीष्टावमैः पूर्वत्रैराशिकविरचितैः कियन्तः इति, अधिमासकाः लभ्यन्तॆ । तत्र पूर्वत्रैराशिकॆ युगावमाः गुणकारः, इह भागहारः । अतः गुणकारभागहारयॊः तुल्यत्वात् नष्टयॊः युगशशिदिवसः भागहारः, युगाधिमासकः गुणकारः, फलम् अभीष्टाधिमासकाः । पूर्ववत् वा पृथक् पृथक् त्रैराशिकॆन अपि करणीयम् ।

अथ अधिमासकैः अभीष्टग्रहाः अपि आनीयन्तॆ । तत् यथा  यदि युगाधिमासकैः अभीष्टग्रहभगणाः लभ्यन्तॆ, तदा इष्टाधिमासकैः कियन्तः इति । अधिमासपतनकालावधॆः अभीष्टग्रहभगणादयः लभ्यन्तॆ । असौ ऎव अभीष्टकालिकः क्रियतॆ । कथम्? अधिमासक[शॆषॆण] अभीष्टग्रहभगणान् संगुणय्य अधिमासकैः गुणितशशिदिवसैः विभजॆत् । तत्र भगणादयः लभ्यन्तॆ, [तॆ] पूर्वलब्धाधिमासकग्रहभगणॆषु यॊज्यन्तॆ तदा

अवमरात्रपतनकालावधॆः भवति । ततः पुनर् अपि अवमरात्रशॆषम् षष्ट्या संगुणय्य शशिदिवसैः ऎव विभजॆत् । लब्धम् घटिकाः । ततः  यदि षष्टिघटिकाभिः अभीष्टग्रहभुक्तिः लभ्यतॆ, [तदा] आभिः घटिकाभिः किम् इति । लब्धम् पूर्वस्थापितॆ ग्रहॆ दद्यात्, अभीष्टदिवसस्य उदयकालावधॆः [ग्रहः] भवति ।

अथ अवमैः अपि  यदि युगा[वमैः अभीष्टग्रहभगणाः] लभ्यन्तॆ ततः यातावमैः कियन्तः इति । अवमरात्रपरिसमाप्तिकालावधॆः अभीष्टग्रहभगणादयः लभ्यन्तॆ, ततः इष्टदिवसौदयिकः क्रियतॆ । कथम्? अवमरात्रशॆषॆण अभीष्टग्रहभगणान् संगुणय्य युगावमभूदिवससंवर्गॆण विभजॆत् । लब्धम् भगणादयः । तान् पूर्वलब्धभगणादिषु क्षिपॆत् । औदयिकः ग्रहः भवति ।

अत्र अयम् प्रश्नः 

अवमैः यः अधिकमासान् अवमानि च यः करॊति अधिकमासैः।

ताभ्याम् वा ग्रहम् इष्टम् तस्य अहम् शिष्यताम् यामि ॥ १ ॥  इति।

अधिमासावमशॆषाभ्याम् सूर्याचन्द्रमसॊः आनयनम् उक्तम् । इदानीम् अवमशॆषात् ऎव सर्वग्रहानयनम् अभिधास्यतॆ । तत् यथा  युगावमम् षष्ट्या अपवर्त्य स्थापना  ४१८०४३ । अथ आदित्यानयनॆ तावत् ऎतॆ अपवर्तितावमाः कॆन गुणिताः अपवर्तितादित्यभगणान् अपनीय तत् अपवर्तितभूदिनानाम् तु शुद्धम् भागम् दद्युः इति कुट्टाकारः क्रियतॆ । तत्र लब्धम् कुट्टाकारः सप्तॆन्दुरसाद्रिवसवः, अंकैः अपि ८७६१७ । अनॆन अवमशॆषम् संगुणय्य अपवर्तितभूदिनैः ऎव विभजॆत् । शॆषम् तत्र रवॆः मण्डलशॆषः । ऎतॆन आदित्यानयनम् व्याख्यातम् ।

उद्दॆशकः 

षट्सप्तबाणॆन्दुशराद्रिशून्यदस्रप्रमाणः अवमजातशॆषः ।

ऎतॆन शॆषः रविमण्डलानाम् वाच्यः विवस्वान् च कलान्तसंख्यम् ॥ २ ॥

अवमशॆषः २०७५१५७६ । लब्धम् रवॆः मण्डलशॆषः ४९६६५, रविः च २ । २४ । ५८ ।

चन्द्रस्य अपि कुट्टाकारानयनम् पूर्ववत् ऎव । अपवर्तितावमाः कॆन गुणिताः अपवर्तितचन्द्रभगणान् अपनीया अपवर्तित[भू]दिनानाम् शुद्धम् भागम् प्रयच्छति इति कुट्टाकारन्यायॆन लब्धम् कुट्टाकारः २११९२३६ । उद्दिष्टावमशॆषॆण चन्द्रानयनम् ।

अथवा मध्यमात् सूर्यात् सहयातभगणैः लिप्तीकृत्य त्रैराशिकम्  यदि युगरविलिप्ताभिः युगशशिभगणाः लभ्यन्तॆ, [तदा] ऎताभिः यातरविलिप्ताभिः कियन्तः इति । लब्धम् भगणाः, शॆषॆ द्वादशादिगुणितॆ मध्यमः चन्द्रः लभ्यतॆ । अथवा खखषड्घनॆन यदा युगरविलिप्ताः अपवर्तिताः भवन्ति [तदा] रविभगणाः भागहारः, शशिभगणाः यातरविलिप्तानाम् गुणकारः, फलम् मध्यमचन्द्रलिप्ताः । ऎवम् अनॆन न्यायन चन्द्रात् अभीष्टग्रहात् वा इष्टग्रहः आनीयतॆ । कथम्? निर्ज्ञातग्रहयातलिप्तानाम् अभीष्टग्रहभगणाः गुणकारः निर्ज्ञातग्रहयुगलिप्ताः भगणाः वा भागहारः, फलम् [भगणाः] लिप्ताः [वा] । अत्र अयम् प्रश्नः 

सवितुः शशिनम् करॊति यः शशिनः स्थितितः तारकग्रहान् ।

अस्मत्सिद्धान्तवर्जितात् कालज्ञप्रवरः स उच्यतॆ ॥ ३ ॥ इति ॥ ६ ॥

[ मानुषपितृदॆववर्षप्रमाणानि ]

मानुषपितृदॆवानाम् वर्षप्रमाणनिरूपणाय आह 

रविवर्षम् मानुष्यम् तत् अपि त्रिंशद्गुणम् भवति पित्र्यम् ।

पित्र्यम् द्वादशगुणितम् दिव्यम् वर्षम् विनिर्दिष्टम् ॥ ७ ॥

रविवर्षम्, रवॆः वर्षम् रविवर्षम् । रविवर्षस्य च प्रमाणम् अभिहितम्  "रविभगणाः रव्यब्दाः" [कालक्रिया, ५] इति । रवॆः भगणभॊगः मानुषाणाम् वर्षम् । यत् ऎव रवॆः वर्षम् तत् ऎव मानुषाणाम् वर्षम् इति । तत् अपि त्रिंशद्गुणम् भवति पित्र्यम् । तत् मानुष्यम् वर्षम् त्रिंशद्गुणितम् पित्र्यम् वर्षम् भवति, यस्मात् मासः तॆषाम् अहॊरात्रम् । उक्तम् च  "शशिमासार्धम् पितरः" [कालक्रिया, १७] इति । पित्र्यम् द्वादशगुणितम् दिव्यम् वर्षम् विनिर्दिष्टम् । पित्राणाम् यत् वर्षम् तत् द्वादशगुणितम् ऎकम् वर्षम् दॆवानाम्, यस्मात् पित्र्यम् वर्षम् मासः दॆवानाम् । यथाक्रमॆण ऎकत्रिंशत्षष्टिशतत्रय[गुणम्] च [रविवर्षम्] मनुजपितृदॆवानाम् [वर्षाणि] ॥ ७ ॥

[युगमानम् ब्रह्मदिनप्रमाणम् च]

चतुर्युगब्रह्मदिनज्ञापनार्थम् आह 

दिव्यम् वर्षसहस्रम् ग्रहसामान्यम् युगम् द्विषट्कगुणम् ।

अष्टॊत्तरम् सहस्रम् ब्राह्मः दिवसः ग्रहयुगानाम् ॥ ८ ॥

यत् ऎतत् दिव्यम् वर्षम् तत् द्वादशभिः सहस्रॆण गुणितम् ग्रहसामान्यम् युगम् । ग्रहाणाम् सामान्यम् ग्रहसामान्यम् । किम् तत्? युगम् । यस्मात् सर्वॆ ग्रहाः सहशीघ्रॊच्चैः युगपत् मीनमॆषसन्धौ भवन्ति, तस्मात् युगम् ग्रहसामान्यम् । तत् च  यदम्बराकाशशून्ययमरामवॆदाः [४३२००००] । ऎतत् ऎव कृत-त्रॆता-द्वापर-कलिवर्षाणाम् प्रमाणम् । अस्माकम् तु युगपादाः सर्वॆ ऎव च तुल्यकालाः । पौराणिकैः तु भिन्नकालाः व्याख्याताः 

चत्वारि आहुः सहस्राणि वर्षाणाम् यत् कृतम् युगम् ।

तस्य तावत् शती सन्ध्या सन्ध्यांशः च तथाविधः ॥

इतरॆषु ससन्ध्यॆषु ससन्ध्यांशॆषु च त्रिषु ।

ऎकापायॆन वर्तन्तॆ सहस्राणि शतानि च ॥ [मनुस्मृतिः, १.६९-७०]

इति । कृतप्रमाणम् वियदम्बराकाशवसुयममुनिचन्द्राः [१७२८०००] । त्रॆताप्रमाणम् वियदम्बराकाशरसनवार्काः [१२९६०००] । द्वापरप्रमाणम् वियदम्बराकाशवॆदरसवसवः [८६४०००] । कलिप्रमाणम् वियदम्बराकाशयमरामवॆदाः [४३२०००] । समासितानि वियदम्बराकाशशून्ययमरामवॆदाः [४३२००००]। किम् पुनर् अत्र युक्तम्  पुराणकारैः यथा भिन्नप्रमाणानि कृतादीनि व्याख्यातानि तथा प्रतिपत्तुम्, आहॊस्वित् यथा अस्माकम् आचार्यॆण प्रतिपादितानि समप्रमाणानि इति? यथा अस्माकम् प्रसिद्धानि तथा इति आह । यदि पुराणप्रक्रियाप्रसिद्धानि युगपादप्रमाणानि परिगृह्यन्ताम्, तदा कलियुगादौ ग्रहाः मीनमॆषसन्धौ युगपत् मध्यमगत्या न स्युः । कथम् इति उच्यतॆ । युगपादानाम् त्रयाणाम् ऎकत्रप्रमाणम् वियदम्बराकाशाष्टवसुवसुरामाः [३८८८०००] इति ऎतैः अहर्गणम् उत्पाद्य  यथाविहितमध्यमग्रहगणितप्रक्रियायाम् युगपत् मीनमॆषसन्धौ मध्यमग्रहाः न लभ्यन्तॆ । अनया ऎव प्रक्रियया इदानीम् अपि ग्रहगत्याम् साध्यमानायाम् ऎव इष्टग्रहाणाम् गतिः न लभ्यतॆ । यदि पुनर् समम् ऎव कृतादीनाम् प्रमाणम् तत् इदम् त्रयाणाम् अपि युगपादानाम् प्रमाणम् वियदम्बराकाशशून्यकृतयमाग्नयः [३२४००००], अनॆन यातॆन सर्वम् इष्टम् उपपद्यतॆ । तस्मात् "यथा अस्माकम् प्रसिद्धानि " इति सुष्ठु उक्तम् ।

अष्टॊत्तरम् सहस्रम् ब्राह्मः दिवसः ग्रहयुगानाम् । ग्रहयुगम् इति यत् ऎतत् ग्रहसामान्यम् युगम् तत् परिगृह्यतॆ । तत् अष्टॊत्तरॆण सहस्रॆण गुणितम् प्रजापतॆः ऎकदिवसप्रमाणम् भवति । ननु च अत्र अपि पौराणिकैः सह विरुध्यतॆ । कथम्? पौराणिकैः 

सहस्रयुगपर्यन्तम् अहर् यत् ब्रह्मणः विदुः ।

रात्रिम् युगसहस्रान्ताम् तॆ अहॊरात्रविदः जनाः ॥ [भगवद्गीता, ८.१७]

इति सहस्रयुगपर्यन्तम् ब्रह्मणः दिवसप्रमाणम् उक्तम् । अत्र च अष्टॊत्तरम् सहस्रम् चतुर्युगानाम् इति । अत्र तावत् विचार्यतॆ । पौराणिकैः  "सहस्रयुगपर्यन्तम् अहर् यत् ब्रह्मणः विदुः" इति अभिधाय तैः ऎव ऎकसप्ततिः चतुर्युगानाम् मन्वन्तरम् चतुर्दश मनवः ब्राह्मः दिवसः इति [अभिहितम्] । अत्र ऎकसप्ततिः चतुर्दशगुणिता सहस्रसंख्याम् न प्राप्नॊति । उच्यतॆ च  चतुर्दश मन्वन्तराणि ब्रह्मणः दिवसः, सहस्रम् चतुर्युगानाम् इति स्ववचनविरॊधः

। अस्माकम् तु द्वासप्ततिः चतुर्युगानाम् मन्वन्तरम्, अष्टॊत्तरसहस्रम् ब्राह्मः दिवसः इति युक्तिसिद्धम् ऎतम् । कथम् पुनर् इदम् ज्ञायतॆ द्वासप्ततिः चतुर्युगानाम् मन्वन्तरम् इति? गीतिकासूक्तत्वात् ।

काहः मनवः ढ मनुयुगाः श्ख । इति । [गीतिका, ५] ॥ ८ ॥

[उत्सर्पिण्यादियुगविभागः]

उत्सर्पिण्यपसर्पिणीसुषमादुष्ष्मापरिज्ञानाय आह 

उत्सर्पिणी युगार्धम् पश्चात् अपसर्पिणी युगार्धम् च ।

मध्यॆ युगस्य सुषमा आदौ अन्तॆ दुष्षमा इन्दूच्चात् ॥ ९ ॥

उत्सर्पिणी नाम यस्मिन् प्राणिनाम् आयुर्यशॊवीर्यसौख्यादीनि उपचीयन्तॆ स कालः उतस्र्पिणीसंज्ञकः । तस्य च प्रमाणम् युगार्धम् । युगस्य अर्धम् युगार्धम् । युगम् तु अभिहितम् ऎव । तस्य अर्धसंख्याप्रमाणम् उत्सर्पिणी वियदम्बराकाशशून्यरसॆन्दुयमाः [२१६००००] । पश्चात् अपसर्पिणी युगार्धम् च । पश्चात् इति अनॆन उस्तर्पिणीकालानन्तरम् अपसर्पिणीकालम् दर्शयति । यस्मात् पूर्वप्रवृत्तस्य पश्चात् इति व्यपदॆशः भवति । यस्मिन् प्राणिनाम् आयुर्यशॊवीर्यसौख्यादीनि अपचीयन्तॆ स अपसर्पिणीसंज्ञकः कालः । तस्य च प्रमाणम् युगस्य पश्चार्धम् वियदम्बराकाशशून्यरसॆन्दुयमाः [२१६००००] ।

ऎवम् च  मध्यॆ युगस्य सुषमादौ अन्तॆ दुष्षमॆनूच्चात् । तस्य पूर्वार्धस्य मध्यॆ सुषमा दुष्षमा च । आदौ अन्तॆ च । आदौ सुषमा अन्तॆ दुष्षमा । सुषमादुष्षमाप्रमाणम् युगचतुर्भागः । कथम्? मध्यॆ इति वचनात् । युगार्धस्य अर्धम् युगचतुर्भागः इति । प्रतिग्रहम् युगभॆदात् आह  "इन्दूच्चात्" । इन्दूच्चात् निष्पन्नात् युगात् ऎतॆ उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाकालाः अवगन्तव्याः इति । अथ किम् उच्यतॆ इन्दूच्चात् इति ? ननु च ग्रहसामान्यम्

युगम् इति अभिहितम् । सत्यम् । ऎवम् ऎतत् । प्रतिग्रहम् अपवर्तनविशॆषात् युगभॆदः । तत् यथा  रवॆः मण्डलानि षण्मुनिशराः [५७६], दिवसप्रमाणॆन युगम् अपि नववसुरामशून्यॆन्दुयमाः [२१०३८९] । चन्द्रस्य दिवसप्रमाणॆन युगम् शरयमांगविषयॆषुरूपदस्राः [२१५५६२५] । ऎवम् अन्यॆषाम् अपि ।

[युगस्य लक्षणम्]

अथ युगस्य किम् लक्षणम्? उच्यतॆ  चैत्रशुक्लप्रतिपदि अर्धॊदितॆ सवितरि लंकायाम् मीनमॆषसन्धौ प्रवृत्तः ग्रहः पुनर् मीनमॆषसन्धौ चैत्रशुक्लप्रतिपदि सवितुः अर्धॊदयॆ लंकायाम् यावता कालॆन प्राप्नॊति तावत् कालः युगम् इति । उक्तम् च 

चैत्रसितादौ सूर्यॆ विषुवति अर्धॊदितॆ प्रवृत्तस्य ।

मॆषादॆः मीनान्तम् तथाविधस्य ऎव संप्राप्तिः ॥ इति ।

भिन्नाग्रॆषु युगॆषु ऎकाग्रीकरणम् कुट्टाकारॆण अभिहितम्  "कश्चित् द्वाभ्याम् ऎकाग्रः त्रिभिः द्व्यग्रः" इति आदि । अथवा इन्दूच्चात् निमित्तात् उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाणाम् गतगन्तव्यम् विज्ञॆयम् इति । कथम् पुनर् गतगन्तव्यपरिज्ञानस्य इन्दूच्चनिमित्तत्वम् प्रतिपद्यतॆ इति ? उच्यतॆ  कुट्टाकारगणितॆन, यस्मात् इन्दूच्चयाताग्रस्य इन्दूच्चभगणाः युगवर्षाणि युगदिवसाः [वा] भाज्यभागहारताम् प्रतिपद्यन्तॆ । तत् यथा अस्मिन् वस्तुभिः

वा परिकल्पितः उद्दॆशकः 

निशीथिनीनाम् अधिपस्य तुंगजम् गतम् तु राशित्रितयम् यदा भवॆत् ।

तदा कियत् यातम् अथ आशु गण्यताम् युगस्य वर्षाग्रदिनाग्रताम् च मॆ ॥ १ ॥

लब्धम् वर्षाग्रम् वियदम्बराकाशशून्यकृतयमाग्नयः [३२४००००], दिनाग्रम् च शररविवसुवह्निवॆदरामवसुरुद्राः [११८३४३८१२५] ।

अथवा अयम् अपरः प्रकारः  उत्सर्पिणी युगार्धम् । उत्सर्पति इति उत्सर्पिणी, उपचीयतॆ इति अर्थः । का सा उत्सर्पिणी? ग्रहभुक्तिः इति अध्याहार्यम् । सा पुनर् कियन्तम् कालम् उत्सर्पिणी इति आह  युगार्धम् । युज्यन्तॆ अस्मिन् ग्रहाः इति युगम् । तत् च नक्षत्रचक्रम् ऎव परिगृह्यतॆ, यस्मात् ऎकस्मिन् मण्डलॆ ग्रहस्य ग्रहैः सह यॊगः सम्भवति । तस्य युगस्य अर्धम् युगार्धम्, षड्राशयः । पश्चात् अपसर्पिणी युगार्धम् च । पश्चात् पुनर् अपि अपसर्पिणी युगार्धम् ऎव । राशिषट्कम् इति अर्थः । मध्यॆ युगस्य सुषमा, तस्य युगस्य मध्यॆ अन्तरॆ इति अर्थः । सुषमा आदितः अन्ततः च गण्यमानॆ सुषमा, ऎकस्य पदस्य आदितः अपरस्य अन्ततः इति अर्थः । [आदौ अन्तॆ च] दुष्षमा दृष्टा । अन्यप्रकारॆण इति वाक्यशॆषः ।

कथम् ऎताः पुनर् उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाग्रहभुक्तयः विज्ञायन्तॆ इति अत्र आह  इन्दूच्चात्, चन्द्रकॆन्द्रात् इति अर्थः । तत् यथा  इन्दॊः कॆन्द्रस्य यदा राशित्रयम् द्वौ भागौ अष्टाविंशतिः च कलाः, तदा प्रभृति मध्यमभुक्तिः उपचीयतॆ, यावत् कॆन्द्रम् राशिषट्कम् संजातम् इति । ततः तस्मात् राशिषट्कात् कॆन्द्रात् उपचितानाम् भुक्तीनाम् उत्क्रमॆण अपचयः, यावत् कॆन्द्रस्य अष्टौ राशयः सप्तविंशतिः भागाः द्वात्रिंशत् लिप्ताः च संजाताः । ऎताः ऎव उत्क्रमॆण द्वितीयपदान्तात् प्रविगण्यमानाः तुल्याः इति आदौ अन्तॆ च सुषमा । अथवा आदौ अन्तॆ च, द्वितीयपदनिर्दिष्टकॆन्द्रात् प्रभृति क्रमॆण याः भुक्तयः याः च तृतीयपदनिर्दिष्टकॆन्द्रात् उत्क्रमॆण भुक्तयः ताः तुल्याः, ऎवम् चतुर्थप्रथमपदयॊः अपि, इति आदौ अन्तॆ च सुषमा । अन्यथा दुष्षमा ।

अत्र इन्दुकॆन्द्रम् उद्दिश्य आचार्यॆण उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाः प्रदर्शिताः । ऎतत् विधानम् अन्यॆषाम् अपि ग्रहाणाम् प्रतिपत्तव्यम् । तत् यथा  सूर्यस्य यदा कॆन्द्रम् राशित्रयम् सचतुष्पञ्चाशल्लिप्तम्, तदा सूर्यस्य व्यासार्धतुल्यः कर्णः, भुक्तिः च मध्यमा । यदा च अष्टौ राशयः ऎकॊनत्रिंशद्भागाः लिप्ताः च षट् गताः [तदा अपि] व्यासार्धतुल्यः [कर्णः] , मध्यमा भुक्तिः च । कुजा[दीनाम् अपि] व्यासार्धतुल्यम् भूताराग्रहविवरम् भवति । तथा "[कक्ष्याप्रतिमण्डलगाः] [कालक्रिया, १७] इति अस्याम् कारिकायाम् वक्ष्यतॆ ॥ ९ ॥

[आर्यभटजन्मकालः ]

आचार्यार्यभटः स्वजन्मकालज्ञानार्थम् आह 

षष्ट्यब्दानाम् षष्टिः यदा व्यतीताः त्रयः च युगपादाः ।

त्र्यधिका विंशतिः अब्दाः तदा इह मम जन्मनः अतीताः ॥ १० ॥

षष्ट्यब्दानाम् षष्टिः । षष्टिः अब्दाः षष्टिगुणाः इति अर्थः । यदा व्यतीताः । यदा यस्मिन् कालॆ, व्यतीताः व्यतिक्रान्ताः । त्रयः च युगपादाः । युगस्य पादाः युगपादाः, तॆ च यदा त्रिसंख्याः व्यतीताः । त्र्यधिकाः विंशतिः अब्दाः । त्रिभिः अधिकाः त्र्यधिकाः विंशतिः अब्दाः । तदा । तस्मिन् कालॆ । मम जन्मनः अतीताः ।

ऎतत् ऎव आचार्यार्यभटः शास्त्रव्याख्यानसमयॆ वा पाण्डुरंगस्वामि-लाटदॆव-निशंकु-प्रभृतिभ्यः प्रॊवाच । अथ अत्र इदम् प्रष्टव्यम्  अस्य व्याख्यानम् किम् उपकरॊति इति? उच्यतॆ  अनॆन अतीतॆन कालॆन परिज्ञातॆन सुखम् आदित्यादीनाम् कालः अतीतः अनागतः वा पठ्यतॆ । अथ च सम्प्रदायाविच्छॆदात् व्यतीतः कालः विज्ञायतॆ । न ऎतत् अस्ति । अनभिधानॆ बहु अत्र स्मरणीयम् । त्रयाणाम् युगपादानाम् वर्षसंख्या शून्याम्बराकाशवियद्वॆदयमाग्नयः [३२४००००] । गतम् च कलियुगस्य । ऎकस्य अभिधानॆ ऎतावतः तावत् सम्प्रदायाविच्छॆदात् अरः न कर्तव्यः । किन्तु आचार्यजन्मकालावधॆः यः उत्तरः कालः अस्य ऎव सम्प्रदायाविच्छॆदः अधिगन्तव्यः ।

अन्यत् च "षष्ट्यब्दानाम् षष्टिः" इति अस्य अभिधानॆ प्रयॊजनम् अभिधास्यतॆ । अयम् अस्य अभिप्रायः  कृतयुगादॆः अहर्गणः साध्यः । अन्यथा क्षॆपः शश्युच्चपातयॊः जायतॆ इति । कृतयुगादॆः पुनर् अहर्गणॆ क्रियमाणॆ शश्युच्चपातयॊः न ऎव क्षॆपः । "बुधाह्न्यजार्कॊदयात् च लंकायाम्" [गीतिका, ४] इति बुधादिः अहर्गणः दिवसवारः । इदानीम् तु लघुगणितव्यवहारार्थम् कलियुगाहर्गणः क्रियतॆ । शुक्रादिदिवसवारः । चन्द्रॊच्चस्य राशित्रयम्, राशिषट्कम् च राहॊः क्षॆपः, तमसः च मण्डलात् विलॊमत्वात् विशॊध्यतॆ । अथवा करणागतम् ऎव तमः यथा इष्टस्फुटचन्द्रमसि प्रक्षिप्य दक्षिणॊत्तरदिग्विधॆः विक्षॆपानयनम् इति ।

अथ अहर्गणॆ दृष्टॆ ग्रहगत्यानयनम्  यदि युगाहर्गणॆन ग्रहाणाम् गीतिकाभिहितभगणाः लभ्यन्तॆ अनॆन अहर्गणॆन कियन्तः इति, लब्धम् समतिक्रान्ताः भगणाः । शॆषॆ द्वादशादिगुणितॆ राश्यादिमध्यमग्रहसिद्धिः ।

अथ अत्र रॊमकाः प्रत्यब्दशॊधनॆन आदित्यम् आनयन्ति । तॆन च आदित्यॆन सर्वान् ऎव ग्रहान् इति । ऎतत् अत्र अपि प्रदर्श्यम् । तत् यथा  प्रत्यब्दशॊधनम् हि नाम चैत्रशुक्लप्रतिपदि अर्धॊदयात् आरभ्य यावत् आदित्यौदयिकस्य मण्डलगन्तव्यस्य भॊगकालः । स युगान्तॆ युगरविभगणैः प्रमाणॆच्छाभूतैः दिवससंख्याः ऎव भवन्ति । यथा इष्टरविभगणैः त्रैराशिकम् क्रियतॆ, तत् यथा  "यदि युगरविभगणैः भूदिवससंख्यः अहर्गणः

लभ्यतॆ इष्टरविभगणैः कियान् इति अहर्गणः लभ्यतॆ, शॆषॆ षष्ट्यादिगुणितॆ घटिकादयः इति रविभगणसमाप्तिकालावधॆः अहर्गणः लभ्यतॆ । तस्मात् चैत्रशुक्लावधिनिष्पन्नवर्षान्तिकः अहर्गणः शॊध्यतॆ, चैत्रशुक्लादॆः उपरिष्टात् रविभगणसमाप्तिकालावधयः भविष्यन्ति ।

अथवा वर्षान्तिकॆन अहर्गणॆन त्रैराशिकम्  यदि चतुर्युगाहर्गणॆन खुघृ-तुल्याः सूर्यभगणाः लभ्यन्तॆ, अनॆन कलियाताहर्गणॆन कियन्तः इति लब्धम् भगणाः । शॆषात् गतगन्तव्यम् कृत्वा गतगन्तव्यराशॆः युगसूर्यभगणैः भागलब्धम् दिवसाः । शॆषॆ षष्ट्यादिगुणितॆ घटिकादयः । चैत्रशुक्लादॆः उपरिष्टात् अधः वा रविभगणसमाप्तिकालावधयः दिवसादयः भवन्ति । ऎतत् ऎव प्रत्यब्दशॊधनम् अस्माभिः कर्मनिबन्धॆ लघुतरम्

प्रतिपादितम् । तत् यथा 

रुद्रैः सहस्रहतषट्छकलैः च हत्वा

वर्षाणि रन्ध्रवसुवह्निसमानसंख्यैः ।

युक्त्वा सदा प्रविगणय्य खरामभक्तॆ

मासाः भवन्ति दिवसाः च हृतॆ अवशिष्टाः ॥

संहत्य रन्ध्रयमलैः सररामभागः

भूयः अग्निवॆदगुणितॆषु हरॆत् च भागम् ।

खव्यॊमखद्विमुनिभिः प्रलयाः तिथीनाम्

संयॊज्य भूतयमरुद्रहृतॆ दिनानि ॥

वर्षॆषु रन्ध्रकृतचन्द्रसमाहतॆषु

षट्सप्तपञ्चविहृतॆषु दिनादिलाभः ।

तॆ यॊजिताः दशहतासु समासु संज्ञाम्

सम्प्राप्नुवन्ति रविजाः इति निश्चयः मॆ ॥

रविजदिवसयॊज्याः च अवमाः यॆ अत्र लब्धाः

सततम् अधिकमासान् शॊधयॆत् खाग्निनिघ्नान् ।

भवति यत् अवशिष्टम् शॊधनीयम् समायाम्

यदि तत् अधिकशुद्धम् क्षॆप्यम् ऎव उपदिष्टम् ॥ इति । [महाभास्करीयम्, १.२२-२३, २७-२८]

ऎवम् प्रत्यब्दशॊधनम् आनीय ततः अर्कः साध्यतॆ । कथम्? ऎतत् अपि तत्र उक्तम् ऎव 

मधुसितदिवसाद्यः हीनहीनः गणः अह्नाम्

दिविचरहृतशिष्टः वारमाहाब्दपादिम् ।

ततः इदम् अपि शॊध्यम् शॊधनीयम् समायाम्

पतितसमतिरिक्तः गृह्यतॆ न अपरः अत्र ॥

सप्तत्या दिवसाद्याः शरभागाः द्विगुणिताः विघटिकाः च ।

तद्रहितः ग्रहदॆहः रविबुधभृगवः च निर्दिष्टाः ॥ इति । [महाभास्करीयम्, १.३०-३१]

ऎवम् सूर्यः सिद्धः । [तस्मात् भगणॆषु] द्वादशगुणितॆषु सूर्यभुक्तराशयः प्रक्षिप्यन्तॆ । ततः त्रिंशद्गुणितॆषु भागाः इति । ऎवम् सूर्याहर्गणः सिद्धः । सूर्याहर्गण[तुल्य]म् अंशम् आदित्यः भुंक्तॆ ।

अथ सर्वॆषाम् ग्रहाणाम् सूर्यदिवसभॊगानयनम् । युगरव्यब्दाः षष्टिशतत्रयगुणिताः युगरविदिवसाः । यदि ऎतैः अभीष्टग्रहभगणाः लभ्यन्तॆ, तदा ऎकॆन रविदिवसॆन कियन्तः इति त्रैराशिकन्यायॆन [लब्धम् भगणात्मिका ग्रहगतिः] । राशिभागलिप्तानयनॆ द्वादश-त्रिंशत्-षष्टिः च गुणकाराः । तॆषाम् संवर्गः खखषड्घनः । अतः खखषड्घनस्य खखषड्घनभागॆ ऎकम्, युगरविदिवसानाम् खखषड्घनभागॆन द्वासप्ततिः सहस्राणि, इति अतः द्वासप्ततिसहस्रैः प्रतिस्वस्वग्रहभगणानाम् भागः, लभ्यन्तॆ ग्रहाणाम् सूर्यदिवसभुक्तयः अतः च यथालब्धाः लिख्यन्तॆ  चन्द्रमसः लिप्ताः द्वाविंशतिः लिप्तात्रिसहस्रभागाः नववसुरामाः, भौमस्य लिप्ताः ऎकत्रिंशत् लिप्तात्रिसहस्रभागाः रूपखमुनिपक्षाः, बृहस्पतॆः लिप्ताः पञ्च लिप्तापञ्चसप्तत्युत्तरत्रिंशतभागाः द्वाविंशतिः, शनैः चरस्य लिप्ताद्वयम् लिप्ताष्टादशसहस्रभागाः शशिकृतरसाः, बुधॊच्चस्य लिप्ताः नव लिप्ताषट्त्रिंशच्छतभागाः शशीषुवॆदाः, भृगॊः लिप्ताः सप्तत्रिंशत् लिप्ताषाट्सहस्रभागाः नवनवॆन्दुरामाः । ऎवम् यथाविलिखितसूर्यदिवसग्रहभुक्तिभिः सूर्याहर्गणम् गुणयॆत्, सूर्यभुक्तलिप्ताभिः च त्रैराशिकॆन यत् अवाप्तम् फलम् प्रक्षिप्य खखषड्घनॆन विभजॆत्, शॆषम् ग्रहभुक्तलिप्ताः । इयान् तत्र विशॆषः चन्द्रमसि त्रयॊदशगुणः सूर्यः क्षॆपः, बुधॊच्चॆ चतुर्गुणः, शुक्रॊच्चॆ रूपगुणितः इति । ऎतत् अपि अशॆषग्रहानयनम् कर्म लघुतरम् ऎव कर्मनिबन्धॆ प्रदर्शितम्

तत्र ऎव अवगन्तव्यम् इति ॥ १० ॥

[ युगादिकालानन्त्यनिर्दॆशः ]

कालप्रवृत्यानन्त्यप्रतिपादनाय आह 

युगवर्षमासदिवसाः समम् प्रवृत्ताः तु चैत्रशुक्लादॆः ।

कालः अयम् अनाद्यन्तः ग्रहभैः अनुमीयतॆ क्षॆत्रॆ ॥ ११ ॥

युगम् च वर्षम् च मासः च दिवसः च युगवर्षमासदिवसाः, ऎतॆ समम् प्रवृत्ताः युगपत् प्रवृत्ताः इति अर्थः । कस्मात् इति आह  चैत्रशुक्लादॆः । चैत्रः मासः, तस्य [यः] शुक्लः पक्षः, तस्य शुक्ल[पक्ष]स्य यः आदिः, [स] अर्धॊदयः इति अर्थः, तस्मात् चैत्रशुक्लादॆः युगादयः यॆ तॆ युगपत् प्रवृत्ताः । ननु च युगॆ चैत्रशुक्लादॆः प्रवृत्तॆ सर्वॆ ऎव समम् प्रवृत्ताः स्युः । तस्मात् युगम् चैत्रशुक्लादॆः प्रवृत्तम् इति ऎतत् ऎव अस्तु । न इति आह  शास्त्रान्तरॆ वर्षादीनाम् अन्यस्मात् प्रवृत्तिः अभिहिता 

प्रथमॆ वासवस्य अंशॆ द्वितीयांशॆ तु अजस्य तु ।

रॆवतीनाम् तृतीयांशॆ चतुर्थांशॆ यमस्य च ॥

सौम्यस्य प्रथमांशॆ च द्वितीयांशॆ पुनर् वसॊः ।

सार्पस्य अंशॆ तृतीयॆ तु चतुर्थांशॆ भगस्य च ॥

त्वाष्ट्रस्य आद्यांशकॆ च ऎव द्वितीयांशॆ विशाखयॊः ।

ऐन्द्रस्य अंशॆ तृतीयॆ च आप्यस्य अंशॆ चतुर्थकॆ ॥

यदा समानाम् अधिपः बृहस्पतिः अतः उत्थितः ।

उदयति अंशकान्तॆ वा प्रथमः पर्ययः भवॆत् ॥ इति।

ऎवम् वर्षाणाम् प्रवृत्तिः अतिदूरभिन्ना । तस्याम् च वर्षप्रवृत्तौ भिन्नायाम् मासदिवसप्रवृत्ती अपि भिन्नॆ ऎव भवतः । अथवा ऎवम् स्यात्  इयम् वर्षाणाम् प्रवृत्तिः नानाप्रकारा फलार्थिभिः संहिताकारैः उपदिष्टा । न ऎषा प्रसिद्धा लॊकॆ, न परतन्त्रॆषु । तस्मात् या परतन्त्रॆषु लॊकॆ च प्रसिद्धा प्रवृत्तिः तस्याः ग्रहणम् भविष्यति इति । ऎतत् अपि न । तत् यथा  सुराष्ट्रासु कार्तिकशुक्लप्रतिपदः प्रवृत्तिः वर्षमासदिवसानाम्, आश्वयुजः [कृष्ण]पञ्चदश्याम् निवृत्तिः । तथा च मगधासु आषाढॆ कृष्णप्रतिपदः समामासदिवसानाम् प्रवृत्तिः, आषाढसितपञ्चदश्याम् निवृत्तिः । तथा च अर्थशास्त्रॆ अपि अभिहितम्  "त्रिशतम् सचतुष्पञ्चाशतम् अहॊरात्राणाम् कर्म सांवत्सरः, तम् आषाढीपर्यवसानम् ऊनम् पूर्णम् वा दद्यात्" इति । सिंहराजॆन सहस्राक्षरॆ निबद्धम् 

रव्युदयॆ लंकायाम् आषाढीपौर्णमास्याम् तु सॊमदिनॆ ।

कृतकृतवर्षैः यातैः शकॆन्द्रकालात् युगस्य आदिः ॥ इति ।

युगादीनाम् चैत्रशुक्लादॆः प्रवृत्त्यभिधानम् सिद्धम् ऎव ऎतत् ।

इदानाम् प्रष्टव्यम्  सिंहराजॆन न शुक्लान्तः मासः स्वतन्त्रॆ प्रतिपादितः, तथा च लॊकॆ शुक्लान्तः ऎव प्रसिद्धः, हॊरायाम् अपि 

चन्द्रयुतात् नवभागात् मासः शुक्लान्तनामसमः | इति ।

अत्र उच्यतॆ  यत् तु सिंहराजॆन अभिहितम् तत् स्वाभिप्रायॆण अधिकमासकावमानाम् युगपत् प्रवृत्तत्वात् आषाढपौर्णमासी [तः आरभ्य चतुर्दशी] पर्यन्तावसानम् संवत्सरः इति परिकल्पितः । यदि अपि उच्यतॆ "शुक्लान्तः मासः लॊकॆ प्रसिद्धः" इति, तत् न । ननु सर्वॆषु ऎव दॆशॆषु मासाः । सन्ति च दॆशाः कृष्णान्तमासव्यवहाराः सुराष्ट्रप्रभृतयः । यत् अपि उच्यतॆ 

चन्द्रयुतात् नवभागात् मासः शुक्लान्तनामसमः ।

इति, अस्य अपि अन्यः ऎव अर्थः । चन्द्रयुतात् नवभागात् प्रष्टुः मासः वाच्यः । [स शुक्लान्तॆन] नाम्ना सदृशः । शुक्लान्तॆ [न] हि मासस्य नामपरिज्ञानम् । कृत्तिकासु युक्तः चन्द्रमा अस्मिन् सति कार्तिकः मासः इति आदि ।

अन्यत् च  शुक्लान्तॆन मासॆन न कदाचित् अपि मीनमॆषसन्धौ मासस्य वर्षस्य वा अन्तॆ ग्रहाः स्युः ।

अत्र आह यवनॆश्वरः  

मासॆ तु शुक्लप्रतिपत्प्रवृत्तॆ पूर्वॆ शशी मन्दबलः दशाहॆ ।

इति शुक्लादिः मासः । यदा पुनर् शुक्लादिः मासः तदा पुनर् श्रुत्यर्थः अनुष्ठितः भवति । ऎवम् हि श्रुतौ पठ्यतॆ 

ऎषा हि वै संवत्सरस्य प्रथमा रात्रिः यत् फाल्गुनी पौर्णमासी या उत्तरा |

इति । [यदि] कृष्ण[प्रतिपद्]आदिः मासः स्यात्, तदा कथम् इयम् उत्तरा पौर्णमासी फाल्गुनी भवति, यत् उत तत् चैत्रमासः स्यात् ? कुतः? फाल्गुन्याम् पौर्णमास्याम् फाल्गुनः मासः पूर्णः, तदा उत्तरा पौर्णमासी चैत्र[मासस्य], प्रतिपत्कृष्णादित्वात् मासस्य । ततः मन्यामहॆ न अद्य अपि फाल्गुनः मासः समाप्यतॆ इति । यस्मात् आह 

फाल्गुनी पौर्णमासी या उत्तरा | इति ।

अन्यत् च 

[ या असौ] वैशाखस्य अमावास्या तस्याम् अग्निम् आदधीत, सा रॊहिण्या सम्पद्यतॆ | 

[शतपथ-ब्राह्मणम्, ११.१.१.७] इति ।

यदि शुक्लान्तः मासः परिकल्प्यतॆ तदा न वैशाखस्य अमावास्यायाम् रॊहिण्या चन्द्रमसः यॊगः विद्यतॆ । यस्मात् चैत्रपौर्णमास्याम् चित्रायाम् सॊमः युज्यतॆ, तस्याम् चैत्र्याम् व्यतीतायाम् वैशाखप्रतिपत् । ततः च स्वात्यादिषु नक्षत्रॆषु प्रतिपत् [प्रभृति] गण्यमाना अमावास्या भरण्या युज्यतॆ, न रॊहिण्या । अथ चन्द्रगतिविशॆषात् इति [चॆत्, न] । नक्षत्रार्धस्य सकलस्य वा ह्रासवृद्धी भवतः, न नक्षत्रद्वयस्य । शुक्लादौ पुनर् मासॆ वैशाखपौर्णमास्याम् व्यतीतायाम् वैशाखस्य ऎव अमावास्या भविष्यति । ततः कृष्णपक्षप्रतिपत्प्रभृत्यनुराधादिषु गण्यमानासु रॊहिण्या अमावास्यायाः च यॊगः संभवति ।

अन्यत् च 

सः अपरपक्षॆ अप ऒषधीः प्रविशति | इति ।

शतपथ [११.१.५.३] ऎवम् पठ्यतॆ । तत्र अपरपक्षः कृष्णः, [न] शुक्लः । अन्यत् च स्मार्तवचनम् 

अपरपक्षॆ श्राद्धम् कुर्वीत ऊर्ध्वम् वा चतुर्थ्याः |

इति अत्र कृष्णादि[मासत्वात्] पूर्वपक्षः कृष्णः, अपरः शुक्लः । अपरत्वात् शुक्लपक्षस्य शुक्लपक्षॆ ऎव श्राद्धविधिः प्राप्नॊति न कृष्णॆ, इष्यतॆ च शुक्लॆ [तरॆ], तस्मात् शुक्लादिः मासः इति । ततः "युगवर्षमासदिवसाः समम् प्रवृत्ताः तु चैत्रशुक्लादॆः" इति ।

