Monday, 3 October 2022

सूर्यसिद्धान्तः

 |श्रीगणेशाय नमः।

॥ सूर्यसिद्धान्तः ॥

सूर्यसिद्धान्तः


माधव प्रसादकृतसौरदीपिकया भाष्येन च सहितः ।

अथ निर्विघ्नेन परिसमाप्तकामो निखिलजगदादिकारणभूतदेव देवनमस्काररूपं शिष्टाचारप्राप्तकर्तव्यताकं मङ्गलमाचरति ग्रन्थकारः ।

अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने ।

समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ 1 ॥

अचिन्त्याव्यक्तरूपाय= चिन्तितुं ध्यानं कर्तुं योग्यं नेति । मनोऽविषयमित्यर्थः । तथा व्यज्यत इति व्यक्तं न व्यक्तमव्यक्तं वाचाप्यप्रतिपाद्यमित्यर्थः ॥ * यते वाचो निवर्तन्तेऽप्राप्य मनसा सहेति श्रुतेः ॥ एवंभूतं रूपं यस्य तस्मै,

निर्गुणाय= सत्वरजस्तमोगुणातीतायेत्यर्थः ।

गुणात्मने= गुणा आत्मा स्वरूपं यस्य तस्मै । प्रकृतिरूपायेत्यर्थः । गुणानां साम्यावस्था प्रकृतिरित्युक्तेः।

समस्तजगदाधारमूर्तये= समस्तस्य स्थावरजङ्गमात्मकस्य जगत उत्पत्तिस्थितिविनाशवत आधारां आश्रयभूता ब्रह्मविष्णुशिवरूपा मूर्तेयः स्वरूपाणि यस्य तस्मै । ब्रह्मविष्णुशिवात्मकायेत्यर्थः ।

ब्रह्मणे= बृहत्त्वादपरिच्छिन्नत्वाज्जगद्व्यापकायेश्वराय ॥

नमः= कायवाक् चेष्टोपलक्षितेन मानसेन्द्रियबुद्धिविशेषेण नमस्कारं करोमीत्यर्थः ॥ 1 ॥

सूर्य एतच्छास्त्रं सूर्यांशपुरुषद्वारा हेति प्रतिपादनाय कथामवतारयति ।

अल्पावशिष्टे तु कृते मयनामा महासुरः ।

रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम् ॥ 2

वेदाङ्गमग्र्यमखिलं ज्योतिषां गतिकारणम् ।

आराधयन् विवस्वन्तं तपस्तेपे सुदुश्चरम् ॥ 3

कृते= सत्ययुगे,

अल्पावशिष्टे= किंचिच्छिष्टे सति,

मयनामा= मयाख्यः,

महासुरः= महादैत्यः,

ज्योतिषां= ग्रहनक्षत्रादीनां,

गतिकारणम्= गतेः संस्थानचलनमानादिज्ञानस्य कारण प्रतिपादकं,

परमं= अत्यन्तं,

रहस्यं= गोपनीयं,

पुण्यं= पुण्यजनकम्,

अग्र्यं= श्रेष्ठं,

वेदाङ्गम्= वेदस्याङ्गं,

उत्तमम्= उत्कृष्टम्,

अखिलं= समग्रं,

ज्ञानं= ज्ञायतेऽनेनेति ज्ञानं शास्त्रं ज्योतिःशास्त्रमिति फलितार्थः,

जिज्ञासुः= ज्ञातुमिच्छुः,

विवस्वन्तं= सूर्यम्,

आराधयन्= सेवयन्सन्,

सुदुश्चरं= सुतरां दुःखैः क्लेशैश्चरितुं कर्तुं शक्यमित्यर्थः ।

तपः= तपश्चर्या,

तेपे= कृतवान् ।

अत्र यत्तु अल्पावशिष्टे इत्यस्य व्याख्यायां सुधावर्षिण्यां कटपय क्रमेण त्रिंशदधिकशतवर्षमिता संख्या निष्काशिता सा सम्भवन्त्यपि निर्मूला ज्ञेया । सूर्यसिद्धान्ते तादृशपरिभाषयाङ्क ग्रहस्यादर्शनात् ॥ 2 ॥ 3 ॥