अत्र उत्प्रॆक्षितपूर्वपक्षः द्रष्टव्यः । युगादीनाम् चैत्र[शुक्लादितः प्रवृत्ति]त्वात् कालस्य आदिमत्ताप्रसंगः इति आह  कालः अयम् अनाद्यन्तः । अयम् कालः अस्माभिः युगादिः अभिहितः, चैत्रशुक्लादॆः प्रवृत्तः इति । न अस्य अन्तः न अस्य आदिः । व्यवहारार्थम् आदिः अन्तः च परिकल्पितः । यदि कालस्य आदिः स्यात् ततः किम् स्यात्? आह  संसारस्य आदिमत्ता प्राप्नॊति, इष्यतॆ च अनादिः संसारः इति । तस्मात् युक्तम् "कालः अयम् अनाद्यन्तः" इति ।

कथम् पुनर् अस्य आदिः व्यवहारार्थम् परिकल्पितः इति आह  ग्रहभैः अनुमीयतॆ क्षॆत्रॆ । ग्रहाः च भानि च ग्रहभानि । तैः ग्रहभैः अनुमीयतॆ आदिः अन्तः च । "मां मानॆ" [पाणिनीयधातुपाठः ११४३] इति अयम् धातुः धूमात् अग्न्यनुमानम् इति अत्र मानॆ वर्ततॆ । अत्र पुनर् ग्रहभैः अनुमीयतॆ इति मानार्थः ऎव । व्रीह्यादिराशयः प्रस्थादिभिः अनुमीयन्तॆ, कुंकुमादयः वा पलादिभिः, ऎवम् ग्रहभैः इति । यदा सर्वॆ ऎव ग्रहाः युगपत् 

मीनमॆषसन्धौ क्षितिसंयुक्ताः तदा युगस्य आदिः इति । कः भुवः ग्रहस्य च यॊगः, द्वयॊः अत्यन्तविप्रकृष्टयॊः? न ऎषः दॊषः । मुख्यस्य यॊगस्य असंभवात् गौणः यॊगः परिगृह्यतॆ । यत्र भूलग्नः इव ग्रहः लक्ष्यतॆ स भूग्रहयॊः यॊगः । स च उदयास्तमययॊः संभवति इति उदयास्तमययॊः वा परिगृह्यतॆ ।

अन्यॆ पुनर् अन्यथा व्यावर्णयन्ति  ग्रहभैः अनुमीयतॆ इति । ग्रहैः च नक्षत्रैः च कालस्य आदिः अन्तः च परिकल्प्यतॆ । तत् यथा 

उदॆति यस्मिन् नक्षत्रॆ प्रवासॊपगतः अंगिराः ।

तस्मात् संवत्सरः मासात् बार्हस्पत्यः प्रगण्यताम् ॥ इति ।

बृहस्पतिचारवशात् कालस्य आदिः परिकल्पितः । लॊकॆ च ऎवम् वक्तारः भवन्ति  "स्वातौ उदितॆ प्रस्थास्यामहॆ उदयः " इति, "शुक्रॆ अस्तम् गतॆ प्रस्थितः" इति, "अद्य कृत्तिकासु मध्यस्थितासु दारुकः [गतः]" इति आदि । क्षॆत्रॆ । क्षॆत्रम् भगॊलः, तस्मिन् भगॊलॆ, नक्षत्रग्रहचारवशात् आदिः अन्तः च परिकल्पितः ॥ ११ ॥

[ ग्रहाणाम् समगतित्वम् ]

ग्रहाणाम् समगतिप्रतिपादनाय आह 

षष्ट्या सूर्याब्दानाम् प्रपूरयन्ति ग्रहाः भपरिणाहम् ।

दिव्यॆन नभःपरिधिम् समम् भ्रमन्तः स्वकक्ष्यासु ॥ १२ ॥

षष्ट्या सूर्याब्दानाम् आदित्यवर्षाणाम् षष्ट्या ग्रहाः नक्षत्रकक्ष्याम् प्रपूरयन्ति, नक्षत्रकक्ष्यातुल्यानि यॊजनानि स्वासु स्वासु कक्ष्यासु गच्छन्ति इति अर्थः । [कियद्यॊजनानि] पुनर् नक्षत्रकक्ष्यायाम् ग्रहाः सूर्याब्दानाम् षष्ट्या पूरयन्ति? उच्यतॆ  वसुवियदम्बराकाशरसयमत्रिशैलचन्द्राः [१७३२६०००८] । न ऎतत् अस्माभिः नक्षत्रकक्ष्याप्रमाणम् दृष्टम् । किम् तर्हि? का ऎषा प्रतिपादिता इति? उच्यतॆ  "भवांशॆ अर्कः" [गीतिका, ६] इति । अत्र कथम् पुनर् ऎतॆन ऎव नक्षत्रकक्ष्यातुल्यानि यॊजनानि गच्छन्ति इति उच्यतॆ? यदि ख्युघृ-तुल्यैः अर्कवर्षैः स्वान्-स्वान् भगणान् ग्रहाः भुञ्जन्तॆ [तदा] षष्ट्या सूर्याब्दैः कियन्तः इति । षष्टिभागॆन अपि षष्ट्या ऎकः, पुनर् षष्टिभागॆन ऎतॆ[षाम्] ख्युघृ-तुल्यानाम् अर्कवर्षाणाम् द्वासप्ततिसहस्राणि । ऎवम् यथाभागॆन अविनष्टराशयः स्थाप्याः । ततः पुनर् अपि  यदि ऎकॆन भगणॆन प्रतिस्वकक्ष्या लभ्यतॆ [तदा] षष्ट्यब्दभॊगॆन का इति सर्वग्रहॆभ्यः नक्षत्रकक्ष्या

लभ्यतॆ ।

दिव्यॆन नभःपरिधिम् । दिवि भवम् दिव्यम्, युगम् इति अर्थः । कथम् पुनर् दिव्यशब्दॆन युगम् अभिधीयतॆ? यस्मात् दिवि सञ्चरताम् ग्रहाणाम् ऎकत्र यॊगः भवति, अतः [दिव्यम् युगम् उक्तम् तॆन] दिव्यॆन नभःपरिधिम् । नभसः परिधिः नभःपरिधिः, आकाशकक्ष्या इति अर्थः । कथम् इदम् उच्यतॆ? ननु च वियत् अपरिमितयॊजनप्रमाणम् इति श्रूयतॆ । तस्य परिमितयॊजनप्रमाणम् कथम् कक्ष्या भवॆत्? उच्यतॆ  वियत् अस्माकम् यावत् दिवसकरमरीचिनिधानम् अवभासयति तावत् वियत् इति । अतः परम् आकाशम् अप्रमॆयम् इति । अत्र खकक्ष्याभिधानॆन ऎतत् प्रतिपादयति, इयत्प्रमाणम् वियदर्कमरीचयः प्राप्नुवन्ति इति ।

समम् भ्रमन्तः । तुल्यया [गत्या] भ्रमन्तः इति अर्थः । यावन्ति यॊजनानि स्वकक्ष्यायाम् शशी संचरति तावन्ति ऎव यॊजनानि आर्किः अपि स्वकक्ष्यायाम् सञ्चरति । तत् यथा  यदि ऎकॆन भगणॆन स्वकक्ष्या लभ्यतॆ [तदा] युगभगणैः किम् इति खकक्ष्या लभ्यतॆ । अथवा  षष्ट्यब्दभॊगॆन नक्षत्रकक्ष्या लभ्यतॆ स्वैः युगभगणैः किम् इति खकक्ष्या लभ्यतॆ । ऎवम् यॊजनगतॆन ग्रहाः तुल्यगतयः । कक्ष्यातः ग्रहाणाम् मध्यमानयनम्  यदि [युग]भूदिनैः सर्वॆ ऎव स्वासु कक्ष्यासु समगत्या भ्रमन्तः [ख]कक्ष्यातुल्यानि यॊजनानि प्रयान्ति, ऎकॆन अह्ना कियन्ति इति सर्वग्रहाणाम् यॊजनगता दिनभुक्तिः लभ्यतॆ इति, खकक्ष्यायाम् भूदिनैः भागॆ हृतॆ यॊजनगता ग्रहाणाम् दिनभुक्तिः लभ्यतॆ । तया त्रैराशिकम् भंक्त्वा मध्यमग्रहाः आनीयन्तॆ  यदि स्वकक्ष्यायॊजनैः भगणः लभ्यतॆ तदा गतियॊजनैः किम् इति आह्निकी भुक्तिः लभ्यतॆ, ततः पुनर् अपि  यदि ऎकॆन अह्ना भुक्तिः लभ्यतॆ अहर्गणॆन

किम् इति । अत्र ऎकः पूर्वत्रैराशिकॆ गुणकारः, [अपरॆ भागहारः ।] अतः गुणकारभागहारयॊः तुल्यत्वात् नष्टयॊः अहर्गणस्य दिन[गति]यॊजनानि गुणकारः स्थितः, [स्वकक्ष्यायॊजनानि भागहारः, लब्धिः] भगणादयः । [उक्तम् च] 

अम्बरकक्ष्या भूदिनहृता फलम् तत्र यॊजनानि तॆषु ।

गताहसंगुणितॆषु स्वग्रहकक्ष्याप्तभगणाद्यम् ॥

इति । अ[थवा खकक्ष्या]हर्गणसंवर्गॆ स्वकक्ष्याभूदिनसंवर्गहृतॆ भगणादयः भवन्ति ॥ १२ ॥

[ग्रहाणाम् समगतित्वॆन कक्ष्याव्यवस्था ]

समगत्या प्रवृत्तग्रहकक्ष्याव्यवस्थाप्रदर्शनार्थम् आह 

मण्डलम् अल्पम् अधस्तात् कालॆन अल्पॆन पूरयति चन्द्रः ।

उपरिष्टात् सर्वॆषाम् महत् च महता शनैः चारी ॥ १३ ॥

मण्डलम् अल्पम् अधस्तात् । सर्वॆषाम् अधः व्यवस्थितम् मण्डलम् अल्पम् अल्पॆ[न कालॆन पूरय]ति चन्द्रमाः । अधस्तात् इति अनॆन ऎव मण्डलस्य अल्पत्वसिद्धिः, अल्पम् इति ऎतत् न वक्तव्यम् । कथम् अधस्तात् इति ऎतावति उच्यमानॆ मण्डलस्य अल्पत्वम् गम्यतॆ? उच्यतॆ  उपरि उपरि कक्ष्याः व्यवस्थिताः । तासाम् उपरि उपरि व्यवस्थितानाम् अधः या व्यवस्थिता सा सर्वतनीयसी । तस्मात् अधस्तात् [इन्दुः] स्यात् । न ऎतत् अस्ति । "भानाम् अधः शनैः चर" [कालक्रिया, १५] इति अत्र कक्ष्याणाम् उपरि उपरि व्यवस्थितिम् वक्ष्यति । ननु च अन्यॆ ब्रुवतॆ  सर्वॆषाम् उपरि चन्द्रमसः कक्ष्या इति । [तत् अयुक्तम् ।] सर्वॆषाम् ग्रहाणाम् अधः चन्द्रकक्ष्या इति आह । यदि उपरि स्यात् तदा चन्द्रस्य ग्रहनक्षत्रभॆदॆ स्फुटकलंकहरिणॆ ग्रहनक्षत्र[ताराः दृश्यॆरन्] । सूर्यवशात् यदि उपरि चन्द्रः स्यात् तदा सूर्यॆण आरात् व्यवस्थितॆन सदा चन्द्रमसॊः अपि स्वस्य आरात् भागम् अखण्डम् दृश्यॆत, उपरिस्थितः [न उपलक्ष्यतॆ] । तस्मात् सर्वॆषाम् 

अधः चन्द्रमाः ।

अन्यॆ पुनर् सुगत[मता]वलम्बिनः सूर्याचन्द्रमसॊः ऎकाम् कक्ष्याम् आचक्षतॆ 

अर्धॆन मॆरॊः चन्द्रार्कौ पञ्चाशत्सैक[यॊजनौ] ।

अर्धरात्रः अस्तगमनम् मध्याह्नः उदयः सकृत् ॥ इति ॥

न ऎवम् युज्यतॆ । यदि पञ्चाशत् यॊजनानि चन्द्रः, ऎकपञ्चाशत् [यॊजनानि] सूर्यः तदा किम् इति सूर्यः [न] महान् उपलभ्यतॆ, तुल्यौ ऎतौ [अर्धॊ]दितौ अर्धास्तमितौ पौर्णमास्याम् लक्ष्यॆतॆ? अथ विदूरत्वात् अर्कः न महान् उपलक्ष्यतॆ इति चॆत् न । तर्हि मन्दरार्धॆ सूर्याचन्द्रमसॊः दूरीभूतः अर्कः । अन्यत् च तुल्यकक्ष्याव्यवस्थितत्वात् सूर्याचन्द्रमसॊः सूर्यग्रहणम् न ऎव स्यात् । न च चन्द्रमसम् मुक्त्वा अन्यः राहुः अस्ति यॆन सविता छाद्यतॆ । यदि अपि अधः चन्द्रः स्यात् तथा अपि महत्त्वात् सूर्यबिम्बस्य न ऎव अर्कः सकलः छाद्यतॆ । न ऎव अर्कः चन्द्रॆण छाद्यतॆ इति चॆत् तत् अपि उत्तरत्र व्याख्यास्यतॆ ।

कालॆन अल्पॆन पूरयति चन्द्रः । अल्पॆन स्तॊकॆन कालॆन पूरयति । किम्? तत् अल्पम् मण्डलम् अधः व्यवस्थितम् । उपरिष्टात् सर्वॆषाम् मण्डलानाम् महत् मण्डलम् महता कालॆन शनैः चरः पूरयति । ऎतौ अल्पमहत्कक्ष्यामण्डलपरिमाणौ ग्रहौ उद्दिष्टौ, अन्यॆषाम् च [मण्डलानि स्वबुद्ध्या विज्ञॆयानि] । तत् यथा  चन्द्रमाः दिवससंख्यया सप्तविंशत्या सार्धैकया मण्डलम् गच्छति, बुधशुक्ररवयः किञ्चित् ऊनॆन वर्षॆण, भौमः किञ्चित् ऊनॆन वर्षद्व[यॆन, गुरुः] तु वर्षैः द्वादशभिः किञ्चित् ऊनैः, शनैश्चरः तु त्रिंशता वर्षैः किञ्चित् ऊनैः इति । ऎवम् ऎतॆ भिन्नकक्ष्यास्थाः यॊजनगतॆन तुल्यगतयः ग्रहाः व्याख्याताः ।

अथ यदि तुल्यकक्ष्यास्थाः यॊजनगतॆन तुल्यगतयः ऎव स्युः तदा ऎतॆषाम् युगादॆः संप्रवृत्तानाम् न कदाचित् वियॊगः स्यात् । अथ [यदि] यॊजनगतॆन ऎतॆ भिन्नगतयः स्युः तदा ऎतॆषाम् भुक्तिलिप्तानयनॆ यॊजनैः यथास्वम् प्रसिद्धभुक्तिलिप्ताः न आगच्छॆयुः । तस्मात् भिन्नकक्ष्यास्थाः अपि ग्रहाः यॊजनगतॆन तुल्यगतयः ऎव इति ॥ १३ ॥

[ भिन्नकक्ष्यासु राश्यादीनाम् अल्पमहत्त्वम् ]

कक्ष्याणाम् अल्पमहत्त्वात् राशिभागलिप्ताः बह्व्यः अल्पाः इति सन्दॆहः तन्निवृत्त्यर्थम् आह 

अल्पॆ हि मण्डलॆ अल्पाः महति महान्तः च राशयः ज्ञॆयाः ।

अंशाः कलाः तथा ऎवम् विभागतुल्याः स्वकक्ष्यासु ॥ १४ ॥

अल्पॆ मण्डलॆ अल्पाः राशयः महति मण्डलॆ महान्तः, ऎवम् अंशाः कलाः च, कॆवलम् तु विभागॆन सदृशाः । तत् यथा  अल्पॆ महति च मण्डलॆ मण्डलद्वादशभागः राशिः, षष्टिशतत्रयभागः भागः, खखषड्घनभागः लिप्ताः इति, स्वासु स्वासु कक्ष्यासु ज्यॊतिश्चक्रस्य तुल्यत्वात् ॥ १४ ॥

[ ग्रहकक्ष्यावस्थितिक्रमः ]

कक्ष्याणाम् उपरि अधः अव[स्थिति]क्रमपरिज्ञानाय आह 

भानाम् अधः शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः ।

ऎषाम् अधः च भूमिः मॆधीभूता खमध्यस्था ॥ १५ ॥

भानि ज्यॊतींषि, अश्विन्यादीनि । तॆषाम् अधः शनैश्चरः, तस्य अपि अधः बृहस्पतिः, ततः अंगारकः इति आदि । ऎषाम् अधः च भूमिः । ऎषाम् नक्षत्रादीनाम् भूः अधः । मॆधीभूता । अत्र "भूत"-शब्दः बहुषु अर्थॆषु वर्तमानः इव अर्थॆ प्रतिपत्तव्यः । मॆधी इव स्थिता । खमध्यस्था । खम् आकाशम् तस्य मध्यम् खमध्यम्, तस्मिन् स्थिता खमध्यस्था । ऎषाम् अधः च भूमिः इति । अत्र उच्यतॆ  यदा दृश्यॆ

चक्रार्धॆ ग्रहनक्षत्राणि, तदा तॆषाम् अधः भूमिः । यदा अतः अन्यॆषु ग्रहनक्षत्राणि स्मररिपुसुतहिबुकसहजधनॆषु वर्तन्तॆ तदा कथम् अधः भूः, यत् उत उपरि स्यात् । न ऎवम् विज्ञायतॆ । यस्मात् सर्वॆषाम् अस्मदादीनाम् भूः अधः, उपरि च आकाशः, [तस्मात्] सर्वदा ग्रहाः उपरि, भूः अधः । वक्ष्यति च 

यद्वत् कदम्बपुष्पग्रन्थः प्रचितः समन्ततः कुसुमैः ।

तद्वत् हि सर्वसत्त्वैः जलजैः स्थलजैः च भूगॊलः ॥ इति । [गॊल, ७]

[अन्यॆ तु इमाम् कल्पनाम्] दूरविप्रतिपन्नाम्, भगणशनैःचरबृहस्पतिकुजरविसितबुधनिशाकरान् उपर्युपरिव्यवस्थितान् तुल्य[गतिकान् मन्यन्तॆ । तत् यथा  या]वत् अल्पमण्डलम् भानि भ्रमन्ति, तावत् महान्ति मण्डलानि शनैश्चरादयः [न] शक्नुवन्ति पूरयितुम् इति पृष्ठतः लक्ष्यन्तॆ, यथाकक्ष्या[मण्डलक्रमॆण] इति । अत्र परिहारः प्राक् प्रदर्शितः  यदि उपरि स्यात् तदा चन्द्रस्य ग्रहनक्षत्रभॆदॆ स्फुटकलंकहरिणॆ ग्रहनक्षत्रताराः कृश्यॆरन् [पृ २१२] इति आदिना ग्रन्थॆन ।

अन्यॆ मन्यन्तॆ  तुल्यकक्ष्यास्थाः ऎव भगणशनैश्चरबृहस्पतिकुजरविसितबुधनिशाकराः । किन्तु यथाक्रमॆण शीघ्रगतयः । अतः द्रुतगतिभिः नक्षत्रैः ईषमन्दगतिः ईषत् जीयतॆ, अतिमन्दगतिः तु दूरात् इति । ईषन्मन्दगतित्वात् शनैश्चरः इषत् जीयतॆ, अतिमन्दगतित्वात् चन्द्रमाः [दू]रम् इति । अत्र अपि यदि प्राङ्मुखाः ग्रहादयः तदा प्राङ्मुखैः द्रुतगतिभिः नक्षत्रैः जीयमानः अश्विन्याम् दृष्टः रॆवत्याम् उपलक्ष्यॆत, न भरण्याम् । 

वक्रकालॆ अपि च, प्रतिलॊमगतित्वात् अश्विन्याम् दृष्टः भरण्याम् ऎव उपलक्ष्यॆत । अथ ऎतॆ ग्रहादयः अपराभिमुखाः कल्प्यन्तॆ, तथा अपि वक्रकालॆ अश्विन्याम् दृष्टः प्रतिलॊमगतित्वात् भरण्याम् उपलक्ष्यॆत । तुल्यकक्ष्याव्यवस्थितानाम् च लम्बनविशॆषः न स्यात् । अन्यत् च  अन्यॊन्यबिम्बच्छादनम् न स्यात् । ग्रहॊपरागः अपि च तुल्यकक्ष्याव्यवस्थितत्वात् न युज्यतॆ । तस्मात् "भानाम् अधः शनैश्चरः" इति आदि सुष्ठु उक्तम् ॥ १५ ॥

[ कालहॊरादिनाधिपतिज्ञानम् ]

कालहॊरादिनाधिपतिज्ञापनाय आह 

सप्त ऎतॆ हॊरॆशाः शनैश्चराद्याः यथाक्रमम् शीघ्राः ।

शीघ्रक्रमात् चतुर्थाः भवन्ति सूर्यॊदयात् दिनपाः ॥ १६ ॥

ऎतॆ ग्रहाः शनैश्चरादयः तुल्यगतयः अपि सन्तः यथाक्रमॆण शीघ्राः लक्ष्यन्तॆ, मण्डलानाम् यथाक्रमॆण अल्पत्वात् । तॆ ऎव हॊरॆशाः यथाक्रमॆण । तत् यथा  शनैश्चरस्य कालहॊरायाम् निवृत्तायाम् बृहस्पतॆः कालहॊरा, ततः अंगारकस्य, ततः रवॆः इति आदि । ऎवम् सूर्यॊदयात् प्रभृति यावत् सूर्यस्य अर्धास्तमयः इति द्वादश कालहॊराः । ततः च अर्धास्तमयात् अर्धॊदयः इति पुनर् द्वादश । ऎवम् अहॊरात्रॆ चतुर्विंशतिकालहॊराः । कालहॊरा हि नाम लग्नराशॆः अर्धॊदयस्य कालः । सा च दिवसॆ दिवसॆ दिवसाधिपातः प्रभृति प्रतिपत्तव्या । उक्तम् च स्फुजिध्वजयवनॆश्वरॆण 

आदित्यशुक्रॆन्दुजचन्द्रसौरजीवावनॆयाः स्युः अहर्निशासु ।

हॊरॆश्वराः तद्दिवसाधिपादिक्रमॆण ताः तत्र चतुर्गुणाः षट् ॥

ऎवम् दिवसाधिपात् सूर्यॊदयात् गण्यमानात् उत्तरदिवसस्य अधिपात् ऎव अर्धॊदयात् शीघ्रक्रमात् चतुर्थः, यः शीघ्रक्रमः अभिहितः "भानाम् अधः शनैश्चरः" इति आदि तस्मात् चतुर्थः दिवसाधिपतिः । तत् यथा  शनैश्चरात् चतुर्थः सूर्यः दिवसाधिपतिः, सूर्यात् सॊमः चतुर्थः, सॊमात् अंगारकः इति आदि । ऎवम् अनॆन क्रमॆण मासाधिपाः अब्दाधिपाः च अवगन्तव्याः । कथम्? [मासस्य वर्षस्य च यः] प्रथमदिवसॆ अधिपः स मासाधिपः वर्षाधिपः च

। सूर्यॊदयात् दिनपाः । सूर्यस्य उदयः सूर्यॊदयः । यदि अपि शॆषॆण उक्तः सूर्यॊदयशॆषॆण अर्धॊदयः प्रतिपत्तव्यः । कुतः? इदम् बिम्बावयवाभिधानॆ अपि तदवयवप्रमाणस्य मानकालावधारणाशक्यत्वात् अर्धॊदयस्य च व्यक्तलक्षणत्वात् सुपरिच्छॆदनया अर्धॊदयः आश्रियतॆ । अथवा अनिर्दिष्टॆषु वस्तुषु मध्यमप्रतिपत्तॆः अर्धॊदयात् आरभ्य पुनर् अर्धॊदयः इति ।

अत्र कॆचित् अर्धास्तमयात् वारप्रवृत्तिम् मन्यन्तॆ । तत् च अयुक्तम् । यस्मात् उक्तम् 

आसीत् इदम् तमॊभूतम् अप्रज्ञातम् अलक्षणम् ।

अप्रतर्क्यम् अविज्ञॆयम् प्रसुप्तम् इव सर्वतः ॥  [मनुस्मृतिः, १.५]

अत्र जनपदज्यॊतिश्चक्राभावात् न वारादिव्यवहारः सञ्जातः । यदा प्रॊत्पन्नः सहस्रकिरणः तदा प्रभृति वारादिव्यवहारः सञ्जातः इति । अतः सुष्ठु उक्तम् सूर्यॊदयात् दिनपाः इति ॥ १६ ॥

[ प्रतिमण्डलविधिना ग्रहगतिनिरूपणम् ]

ऎतॆ ग्रहाः कस्मिन् मण्डलॆ भ्रमन्ति इति [न ज्ञायतॆ] अतः तन्निरूपणाय आह 

कक्ष्याप्रतिमण्डलगाः भ्रमन्ति सर्वॆ ग्रहाः स्वचारॆण ।

मन्दॊच्चात् अनुलॊमम् प्रतिलॊमम् च ऎव शीघ्ह्रॊच्चात् ॥ १७ ॥

कक्ष्यायाः प्रतिमण्डलम् कक्ष्याप्रतिमण्डलम्, तत् गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अथवा कक्ष्या च प्रतिमण्डलम् च कक्ष्याप्रतिमण्डलॆ, तॆ गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अत्र कक्ष्यागाः मध्यमाः ग्रहाः, स्फुटाः [प्रति]मण्डलगाः । अथवा कक्ष्याप्रतिमण्डलयॊः यत्र सम्पातः स कक्ष्याप्रतिमण्डलशब्दॆन उच्यतॆ । तम् गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अत्र अनॆकत्वात् विग्रहयॊगस्य, कतमः विग्रहः परिगृह्यतॆ इति सन्दॆहॆ

उच्यतॆ  कक्ष्या च प्रतिमण्डलम् च कक्ष्याप्रतिमण्डलॆ । तॆ गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः, इति अयम् परिगृह्यतॆ । कथम्? इष्टत्वात् शॆषविग्रहार्थवाचकत्वात् च अत्र इष्यतॆ । कक्ष्यागाः मध्यमाः ग्रहाः यस्मात् तुल्यभुक्तयः, प्रतिमण्डलगाः स्फुटग्रहाः यतः ससदृशभुक्तयः ।

अथ कॆ तॆ मध्यमाः, कॆ वा स्फुटाः ग्रहाः? ननु च ऎकः ऎव सूर्यः, ऎकः ऎव चन्द्रमाः, ऎकः ऎव अंगारकः इति आदि । मध्यमस्फुटतायाम् परिगृह्यमाणायाम् ग्रहद्वयम् प्राप्नॊति । न ऎवम् विज्ञायतॆ मध्यमः ग्रहः स्फुटः ग्रहः इति । कथम् तर्हि? मध्यमग्रहशब्दॆन मध्यमग्रहस्य ग्रहगतिः अभिधीयतॆ, स्फुटग्रहशब्दॆन च स्फुटग्रहगतिः इति? तत् यथा  कश्चित् सांवत्सरम् पृच्छति  "कः सविता" इति, स तस्मा आह  राशिः ऎकः पञ्चदश भागाः त्रिंशत् लिप्ताः इति । तत्र यः परिपृच्छति यः च आचष्टॆ तयॊः उभयॊः अभि[प्राय]द्वयप्रसंगः । न ऎष दॊषः । या मध्यमा गतिः सा स्फुटगतिसाधनस्य उपायः । अन्यथा अनियतत्वात् स्फुटगतिः अशक्या स्यात् विज्ञातुम् । ऎवम् ऎव च [मध्यमग्रहः] प्रतिमण्डलपरिज्ञानार्थम् परिकल्पितः । यत् अस्य ग्रहस्य व्यासार्धतुल्यम् भूताराग्रहविवरम् स तस्मात् प्रदॆशात् प्रभृति कक्ष्यामण्डलस्य उपरि अधः वा अवतिष्ठतॆ ।

अथ कः असौ अयम् प्रदॆशः? उच्यतॆ  यदा तृतीयॆ कर्मणि द्वितीयॆ पदॆ मन्दॊच्चकॆन्द्रम् राशित्रयम् द्वौ भागौ पञ्चाशत् लिप्ताः, तदा बृहस्पतॆः मन्दॊच्चकर्णः व्यासार्धतुल्यः । चतुर्थॆ कर्मणि यदा शीघ्रॊच्चकॆन्द्रम् राशित्रयम् पञ्चभागाः विंशतिः च कला, तदा व्यासार्धतुल्यः शीघ्रॊच्चकर्णः । अत्र व्यासार्धतुल्यम् भूताराग्रहविवरम् । अस्मात् प्रदॆशात् प्रभृति भूताराग्रहविवरम् प्रतिदिनम् अपचीयतॆ । अनया युक्त्या शॆषाणाम् अपि ग्रहाणाम् व्यासार्धतुल्यम् भूताराग्रहविवरम् ऊह्यम् ।  

भ्रमन्ति सर्वॆ ग्रहाः स्वचारॆण इति ऎतत् निगदव्याख्यानम् ऎव । मन्दॊच्चात् अनुलॊमम् । "मन्दॊच्चात्" इति हॆतौ पञ्चमी । तॆन मन्दॊच्चात् हॆतॊः अनुलॊमम् इति व्याख्यायतॆ, यस्मात् न मन्दॊच्चॆ वक्रपरिज्ञानम् । प्रतिलॊमम् च ऎव शीघ्रॊच्चात् । शीघ्रॊच्चात् हॆतॊः प्रतिलॊमम्, यस्मात् शीघ्रॊच्चॆ वक्रपरिज्ञानम् । कथम् पुनर् शीघ्रॊच्चॆ वक्रपरिज्ञानम्? उच्यतॆ  यदा शीघ्रॊच्चकॆन्द्रम् द्वितीयपदॆ तदा सर्वॆ ग्रहाः वक्रिणः भवन्ति, यदा च तृतीयपदॆ शीघ्रॊच्चकॆन्द्रम्

तदा अनुवक्रगतयः । उक्तम् च 

ग्रहॊनशीघ्रग्रहॆषु कृतषड्वसुषु क्रमात् ।

भवॆत् वक्रातिवक्रा च तथा अनुकुटिला गतिः ॥

इति । सूक्ष्मतरः [च अयम्] विधिः इति । उच्यतॆ  यदा अद्यतनात् ग्रहात् श्वस्तनः ग्रहः तुल्यः भवति तदा वक्रप्रारम्भः । अथवा ह्यस्तनात् ग्रहात् अद्यतनः ग्रहः तुल्यः तदा अपि वक्रप्रारम्भः । यदा अद्यतनात् तृतीयपदॆ श्वस्तनः ग्रहः अधिकः तदा वक्रस्य निवृत्तिः । अथवा ह्यस्तनात् ग्रहात् अद्यतनः ग्रहः अधिकः तृतीयपदॆ तदा अपि वक्रस्य निवृत्तिः । यदा ग्रहः बह्वीः लिप्ताः निवर्ततॆ तदा अतिवक्रगतिः ।

कथम् पुनर् इदम् विधानम् शीघ्रॊच्चात् ऎव गणकः प्रजानतॆ, न पुनर् मन्दॊच्चात् इति? उच्यतॆ  यस्मात् सूर्यवशात् ग्रहाणाम् उदयास्तमयवक्रानुवक्राः गतयः । यदि ऎवम् अत्र कथम् बुधशुक्रयॊः अन्यत् शीघ्रॊच्चम्, [मध्यः] सूर्यः । अत्र अपि सूर्यवशात् ऎव तयॊः उदयास्तमयपरिज्ञानम् । वक्रगतिः तु ऎकत्वात् उपायान्तरॆण विज्ञायतॆ । अथवा उच्चनीचमध्यमपरिधिः इति ऎवमादिस्फुटगतिसाधनॊपाय[भूतानाम् च] उपायानाम् न [ऎव नियमॊ]क्तिः वा विद्यतॆ । कॆवलम् तु उपॆयसाधकाः उपायाः । तस्मात् इयम् सर्वा प्रक्रिया असत्या, यया ग्रहाणाम् स्फुटगतिः साध्यतॆ । [ऎवम् च परमार्थजिज्ञासुभिः असत्यॊपायॆ]न सत्यम् प्रतिपद्यतॆ । तथा हि भिषजः हि उत्पलनालादिषु वधादीनि अभ्यस्यन्तॆ । नापिताः पिठरादिषु मुण्डनादीनि, यज्ञशास्त्रविदः शु[ष्कॆष्ट्या] यज्ञादीनि, शाब्दिकाः प्रकृतिप्रत्ययविकारागमवर्णलॊपव्यत्ययादिभिः शब्दान् प्रतिजानतॆ । ऎवम् अत्र अपि मध्यममन्दॊच्चशीघ्रॊच्चतत्परिधिज्याकाष्ठभुजाकॊटिकर्णादि-व्यवहारॆण सांवत्सराः ग्रहाणाम् स्फुटगतिम् प्रतिजानतॆ । तस्मात् उपायॆषु असत्यॆषु सत्यप्रतिपादनपरॆषु न चॊद्यम् अस्ति ।

अथ किम् अर्थम् इमॆ ग्रहाः प्रतिदिनम् भ्राम्यन्ति । अथ च लॊकॆ कश्चित् भ्रमन् कारणॆन भ्रमति । अन्यत् च  न ऎवंविधः कश्चित् दृश्यतॆ अनवरतगतिः यथा इमॆ ताराग्रहाः भ्रमन्ति इति दृष्टान्तत्वॆन उदाहरणभूतः इति । उच्यतॆ  सर्वादौ किल भगवान् प्रजापतिः ग्रहान् उक्तवान् यत् "भवन्तः मॆषादिगणॆषु प्रजानाम् शुभाशुभफलाय भ्राम्यत" इति । उक्तम् च स्फुजिध्वजयवनॆश्वरॆण 

प्रजाः सिसृक्षुः किल विश्वधाता

प्रजापतिः प्राग्व्रतम् आचचार ।

स द्वादशांगप्रभवम् स्वदॆहम्

सृष्ट्वा आदितः वै भगणम् ससर्ज ॥

तॆभ्यः स मॆषादिगणान् प्रजज्ञॆ

तॆभ्यः च तद्भॆदविकल्पतः अन्यान् ।

अतः भवर्गस्य विभुः प्रणॆता

प्रजाभवाभावविधीश्वरत्वम् ॥ इति आदि ।

अथवा शब्दॆन अर्थानुमानम् क्रियतॆ । श्रूयन्तॆ च शब्दाः यॆ च अपरॆ अत्र गतिवाचकाः । तत् यथा  "पथः ष्कन्" [अष्टाध्यायी, ५.१.७५] इति वर्तमानॆ "पन्थः ण नित्यम्" [अष्टाध्यायी, ५.१.७६] इति अनॆन नित्यम् पन्थानम् गच्छति इति अस्मिन् अर्थॆ पान्थः इति अयम् शब्दः । अत्र लॊकॆ न कश्चित् अध्वानम् अनवरतम् गच्छन् दृश्यतॆ, तस्मात् अमी ऎव ग्रहाः पान्थाः । न च अयम् शब्दः असत्स्वार्थॆषु शशविषाणकूर्मरॊमवन्ध्यापुत्रशब्दवत् प्रवृत्तः । तस्मात् सुष्ठु उच्यतॆ शब्दॆन अर्थानुमानम् पान्थाः ग्रहाः इति ।

अथवा अयम् अपरः प्रकारः । मन्दॊच्चात् अनुलॊमम् प्रतिलॊमम् च ऎव शीघ्रॊच्चात् । मन्दॊच्चात् यतः मन्दॊच्चकॆन्द्रात् प्रतिमण्डलविधानॆन आनीतम् फलम् प्रत्यहम् उपचीयतॆ । क्व? अन्यस्य अश्रुतत्वात् मन्दॊच्चॆ ऎव । तस्मात् मन्दॊच्चात् अनुलॊमम् । प्रतिलॊमम् च ऎव शीघ्रॊच्चात् । यस्मात् प्रतिमण्डलविधानॆन आनीतम् फलम् सर्वदा अपचीयतॆ । कुतः? अन्यस्य अशृ‌उतत्वात् शीघ्रॊच्चात् ऎव । तस्मात् "प्रतिलॊमम् च ऎव शीघ्रॊच्चात्" इति ॥ १७ ॥

[ प्रतिमण्डलविधानम् ]

स्फुटाः प्रतिमण्डलॆ भ्रमन्ति इति उक्तम्, अतः तज्ञापनाय आह 

कक्ष्यामण्डलतुल्यम् स्वम् स्वम् प्रतिमण्डलम् भवति ऎषाम् ।

प्रतिमण्डलस्य मध्यम् घनभूमध्यात् अतिक्रान्तम् ॥ १८ ॥

कक्ष्यामण्डलतुल्यम् । कक्ष्यामण्डलॆन तुल्यम् कक्ष्यामण्डलतुल्यम् । कक्ष्यामण्डलप्रमाणम् "शशिराशयष्ठ चक्रम्" [गीतिका, ६] इति ऎतस्मिन् सूत्रॆ व्याख्यातम् । स्वम् स्वम् प्रतिमण्डलम् आत्मीयम् आत्मीयम् प्रतिमण्डलम्, भवति । ऎषाम् ग्रहाणाम् । प्रतिमण्डलस्य मध्यम् । यत् मध्यम् कॆन्द्रम् तत् घनभूमध्यात् अतिक्रान्तम् । घनाः च असौ भूः च घनभूः, तस्याः घनभुवः मध्यम् घनभूमध्यम्, तस्मात् घनभूमध्यात्, अतिक्रान्तम् निर्गतम् उपरिस्थितम् इति अर्थः । तत् यथा  यावत् प्रमाणपरिकल्पितम् षष्टिशतत्रयांशावच्छिन्नम् कक्ष्यामण्डलम् पूर्वापरम् ऊर्ध्वम् विन्यस्य, तादृश् ऎव अन्यत् मण्डलम् उपरि अधः कक्ष्यामण्डलात् वक्ष्यमाणॆन अन्तरॆण पूर्वापरयॊः दिशॊः यत्र सम्पातः तत्र यत् बध्यतॆ गॊलॆ तत्प्रतिमण्डलम् नाम । ऎवम् ऎतॆ कक्ष्याप्रतिमण्डलॆ व्याख्यातॆ ॥ १८ ॥

[ नीचॊच्चवृत्तिविधिना ग्रहगतिप्रतिपादनम् ]

कक्ष्याप्रतिमण्डलान्तरप्रतिपादनार्थम् आह 

प्रतिमण्डलभूविवरम् व्यासार्धम् स्वॊच्चनीचवृत्तस्य ।

वृत्तपरिधौ ग्रहाः तॆ मध्यमचारात् भ्रमन्ति ऎवम् ॥ १९ ॥

प्रतिमण्डलस्य भूमण्डलस्य च विवरम् प्रतिमण्डलभूविवरम् । व्यासार्धम् स्वॊच्चनीचवृत्तस्य । उच्चवृत्तम् नीचवृत्तम् च उच्चनीचवृत्तम्, स्वस्य उच्चनीचवृत्तम् स्वॊच्चनीचवृत्तम्, तस्य स्वॊच्चनीचवृत्तस्य व्यासार्धम् प्रतिमण्डलभूविवरम् । तत् यथा  "झार्धानि मन्दवृत्तम्" इति अधिकृत्य "शशिनः छ" [गीतिका, १०] इति सप्त शशिनः झार्धानि उच्चनीच्चवृत्तम्, सार्धैकत्रिंशद्भागप्रमाणम् इति अर्थः । यस्य यत् व्यासार्धम् तत् त्रैराशिकगणितॆन सिद्धम् । यदि "चतुरधिकम् शतम् अष्टगुणम्" [गणित, १०] इति ऎवमादॆः परिधॆः अयुततुल्यम् व्यासार्धम् लभ्यतॆ तदा सार्धैकत्रिंशद्भागप्रमाणस्य परिधॆः किम् इति लब्धम् भागाः पञ्च, लिप्ता च अर्धाधिकॆन ऎका । सूर्यस्य अपि त्रीणि झार्धानि मन्दवृत्तम्, सार्धत्रयॊदशभागप्रमाणम्, तस्य च त्रैराशिकॆन स्ववृत्तविष्कम्भार्धम् लब्धम् भागद्वयम्, अर्धाधिकॆन नव लिप्ताः । अथवा  यदि षष्टिशतत्रय[भागमित]परिधॆः [वसुत्रिकृतवह्निलिप्तामितम्]

व्यासार्धम् लभ्यतॆ तदा उच्चनीचपरिधॆः किम् इति लब्धम् चन्द्रस्य उच्चनीचव्यासार्धम् लिप्तात्रिशती सार्धाधिकरूपा । ऎवम् सूर्यस्य अपि शतम् ऎकॊनत्रिंशदुत्तरम् [सार्धम्] । तत्र भागप्रमाणॆन लिप्ताप्रमाणॆन वा कक्ष्याप्रतिमण्डलमध्यान्तरम् परिकल्प्यम् । ऎवम् सूर्याचन्द्रमसॊः । अन्यथा अन्यॆषाम् समविषमवृत्तमन्दॊच्चशीघ्रॊच्चभॆदॆन अनॆकप्रतिमण्डलप्रसंगभयात् उत्तरत्र वक्ष्यति  "भूताराग्रहविवरम्" [कालक्रिया, २५] इति । वृत्तपरिधिः कक्ष्यामण्डलम्, तस्मिन् वृत्तपरिधौ मध्यमचारम् ग्रहाः भ्रमन्ति । प्रतिमण्डलॆषु स्फुटचारम् भ्रमन्ति इति अर्थात् अवसीयतॆ ॥ १९ ॥

[ नीचॊच्चवृत्तपरिधौ ग्रहगतिः ]

ग्रहभुक्त्यानयनवक्रानुवक्रपरिज्ञानाय आह 

यः शीघ्रगतिः स्वॊच्चात् प्रतिलॊमगतिः स्ववृत्तकक्ष्यायाम् ।

अनुलॊमगतिः वृत्तॆ मन्दगतिः यः ग्रहः भवति ॥ २० ॥

शीघ्रा गतिः यस्य तत् शीग्रह्गतिः, शीघ्रगतिः च तत् स्वॊच्चम् च शीघ्रगतिः स्वॊच्चम्, शीघ्रततिःस्वॊच्चात् यः प्रतिलॊमगतिः शीघ्रगतिः । स्वॊच्चशब्दॆन स्वशीघ्रॊच्चभुक्तिः परिगृह्यतॆ । सा यदि शीघ्रॊच्चभुक्तिः स्वकॆन्द्रान्तज्या[साधितस्फुटमध्य]मभुक्तॆः [न पतति] तदा सा ऎव स्फुटमध्यमा भुक्तिः स्वकॆन्द्रान्तज्यासाधिता स्वशीघ्रॊच्चभुक्तॆः प्रतिलॊमॆ[न] पात्यतॆ । तदा शीघ्रगतिः स्वॊच्चगतिः इति उच्यतॆ । प्रतिलॊमशब्दॆन च विपरीतपातितशॆषलिप्ताः परिगृह्यन्तॆ । ऎवम् अयम् विग्रहार्थः निष्पन्नः भवति । प्रतिलॊमा गतिः यस्य सः प्रतिलॊमगतिः इति ।