ततस्तुष्टोऽर्के मयायेदं दत्तवानित्याह—

तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिने ।

ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम् ॥ 4 ॥

तेन= सुदुश्चरेण,

तपसा= अराधनेन,

तोषितः= सन्तोषं प्रापितः अत‌एव,

प्रीतः= प्रसन्नः,

स्वयं= साक्षात्,

सविता= सूर्यः,

वरार्थिने= वरं स्वाभिमतं ज्योतिःशास्त्रमर्थयते तस्मै,

तस्मै= पूर्वकथितासुराय,

मयाय= मयनाम्ने,

ग्रहाणां= खेटानां,

चरितं= ज्ञानं,

प्रादात्= दत्तवान् ग्रहाणां चरिते ज्ञानवान् भवेति वरमदादित्यर्थैः ॥ 4॥

अथ वरदानप्रकरणमाह—

श्रीसूर्य उवाच

विदितस्ते मया भावस्तोषितस्तपसा ह्यहम् ।

दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् ॥ 5 ॥

श्रीसूर्य उवाच, तेजःसमूहै र्देदीप्यमानोऽर्कोमयासुरं प्रत्यवददित्यर्थः ।

मया= सूर्येण,

ते= तव,

भाव:= अभिप्रायो ज्योतिःशास्त्रजिज्ञासारूपः,

विदितः= ज्ञातः ।

अहम्= सूर्यः,

हि= यतः,

तपसा= त्वत्कृताराधनेन,

तोषितः= सन्तोषं प्रापितः अतः,

ज्ञानं= शास्त्रम्,

कालाश्रयं= कालाधीनं,

ग्रहाणां=  । खेटानां,

महत्= अपरिमेयं,

चरितं= । माहात्म्यम्,

दद्यां=  दास्यामि । यत्त्वमिच्छसि तदेवंभूतं ग्रहाणां चरितं दास्यामीत्यर्थः ॥ 5 ॥

न मे तेजः सहः कश्चिदाख्यातुं नास्ति मे क्षणः ।

मदंशः पुरुषोऽयं ते निःशेषं कथयिष्यति ॥ 6 ॥

,

मे= मम सूर्यस्येत्यर्थः,

तेजः सहः= तेजोधारकः,

कश्चित्= मत्सान्निध्यमुपाश्रितःकोऽपि जीवः,

न= न वर्तते ।

मे= मम,

अख्यातुं= वक्तुं,

क्षणः= अवसरो,

नास्ति= न वर्तते । अनवरतभ्रमणादिति फलितम् ।

अयम्= अग्रस्थः,

मदंशः= मम सूर्यस्यांशः, मदुत्पन्न इत्यर्थः,

पुरुषः= पुरुषव्यक्तिः,

ते= तुभ्यं,

निःशेषं= सम्पूर्णं ज्योतिःशास्त्रं,

कथयिष्यति= वदिष्यति ॥ 6 ॥

अथ सूर्यवचनानुवादमुपसंहरन् सूर्यांशपुरुषमयासुरसंवादोपक्रममाह—

इत्युक्त्वान्तर्दधे देवः समादिश्यांशमात्मनः ॥

स पुमान् मयमाहेदं प्रणतं प्राञ्जलिस्थितम् ॥7॥

देवः= सूर्य्यः,

इति= पूर्वोक्तम्,

उक्त्वा= कथयित्वा,

अत्मनः= स्वस्य,

अंशं= अंशपुरुषं,

समादिश्य= सम्यगाज्ञाप्य,

अन्तर्दधेः= अन्तर्हितवान् मयनेत्रागोचरतां जात इत्यर्थः ।

सः= सूर्याज्ञप्तः,

पुमान्= पुरुषः,

प्रणतं= प्रकर्षेण नतं नम्रं,

प्राञ्जलिस्थितं= प्रकृष्टो यः कराग्रयोः सम्पुटीकरणरूपोऽञ्जलिस्तत्र चित्तैकाग्र्येणावस्थितं,

मयं= मयासुरं प्रति,

इदं= वक्ष्यमाणम्,

आह= अवदीत् ॥ 7 ॥

तदेवाह— सूर्यशपुरुष उवाच ।

शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम् ।

युगे युगे महर्षीणां स्वयमेव विवस्वता ॥ 8 ॥

, हे मयासुर !, एकमनाः= एकस्मिन्नेव मनो यस्यासौ सन्, एकाग्रचित्तो भूत्वेत्यर्थः । त्वं,

उत्तमं= नेत्ररूपं श्रेष्ठमित्यर्थः,

ज्ञानं= शास्त्रं,

शृणुष्व= श्रोत्रद्वारात्मनः संयोगेन प्रत्यक्षं कुरु, तत्, किं ज्ञानं,

यत्, पूर्वं= पुरा,

विवस्वता= सूर्येण,

स्वयमेव= साक्षादेव,

युगे युगे= प्रतिमहायुगं,

महर्षीणां= महामुनीनां प्रति,

उक्तम्=  कथितम् ॥ 8 ॥


शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्करः ।

युगानां परिवर्तेन कालभेदोऽत्र केवलम् ॥ 6॥

इदं= वक्ष्यमाणं,

तदेव= सूर्योक्तमेव,

आद्यं= प्रथमं,

शास्त्रं= ज्योतिःशास्त्रं वर्तते ।

यत्पूर्वं= प्राक्काले,

भास्करः= सूर्यः महर्षीं प्रति,

प्राह= प्रकर्षेणोक्तवान् ।

युगानां= महायुगानां,

परिवर्तेन= पुनः पुनरावृत्त्या,

अत्र=  शाखे,

केवलं काल भेदः= यातैष्यकालस्यैव भेदः । तद्भगणादिनां भेदो नेत्यर्थः । सूर्य्योक्तमदुक्तयोः कालमात्रस्यैव भिन्नत्वमिति कमलाकरादीनामाशयः । तथा कालभेदोऽर्थात्कालवशेन ग्रहचारेषु किञ्चिद्वैलक्षण्यं भवतीति युगान्तरे तदन्तरं प्रसाध्य ग्रहेषु देयमिति प्राचीनाना माभिप्रायः । तदिदमन्तरं पूर्वग्रन्थे बीजमित्यामनन्तीत्यलं पल्लवितेन । विस्तरस्तु श्रीमद्गुरुमहामहोपाध्याय पं. दुर्गाप्रसादद्विवेद रचिताया मधिमास परीक्षायां द्रष्टव्यम् ॥ 9 ॥

अथ कालनिरूपरणमाह—

लोकानामन्तकृत्कालः कालोऽन्यः कलनात्मकः ।

सद्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते ॥10 ॥

।कालो द्विधा ।

लोकानां= जीवानामपलक्षणत्वादचेतनानामपि,

अन्तकृत्= विनाशकः,

कालः= अखण्डदण्डायमानयं राजानुयायी मृत्युरूप एकः ।

अन्यः= द्वितीयः,

कलनात्मकः= गणनात्मकः,

कालः= खण्डकालः ।

सः= द्वितीयखण्डकालः,

स्थूलसूक्ष्मत्वात्= महत्त्वाणुत्वभेदात्,

द्विधा= द्विविधः अस्ति ।

मूर्तोऽमूर्तश्च= इयत्तावच्छिन्नपरिमाणोमूर्तः । अमूर्तस्तद्भिन्नः,

उच्यते= कथ्यते स्थूलः कालो मूर्तः, सूक्ष्मश्च अमूर्ते इति क्रमेण कथ्यत इत्यर्थः ॥ 10 ॥