आदितः ऎव ऎतत् भुक्त्यानयनम् प्रति वक्ष्यतॆ । तत् यथा  मन्दॊच्चकॆन्द्रान्तज्याम् क्रमॆण उत्क्रमॆण वा निष्पन्नाम् स्वमध्यमभुक्तिलिप्ताभिः गुणयॆत् । पुनर् च तत् कालप्रतिधिना गुणितस्य अष्टादशभिः सहस्रैः भागलब्धम् कॆन्द्रपदवशात् अर्धीकृत्य ग्रहमध्यमभुक्तिलिप्तासु प्रक्षिप्य विशॊध्य वा स्वशीघ्रॊच्चभुक्तिलिप्ताभिः शॊधयॆत् । शॆषम् स्वशीघ्रॊच्चकॆन्द्रान्तज्याक्रमॊत्क्रमज्यागुणम् तत् कालशीघ्रॊच्चपरिधिना गुणयॆत् । भागः अष्टादशभिः सहस्रैः । लब्धम् व्यासार्धगतम् स्वकर्णॆन विभजॆत् । लभ्दस्य अर्धम् कॆन्द्रपदवशात् ग्रहमध्यमभुक्तिलिप्तासु क्षिपॆत्, विशॊधयॆत् वा । ततः तम् क्षिप्तविशॊधितशॆषम् गृहीत्वा तृतीयकर्म  मन्दॊच्चकॆन्द्रान्तज्याक्रमॊत्क्रमज्याम् तत् कालपरिधिगुणम् अष्टादशभिः सहस्रैः विभजॆत् । लब्धम् समस्तम् ऎव ग्रहमध्यमभुक्तिलिप्तासु मन्दकॆन्द्रपदवशात् क्षिपॆत्, विशॊधयॆत् वा । क्षिप्तम् विशॊधितशिष्टम् वा स्फुटमध्यमभुक्तिलिप्ताः अविनष्टाः ताः स्वशीघ्रॊच्चभुक्तिलिप्ताभ्यः विशॊधयॆत् । शॆषम् [गृहीत्वा] चतुर्थकर्म  शीघ्रॊच्चकॆन्द्रान्त[ज्याक्रमॊत्क्रम]ज्याम् तत् कालपरिधिगुणम् अष्टादशभिः सहस्रैः विभजॆत् । लब्धम् व्यासार्धगुणम् कर्णॆन विभजॆत् । तत्र यद् अवाप्तम् तत् यदि क्षॆप्यम् स्फुटमध्यमभुक्तिलिप्तासु क्षिपॆत्, निष्पन्ना ग्रहस्य स्फुटभुक्तिः । अथ विशॊध्यम् सद् यदि स्फुटमध्यमभुक्तितः न पतति तदा प्रतिलॊमगतिः ग्रहः स्फुटमध्यमभुक्तिलिप्ताः ऎव विपरीतम् शॊध्याः । शॆषम् वक्रभॊगः । अस्मिन् अर्थॆ इयम् कारिका 

यः शीघ्रगतिः स्वॊच्चात् प्रतिलॊमगतिः स्ववृत्तकक्ष्यायाम् ।

प्रतिलॊमगतिः वक्रगतिः इति अर्थः ।

अनुलॊमगतिः वृत्तॆ । असौ अनुलॊमगतिः भवति । यदा शीघ्रॊच्चात् शीघ्रॊच्चकॆन्द्रान्तज्यानिष्पन्ना लिप्ताः स्फुटमध्यमभुक्तिलिप्ताभ्यः विशुद्धाः, तदा असौ ग्रहः अनुवक्री । तत्र च विशॆषलिप्ताः अनुलॊमशब्दवाच्याः । ततः अर्थात् अयम् विग्रहः अवसितः  अनुलॊमा गतिः यस्य स अनुलॊमगतिः इति । स च अल्पम् गच्चहति इति मन्दगतिः अभिधीयतॆ ॥ २० ॥

[ नीचॊच्चवृत्तभ्रमणप्रकारान्तरम् ]

ग्रहाणाम् स्फुटीकरणप्रकारान्तरम् आह 

अनुलॊमगानि मन्दात् शीघ्रात् प्रतिलॊमगानि वृत्तानि ।

कक्ष्यामण्डललग्नस्ववृत्तमध्यॆ ग्रहः मध्यः ॥ २१ ॥

अनुलॊमम् गच्छति इति अनुलॊमगतिः । तत् उक्तम्  मन्दात्, उक्तमन्दॊच्चावधॆः मध्यमात् इति । तत् अत्र अपि शीघ्रॊच्चावधॆः मध्यमात् इति ऎतत् ऎकप्रक्रमॆण भवितव्यम् । न इति आह  शीघ्रा[त् प्रतिलॊमग]तिः प्रतिलॊमावधॆः । शीघ्रॊच्चस्य प्रतिलॊमगतीनि विपरीतगतीनि यानि वृत्तानि परिधयः । अत्र वृत्तस्य ऎकदॆशॆ वृत्तशब्दॊप[चारात् परिधयः च] इति, यथा मन्दशीघ्रकॆन्द्रयॊः तज्ज्याकाष्ठॆ धनूंषि । अतः तानि धनूंषि मन्दकॆन्द्रात् जातानि क्रमॆण उप[चीयन्तॆ, शीघ्रकॆन्द्रात्] जातानि उत्क्रमॆण उपचीयन्तॆ । अतः "अनुलॊमगानि मन्दात् शीघ्रात् प्रतिलॊमगानि वृत्तानि" । कथम् पुनर् वृत्तानि मन्दशीघ्रकॆन्द्रयॊः तज्ज्याधनूंषि क्रमॊत्क्रम[गतीनि? गतॆ]ः अवस्थावाचकत्वात् । यथा 

गतिः अस्ति इति भूतानाम् सुकुमारायतॆ मनः ।

[अनस्त्वनिशम् ऎव ऊढम् धुरम्] वहति गौः इव ॥

तथा 

दानम् भॊगः नाशः तिस्रः गतयः भवन्ति वित्तस्य ।

यः न ददाति न भुंक्तॆ तस्य तृतीया गतिः भवति ॥ [भर्तृहरिः, नीतिशतकम्, ३४]

तस्मात् यानि ऎव ज्याधनूंषि तानि ऎव प्रतिलॊमानुलॊमगतीनि ।

अथ अत्र इदम् प्रष्टव्यम्  मन्दॊच्चज्याधनूंषि मन्दॊच्चात् उपचीयन्तॆ, शीघ्रॊच्चज्याधनूंषि शीघ्रॊच्चात् अपचीयन्तॆ । कुतः ऎतत्? सम्प्रदायाविच्छॆदात् । अथ "व्याख्यानतः विशॆषप्रतिपत्तिः, न हि सन्दॆहात् अलक्षणम्" [अष्टाध्यायी, शिवसूत्रम् ६, पातञ्जलमहाभाष्यम्] इति । अथवा मन्दॊच्चशीघ्रॊच्चश्रवणात् मन्दॊच्चशीघ्रॊच्चयॊः ऎव प्रतिपत्तिः, अन्यस्य अश्रुतत्वात् च ।

[ प्रतिमण्डलविधिना ग्रहस्फुटीकरणप्रक्रिया ]

अयम् आर्यासूत्रार्थः यथा घटतॆ तथा कर्मणा प्रतिपादयिष्यामः । इष्टात् ग्रहात् तत् मन्दॊच्चम् विशॊधयॆत् । शॆषम् राश्यादिकम् मन्दॊच्चात् प्रवृत्तम् तत् कक्ष्यामण्डलॊत्पन्नम् इति प्रतिमण्डलॆ क्रियतॆ, यस्मात् प्रतिमण्डलॆ स्फुटग्रहः भ्रमति । तॆन तस्मात् मन्दॊच्चात् आरभ्य यत् काष्ठम् तत् महति मण्डलॆ अल्पम् भवति । "महति महान्तः च राशयः ज्ञॆयाः । अंशाः कलाः तथा ऎवम् [कालक्रिया, १४] इति । अल्पॆ प्रतिमण्डलॆ तत् ऎव काष्ठम् बहुतरम् भवति, मानाल्पत्वात् । व्रीह्यादयः महता मानविशॆषॆण प्रमीयमानाः प्रस्थादिसंख्यया अल्पाः भवन्ति, [तॆ] ऎव अल्पॆन मानविशॆषॆण मीयमानाः प्रस्थादिशंख्यया बहवः भवन्ति ऎवम् अत्र अपि । कथम् पुनर् तत् काष्ठम् कक्ष्यामण्डलॊत्पन्नम् प्रतिमण्डलॆ प्रमीयतॆ? उच्यतॆ  तत् काष्ठस्य पदानि व्यतीतानि प्रत्याकलय्य वर्तमानपदस्य भुजाकॊटिज्यया कर्म इदम् क्रियतॆ  "प्रतिमण्डलस्य मध्यम् घनभूमध्यात् अतिक्रान्तम्" [कालक्रिया,

१८] इति प्रतिमण्डलभूविवरम् कॊट्याम् प्रथमचतुर्थयॊः पदयॊः प्रक्षिप्यतॆ, द्वितीयतृतीययॊः अपनीयतॆ ।

ऎतत् प्रतिपादनार्थम् समायामवनौ वृत्तकॆन्द्रम् निधाय यावत् तावत् प्रमाणपरिकल्पितव्यासार्धप्रमाणॆन कर्कटकॆन वृत्तम् आलिखॆत् । तस्य वृत्तस्य पूर्वापर[दक्षिणॊत्तर]लॆखॆ कृत्वा [तद्वृत्तकॆन्द्रात् अन्त्य]फल[ज्या]प्रमाणम् [सूत्रम् मन्दॊच्चाभिमुखम्] दक्षिणॆन निधाय तत्र कक्ष्यामण्डलव्यासार्धतुल्यकर्कटकॆन वृत्तम् आलिखॆत् । तत् प्रतिमण्डलम् इति उच्यतॆ । [तत् प्रथमचतुर्थपदयॊः] कक्ष्यामण्डलात् उपरि अवतिष्ठतॆ, द्वितीयतृतीययॊः

अधः । तत्र या कॊटिज्या सा कक्ष्यामण्डलॊत्पन्ना कक्ष्यामण्डलभूम्यन्तरालप्रमाणा । तॆन प्रतिमण्डलभूविवरान्तरालमात्रॆण प्रतिमण्डलम् प्रथमचतुर्थयॊः पदयॊः कॊटिः न प्राप्नॊति इति प्रक्षिप्यतॆ, द्वितीयतृतीयपदयॊः तावता अतीतात् प्रतिमण्डलात् कॊटिः इति अपनीयतॆ । ऎवम् प्रतिमण्डलॊत्पन्ना कॊटिः भवति । अथ यदि कॊटि[ज्यातः] प्रतिमण्डलभूविवरम् न शुध्यति, तदा प्रतिमण्डलभूविवरात् कॊटिज्या शॊध्यतॆ । तावती प्रतिमण्डलकॊटिः भवति । तत्र ऎवम् निष्पन्नायाः कॊटॆः भुजज्यायाः च वर्गसमासमूलम् कर्णः । तत् सूक्ष्मार्थिभिः अविशिष्यतॆ, प्रतिमण्डलकर्णस्य वृद्धिह्रासवशात् दृष्टिः भिद्यतॆ इति । तत् यदि व्यासार्धतुल्यॆन प्रतिमण्डलकर्णॆन यथा उक्तम् प्रतिमण्डलभूविवरम् लभ्यतॆ तदा तॆन प्रतिमण्डलकर्णॆन किम् इति । लब्धम् पूर्वकॊटिज्यायाम् प्रक्षिप्यतॆ अपनीयतॆ वा । ततः तद्भुजज्यावर्ग[समास]मूलम् कर्णः । तॆन पुनर् प्रतिमण्डलभूविवरानयनम् इति यावत् अविशॆषः । ततः अविशिष्टकर्णॆन व्यस्तत्रैराशिकम् क्रियतॆ  यदि व्यासार्धविष्कम्भस्य कक्ष्यामण्डलस्य इयम् भुजज्या लभ्यतॆ, तदा तॆन कर्णॆन प्रतिमण्डलजॆन का इति । व्यस्तत्रैराशिकत्वात् व्यासार्धम् गुणकारः, कर्णः भागहारः, लब्धम् प्रतिमण्डलभुजज्या । तत् काष्ठम् मन्दॊच्चॆ प्रक्षिप्य स्फुटः ग्रहः भवति, यस्य मन्दॊच्चकॆन्द्रम् प्रथमपदॆ । द्वितीयपदॆ षड्भ्यः राशिभ्यः विशॊध्य भुजा गृहीता इति षंभ्यः अपनीयतॆ, शॆषम् मन्दॊच्चॆ प्रक्षिप्यतॆ । तृतीयपदॆ चक्रार्धाधिकभुजा इति तत् चापम् चक्रार्धसहितम् मन्दॊच्चॆ प्रक्षिप्यतॆ । चतुर्थपदॆ द्वादशॆभ्यः विशुद्धशॆषम् भुजा इति चक्रात् तत् काष्ठम् विशॊध्य शॆषम् मन्दॊच्चॆ प्रक्षिप्यतॆ । ऎवम् स्फुटग्रहः भवति, यस्य शीघ्रॊच्चम् न विद्यतॆ ।

यॆषाम् पुनर् शीघ्रॊच्चम् विद्यतॆ तॆषाम् कर्मविशॆषः उच्यतॆ । तत् यथा  परिधिचालनाप्रयॊगॆण स्फुटीकृतपरिधिना व्यासार्धम् सम्गुणय्य अशीत्या भागलब्धम् प्रतिमण्डलभूविवरम् मन्दशीघ्रॊच्चयॊः । तॆन अनन्तराभिहितमन्दॊच्चकर्मणा मन्दॊच्च[फलम्] साधयॆत् । [तत्] सकलसंस्कृतः ग्रहः भवति । तत् ऎवम् निष्पन्नस्य, मध्यमस्य ग्रहस्य [च] यत् अन्तरार्धम् तत् मध्यमात् मन्दॊच्चसिद्धॆ अधिकॆ मध्यमग्रहॆ धनम्, ऊनॆ ऋणम् । ऎवम् मन्दॊच्चसं[स्करणम्] । ऎतत् ऎव कर्म "शनिगुरुकुजॆषु मन्दॆ अर्धम् ऋणधनम् भवति पूर्वम्" [कालक्रिया, २२] इति अनॆन ग्रन्थॆन अभिधीयतॆ । कथम्? सनिगुरुकुजॆषु, मन्दारगुरुषु मध्यमॆषु मध्यमकर्मणा सिद्धॆषु मन्दारगुरुषु इति अर्थः । "अर्धम् ऋणधनम् भवति पूर्वम्" [कालक्रिया, २२] इति कस्य अर्धम् ऋणम् धनम् वा भवति इति अत्र सम्प्रदायाविच्छॆदात् मन्दसिद्धमध्यमान्तरम् परिगृह्यतॆ । किम् तस्य अर्धम् मध्यॆ ग्रहॆ

धनम् ऋणम् वा पूर्वसिद्धॆ मन्दॊच्चकर्मणि भवति? इदम् च कर्म मन्दॊच्चशीघ्रॊच्चयॊः सामान्यॆन प्रसिद्धम् । कुतः? विशॆषानुवादना[भावा]त् । तत् यथा  ऎवम् अर्धॆन फलॆन संस्कृतम् मध्यमम् ग्रहम् शीघ्रॊच्चात् ग्रहात् विशॊधयॆत् । तत्र कॆन्द्रपदविभागॆन भुजाकॊटिज्यॆ गृहीत्वा स्फुटीकृतस्वशीघ्रॊच्चपरिधिना व्यासार्धम् संगुणय्य अशीत्या भागलब्धप्रतिमण्डलभूविवरॆण पूर्वकर्मणा ऎव संस्कृतात् कर्णम् आनयॆत् । अत्र अविशॆषाभावात् अविशॆषकर्म न प्रवर्ततॆ । ततः भुजज्यया व्यासार्धम् संगुणय्य कर्णॆन भागलब्धस्य काष्ठम् शीघ्रॊच्चकॆन्द्रॆ प्रथमपदॆ शीघ्रॊच्चात् अपनीयतॆ, द्वितीयॆ पदॆ षड्भ्यः विशॊध्य शॆषम् शीघ्रॊच्चात् अपनीयतॆ । तृतीयॆ पदॆ चक्रार्धयुक्तम्, चतुर्थॆ पदॆ द्वादशभ्यः विशुद्धशॆषम्, "शीघ्रात् प्रतिलॊमगानि वृत्तानि" इति वचनात् । ऎवम् शीघ्रॊच्चसकलफलसंस्कृतः ग्रहः भवति । तस्य मन्दॊच्चसिद्धस्य च पूर्ववत् ऎव अन्तरार्धम् मन्दॊच्चसिद्धॆ पूर्वकल्पनया ऎव धनम् ऋणम् वा कुर्यात् । तत् मन्दशीघ्र[सिद्ध]म् अविनष्टम् विधाय तस्मात् मन्दॊच्चम् विशॊध्य पूर्ववत् ऎव मन्दॊच्चम् साधयॆत् । तस्य मन्दॊच्चसिद्धस्य द्विसंस्कृतस्य अविनष्टस्थापितस्य च यः विशॆषः तम् सकलम् ऎव द्विसंस्कृतहीनमध्यमात् विशॊधयॆत्, अधिकमध्यमॆ प्रक्षिपॆत् । [अर्थात् द्विसंस्कृतमन्दसिद्धॆ ऊनॆ सति विशॊधयॆत् अन्यथा प्रक्षिपॆत्] । तम् ऎवंकृतम् शीघ्रॊच्चात् विशॊध्य शीघ्रॊच्चप्रसिद्धकर्मणा संसिद्धः स्फुटः ग्रहः भविष्यति इति । ऎतत् ऎव कर्म संक्षॆपॆण अस्माभिः कर्मनिबन्धॆ उक्तम् 

प्रतिमण्डलकर्म अपि यॊज्यम् अत्र विपशिचिता ।

मन्दॊच्चॆ पूर्ववत् कुर्यात् शीघ्रॊच्चात् तत् विशॊध्यतॆ ॥

तत् ऎव कॆवलम् शॊध्यम् [चक्रार्धात् शॊध्य तत् चलात्] ।

चक्रार्धसंयुतम् चापम् चक्रात् शुद्धम् च शॆषयॊः ॥

स्फुटवृत्तगुणाम् त्रिज्याम् भक्त्वा अशीत्या स्वकॊटितः ।

त्यक्त्वा पदॆषु युक्त्वा वा कर्णः प्राग्वत् प्रसाध्यतॆ ।

मन्दॊच्चसिद्धतन्मध्यविश्लॆषार्धसमन्वितः ।

मन्दसिद्धॆ अधिकॆ हीनॆ रहितः मध्यमः ग्रहः ॥

स शीघ्रॊच्चात् पुनर् साध्यः सिद्धयॊः अन्तरालजम् ।

अर्धीकृत्य सकृत् सिद्धॆ पूर्ववत् परिकल्पयॆत् ॥

ऎवंकृतस्य भूयः अपि मन्दसिद्धिम् समाचरॆत् ।

मन्दसिद्धस्य तस्य अयम् विशॆषः यः अभिधास्यतॆ ॥

द्विसिद्धमन्दसिद्धस्य द्विसिद्धस्य यत् अन्तरम् ।

प्राग्वत् तत् मध्यमॆ कृत्वा शीघ्रसिद्धः स्फुटः ग्रहः ॥ [महाभास्करीयम्, ४.४५-५१]

अत्र शनिगुरुकुजग्रहणम् शीघ्रॊच्चवत् ग्रहप्रतिपादनार्थम् । तॆन बुधशुक्रयॊः अपि इदम् कर्म क्रियतॆ ।

कक्ष्यामण्डललग्नस्ववृत्तमध्यॆ । कक्ष्यामण्डलॆ लग्नम् कक्ष्यामण्डललग्नम् । किम् तत्? स्ववृत्तमध्यम्, स्ववृत्तमण्डलमध्यम् । कक्ष्यामण्डललग्नम् च तत् स्ववृत्तमध्यम् च कक्ष्यामण्डललग्नस्ववृत्तमध्यम् । तस्मिन् कक्ष्यामण्डललग्नस्ववृत्तमध्यॆ । ग्रहः मध्यः । यः असौ मध्यः ग्रहः स कक्ष्यामण्डललग्नस्ववृत्तमध्यॆ भवति । ऎतत् उक्तम् भवति  कक्ष्याप्रतिमण्डलयॊः यत्र सम्पातः तत्र यः असौ मध्यमग्रहः, स ऎव स्फुटः इति ।

[ ग्रहस्फुटीकरणॆ अन्यॆषाम् मतप्रदर्शनम् ]

अथ अन्यॆ अन्यथा व्याख्यानम् कुर्वन्ति । अनुलॊमम् गच्छन्ति इति अनुलॊमगानि । कानि? वृत्तानि, परिधयः इति अर्थः । मन्दात् । मन्दॊच्चात् प्रभृति यानि मन्दॊच्चवृत्तानि मन्दॊच्चात् आरभ्य अनुलॊमम् गच्छन्ति, यस्मात् मन्दॊच्चकॆन्द्रम् अहर् अहर् उपचीयतॆ । शीघ्रात् प्रतिलॊमगानि । शीघ्रात् शीघ्रॊच्चात् आरभ्य यानि शीघ्रॊच्चवृत्तानि तानि प्रतिलॊमम् गच्छन्ति, यस्मात् शीघ्रॊच्चकॆन्द्रम् अहर् अहर् अपचीयतॆ । अत्र इदम् प्रष्टव्यम्  कथम् वा मन्दॊच्चकॆन्द्रम् अहर् अहर् उपचीयतॆ, कथम् वा शीघ्रॊच्चकॆन्द्रम् अहर् अहर् अपचीयतॆ इति? उच्यतॆ  ग्रहात् पतितॆ मन्दॊच्चॆ [मन्दकॆन्द्र]भुक्तयः उपचीयन्तॆ, ग्रहात् पतितॆ शीघ्रॊच्चॆ शीघ्रकॆन्द्रभुक्तयः अपचीयन्तॆ । यदि ऎवम् ग्रहात् शीघ्रॊच्चम् न पतति महत्त्वात् तर्हि मण्डलम् प्रक्षिप्य पात्यतॆ इति । तत्र भगणाः भगणॆभ्यः विशॊध्याः, राशयः राशिभ्यः, भागाः भागॆभ्यः, लिप्ताः लिप्ताभ्यः इति ऎषः क्रमः । तत्र ग्रहभगणॆभ्यः शीघ्रॊच्चभगणाः ऎव तावत् न

शुद्ध्यन्ति । कुतः असौ भगणः यम् प्रक्षिप्य शीघ्रॊच्चम् विशॊध्यतॆ? तस्मात् गणितयुक्त्या यानि अपि शीघ्रवृत्तानि तानि अपि अनुलॊमगानि ऎव । आचार्यॆण तु करणलाघवार्थम् "प्रतिलॊमगानि वृत्तानि" इति उक्तम् । किम् पुनर् अत्र करणलाघवम्? कामचारः । यदि ग्रहः शीघ्रॊच्चात् पतति तदा ग्रहः शीघ्रॊच्चात् विशॊध्यतॆ । यदा च शीघ्रॊच्चम् ग्रहात् पतति तदा ग्रहात् शीघ्रॊच्चम् विशॊध्यतॆ इति । सत्यम् ऎव ऎतत्, किन्तु ज्यापरिधिकल्पना व्यभिचरति । यदा ग्रहात् शीघ्रॊच्चम्

विशॊधितम् भवति तदा अन्यथा ज्या अन्यथा परिधिः, तदानीम् ऎव शीघ्रॊच्चात् विशुद्धॆ ग्रहॆ अन्यथा ज्या अन्यथा ऎव परिधिः । अथ मन्यतॆ शीघ्रॊच्चविशुद्धॆ ग्रहॆ यत् प्रथमपदम् तत् चतुर्थपदम्, यत् द्वितीयपदम् तत् तृतीयपदम्, यत् तृतीयपदम् तत् द्वितीयपदम्, यत् चतुर्थपदम् तत् प्रथमपदम् इति । ऎवम् तर्हि यत् ज्यायसी कल्पना, तस्मात् मन्दॊच्चम् ग्रहात् विशॊध्यम् । ग्रहः च शीघ्रॊच्चात् । मन्दशीघ्रवृत्तानि क्रमॊत्क्रमॆण ऎव गच्छन्ति । कक्ष्यामण्डललग्नः । कक्ष्यायाः मण्डलम् कक्ष्यामण्डलम् । अथवा कक्ष्या च सा मण्डलम् च तत् कक्ष्यामण्डलम् । तॆन कक्ष्यामण्डलॆन लग्नः कक्ष्यामण्डललग्नः । कः? ग्रहः मध्यः । स्ववृत्तमध्यॆ । स्वस्य वृत्तम् स्ववृत्तम् । तत् च सामान्यॆन मन्दवृत्तम् शीघ्रवृत्तम् च परिगृह्यतॆ । तस्य स्वमन्दवृत्तस्य [स्वशीघ्र]वृत्तस्य च मध्यम् स्ववृत्तमध्यम् । तत्र ग्रहस्य मध्यः, स च कक्ष्यामण्डलासक्तः । स्ववृत्तस्य कक्ष्यामण्डलॆ यथा मध्यम् भवति तथा बध्नीयात् । तस्मिन् स्ववृत्तॆ यथा कक्ष्यामण्डलॆ यथा मध्यम् भवति तथा बध्नीयात् । तस्मिन् स्ववृत्तॆ यथा कक्ष्यामण्डलॆ ज्या अवितिष्ठतॆ तथा ऎव अवतिष्ठमाना द्रष्टव्या । कथम्? यथा कक्ष्यामण्डलस्य षण्णवत्यंशका काष्ठज्या । ऎवम् अत्र अपि षण्णवत्यंशका काष्ठज्या परिकल्पनीया । तत् यथा  उच्चात् आरभ्य भुजज्याकॊटिज्याभ्याम् त्रैराशिकम्  यदि षष्टिशतत्रयपरिधौ इमॆ भुजज्याकॊटिज्यॆ, [तदा] उच्चनीचपरिधौ कॆ इति । अथवा  व्यासार्धॆन इमॆ भुजज्याकॊटिज्यॆ, ततः अन्त्यफलतुल्यॆन उच्चनीचवृत्तव्यासार्धॆन कॆ इति । लब्धॆ उच्चनीचवृत्तस्य भुजज्याकॊटिज्यॆ । तत्र प्रथमचतुर्थयॊः पदयॊः व्यासार्धात् उपरि कॊटिसाधनम् स्थितम् इति व्यासार्धॆ प्रक्षिप्यतॆ । द्वितीयतृतीययॊः पदयॊः व्यासार्धॊनम् प्रवृत्तम् इति व्यासार्धात् अपनीयतॆ । ऎवम् कॊटिका निष्पन्ना भवति, भुजाकॊटिवर्गसमासमूलम् कर्णः । ऎवम् मन्दशीघ्रयॊः कर्णॊत्पत्तिः ॥ २१ ॥

[ नीचॊच्चवृत्तविधिना शनिगुरुकुजस्फुटीकरणम् ]

ग्रहाणाम् ऋणधनप्रतिपादनाय आह 

क्षयधनधनक्षयाः स्युः मन्दॊच्चात् व्यत्ययॆन शीघ्रॊच्चात् ।

शनिगुरुकुजॆषु मन्दात् अर्धम् ऋणम् धनम् भवति पूर्वॆ ॥ २२ ॥

क्षयधनधनक्षयाः । क्षयः च धनः च धनः च क्षयः च क्षयधनधनक्षयाः । ऎतॆ क्षयधनधनक्षयाः यथासंख्यॆन पदॆषु प्रत्यॆतव्याः । तत् यथा  प्रथमॆ पदॆ क्षयः, द्वितीयॆ पदॆ धनम्, तृतीयॆ पदॆ धनम् ऎव, चतुर्थॆ पदॆ क्षयः इति । अयम् क्षयादिक्रमः ।

पदक्रमः च कस्मात् परिगृह्यतॆ इति आह  मन्दॊच्चात् प्रवृत्तात् ग्रहात् । कुतः? उच्यतॆ  "मन्दॊच्चात्" इयम् पञ्चमी मर्यादाभिधायिनी । ततः मन्दॊच्चात् इति अनॆन मन्दॊच्चात् प्रवृत्तः ग्रहः परिगृह्यतॆ । स कथम् मन्दॊच्चात् प्रवृत्तः ग्रहः ज्ञॆयः? उच्यतॆ  न अत्र किञ्चित् अपि ज्ञॆयम् । यावद्भिः मन्दॊच्चात् अधिकः ग्रहः तवता असौ मन्दॊच्चात् प्रवृत्तः ग्रहः ज्ञॆयः । तॆन तत्परिज्ञानार्थम् मन्दॊच्चम् ग्रहात् पात्यतॆ, तत्र शॆषॆण राश्यादिना मन्दॊच्चात् प्रवृत्तः असौ ग्रहः भवति । तस्मात् प्रथमपदॆ या क्रमज्या तस्याः फलम् त्रैराशिकॆन आनीयतॆ । यदि षष्टिशतत्रयपरिधॆः इयम् ज्या, तदा इष्टग्रहपरिधॆः का इति फलम् लभ्यतॆ । ऎतत् ऎव त्रैराशिकम् । झार्धापवर्तमानषष्टिशतत्रयपरिधॆः अशीतिः, स्वपरिधिभागानाम् यथा उक्ताक्षरसंख्या । तॆन परिधिना गुणितज्यायाः अशीतिः भागहारः । स्वपरिध्यक्षरसंख्या गुणकारः । लब्धम् फलम् ऋणम् ऎव । द्वितीयपदॆ उत्क्रमॆण ज्या व्यवस्थिता इति, उत्क्रमज्याफलम् धनम् । पुनर् तृतीयपदॆ क्रमॆण ज्या व्यवस्थिता इति क्रमज्याफलम् धनम् । चतुर्थॆ पदॆ उत्क्रमॆण ज्या व्यवस्थिता इति उत्क्रमज्याफलम् क्षयः । तत्र प्रथमपदॆ ऎव मन्दकॆन्द्रम्, तत् उत्पन्नम् ऎव फलम् ग्रहमध्यॆ क्षयः । यदा द्वितीयपदॆ कॆन्द्रम् तदा प्रथमपदव्यासार्धज्यॊत्पन्नम् अशॆषफलम् क्षयः, द्वितीयपदॊत्क्रमज्याफलम् धनम् । प्रथमद्वितीयपदाभ्याम् तृतीयचतुर्थपदॆ व्याख्यातॆ ।

अथवा करणलाघवार्थम् ऎवम् क्रियतॆ  प्रथमपदॆ यत् उत्पन्नम् क्रमॆण ज्याफलम् क्षयः । द्वितीयपदॆ यत् उत्पन्नम् पुनर् यत् गतम् राश्यादिकम् अतीतम् प्रथमपदसंज्ञितराशित्रयात् क्षयात्मकात् धनात्मकम् तत् द्वितीयपदस्य यत् गतम् तत् विशॊध्य शॆषम् तत्र क्षयः ऎव अवतिष्ठतॆ, तॆन तत् उत्पन्नम् फलम् मध्यमग्रहॆ क्षयः । ऎवम् द्वितीयपदान्तॆ क्षयधनयॊः तुल्यत्वात् न किञ्चित् अवतिष्ठतॆ । तस्मात् सामर्थ्यतः अयम् अर्थः संजातः  प्रथमपदॆ गतज्याफलम् क्षयः, द्वितीयपदॆ अपि आगतज्याफलम् क्षयः । ऎतॆन मन्दकॆन्द्रफलम् मॆषादिकॆ क्षयः । तत् ऎतत् प्रथमपदॆ गतम् भुजासंज्ञितम् द्वितीयपदॆ अनागतम् । कॊटिसंज्ञितम् [प्रथमपदॆ अनागतम्] द्वितीयपदॆ गतम् । तृतीयचतुर्थयॊः च । तृतीयपदॆ क्रमज्याफलम् धनम् । चतुर्थपदॆ तृतीयपदराशित्रयात् धनात् धनसंज्ञितात् चतुर्थपदराश्यादिगतक्षयसंज्ञितम् विशॊध्यतॆ, शॆषम् धनम् ऎव अवतिष्ठतॆ । ऎवम् चतुर्थपदान्तॆ धनक्षययॊः तुल्यत्वात् न किंचित् अवशिष्यतॆ । तस्मात् अत्र अपि स ऎव अर्थः तुलादिकॆन्द्रॆ भुजाफलम् धनम् इति ।

सुष्ठु खलु ऎतत् अवगम्यतॆ । यदि पदॆषु सर्वॆषु तुल्याः परिधयः तदा ऎवम् स्यात् । न च तुल्याः परिधयः पठ्यन्तॆ । अतुल्यॆषु च परिधिषु प्रतिमण्डलस्य च अपि अवस्था विरुध्यतॆ । कुतः? प्रथमपदॆ शुक्रस्य चतुष्कः परिधिः । तत्र द्वितीयपदप्राप्तौ ऎव द्विकः परिधिः । तत्र अर्धपहलम् परिहीयतॆ । ग्रहः तु गच्छन् क्रमॆण गच्छति, न हरिणप्लुतॆन । न ऎष दॊषः । तुल्याः परिधयः । ननु च उक्तम्  न च तुल्याः परिधयः पठ्यन्तॆ इति । न ऎतत् अस्ति । ऎवम् विज्ञायतॆ  ऎतॆ परिधयः उपचया[पचया]त्मकाः, यतः तॆन तुल्यॊपचयापचयात्मकत्वात् क्रमॊत्क्रमव्यवस्थायाः, यतः तॆ ऎव भवन्ति इति । तॆन तुल्याः उच्यन्तॆ । तत् यथा  प्रथमपदॆ क्रमज्याम् परिध्यन्तरॆण हत्वा व्यासार्धॆन लब्धम् ऊनॆ विषमपदपरिधौ प्रक्षिप्यतॆ, अधिकॆ अपनीयतॆ । प्रथमद्वितीयपदाभ्याम् तृतीयचतुर्थपदॆ व्याख्यातॆ ।

व्यत्ययॆन शीघ्रॊच्चात् । शीघ्रॊच्चकॆन्द्रात् पदवशात् क्रमॊत्क्रमज्याफलम् विपरीतम् । प्रथमचतुर्थयॊः पदयॊः धनम्, द्वितीयतृतीययॊः क्षयः इति विपर्ययः । अथवा भुजाफलम् शीघ्रक्रमॆण आनीतम् मॆषादौ धनम्, तुलादावृणम् । परिधिचालनाद्यशॆषम् पूर्ववत् ऎव । अत्र शीघ्रफलम् व्यासार्धॆन संगुणय्य तत् उत्पन्नक्रर्णॆन भागलब्धम् फलम् धनम् ऋणम् वा । ऎतत् च कर्म त्रैराशिकम्  यदि व्यासार्धमण्डलॆ इदम् फलम् लभ्यतॆ, तदा शीघ्रॊच्चकर्णमण्डलॆ कियत् इति व्यस्तत्रैराशिकॆन व्यासार्धम् गुणकारः, कर्णः भागहारः । अत्र किम् इति व्यस्तत्रैराशिकम्? उच्यतॆ  "अल्पॆ हि मण्डलॆ अल्पाः महति महान्तः च राशयः ज्ञॆयाः" [कालक्रिया, १४] इति अनॆन । अथ मन्दॊच्चफलम् ऎवम् कस्मात् न क्रियतॆ? उच्यतॆ  क्रियमाणॆ अपि तावत् ऎव तत् फलम् भवति इति न क्रियतॆ । कुतः? मन्दॊच्चकर्णः अविशिष्यतॆ । तत्र च अविशॆषितॆन फलॆन व्यासार्धम् संगुणय्य कर्णॆन भागॆ हृतॆ पूर्वम्

आनीतम् ऎव फलम् भवति इति । अथ किम् इति शीघ्रॊच्चकर्णः न अविशिष्यतॆ? अभावात् अविशॆषकर्मणः । 

अथ अत्र इदम् प्रष्टव्यम्  कक्ष्यामण्डलस्य यथा स्वयॊजनकर्णः व्यासार्धः, तत् च स्वलिप्ताभिः मीयमानः वस्वग्निवॆदरामाः [३४३८], प्रतिमण्डलस्य अपि ऎतत् ऎव व्यासार्धम् इति ऎतत् । कक्ष्यामण्डलॊत्पन्नज्याफललिप्ताभिः त्रैराशिकाभावः, कक्ष्याप्रतिमण्डलयॊः तुल्यव्यासार्धत्वात् । अथ मन्यतॆ  तत्कालॊत्पन्नभुजाकॊटिनिष्पन्नकर्णः व्यासार्धम् प्रतिमण्डलस्य । तॆन त्रैराशिकॊपपत्तिः । ऎवम् तर्हि न कक्ष्यामण्डलतुल्यम् प्रतिमण्डलम् इति । अत्र उच्यतॆ  चतुर्थपदादौ कक्ष्याप्रतिमण्डलॆ तुल्यॆ । तॆन कक्ष्याप्रतिमण्डलयॊः तुल्यम् व्यासार्धम् । ततः प्रभृति प्रतिमण्डलव्यासार्धम् [क्रमॆण उपचीयतॆ] । ऎवम् क्रमॆण उपचीयमानम् उच्चतुल्यग्रहॆ स्वॊच्चवृत्तविष्कम्भार्धम् उपचितम् भवति । तत् ऎव प्रथमपदादौ प्रभृति उत्क्रमॆण अपचीयमानम् प्रथमपदान्तॆ व्यासार्धम् ऎव भवति । ऎवम् क्रमॆण अपचीयमानम् द्वितीयपदान्तॆ उच्चवृत्तविष्कम्भार्धम् अपचितम् भवति । तृतीयॆ [पदान्तॆ] च उत्क्रमॆण उपचीयमानम् इति ऎतत् कक्ष्यामण्डलव्यासार्धम् ऎव । ग्रहस्य उच्चनीचगतिक्रमात् उपचयापचयात्मकम् भवति इति अतः प्रतिमण्डलस्य उपदॆशः । घनभूमध्यात् ऎव ग्रहस्य उच्चनीचपरिज्ञानम् इति अतः व्यासार्धम् ऎव कॊटिफलॆन उपचीयतॆ अपचीयतॆ वा । अथ यदि प्रतिमण्डलमध्यात् व्यासार्धस्य वृद्धिह्रासौ स्याताम् । तदा तृतीयम् मण्डलम् परिकल्पयितव्यम् स्यात् । घनभूमध्यात् कर्णस्य उपचयापचयौ, तॆन तत्कर्णॆन व्यस्तत्रैराशिकॊपपत्तिः इति । ऎतत् गणितन्यायसिद्धम् ऎव ।

शनिगुरुकुजॆषु । शनिः च गुरुः च कुजः च शनिगुरुकुजाः । अतः तॆषु शनिगुरुकुजॆषु मन्दात् मन्दॊच्चात् प्रभृति य[त् फलम् उपपद्यतॆ] तत् अर्धम् ऋणम् धनम् वा भवति । पूर्वॆ पूर्वकर्मणि, मन्दात् प्रभृति इति । शीघ्रात् अपि च यत् फलम् तत् तॆषु अर्धम् क्रियतॆ प्रथमॆ शीघ्रकर्मणि । अन्यत्र द्वितीयकर्मणि मन्दशीघ्रयॊः सकलफलम् इति अर्थात् अवसीयतॆ । मन्दशीघ्रफलानि काष्ठानि ऋणम् धनम् वा परिकल्प्यतॆ । यतः काष्ठॆन ग्रहः भ्रमति । तत् फलम् क्व ऋणम् क्व वा धनम् इति  शनिगुरुकुजॆषु । अत्र शनिगुरुकुजाः मध्यमाः ऎव परिगृह्यन्तॆ । कुतः? मध्यमस्य स्फुटीकरणॊपायत्वात् । तदा हि ऎतॆ स्फुटीभवन्ति ।

यदि ऎतत् कर्म शनिगुरुकुजॆषु मध्यमॆषु क्रियतॆ, मन्दॊच्चफलार्धॆन मध्यमॆ ऋणधनॆ कृतॆ तस्य ऋणधनीकृतस्य मध्यमत्वम् हीयतॆ । [अतः] शीघ्रॊच्चफलचापार्धस्य अविकृतमध्यमॆ धनर्णॆ प्राप्नुतःझ्। न ऎतत् अस्ति । मन्दॊच्चफलचापार्धधनर्णीकृतः ऎव भविष्यति । कुतः? "ऎकदॆशविकृतम् अनन्यवत् भवति" इति [अष्टाध्यायी, ४.१.८३ पातञ्जलमहाभाष्यम्] ऎकदॆशविकृतः अपि मध्यः ऎव । यथा दॆवकत्तः स्वलंकृतः अपि स्वम् आख्यानम् न जहाति, न च कर्णनासावच्छॆदॆन अपि, ऎवम् अत्र अपि, द्वॆ कर्मणी तत्र तत्र ऎव मध्यमॆ क्रियॆतॆ । अथवा प्रथममध्यमात् मन्दॊच्चायातम् फलार्धम् मध्यमॊत्पन्नत्वात् मध्यमॆ क्रियतॆ । यत् पुनर् शीघ्रॊच्चायातम् सकृत्संस्कृतात् फलार्धम् तत् सकृत्संस्कृतायातम् ऎव इति कृत्वा सकृत्संस्कृतः ऎव क्रियतॆ । तस्मात् द्विकर्मसंसिद्धात् मन्दॊच्चफलम् तत् सकलम् ऎव मध्यमॆ ग्रहॆ क्रियतॆ । स स्फुटमध्यमः भवति ।

अथ इदम् प्रष्टव्यम्  यत् ऎतत् द्विकर्मसिद्धमन्दॊच्चायातम् तत् द्विकर्मसंसिद्धॆ ऎव कस्मात् न क्रियतॆ । उच्यतॆ  " मन्दॊच्चात् स्फुटमध्याः" [कालक्रिया, २३] इति मध्यमॆ क्रियतॆ । ननु च द्विकर्मसिद्धः अपि मध्यमः ऎव । कुतः? "ऎकदॆशविकृतम् अनन्यवत् भवति" इति वचनात् । ऎवम् तर्हि सिद्धॆ, पुनर् स्फुटमध्यमग्रहणम् कुर्वन् आचार्यः ज्ञापयति अविकृतमध्यः इति । अन्यथा हि स्फुटमध्यमग्रहणम् अतिरिच्यतॆ । तस्मात् द्वितीयफलम् मन्दॊच्चायातम् तत् सकलम् ऎव मध्यमॆ ग्रहॆ क्रियतॆ ।

शीघ्रॊच्चात् च स्फुटाः ज्ञॆयाः इति । स ऎवंकृतॆ स्फुटमध्यमः शीघ्रॊच्चकर्मणा स्फुटः भवति इति स्फुटमध्यमॆ शीघ्रॊच्चफलधनुः सकलम् क्रियतॆ, स्फुटः भवति ।