मूर्तामूर्तकालावाह—

प्राणादिः कथितो मूर्तस्त्रुट्याद्योऽमूर्तसंज्ञकः ॥

षड्भिः प्राणैर्विनाडी स्यात्तत्ष्ट्या नाडिका स्मृता ॥ 11 ॥

प्राणादिः= दशगुर्वक्षराणामव्यवहितानामुच्चारणपरिमितिकालः प्राणः । गुर्वक्षरलक्षणं च—सानुस्वारं विसर्गान्तो दीर्घो युक्तपरश्च यः ।

वर्णस्तंगुरुमित्याहुश्छन्दःशास्त्रविशारदाः । स च स्वस्थसुखासनस्य पुंसः एतादृशः प्राणः काल आदिर्यस्यैतादृशः कालः,

मूर्तः= मूर्तसंज्ञकः,

कथितः= उक्तः ।

त्रुट्याद्यः= त्रुटिराद्या यस्यैतादृशः ।

अमूर्तसंज्ञकः= सूक्ष्मकालः कथितः । त्रुटिलक्षणं तु सिद्धान्ताशिरोमणौ—योऽक्षणोर्निमेषस्य खरामभामः स तत्परस्तच्छतभाग उक्ता त्रुटिः ।

षड्भिः= षट्प्रमाणैः,

प्राणैः= असुभिः,

विनाडी= पानीयपलं विघटिकेत्यर्थः, स्यात्= भवेत् ।

तत्षष्ट्या= पानीयपलानां षष्ट्या,

नाडिका= घटिका,

स्मृता=  कथिता, गणकैरिति शेषः ॥ 11 ॥

1. सूच्या भिन्ने पद्मपत्रे त्रुटिरित्यभिधीयते ।

तत्षष्ट्या लेखक प्रोक्तं तत्षष्ट्या प्राण उच्यते ॥

10सूर्यसिद्धान्त सं ।

[अं

अथ दिनमासावाह –

नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम् ।

तत्रिशताभवेन्मासः सावनोऽर्कोदयैस्तथा ॥12॥

सौरददीपिका ।

नाडीषष्ट्या तु= घटीनां षष्ट्या तु,

नाक्षत्रं= नाक्षत्र संबन्धि,

अहोरात्रं= दिनरात्रिमाणम्,

प्रकीर्तितं= कथितम् । अश्विन्यादिनाक्षत्राणां कालेनैकोभ्रमो भवतीत्यर्थः।

तत्त्रिंशता= नाक्षत्राहोरात्रेण त्रिंशत्संख्यया,

मासः= नाक्षत्रमासः,

भवेत्= स्यात् ।

तथा= तेनैव प्रकारेण ।

अर्कोदयैः= त्रिंशतार्कोदयैः सूर्याहोरात्रैः,

सावनः= सावनो मासः स्यात् ॥ 12 ॥

अथ सौरचान्द्रमास निरूपण पूर्वकं वर्षं वदन् दिव्यं दिनमाह—

ऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यते ।

मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते ॥ 13 ॥

तद्वत्= पूर्वोक्तप्रकारेण,

तिथिभिः= त्रिंशता तिथिभिः,

ऐन्दवः= चान्द्रो मासः स्यात् । तच्च दर्शन्तावधिकः पूर्णिमान्तावधिकश्च शाखेषु मुख्यतया प्रतिपादितः । अत्र शास्त्रे तु दर्शन्तावधिक एव मुख्यः ।

संक्रान्त्या= संक्रान्त्यवधिकेन कालेन । पूर्वसंक्रान्तेरपरसंक्रान्तिपर्यन्तमित्यर्थः।

सौरः= सौरमासः,

उच्यते= कथ्यते ।

द्वादशभिः= द्वादशप्रमाणैः,

मासैः= सौरमासैः,

वर्षं= सौरवर्षं भवति । वा यन्मानेन मासास्तन्मानेन वर्षं ज्ञेयम् ।

तत्=  वर्षं सौरवर्षमित्यर्थः,

दिव्यं= दिवि भवं दिव्यं देवसम्बन्धीत्यर्थः । ध्रुवस्थाननिवासिनां देवानां सम्बन्धीत्यर्थः ।