ऋणधनयुक्तिप्रदर्शनार्थम् व्यासार्धतुल्यॆन कर्कटकॆन समायामवनौ समवृत्तमण्डलम् आलिख्य मातृपितृरॆखाम् कुर्यात् । तत् कक्ष्यामण्डलम् राशिज्यारॆखाविरचितम् । तन्मण्डलकॆन्द्रात् यावत्यः अभीष्टग्रहान्त्यफललिप्ताः तावति अन्तरॆ च दक्षिणॆन कॆन्द्रम् कृत्वा व्यासार्धतुल्यॆन ऎव कर्कटकॆन तथा ऎव समवृत्तमण्डलम् आलिखॆत् । तत् प्रतिमण्डलम् । [कक्ष्या]मण्डलात् यावद्भिः प्रतिमण्डलम् निष्क्रान्तम् तावता व्यासार्धॆन कक्ष्यामण्डलदक्षिणॊत्तररॆखासंपातॆ कॆन्द्रम् कृत्वा उभयत्र वृत्तद्वयम् आलिख्य[तॆ । तॆ नीचॊच्च]वृत्तॆ । तयॊः यथा कक्ष्यामण्डलॆ राशिज्याविकल्पः तथा करणीयम् । प्रथमचतुर्थयॊः पदयॊः कक्ष्यामण्डलात् उपरिस्थितत्वात् प्रतिमण्डलस्य व्यासार्धॆ कॊटिसाधनम् प्रक्षिप्य कर्णः कृतः, तावत् प्रमाणम् सूत्रम् [प्रतिमण्डलपरिधिम्] यत्र स्पृशति तत्र स्थानॆ स्फुटः ग्रहः । कक्ष्यामण्डलज्या च तस्मात् पुरतः इति अर्थः । प्रथमचतुर्थयॊः पदयॊः तत् उत्पन्नम् फलम् मध्यमग्रहात् अपचीयतॆ । द्वितीयतृतीययॊः पदयॊः कक्ष्यामण्डलात् अधॊव्यवस्थितत्वात् प्रतिमण्डलस्य, व्यासार्धात् कॊटिसाधनम् अपनीय कृतः कर्णः, तावत्प्रमाणम् सूत्रम् कक्ष्यामण्डलमध्यात् प्रतिमण्डलपरिधिम् यत्र स्पृशति तत्र स्फुटः ग्रहः । स च कक्ष्यामण्डलज्याप्रदॆशात् पुरतः अवतिष्ठतॆ । तॆन तत् उत्पन्नम् फलम् द्वितीयतृतीययॊः पदयॊः मध्यमग्रहात् उपचीयतॆ ।

शीघ्रॊच्चॆ पुनर् यॆषाम् क्षयधनधनक्षयाः स्युः मन्दॊच्चात् ऎवम् ऎव शीघ्रॊच्चात् इति अयम् पाठः तॆषाम् इयम् ऋणधनॊपपत्तिः । यॆषाम् पुनर् व्यत्ययॆन शीघ्रॊच्चात् इति अयम् पाठः तॆषाम् इयम् ऎव उपपत्तिः विपरीता । कथम्? प्रतिमण्डलॆ स्फुटः च ग्रहः, मध्यमः च शीघ्रॊच्चपरिकल्पनाय कक्ष्यामण्डलॆ । पुनर् कॆन्द्रज्या तॆन प्रथमचतुर्थयॊः पदयॊः पृष्ठतः स्थितत्वात् मध्यमस्य कॆन्द्रज्याग्रहस्य आनीयमानस्य कॆन्द्रज्यॊत्पन्नम् फलम् धनम् भवति पुरःस्थितत्वात् कॆन्द्रज्याग्रहस्य, द्वितीयतृतीययॊः पदयॊः पृष्ठतः स्थितत्वात् कॆन्द्रज्याग्रहस्य तत् फलम् अपनीयतॆ । अतः ऎवम् मन्दशीघ्रयॊः परस्परविरुद्धत्वात् उपपत्तॆः, आचार्यॆण परमार्थस्फुटग्रहप्रदॆशः भूताराग्रहविवरप्रमाणप्रदॆशः दर्शितः । तॆन यावत् भूताराग्रहविवरप्रमाणम् सूत्रम् कक्ष्यामण्डलमध्यात् प्रतिमण्डलपरिधिम् पदविभागॆन प्रसारितम् यत्र स्पृशति, तत्र स्फुटः ग्रहः ।

अन्यॆ पुनर् अन्यथा पठन्ति  शनिगुरुकुजॆषु मन्दॆ अर्धम् ऋणम् धनम् भवति पूर्वम् इति । मन्दॆ मन्दॊच्चॆ अर्धम् फलस्य ऋणम् धनम्, यदि तत् ग्रहॆ ऋणम् धनम् तदा तत् मन्दॊच्चॆ धनम् ऋणम् इति अर्थात् अवसीयतॆ । तत्र कियत् तत् फलम् मन्दॊच्चॆ ऋणम् सत् धनम् भवति, धनम् सत् ऋणम् भवति इति उच्यतॆ  शीघ्रॊच्चफलम् यस्मात् मन्दॊच्चफलम् च फलद्वयम् ऎतत् । तयॊः मन्दॊच्चम् आधारः । फलद्वयम् आधॆयः । अतः शीघ्रॊच्चफलम् क्रियतॆ । कर्मचतुष्टयग्रहणात् तत् उत्पन्नम् च फलम् तत्र ऎव । तत् यथा  प्राग् ऎव शीघ्रफलम् आनीय तत् अर्धम् ऋणम् धनम् वा मन्दॊच्चॆ कृत्वा तत् मन्दायातम् च तॆन फलद्वयसंस्कृतॆन मन्दॊच्चॆन संस्कृतः स स्फुटमध्यः ग्रहः भवति । स शीघ्रकर्मणा स्फुटः इति प्रक्रियान्तरम् ऎतत् ॥ २२ ॥

[ प्रकारान्तरॆण शनिगुरुकुजस्फुटीकरणम् ]

ग्रहाणाम् स्फुटीकरणप्रकारान्तरम् आह 

मन्दॊच्चात् शीघ्रॊच्चात् अर्धम् ऋणम् धनम् ग्रहॆषु मन्दॆषु ।

मन्दॊच्चात् स्फुटमध्याः शीघ्रॊच्चात् च स्फुटाः ज्ञॆयाः ॥ २३ ॥

मन्दॊच्चात् यत् फलम् आयातम् तस्य चापार्धम् ऋणम् धनम् वा ग्रहॆषु ऋणम् धनम् [मन्दॆषु वा कर्तव्यम्] । ऎवम् तर्हि चकारः कर्तव्यः । चकारॆण विना ग्रहॆषु मन्दॆषु च इति चार्थः न लभ्यतॆ । न चकारः कर्तव्यः । अन्तरॆण अपि चकारम् चार्थः अवगम्यतॆ । [कथम्?] ऎवम् 

बालॆ वृद्धॆ क्षतॆ क्षीणॆ क्षीरम् युक्त्या प्रयॊजयॆत् । इति अत्र चकारॆण विना चार्थस्य अवगमनात् । ऎवम् अयम् अपि । "स्व"मन्दॆषु अपि वक्तव्यम्, यॆन स्वॆषु मध्यमॆषु स्वॆषु च मन्दॆषु क्रियतॆ । "स्व"शब्दः अपि न कर्तव्यः । स्वस्य ग्रहस्य यः मध्यमः स्वस्य च यत् मन्दम् तत्र ऎव कर्मसिद्धॆः । यथा "मातरि वक्तव्यम् पितरि शुश्रूषितव्यम्" इति । न च तत्र उच्यतॆ  "स्वस्याम् मातरि स्वस्मिन् वा पितरि" इति । ऎवम् अत्र अपि इति ।

अथ यत् ऎतत् मन्दॊच्चायातम् फलार्धम् तत् क्षयधनक्रमॆण मध्यॆ ग्रहॆ धनम् ऋणम् वा क्रियतॆ । मन्दॆ पुनर् कथम् क्रियतॆ, मन्दस्य ऋणधनक्रमस्य अनभिधानात्? उच्यतॆ  मन्दॊच्चम् सर्वदा ऎव ग्रहस्य ऋणभूतम् । तत्र यत् ग्रहस्य ऋणम् तत् मन्दॊच्चॆ प्रक्षिप्यतॆ, ऋणभूतत्वात् । यत् ग्रहॆ धनभूतम् तत् मन्दॊच्चात् अपनीयतॆ, मन्दॊच्चस्य ऋणभूतत्वात् ऎव । अयम् च गणितन्यायः 

ऋण[ऋणयॊः धन]धनयॊः संक्षॆपः ऋणधनयॊः च विशॆषः । इति । तस्मात् अनॆन क्रमॆण मन्दॊच्चॆ फलार्धस्य उपचयापचयौ भवतः । शीघ्रॊच्चात् च यत् फलार्धम् तत् अपि ऎवम् ऎव ग्रहवैपरीत्यॆन मन्दॆ धनम् ऋणम् वा क्रियतॆ । ग्रहॆषु पुनर् प्रयॊजनाभावात् न क्रियतॆ ।

मन्दॊच्चात् । मन्दॊच्चशीघ्रॊच्चफलार्धॆन संस्कृतम् मन्दॊच्चम् परिगृह्यतॆ । कुतः? कर्मद्वयवृत्तौ मन्दनिर्दॆशात् । तॆन तादृग्विधॆन मन्दॆन मध्यमात् विशॊधितॆन यत् फलम् आयातम् तत् सकलम् मध्यॆषु ऋणम् धनम् वा क्रियतॆ । स्फुटमध्याः । [मध्यमस्य] स्फुटस्य अन्तर्वर्तित्वात् [स्फुटाः यॆ न, न अविकृतॆषु] मध्यमॆषु फलस्य करणात् मध्यमाःझ्। अथवा स्फुटस्य मध्यमाः स्फुटमध्यमाः । ऎकॆन कर्मणा निष्पन्ना यॆन द्वितीयम् कर्मान्तरम् अपॆक्षन्तॆ । शीघ्रॊच्चात् च स्फुटाः ज्ञॆयाः । शीघ्रॊच्चात् आयातम् फलम् तॆन संस्कृताः स्फुटाः । चकारः फलयॊः समुच्चयम् अभिधत्तॆ । ज्ञॆयाः अवगन्तव्याः बॊद्धव्याः इति यावत् ॥ २३ ॥

[ भृगुबुधयॊः स्फुटीकरणम् ]

भृगुबुधयॊः कर्म आह 

शीघ्रॊच्चात् अर्धॊनम् कर्तव्यम् ऋणम् धनम् स्वमन्दॊच्चॆ ।

स्फुटमध्यौ तु भृगुबुधौ सिद्धात् मन्दात् स्फुटौ भवतः ॥ २४ ॥

शीघ्रॊच्चात् इति प्राक् शीघ्रॊच्चनिष्पन्नम् फलम् गृह्यतॆ । तत् ऎव शीघ्रॊच्चफलम् अग्रॆ । तत्र तत् अर्धॊनम् अर्धम् इति अर्थः । ऋणधनम् कर्तव्यम् । यदि ग्रहॆ ऋणम् तदा धनम् कर्तव्यम् । धनस्य ऋणम् कर्तव्यम् इति अर्थात् अवसीयतॆ । क्व इति आह  स्वमन्दॊच्चॆ । स्वकीयम् मन्दॊच्चम् स्वमन्दॊच्चम्, तस्मिन् स्वमन्दॊच्चॆ । स्फुटमध्यौ भृगुबुधौ भवतः । कथम्? सिद्धात् मन्दात् । यत् ऎव शीघ्रॊच्चफलार्धॆन संस्कृतम् मन्दॊच्चम् तत् सिद्धम् इति अभिधीयतॆ । तस्मात् सिद्धात् मन्दात् स्फुटमध्यौ भवतः । ऎतत् उक्तम् भवति  यत् ऎत[त् सिद्धमन्दम् तत् मध्यम]ग्रहात् विशॊध्य शॆषफलस्य च ऋणधनॆन तयॊः भृगुबुधयॊः मध्यौ स्फुटमध्यौ भवतः । "तु"-शब्दात् "शीघ्रॊच्चात् च स्फुटाः ज्ञॆयाः" [कालक्रिया, २३] इति ऎतत् क्रियतॆ ॥ २४ ॥

[ भूताराग्रहान्तरालम् ]

[भूताराग्रहा]न्तरालप्रमाणानयनाय आह 

भूताराग्रहविवरम् व्यासार्धहृतः स्वकर्णसंवर्गः ।

कक्ष्यायाम् ग्रहवॆगः यः भवति स मन्दनीचॊच्चॆ ॥ २५ ॥

ताराग्रहाणाम् भुवः च यत् अन्तरम् तस्य आनयनॊपायः उच्यतॆ । भूताराग्रहविवरम् भुवः ताराग्रहस्य च यत् अन्तरम् तत् भूताराग्रहविवरम् भवति इति वक्ष्यति । व्यासार्धहृतः स्वकर्णसंवर्गः । व्यासार्धम् त्रिज्या । त्रिज्यया हृतः व्यासार्धहृतः । स्वकर्णयॊः संवर्गः स्वकर्णसंवर्गः । ऎतत् उक्तम् भवति  मन्दॊच्चकर्णस्य शीघ्रॊच्चकर्णस्य च यः घातः सः स्वकर्णसंवर्गः व्यासार्धहृतः । कक्ष्यायाम् ग्रहवॆगः । तावत् उच्छ्रितायाम्

[कक्ष्यायाम्] ग्रहस्य यः मन्दशीघ्रॊच्चफलजनितः वॆगः स तस्य भूताराग्रहविवरस्य अग्रॆ भवति इति । अतः ऎव भूताराग्रहविवरम् विक्षॆपानयनॆ भागहारः ।

अपरॆ आहुः  न भूताराग्रहविवरम् भागहारः । कः तर्हि? व्यासार्धम् । यस्मात् ऎतत् अत्र त्रैराशिकम्  यदि त्रिज्यया स्वग्रहाभिहितविक्षॆपः लभ्यतॆ, अनया अभीष्टग्रहस्वपातविवरान्तरालांशज्यया भुजज्यया किम् इति । न ऎतत् सम्यक् अवसीयतॆ । यदि इदम् ऎव त्रैराशिकम् स्यात्, तदा नक्षत्रताराग्रहशशियॊगाः सर्वदा तस्याम् ऎव दिशि तुल्यविक्षॆपविवराः स्युः, नक्षत्रताराणाम् उच्चनीचगत्यसम्भवात् । दृश्यन्तॆ च अमी ग्रहनक्षत्राणाम् दूरासन्न[वशात्] भॆदांशुमर्दनसव्यापसव्ययॊगगत[यः । यदि व्यासार्ध]म् ऎव भागहारः स्यात् तदा सर्वॆ ऎव तुल्यगतयः स्युः । भूताराग्रहविवरम् । भूताराग्रहविवरवशात् विक्षॆपः अल्पः महान् च नक्षत्रताराग्रहयॊगॆषु लभ्यतॆ । [अल्पॆ वा] महद्विक्षॆपॆ दक्षिणॊत्तरदिग्वशात् नियतविक्षॆपान्तरदिशः यॊगाः उपपद्यन्तॆ । तस्मात् भूताराग्रहविवरम् ऎव भागहारः । ऎतत् अपि कर्म त्रैराशिकद्वयम् । कथम्? यदि व्यासार्धतुल्यया पातान्तरभुजज्यया यथास्वम् विक्षॆपः  अल्पः महान् च लभ्यतॆ, तदा अन[या भुज]ज्यया पातान्तरॊत्पन्नया कः इति विक्षॆपः लभ्यतॆ । [अतः] पुनर् अपि व्यस्तत्रैराशिकम्  यदि अयम् विक्षॆपः कक्ष्यामण्डलॆ व्यासार्धविष्कम्भॆ लभ्यतॆ, तदा परमार्थप्रतिमण्डलॆ  भूताराग्रहविवरविष्कम्भार्धॆ कियान् इति । पूर्वत्रैराशिकॆ व्यासार्धम् भागहारः आसीत्, तत् ऎव द्वितीयत्रैराशिकॆ व्यस्तत्वात् गुणकारः । अतः गुणकारभागहारयॊः नष्टयॊः, पातान्तरभुजज्यायाः विक्षॆपः गुणकारः, भूताराग्रहविवरम् भागहारः, फलम् इष्टग्रहस्य विक्षॆपः । ऎवम् इष्टग्रहयॊः विक्षॆपावभिन्नदिक्कौ विशिष्यतॆ, यस्मात् अपक्रममण्डलात् तौ प्रवृत्तौ । ततः तद्विशॆषतुल्यम् तयॊः अन्तरम् भवति, तत्र अपि तयॊः ऊनाधिकविक्षॆपवशात् परस्परापॆक्षया [तयॊः याम्यॊत्तरदिक्त्वम्] । भिन्नदिक्कौ विक्षॆपौ यॊज्यतॆ । यस्मात् ऎकः अपक्रममण्डलात् दक्षिणॆन अपरः उत्तरॆण, तस्मात् तदन्तरम् [विक्षॆपयॊग]प्रमाणम् भवति । विक्षॆपलिप्तान्तरचतुर्भागः अंगुलप्रमाणम् वाच्यम्

। यदा पुनर् अन्तरलिप्ताः न स्युः, अल्पाः वा [स्युः] तदा तयॊः अन्यॊन्याशॆषात् छादनम् ऎकदॆशात् छादनम् वा [भवति] । तत्र ग्रहणवत् इष्टग्रहसंपर्कार्धतद्विक्षॆप[विश्लॆषॆण यॊगॆन वा] स्थित्यर्धनाडिकानयनम् ।

[ ताराग्रहाणाम् स्फुटयॊजनकर्णानयनम् ]

अथ नक्षत्रताराग्रहयॊगॆषु नतिलम्बनपरिज्ञानार्थम् इदम् कर्म क्रियतॆ । "शशिङञणनमांशकाः" [गीतिका, ७] इति अत्र शशियॊजनकर्णः ङादिभिः गुणितः शुक्रादीनाम् भागहाराः भवन्ति इति व्याख्यातम् । तॆन शशियॊजनकर्णः पञ्चभिः गुणितः शुक्रस्य यॊजनकर्णः भवति दशभिः गुरॊः, पञ्चदशभिः बुधस्य, विंशत्या शनॆः, पञ्चविंशत्या अंगारकस्य । यदि ऎवम् तर्हि ग्रहाणाम् कक्ष्याभिधानम् विरुध्यतॆ । न ऎषः दॊषः । तावत् कक्ष्यास्थाः ऎव ग्रहाः, अत्र पुनर् ङादिगुणकारैः दृष्टिपरिकर्म क्रियतॆ इति । अयम् यॊजनकर्णः भूताराग्रहविवरगुणितः व्यासार्धहृतः स्फुटः भवति । ऎतत् अपि त्रैराशिकम्  यदि व्यासार्धलिप्ताभिः ऎतावन्ति यॊजनानि लभ्यन्तॆ भूताराग्रहविवरलिप्ताभिः कियन्ति इति, अथवा त्रैराशिकद्वयैकीकरणॆन अभीष्टग्रहस्फुटयॊजनकर्णः आनीयतॆ । कथम्? भूताराग्रहविवरानयनॆ व्यासार्धम् भागहारः आसीत्, इह च भूताराग्रहविवरस्वमध्यमयॊजनकर्णाभ्यासस्य व्यासार्धम् ऎव भागहारः । अतः भागहारयॊः संवर्गः मन्दॊच्चशीघ्रॊच्चकर्णस्वमध्यमयॊजनकर्णाभ्यासस्य भागहारः । फलम् स्फुटयॊजनकर्णः । तयॊः अयम् अर्थः सञ्जातः  मन्दशीघ्र[कर्ण]गुणितः मध्यमयॊजनकर्णः व्यासार्धकृतिविभक्तः स्फुटयॊजनकर्णः भवति । मन्दनीचॊच्चॆ मन्दस्य मन्दॊच्चस्य उच्चॆ नीचॆ च आनीतः मन्दकर्णः ऎव अनॆन विधिना स्फुटीकृतः इति ।

[ ग्रहस्फुटीकरणॆ विशॆषः ]

अथ विवस्वद्धनर्णॊदयास्तमयवशात् सामान्यसर्वग्रहाणाम् स्फुटगणितविधिविशॆषः अभिधास्यतॆ । तत् यथा  सवितुः भुजाफलॆन रव्यादिभुक्तयः गुणिताः खखषड्घनॆन विभज्य आप्तकला ग्रहॆषु भुजाफलधनर्णवशात् क्रियतॆ । तत् विचार्यतॆ  इदम् कर्म अनुपदिष्टम् कथम् अवगम्यतॆ? न ऎषः दॊषः । उपदिष्टम् ऎव ऎतत्  "बुधाह्न्यजार्कॊदयात् च लंकायाम्" [गीतिका, ४] इति । अर्कॊदयावधॆः गतॆः ऎतॆषाम् प्रतिपच्छॆदौ इति उपदॆशात् अर्कः हि स्फुटगणितावगतगतॆः ऎव उदयशिखरमध्यास्तॆ इति स्फुटस्य अर्कस्य उदयः परिगृह्यतॆ । स्फुटगतिः च मध्यमा ऎव स्वभुजाफलादिलिप्ताभिः उपचितापचिता वा इति अतः भुजाफललिप्ताभिः प्राणतुल्याभिः त्रैराशिकम् क्रियतॆ  यदि अहॊरात्रप्राणैः खखषड्घनतुल्यैः विवस्वदादिस्फुटभुक्तयः लभ्यन्तॆ, भुजाफललिप्ताभिः प्राणतुल्याभिः किम् इति । आसाम् भुजाफललिप्तानाम् प्राणतुल्यत्वम् इति । अत्र उच्यतॆ  रव्युदयात् ऎव ज्यॊतिश्चक्रादॆः अपि उदयादिः इति व्याख्यातम् । तॆन प्रवहाक्षॆपात् मध्यमः सर्वदा स्वभुजाफलॆन अधिकः ऊनः वा भवति । यदा अधिकः तदा ज्यॊतिश्चक्रम् भुजाफललिप्तातुल्यम् रविगत्या जीयतॆ, [ऊनः चॆत् भुजाफललिप्तातुल्यम् रविगत्या अपचीयतॆ] इति । अनया परिकल्पनया ज्यॊतिश्चक्रसम्बन्धिन्यः तदा भुजाफललिप्ताः भवन्ति, ज्यॊतिश्चक्रलिप्ताः प्राणाः च तुल्याः इति । अतः तासाम् प्रा[णतुल्यभुजाफललिप्तानाम् अभावः, अहर्गणात् आग]तः [सकलः सूर्यः] यदा स्वॊच्चतुल्यः तदा ऎव उदयॆ भवति इति । अन्यथा तत्र अपि भुजान्तरफलम् क्रियतॆ ऎव । अर्कः हि स्फुटगणि[तावगतॆः ऎव उदय]शिखरमध्यास्तॆ इति ।

ऎवम् ऎतॆषाम् विवस्वदादीनाम् ग्रहाणाम् स्फुटगतयः सूर्यॊदयावधॆः भवन्ति इति अतः रवि[वशात् ऎव उपचयापच]यात्मकम् फलम् क्रियतॆ । दॆशान्तरचरदलकर्मणी च अनया ऎव उपपत्त्या । अर्धरात्रास्तमयदिनमध्यसंस्थितसूर्या[त् त्रैराशिकम्]  यदि षष्ट्या नाडीभिः यथास्वम् मध्यमा भुक्तिः लभ्यतॆ तदा पञ्चदशभिः घटिकाभिः त्रिंशता पञ्चचत्वारिंशद्भिः च किम् इति [फललि]प्ताः औदयिकॆभ्यः ग्रहॆभ्यः विशॊध्यन्तॆ, ततः तॆन रव्यादयः तात्कालिकाः भवन्ति । तॆषाम् च स्फुटप्रक्रिया पूर्वाभिहिता ऎव । [दिनमध्यार्धरात्रयॊः चर]दलकर्म न प्रवर्ततॆ । क्षितिजमण्डलप्राप्त्यतिक्रान्ती रव्युदयास्तमययॊः ऎव इति । ऎवम् आदित्यगत्यवधयः ग्रहाः ।

यदा पुनर् पर[स्य ग्रहस्य रवॆः इव] कल्प्यन्तॆ तदा चन्द्रॊद[यज्ञा]नॆन उदयकालम् ऎव अवगत्य तदुदयकालावधयः क्रियन्तॆ ।

[तिथिप्रतिपच्छॆदपरिज्ञानम् ]

ऎवम् यथॊपदिष्टगणितप्रक्रिय[या तिथि]प्रतिपच्छॆदपरिज्ञानाय उच्यतॆ । तत् यथा  स्फुटशशिनः स्फुटः रविः अपनीयतॆ, यस्मात् तिथिः शशिमासवशात् भवति तॆन "रविशशियॊगाः भवन्ति [शशिमासाः" [कालक्रिया, ५] इति स्फुटविधॊ]रिनः अपनीयतॆ । यथासम्भवम् अत्र भगणः न सम्भवति इति राश्यादयः ऎव राश्यादिभ्यः अपनीयन्तॆ । अथवा क[ल्पादितः यॆ रविघगणाः] भुक्ताः तॆ शशिभगणॆभ्यः विशॊध्यन्तॆ, राश्यादिभ्यः राश्यादयः इति । तत्र अवशिष्टाः शशिमासादयः भवन्ति । [मासानाम् प्रयॊजनाभावः इ]ति मासाः त्यज्यन्तॆ ।

तत्र यॆ अवशिष्टाः राश्यादयः वर्तमानशशिमासस्य अवयवभूताः तैः लिप्तीकृतैः त्रैराशि[कम्  यदि खखषड्घन]तुल्यॆन सूर्याचन्द्रमसॊः विशॆषॆण शशिमासः लभ्यतॆ तदा आभिः चन्द्रादित्यविशॆषलिप्ताभिः कियच्छशिमास्[आः इति सम्पूर्ण]मासम् न प्रयच्छति इति दिवसाः क्रियन्तॆ । "त्रिंशद्दिवसः भवॆत् स मासः" [कालक्रिया, १] इति त्रिंशत्कः गुणकारः । तत्र गुणकारभागहारयॊः अपवर्तनॆ [त्रिंशतः त्रिंशद्भागॆन ऎकम्] खखषड्घनस्य तावद्भागॆन सप्तशतानि विंशत्यधिकानि । सप्तशत्या विंशत्युत्तरया रविचन्द्रविवरलिप्ताः विभज्यन्तॆ । [फलम् गततिथयः व]र्तमानशशिमासस्य शुक्लप्रतिपत्प्रवृत्ताः, तत्र शॆषलिप्ताः वर्तमानतिथॆः भुक्ताः, तद्विशुद्धाः भागहारलिप्ताः भॊज्याः इति । अतः ताभिः भुक्तभॊज्यलिप्ताभिः त्रैराशिकम्  यदि तत् अहः सूर्याचन्द्रमसॊः स्फुटभुक्त्यन्तरलिप्ताभिः ऎकः शशिदिवसः लभ्यतॆ ततः आभिः भुक्तभॊज्यलिप्ताभिः कियान् शशिदिवसस्य लभ्यतॆ इति, तत्र दिवसॆषु भागम् न प्रयच्छन्ति इति नाड्यः क्रियन्तॆ । "षष्टिः नाड्यः दिवसः" [कालक्रिया, १] इति षष्ट्या संगुणय्य स्फुटभुक्त्यन्तरलिप्ताभिः भागलब्धाः भुक्तभॊज्याः तिथॆः नाड्यः सूर्यॊदयावधॆः गताः गन्तव्याः वा भवन्ति इति ।

[ सूर्याचन्द्रमसॊः समलिप्तीकरणम् ]

इष्टकालावधॆः वा पर्वणि समलिप्ताविधानम् । गतगन्तव्यताम् पर्वणः विधाय गतगन्तव्यलिप्ताभिः त्रैराशिकम् । तत् यथा  यदि सूर्याचन्द्रमसॊः तद्दिनस्फुटभुक्त्यन्तरलिप्ताभिः सूर्याचन्द्रमसॊः स्फुटभुक्तिः यथास्वम् लभ्यतॆ ततः आभिः गतगन्तव्यतिथिलिप्ताभिः कियत्यः स्फुटभुक्तिलिप्ताः इति लब्धाः लिप्ताः रवौ गन्तव्यपर्वणि प्रक्षिप्यन्तॆ, शशिनि च । अथ गतपर्वणि तयॊः ऎव यथास्वम् त्रैराशिकायातलिप्ताः विशॊध्यन्तॆ । ऎवम् गन्तव्यगतपर्वणः पर्यवसानकालिकौ समलिप्तौ भवतः इति गणितपादॆ अपि अस्माभिः "भुक्तॆः विलॊमविवरॆ" [गणित, ३१] इति अस्याम् आर्यायाम् संक्षॆपतः अभिहितम् इति कृत्वा इह तु विस्तरॆण प्रदर्शितम् ।

[ चन्द्रनक्षत्रप्रतिपच्छॆदपरिज्ञानम् ]

चन्द्रयुक्तॆन नक्षत्रॆण व्यवहारः इति प्रत्यहम् चन्द्रयुक्तनक्षत्रप्रतिपच्छॆद [परिज्ञानम्] क्रियतॆ । तत् यथा  शशिलिप्ताभिः त्रैराशिकम्  यदि मण्डललिप्ताभिः खखषड्घनतुल्याभिः सप्तविंशतिः नक्षत्राणि लभ्यन्तॆ ततः [आभिः चन्द्रगतलिप्ताभिः किम् इति । अत्र गुणकारभागहारयॊः अप]वर्तनम् क्रियतॆ । सप्तविंशतॆः सप्तविंशतिभागॆन ऎकम् खखषड्घनस्य अपि तावत्भागॆन अष्टौ [शतानि, अतः शशिलिप्ता]नाम् अष्टाभिः शतैः भागॆ

नक्षत्राणाम् अश्विन्यादीनाम् [यानि गतानि तॆषाम् संख्या] लभ्यतॆ । शॆषॆ गतगन्तव्यम् कृत्वा वर्तमानस्य नक्षत्रस्य गतगन्तव्याः नाड्यः साध्यन्तॆ । कथम्? यदि स्फुटभुक्त्या षष्टिः नाड्यः लभ्यन्तॆ, आभिः गतगन्तव्यलिप्ताभिः कियत्यः इति गतगन्तव्यनाड्यः लभ्यन्तॆ । शशिभुक्तॆः अहॊरात्रकालावधिनिष्पन्नत्वात्, अहॊरात्रस्य च प्रमाणम् षष्टिः नाड्यः इति षष्ट्या त्रैराशिकम् क्रियतॆ ॥ २५ ॥

इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्यॆ कालक्रियापादः समाप्तः ॥

गॊलपादः

[मंगलाचरणम् ]

नमः सन्मंगलज्ञानपूर्णकुम्भाय राजतॆ ।

सुरासुरशिरॊघृष्टपादपीठाय वॆधसॆ ॥

[गॊलबन्धः] 

कालक्रियानन्तरम् गॊलम्, "त्रीणि गदति गणितम् कालक्रियाम् गॊलम्" इति उक्तत्वात् । गम्यतॆ ज्ञायतॆ अस्मात् इति गॊलम् । किम् पुनर् अस्मात् गम्यतॆ? ग्रहभ्रमणधरित्रीसंस्थानादीनि सर्वम् । ऎवम् परमार्थजिज्ञासवः हि असत्यपूर्वकम् सत्यम् प्रतिपद्यन्तॆ । तत् यथा भिषजः हि उत्पलनालादिषु सिरावॆधनादीनि प्रतिपद्यन्तॆ, यज्ञशस्त्रविदः शुष्कॆष्ट्या यज्ञादीनि [प्रतिपद्यन्तॆ], वैयाकरणाः  प्रकृतिप्रत्ययलॊपागमवर्णविकारादिभिः साधुशब्दम् प्रतिपद्यन्तॆ, ऎवम् अत्र अपि सांवत्सराः वृत्तशलाकासूत्रावलम्बकादिभिः क्षॆत्रगणितविशॆषैः पारमार्थिकम् गॊलम् प्रतिपद्यन्तॆ । तस्मात् दिंमात्रप्रदर्शनम् ऎव ऎतत् आरभ्यतॆ, अशक्यत्वात् अशॆषप्रदर्शनस्य । कः हि चित्रयन् निमॆषॊन्मॆषादि अपि चित्रयति । तस्मात् श्रीपर्णिवञ्चुलकाष्ठयॊः अन्यतमम् अर्धवृत्तचक्रस्वरूपम् क्राकचिकैः वृत्तम् ऎकम् निष्पादयॆत् । ततः सुघटितार्धवृत्तद्वयॆन त्रिभिः वा सुघटितवृत्तशकलैः वृत्तम् ऎकम् निर्मापयॆत् । तत्र वृत्तशकलसन्धिच्छॆदाः त्रयः शुरपुंखपार्श्वच्छॆदावयवार्धच्छॆदः इति । तत्र ऎतॆषाम् अन्यतमॆन वृत्तशकलानि अन्यॊन्यम् घटयॆत् । ताम्रकीलकैः तत्र ऎवम् निष्पन्नम् ऎकम् वृत्तम् पूर्वापरम् निधाय द्वितीयम् दक्षिणॊत्तरम् उपरि अधः च जनितस्वस्तिकम् स्वस्तिकसम्पातॆ च मण्डलद्वयम् अर्धच्चॆदॆन छित्वा तथा संयॊज्यम् यथा ऎकम् ऎव वृत्तम् लक्ष्यतॆ । तौ विहितार्धच्छॆदॆन स्वस्तिकचतुष्टयम् प्रवॆश्य निश्चलम् निदध्य ताम्रकीलकैः निश्चलीक्रियतॆ ।

ततः तयॊः मण्डलयॊः बहिः परिकरवत् दिक्चतुष्टयजनितस्वस्तिकम् अन्यम् तथा ऎव अर्धच्छॆदॆन स्वस्तिकचतुष्टयम् प्रवॆश्य निश्चलम् निदध्यात् । पूर्वापरमण्डलम् षष्ट्यंकांकितम् कारयॆत्, यथा ऎकैकस्मिन् चतुर्भागॆ पञ्चदश पञ्चदशांकाः स्युः । तॆ च अहॊरात्रघटिकाः । ऎवम् परिशॆषम् मण्डलद्वयम् अपि, ऎकैकम् षष्टिशतत्रयांकितम् [कारयॆत्] । तानि विषुवत् [याम्य उत्तरक्षितिज]मण्डलानि । तत् तुल्यम् ऎव अपरम् मण्डलम् षष्टिशतत्रयांकितम्

पूर्वस्वस्तिकॆ अपरस्वस्तिकॆ च तिर्यक् त्रिभागच्छॆदम् कृत्वा द्वौ त्रिभागौ मण्डलप्रदॆशस्य स्वस्तिकम् घटयॆत् । यथा वा मण्डलत्रयसम्पातम् ऎकम् ऎव लक्ष्यतॆ तथा अवछॆदः कल्पनीयः ।  पूर्वापरदक्षिणॊत्तरमण्डलयॊः यः अधः स्वस्तिकः तस्मात् उत्तरॆण उत्तरशलाकायाम् चतुर्विंशतिभागॆ तथा ऎव अर्धच्छॆदॆन स्वस्तिकम् कारयॆत् । उपरि अपि तथा ऎव उपरिस्वस्तिकात् दक्षिणॆन [दक्षिण]शलाकायाम् चतुर्विंशतितमॆ भागॆ स्वस्तिकम् कारयॆत् । सर्वत्र निश्चलीकरणम्

ताम्रकीलकैः । ऎवम् तिर्यक् राशिपदः व्यवस्थितः । स ऎव अपमण्डलम् इति उच्यतॆ । तावत्प्रमाणम् ऎव अन्यत् मण्डलम् सञ्चारि यत्र चन्द्रमसः सम्पातः वर्ततॆ तस्मिन् बध्वा ततः उत्तरॆण परतः निवतितमॆ भागॆ यथा च अर्धपञ्चमभागाः तस्य च अपक्रममण्डलस्य च अन्तरॆ भवन्ति तथा विधाय पातभागॆ चक्रार्धान्तरॆ बधीयात् । ऎवम् ततः दक्षिणॆन नवतितमॆ भागॆ अर्धपञ्चमा भागाः तस्य अपक्रममण्डलस्य च यथा अन्तरॆ भवन्ति तथा निदध्यात् । ऎवम् तत् विमण्डलम्, तत् ऎव विक्षॆपमण्डलम् इति उच्यतॆ ।

ऎवम् अन्यॆषाम् अपि स्वॆभ्यः स्वॆभ्यः पातभागॆभ्यः अपि मण्डलानि । बुधशुक्रयॊः शीघ्रॊच्चाभ्याम् । स्वाहॊरात्रमण्डलानि अपि सञ्चारीणि  विषुवतः उत्तरॆण मॆषापक्रमकाष्ठतुल्यान्तरॆ पूर्वापरायतम् मण्डलम् मॆषस्य अहॊरात्रमण्डलम्, वृषान्तापक्रमतुल्यकाष्ठान्तरॆ वृषस्य, मिथुनान्तापक्रमतुल्यकाष्ठान्तरॆ मिथुनस्य, तानि ऎव उत्क्रमॆण कर्कटकसिंहकन्यानाम्; ऎवम् [विषुवतः] दक्षिणॆन तुलावृश्चिकधनुषाम् स्वाहॊरात्रमण्डलानि, तानि ऎव उत्क्रमॆण मकरकुम्भमीनानाम् ।  स्वाहॊरात्रमण्डलॆषु दक्षि णॊत्तरायतानि सूत्राणि बध्नीयात् । तॆषाम् अर्धानि अपक्रमज्याः । मॆषस्य अहॊरात्रमण्डलॆन उन्मण्डलस्य यत्र सम्पातः तत्र सूत्रस्य ऎकम् अग्रम् बध्वा मीनस्य अहॊरात्रॊन्मण्डलसम्पातॆ द्वितीयम् अग्रम् बध्नीयात् । भूमध्यावभॆदिसूत्रम् विषुवता सह बध्नीयात्, तस्य प्रथमसूत्रस्य च यत्र सम्पातः तत्र प्रथमसूत्रार्धम् भवति । ऎवम् अन्यॆषाम् सूत्राणाम् अर्धानि । तानि सर्वाणि अहॊरात्रापक्रमज्याः सन्ति । अशक्यत्वात् क्वचित् तु प्रदर्श्यन्तॆ । यानि विक्षॆपापक्रमस्वाहॊरात्रमण्डलानि व्याख्यातानि [तानि न] प्रदर्श्यन्तॆ । अन्यथा कालसमः गॊलः भ्रमयितुम् न शक्यतॆ, मण्डलबहुत्वात् ।

अथ सुश्लक्ष्णाम् ऋज्वीम् अयःशलाकाम् गॊपुच्छायतवृत्ताम् दक्षिणॊत्तरस्वस्तिकावभॆदिनीम् निर्गतॊभयाग्राम् पञ्जरभारसहाम् निदध्यात् । तन्मध्यॆ भुवम् समवृत्ताम् मृदा अन्यॆन वा रचयॆत् । ऎवम् अयम् ऎकः ऎव पञ्जरः सर्वॆषाम् ग्रहाणाम् । यस्मात् भिन्नकक्ष्यास्थाः अपि ग्रहाः ऎककक्ष्यागताः ऎव उपलक्ष्यन्तॆ, तस्मात् अयम् ऎव ऎकः पञ्जरः । अथवा सर्वॆषाम् ऎव पृथक् पृथक् पञ्जराः यावत् तावत् परिच्छिन्नस्वकक्ष्याप्रमाणाः ऎव प्रदर्शयितव्याः।

अथवा पञ्जरस्य बहिः [दक्षिणॊत्तर]स्वस्तिकयॊः अयःशलाकायाम् त्र्यंगुलाम् चतुरंगुलाम् वा श्लक्ष्णाम् शरदण्डिकाम् निश्चलाम् निदध्यात् । ततः यावत्तावत्प्रमाणपरिच्छिन्नखकक्ष्यापरिकल्पितम् उभयतः चक्रार्धान्तरकृतवॆधम् [मण्डलम्] दक्षिणॊत्तरावगाहि निधाय तस्य मध्यॆ पञ्जरम् प्रवॆश्य ताम् अयःशलाकाम् उभयत्र पार्श्ववॆधौ प्रवॆशयॆत्, यथा सा शरदण्डिका पञ्जरद्वयसीमावगाहिनी भवति । तावत्प्रमाणम् ऎव अन्यद्वृत्तम् पूर्वापरावगाहि उपरि अधः च जनितस्वस्तिकम् पूर्ववत् निदध्यात् । तत् सममण्डलम् । पुनर् अपि तावत् ऎव अन्यत् मण्डलम् परिकरवत् दिक्चतुष्टयजनितस्वस्तिकम् दक्षिणॊत्तरस्वस्तिकसम्पातकृतवॆधम् उभयत्र लॊहशलाकाम् प्रवॆश्य निश्चलम् निदध्यात् । तत् क्षितिजमण्डलम् । ऎवम् अयम् गॊलः विषुवति समः ऎव अवतिष्ठतॆ । विषुवतः उत्तरॆण यावान् अक्षः तावत्सु भागॆषु खगॊलॊत्तरस्वस्तिकात् उपरि वॆधम् कारयॆत्, दक्षिणतः च तावति ऎव अन्तरॆ [अधः] वॆधः

। पूर्ववॆधाभ्याम् अयःशलाकाम् निष्कास्य स्वदॆशाक्षभागप्रमाणपरिकल्पितवॆधयॊः प्रवॆशयॆत् । ऎवम् स्वविषयाक्षप्रमाणॆन अवस्थितः गॊलः, तत्र सर्वम् ऎव प्रदर्शयॆत् । अथ खगॊलप्रमाणम् ऎव अन्यद्वृत्तम् उभयतः चक्रार्धान्तरकृतवॆधम् उत्तरः निर्गतायःशलाकाग्रम् प्रवॆशयॆत् । द्वितीयवॆधम् दक्षिणतः निर्गतायःशलाकाग्रम् प्रवॆशयॆत् । तत्र तत् निश्चलम् निधाय, तस्य पूर्वापरस्वस्तिकसम्पातॆ पूर्ववत् तिर्यग्भॆदॆन पूर्वापरस्वस्तिकयॊः निश्चलम् तत् मण्डलम् निदध्यात् । तत् उन्मण्डलम् इति आचक्षतॆ । सर्वाणि ऎव वृत्तानि षष्टिशतत्रयभागांकितानि कारयॆत् ।

अन्यॆ पुनर् समायामवनौ खगॊलार्धप्रमाणम् अवटम् खात्वा तत्र यथा क्षितिजमण्डलम् उपरि भवति तथा अर्धनिमग्नम् खगॊलम् निधाय दर्शयन्ति । ऎवम् अयम् काष्ठमयः गॊलः क्रियतॆ । काष्ठासम्भवॆ परिपक्वाल्पसुषिरश्लक्ष्णवंशशलाकावृत्तैः वा गॊलः क्रियतॆ । ऎवम् गॊलम् बध्वा सर्वम् ऎव अवशॆषम् शास्त्रॆ व्याख्यायतॆ ।

[ भगॊलॆ अपक्रममण्डलम् ]

अत्र आदितः ऎव तावत् अपक्रममण्डलम् आह 

मॆषादॆः कन्यान्तम् समम् उदक् अपमण्डलार्धम् अपयातम् ।

तौल्यादॆः मीनान्तम् शॆषार्धम् दक्षिणॆन ऎव ॥ १ ॥

मॆषादॆः मॆषस्य आदिः मॆषादिः, तस्मात् मॆषादॆः, कन्यान्तम् अन्तम् पर्यवसानम्, कन्यायाः अन्तम् कन्यान्तम्; मॆषादॆः आरभ्य यावत् कन्यान्तम् । समम् तुल्यम् । उदक् उत्तरॆण । अपमण्डलार्धम् । अपमण्डलस्य अपक्रममण्डलस्य अर्धम्, अपक्रममण्डलार्धम् । अपयातम् तिर्यक् व्यवस्थितम् । तौल्यादॆः तौलिनः आदिः तौल्यादिः, तस्मात् तौल्यादॆः, मीनस्य अन्तम् मीनान्तम्; तौल्यादॆः आरभ्य यावत् मीनान्तम् । शॆषार्धम् शॆषम् च तदर्धम् च शॆषार्धम्, अथवा शॆषस्य ज्यॊतिश्चक्रस्य अपमण्डलसंज्ञितस्य अर्धम् शॆषार्धम् । तत् दक्षिणॆन, दक्षिणदिग्भागॆन तदर्धम् । "ऎव"शब्दः आर्यापूरणार्तह्म् प्रतिपादितः । अथवा ऎवम् अर्धमात्रम् अपि पश्चार्धॆ प्रदर्शयति, यथा उत्तरॆण समम् अपक्रममण्डलम् तिर्यक् व्यवस्थितम्, ऎवम् अत्र अपि दक्षिणॆन तस्य ऎव अपक्रममण्डलस्य अर्धम् तिर्यक् ऎव अवतिष्ठतॆ इति ।

अत्र विना अपि "सम"शब्दॆन षड्राशिप्रमाणाभिधानात् उदग्दक्षिणापक्रममण्डलार्धसमत्वम् गम्यतॆ, समग्रहणम् अतिरिच्यतॆ । न अतिरिच्यतॆ  प्रतिदॆशम् अक्षविशॆषात् राशीनाम् उदयकालाः विषमाः उपलक्ष्यन्तॆ, तॆन समशब्दात् ऋतॆ विषमप्रमाणानाम् राशीनाम् ग्रहणम् स्यात्, ततः च अक्षविशॆषात् मॆषादीनाम् अपक्रमज्याः प्रतिदॆशम् भिन्नप्रमाणाः स्युः । "सम"शब्दॆ पुनर् क्रियमाणॆ तुल्यप्रमाणराशिग्रहणम् सिद्धम्, यस्मात् सर्वः ऎव राशिः ज्यॊतिश्चक्रद्वादशभागः, स च त्रिंशत्त्रिंशद्भागप्रमाणः इति ।ऎवम् अपक्रममण्डलम् विषुवतः उत्तरॆण मॆषादॆः कन्यान्तम् तिर्यक् अवतिष्ठतॆ । तत् ऎव तुल्यादॆः मीनान्तम् दक्षिणॆन विषुवतः तथा ऎव अवतिष्ठतॆ । कथम् इदम् अनुक्तम् गम्यतॆ विषुवतः इति । न ऎषः दॊषः । उदग्दक्षिणॆन इति ब्रुवन् आचार्यः सिद्धम् ऎव विषुवन्मण्डलम् प्रदर्शयति । अन्यथा हि उदग्दक्षिणॆन इति, ऎतत् अनर्थकम् स्यात् । उदग्दक्षिणशब्दौ च दिग्वाचिनौ, दिक् व्यवस्था अपॆक्षया भवति । अतः पूर्वम् विषुवन्मण्डलम् बध्वा ततः अपक्रममण्डलम् बध्यतॆ । सर्वाणि ऎव मण्डलानि षष्टिशतत्रयांकितानि क्रियन्तॆ, यस्मात् षष्टिशतत्रयांशम् ज्यॊतिश्चक्रम् ॥ १ ॥

[ अपक्रममण्डलचारिणः ]

तस्मिन् च अपक्रममण्डलॆ कॆ भ्रमन्ति इति आह 

ताराग्रहॆन्दुपाताः भ्रमन्ति अजस्रम् अपमण्डलॆ अर्कः च ।

अर्कात् च मण्डलार्धॆ भ्रमति हि तस्मिन् क्षितिच्छाया ॥ २ ॥

ताराग्रहाः भौमबुधबृहस्पतिशुक्रशनैश्चराः, ताराग्रहॆन्दुपाताः भ्रमन्ति अजस्रम् अव्यवच्छॆदॆन, अपमण्डलॆ अपक्रममण्डलॆ, अर्कः च न कॆवलम् ऎतॆ ताराग्रहॆन्दुपाताः अपमण्डलॆ भ्रमन्ति, अर्कः च । तत्र अपमण्डलॆ अजस्रम् अर्कः च भ्रमति । अर्कात् च मण्डलार्धॆ अर्कात् पुनर् मण्डलार्धॆ षड्राश्यन्तरॆ, भ्रमति हि तस्मिन् तत्र मण्डलार्धॆ, भूच्छाया । यथा स्तम्भादीनाम् प्रदीपवशात् छाया भ्रमति, ऎवम् भुवः अपि अर्कवशात्, न कॆवलम् ताराग्रहॆन्दुपाताः इति ।

पातानाम् अपक्रममण्डलॆ गतिः उक्ता । तत् किम् इदानीम् अर्कात् मण्डलार्धॆ भूच्छाया भ्रमति इति उच्यतॆ । न च भूच्छायाव्यतिरिक्तः पातः अस्ति चन्द्रमसः । न ऎषः दॊषः । सर्वॆषाम् ऎव ताराग्रहाणाम् यॆ पाताः तॆ अपक्रममण्डलॆ भ्रमन्ति । चन्द्रमसः पुनर् पातः अर्कात् मण्डलार्धॆ अपक्रममण्डलॆ भ्रमति इति ऎतत् ऎव अर्थम् । "अर्कात् च मण्डलार्धॆ भ्रमति हि तस्मिन् क्षितिच्छाया" इति कथयति । ननु च बुधादीनाम् यॆ पाताः तॆ निश्चलाः तॆषाम् निश्चलानाम् कथम् अपक्रममण्डलगतिः उच्यतॆ ? न तॆ निश्चलाः, "नवराषह गत्वा अंशकान् प्रथमपाताः" [गीतिका, ९] इति अत्र "गत्वा"-शब्दॆन तॆषाम् गत्युपदॆशात् ।

"ताराग्रहॆन्दुपाताः" इति इयम् आर्या किम् अर्थम् आरभ्यतॆ? ताराग्रहादीनाम् गतिः अपक्रममण्डलॆ विज्ञायतॆ । उक्तम् च "भापक्रमः ग्रहांशाः" [गीतिका, ८] इति सर्वॆ[षाम् गतिमता]म् ऎतॆ अपक्रमभागाः इति । यदि च गीतिकॊक्तम् अपि अत्र पुनर् उच्यतॆ, तदा तर्हि बहु अत्र अभिधॆयम् इति । अथवा रवॆः चक्रार्धॆ भूच्छाया भ्रमति इति ऎतत् प्रदर्शयितव्यम् स्यात्, तत् च न प्रदॆशान्तरप्रदर्शितत्वात् । "भूरविविवरम् विभजॆत्" [गॊल, ३९] इति अत्र प्रदीपच्छायॊपपत्या भूच्छायानयनम् उपदिशॆत् । रवॆः चक्रार्धॆ भूच्छाया भ्रमति इति ऎतत् प्रदर्शयति, यतः हि शंकः ऋजुस्थितस्य प्रदीपस्य तत् ऋजुप्रवृत्तच्छाया । तस्मात् इयम् आर्या आरब्धव्या इति ॥ २ ॥

[ विक्षॆपमण्डलचारिणः ]

ग्रहाणाम् विक्षॆपमण्डलप्रदर्शनाय आह 

अपमण्डलस्य चन्द्रः पातात् याति उत्तरॆण दक्षिणतः ।

कुजगुरुकॊणाः च ऎवम् शीघ्रॊच्चॆन अपि बुधशुक्रौ ॥ ३ ॥

अपमण्डलस्य । अपमण्डलम् अपक्रममण्डलम् । अपक्रममण्डलस्य चन्द्रः । अपमण्डलसंबन्धी चन्द्रः "अपमण्डलस्य चन्द्रः" इति उच्यतॆ । अपमण्डलसंस्थितः वा चन्द्रः अपमण्डलस्य चन्द्रः, यथा  कुसूलस्य व्रीहयः । अथवा अधिकरणार्था इयम् षष्ठी, यतः हि ऎकशतम् षष्ठ्यर्थाः, अपमण्डलॆ चन्द्रः इति ऎतस्मिन् अर्थॆ । स अपमण्डलव्यवस्थितः चन्द्रः पातात् याति गच्छति । पातशब्दॆन चन्द्रमसः विक्षॆपापक्रममण्डलयॊः संयॊगः अभिधीयतॆ । तस्य च संयॊगस्य प्रतिक्षणम् गतिमत्त्वात्, सा गतिः पातशब्दॆन अभिधीयतॆ, उपचारात् । अतः स गतिसंज्ञितः पातः यस्मिन् राशौ यावतिथॆ भागॆ वर्ततॆ तस्मिन् राशौ तावतिथॆ भागॆ अपक्रममण्डलप्रमाणम् ऎव अन्यत् मण्डलम् तस्मिन् बध्वा द्वितीयम् अर्धम् चक्रार्धान्तरॆ तथा ऎव बध्नीयात् यथा तत् अपक्रममण्डलात् उत्तरॆण अवतिष्ठतॆ तस्य [प्रथमम् अर्धम्], यथा द्वितीयम् अर्धम् वा दक्षिणॆन उपलक्ष्यतॆ । ऎवम् च प्रथमपातात् अपक्रममण्डलस्य उत्तरॆण विक्षॆपमण्डलम्, द्वितीयपातात् च दक्षिणॆन, उभयत्र चक्रचतुर्भागान्तरॆ यथा अर्धपञ्चमाः भागाः तस्य च अपक्रममण्डलस्य अन्तरॆ भवन्ति तथा बध्नीयात् विक्षॆपमण्डलम् । तस्मिन् चन्द्रमाः भ्रमति । विषुवतः उत्तरॆण दक्षिणॆन वा तत् अपक्रममण्डलम् । तस्मात् अपक्रममण्डलात् उत्तरॆण दक्षिणॆन वा विक्षॆपमण्डलम् प्रदर्शयॆत् ।

चन्द्रस्य च विक्षॆपमण्डलव्यवस्थितस्य विषुवतः च अन्तरानयनॆ इयम् युक्तिः  स्फुटचन्द्रमसः भुजज्यया त्रैराशिकम्  यदि व्यासार्धतुल्यया भुजज्यया चतुर्विंशत्यपक्रमभागज्या लभ्यतॆ ततः चन्द्रभुजज्यया का इति, अपक्रमभागज्या लभ्यतॆ । ततः पातात् अपक्रममण्डलव्यवस्थितः चन्द्रः दक्षिणॆन उत्तरॆण वा याति इति उक्तवान् । पातावधि परिज्ञानाय स्फुटचन्द्रमसः पातः विशॊध्यतॆ, तत्र विशॆषस्य या ज्या तया त्रैराशिकम्  यदि व्यासार्धज्यया चन्द्रविक्षॆपभागज्या लभ्यतॆ अनया इष्टज्यया का इति, इष्टविक्षॆपज्या लभ्यतॆ । तयॊः विक्षॆपापक्रमज्ययॊः काष्ठीकृतयॊः तुल्यदिक्कयॊः यॊगः, यस्मात् अपक्रममण्डलात् परतः चन्द्रः वर्ततॆ । भिन्नदिक्कयॊः विशॆषः, यस्मात् आरात् अपक्रममण्डला[त् विक्षॆपमण्डलम्] चन्द्रः च । गॊलॆ यथार्थम् प्रदर्शयॆत् । यॊगविश्लॆषभागानाम् या ज्या तावत् अन्तरम् विषुवतः चन्द्रमसः च । ज्याप्रमाणॆन काष्ठप्रमाणम् उक्तम् ।

कुजगुरुकॊणाः च ऎवम् भौमबृहस्पतिशनैश्चराः च । यथा चन्द्रः स्वस्मात् पातात् उत्तरॆण दक्षिणॆन वा अपक्रममण्डलस्थितः याति, ऎवम् ऎव कुजगुरुकॊणाः । ऎतॆषाम् विक्षॆपमण्डलानि विक्षॆपापक्रमयॊगविशॆषयुक्तयः चन्द्रवत् प्रतिपत्तव्याः । चकारः ऎतत् ऎव अर्थम् समुच्चिनॊति ।

शीघ्रॊच्चॆन अपि बुधशुक्रौ । शीघ्रॊद्भूतॆन बुधशुक्रौ पातात् विक्षॆपमण्डलयॊः भ्रमतः । ऎतयॊः शीघ्रॊच्चौ अपक्रममण्डलॆ पातभागप्रमाणगती भवतः । पातभा[गात् तत्तत्प्रदॆशॆ] विक्षॆपमण्डलॆ बध्नीयात् । [ऎवम् तर्हि] ऎतयॊः अपक्रमपरिज्ञानम् अपि शीघ्रॊच्चात् ऎव । कुतः? अपक्रममण्डलात् पातात् विक्षॆपम् ब्रुवता तदुच्चयॊः अपक्रममण्डलस्थितिः प्रदर्शिता भवति, यतः अपक्रममण्डलस्थितः विक्षॆपमण्डलॆ प्रवर्ततॆ । [तॆ]न सम्यक् इदम् अवगम्यतॆ  ऎतयॊः अपक्रमम् अपि शीघ्रॊच्चात् इति । कुतः विक्षॆपस्य ऎव कॆवलस्य? "शीघ्रॊच्चॆन अपि बुधशुक्रौ" इति शीघ्रॊच्चात् पातप्रवृत्तात् ऎतयॊः विक्षॆपपरिज्ञानम् उच्यतॆ, नापमपरिज्ञानम् । अतः स्वतः ऎ[व ऎ]तयॊः अपक्रमानयनम् शीघ्रॊच्चात् । ऎवम् अपि अपक्रममण्डलस्थितौ ऎतौ विक्षॆपमण्डलॆ प्रतर्ततॆ इति ऎत[त् उपप]न्नम् ऎव । ऎतत् कुतः विक्षॆपपरिज्ञानमात्रम् ऎव ऎतयॊः? उपायान्तरॆण विक्षिप्तम् पुनर् स्वतः ऎव अपमण्डलात् प्रतियक्षॆण

उपदिष्टम्, चन्द्रविक्षॆपप्रदर्शितम् ऎव अर्थविशॆषम् सम्भावयति । सर्वॆषाम् ऎव विक्षॆपः अपक्रममण्डलात् उत्तरॆण दक्षिणॆन च । [पातात्] चक्रचतुर्भागान्तरॆ यथा उक्ताः [विक्षॆ]पभागाः विक्षॆपापक्रममण्डलयॊः अन्तरॆ यथा अवतिष्ठन्तॆ तथा प्रदर्श्यन्तॆ । "अपमण्डलस्य चन्द्रः पातात् याति" इति ऎतत् अपि गीतिकासु उपपदिष्ट[पातानुसारॆण अव]धॆयम् । शशी विक्षॆपमण्डलस्थितपातात् प्रभृति विक्षॆपमण्डलॆ प्रवर्ततॆ, इति ऎतत् अनुक्तम् न गम्यतॆ । "शीघ्रॊच्चॆन अपि बुधशुक्रौ" इति ऎ[तत् अपि] वक्तव्यम् । अतः अवश्यम् ऎतत् आर्यासूत्रम् वक्तव्यम् ॥ ३ ॥

[ ग्रहाणाम् कालांशाः ]

ग्रहाणाम् उदयास्तमयपरिज्ञानाय आदित्यग्रहान्तरभागान् आह 

चन्द्रः अंशैः द्वादशभिः अविक्षिप्तः अर्कान्तरस्थितः दृश्यः ।

नवभिः भृगुः भृगॊः तैः द्व्यधिकैः द्व्यधिकैः यथा श्लक्ष्णाः ॥४॥

चन्द्रः अंशैः द्वादशभिः । अयम् अंशशब्दः सामान्यॆन विभागमात्रवाची । तॆन "सामान्यचॊदनाः च विशॆषॆ अवतिष्ठन्तॆ" इति अंशविशॆषॆषु अवस्थाप्यन्तॆ । विशॆषः च कालांशता । ऎतॆ कालविभागाः । तॆ कालभागाः उच्यन्तॆ । "प्राणॆन ऎति कलाम् भम्" [गीतिका, ६] इति उक्तम् । तॆन उच्छ्वासप्राणस्य लिप्तासंज्ञात्वम् । ततः प्राणानाम् सप्तशतस्य विंशत्यधिकस्य [७२०] द्वादश भागाः, घटिकाद्वयम् इति अर्थः । यतः घटिकाद्वयस्य प्राणाः सप्तशतानि विंशत्यधिकानि [७२०] । अथवा सूर्यात् पश्चात् प्राक् वा कालॆन अन्तरितः ग्रहः यस्मात् [दृश्यः तस्मात्] कालांशत्वम् । ऎवम् कालभागैः द्वादशभिः अन्तरितः चन्द्रः । अविक्षिप्तः, न विक्षिप्तः अविक्षिप्तः । अर्कान्तरस्थितः । अर्कात् अन्तरम् अर्कान्तरम्, तस्मिन् अर्कांतरॆ द्वादशकालांश-प्रमाणॆन अविक्षिप्तः व्यवस्थितः, नभसि व्यपॆताभ्रतमसि लक्ष्यतॆ ।

यदा पुनर् असौ विक्षिप्तः घटिकाद्वयात् ऊनाधिकॆ कालॆ दृश्यतॆ, यस्मात् अर्कात् उत्तरॆण विक्षिप्तः चन्द्रः गॊलस्य उत्तरॊन्नतत्वात् ऊनॆ अपि घटिकाद्वयॆ कालॆ दृश्यतॆ, दक्षिणविक्षिप्तः च उन्नतत्वात् गॊलस्य दक्षिणॆन घटिकाद्वयाधिककालॆ दृश्यतॆ । तस्मात् उक्तम् अविक्षिप्तः इति । तस्मात् विक्षॆपकर्मकृत्वा ऎतत् अन्तरम् आलॊच्यतॆ ।नवभिः भृगुः । तथा ऎव कालभागैः नवभिः अर्कान्तरस्थितः अविक्षिप्तः भृगुः दृश्यतॆ । नवभिः कालभागैः विक्षिप्तस्य विक्षॆपकर्म चन्द्रवत् ऎव । भृगॊः तैः । भृगॊः शुक्रस्य यॆ भागाः । नवभिः भृगुः तैः द्व्यधिकैः द्व्यधिकैः इति ऎतावता सिद्धॆ पुनर् भृगुग्रहणम् कुर्वन् आचार्यः ज्ञापयति  भृगॊः इयम् काष्ठभागाः नव इति, तॆभ्यः ऎव नवभ्यः गुर्वाद्यन्तरभागप्रतिपत्तिः । अन्यथा हि अयम् भृगुः अतः न्यूनॆषु अपि त्रिषु चतुर्षु वा अन्तरितः वक्रकालॆ उदयास्तमयौ कुर्वन् लक्ष्यतॆ इति ऎतत् पुनर् भृगुग्रहणम् । तैः द्व्यधिकैः द्व्यधिकैः इति वीप्साग्रहणम् च भागद्वयान्तरग्रहणार्थम् । अन्यथा हि सर्वॆषाम् ऎव नव ऎव भागाः स्युः । यथा श्लक्ष्णाः । ऎतॆ ग्रहाः श्लक्ष्णाः परिहीयमानशरीराः प्रतिपादिताः तथा द्व्यधिकैः द्व्यधिकैः अर्कान्तरस्थिताः अविक्षिप्ताः सन्तः दृश्यन्तॆ । उक्तः च ऎषाम् यथाश्लक्ष्णक्रमः 

भृगुगुरुबुधशनिभौमाः शशि-ङ-ञ-ण-न-मांशाकाः । [गीतिका, ७]

इति । भृगॊः भागैः द्व्यधिकैः बृहस्पतिः दृश्यतॆ षड्भागॊनघटिकाद्वयॆन, तैः द्व्यधिकैः बृहस्पतॆः त्रयॊदशभिः षड्भागॊत्तरघटिकाद्वयॆन बुधः, बुधभागैः द्व्यधिकैः शनैश्चरः सार्धॆन घातिकाद्वयॆन, शनैश्चरभागैः द्व्यधिकैः भौमः षड्भागॊनघटिकात्रयॆण, ऎतावद्भिः कालभागैः अन्तरिताः दृश्यन्तॆ इति उक्तम् । अदर्शनम् पुनर् ऎषाम् कथम् अवगम्यतॆ? कॆचित् तावत् आहुः  ऎतावद्भिः ऎव भागैः । कुतः? तुल्यता संहितायाम् । अर्कान्तरस्थितः दृश्यः अदृश्यः च । कथम् ऎतावद्भिः ऎव बागैः दृश्यः अदृश्यः च? यदा अर्कात् निष्क्रामति ग्रहः तदा तावद्भिः ऎव दृश्यतॆ, यदा स ऎव अर्कम् प्रविशति तदा [तावद्भि]ः ऎव अन्तरितः न दृश्यतॆ । ऎतत् च [न]  यावता निष्क्रामतः प्रविशतः वा ग्रहस्य तुल्यम् इदम् अन्तरम्, तॆन दृश्यॆन वा ग्रहॆण भवितव्यम् अदृश्यॆन वा । स तावत् इष्टकालांशकैः दृश्यः ऎव उपलभ्यतॆ । तस्मात् तुल्यसंहिताव्याख्यानम् असत् इति । कथम् तर्हि? उच्यतॆ  ऎतावद्भिः

ऎव भागैः अर्कान्तरस्थितः निष्क्रामत् प्रविशत् वा दृश्यतॆ । ऊनैः अतः दृश्यतॆ इति अर्थात् अवगम्यतॆ, अधिकैः पुनर् नितराम् दृश्यतॆ इति ऎतत् अशास्त्रज्ञः अपि जानाति ।

कालानयनम् पुनर् अत्र दॆशान्तराक्षविशॆषराश्युदयप्रमाणैः परिकल्प्यतॆ । तत् यथा  यदि त्रिंशता स्वदॆशराश्युदयकालः लभ्यतॆ तदा इदानीम् निष्पन्नार्कग्रहान्तरभागैः कः इति, कालः लभ्यतॆ । स यदि अभीष्टग्रहान्तरकालॆन तुल्यः तदा असौ ग्रहः दृश्यतॆ, ऊनॆ अस्तम् गतः, अधिकॆ नितराम् दृश्यतॆ । अथवा स्वदॆशराश्युदयॆन त्रिंशता च त्रैराशिकम् कृत्वा सर्वराशिषु अन्तरभागानयनम्  यदि राश्युदयकालॆन त्रिंशद्भागाः लभ्यन्तॆ तदा इष्टग्रहान्तराभिहितकालॆन कियन्तः इति सर्वराशिषु अन्तरभागाः लभ्यन्तॆ । तैः वा सकृत्सिद्धैः ऎव अन्तरभागैः इष्टदॆशॆ ग्रहस्य दर्शनम् वक्तव्यम् । ग्रहाणाम् पूर्वॊदयास्तमययॊः इदम् कर्म । अपरॊदयास्तमययॊः तत्सप्तमराश्युदयकालॆन ऎतत् परिकल्पनम्, यस्मात् उदयराशिवशात् ऎव अस्तम् राशयः गच्छन्ति ॥ ४ ॥

[ भूग्रहादीनाम् प्रकाशहॆतुः ]

धरित्रीग्रहनक्षत्रताराणाम् प्रकाशहॆतुप्रदर्शनाय आह 

भूग्रहभानाम् गॊलार्धानि स्वच्छायया विवर्णानि ।

अर्धानि यथासारम् सूर्याभिमुखानि दीप्यन्तॆ ॥ ५ ॥

भूः पृथिवी । ग्रहाः सूर्यादयः । भानि ज्यॊतींषि नक्षत्राणि । भूः च ग्रहाः च भानि च भूग्रहभानि, तॆषाम् भूग्रहभानाम् । गॊलार्धानि । धरित्र्यादीनाम् शरीराणि गॊलशब्दॆन उच्यन्तॆ । अतः तॆषाम् गॊलानाम् अर्धानि गॊलाकारशरीरार्धानि इति यावत् । 

कथम् ऎतॆ ग्रहादयः गॊलाकारशरीराणि प्रतिपद्यन्तॆ? भुवम् तावत् अन्यॆ शकटाकाराम् दर्पणवृत्ताकाराम् च मन्यन्तॆ । न ऎतत् ऎवम् । यथा गॊलाकारा भूः प्रतिपद्यतॆ तथा उत्तरतः वक्ष्यामि । कथम् पुनर् अत्र अमी ग्रहाः गॊलाकाराः प्रतिपद्यन्तॆ? अथ च दर्पणवृत्ताकारौ सूर्याचन्द्रमसौ लक्ष्यॆतॆ, ऎवम् अन्यॆ अपि । अन्यत् च  स्थित्यर्धादिपरिलॆखनप्रक्रिया च गॊलाकारशरीरॆषु न घटतॆ । न ऎतत् अस्ति । ऎतॆ ग्रहादयः गॊलशरीराः अपि सन्तः दूरदॆशवर्तित्वात् दर्पणवृत्ताकाराः उपलक्ष्यन्तॆ । या स्थित्यर्धादिपरिलॆखनप्रक्रिया सा दृग्विषया, तस्याः दृग्विषयत्वात् यथादर्शनगतानि ऎव बिम्बसंस्थानानि अंगीकृत्य आचार्यॆण उक्तम् । अथवा गॊलाकारॆषु अपि स्थित्यर्धाद्युपपत्तिः शक्यतॆ वक्तुम् । यस्मात् विक्षॆपादयः बिम्बमध्यात् प्रवृत्ताः तावत् ज्ञात्वा गॊलकानाम् बिम्बार्धम् दर्पणवृत्ताकारः इव यथा भ्रमन् निष्पादितः समुद्गतः तस्याः उदरम् दर्पणवृत्ताकारम् ऎव उपलक्ष्यतॆ, तस्मात् गॊलाकारात् अपि स्थित्यर्धाद्युपपत्तिसिद्धिः च । अतः परमार्थतः ऎव गॊलाकाराः, अन्यथा हि चन्द्रमसः सितक्षयवृद्धी दर्पणवृत्ताकारॆ बिम्बॆ न संवदॆतॆ । तस्मात् गॊलाकारशरीराः ऎतॆ । उक्तम् च 

सूर्यः अग्निमयः गॊलः चन्द्रः अम्बुमयः स्वभावतः स्वच्छः | इति ।

स्वच्छायया विवर्णानि । स्वा च्छाया स्वच्छाया, तया स्वच्छायया अर्धानि ऎषाम् [विवर्णानि अप्रकाशात्मकानि कृष्णानि इति अर्थः, न ततः अन्यत्काराण]म् अस्ति वैवर्ण्यस्य । यथा घटस्य आतपस्थस्य ऎकम् पार्श्वम् स्वच्छायया ऎव विवर्णम्, ऎवम् अत्र अपि । या[नि अर्धानि] प्रकाशन्तॆ तानि सूर्याभिमुखानि । अर्धानि । तॆषाम् गॊलानाम् अर्धानि, यावन्ति अवशिष्टानि स्वच्छायावैवर्ण्यानि व्यतिरिक्तानि । यथासारम् । अल्पानाम् अल्पानि, महताम् महान्ति । सूर्याभिमुखानि,

आदित्याभिमुखानि । दीप्यन्तॆ चकासन्ति ।

[ चन्द्रस्य सितभागः ]

यदि अर्धानि ग्रहाणाम् सूर्याभिमुखानि चकासन्ति तदा किम् इति चन्द्रमसः अर्धबिम्बम् सर्वदा न चकास्ति? चकास्ति ऎव । किम् इति न उपलभ्यतॆ? उच्यतॆ  अमावास्यायाम् चन्द्रमसः उपरि आदित्यः तदा तस्य चन्द्रमसः उपरि यत् बिम्बार्धम् तत् अशॆषम् अवभासयति । चन्द्रस्य अमावास्यॊपलक्षितॊपरिबिम्बकॆन्द्रात् यथा यथा पश्चात् आदित्यः अवलम्बतॆ तथा तथा बिम्बकॆन्द्रम् अपि अपरतः अवलम्बतॆ । तत् कॆन्द्रवशात् चन्द्रमसः बिम्बार्धम् यावत्

ऎव अमावास्यॊपलक्षितम् बिम्बपरिध्यर्धावधॆः अवलम्बतॆ तावत् चन्द्रमसः बिम्बम् अस्माभिः उपलक्ष्यतॆ । शॆषम् उपरिस्थितत्वात् न उपलक्ष्यतॆ । सूर्याभिमुखम् अपि सवितृकरा[त् छादितम् अपि न दृश्यतॆ] । तस्मात् यावत् यावत् चन्द्रमसः बिम्बम् सवितृबिम्बात् श्लक्ष्णम् अवलम्बतॆ तावान् स्वच्छः चन्द्रमसः शुक्लः उपलक्ष्यतॆ । तॆन च अमी ज्यॊत्स्नावितानावभासिनः चन्द्रकराः । तॆन तर्हि सवितृमरीचयः तु स[लिल]मयॆ स्वभावात् ऎव [स्वच्छ]चन्द्रबिम्बॆ सम्मूर्च्छिताः नैशम् ध्वान्तम् अवध्वांसयन्ति, यथा दर्पणॆ जलॆ वा दिवसकराः सम्मूर्च्छिताः सन्तः गृहान्तर्गतम् तमः क्षपयन्ति ।

[ चन्द्रशृंगॊन्नतिः ]

अन्यत् च  यः यः चन्द्रबिम्बप्रदॆशाः सवितृमार्गॆ ऋजुत्वॆन व्यवस्थितः स ऎव शृंगॊन्नतौ उपलभ्यतॆ, न इतरः । तथा च तत् जिज्ञासवः कर्म कुर्वन्ति । तत् यथा  शुक्लप्रतिपदादिषु सूर्यार्धास्तमयकालिकौ सूर्याचन्द्रमसौ कृत्वा सूर्यॊनचन्द्रॊत्क्रमज्या गृह्यतॆ । सा यस्मात् प्रतिदिवसम् उपचीयमाना, चन्द्रमसः शुक्लम् उपचीयतॆ । उत्क्रमज्या च उपचीयमानप्रमाणा । तॆन तया उत्क्रमज्यया त्रैराशिकम्  यदि व्यासार्धतुल्यया उत्क्रमज्यया स्फुटचन्द्रबिम्बार्धम् उपलभ्यतॆ, तदा अनया उत्क्रमज्यया कियत् इति, तत् कालसितमानम् लभ्यतॆ । शुक्लाष्टम्याः परतः या सितवृद्धिः सा क्रमज्यावशात् उपचीयमाना लक्ष्यतॆ इति क्रमज्या गृह्यतॆ । ताः क्रमज्याः पूर्वॊपचितव्यासार्धज्यासु प्रक्षिप्य त्रैराशिकम् क्रियतॆ । अथवा  ताभिः ऎव क्रमज्याभिः चन्द्रबिम्बार्धॆन त्रैराशिकम् कृत्वा यत् लब्धम् चन्द्रबिम्बार्धॆ प्रक्षिप्तम् सितमानम् भवति । शुक्लप्रतिपदादिषु यथा चन्द्रमसः सितमानम् वर्धतॆ

तथा कृष्णप्रतिपत्प्रभृतिभ्यः सितमानम् उत्क्रमॆण अपचीयतॆ । तॆन सूर्याचन्द्रमसॊः विशॆषात् राशिषट्कम् अपनीय तथा ऎव कर्म क्रियतॆ ।

[ चन्द्रस्य दर्शनकालः ]

दर्शनकालः हि यावन्तम् कालम् चन्द्रः दृश्यतॆ । यवता कालॆन उदॆति तत् आनयनॊपायः  शुक्लपक्षॆ तावत् उदयराशिवशात् ऎव ज्यॊतिश्चक्रगतिः इति अतः यावन्तः सूर्यात् चन्द्रराशिभागाः तावन्तः ऎव उदयावधॆः स्वदॆशराश्युदयप्राणाः परिगृह्यन्तॆ । तत् यथा  आस्तमयिकॆ सवितरि षड्राशयः परिक्षिप्यन्तॆ स सूर्यात् सप्तमः राशिः भवति । तथा च चन्द्रमसि षड्राशयः परिक्षिप्य सूर्यगतराशिभागान् त्रिंशता विशॊधयॆत् शॆषम् सूर्यस्य आगतराशिभागः । तत् षड्राशियुतसूर्यवर्तमानराश्युदयॆन संगुणय्य त्रिंशता विभजॆत्, लब्धम् प्राणाः । तान् ऎकतः विन्यसॆत् । सूर्यागतराशिभागान् च षड्राशियुतसूर्यॆ प्रक्षिप्य तावत् स्वदॆशराश्युदयप्राणाः संकलनीयाः यावत् षड्राशियुतचन्द्रगताः भागाः । ततः षड्राशियुतचन्द्रगताः भागाः तत् राश्युदयप्राणैः संगुण्य त्रिंशता विभजॆत्, लब्धम् प्राणाः । तान् पूर्वसंकलितप्राणान् च सर्वान् ऎकत्र न्यस्तप्राणॆषु प्रक्षिप्य षड्भिः भागः, लब्धम् विघटिकाः, षष्ट्या

घटिकाः । ऎवम् घटिकादिलक्षणः दर्शनकालः । तावता कालॆन सूर्याचन्द्रमसॊः गतिविशॆषः अस्ति इति अविशॆषकर्म प्रवर्ततॆ । तत् यथा  यदि षष्ट्या घटिकाभिः सूर्यभुक्तिः चन्द्रभुक्तिः वा लभ्यतॆ ततः अनॆन दर्शनकालॆन तॆ कियत्यौ तयॊः भुक्ती इति । सूर्यभुक्तिलब्धम् षड्राशियुक्तसूर्यॆ प्रक्षिपॆत्, चन्द्रभुक्तिलब्धम् अपि षड्राशियुतचन्द्रमसि प्रक्षिप्य तावत् इदम् कुर्यात् यावत् अविशॆषः । तत्र यः अविशिष्टः कालः स दर्शनकालः । तावन्तम् कालम् शर्वर्याम् शशी दृश्यतॆ । यः च षड्राशियुक्तः चन्द्रः अविशिष्टः तस्मात् चक्रार्धम् अपनयॆत् तावान् चन्द्रः दर्शनकालपरिसमाप्तौ अस्तम् ऎति ।

अथ कश्चित् यदि कियता कालॆन अ[न]स्तमितॆ सवितरि चन्द्रॊदयः भविष्यति इति ऎतत् जिज्ञासुः, इदम् कर्म कुर्यात् । तत् यथा  अविकृतास्तमयकालादित्यभागॆभ्यः प्रभृति तावत् प्राणाः संकलनीयाः यावत् अविकृतशीतांशॊः गतभागप्राणाः । तान् पूर्ववत् घटिकाः कृत्वा [दिन]प्रमाणघटिकाभ्यः विशॊधयॆत् । तत्र यः शॆषः स दिवसशॆषः । तावता दिवसशॆषॆण तदा चन्द्रॊदयः भविष्यति । अत्र अपि सूर्याचन्द्रमसॊः अविशॆषकर्म प्रवर्ततॆ । तत् यथा  आसाम् नाडीनाम् यः यः भॊगः तॆन अधिकौ सूर्याचन्द्रमसौ इति अतः ताभ्याम् अपनीय अपनीय अविशॆषः क्रियतॆ । अविशॆषितः दर्शनकालः तावता कालॆन दिवसशॆषः ऎव चन्द्रॊदयः । यः असौ अविशिष्टः चन्द्रः तावान् तत्र दिवसशॆषॊदयकालॆ चन्द्रः ।

अथवा प्रथमानीतदिवसशॆषचन्द्रॊदयकालॆन चन्द्रमसः भुक्तिम् संगुणय्य षष्ट्या विभजॆत् । लब्धम् चन्द्रात् विशॊधयॆत् । स तावत् दिवसशॆषकालिकः चन्द्रः भवति । ततः प्रथमानीतदिवसकालॆन उदयलग्नम् कुर्यात् । तत् उदयलग्नम् तॆन दिवसशॆषॊदितचन्द्रॆण तुल्यम् यदा, तदा दिवसशॆषम् चन्द्रॊदयकालः । अथ यदि तस्मात् लग्नात् ऊनः चन्द्रः तदा प्रथमतरम् उदितः इति । तयॊः लग्नचन्द्रयॊः अन्तरालप्राणान् प्रथमानीतदिवसशॆषकालात् विशॊधयॆत् । तॆषाम् च प्राणानाम् यावती चन्द्रभुक्तिः त्रैराशिकॆन लभ्यतॆ तावती प्रथमदिवसशॆषॊदितकालचन्द्रात् विशॊध्यतॆ तावान् चन्द्रः दिवसशॆषॊदितः, तावान् च दिवसशॆषकालः । चन्द्रः च यदा अधिकः तदा पूर्ववत् तदन्तरप्राणान् दिवसशॆषकालॆ प्रक्षिपॆत् तावताम् प्राणानाम् चन्द्रभॊगम् चन्द्रमसि प्रक्षिपॆत्, तावत् कर्म यावत् अविशॆषः । अथवा प्रथमास्तमयिकचन्द्रात् ऎव अन्तरॊत्पन्नदिवसशॆषकालभॊगः चन्द्रमसः विशॊध्य तत् काललग्नक्रमॆण अविशॆषकर्म क्रियतॆ ।

अथ यदि उदयलग्नात् चन्द्रः अधिकः तदा [कियन्]नाड्या अभ्युदॆति चन्द्रः इति तदन्तरप्राणान् प्रथमानीतदिवसशॆषॆ प्रक्षिपॆत् । तत् भुक्तिम् चन्द्रमसि प्रक्षिपॆत् तावत् यावत् अविशॆषः । ऎवम् उदयलग्नम् चन्द्रः च कृतः भवति, दिवसशॆषचन्द्रॊदयकालः च । ऎवम् यावत् पौर्णमासी तावत् दर्शनकालानयनम् । पौर्णमास्याम् पुनर् तावत् ऎव अन्तरघटिकाः यदि दिनप्रमाणघटिकाभ्यः ऊनाः भवॆयुः तदा अनस्तमितॆ आदित्यॆ चन्द्रॊदयः, यदि अतिरिक्ताः तदा अस्तंगतॆ । उभयत्र अपि अन्तरकालप्रमाणॆन अविशॆषकर्म अनन्तरकर्मवत् ऎव । कृष्णपक्षप्रतिपदादिषु च चन्द्रादित्यान्तरघटिकाभ्यः दिनप्रमाणघटिकाः विशॊध्य शॆष[घटिका]भिः भुकिः त्रैराशिकॆन सूर्याचन्द्रमसौ सञ्चार्य पुनर् तयॊः अन्तरघटिकाभ्यः दिनप्रमाणघटिकाः विशॊधयॆत् । शॆषघटिकाभिः चन्द्रादित्यौ तदन्तरालघटिकाः इति आद्यविशॆषान्तम् कर्म क्रियतॆ, तत्र अविशिष्टॆन कालॆन [सूर्यास्तमयात् पश्चात् चन्द्रॊदयः । ऎवम्

ऎव अविशिष्टॆन कालॆन] सूर्यॊदयात् प्राक् चन्द्रॊदयः ।

अथ अनस्तमितॆ सवितरि कियता कालॆन चन्द्रः अस्तम् यास्यति इति ऎतत् जिज्ञासुः इदम् कर्म कुर्यात् । तत् यथा  सूर्यॊदयकालॊत्पन्नम् चन्द्रमसम् कृत्वा तत्र राशिषट्कम् प्रक्षिपॆत् । [ततः] प्राक् चन्द्रॊदयः [ज्ञातव्यः] । अथ औदयिकात् आदित्यात् षड्राशियुक्तनिशाकरावधॆः स्वदॆशराश्युदयविधानॆन यावत्यः घटिकाः ताः अविशॆष्यन्तॆ । कथम्? तासाम् त्रैराशिकॆन यावत् चन्द्रमसः भुक्तिः ताम् चन्द्रमसि प्रक्षिपॆत् इति अतः पुनर् अपि तस्मात् आदित्यात् षड्राशियुक्तचन्द्रावधॆः पूर्ववत् घटिकाः तावत् यावत् अविशॆषः । तत्र याः अविशॆषिताः घटिकाः तावतीभिः दिवसॆ व्यतीताभिः चन्द्रः अस्तम् ऎति । दिवसप्रमाणात् विशॊध्य शॆषम् दिनशॆषघटिकाः च । अत्र यः अविशिष्टः चन्द्रः स तस्मिन् कालॆ तावान्, यः च षड्राशियुक्तः चन्द्रः स तस्मिन् कालॆ उदयलग्नम् इति ।

[ चन्द्रस्य याम्यॊत्तरप्रदॆशः ]

अथ कश्चित् कियता कालॆन शुक्लाष्टम्या परतः चन्द्रः गगनमध्यम् अवगाहतॆ, कियान् वा तत्र चन्द्रः इति जिज्ञासुः, इदम् कर्म कुर्यात् । अथ तत्कालात् परतः स्वधिया आसन्नौ मध्यलग्ननिशाकरौ अभ्यूह्य, तत्र यदि मध्यलग्ननिशाकरौ तुल्यौ स्याताम् तदा तावान् चन्द्रः तावता ऎव कालॆन गगनमध्यम् आरॊक्ष्यति । अथ यदि अधिकः चन्द्रः तदा न अद्य अपि प्राप्नॊति गगनमध्यम् । तत्र मध्यलग्नचन्द्रान्तरकालम् स्वधिया अभ्यूहितकालॆ प्रक्षिप्य मध्यलग्नचन्द्रौ कुर्यात् यावत् तुल्यौ इति । अथ मध्यलग्नात् ऊनः चन्द्रः तदा तदन्तरालकालम् स्वधिया अभ्यूहित[कालात् विशॊध्य] मध्यलग्नचन्द्रौ तावत् कुर्यात् यावत् मध्यलग्नचन्द्रौ तुल्यौ स्याताम् । ऎवम् प्रसाधितगगनमध्याधिरूढामृतदीधितॆः अपक्रमविक्षॆपाक्षैः मध्यच्छाया प्रसाध्यतॆ ।

[ चन्द्रशृंगॊन्नतिपरिलॆखनविधिः]