अहः= अहोरात्रम्,

उच्यते= कथ्यते ॥ 13 ॥

सौरवर्षं देवानामहोरात्रमानं मान तत्त्वज्ञैः कथ्यत इत्यर्थः॥13॥सौरः =  सूर्यसंबन्धी मासः तदुत्पन्नकालस्य मनुष्यमानेन घटिकाल्पत्वातु दिव्यमानेन तु प्राणादल्पत्वादमूर्तत्व जन्यसमत्वमिति उच्यते । दिव्यं द्युरात्रं परिभाषितम् । यथा ध्रुवबिन्दुगतस्थैकस्यैव क्षितिज नाडीवृत्तं स्वल्पान्तरात् सर्वेषां दैवानां क्षितिज स्वीकृत्य दिव्यदिनादिमान स्वीक्रियते.

अथ देवासुरयोर्वर्षमाह—

सुरासुराणामन्योऽन्यमहोरात्रं विपर्ययात् ।

तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च ॥ 14॥

12 सूर्य सिद्धान्त सं ।

[ अं

सुरासुराणां=  देवदैत्यानां सौम्य याम्य ध्रुवाधःस्थितानाम्,

अन्योन्यं= परस्परं,

विपर्ययात्=  व्यत्यासात्,

अहोरात्रं= दिनरात्रि प्रमाणं भवति । यदा देवानां दिनं तदा दैत्यानां रात्रिः, यदा देवानां रात्रिः तदैवासुराणां दिनं भवतीत्यर्थः ।

तत्षष्टिः= तेषां दिव्याहोरात्राणां षष्टिः,

षड्गुणा= षड्भिर्गुणिता षष्ट्यधिक शतत्रयमित्यर्थः ।

दिव्यं= देवसम्बन्धि,

असुरमेव च= असुरसम्बन्धि,

वर्ष= वर्षप्रमाणं भवति ।एवकाराद्दिनरात्र्योर्भेदेऽपि मानेन तयोर्वर्षभेदो न स्यात् ॥ 14॥

अथ चतुर्युगप्रमाणमाह—

तद्वादशसहस्राणि चतुर्युगमुदाहृतम् ।

सूर्याब्दसंख्यया द्वित्रिसागरै रयुताहतैः ॥ 15 ॥

सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् ।

कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया ॥ 16 ॥

,

तद्द्वादशसहस्राणि= तेषां दिव्याब्दानां द्वादशसहस्राणि,

चतुर्युगं= चतुर्णां युगानां कृतत्रेताद्वापरकल्याख्यानां समाहारो योगस्तदात्मकमेकं महायुगमित्यर्थः ।

उदाहृतम्=  उक्तम् ।

अयुताहतैः= अयुतेन गुणितैः,

द्वित्रिसागरैः= द्वात्रिंशदधिकैश्चतुःशतमितैः । विंशतिसहस्राधिक त्रिचत्वारिंशल्लक्षाणीत्यर्थः,

4320000= । एतन्मितैः,

सौराब्दसंख्यया= सौरवर्षप्रमाणेन स्यात् ।

तच्चतुर्युगं= तत्तेनदेवासुरमानेनोक्तं चतुर्युगं द्वादशसहस्रवर्षात्मकं महायुगं,


सन्ध्यासन्ध्यांशसहितं= युगस्याद्यन्तयोः क्रमेण प्रत्येकं सन्ध्यासन्ध्यांशाभ्यां युक्तं,