अथ चन्द्राग्राचन्द्रशंक्वग्रयॊः तुल्यदिक्कयॊः यॊगः, भिन्नदिक्कयॊः विशॆषः, तत् यॊगविशॆषतुल्यम् इष्टकालॆ [बाहु]ः चन्द्रमसः । स च अन्तरालतः सूर्याग्रया सह ऎकदिक्कम् विशॆष्यतॆ, यतः अर्कात् ऎव उत्तरॆण दक्षिणॆन वा चन्द्रः साध्यतॆ, न विषुवतः । विदिक्कयॊः यॊज्यतॆ यस्मात् यॊगः अर्कचन्द्रान्तरम् । ऎतत् छॆद्यकॆ गॊलॆ वा प्रदर्श्यम् । ऎवम् परिनिष्ठितप्रमाणम् भुजा सूर्यात् याम्य उत्तरायता प्रसार्यतॆ । चन्द्रशंकुः कॊटिः । स यदि सूर्यात् उत्तरॆण चन्द्रः तदा भुजॊत्तराग्रतः पूर्वापरायता प्रसार्यतॆ । यदा दक्षिणॆन चन्द्रः सूर्यात् तदा तस्याः भुजायाः दक्षिणाग्रतः पूर्वापरायता । ऎवम् भुजकॊटी यथागतप्रमाणॆन विन्यस्य भुजाकॊटिमस्तकावगाही कर्णः दूरनिर्गताग्रः प्रसार्य कॊट्यग्रकर्णसम्पातॆ कॆन्द्रम् विरच्य चन्द्रबिम्बम् आलिखॆत् । तस्य चन्द्रबिम्बपरिधॆः अपरतः कर्णानुसारॆण सितमानम् नीत्वा बिन्दुम् कुर्यात् । चन्द्रबिम्बकॆन्द्रपूर्वापरॆ कर्णः, तत् मत्स्यविधानात् दक्षिणॊत्तरॆ साध्यॆ । दक्षिणॊत्तररॆखाचन्द्रपरिधिसम्पातॆ बिन्दू क्रियॆतॆ । ततः ताभ्याम् पूर्वविहितबिन्दुना च तथा छॆद्यकविधानॆन तत् बिन्दुत्रयशिरःस्पृग्वृत्तम् आलिखॆत् । तस्य वृत्तस्य चन्द्रबिम्बपरिधॆः च यत् अन्तरम् तत् चन्द्रमसः शुक्लः । अथ ऎव श्र्ंगॊन्नतिः नभसि उपलक्ष्यतॆ ।

शुक्लाष्टम्याः परतः अस्तकालॊदयलग्नाग्रज्यया अर्काग्रावत् कर्म [क्रियतॆ] । चन्द्रॊदयलग्नान्तरप्राणॊत्पन्नः शंकुः, कॊटिः अपराभिमुखी तथा ऎव प्रसार्यतॆ । तत्र यथागतम् सितमानम् चन्द्रबिम्बप्रमाणात् विशॊध्यम् शॆषम् असितम् भवति । तत्कर्णानुसारॆण चन्द्रपरिधिपूर्वभागात् बिम्बान्तरॆ असितमानम् नीत्वा बिन्दुम् कुर्यात् । तॆन दक्षिणॊत्तरबिन्दुभ्याम् च पूर्ववत् बिन्दुत्रयशिरःस्पृग्वृत्तम् आलिखॆत् । तस्य चन्द्रबिम्बपरिधॆः च यत्

अन्तरम् तत् असितम् । कृष्णप्रतिपदादिषु च अपराभिमुखप्रसारितकॊटिकर्णाग्रलिखितचन्द्रपरिध्यपरभागात् कर्णानुसारॆण असितम् अन्तः पूर्ववत् वृत्तम् आलिखॆत् ।इष्टकालॆ तुयथाप्रत्यासन्नास्तॊदयलग्नज्याम् अर्काग्राम् परिकल्प्य तत्कालचन्द्रशंक्वग्रम् आपाद्य इष्टलग्नचन्द्रान्तरप्राणॊत्पन्नशंकुकॊट्या चन्द्रः परिलॆखनीयः । ऎवम् सर्वत्र क्षितिजात् उपरि व्यवस्थितस्य चन्द्रस्य परिलॆखनप्रक्रिया ।

[ गृहपटलम् विदार्य शृंगॊन्नतिदर्शनम् ]

अथ शंकुभुजाकॊटिकर्णप्रमाणपरिकल्पितयन्त्राग्रॆ गृहपटलबिम्बान्तरॆ शिशिरदीधितिगणितसितप्रमाणशृंगॊन्नतिः प्रदृश्यतॆ । तत् यथा  सम्यक् प्रसिद्धगृहॊदरॆ पूर्वापररॆखातः उत्तरॆण दक्षिणॆन वा परिकल्पितांगुलप्रमाणम् अर्काग्रासूत्रम् पूर्ववत् प्रसार्य बिन्दुम् कुर्यात् । सः अर्कबिन्दुः । पूर्वापररॆखायाः ऎव दक्षिणॊत्तरतः चन्द्राग्रतः शंक्वग्रयॊः यॊगविशॆषज्यांगुलतुल्यम् सूत्रम् यथा आगतदिशम् प्रसार्य बिन्दुम् कुर्यात् । स शशिबिन्दुः । अर्कॆन्दुबिन्द्वॊः अन्तरांगुलतुल्या भुजा । तत्काल[चन्द्र]शंकुतुल्या कॊटिः अवलम्बकः । तदनुसारॆण अवलम्बकस्थित्या चन्द्रबिम्बानुसारिण्या गृहपटलम् विदारयॆत् । तत्र शंक्वग्रायतदण्डशिरसि यथालिखितम् तत् छॆद्यकसितशृंगॊन्नतिम् अर्कबिन्दुन्यस्तदृष्टिः कर्णानुसारॆण उत्क्षिप्तावलम्बकांगुलप्रमाणमस्तकासक्तम् शशलक्ष्माणम् पश्यति । ऎवम् ऎव ग्रहाः अपि गृहॊदरव्यवस्थितैः दर्शनीयाः इति ।

[ अर्धॊदितॆ चन्द्रॆ शृंगॊन्नतिकल्पना ]

क्षितिजमण्डलाक्रान्तार्धबिम्बस्य चन्द्रमसः कॊटॆः अभावात् न परिलिख्यतॆ । तत्र उदयास्तज्याचन्द्राग्रॆ शृंगस्य उन्नतिः परिकल्प्यतॆ । तत् यथा  यदि चन्द्राग्रा दक्षिणॆन उदयज्या उत्तरॆण तदा चन्द्रमसः उत्तरशृंगम् प्राक् प्रदृश्यतॆ, यतः भवृत्तचन्द्रः दक्षिणॆन व्यवस्थितः । भवृत्तचन्द्रानुसारॆण च सूर्यमरीचयः चन्द्रबिम्बम् कर्णगत्या अवगाहन्तॆ । यदा पुनर् चन्द्राग्रा उत्तरॆण उदयज्या दक्षिणॆन तदा चन्द्रमसः दक्षिणशृंगम् प्राक् प्रदृश्यतॆ । यस्मात् चन्द्रमसः दक्षिणॆन भवृत्तः स्थितः । भवृत्तानुसारॆण च सूर्यमरीचयः चन्द्रबिम्बम् अवगाहन्तॆ । दक्षिणॆन तुल्यदिक्कयॊः विशॆषः, चन्द्राग्रा यदा अतिरिच्यतॆ तदा चन्द्रमसः उत्तरशृंगम् प्राक् प्रदृश्यतॆ, अन्यथा दक्षिणम् । उत्तरॆण यदा चन्द्राग्रा अतिरिच्यतॆ तदा दक्षिणशृंगम् प्राक् प्रदृश्यतॆ, अन्यथा उत्तरम् । यदा पुनर् विशॆषॆण न किञ्चित् अन्तरम् तदा युगपत् उभयशृंगदर्शनम् । यदा च उदयज्या चन्द्राग्रॆ न भवतः तदा च अस्तमयॆ चन्द्रमसः अस्तलग्नज्यया चन्द्राग्रया च शृंगस्य प्राक् पश्चात् वा अस्तमयम् परिकल्पनीयम् ।

[ चन्द्रस्य सितासितहॆतुः ]

ऎवम् चन्द्रमसः सितासितशृंगॊन्नतिदर्शनकालादयः सवितृवशात् ऎव । ऎवम् च निरुक्तॆ पठ्यतॆ 

तस्य ऎकौ रश्मिः चन्द्रमसम् प्रति दीप्यतॆ ।न हि तॆन उपॆक्षितव्यम् । 

आदित्यतः अस्य दीप्तिः भवति । सुषुम्णः सूर्यरश्मिचन्द्रमाः गन्धर्वः । [वाजसनॆयसंहिता, अ १८, मं ४०; तैत्तिरीयसंहिता,३.४.७.१ ] इति अपि च निगमः भवति इति । तस्मात् ऎतॆन ऎव लिंगॆन चन्द्रमार्गात् उपरि सूर्यमार्गः इति, अन्यथा अनुपपत्या । परिशिष्टाः च ताराग्रहाः सूर्यमार्गात् उपरि दूरॆण व्यवस्थिताः । तॆन तॆषाम् आरात्स्थितानि गॊलार्धानि सर्वदा सकलानि ऎव चकासतॆ । ऊर्ध्वमुखाः सूर्यमरीचयः सदा आराद्भागम् प्रकाशयन्ति इति । बुधशुक्रयॊः च प्रत्यासन्नवर्तित्वात् सर्वतः बिम्बम् अवगाहन्तॆ अर्कमरीचयः प्रदीपप्रत्यासन्नगॊलवत् तॆन तयॊः अपि असकलबिम्बताभावः । यदि ऎवम् अस्तमितॆ सवितरि कथम् ऎतॆ ग्रहादयः चकासतॆ सवितृकराभावात् ? न ऎषः दॊषः । भूमॆः दूरॆण सूर्यमार्गः । तॆन उपरिमुखानाम् सूर्यमरीचीनाम् न व्यवधानाय भूः वर्ततॆ । यथा घटस्य उपरि अधः दूरॆण अवस्थितस्य प्रदीपस्य घटः न व्यवधानकारणम् । कृष्णपक्षप्रतिपदादिषु चन्द्रमसः बिम्बपूर्वभागः प्रत्यासन्नः सवितुः इति तॆन तत् शुक्लम् उपलभ्यतॆ । रत्नानाम् च आदित्यकराः ऎव दीप्तिकारणत्वम् प्रपद्यतॆ । तॆन तानि अपि रात्रौ न प्रकाशात्मकानि । उक्तम् च रत्नपरीक्षायाम् 

भानॊः च भासाम् अनुवॆधयॊगम् आसाद्य रश्मिप्रकरॆण दूरम् ।

पार्श्वाणि सर्वाणि अनुरञ्जयन्ति गुणैः उपॆताः स्फटिक्[आदयः हि] ॥

[यत्] उपाख्यानादिषु रत्नानि ऎव ध्वान्तम् ध्वंसयन्ति इति श्रूयतॆ तत् उपाख्यान[म् अर्थवादमात्र]म् ऎव ।

अन्यॆ पुनर् अन्यथा मन्यन्तॆ 

स्वच्छायया अर्कसामीप्यात् विकलॆन्दुसमीक्षणम् ।

इति । स्वच्छायया चन्द्रः शुक्लः उपलभ्यतॆ, तस्य शुक्लस्य चन्द्रमसः सवितृसन्निकर्षात् वैवर्ण्यम् भवति इति । कुतः ऎतत्? यदि स्वभावतः शुक्लस्य चन्द्रमसः सूर्यसन्निकर्षात् वैवर्ण्यम् स्यात् तदा शुक्लप्रतिपदादिषु चन्द्रस्य अपरभागः विवर्णः स्यात् सूर्यसन्निकर्षात्, न पूर्वभागः । तथा च अवांमुखम् चन्द्रबिम्बम् उपलक्ष्यतॆ । तस्मात् मिथ्याज्ञानम् ऎव ऎतत् यत् सौगतैः उच्यतॆ ॥ ५ ॥

[ भूगॊलसंस्थानम् ]

भादिकक्ष्याभूसंस्थानप्रदर्शनाय आह 

वृत्तभपञ्जरमध्यॆ कक्ष्यापरिवॆष्टितः खमध्यगतः ।

मृज्जलशिखिवायुमयः भूगॊलः सर्वतः वृत्तः ॥ ६ ॥

भानि ज्यॊतींषि नक्षत्राणि । तॆषाम् भानाम् पञ्जरः भपञ्जरः । यस्मात् [भानि] समन्ततः वियति पञ्जरस्थानि इव लक्ष्यन्तॆ ततः अनॆन दर्शनॆन ऎतत् उक्तम् । वृत्तः च असौ भपञ्जरः च वृत्तभपञ्जरः । वृत्तभपञ्जरमध्यम्, मध्यम् अन्तः, तस्य वृत्तभपञ्जरस्य । तत्र वृत्तभपञ्जरमध्यॆ । कक्ष्यापरिवॆष्टितः कक्ष्याभिः ग्रहाणाम् परिवॆष्टितः कक्ष्यापरिवॆष्टितः । खमध्यगतः, खम् आकाशम्, तस्य मध्यम् खमध्यम्, खमध्यंगतः खमध्यगतः, आकाशमध्यस्थः इति यावत् । कथम् आकाशमध्यॆ निरालम्बना भूः अवतिष्ठतॆ? [उच्यतॆ  स्वभाव]प्राधान्यात्; यथा सलिलाग्निवायवः क्लॆददहनप्रॆरणात्मकाः, न तॆषाम् अन्यः अस्ति कश्चित् क्लॆददहनप्रॆरणप्रयॊजकः, ऎवम् इयम् अपि भूः धारणात्मिका, न च धार्यमाणात्मिका । अथवा पतन्ती भूः, "पततु अधः" इति आह । अथ किम् इदम् अधः नाम । यथा अस्मदीयानाम् पृथिवी अधः, ऎवम् पृथिव्याः किम् अधः? "अधः"-शब्दः च दिग्वाची, दिशः च व्यवस्थापॆक्षया भवन्ति । यथा यत्र विवस्वान् उदॆति सा प्राची, यत्र अस्तम् ऎति सा परा, यस्याम् अदृश्यः गच्छति सा उत्तरा, शॆषा दक्षिणा । आसाम् अन्तरालॆषु ऎव विदिशः । ऎवम् उपरि अधः च पृथिवी अपॆक्षया भवतः । तॆन तस्याः पृथिव्याः न किञ्चित् उपरि, न अधः, तस्मात् पतनाभावः भुवः । ऎवम् च पृथिव्याः अर्धम् परिवॆष्ट्या अवस्थितः समुद्रः न पतिति । पतन्त्याम् च भुवि लॊष्टशिलीमुखादयः वियति क्षिप्ता न भुवम् आसादयॆयुः । भूः मन्दम् पतति इति चॆत्, साध्यतॆ च ऎतत् मायाविद्भिः च, वियति खातकीलकः अनाश्रयः भवॆत् । अथ अन्यॆ मन्यन्तॆ  शॆषॆण अन्यॆन [वा] भूः ध्रियतॆ इति । तत् उक्तम् । शॆषादीनाम् अपि अवश्यम् आधारविशॆषः कश्चित् कल्पनीयः, [तय अन्यः आ]धारः स्या[त् तस्य अपि अन्यः] इति अनवस्था । अथ तॆ स्वशक्त्या ऎव अवतिष्ठन्तॆ इति चॆत्, भुवः ऎव कस्मात् सा शक्तिः न परिकल्प्यतॆ । तस्मात् जगतः धर्माधर्मापॆक्षया सर्वभूतधात्री भूः निश्चला आकाशॆ तिष्ठति । मृज्जलशिखिवायुमयः

भूगॊलः, प्रत्यक्षम् यतः उपलभ्यतॆ । सर्वतः वृत्तः । मृदादिना काष्ठादिना वा अयःशलाकायाम् मध्यॆ समवृत्तवत् अवगन्तव्यः । अस्य बहिः चन्द्रादीनाम् कक्ष्याः दर्शयितव्याः ॥ ६ ॥

[ भूगॊलपृष्ठॆ प्राणिनाम् स्थितिः ]

भूगॊलप्रदर्शनाय आह 

यद्वत् कदम्बपुष्पग्रन्थिः प्रचितः समन्ततः कुसुमैः ।

तद्वत् हि सर्वसत्त्वैः जलजैः स्थलजैः च भूगॊलः ॥ ७ ॥

यद्वत् कदम्बपुष्पग्रन्थिः [समन्तात् कॆसरैः] प्रचितः, व्याप्तः इति अर्थः, तथा अयम् भूगॊलः समन्तात् जलजैः स्थलजैः च प्राणिभिः आवृत्तः । अथ यॆ भुवि व्यवस्थिताः प्राणिनः पर्वतादयः तॆषाम् कथम् अवस्थानम् तत् उच्यतॆ  यत्र यत्र प्राणिनः गच्छन्ति तत्र तत्र तॆषाम् भूः ऎव अधः, वियत् उपरि प्रतिभाति यथा अस्माकम् ॥ ७ ॥

[ भुवः वृद्ध्यपचयौ ]

भूवृद्ध्यपचयज्ञानाय आह 

ब्रह्मदिवसॆन भूमॆरुपरिष्टात् यॊजनम् भवति वृद्धिः ।

दिनतुल्यया ऎकरात्र्या मृदुपचितायाः भवति हानिः ॥ ८ ॥

तृणकाष्ठभस्मादिरूपॆण विद्यमानायाः [भुवः] यॊजनवृद्धिः भवति । अतः ऎव गृहपादपतडागादिखातॆषु घटपिटकादि उपरि उपरि अवयवाः लभ्यन्तॆ ।

दिनतुल्यया ऎकरात्र्या ब्रह्मदिवसतुल्यया रात्र्या । मृदुपचितायाः भवति हानिः । मृदा उपचिता मृदुपचिता, तस्याः मृदुपचितायाः हानिः भवति । कॆन पुनर् कारणॆन यत् उपचितम् बुवः तत् परिक्षीयतॆ? ब्रह्मदिवसावसानॆ किल संवर्तकाभिधानैः जलधरैः विच्छिन्नधाराभिमुक्तॆन पयसा यत् उपचितम् भुवः तत् परिक्षीयतॆ ॥ ८ ॥

[ भूप्रमाणम् ]

भूभ्रमणवाचकपूर्वॊत्तरपक्षप्रतिपादनाय आह 

अनुलॊमगतिः नौस्थः पश्यति अचलम् विलॊमगम् यद्वत् ।

अचलानि भानि तद्वत् समपश्चिमगानि लंकायाम् ॥ ९ ॥

अनुलॊमगतिः नौस्थः, कश्चित् अनुलॊमगतिः नौस्थः, पश्यति अचलम्, न चलम् वस्तुगत्या अपि स्थिरम्, विलॊमगम् यथा पश्यति सरित्सागरॊभयतटस्थितम् वृक्षदिकम्, [तथा ऎव] च भूमौ प्राङ्मुखम् भ्रमत्याम् उपरि[स्थिताः जनाः] नभस्थितानि अचलानि भानि प्रतिलॊमगानि अपरगानि पश्यन्ति । तथा हि लंकास्थाः भानि समपश्चिमगानि पश्यन्ति । लंका उपलक्षणमात्रम् । ऎवम् अन्यॆ अपि पश्यन्ति । तस्मात् इयम् भूः ऎव प्राङ्मुखम् भ्रमति । निश्चलम् ज्यॊतिश्चक्रम् । भूगत्या तदुपरिस्थितः यः भचक्रप्रदॆशः पुरस्तात् स उदयन् इव च लक्ष्यतॆ, यः तु मध्यॆ स गगनमध्यस्थितः इव, यः हि दूरॆण सः अस्तम् गच्छन् इव लक्ष्यतॆ । अन्यथा हि निश्चलस्य भचक्रस्य उदयास्तासम्भवः स्यात् ।

इदम् अस्य आदर्शनम् । भूमण्डलॆ भ्रमति [सति] जगत् जलधिना आप्लावॆत्, भूगॊलवॆगजनितप्रभञ्जनॆन आक्षिप्ताः तरुशिखरप्रासादादयः विशीर्यॆरन् । पक्षिणः अपि वियति उत्पतन् न स्वनीडम् आसादयॆयुः । तस्मात् धरित्रीभ्रमणॆ न किञ्चित् लिंगम् अस्ति । तस्मात् अन्यथा व्याख्यॆयम् सूत्रम् । यथा अनुलॊमगतिः नौस्थः पुरुषः चलवस्तूनि विलॊमगम् पश्यति, ऎवम् भानि चलानि प्रवहानिलाक्षिप्तानि वॆगवशात् लंकायाम् यानि वस्तूनि तानि प्रतिलॊमगानि पश्यन्ति; अधॊव्यवस्थिताम् भुवम् निश्चलाम् भ्रमन्तीम् इव पश्यन्ति । प्रत्यक्षॆ अपि नक्षत्राणि प्रागुदितानि अपराम् दिशम् आसादयन्ति ॥ ९ ॥

[ भूभ्रमणकारणम् ]

भ्रमणकारणम् आह 

उदयास्तमयनिमित्तम् नित्यम् प्रवहॆण वायुना क्षिप्तः ।

लंकासमपश्चिमगः भपञ्जरः सग्रहः भ्रमति ॥ १० ॥

उदयः च अस्तमयः च [उदयास्तमयौ । तयॊः ] उदयास्तमययॊः निमित्तम् नित्यम् प्रवहॆण प्रवहसंज्ञितॆन वायुना क्षिप्तः भपञ्जरः, भपञ्जरः अपि नित्यगतिः ऎव, लंकायाम् समपश्चिमः यः दिक्प्रदॆशः स लंकासमपश्चिमः, तम् गच्छति इति लंकासमपश्चिमगः, सह ग्रहैः वर्ततॆ इति सग्रहः, भ्रमति क्षणम् अपि न अवतिष्ठतॆ ।

यदि अपि ग्रहाः प्राङ्मुखम् व्रजन्ति तथा अपि भपञ्जरापॆक्षया अपरदिक्संक्रमणम् कुर्वन्ति, महता भपञ्जरगत्या नीयमानाः लक्ष्यन्तॆ, कुलालचक्रस्थाः कीटाः इव ॥ १० ॥

[ मॆरुवर्णनम् ]

मॆरुप्रमाणम् आह 

मॆरुः यॊजनमात्रः प्रभाकरः हिमवता परिक्षिप्तः ।

नन्दनवनस्य मध्यॆ रत्नमयः सर्वतः वृत्तः ॥ ११ ॥

यॊजनम् मात्रा यस्य स यॊजनमात्रः, प्रमाणॆ मात्रन्प्रत्ययः । प्रभाकरः, प्रभाम् करॊति इति प्रभाकरः । [हिमवता परिक्षिप्तः], हिमवता पर्वतॆन समन्तात् वॆष्टितः । [नन्दनवनस्य मध्यॆ], नन्दनम् वनम् [दॆवानाम् अप्सरॊगणपरिवृतानाम्] क्रीडास्थानम्, तस्य मध्यॆ । रत्नमयः । रत्नानि [सुवर्णरजत]मुक्ताप्रवालपद्मरागमरकतप्रभृतीनि, तैः निर्मितः रत्नमयः । [सर्वतः] समन्तात् । वृत्तः गॊलकाकारः इति अर्थः ।

अथ पौराणिकैः लक्षयॊजनप्रमाणः मॆरुः पठ्यतॆ तत् युक्तिरहितम् । [लंकातः यावत् मॆरुमध्यम् तावत् यॊजनसहस्रम् अपि न अस्ति, कुतः तत् ऎकदॆशॆ भविष्यति । अथ भूः ऎव महाप्रमाणा परिकल्प्यतॆ, तत् अयुक्तम् ।] यत् सपञ्चाशत्सहस्रम् यॊजनानाम् भूव्यासामनम् अक्षॊन्नतिप्रसाधितम् तत् सॊपपत्तिकम् । ग्रहॊदयास्तमयमध्याह्निच्छायावनतिलम्बनादिभिः सिद्धम् उत्सृज्य किम् अन्यत् उपलभ्यतॆ ।

किम् च पुराणॆषु पुष्करद्वीपस्य उपरिगतः विवस्वान् मध्याह्नम् करॊति इति पठ्यतॆ । लक्षयॊजनानाम् किल जम्बूद्वीपः, [ततः द्विगुणॊत्तराः] समुद्राः [द्वीपाः च] सप्त, सप्तमः च पुष्करद्वीपः । तत् अनॆकैः यॊजनसहस्रैः अन्तरैः व्यवस्थितम् । तत्र यदि मध्याह्नः विवस्वतः स्यात् अस्माकम् उत्तरगॊलभूतत्वात् शंकॊः छायानाशः [न] स्यात् । दृश्यतॆ तच्छायानाशः । तस्मात् विषुवति लंकामध्यॆ सविता गच्छति इति सिद्धम् । [विषुवति लंकामध्यॆ न सविता गच्छति इति तैः ऎव उक्तम् । तत् च अतिदूरत्वात् न घटतॆ । यदि पतंगवत् उत्प्लुत्य गच्छति ततः युज्यतॆ । तत् च अशक्यम् परिकल्पयितुम्, प्रत्यक्षविरुद्धत्वात् ।] तस्मात् ध्रुवॊन्नत्या [आनीतम् ऎव] भुवः प्रमाणम् सिद्धम् । तत्र महाप्रमाणस्य मॆरॊः अवस्थानम् ऎव न अस्ति ।

[यदि कथञ्चित् महाप्रमाणः ऎव मॆरुः अवतिष्ठतॆ तदा स किम् अस्माभिः न दृश्यतॆ । ] दूरत्वात् मॆरुः अस्माभिः न दृश्यतॆ, अथवा निष्प्रभत्वात् तत् न दृश्यतॆ, न तर्हि रत्नमयः । किम् च यदि महाप्रमाणः मॆरुः स्यात् मॆरुशिखरान्तरितत्वात् भावात् उत्तरॆण तारकाः न दृश्यॆरन् । तस्मात् तस्य कनकगिरॆः उपरिशिखरप्रदॆशॆ ऎव सर्वरत्नमयः मॆरुशब्दॆन उच्यतॆ ॥ ११ ॥

[ मॆरुबडवामुखयॊः स्थिती ]

क्व भूप्रदॆशॆ मॆरुः, क्व वा बडवामुखम् इति आह 

स्वः मॆरू स्थलमध्यॆ नरकः बडवामुखम् च जलमध्यॆ ।

अमरमराः मन्यन्तॆ परस्परम् अधःस्थिताः नियतम् ॥ १२ ॥

स्वः स्वर्गॊपलक्षितः, मॆरुः च, स्थलमध्यॆ । नरकः बडवामुखम् च जलमध्यॆ । अमरमराः अमराः दॆवाः, मराः नरकस्थाः, तॆ परस्परम् अधःस्थाः मन्यन्तॆ । यतः सर्वॆषाम् भूः अधः, अतः अन्यॊन्यम् अधःस्थिताः मन्यन्तॆ । यत्र उत्तरॆण अयःशलाका भुवम् भित्वा निर्गता तत्र प्रदॆशॆ स्वर्गः मॆरुः, यत्र दक्षिणॆन निर्गता तत्र नरकः बडवामुखम् च ॥ १२ ॥

[ उदयादिव्यवस्था ]

प्रकृष्टदॆशान्तरव्यवस्थितान् दॆशान् आह 

उदयः यः लंकायाम् सः अस्तमयः सवितुः ऎव सिद्धपुरॆ ।

मध्याह्नः यमकॊट्याम् रॊमकविषयॆ अर्धरात्रः स्यात् ॥ १३ ॥

लंकानिवासिनाम् यः उदयः स ऎव सिद्धपुरनिवासिनाम् अस्तमयः, [यतः लंकाप्रदॆशात् अधः व्यवस्थितम् सिद्धपुरम्] । मध्याह्नः यमकॊट्याम्, यः ऎव लंकापुरनिवासिनाम् उदयः स ऎव यमकॊटिनिवासिनाम् मध्याह्नः, यतः लंकाप्रदॆशात् पूर्वस्याम् भूपरिधिचतुर्भागॆ यमकॊटिः । यः लंकानिवासिनाम् उदयः स रॊमकनिवासिनाम् अर्धरात्रः, यतः लंकातः अपरभागॆ भूपरिधिचतुर्भागॆ रॊमकम् । ऎवम् ऎतॆ भूचतुर्थभाग्[आन्तराल]व्यवस्थिताः

स्थलजलसन्धिवर्तिनः दॆशाः परस्परम् अहॊरात्रचतुर्भागकालदॆशान्तरप्रमाणाः प्रदर्शयितव्याः ॥ १३ ॥

[ समरॆखास्थनगर्यौ ]

दॆशान्तरप्रदर्शनार्थम् आह 

स्थलजलमध्यात् लंका भूकक्ष्यायाः भवॆत् चतुर्भागॆ ।

उज्जयिनी लंकायाः तच्चतुरंशॆ समॊत्तरतः ॥ १४ ॥

स्थलमध्यात् मॆरॊः आरभ्य जलमध्यात् च बडवामुखात् लंका भूकक्ष्यायाः चतुर्थभागॆ व्यवस्थिता । भूपरिधिः ३२९८१७२५, चतुर्भागः ८२४६७१०० । ऎतावति अन्तरॆ व्यवस्थिता । उज्जयिनी  स्थलजलसन्धिवर्तिलंकायाः समॊत्तरॆ दिग्भागॆ व्यवस्थिता । तच्चतुरंशॆ, तस्य भूचतुर्थभागस्य चतुर्थभागॆ । भूपरिधॆः षॊडशभागः २०६ ६७ ४०० । ऎतावति अन्तरॆ लंकातः उज्जयिनी ।

लंकॊज्जयिनीसमदक्षिणॊत्तररॆखायाम् वात्स्यगुल्मचकॊरपुरप्रभृतीनि स्थानानि व्यवस्थितानि । उज्जयिन्याः उत्तरॆण दशपुरमालवनगरचट्टशिवस्थानॆश्वरप्रभृतीनि यावत् मॆरुः इति ।

सर्वॆ ग्रहाः करणागताः भूमध्यसमदक्षिणॊत्तररॆखायाम् भवन्ति । पूर्वभागव्यवस्थिताः प्रथमतरम् ऎव रविम् पश्यन्ति, अतः दॆशान्तरफलम् अपनीयतॆ । पश्चिमभागॆ [व्यवस्थिताः] चिरॆण पश्यन्ति, अतः तत्र दॆशान्तरफलम् क्षिप्यतॆ । स्वदॆशाक्षसमरॆखाक्षविवरभागैः त्रैराशिकम्  यदि चक्रांशकैः भूपरिधियॊजनानि लभ्यन्तॆ  ३२९८ १७ २५, तदा अक्षांशाविवरभागैः किम् इति, समदक्षिणॊत्तररॆखान्तरालयॊजनानि भवन्ति कॊट्यात्मकानि । स्वदॆशस्थानतः तिर्यग्व्यवस्थितॊज्जयिन्यादिस्थानम् । तस्य अन्तरालयॊजनानि लॊकात् अवगतानि कर्णः । कर्णकॊटिवर्गविशॆषमूलम् भुजयॊजनानि । ततः यदि व्यासार्धतुल्यावलंबकॆ[न भूपरिधिः तदा इष्टावलंबकॆन का इति, स्पष्टभूपरिधिः । पुनर् यदि] स्पष्टभूपरिधिना ग्रहभुक्तिः लभ्यतॆ दॆशान्तरयॊजनैः का भुक्तिः इति दॆशान्तर्फलम् लभ्यतॆ । पूर्ववत् धनम् ऋणम् इति ॥ १४ ॥

[ भगॊलस्य दृश्यादृश्यभागौ ]

भगॊलदृश्यादृश्यज्ञापनाय आह 

भूव्यासार्धॆन ऊनम् दृश्यम् दॆशात् समात् भगॊलार्धम् ।

अर्धम् भूमिच्छन्नम् भूव्यासार्धाधिकम् च ऎव ॥ १५ ॥

भुवः व्यासः भूव्यासः तस्य अर्धम् भूव्यासार्धम्, ५२५ । तॆन ऊनम् भगॊलार्धम् दृश्यम् उपलभ्यतॆ । कस्मात्? समात् दॆशात् । अनन्तरितः समः, महाद्रिद्रुमाद्युन्नतपदार्थरहितः दॆशः समः इति । अर्धम् भूमिच्छन्नम् न दृश्यतॆ भूव्यासार्धॆन अधिकम् अदृश्यम् ।

ऎतत् जिज्ञासुः भूगॊलपृष्ठावगाहि सूत्रम् प्रसार्य पूर्वक्षितिजॆ अपरक्षितिजॆ [च] बध्नीयात् । भूपृष्ठस्थितस्य द्रष्टुः प्रसारितसूत्रानुसारिणी दृष्टिः याति । तत्र [पूर्व]प्रदॆशॆ ज्यॊतींषि अर्धॊदितानि पश्यति, पश्चात् अर्धास्तमितानि [पश्चति] । ऎवम् भूव्यासार्धॆन ऊनम् [गॊलार्धम्] गॊलसूत्रान्तरालस्थितम् दृश्यम् । यत् ऎतत् अदृश्यम् गॊलार्धम् गॊलसूत्रान्तरालम् तत् भूव्यासार्धाधिकम् । ऎतत् समायाम् भुवि । यः पुनर् द्रष्टा तुंगशैलमस्तकॆ भवति तत्

शैलप्रमाणाधिकम् तस्य अदृश्यम् भवति । विद्याधरादयः वियति दूरॆ स्थिताः प्रभूतम् ज्यॊतिश्चक्रम् पश्यन्ति, [यस्मात्] उपरि दूरस्थितस्य निर्विरॊधप्रसारणा दृष्टिः भवति । अतिदूरॆ स्थितः ब्रह्मा सर्वदा विवस्वन्तम् पश्यति ।

[भूपृष्ठव्यवस्थितानाम् भूव्यासार्धॊनभपञ्जरार्धदर्शिनाम् स्वात् प्रमाणात् सततम् दिवसः हीयतॆ, निशा वर्धतॆ । तदर्थम्] त्रैराशिकम्  यदि रविकक्ष्यायाम् षष्टिः नाड्यः लभ्यन्तॆ तदा भूव्यासार्धयॊजनैः ५२५ कियत्यः । लब्धॆन द्विगुणॆन सर्वदा हीनः दिवसः अधिका रात्रिः ॥ १५ ॥

[ मॆरुवडवामुखस्थानाम् भगॊलभ्रमणदर्शनम् ]

मॆरुबडवामुखनिवासिनाम् दर्शनार्थम् आह 

दॆवाः पश्यन्ति भगॊलार्धम् उदं मॆरुसंस्थिताः सव्यम् ।

अर्धम् तु अपसव्यगतम् दक्षिणबडवामुखॆ प्रॆताः ॥ १६ ॥

[ उदं मॆरुस्थिताः दॆवाः भगॊलस्य उत्तरम्] अर्धम् सव्यम् प्रदक्षिणगतिम् पश्यन्ति । द्वितीयम् अर्धम् दक्षिणम् ज्यॊतिश्चक्रस्य अपसव्यम् अप्रदक्षिणगतिम् बडवामुख[स्थिताः] प्रॆताः पश्यन्ति । [स्थलजलसन्धौ स्थित्वा ऎतत् आचार्यः प्रतिपादयति । तत् अपॆक्षया हि मॆरुबडवामुखयॊः उत्तरदक्षिणत्वम् । न मॆरुबडवामुखस्थानाम् दिंनियमः अस्ति ।] सूर्यगत्यपॆक्षया प्राच्यादिव्यवहारः । यत्र विवस्वान् उदॆति सा प्राची, [यत्र अस्तमॆति सा प्रतीची]

। [न तथा मॆरुबडवामुखस्थानाम् अपि, परितः सर्वत्र रवॆः उदयास्तमयसम्भवात् ।]

दॆशान्तरव्यवधानात् अन्यथा भचक्रार्धदर्शनम् भवति । कश्चित् पुरुषः उत्तरॆण गतः दॆशान्तरम् ऎति तथात्वॆ ध्रुवम् उपरि आरॊहितम् पश्यति, क्रमॆण मॆरुम् प्राप्तस्य उपरि ध्रुवः भवति । मॆरॊः उत्तरॆण दक्षिणॆन ध्रुवः अवलम्बतॆ । ऎतत् उत्तरायःशलाकाग्रस्वस्तिकम् उपरि निधाय दक्षिणायःशलाकाग्रस्वस्तिकम् च अधॊमुखम् निधाय दर्शयॆत् । तथा लंकास्थस्य यः विषुवत् मार्गप्रदॆशः पूर्वापरः प्रतिभासतॆ स मॆरुस्थानाम् क्षितिजासक्तः । ऎवम् बडवामुखस्थानाम् अपि चक्रवत् भास्करः प्रतिभासतॆ ॥ १६ ॥

[ दॆवासुरपितृनराणाम् दिनप्रमाणम् ]

मॆरुबडवामुखस्थाः कियन्तम् कालम् रविम् पश्यन्ति इति आह 

रविवर्षार्धम् दॆवाः पश्यन्ति उदितम् रविम् तथा प्रॆताः ।

शशिमासार्धम् पितरः शशिगाः, कुदिनार्धम् इह मनुजाः ॥ १७ ॥

दॆवाः मॆरुनिवासिनः मॆषादिषु षट्सु राशिषु समुद्गतम् सूर्यम् रविवर्षार्धम् पश्यन्ति षण्मासान् यावत् इति अर्थः, प्रदक्षिणम् चक्रवत् भ्रमन्तम् क्षितिजासक्तम् क्रमॆण चतुर्विंशतिक्रान्तिभागान् यावत् परित्यक्तक्षितिजम् पश्यन्ति । ऎवम् प्रॆताः अपि रविवर्षार्धम् ऎव सकृत् उद्गतम् सूर्यम् पश्यन्ति दक्षिणगॊलॆ षट्सु राशिषु ।

शशिमासार्धम् पितरः शशिगाः, शशिनम् गच्छन्ति इति शशिगाः, चन्द्रलॊकनिवासिनः पितरः शशिनः मासार्धम् पञ्चदशतिथयः ऎतावन्तम् कालम् पश्यन्ति । पित्र्णाम् अमावास्यायाम् उपरि सविता भवति । [तत्] तॆषाम् अहर्मध्यम् । ततः यथा यथा सविता प्रतिपदादिषु परतः अवलम्बतॆ तथा तथा पित्र्णाम् मध्याह्नॊत्तरभागः, राशित्रयान्तरितः अस्तम् ऎति, अस्तमितः पक्षॆण राशिषडन्तरितः प्राच्याम् उदॆति । अतः तॆषाम् पक्षः अहः, पक्षः रात्रिः इति । कुदिनार्धम् इह मनुजाः । कुदिनम् भूदिनम् रव्युदयात् रव्युदयम् यावत्, तदर्धम् इह मनुजाः पश्यन्ति । सर्वम् यथावत् स्थितम् गॊलॆ प्रदर्शयॆत् इति ॥ १७ ॥

[ खगॊलॆ क्षितिजमण्डलम् ]

खगॊलॆ क्षितिजमण्डलप्रदर्शनाय आह 

पूर्वापरम् अध‌ऊर्ध्वम् मण्डलम् अथ दक्षिणॊत्तरम् च ऎव ।

क्षितिजम् समपार्श्वस्थम् भानाम् यत्र उदयास्तमयौ ॥ १८ ॥

पूर्वापरमण्डलम् तत् इह खगॊलप्रमाणम् । स ऎव ऊर्ध्वम् उपर्यधॊवगाहि सर्वभपञ्जराणाम् । तथा दक्षिणॊत्तरम् अन्यत् मण्डलम् तावत्प्रमाणम्, दक्षिणॊत्तरावगाहि याम्य उत्तरमण्डलम् उपरि अधः च जनितस्वस्तिकम् । क्षितिजम् समपार्श्वस्थम् तथा अन्यत् मण्डलम् तावत् ऎव । समपार्श्वावगाहि परिकरवत् दिक्चतुष्टयजनितस्वस्तिकम् क्षितिज इति उच्यतॆ । भानाम् यत्र उदयास्तमयौ । यत्र मण्डलॆ भानाम् उदयास्तमयौ लक्ष्यॆतॆ । हरिजम् इति कैश्चित् उच्यतॆ । अयम् खगॊलः सर्वभपञ्जराणाम् बहिः अवतिष्ठतॆ ॥ १८ ॥

[ उन्मण्डलम् ]

उन्मण्डलप्रदर्शनाय आह 

पूर्वापरदिग्लग्नम् क्षितिजात् अक्षाग्रयॊः च लग्नम् यत् ।

उन्मण्डलम् भवॆत् तत् क्षयवृद्धी यत्र दिवसनिशॊः ॥ १९ ॥

दक्षिणॊत्तरक्षितिजस्वस्तिकात् याम्य उत्तरमण्डलॆ स्वदॆशाक्षभागतुल्यॆ अन्तरॆ वॆधॆ कृत्वा लॊहशलाकाग्रॆ प्रवॆश्य गॊलम् निदध्यात् । ततः उन्मण्डलम् दर्शयॆत् । पूर्वापरदिग्लग्नम् पूर्वापरयॊः दिशॊः लग्नम् । क्षितिजात् अक्षाग्रयॊः च लग्नम् यत् । दक्षिणॊत्तरक्षितिजस्वस्तिकयॊः उपरि अधः स्वदॆशाक्षभागतुल्यॆ अन्तरॆ लग्नम् कारयॆत् । तत् उन्मण्डलम् । उदयमण्डलम् उन्मण्डलम् । यत्र मण्डलॆ दिवसस्य रात्रॆः च क्षयवृद्धी लक्ष्यॆतॆ ।

विषुवति उन्मण्डलक्षितिजयॊः ऎकत्वात् दिवसनिशॊः क्षयवृद्धी न स्तः । विषुवतः उत्तरॆण उन्मण्डलम् उपरि क्षितिजम् अधः अवतिष्ठतॆ । तस्मात् उत्तरगॊलॆ अप्राप्तॆ ऎव उन्मण्डलम् [सविता] चरदलघटिकाप्रमाणॆन उदॆति । पश्चात् उन्मण्डलम् अतिक्रान्तः अस्तम् ऎति । अतः दिवसः उत्तरगॊलॆ वर्धतॆ । दक्षिणगॊलॆ उन्मण्डलम् अतिक्रान्तः क्षितिजात् उदॆति । अप्राप्तः ऎव अस्तमॆति । अतः दक्षिणगॊलॆ रात्रिः उपचीयतॆ । अतः तत्तुल्या दिवसनिशॊः क्षयवृद्धी । तदर्थम् त्रैराशिकम्  यदि षष्ट्या ग्रहभुक्तिः लभ्यतॆ, तदा चरदलघटिकाभिः कियती इति । लब्धम् उत्तरगॊलॆ रवौ उदयॆ विशॊधयॆत् । याम्यॆ विपरीतम् । ऎवम् उत्तरदिशि व्यवस्थितानाम् क्रमॆण दिवसनिशॊः महत्यौ क्षयवृद्धी भवतः । यत्र दॆशॆ रविः मिथुनान्तस्थः न अस्तम् ऎति, षष्टिः नाड्यः दिवसः, तत्र त्रिंशद्घटिकाः चरम्, पञ्चदशघटिकाः चरार्धम् । तस्य काष्ठस्य ज्या चरज्या । तया विपरीतकर्मणा क्षितिज्या आनीयतॆ  यदि व्यासार्धस्य इयम् [व्यासार्धतुल्या]  चरज्या तदा मिथुनान्तस्वाहॊरात्रार्धस्य का इति मिथुनान्तस्वाहॊरात्रार्धतुल्या क्षितिज्या लभ्यतॆ । तस्याः क्षितिज्यायाः मिथुनान्तापक्रमज्यायाः च वर्गयुतॆः मूलम् अर्काग्रा त्रिज्यातुल्या । तॆन तत्र दॆशॆ याम्य उत्तरॆ क्षितिजात् उपरि क्रमॆण [सम]मण्डलम् अवगाह्य खमध्यात् दक्षिणॆन द्विचत्वारिंशद्भागॆ [याम्य उत्तरम् अतिक्रम्य] ततः प्रथमॊदयॆ पुनर् क्षितिजम् आप्नॊति च ऎव । तत्र षष्तिः नाड्यः दिवसः उपलक्ष्यतॆ । स्वार्काग्रतः [क्षितिज्या । तदर्थम् त्रैराशिकम्]  अर्काग्रया इष्टतुल्यया क्षितिज्या लभ्यतॆ व्यासार्धॆन किम् इति । गुणकभाजकयॊः तुल्यत्वात् नष्टयॊः क्षितिज्याप्रमाणा अक्षज्या भवति । तत् कथम्? अक्षः षट्षष्टिभागाः । तत्र दॆशॆ व्यभिचारात् ग्रहगतिः । उत्तरॆण तस्मात् इयम् व्यवस्था न अस्ति इति ॥ १९ ॥

[ खगॊलापॆक्षया द्रष्टुः स्थितिः ]

प्राच्यादिव्यवस्थाप्रतिपादनाय आह 

पूर्वापरदिग्रॆखा अधः च ऊर्ध्वा दक्षिणॊत्तरस्था च ।

ऎतासाम् सम्पातः द्रष्टा यस्मिन् भवॆत् दॆशॆ ॥ २० ॥

पूर्वापररॆखा, अधः च ऊर्ध्वा च या रॆखा, दक्षिणॊत्तरस्था च । च[कारः] समुच्चयॆ । ऎतासाम् रॆखाणाम् सम्पातः ऎकत्र यॊगः, यस्मिन् दॆशॆ द्रष्टा तत्र तत्र तासाम् सम्पातः ।

तस्मात् द्रष्टृवशात् दिग्व्यवस्था । यत्र द्रष्टा रविम् उद्गच्छन् पश्यति सा प्राची, यत्र [रविः] मध्याह्नम् करॊति सा दक्षिणा, यत्र अस्तम् ऎति सा परा, यत्र अर्धरात्रम् करॊति सा उत्तरा । सर्वॆषाम् उत्तरः मॆरुः । लंकानिवासिनाम् यदा मध्याह्नॆ रविः भवति रॊमकनिवासिनाम् उदॆति । तत्र लंकाप्रदॆशॆ तॆषाम् प्राची । तदपॆक्षया स्वस्थानात् उत्तरः मॆरुः प्रतिभासतॆ । यदा रॊमकॆ मध्याह्नः तदा सिद्धपुरनिवासिनाम् उदयः [तत्र रॊमकप्रदॆशॆ तॆषाम् प्राची] । तदपॆक्षया तॆषाम् स्वस्थानात् उत्तरः मॆरुः । ऎवम् यमकॊट्याम् अपि ।

भूमौ यावत्तावत्प्रमाणम् वृत्तम् आलिख्य पूर्वाह्णॆ [अपराह्णॆ च] छायाम् लक्षयॆत् । यत्र प्रदॆशॆ शंकुच्छाया वृत्तम् प्रविशति सा पश्चिमा । यत्र निर्याति सा प्राची । तदग्रयॊः मत्स्यम् उत्पाद्य तन्मुखपुच्छस्पृक्सूत्रम् प्रसारयॆत् । सा दक्षिणॊत्तरा दिग् भवति । अथवा त्रिच्छायाग्रमत्स्यद्वयमुखपुच्छस्पृक्सूत्रद्वयसम्पातः उत्तरा दक्षिणा च । [अथवा दिक्] प्रसाधनीया चित्रास्वात्यॊः ॥ २० ॥

[ दृंग् मण्डलम् दृक् क्षॆ पमण्डलम् च ]

दृंग्मण्डलदृक् क्षॆपमण्डलस्वरूपम् आह 

ऊर्ध्वम् अधस्तात् द्रष्टुः ज्ञॆयम् दृंमण्डलम् ग्रहाभिमुखम् ।

दृक् क्षॆपमण्डलम् अपि प्राग्लग्नम् स्यात् त्रिराश्यूनम् ॥ २१ ॥

दृंमण्डलम् [द्रष्टुः ऊर्ध्वम् अधस्तात्] ग्रहाभिमुखम् [भवति] । यत्र द्रष्टा भवति तत्र अस्य मध्यम्, यत्र ग्रहः तत्र अस्य परिधिः, यावान् दृग्ग्रहयॊः अन्तरम् तावता विष्कम्भार्धॆन दृंमण्डलम् प्रदृश्यम् । तत् ऎव मध्याह्नस्थितॆ ग्रहॆ दृक् क्षॆपमण्डलम् भवति । दृक् क्षॆपमण्डलम् अपि । सममण्डलमध्यात् दक्षिणॆन उत्तरॆण वा यत्र ग्रहाभिमुखम् दृष्टॆः क्षॆपः तत्र यः महाप्रमाणकक्ष्यः ग्रहः स स्तॊकतरम् क्षिप्यतॆ, अल्पप्रमाणकक्ष्यः बहुतरम् क्षिप्यतॆ इति । ऎतत् मध्याह्नॆ दृग्ज्याप्रमाणव्यासार्धॆन सममण्डलमध्यात् बध्नीयात् । अस्य आनयनॊपायः  प्राग्लग्नम् स्यात् त्रिराश्यूनम् । पर्वकालघटिकाः पूर्वाह्णॆ दिनार्धात् शॊधयॆत् । शॆषप्राणान्  त्रैराशिकानीतरविभुक्तलंकॊदयप्राणैः ऊनीकुर्यात् । शॆषॆभ्यः यावत् लंकॊदयप्राणाः शुध्यन्ति तावत् शॊध्याः । तान्वन्तः ऎव राशयः विशॊध्यन्तॆ । शॆषप्राणान् त्रिंशता गुणयॆत्, अशुद्धलंकॊदयॆन विभजॆत्, लब्धम् भागादि पूर्वविशॊधितैः ऎव शॊधयॆत् । पूर्वाह्णॆ मध्यलग्नम् भवति । अपराह्णॆ अधिकत्वात् रवॆः यावन्तः लंकॊदयाः विशुध्यन्ति तावन्तः प्रक्षिप्य लग्नम् क्रियतॆ । आचार्यॆण स्थूलप्रकृत्या इष्टघटिकाभिः पूर्वलग्नम् लग्नविधिना कृत्वा त्रिराश्यूनम् क्रियतॆ, मध्यलग्नम् भवति इति । राशयः लंकॊदयैः मध्यम् अवगाहन्तॆ इति लंकॊदयैः यत् मध्यलग्नम् तत् सूक्ष्मम् इति । तस्य अपक्रमकाष्ठम् स्वदॆशाक्षभागयुतम् समदिशॊः भिन्नदिशॊः विशुद्धम् खमध्यरविकक्ष्यान्तरालम् भवति । तस्य जीवा मध्यज्या इति उच्यतॆ । चन्द्रस्य अपक्रमकाष्ठम् विक्षॆपयुतम् वियुतम् क्रियतॆ । यतः विमण्डलॆ चन्द्रः ततः अक्षभागयुतवियुतस्य ज्या चन्द्रमध्यज्या भवति । अनया अत्र मध्यज्या व्याख्याता ॥ २१ ॥

[ स्वयंवहगॊलयन्त्रम् ]

स्वयंवहगॊलयन्त्रप्रतिपादनाय आह 

काष्ठमयम् समवृत्तम् समन्ततः समगुरुम् लघुम् गॊलम् ।

पारततैलजलैः तम् भ्रमयॆत् स्वधिया च कालसमम् ॥ २२ ॥

काष्ठैः निर्मितम् काष्ठमयम् श्रीपर्ण्यादिभिः पूर्ववत् । समवृत्तम् । सर्वॆषु प्रदॆशॆषु [समम्], न हीनाधिकम् इति । समगुरुम् । समन्ततः समा गुरुता कार्या । यदि अतिमात्रगुरुः भवति पाषाणवत् निश्चलः स्यात्, [महता कालॆन भ्रमति इति अतः] समवृत्तम् समगुरुम् । लघुम् अत्र अपि समशब्दः प्रयॊक्तव्यः । ऎतत् गुणविशिष्टम् गॊलम् कथम् भ्रमयॆत्? पारततैलजलैः इति । स्वधिया च स्वकीयप्रज्ञया च तम् भ्रमयॆत् । कालसमम् कालॆन समम् कालसमम् । कालसमम् अहॊरात्रसमम् यथा भ्रमति तथा भ्रमयॆत् । तत् यथा  षष्टिघटिकांकितस्वाहॊरात्रमण्डलॆ कन्यातुलासन्धिप्रदॆशॆ कीलकम् ईषत् उन्नतम् ऎकम् कारयॆत् । सिद्धपूर्वापरदक्षिणॊत्तरस्थानॆ जलपात्रम् ऎकम् स्थापयॆत् । पात्रम् च समम् वत्तम् दीर्घम् [तल]मध्यनिहितसूक्ष्मच्छिद्रम् घटिकाषष्ट्या जलपूर्णम् यथा रिक्तम् भवति तथा स्वधिया प्रसाध्य ततः कर्म क्रियतॆ । यावत् पात्रात् उदकम् स्रवति तावत् गुरुत्वात् अलाबुः जलवशात् अधॊगच्छन् गॊलम् आकर्षति । ऎवम् सकृत् युक्तः गॊलः परमार्थभगॊलवत् अहॊरात्रॆ भ्रमति । प्रथमम् ताम्रकीलकॆ पाशकसूत्रस्य ऎकम् अग्रम् बध्वा गॊलयन्त्रम् अधस्तात् प्रभृति परिवॆष्ट्य तत्र ऎव प्रदॆशॆ सूत्रम् प्रापयॆत् इति क्रमः ॥ २२ ॥

[ अक्षक्षॆत्रम् ]

विषुवत् ज्याप्रदॆशप्रतिपादनाय आह 

दृग्गॊलार्धकपालॆ ज्यार्धॆन विकल्पयॆत् भगॊलार्धम् ।

विषुज्जीवाक्षभुजा तस्याः तु अवलम्बकः कॊटिः ॥ २३ ॥

दृग्गॊलार्धम् घटकपालवत् अवस्थितत्वात् दृग्गॊलार्धकपालम् । भगॊलार्धम् ऎव कॆवलम् दृश्यतॆ । यॆन व्यवहारः दृश्यः । भगॊलार्धम् जातौ ऎकवचनम् । ज्यार्धॆन विकल्पयॆत् । भूमौ वृत्तम् आलिख्य पूर्वापरदक्षिणॊत्तरदिक्चिह्नितम् कृत्वा ऎकैकस्मिन् चतुर्थभागॆ राशित्रयम् अंकयॆत् । पुनर् ऎकैकः राशिः अष्टधा विभजॆत् । तत्र सूत्राणि प्रसारयितव्यानि । तानि ज्यासूत्राणि । तदर्धानि ज्यार्धानि । अथवा अन्यः विकल्पक्रमः । विषुवज्जीवाक्षभुजा । सममण्डलस्य विषुवतः उत्तरॆण अक्षतुल्यान्तरॆ अवस्थितत्वात् अक्षः इति उच्यतॆ । तस्य अक्षकाष्ठस्य भुजा, अक्षज्या विषुवज्ज्या इति पर्यायाः । व्यासार्धम् कर्णः । भुजाकर्णकृतिविशॆषमूलम् अवलम्बकः । सा कॊटिः इति । ऎतत् गॊलॆ प्रदर्शयॆत् । सममण्डलमध्यात् दक्षिणॆन आक्षज्यातुल्यॆ अन्तरॆ सूत्रस्य ऎकम् अग्रम् बध्वा ग्रहम् प्रापयॆत् । सः अवलम्बकः । भुजाकॊटिवर्गयॊगस्य मूलम् कर्णः व्यासार्धम् इति । ऎवम् अन्यत्र अपि दृग्गॊलार्धॆ कल्पितज्यार्धॆषु

भुजाकॊटिकर्णव्यवस्था कल्पनीया ॥ २३ ॥

[ स्वाहॊरात्रार्धविष्कम्भः ]

अपक्रमादिभिः भुजादिकल्पनाम् आह 

इष्टापक्रमवर्गम् व्यासार्धकृतॆः विशॊध्य यत् मूलम् ।

विषुवदुदग्दक्षिणतः तत् अहॊरात्रार्धविष्कम्भः ॥ २४ ॥

सूर्यस्य इष्टापक्रमज्यायाः चन्द्रस्य इष्टापक्रमज्यायाः च यः वर्गः स इष्टापक्रमवर्गः । तम् व्यासार्धकृतॆः विशॊध्य [शॆषस्य] यत् मूलम् तत् विषुवतः उत्तरॆण दक्षिणॆन वा अहॊरात्रस्य विष्कम्भः भवति । क्रान्तिज्या भुजा । व्यासार्धम् कर्णः । तयॊः यत् वर्गविशॆषमूलम् तत् स्वाहॊरात्रार्धविष्कम्भः । पूर्वविधिना तत् उत्तरगॊलॆ उत्तरॆण, दक्षिणगॊलॆ दक्षिणॆन प्रदर्शयॆत् ॥ २४ ॥

[ मॆषादीनाम् लंकॊदयाः ]

लंकॊदयप्राणानयनम् आह 

इष्टज्यागुणितम् अहॊरात्रव्यासार्धम् ऎव काष्ठान्त्यम् ।

स्वाहॊरात्रार्धहृतम् फलम् अजात् लंकॊदयप्राग्ज्याः ॥ २५ ॥

इष्टज्या इति मॆषवृषमिथुनान्तज्याः गृह्यन्तॆ । ऎताभिः गुणितम् अहॊरात्रव्यासार्धम् स्वाहॊरात्रार्धविष्कम्भः इति अर्थः । काष्ठस्य अन्तः काष्ठान्तः, तत्र भवम् काष्ठान्त्यम् । नवतिः भागाः यस्मिन् [काष्ठॆ तस्य अन्तॆ भवम्] यत् स्वहॊरात्रार्धम् तत् ऎव [इष्ट]ज्याभिः गुणितम् स्वहॊरात्रार्धहृतम् स्वकीयस्वकीयाहॊरात्रार्धहृतम् फलम् इष्टलंकॊदयप्राग्ज्याः । अजात् मॆषात् प्रभृति काष्ठम् भवति इति काष्ठीक्रियतॆ । [मिथुनान्त]प्राग्ज्याकाष्ठात् वृषान्तप्राग्ज्याकाष्ठम् विशॊधयॆत् । शॆषम् मिथुनस्य लंकॊदयप्राणाः । [ऎवम्] वृषान्तप्राग्ज्याकाष्ठात् [मॆषान्तप्राग्ज्याकाष्ठम् विशॊधयॆत् । शॆषम् वृषभस्य लंकॊदयप्राणाः] । स्वरूपतः ऎव मॆष[लंकॊ]दयप्राणाः भवन्ति ॥ २५ ॥

[ क्षितिज्या ]

दिननिशॊः क्षयवृद्धिप्रतिपादनाय आह 

इष्टापक्रमगुणिताम् अक्षज्याम् लम्बकॆन हृत्वा या ।

स्वाहॊरात्रॆ क्षितिजा क्षयवृद्धिज्या दिननिशॊः सा ॥ २६ ॥

इष्टापक्रमॆण गुणिताम् इष्टापक्रमगुणिताम् । [इष्टापक्रमगुणिताम्] अक्षज्याम् लम्बकॆन हृत्वा फलम् स्वाहॊरात्रमण्डलॆ क्षितिज्या भवति । तत्र इष्टापक्रमज्या कॊटिः, क्षितिज्या भुजा, तद्वर्गयुतिमूलम् कर्णः अर्काग्रा भवति इति । पूर्वापरस्वस्तिकयॊः अर्काग्रयॊः सूत्रम् बध्वा भुजकॊटिवासना प्रदर्श्या । क्षितिजॊन्मण्डलयॊः अन्तरम् क्षितिजा इति । तया दिननिशॊः क्षयवृद्धी । पूर्वक्षितिजात् उपर्यधॊव्यवस्थितॊन्मण्डल[क्षितिजयॊः मध्यॆ ज्या]वत् सा प्रदर्श्यतॆ ॥ २६ ॥

[ स्वदॆशॊदयाः ]

राश्युदयकालप्रतिपादनाय आह 

उदयति हि चक्रपादः चरदलहीनॆन दिवसपादॆन ।

प्रथमः अन्त्यः च अथ अन्यौ तत्सहितॆन क्रमॊत्क्रमशः ॥ २७ ॥

उदयति दर्शनम् याति, अर्धम् उपरि चक्रपादः, त्रयः राशयः । चरदलहीनॆन दिवसपादॆन इति अनॆन लंकॊदयाः त्रयः परिगृह्यन्तॆ । यतः त्रिभिः मॆषादिलंकॊदयैः पञ्चदशघटिकाः ताः स्वाहॊरात्रचतुर्थः अंशः, ततः क्रमॆण व्यवस्थितलंकॊदयप्राणॆभ्यः मॆषादिचरदलप्राणान् स्वदॆशाक्षॊत्पन्नान् स्वकीयान् विशॊधयॆत् । मॆषादीनाम् स्वदॆशॊदयाः भवन्ति । अन्त्यः चक्रपादः मीनकुम्भमकराः । ऎतॆ अपि चरदलहीनॆन चक्रपादॆन उदयन्ति। चरदलसहितॆन दिवसपादॆन । अत्र अपि दिवसपादग्रहणॆन कर्कटसिंहकन्यायाः उत्क्रमॆण लंकॊदयाः गृह्यन्तॆ । तॆन कर्कटसिंहकन्यायाः चरप्राणैः उत्क्रमॆण सहिताः उदयन्ति । क्रमॊत्क्रमशः इति । क्रमॊत्क्रमगत्या क्रमॆण चरदलहीनाः मॆषवृषमिथुनाः, उत्क्रमॆण सहिताः कर्कटसिंहकन्याः । ऎतॆ ऎव उत्क्रमॆण तुलावृश्चिकधनूंषि । ततः मकरकुम्भमीनाः उत्क्रमॆण चरदलहीनाः । मॆषवृषमिथुनाः क्रमॆण अपमण्डलॆ तिर्यग्व्यवस्थिताः,  तॆन मॆषः शीघ्रम् उदॆति अतः चरदलासुभिः अपचीयतॆ । ऎवम् वृषः मिथुनः च । ऎतैः मकरादयः व्याख्याताः । कर्कटसिंहकन्याः [तद्भिन्न]संस्थानत्वात् चिरॆण उद्गच्छन्ति । अतः चरदलप्राणैः उपचीयन्तॆ । ऎतैः तुलादयः व्याख्याताः ।

क्षितिज्या व्यासार्धगुणा स्वाहॊरात्रार्धहृता चरज्या, तत्काष्ठम् चरदलप्राणाः । पृथक् मॆषादीनाम् लंकॊदयवत् उत्पाद्याः । स्वदॆशराश्युदयैः इष्टकाललग्नार्थम् सूर्यॊदयात् प्रभृति घटिकाः प्राणीकृत्य सूर्यभॊग्यराश्युदयप्राणाः तॆभ्यः विशॊधयॆत् । सूर्यॆ भॊग्यांशम् क्षॆप्यम् । पुनर् यावन्तः राश्युदयाः शुद्ध्यन्ति तावन्तः विशॊध्य सूर्यॆ राशयः क्षिप्यन्तॆ । शॆषम् त्रिंशता गुणितम् असुद्धॊदयभक्तम् भागादि वर्धितरवौ क्षिपॆत् । लग्नम् भवति । ऎवम् रात्रौ अपि रात्रिगतघटिकाः दिनमानघटिकासु प्रक्षिप्य लग्नम् अनॆन विधिना कर्तव्यम् । रात्रिशॆषघटिकाभिः विपरीतकर्मणा रवॆः गतभागादिना तदुत्क्रमॆण यावन्तः उदयप्राणाः विशुद्धॆयुः तावन्तः शॊधनीयाः ] शॆषम् त्रिंशता गुणितम् वर्तमानॊदयभक्तम् भागादि शॊधितम् उदयलग्नम् ।

अथ रवॆः लग्नस्य च अन्तरकालसाधनम् । रवॆः अभुक्तभागैः अभ्युदयम् संगुण्य त्रिंशता भजॆत् । लब्धम् रवॆः अभुक्तप्राणाः । ऎवम् लग्नभुक्तभागैः तदुदयम् संगुण्य त्रिंशता विभजॆत् । लब्धम् लग्नभुक्तप्राणाः । अन्तरप्राणयुक्ताः षड्भिः भक्ताः विघटिकाः, षष्ट्या घटिकाः, सूर्यॊदयात् आरभ्य भवन्ति ॥ २७ ॥

[ इष्टकालशंकुः ]

[ इष्टकालशंक्वानयनार्थम् आह  ]

स्वाहॊरात्रॆष्टज्या क्षितिजात् अवलम्बकाहताम् कृत्वा ।

विष्कम्भार्धविभक्तॆ दिनस्य गतशॆषयॊः शंकुः ॥ २८ ॥

[स्वाहॊरात्रॆ]ष्टज्यानयनम् दिनगतशॆषघटिकाभ्यः । उत्तरगॊलॆ क्षितिज[म् उन्मण्डला]त् अधः व्यवस्थितम् अतः चरदलघटिकाः [दिनगतशॆषघटिकाभ्यः ] विशॊध्य निष्पन्नाः उन्मण्डलावधॆः भवन्ति । ताः प्राणीकृत्य जीवा ग्राह्या । चरदलज्यया सौम्यॆतरगॊलयॊः युतवियुता क्षितिजावधॆः भवति । [अतः त्रैराशिकम्]  यदि व्यासार्धमण्डलॆ इयम् ज्या भवति स्वाहॊरात्रार्धमण्डलॆ कियती इति क्षितिजमण्डलावधॆः स्वाहॊरात्रॆष्टज्या अभिधीयतॆ । ताम् इष्टज्याम् अवलम्बकाहृताम् कृत्वा विष्कम्भार्धॆन व्यासार्धॆन विभजॆत् । दिवसस्य पूर्वाह्णॆ गतस्य, अपराह्णॆ शॆषस्य शंकुः भवति ।

चन्द्रशंक्वानयनम् । रात्रौ चन्द्रच्छाया उपलक्षयॆत् । तत्र पूर्वकपालॆ चन्द्रमसः इष्टकालघटिकाः, अपरकपालॆ तु चन्द्रास्तलग्नान्तरालघटिकाः चन्द्रमसः शॆषघटिकाः आनीय इष्टकर्म । चन्द्रस्वाहॊरात्रार्धम् क्षितिज्याम् चरदलज्याम् च आनीय चरदलविपर्ययनिष्पन्नप्राणैः सूर्यवत् कर्म कर्तव्यम् । अथ स्वाहॊरात्रॆष्टज्या द्वादशगुणा विषुवत्कर्णॆन भक्ता इष्टशंकुः भवति । अथवा चरदलॆन अधिकॊनघटिकाज्याम् चरदलज्याविपर्ययनिष्पन्नाम्, लम्बकगुणिताम् स्वाहॊरात्रॆण संगुण्य त्रिज्यावर्गॆण [विभज्य] शंकुलब्धिः । अथवा ताम् द्वादशगुणस्वाहॊरात्रॆण संगुण्य विषुवत्कर्णगुणव्यासार्धॆन भजॆत् । फलम् शंकुः ।

दिवसगतघटिकानयनॆ च शंकुना गुणितम् व्यासार्धम् शंकुच्छायावर्गयुतिमूलॆन भक्तम् बृहच्छंकुः भवति । त्रिज्यागुणितः लम्बकभक्तः स्वाहॊरात्रॆष्टज्या लभ्यतॆ । तॆन उत्तरगॊलॆ क्षितिज्या शॊध्यतॆ, दक्षिणॆ क्षिप्यतॆ । ततः व्यासार्धॆन हत्वा स्वाहॊरात्रार्धॆन भजॆत् । लब्धस्य काष्ठम् उत्तरगॊलॆ चरदलयुतम् दक्षिणॆ हीनम् दिनगतशॆषप्राणाः [ भवन्ति । तैः ] प्राग्वत् घटिकाः ॥ २८ ॥

[ शंक्वग्रम् ]

शंक्वग्रप्रदर्शनाय आह 

विषुवज्जीवागुणितः स्वॆष्टः शंकुः स्वलम्बकॆन हृतः ।

अस्तमयॊदयसूत्रात् दक्षिणतः सूर्यशंक्वग्रम् ॥ २९ ॥

स्वॆष्टशंकुः इष्टकालॊत्पन्नशंकुः, विषुवज्ज्यया अक्षजीवया गुणितः लम्बकॆन भक्तः अस्तॊदयसूत्रात् दक्षिणतः सूर्यशंक्वग्रम् भवति । शंकॊः अग्रम् अन्तरालम् शंकुमूलात् समॊत्तरावगाहिसूत्रम् यावत् अस्तमयॊदय[सूत्र]म् इति ।

क्षितिजमण्डलॆ प्राक्स्वस्तिकात् दक्षिणम् उत्तरम् वा अर्काग्राकाष्ठतुल्यान्तरॆ सूत्रस्य ऎकम् अग्रम् बध्वा, द्वितीयम् अग्रम् तावत् [अर्काग्राकाष्ठतुल्यान्तरॆ] ऎव अपरभागॆ बध्नीयात् । तत् पूर्वापरायतम् उदयास्तसूत्रम् । तस्य सूत्रस्य शंकुतलस्य अन्तरॆ शंक्वग्रम् । शंकुमूलात् भूमध्यम् यावत् सूत्रम् दृग्ज्या । भूमध्यात् उपरि शंकुमस्तकप्रापि यत् सूत्रम् कर्णः व्यासार्धम् इति ॥ २९ ॥

[ अर्काग्रा ]

अर्काग्रानयनाय आह 

परमापक्रमजीवाम् इष्टज्यार्धाहताम् ततः विभजॆत् ।

ज्या लम्बकॆन लब्धार्काग्रा पूर्वापरॆ क्षितिजॆ ॥ ३० ॥

परमापक्रमज्या चतुर्विंशतिभागज्या १३९७ । ताम् इष्टस्य रवॆः भुजज्यया गुणिताम् [कृत्वा] लम्बकॆन विभजॆत् , [लब्धा ज्या] अर्काग्रा भवति । इयति अध्वनि विषुवतः उत्तरॆण दक्षिणॆन वा रविः उदॆति, पूर्वापरॆ च क्षितिजमण्डलप्रदॆशॆ ॥ ३० ॥

[ समशंकुः ]

सममण्डलशंक्वानयनाय आह 

सा विषुवज्ज्यॊना चॆत् विषुवदुदग्लम्बकॆन संगुणिता ।

विषुवज्ज्यया विभक्ता लब्धः पूर्वापरॆ शंकुः ॥ ३१ ॥

सा इति अनॆन अपक्रमज्या गृह्यतॆ । उत्तरगॊलॆ विषुवज्ज्यातुल्या क्रान्तिज्या [यदा] भवति, तदा मध्याह्नॆ ऎव सविता सममण्डलम् विशति । विषुवज्ज्या [यदा] क्रान्तिकाष्ठज्यया ऊना [तदा] सममण्डलात् उत्तरॆण याति । [क्रान्तिकाष्ठज्या यदा] विषुवज्ज्यया ऊना तदा सममण्डलम् विशति । [क्रान्तिकाष्ठज्या] यदा ऊना विषुवज्ज्यया, तदा [पूर्वानीता अर्काग्रा] लम्बकॆन गुणिता विषुवज्ज्यया भक्ता सममण्डलशंकुः भवति । पूर्वसममण्डलॆन अपरसममण्डलॆन [च] क्षितिजॆ अर्काग्रान्तरॆ अस्तमयॊदयसूत्रम् बध्वा अर्काक्रान्तराशिभागप्रदॆशः समपूर्वापरमण्डलॆ यत्र लग्नम् प्राग्बिन्दुतः तत् सममण्डलचापम् तथा गॊलॆ भ्रमयॆत् यथा क्षितिजाधॊभागॆ सममण्डलॆ तावति अन्तरॆ लग्नम् भवॆत् । तयॊः सममण्डलबिन्द्वॊः अन्तरॆ सूत्रम् बध्वा तदर्धम् शंकुः पूर्ववत् ऎव पूर्वापररॆखास्पृक् भवति । शंकॊः उत्तरॆण अस्तमयॊदयसूत्रम् यावत् अन्तरम् शंक्वग्रम् अर्काग्रातुल्यम् । सममण्डलशंकुः अक्षज्यया गुणितः परमक्रान्तिज्याभक्तः सूर्यभुजज्या भवति । [सूर्यॆ मॆषादिगॆ] तत्काष्ठम् आदित्यः, कर्कटकादिगॆ षड्राशिविशुद्धम्, तुलादिगॆ षड्राशियुतम्, मकरादिगॆ चक्रविशुद्धम् रविः भवति ।

छॆद्यकॆ अपि  समायाम् भूमौ वृत्तम् आलिख्य दिक्चिह्नितम् कृत्वा सूर्यबिम्बॊदयॆ अस्तॆ च पूर्वापरयॊः बिन्दू कृत्वा पूर्वापररॆखायाः दक्षिणॆ [मध्याह्ननतज्यातुल्यॆ अन्तरॆ] तृतीयम् बिन्दुम् प्रकल्प्य बिन्दुत्रयावगाहि मत्स्यद्वयॆन वृत्तम् आलिखॆत् । तत् अर्कभ्रमवृत्तम् । अर्काग्राग्रॆ सविता उदितः तद्वृत्तानुसारॆण सममण्डलम् अवगाह्य दक्षिणॆन नतज्यातुल्यॆ अन्तरॆ मध्याह्नम् कृत्वा क्रमॆण अपरभागॆ सममण्डलात् निष्क्रान्तः अपराग्राग्रॆ अस्तम् ऎति । अर्कभ्रमवृत्तस्य प्रागपररॆखायाः यत्र सम्पातः तत्र सममण्डलॆ प्रवॆशः । सममण्डलॆ तु मध्यम् यावत् अन्तरम् सममण्डलशंकुच्छाया भवति । दक्षिणगॊलॆ सममण्डलात् दक्षिणॆन याति । [तदा] सममण्डलस्य प्रवॆशाभावः ॥ ३१ ॥

[ मध्याह्नशंकुः ]

मध्याह्नशंकुच्छाययॊः आनयनाय आह 

क्षितिजात् उन्नतभागानाम् या ज्या सा परः भवॆत् शंकुः ।

मध्यात् नतभागज्या छाया शंकॊः तु तस्य ऎव ॥ ३२ ॥

क्षितिजात् इति समदक्षिणॊत्तरस्वस्तिकप्रदॆशात् यॆ उन्नतभागाः गॊलमध्यस्थितॆ रवौ लक्षिताः तॆषाम् या ज्या सा परमः शंकुः भवति । या मध्यात् नतभागज्या सा परमशंकॊः छाया स्यात् । इष्टमध्याह्नॆ रवॆः अपक्रमभागाः अक्षभागॆषु दक्षिणगॊलॆ प्रयॊजयॆत् । उत्तरॆ गॊलॆ वियॊजयॆत् । तॆ नतभागाः भवन्ति । चन्द्रस्य विक्षॆपयुतवियुताः नतभागाः भवन्ति, यतः विमण्डलॆ चन्द्रः । ऎतॆ नवतॆः विशॊध्यन्तॆ । शॆषम् उन्नतभागाः । तॆषाम् [ज्या] उन्नतभागज्या । अथवा तद्दिनस्वाहॊरात्रार्धम् क्षितिज्यया स्वया उदग्याम्यॆ वियुतयुतं[व्यासार्धगुणम् स्वाहॊरात्रार्धभक्तम्] द्वादशगुणम् विषुवत्कर्णहृतम् महाशंकुः तदुन्नतज्या भवति ॥ ३२ ॥

[ दृक् क्षॆपज्या ]

दृक् क्षॆपप्रतिपादनाय आह 

मध्यज्यॊदयजीवासंवर्गॆ व्यासदलहृतॆ यत् स्यात् ।

तत् मध्यज्याकृत्यॊः विशॆषमूलम् स्वदृक् क्षॆपः ॥ ३३ ॥

मध्यज्या च उदयजीवा च मध्यॊदयजीवॆ । तयॊः संवर्गः परस्परगुणनम् व्यासदलहृतम् यत् भवति तस्य मध्यज्यायाः च कृत्यॊः विशॆषमूलम् स्वकीयः दृक् क्षॆपः । स्वग्रहणॆन तु रविचन्द्रकक्ष्ययॊः भिन्नः दृक् क्षॆपः ॥ ३३ ॥

[ दृग्गतिज्या ]

दृग्गतिज्यानयनाय आह 

दृग्दृक् क्षॆपकृतिविशॆषितस्य मूलम् स्वदृग्गतिः कुवशात् ।

क्षितिजॆ स्वा दृक्छाया भूव्यासार्धम् नभॊमध्यात् ॥ ३४ ॥

दृग्ज्यादृक् क्षॆपकृत्यॊः विवरस्य मूलम् स्वकीया दृग्गतिः भवति । कुवशात् भूवशात् इयम् भवति । मध्यज्यॊदयजीवयॊः संवर्गॆ व्यासदलहृतॆ यत् तत् मध्यज्याकृत्यॊः विशॆषात् मूलम् दृक् क्षॆपः हि भवति । ऎवम् भूवशात् उत्पन्नत्रिज्याशंकुवर्गविशॆषात् मूलम् दृग्ज्या भवति । अतः भूवशात् उत्पन्न[दृग्ज्या]दृक् क्षॆपनिष्पन्नत्वात् कुवशात् इति उच्यतॆ । "क्षितिजॆ स्वा दृक्छाया" इति अत्र तु "स्वा" इति अनॆन स्वकीयदृक् क्षॆपदृग्गती अभिधीयॆतॆ । भूव्यासार्धम् ५२५ । क्षितिजमण्डलॆ स्वा दृक्छाया कस्मात् उत्पन्ना? नभॊमध्यात् । व्यासार्ध[तुल्य]म् ऎतत् भवति । तत् यतः कुदृष्टिवशात् सममण्डलमध्यात् पूर्वापरयॊः दिशॊः दृग्गतिः [लम्बनम्] ऋणम् धनम् वा इति, तथा ऎव भगॊलमध्यात् दक्षिणॊत्तरदिशॊः दृक् क्षॆपस्य ग्रहणॆन नतिः वा स्यात् ।

ज्यानाम् विशॆषॊत्पत्तिम् दर्शयति । [भूमॆः गॊलाकारत्वात्] भूव्यासार्ध[तुल्य]म् अन्तरम् क्षितिजॆ सूर्यकक्ष्यायाम् चन्द्रकक्षायाम् च [भवति] । सूर्यकक्ष्यॊत्पन्नमध्यज्याम् सूर्यकक्ष्यॊदयज्यया संगुण्य त्रिज्यया भागलब्धस्य वर्गम् मध्यज्यावर्गात् विशॊध्य मूलम् रविकक्ष्यायाम् दृक् क्षॆपः, तथा चन्द्रकक्ष्यॊत्पन्नमध्यज्याम् स्वॊदयज्यया संगुण्य त्रिज्यया भागलब्धस्य वर्गम् स्वमध्यज्यावर्गात् विशॊध्य मूलम् चन्द्रकक्ष्यायाम् दृक् क्षॆपः । सूर्यस्वाहॊरात्रादिभिः साधितदृग्ज्यावर्गात् सूर्यदृक् क्षॆपवर्गम् विशॊध्य मूलम् सूर्यकक्ष्यायाम् दृग्गतिज्या । चन्द्रस्वाहॊरात्रादिभिः साधितदृग्ज्यावर्गात् चन्द्रदृक् क्षॆपवर्गम् विशॊध्य मूलम् चन्द्रकक्ष्यायाम् दृग्गतिज्या भवति । ऎवम् अन्यॆषाम् अपि ग्रहाणाम् सममण्डलमध्यात् दृग्गतॆः भावः । उदयॆ [सूर्य]ग्रहणॆ चन्द्रस्य तावदधःस्थितत्वात् चन्द्रकक्ष्यायाम् सूर्यबिम्बकॆन्द्रसूत्रात् पूर्वॆण चन्द्रबिम्बम् नतम् लक्ष्यतॆ । अस्तमयॆ तु तथा ऎव अपरतः । समभूप्रदॆशॆ स्थितस्य द्रष्टुः व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धतुल्यम् दृग्गत्यन्तरम् [= लम्बनम्] । ऎवम् ऎव दक्षिणॊत्तरकपालयॊः दृक् क्षॆपान्तरम् [= नतिः] । [तत्र इदम् त्रैराशिकम्]  यदि व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धयॊजनतुल्यम् दृग्गत्यन्तरम् [=लम्बनम्] तदा इष्टकालॊत्पन्नदृग्गतिज्यया कियत् इति । [पुनर् च त्रैराशिकम्  यदि] स्फुटयॊजनकर्णॆन त्रिज्यातुल्याः कलाः लभ्यन्तॆ, तदा दृग्गति[= लम्बन]यॊजनैः कियत्यः इति । अत्र प्रथमॆ त्रैराशिकॆ त्रिज्या भागहारः द्वितीयॆ गुणकारः तुल्यत्वात् [नाशॆ कृतॆ] रविचन्द्रयॊः दृग्गतॆः भूव्यासार्धम् गुणकारः स्फुटयॊजनकर्णः भागहारः, फलम् लिप्ताः । सूर्यलिप्ताः चन्द्रलिप्ताभ्यः विशॊध्य त्रैराशिकम्  यदि [दिनस्फुट]भुक्त्यन्तरॆण षष्टिः नाड्यः [लभ्यन्तॆ, तदा] आभिः लिप्ताभिः कियत्यः इति । लब्धम् नाड्यः भवन्ति, ताः दृग्गति[=लम्बन]घटिकाः । पूर्वकपालॆ पूर्वतः ग्रहः कक्ष्यायाम् नतः । तस्मात् प्राग्यॊगः अतः ग्रहॆ अपनीयन्तॆ । अपरकपालॆ परतः नतत्वात् लम्बनघटिकातुल्यकालॆन यॊगः भविष्यति इति अतः प्रक्षिप्यन्तॆ । ऎवम् ऎतत् कर्म तावत् क्रियतॆ यावत् अविशॆषः ।

ऎवम् [रविचन्द्रयॊः] दृक् क्षॆपलिप्ताः प्राग्वत् त्रैराशिकॆन ज्ञाताः । यदि रविचन्द्रयॊः मध्य[ज्यॆ] समदिक्स्थॆ भवतः तदा [रविचन्द्रयॊः] नतिलिप्तानाम् विशॆषः अन्यथा यॊगः । ततः अवनतिः भवति । ततः मध्यग्रहणचन्द्रात् पातम् विशॊध्य शॆषस्य दक्षिणॊत्तरभुजज्या अर्धपञ्चमॆन गुणिता त्रिज्याभक्ता विक्षॆपः । अवनतिविक्षॆपयॊः समदिशि यॊगः, भिन्नदिशि वियॊगः [स्फुटविक्षॆपः] । स्फुटविक्षॆपः अवनतिः इति पर्यायः । तया च अवनत्या स्थित्यर्धम् आनीय मध्यतिथॆः विशॊध्य शॆषः स्पर्शकालः । तॆन प्राग्वत् लम्बनविधिः । स्पर्शमध्यलम्बनघटिकान्तरॆण स्थित्यर्धम् उपचीयतॆ । तत् पुनर् मध्यकालात् विशॊध्य असकृत् स्थित्यर्धम् उत्पादयॆत् यावत् स्थिरम् भवति । मॊक्षॆ पुनर् प्रथमानीतस्थित्यर्धम् मध्यतिथौ प्रक्षिपॆत् । पूर्ववत् मॊक्षलम्बनमध्यलम्बनघटिकान्तरॆण स्थित्यर्धम् उपचीयतॆ । तत् पुनर् मध्यतिथौ प्रक्षिप्य पूर्ववत् लम्बनघटिकाः उत्पाद्य तन्मध्यलम्बनान्तरॆण स्थित्यर्धम् उपचितम् कृत्वा तत् ऎव कर्म पुनर् क्रियतॆ यावत् स्थिरम् भवति । ऎवम् स्थिरीकृतस्थित्यर्धसम्बन्धिनम् सूर्यॆन्दुगतिकलाभॊगम् मध्यग्रहणसूर्यॆन्दॊः स्पर्शॆ विशॊधयॆत् मॊक्षॆ क्षिपॆत् । स्पर्शमॊक्षकालिकौ भवतः । 

अथ प्रागपरकपालद्वयॆ अपि लम्बनयॊः तयॊः यॊगॆन युतम् स्थित्यर्धम् स्फुटम् भवति ।

समायामवनौ [व्यासार्धप्रमाणॆन सूत्रॆण] वृत्तम् आलिख्य दिक्चिह्नितम् कृत्वा मण्डलपूर्वभागॆ प्रागपररॆखायाः उत्तरॆण दक्षिणॆन वा उदयज्याकाष्ठतुल्यॆ अन्तरॆ बिन्दू कृत्वा बिन्दुद्वयशिरस्पृक्सूत्रम् प्रसार्य रॆखा कुर्यात् उदयज्या भवति । [पुनर्] मध्यम् मण्डलकॆन्द्रम् कृत्वा मध्यज्यातुल्यसूत्रॆण वृत्तम् भ्रामयॆत् । तत् मध्यज्यामण्डलम् । त्रिज्यामण्डलपरिधिबिन्दुद्वयात् सूत्रद्वयम् मध्यकॆन्द्रम् आनीय रॆखाद्वयम् कुर्यात् । तत् अन्तरज्यार्धम् मध्यज्यामण्डलॆ तथा ऎव पूर्वापरतः उत्तरॆण दक्षिणॆन वा व्यवस्थाप्यतॆ । तत् मध्यज्यावर्गविशॆषमूलम् दृक् क्षॆपज्याकॊटिः मध्यज्यामण्डलॆ भवति ।

[त्रिज्यामण्डलॆ पूर्वापरयॊः उदयज्याकाष्ठतुल्यॆ अन्तरॆ] बिन्दू कृत्वा [वृत्तकॆन्द्रात् मध्याह्न]नतज्यातुल्यॆ अन्तरॆ दृक् क्षॆपबिन्दुः दक्षिणॆन [प्रकल्प्य] बिन्दुत्रयॆण मत्स्यम् उत्पाद्य तन्मुखपुच्छस्पृक्सूत्रसम्पातात् बिन्दुत्रयस्पृग्वृत्तम् भ्रमयॆत् । तत् अर्कभ्रमवृत्तम् । तत्र क्षितिजात् ऊर्ध्वम् यत्र प्रदॆशॆ रविः तन्मध्यकॆन्द्रान्तरालसूत्रम् दृग्ज्या कर्णः, स्थानीया दृक् क्षॆपज्या कॊटिः, तदग्रात् आरभ्य दृग्ज्याग्रम् यावत् रविचिह्नॊपलक्षितम् तदन्तरालम् दृग्गतिज्या सा पूर्वापरा । ऎवम् विशिष्टम् त्र्यश्रम् क्षॆत्रम् निष्पाद्यतॆ ॥ ३४ ॥

[ अक्षदृक्कर्म ]

उदयास्तमययॊः विक्षॆपवशात् ऋणधनत्वप्रतिपादनाय आह 

विक्षॆपगुणा अक्षज्या लम्बकभक्ता भवॆत् ऋणम् उदक्स्थॆ ।

उदयॆ धनम् अस्तमयॆ दक्षिणगॆ धनम् ऋणम् चन्द्रॆ ॥ ३५ ॥

अक्षज्या विक्षॆपगुणा लम्बकभक्ता फलम् लिप्ताः । उत्तरविक्षॆपॆ उदयस्थितचन्द्रॆ ऋणम्, अस्तमयॆ धनम् । याम्यॆ विक्षॆपॆ उदयस्थॆ चन्द्रॆ धनम्, अस्तमयॆ ऋणम् इति । ऋणधनयुक्ती रविचरदलफलॊपपत्तितुल्या ॥ ३५ ॥