विज्ञेयं= ज्ञातव्यम् ।

कृतादीनां= कृतत्रेताद्वापरकलियुगानां,

धर्मपादव्यवस्थया= धर्मचरणानां स्थित्या,

इयं= वक्ष्यमाणा,

व्यवस्था= स्थितिर्ज्ञेया । न तु समकालप्रमाणं स्थितिः । अयमर्थः । कृतयुगे चतुश्चरणो धर्मे इति तस्य मानमाधिकम् । त्रेतायां त्रिचरणो धर्मस्तेन तन्मानापेक्षयात्रेतामानं न्यूनम् । एवं द्वापरे द्विचरणो धर्मस्तेन त्रेतापेक्षया तन्मानं न्यूनम् । द्वापरमानादपि कालमान न्यूनं तत्र धर्म्मस्यैकचरणत्वात् । एवं चतुर्युगे धर्मस्य दश चरणाः भवन्तिततोऽनुपातेन दशभिश्चरणैश्चतुर्युगमानं तदा कृतत्रेतादिपादैश्चतुस्त्रिद्वेकसंख्यामितैः किमितिकृत त्रेता द्वापर कलियुगानां मानं स्यादिति ॥ 15 । 16 ॥

अथ कृतादियुगानां मानं सविशेषमाह—

युगस्य दशमो भागश्चतुस्त्रिद्ध्येकसंगुणः ।

क्रमात्कृतयुगादीनां षष्ठांशः सन्ध्ययोः स्वकः॥17॥

युगस्य= चतुर्युगप्रमाणस्य,

दशमो भागः= दशमांशः,

चतुस्त्रिद्ध्येकसंगुणः= चतुस्त्रिद्व्येकैः क्रमेण गुणितः ।

क्रमात्= गुणक्रमात्,

कृतयुगादीनां= कृतत्रेताद्वापरकलियुगानां मानं स्यात् ।

स्वकः= आत्मीयः,

षष्ठांशः= षष्ठो विभागः सन्ध्ययोः, आद्यन्तसन्ध्ययोः मानं स्यात्। आद्यन्तसन्ध्ययोरैक्यकालो भवतीत्यर्थः ॥17

अथ कल्पमानार्थ मनुमानं तत्सन्धिमानं चाह—

युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते ।

कृताब्दसंख्या तस्यान्ते सन्धिः प्रोको जलप्लवः॥18॥

युगानां= महायुगानां,

सैका= एकेन सहिता,

सप्ततिः= सप्ततिसंख्या,

इह= मूर्तकाले,

मन्वन्तरं= मन्वारम्भतत्समाप्तिकालयोरन्तरकालमानमित्यर्थः। उच्यते= कथ्यते। तस्यान्ते= तस्य मनोरन्ते,

कृताब्दसंख्या= कृतयुगवर्षसंख्या,

जलप्लवः= जलस्य प्लवः । जलपूर्णा सकला पृथ्वी भवतीत्यर्थः ।

सन्धिः=  भूत भावि मन्वोरन्तिमादिसन्धिरूपैक कालेन समः,

प्रोक्तः= कथितः ॥18॥

अथ कल्पप्रमाणं सविशेषमाह—

ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश ॥

कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः ॥19॥

। कल्पे=  कल्पकाले,

ते=  एकसप्ततिरूपाः,

मनवः=  स्वा,

16 सूर्यसिद्धान्त सं ।

[1

यम्भुवाद्याः,

ससन्धयः=  स्वस्वसन्धिसहिताः,

चतुर्दश=  चतुर्दशसंख्याकाः,

ज्ञेयाः= ज्ञातव्याः । स्वसन्धियुक्तचतुर्दशमनुभिः कल्पः स्यादित्यर्थः ।

कल्पादौ=  कल्पस्यादौ,

कृतप्रमाणः= ,

कृतयुगमितः,

पञ्चदशः=  पञ्चदशकः,

सन्धिः=  सन्धिकालः ।

स्मृतः=  कथितः ॥ 19 ॥

अथ ब्रह्मणो निदरात्र्योः प्रमाणमाह—

इत्थं युगसहस्रेण भूतसंहारकारकः ॥

कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती ॥20॥

इत्थं=  पूर्वोक्त गणनाप्रकारेण,

युगसहस्रेण=  युगानां सहस्रसंख्यया,

भूतसंहारकारकः=  जीवानां संहारकर्ता। ब्राह्मलयात्मक इत्यर्थः ।

कल्पः=  कल्पकालः,

ब्राह्मं=  ब्रह्मसम्बन्धि,

अहः=  दिनं,

प्रोक्तं=  कथितम् ।

तस्य=  ब्रह्मणः,

तावती= तावत्प्रमाणा । युगसहस्रामितेत्यर्थः ।

शर्वरी=  रात्रिः स्यात् । कल्पद्वयेन ब्रह्मणोऽहोरात्रं भवतीति फलितार्थः ॥ 20 ॥

अथ ब्रह्मण आयुःप्रमाणं गतायुःप्रमाणं चाह—

परमायुः शतं तस्य तयाहोरात्रसंख्यया ॥

आयुषोऽर्धमितं तस्य शेषकल्पोऽयमादिमः ॥21॥

। तस्य=  ब्रह्मणः,

तया=  पूर्वोक्तया,

अहोरात्रसंख्यया=  अहोरात्रमित्या । कल्पद्वयरूपयेत्यर्थः ।

शतं=  शतवर्षमितं,

परमायुः=  पूर्णायुः जनीहीति शेषः ।

तस्य=  ब्रह्मणः,

आयुषः=  शतवर्षरूपस्य,

अर्थं=  पञ्चाशद्वर्षमितम्,

इतं=  गतम् ।

अयं=  वर्तमानः,

अदिमः=  आदिभूतः । प्रथम इत्यर्थः,

शेषकल्पः=  शेषायुर्दायस्य उत्तरार्धस्य प्रथमदिवसो वर्तमान इति फलितार्थः ॥ 21 ॥

19 सूर्यसिद्धान्त सं ॥ [1

अथ वर्तमानेऽस्मिन्दिवसेऽप्येतद्भतमित्याह—

कल्पादस्माच्च मनवः षड् व्यतीताः ससन्धयः।

वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः ॥ 22 ॥

अस्मात्=  वर्तमानत्,

कल्पात्=  ब्रह्मदिनात्, षट्=  षट्संख्याकाः,

मनवः=  एकसप्ततियुगरूपाः,

ससन्धयः=  स्वसन्धिभिः सहिताः, सप्तसन्धिभिः साहितां इत्यर्थः,

व्यतीताः=  गताः ।

वैवस्वतस्य= वैवस्वताख्यस्य,

मनोः= वर्तमानमनोरित्यर्थः,

युगानां=  महायुगानां,

त्रिघनः=  त्रयाणं घनः सप्तविंशतिरित्यर्थः ।

गतः=  अतीतः,

च=  समुचये ॥ 22 ॥

अथ वर्तमानयुगस्यापि गतमेतदिति वदन्नभिमतकालेऽग्रतो वर्षगणः कार्य इत्याह—

अष्टाविंशाद्युगादस्माद्यातमेतत्कृतं युगम् ।

अतः कालंप्रसंख्याय संख्यामेकत्रपिण्डयेत् ॥23॥

। अस्मात्=  वर्तमानात्,

अष्टाविंशात्=  अष्टाविंशतितमात् ।

युगात्=  महायुगादित्यर्थः,

एतत्=  साम्प्रतं स्थितं

,

कृतं युगं=  कृतयुगमित्यर्थः,