[ अयनदृक्कर्म ]

अयनवशात् ऋणधनत्वप्रतिपादनाय आह 

विक्षॆपापक्रमगुणम् उत्क्रमणम् विस्तरार्धकृतिभक्तम् ।

उदगृणधनम् उदगयनॆ दक्षिणगॆ धनम् ऋणम् याम्यॆ ॥ ३६ ॥

विक्षॆपः च अपक्रमः च विक्षॆपापक्रमौ । [विक्षॆपापक्रमौ गुणौ यस्य तत् विक्षॆपापक्रमगुणम् । विक्षॆपः तात्कालिकः गृह्यतॆ, अपक्रमः च परमापक्रमः । उत्क्रमणम् उत्क्रमज्याम् ।] विक्षॆपॆण परमापक्रमॆण गुणिताम् राशित्रययुतचन्द्रस्य उत्क्रमजीवाम् इति अर्थः । कथम् राशित्रययुतचन्द्रस्य तत् उत्क्रमणम्? उत्क्रमणग्रहणात् राशित्रयक्षॆपः अवगम्यतॆ । [राशित्रययुतचन्द्रस्य] उत्क्रमज्याम् गुणयॆत् । व्यासार्धकृत्या भजॆत् । फलम् लिप्ताः उदग्विक्षिप्तॆ उत्तरायणॆ ऋणम् दक्षिणॆ धनम् । तत् ऎव फलम् दक्षिणॆ अयनॆ उत्तरविक्षिप्तॆ धनम्, ऋणम् याम्यॆ, विक्षॆपॆ दक्षिणॆ ऋणम् भवॆत् इति । ऋणॆ धनॆ युक्तिः अपि । यस्मात् तुल्यदिग्विक्षॆपायनयॊः ग्रहः तावत् अधिकः प्राप्यतॆ, उदयास्तमयक्षितिजयॊः विशॊध्यतॆ; भिन्नायनविक्षॆपयॊः तावत् हीनः इति क्षिप्यतॆ । सर्वग्रहाणाम् स्वॊदयास्तमययॊः इदम् कर्म प्रवर्ततॆ । न मध्याह्नार्धरात्रयॊः ॥ ३६ ॥

[ चन्द्रादिस्वरूपम् ग्रहणकारणम् च ]

चन्द्रादिस्वरूपव्यावर्णनाय आह 

चन्द्रः जलम् अर्कः अग्निः मृद्भूच्चाया अपि या तमः तत् हि ।

छादयति शशी सूर्यम्, शशिनम् महती च भूच्छाया ॥ ३७ ॥

यत् ऎतत् चन्द्रमण्डलम् तत् प्रत्यक्षॆण जलम्, विवस्वान् उष्णस्वभावात् अग्निः, भूः पृथिवी मृण्मयी, भूच्छाया तमः स्वभावात् इति । शशी चन्द्रः सूर्यम् छादयति । उपरिस्थितः सूर्यः अधःस्थितॆन चन्द्रमसा छाद्यतॆ । महती च भूच्छाया शशिनम् छादयति । ग्राहकभॆदः च अनयॊः अस्ति, यतः कुच्छाया विशाला न्यूनः शशी, शशी न्यूनः विशालः दिनकृत् ॥ ३७ ॥

[ ग्रहणमध्यकालः ]

कदा ग्रहणॆ भवतः, तत्प्रतिपादनाय आह 

स्फुटशशिमासान्तॆ अर्कम् पातासन्नः यदा प्रविशति इन्दुः ।

भूच्छायाम् पक्षान्तॆ तदा अधिकॊनम् ग्रहणमध्यम् ॥ ३८ ॥

स्फुटः शशिमासः स्फुटशशिमासः, तस्य अन्तॆ परिसमाप्तौ अमावास्यायाम् अर्कम् आदित्यम्, पातासन्नः विक्षॆपमार्गगत्या पातासन्नः, यदा प्रविशति इन्दुः यदा अर्कग्रहणम् भवति । [पक्षान्तॆ पौर्णमास्यन्तॆ पातासन्नः इन्दुः यदा] भूच्छायाम् प्रविशति । तदा अधिकम् ऊनम् वा ग्रहणमध्यम् भवति । यतः पूर्वकपालॆ ग्रहणमध्यम् अधिकम् भवति स्फुटतिथिच्छॆदजनितम् तॆन तत्र लम्बनघटिकाः विशॊध्याः तावता कालॆन अतीतत्वात् ग्रहणमध्यस्य । अपरकपालॆ ग्रहणमध्यम् ऊनम् भवति स्फुटतिथिच्छॆदजनितम् तॆन तत्र लम्बनघटिकाः क्षिप्यन्तॆ, भावित्वात् ग्रहणमध्यस्य ॥ ३८ ॥

[ भूच्छायादैर्घ्यम् ]

भूच्छायाप्रमाणम् आह 

भूरविविवरम् विभजॆत् भूगुणितम् तु रविभूविशॆषॆण ।

भूच्छायादीर्घत्वम् लब्धम् भूगॊलविष्कम्भात् ॥ ३९ ॥

भुवः रवॆः च अन्तरम् भूरविविवरम्, रवियॊजनकर्णः ४५९५८५, भूगुणितम् भूव्यासॆन १०५० गुणितम्, रविभुवॊः विशॆषॆण रविभुवॊः व्यासयॊः ४४१०, १०५०, अन्तरॆण ३३६० विभजॆत् । तत् भूगॊलच्छायादीर्घत्वम् भवति १४३६२० भूगॊलविष्कम्भात् प्रभृति ।

अत्र इदम् प्रदीपच्छायाकर्म । रविव्यासः प्रदीपः भुजा, भूव्यासः शंकुः, रविभूव्यासयॊः अन्तरम् रविभूव्यासविशॆषः, रवियॊजनकर्णः शंकुप्रदीपच्छाययॊः अन्तरम् इति प्रदीपच्छायाकर्मसूत्रनिबन्धनम् ।

उपपत्तिः प्रदीपच्छायाकर्मणा ऎव । रविभूगॊलवृत्तपार्श्वयॊः सूत्रद्वयम् तथा सूर्यभूव्याससूत्रद्वयम् ऎकत्र बध्नीयात् । भूच्छाया क्रमॆण अपचीयमाना भूविष्कम्भात् लक्ष्यतॆ ॥ ३९ ॥

[ तमसः विष्कम्भम् ]

चन्द्रकक्ष्यायाम् भूच्छायानयनाय आह 

छायाग्रचन्द्रविवरम् भूविष्कम्भॆण तत् समभ्यस्तम् ।

भूच्छायया विभक्तम् विद्यात् तमसः स्वविष्कम्भम् ॥ ४० ॥

भूछायाग्रात् आरभ्य चन्द्रम् यावत् अन्तरम् छायाग्रचन्द्रविवरम् । भूच्छायादैर्घ्यम् १४३६२० चन्द्रकर्णॆन ३४३७७ अनॆन हीनम् १०९२४३ छायाग्रचन्द्रविवरम् जातम्, भूविष्कम्भॆण १०५० गुणितम् भूच्छायादैर्घ्यॆण १४३६२० विभक्तम् लब्धम् तमसः विष्कम्भः ६८९ स्वग्रहणॆ चन्द्रकक्ष्यायाम् भूच्छायाविष्कम्भः भवति ।

यदि चन्द्रयॊजनकर्णॆन व्यासार्धम् ३४३९ लभ्यतॆ तदा तमॊविष्कम्भार्धॆन कियत् इति लब्धम् [तमॊविष्कम्भार्ध]लिप्ताप्रमाणम् ८०० । १९ ॥ ऎवम् स्वकीयस्फुटयॊजनकर्णाभ्याम् रविचन्द्रयॊः व्यासलिप्तानयनम् । रविव्यासः ४४१० व्यासार्ध ३४३८ गुणितः रवियॊजनकर्ण ४५७५८५ भक्तः रविबिम्बकलाः ३३ । ०० ॥ चन्द्रव्यासः ३१५ व्यासार्ध ३४३८ गुणितः चन्द्रयॊजनकर्ण ३४३७७ हृतः चन्द्रबिम्बकलाः ३१ । १० ॥ ४० ॥

[ स्थित्यर्धानयनम् ]

स्थित्यर्धप्रतिपादनाय आह 

तच्छशिसम्पर्कार्धकृतॆः शशिविक्षॆपवर्गितम् शॊध्यम् ।

स्थित्यर्धम् अस्य मूलम् ज्ञॆयम् चन्द्रार्कदिनभॊगात् ॥ ४१ ॥

छाद्यछादकयॊः सम्पर्कार्धम् मानैक्यार्धम् इति अर्थः । तस्य कृतिः तच्छशिसम्पर्कार्धकृतिः । तस्याः शशिनः विक्षॆपवर्गितम् शॊध्यम् । ग्रहणद्वयॆ अपि चन्द्रात् विक्षॆपः इति । रविग्रहणॆ अवनतियुतवियुतः स्फुटविक्षॆपः गृह्यतॆ । तस्य मूलम् स्थित्यर्धम् भवति । कथम्? चन्द्रार्कदिनभॊगात् । चन्द्रार्कदिनभॊगशब्दॆन चन्द्रार्कदिनभुक्तिः गृह्यतॆ । तयॊः अनुलॊमगतिकयॊः दिनगत्यन्तरॆण त्रैराशिकम् कर्म  यदि रविशशिगतिविशॆषॆण षष्टिः नाड्यः लभ्यन्तॆ, [तदा] स्थित्यर्धलिप्ताभिः कियत्यः इति स्थित्यर्धघटिकाः लभ्यन्तॆ ॥ ४१ ॥

[ विमर्दार्धानयनम् ]

ऎवम् विमर्दार्धम् आनॆयम् । कथम्?

चन्द्रव्यासार्धॊनस्य वर्गितम् यत् तमॊमयार्धस्य ।

विक्षॆपकृतिविहीनम् तस्मात् मूलम् विमर्दार्धम् ॥ ४२ ॥

इति ऎतस्मात् । [स्थित्यर्धम्] तिथॆः स्पर्शॆ शॊध्यम् मॊक्षॆ दॆयम्, रविचन्द्रपाताः अपि स्पर्शमॊक्षकालिकाः स्थित्यर्धघटिकाभिः कृत्वा पुनर् स्पर्शमॊक्षयॊः विक्षॆपौ, ताभ्याम् स्थित्यर्धॆ उभॆ यावत् अविशॆषम् ।

गणितकर्मणा उपपत्तिः दृश्यतॆ । ग्राह्यबिम्बमानार्धॆन वृत्तम् आलिखॆत् । तत् ग्राह्यबिम्बम् । ततः मानैक्यार्धतुल्यॆन कर्कटकॆन तॆन ऎव कॆन्द्रॆण अपरम् वृत्तम् आलिखॆत् । तत् ग्राह्यग्राहकसम्पर्कार्धमण्डलम् । ततः दक्षिणॊत्तररॆखायाम् यथादिशम् कॆन्द्रात् उत्तरॆण दक्षिणॆन वा विक्षॆपतुल्यम् सूत्रम् प्रसार्य बिन्दुम् कुर्यात् । तन्मत्स्यविधिना पूर्वा[पराम् रॆखाम् कुर्यात् । तत्सम्पर्कार्धमण्डलसम्पातात् कॆन्द्रप्रापिणीम् रॆखाम् नयॆत्

। ऎवम् अर्धायतचतुरस्रम् क्षॆत्रम् उत्पद्यतॆ । तत्र सम्पर्कार्धम् कर्णः, विक्षॆपः च भुजा । तद्वर्गविश्लॆषमूलम् कॊटिः स्थित्यर्धम् इति । यदा ग्राह्यबिम्बार्धॊनग्राहकबिम्बार्धतुल्यम् ग्राह्यग्राहकयॊः कॆन्द्रान्तरालम्, तदा ग्राह्यग्राहकबिम्बार्धविश्लॆषः कर्णः, विक्षॆपः ऎव भुजा । तद्वर्गविशॆषमूलम् कॊटिः विमर्दार्धम् इति ॥ ४२ ॥

[ चन्द्रस्य अग्रस्तमानम् ]

ग्रस्तशॆषप्रमाणानयनाय आह 

तमसः विष्कम्भार्धम् शशिविष्कम्भार्धवर्जितम् अपॊह्य ।

विक्षॆपात् यत् शॆषम् न गृह्यतॆ तत् शशांकस्य ॥ ४३ ॥

शशिविष्कम्भार्धवर्जितम् तमसः विष्कम्भार्धम् चन्द्रविक्षॆपात् अपॊह्य । यत् शॆषम् तत् चन्द्रस्य न छाद्यतॆ । ग्रहणमध्यॆ उत्तरॆण दक्षिणॆन वा यावत् ऎव विक्षॆपः, तदा तावत् ऎव तयॊः कॆन्द्रान्तरालम् भवति । यदा पुनर् विक्षॆपः, तस्मात् शशितमसः विष्कम्भार्धविशॆषात् अधिकः भवति, तदा तावत्प्रमाणम् ऎव बिम्बकॆन्द्रान्तरालस्य द्वितीय पार्श्वतः चन्द्रबिम्बम् तमॊमध्यात् निष्क्रान्तम् लक्ष्यतॆ । यावान् भागः चन्द्रस्य न गृह्यतॆ तम् चन्द्रबिम्बात् विशॊध्य शॆषम् ग्रासप्रमाणम् स्यात् । चन्द्रवत् अर्कॆ अपि ॥ ४३ ॥

[ इष्टकालिकग्रासः ]

इष्टकालग्रासप्रतिपादनाय आह 

विक्षॆपवर्गसहितात् स्थितिमध्यात् इष्टवर्जितात् मूलम् ।

सम्पर्कार्धात् शॊध्यम् शॆषः तात्कालिकः ग्रासः ॥ ४४ ॥

विक्षॆपवर्गः तॆन सहितात्, स्थितिः स्पर्शात् आरभ्य यावन्मॊक्षः, तस्य मध्यम् स्थित्यर्धम्, इष्टकालवर्जितम् इष्टवर्जितम्, तस्मात् । यत् मूलम् [तत्] सम्पर्कार्धात् शॊध्यम् मानैक्यार्धात् विशॊध्यम् । शॆषः तात्कालिकः ग्रासः भवति ।

स्थित्यर्धम् इष्टकालहीनम् भुक्त्यन्तरगुणम् षष्टिहृतम् लिप्ताः । वर्गः तावतः विक्षॆपस्य लिप्तात्मकस्य वर्गॆ युक्त्वा मूलीक्रियतॆ, मूलम् कर्णः । [तावत्कर्णम् मानैक्यार्धात् विशॊध्य शॆषः तात्कालिकः ग्रासः भवति ।] तावता कर्णॆन प्रविष्टः ग्राहकः ॥ ४४ ॥

[ अक्षवलनम् अयनवलनम् च ]

वलनज्याप्रतिपादनाय आह 

मध्याह्नॊत्क्रमगुणितः अक्षः दक्षिणतः अर्धविस्तरहृतः दिक् ।

स्थित्यर्धात् च अर्कॆन्द्वॊः त्रिराशिसहितायनात् स्पर्शॆ ॥ ४५ ॥

मध्याह्नात् प्रभृति उत्क्रमः मध्याह्नॊत्क्रमः । मध्याह्नतिथ्यन्तरालघटिका मध्याह्नशब्दॆन उच्यतॆ । तत्र प्राक्कपालॆ तिथिघटिका दिनार्धात् विशॊध्या, अपरकपालॆ तॆभ्यः दिनार्धम् । मध्याह्नॆ इति उपलक्षणम् । तथा च इन्दुग्रहणॆ मध्यरात्रितिह्यन्तरालघटिकाः गृह्यन्तॆ । ताः षड्गुणाः भागाः तॆषाम् उत्क्रमज्या, तया अक्षज्या दक्षिणतः व्यवस्थिता गुणनीया, अर्धविस्तरॆण व्यासार्धॆन भक्ता दिक् भवति । दक्षिणतः इति अपरकपालम्

अधिकृत्य उक्तम् आचार्यॆण, यतः अपरकपालॆ पूर्वभागः दक्षिणॆन वलति, अपरभागः उत्तरॆण; प्राक्कपालॆ पुनर् पूर्वभागः उत्तरॆण, अपरभागः दक्षिणॆन वलति । ऎवम् बिम्बस्य पूर्वापरभागः उत्तरॆण दक्षिणॆन वलति, यतः दिक्शब्दॆन वलनम् उच्यतॆ । यत्र चन्द्रः भूच्छायायाम् प्रविशति तत्र चन्द्रबिम्बॆ खण्ड्यमानॆ तद्वलनम् प्राक्कपालॆ चन्द्रबिम्बपूर्वभागॆ उत्तरॆण अवतिष्ठतॆ, अपरभागॆ दक्षिणॆन । अपरकपालॆ विपरीतम् ।

विक्षॆपः रविग्रहणॆ यथादिशम् ऎव भवति । यदा पुनर् भूच्छाया ग्राहकत्वॆन कल्पिता तदा विक्षॆपस्य दिग्विपर्ययः ।

स्थितॆः अर्धम् स्थित्यर्धम्, विक्षॆपः । यतः स्थितॆः अर्धम् विक्षॆपवशात् भवति, तॆन स्थित्यर्धशब्दॆन विक्षॆपः उच्यतॆ । तस्मात् विक्षॆपवशात् द्वितीयवलनानयनम्  अर्कॆन्द्वॊः इति । अर्कः च इन्दुः च अर्कॆन्दू, तयॊः अर्कॆन्द्वॊः त्रिराशिसहितयॊः यत् अयनम् । अयनशब्दॆन क्रान्तिः, त्रिराशिशब्दॆन ज्या उत्क्रमॆण ग्राह्या । त्रिराशिसहितौ यदा रविचन्द्रौ चक्रार्धात् ऊनौ भवतः तदा [पूर्वकपालॆ] उत्तरम् दिग्वलनम् । चन्क्रार्धात् अधिकौ तदा [पूर्वकपालॆ] दक्षिणम् दिग्वलनम् । उत्क्रमज्या परक्रान्तिगुणा त्रिज्याहृता क्रान्तिवलनज्या । तद्बिम्बपूर्वभागॆ उत्तरॆण उत्तरम्, दक्षिणॆन दक्षिणम् । अपरकपालॆ तु [व्यत्ययॆन] दिक्साधनम् कर्तव्यम् ।

सममण्डलमध्यात् दक्षिणॆन अक्षतुल्यॆ अन्तरॆ पूर्वापरायतमण्डलस्य [नाडीमण्डलस्य] यत् अन्तरम् तत् अक्षवलनम् । तत् मध्यात् उत्क्रमॆण उपचीयतॆ । ऎतत् आनयनम्  सममण्डलमध्यात् नतस्य उत्क्रमज्यया कर्तव्यम् । पूर्वकपालॆ कर्णगत्या बिम्बपूर्वभागः उत्तरॆण प्रतिभासतॆ, अपरभागः दक्षिणॆन । परकपालॆ बिम्बपूर्वभागः दक्षिणॆन अपरभागः उत्तरॆण । इति गॊलॆ प्रदर्शयॆत् । अयनवलनम् तु उत्तरदक्षिणायनादौ भिन्नत्वॆन प्रतिभासतॆ, मॆषादौ उत्तरम्, तुलादौ दक्षिणम् । ऎवम् अक्षवलनत्रयॆण परिलॆखः क्रियतॆ ।

प्रथमम् समभूमौ ग्राह्यमण्डलम् लिखॆत् । तत् कॆन्द्रात् ऎव सम्पर्कार्धमण्डलम् [व्यासार्धमण्डलम् च लिखॆत्] । व्यासार्धम् इष्टच्छॆदॆन छिन्नम् कर्तव्यम् । [व्यासार्धमण्डलम्] पूर्वापरदक्षिणॊत्तरदिगंकितम् [कार्यम्] । अक्षायनवलनॆ काष्टीकृत्य तुल्यदिग्यॊगः भिन्नदिग्विश्लॆषः [च कार्यः] । व्यासार्धमण्डलॆ दक्षिणॆन उत्तरॆण वा अपमण्डलगत्या [पश्चिमभागॆ] वलनम् विधाय बिन्दुम् कुर्यात् । ततः कॆन्द्रप्रापि सूत्रम् नयॆत् । तस्य सूत्रस्य मानैक्यार्धपरिधॆः यत्र सम्पातः तस्मात् उत्तरॆण दक्षिणॆन विक्षॆपम् च अपगत्या परिध्यनुसारॆण नीत्वा अग्रॆ बिन्दुम् कुर्यात् । तस्मात् बिन्दॊः कॆन्द्रप्रापि सूत्रम् नयॆत् । यत्र ग्राह्यबिम्बम् स्पृशति तत्र रवॆः अपरभागॆ स्पर्शः, चन्द्रस्य बिम्बॆ पूर्वभागॆ स्पर्शः । [ग्राहकबिम्बकॆन्द्रः तु] सम्पर्कार्धमण्डलॆ भवति । रविग्रहणॆ स्पर्शवलनम् दिग्वशॆन मानैक्यार्धपरिधौ पूर्ववत् । तदग्रात् विक्षॆपम् यथादिशम्, चन्द्रग्रहणॆ विपरीतम् प्रसारयॆत् । तदग्रात् कॆन्द्रप्रापि सूत्रम् नयॆत् । यत्र ग्राह्यपरिधिम् स्पृशति तत्र स्पर्शः । मॊक्षवलनम् रविग्रहणॆ पूर्वभागॆ, चन्द्रग्रहणॆ अपरभागॆ व्यस्तम् प्रसार्यतॆ । ततः मॊक्षविक्षॆपम् यथादिशम् सवितुः, चन्द्रस्य विपरीतम् प्रसार्य बिन्दुम् कुर्यात् । तदग्रात् कॆन्द्रप्रापिसूत्रम् नयॆत् । यत्र ग्राह्यपरिधिम् स्पृशति तत्र मॊक्षः ।

मध्यग्रहणॆ मध्यग्रहणवलनम् विक्षॆपवशात् । सम्पर्कार्धमण्डलॆ दक्षिणविक्षॆपॆ उत्तरम् वलनम् पूर्वॆण, दक्षिणम् परॆण; उत्तरॆ विक्षॆपॆ, उत्तरम् वलनम् परॆण, दक्षिणम् पूर्वॆण प्रशारयॆत् । [रविग्रहणॆ विपरीतम् कार्यम् ।] तदग्रात् याम्य उत्तररॆखा कार्या । तन्मानैक्यार्धवृत्तसम्पातात् कॆन्द्रप्रापि सूत्रम् नीत्वा रॆखाम् कुर्यात् । रॆखानुसारॆण कॆन्द्रमध्यात् सवितुः यथादिशम्, चन्द्रस्य विपरीतम्, विक्षॆपम् प्रसार्य तदग्रॆ बिन्दुम् कुर्यात् । तस्मात् ग्राहकबिम्बव्यासार्धॆन [ग्राह्यबिम्बम्] खण्डयॆत् । ग्राह्यबिम्बम् तावत् ग्रस्तम् दृश्यतॆ ।

इष्टपरिलॆखॆ, प्रग्रहणमध्यमॊक्षविक्षॆपबिन्दुत्रयॆण मत्स्यद्वयम् उत्पाद्य तन्मुखपुच्छनिर्गतसूत्रसम्पातात् बिन्दुत्रयस्पृक्सूत्रॆण वृत्तम् भ्रामयॆत् । [स] ग्राह्यबिम्बकॆन्द्रमार्गः । तत्र इष्टग्रासकर्णप्रमाणम् [सूत्रम्] कॆन्द्रात् यथादिशम् ग्राहकमार्गाभिमुखम् प्रसार्य यत्र ग्राहकमार्गम् स्पृशति तस्मात् ग्राहकार्धॆन परिलॆखात् तत्कालखण्डग्रहणम् दृश्यतॆ ।

निमीलनॊन्मीलनयॊः विमर्दार्धलिप्ताभिः इष्टग्रासवत् कर्णम् आनीय इष्टग्रासविधिना निमीलनॊन्मीलनॆ दर्शयितव्यॆ ॥ ४५ ॥

[ ग्राह्यबिम्बस्य वर्णः ]

[ग्राह्यबिम्ब]वर्णप्रतिपादनाय आह 

प्रग्रहणान्तॆ धूम्रः खण्डग्रहणॆ शशी भवति कृष्णः ।

सर्वग्रासॆ कपिलः सकृष्णताम्रः तमॊमध्यॆ ॥ ४६ ॥

प्रग्रहणॆ स्पर्शॆ, अन्तॆ मॊक्षॆ, शशी धूम्रः भवति । खण्डग्रहणॆ कृष्णः भवति । खण्डग्रहणम् प्रग्रहणात् अर्धासन्नम् सर्वैः गृह्यतॆ । सर्वग्रासॆ कपिलः सकृष्णताम्रः तमॊमध्यॆ । यदा सकलम् बिम्बम् छन्नम् भवति तदा सर्वग्रासः, तत्र कपिलवर्णः । तस्मात् परतः विमर्दकालात् मध्यम् यावत् सकृष्णताम्रः भवति । सूर्यग्रहणॆ पुनर् सर्वदा कृष्णवर्णः ॥ ४६ ॥

[ अनादॆश्यम् रविग्रहणम् ]

ग्रहणॊपलब्धिप्रदर्शनाय आह 

सूर्यॆन्दुपरिधियॊगॆ अर्काष्टमभागः भवति अनादॆश्यः ।

भानॊः भास्वरभावात् स्वच्छतनुत्वात् च शशिपरिधॆः ॥ ४७ ॥

सूर्यॆन्दुपरिधियॊगः सूर्यग्रहणम् । अत्र अर्कबिम्बस्य अष्टमभागः छन्नः अपि अनादॆश्यः । भानॊः भास्वरभावात् । तीक्ष्णांशॊः भास्वरस्वरूपत्वात् इति । चन्द्रस्य अपि स्वच्छतनुत्वात् अष्टमभागः बिम्बस्य छन्नः अपि अनादॆश्यः इति । ग्राह्यबिम्बस्य अष्टमभागः मानैक्यार्धात् विशॊध्य शॆषः इष्टग्रासकर्णः । तद्वर्गात् स्फुटविक्षॆपवर्गॊनात् मूलम् इष्टॊनस्थितिदललिप्ताः भ्वन्ति । ताः षष्टिगुणाः गत्यन्तरहृताः घटिकाः । ताः स्पर्शॆ तिथ्यन्तॆ

विशॊधयॆत् । मॊक्षॆ अपि तिथ्यन्तॆ यॊजयॆत् । तौ स्पर्शमॊक्षकालौ भवतः ॥ ४७ ॥

[ ग्रहसाधनॊपायः ]

ग्रहसाधनॊपायप्रदर्शनार्थम् आह 

क्षिति रवियॊगात् दिनकृत् रवीन्दुयॊगात् प्रसाधयॆत् च इन्दुम् ।

शशिताराग्रहयॊगात् तथा ऎव ताराग्रहाः सर्वॆ ॥ ४८ ॥

क्षितिः च रविः च, तयॊः यॊगः क्षितिरवियॊगः । तस्मात् रविम् साधयॆत् । रवीन्दुयॊगात् इन्दुम् साधयॆत् । शशिताराग्रहयॊगात् च सर्वॆ ताराग्रहाः च साधनीयाः ।

दृगुच्छ्रितम् सलिलसमीकृतभूप्रदॆशमण्डलकम् चक्रभागांकितवृत्तपरिधिम् दिक्चतुष्टयचिह्नितम् कारयॆत् । तस्य अपरभागॆ स्थितः सांवत्सरः प्राक्परिधौ आसक्तम् उद्गच्छन्तम् सूर्यम् लक्षयॆत् । ततः तत्प्रदॆशॆ चिह्नम् कृत्वा तिष्ठॆत् यावत् अन्यॊदयम् । तत्र अपि यत्र परिधिप्रदॆशॆ सूर्यः उदितः लक्ष्यतॆ तत्र चिह्नम् निदध्यात् । ऎवम् उदयत्रयॆण चतुष्कॆण वा अन्तरघटिकाः यन्त्रादिना लक्षयितव्याः । ताः रविभुक्तयः रव्युदयान्तरालॆ भवन्ति । ताः ऎव स्फुटरविभुक्तिलिप्ताः । मध्यदिनच्छाययॊः वॆधॆन तज्ज्यादिविधिना [रविद्वयम् आनयॆत् ।] तयॊः अन्तरम् [वा] स्फुटरविभुक्तिः ।

अथ मॆषादौ प्रवृत्तॆ सवितरि सूर्यॊदयाः गण्यन्तॆ यावत् मॆषादिम् प्रविशति, तॆ रविभूयॊगाः जायन्तॆ । ऎवम् सम्यक् उपलक्ष्यमाणाः रविभगणभॊगॆ शतत्रयम् पञ्चषष्ट्या अधिकम् दिनम् भवति ३६५ । घटिकाः पञ्चदश १५ । विघटिकाः ऎकत्रिंशत् ३१ । प्राणाः सार्धैकाः ३२। ताः क्रमॆण सवर्णिताः उपरि भागाः २१०३८९, छॆदः ५७६ । ऎवम् ऎतैः अंशैः षष्टसप्तपञ्चच्छॆदैः ऎकः अर्कभगणः । ऎतैः यगादिमानम् क्रियतॆ । 

रवीन्दुयॊगप्रसाधनाय सूर्याधिक्रान्तचन्द्रम् उपलक्षयॆत् । पुनर् द्वितीयम् ऎवम् वर्षम् प्रति जागरॆण द्वादश रवीन्दुयॊगाः १२, चत्वारः राशयः ४, द्वादश भागाः १२, षट्चत्वारिंशत् लिप्ताः ४६, चत्वारिंशत् विलिप्ताः ४०, अष्टचत्वारिंशत् तत्पराः ४८ । ऎकॆन रविभगणॆन युताः ऎतॆ सवर्णिताः 

१०३९५६००४८ ७७७६०००० युगगतचन्द्रभगणाः त्रैराशिकॆन  यदि ऎकॆन रविभगणभॊगॆन ऎतावन्तः

१०३९५६००४८ ७७७६०००० चन्द्रभगणाः लभ्यन्तॆ, तदा युग[रविभगण]भॊगॆन अनॆन ४३२०००० कियन्तः इति, लब्धम् युगॆ चन्द्रभगणाः ५७७५३३३६ ।

अथवा चन्द्रस्य इष्टशुक्लप्रतिपत् आरभ्य प्रतिदिनम् चन्द्रॊदयम् उपलक्ष्य बिन्दुः कार्यः यावत् रविभगणम् । ऎवम् रविभगणभॊगॆ चन्द्रॊदयसंख्याः जाताः ३५२५३२३२८१२सवर्णिताः ३५२ । ११५३२४९२ २१६०००

ऎतैः त्रैराशिकम्  यदि ऎकस्मिन् [रवि]भगणभॊगॆ ऎतावन्तः [चन्द्रॊदयाः] भवन्ति, [तदा युग]रविभगणभॊगॆ कियन्तः । प्राग्वत् युगॆ चन्द्रॊदयाः जाताः १५२४४८४१६४ । क्षितिभगणॆभ्यः १५८२२३७५०० शुद्धाः युगचन्द्रभगणाः ५७७५३३३६ ।

शशिताराग्रहयॊगान् शशिभगणॆभ्यः विशॊध्य शॆषम् इष्टग्रहस्य भगणाः । वर्षम् प्रति जागरॆण चन्द्रबृहस्पतियॊगाः भगणाः १३, राशयः ३, भागाः १२, लिप्ताः २५, विलिप्ताः ३३, तत्पराः ३६ । ऎतॆ क्रमॆण सवर्णिताः जाताः १०३३००४०१६ ७७७६०००० यदि ऎकस्मिन् रविभगणॆ ऎतावन्तः १०३३००४०१६ ७७७६००००

गुरुशशियॊगाः लभ्यन्तॆ, तदा युगरविभगणॆ ४३२०००० कियन्तःझिति, लब्धाः युगाब्दॆ गुरुशशियॊगाः ५७३८९११२ चन्द्रभगणॆभ्यः ५७७५३३३६ विशॊध्य शॆषम् गुरुभगणाः युगॆ जाताः ३६४२२४ । ऎवम् भौमादीनाम् अपि रविभगणभॊगम् यावत् चन्द्रॆण सह यॊगान् प्रसाध्य ग्रहभगणसाधनम् कर्तव्यम् । मार्गदर्शनम् ऎव ऎतत् अस्मदादीनाम् अविषयः ।

बुधशुक्रयॊः शीघ्रसाधनम् । प्राच्याम् अस्तमितः पश्चात् यावद्भिः दिनैः उदितः तावताम् दिनानाम् अर्धम् उदयदिनॆभ्यः पातयॆत् अस्तमितदिनॆषु क्षिपॆत् । पुनर् प्राच्याम् यदा अस्तमयः प्रतीच्याम् उदयः तदा अनॆन ऎव विधिना निरंशदिनसिद्धिः कार्या । तयॊः आद्यन्तनिरंशयॊः मध्यॆ शीघ्रकॆन्द्रभगणः भवति । बुधस्य शीघ्रकॆन्द्रभगणदिनानि आसन्नानि ११६, शुक्रस्य ५८४ । ऎतैः भूदिनॆभ्यः १५७७९१७५०० भागम् दत्वा लब्धम् बुधशुक्रशीघ्रकॆन्द्रभगणाः भवन्ति ।

रव्युच्च[परिधि]साधनम् । मध्याह्नच्छायया रविम् प्रसाध्य तद्दिनमध्यमरविणा विशॆष्य मध्यमॆ अधिकॆ ऋणम्, धनमूलॆ । ऎवम् प्रतिदिनम् उपलभ्य यावत् वर्धमानम् रविफलम् स्थिरीभवति, तत्फलम् परमफलम् । ततः परम् ह्रासम् ऎष्यति । परमफलदिनॆ मध्यमॆ अर्कॆ ऋणफलॊपलक्षितॆ राशित्रयम् शॊधयॆत्, शॆषम् रविमन्दॊच्चम् । धनफलॊपलक्षितॆ राशित्रयम् क्षिपॆत्, मन्दॊच्चम् भवति । परमफलज्या चक्रांशहता त्रिज्याहृता रवॆः परिधिः भवति ।

चन्द्रॊच्चपरिधिसाधनम् । सूर्यास्तमयात् कृष्णॆ पक्षॆ यावतीभिः घटिकाभिः चन्द्रॊदयः भवति घटिकायन्त्रसाधिताभिः ताभिः षड्राशियुतात् अर्कात् लग्नम् स्वॊदयैः त्रिप्रश्नॊक्तविधिना कर्तव्यम् । स स्फुटचन्द्रः । तत् तात्कालिकमध्यमचन्द्रविश्लॆषशॆषम् मान्दफलम् धनुम् ऋणम् वा । ऎवम् प्रत्यहम् उपलक्षयॆत् पूर्ववत् यावत् वर्धमानफलम् स्थिरीभवति । ततः रविवत् उच्चपरिधिसाधनम् । ऎवम् प्रतिदिनम् कुर्यात् यावत् मध्यमस्फुटयॊः  न किञ्चित् अन्तरम् स्यात् । स ऎव चन्द्रः तदुच्चम् भवति । तद्दिनपरमफलपातदिनॊच्चयॊः अन्तरम् कृत्वा तद्दिनपरमफलार्कयॊः अन्तरम् कार्यम् । तत[ः त्रैराशिकम्]  यदि अनॆन गत्यन्तरॆण ऎतत् उच्चान्तरम्, तदा सूर्यभगणैः किम् इति अन्द्रॊच्चभगणसिद्धिः ।

चन्द्रस्य पातभगणसाधनम् । चन्द्रग्रहणॆ [स्पर्शकालात्] मध्यग्रहणम् यावत् स्थित्यर्धघटिकाः चन्द्रग्रहणकालॊत्पन्नाः ताः स्फुटसूर्यशशिभुक्त्यन्तरॆण गुणयॆत्, षष्ट्या विभजॆत्, स्थित्यर्धलिप्ताः स्युः । तद्वर्गम् सम्पर्कार्धवर्गात् विशॊध्य शॆषस्य मूलम् चन्द्रविक्षॆपः । स त्रिज्याहतः खागाक्षिभक्तः [२७०] काष्ठितः भुजचापम् । ऎवम् मॊक्षम् अपि [स्थित्यर्धम्] मध्यग्रहणात् जानीयात् । यदि प्रथमस्थित्यर्धम् महत् ऒजपदॆ ग्रहः भवति, अन्यथा युग्मपदॆ स्यात् । यदि उत्तरविक्षॆपः विषमपदॆ भुजचापम् स्फुटम्, युग्मपदॆ चक्रार्धात् विशॊध्य भवति । दक्षिणविक्षॆपॆ विषमपदॆ चक्रार्धम् क्षिपॆत्, युग्मपदॆ चक्रात् विशॊधयॆत् । स बाहुः स्यात् । ऎवम् स्वधिया शॆषम् च । ऎवम् अन्यत् ग्रहणकालिकम् बाहुम् उत्पादयॆत् । उभयॊः अन्तरम् साधयॆत् । ग्रहणद्वयकालान्तरजा तत्पातभुक्तिः । ततः चन्द्रपातभगणसिद्धिः ।

अथवा चन्द्रस्य दिनार्धच्छायया क्रान्तिम् उक्तवत् प्रसाधयॆत् । तस्याः तद्दिनचन्द्रक्रान्त्यन्तरम् विक्षॆपः । शॆषम् प्राग्वत् इति ।

बुधसितयॊः यावता रात्रिगतकालॆन अस्तमयः जायतॆ तावता लग्नम् षड्राशियुतम् स्फुटः बुधः शुक्रः च । शॆषाणाम् चन्द्रवत् आनयनम् रात्रिगतॆ कालॆ । मध्यस्फुटयॊः अन्तरम् मन्दफलयुतवियुतम् शीघ्रफलम् । पुनर् पञ्चभिः अहॊभिः फलसाधनम् कर्तव्यम् । प्राक्फलॆन सह विश्लॆषयॆत् । ऎवम् तावत् परीक्षयॆत् यावत् वर्धमानम् शीघ्रफलम् स्थिरीभवति । ऎवम् स्वधिया अभ्यूह्य शीघ्रॊच्च[परिधि]साधनम् । ताराग्रहयॊगान्तरात् ग्रहविक्षॆपसाधनम् कर्तव्यम् । उदयास्तमयवक्रानुवक्रैः शीघ्रभगणसाधनम् विधॆयम् । अथवा ग्रहम् यष्ट्यादियन्त्रॆण विदित्वा द्वितीयॆ अपि दिनॆ तावति ऎव कालॆ विद्ध्यात्, तदन्तरम् स्फुटभुक्तिः । सा मध्यमभुक्तॆः यदा ऊना स्यात् तदा कक्ष्यामण्डलात् उपरि ग्रहः, अधिका चॆत् तदा अधः वर्ततॆ । तद्भूमध्यान्तरम् कर्णः । तद्वशात् परमाल्पताम् परमाधिकताम् च भुक्तॆः लक्षयॆत् इति भगणभॊगम् यावत् । भगणभॊगः मध्यमगत्या

ऎव भवति । ऎवम् मन्दफलस्य परमाधिकताम् लक्षयित्वा परममन्दकर्णव्यासार्धान्तरम् परमफलम् मान्दम् भवति ॥ ४८ ॥

[ सम्प्रदायसंस्मरणम् ]

भगणादीनाम् प्रमाणानि कथम् ज्ञातानि आचार्यॆण तत्प्रतिपादनाय आह 

सदसज्ञानसमुद्रात् समुद्धृतम् ब्रह्मणः प्रसादॆन ।

सज्ञानॊत्तमरत्नम् मया निमग्नम् स्वमतिनावा ॥ ४९ ॥

सदसत् सत् असत् । सत् शुभम्, असत् अशुभम् । ज्ञानम् ज्ञायतॆ अनॆन इति । सज्ञानॊत्तमरत्नम् सत् ज्ञानम् तत् ऎव उत्तमरत्नम्, उत्कृष्टम् रत्नम्, ज्यॊतिःशास्त्रम् । निमग्नम् निलीनम् । स्वमतिनावा स्वकीया मतिः (स्वमतिः), स्वमतिः ऎव नौः तया स्वमतिनावा सदसज्ञानसमुद्रात् समुद्धृतम् इति ॥ ४९ ॥

[ प्रतिकञ्चुककारिणॆ दण्डविधानम् ]

शपथप्रतिपादनाय आह 

आर्यभटीयम् नाम्ना पूर्वम् स्वायम्भुवम् सदा नित्यम् ।

सुकृतायुषॊः प्रणाशम् कुरुतॆ प्रतिकञ्चुकम् यः अस्य ॥ ५० ॥

आर्यभटस्य इदम् आर्यभटीयम् । किम् तत्? यदा ऎव अत्यन्तविप्रलीनसम्प्रदायम् ब्रह्मणः प्रसादॆन वा स्वनामधॆयम् । यः पूर्वम् स्वायम्भुवम् आसीत् इदानीम् आर्यभटॆन प्रकाशितत्वात् आर्यभटीयम् । स्वायम्भुवम् तत् सर्वदा नित्यम् । स्वयंभुवा प्रणीतम् अर्थम् गृहीत्वा आचार्याः शास्त्राणि रचयन्ति । सम्प्रदायाविच्छॆदात् तु सः अर्थः ज्ञातः ऎव । अन्यथा अतीन्द्रियार्थानाम् कथम् मानुषमात्रैः इयम् युक्तिः कर्तुम् शक्यतॆ । अस्य प्रतिकञ्चुकम् प्रतिबिम्बम् यः करॊति तस्य सुकृतस्य आयुषः च प्रणाशम् भवति ॥ ५० ॥

[ सॊमॆश्वरभाष्यस्य उपसंहारश्लॊकः ]

स्पष्टार्थप्रतिपादकम् मृदुधियाम् सूक्तम् प्रबॊधप्रदम्

तर्कव्याकरणादिशुद्धमतिना सॊमॆश्वरॆण अधुना ।

आचार्यार्यभटॊक्तसूत्रविवृतिः या भास्करॊत्पादिता

तस्याः सारतरम् विकृष्य रचितम् भाष्यम् प्रकृष्टम् लघु ॥

इति सॊमॆश्वरविरचितम् आर्यभटीयम् भाष्यम् समाप्तम् ।

[ भास्करभाष्यस्य उपसंहारश्लॊकः ]

अतीन्द्रियार्थप्रतिपादकानि

सूत्राणि अमूनि आर्यभटॊदितानि ।

तॆषाम् अशक्यः अर्थशतांशकः अपि

वक्तुम् कुतः अस्मत्सदृशैः अशॆषम् ॥

इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्यॆ

गॊलपादः समाप्तः ।





No comments:

Post a Comment

  आमुख मन्त्रेश्वर कृत फलदीपिका जातक ग्रन्थों की शृङ्खला की एक अनुपम कड़ी है। यह ग्रन्थ अपने मूल रूप में प्राचीन भारतीय लिपि ' ग्रन्थ ...