यातं=  गतम् ।

अतः=  कृतयुगान्तादनन्तरमभिमतकाले,

कालं=  वर्षात्मककालं,

प्रसंख्याय=  गणकेन गणयित्वा,

संख्यां=  मन्वादीनां गतवर्षसंख्याम्,

एकत्र=  एकस्थाने,

पिण्डयेत्=  संकलनं कुर्यात् ॥ 23 ॥

अथ कल्पादितो ग्रहादिभचक्रनिर्माणकाल ग्रहगतिप्रारम्भरूपमाह—

ग्रहर् क्षदेवदेत्यादि सृजतोऽस्य चराचरम्

कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः ॥24॥ 47400

ग्रहर् क्ष देवदैत्यादि=  खेटनक्षत्रामरासुर मानव राक्षस पृथ्वी पर्वत वृक्षादिकं,

चराचरं=  स्थावरजङ्गमात्मकं जगत्,

सृजतः=  सृजतीति सृजन् तस्य ।

अस्य=  जगन्निर्मातुः,

वेधसः=  ब्रह्मणः,

शतघ्नाः=  शतसंख्यागुणिताः,

कृताद्रिवेदाः=  चतुःसप्तत्यधिकचतुःशतानि 47400,

दिव्याब्दाः=  दिव्यवर्षाणि,

गताः=  व्यतीताः ॥ 24॥

अथ ग्रहपूर्वगत्युपपत्तौ कारणमाह—

पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः ।

जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः 25 ॥

। पश्चात्=  पश्चिम दिगभिमुखं,

नक्षत्रैः=  तारकादिभिः सह,

अतिजवात्=  प्रवहवायुजनितसत्वरगतिवशात्,

सततं=  निरन्तरं,

व्रजन्तः=  गच्छन्तः,

स्वमार्गगाः=  स्वस्वकक्षावृत्तस्थाः नक्षत्रैः,

जीयमानाः=  पराजिताः सन्तः,

ग्रहाः=  सूर्यादिखेटाः,

तुल्यमेव=  सममेव,

लम्बन्ते=  स्वस्थानात्पूर्वदिशि लम्बायमाना भवन्तीति । अयमर्थः ।

यदेतद्भचक्रं सखेचरं भ्रमत् दृश्यते तद्विश्वसृजादौ सृष्ट्वा रेवतीतारायां गगने निवेशितम् । तत्र प्रवहो नाम वायुः । स च नित्यं प्रत्यग्गतिः । तेन समाहतं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमणे प्रवृत्तम् । अत‌एव ग्रहाणां प्रत्यग्गतिः । यत एकेनाहा भमण्डलस्य परिवर्तः । एवं चातिशीघ्रं नक्षत्रैः सह पश्चिमादिशं यान्तो ग्रहाः नक्षत्रैरश्विन्यादिभिरेव जीयमाना लम्बन्ते । पूर्वदिशं गच्छन्तीत्यर्थः । एतदुक्तं भवति । एकस्मिन् दिने नक्षत्रेण सहोदितो ग्रहस्तेन सह भ्रमण कृत्वा पुनर्द्वितीयदिने तन्नक्षत्र विहाय लम्बते । नक्षत्रोदयानन्तरं तस्योदयो भवत्यंतो ग्रहस्य प्राग्गतिः । यदा कस्मिश्चिद्दिने चन्द्रोऽश्विनीनक्षत्रे दृष्टः स एवाग्रिमदिने भरण्यां दृश्यते । अश्विनीनक्षत्रं तूदपेक्षया पश्चिमदिशं गतमतो ग्रहाणां प्राग्गतित्वं सिद्धम् ॥ 25 ॥

अथात एव ग्रहाणां लोके प्राग्गतित्वं सिद्धमित्यत अह—

प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः ।

परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जते ॥ 26 ॥

अतः=  अवलम्बनात्,

तेषां=  ग्रहाणां,

प्राग्गतित्वं= 

22 सूर्यसिद्धान्त सं ।

[1

पूर्वदिशि गतिः गमनं येषां ते प्राग्गतयस्तद्भावः प्राग्गतित्वं सिद्धम् ।

भगणैः=  वक्ष्यमाणैः,

प्रत्यहं=  प्रतिदिनं,

गतिः=  प्राग्गमनरूपा ज्ञेया ।

परिणाहवशात्=  परिणाहः कक्षापरिधिस्तद्वशात्तदनुरोधात्,

भिन्ना=  कलागतिरत्यल्पा न्यूनाधिका भवतीत्यर्थः, तद्वशात्=  न्यूनाधिका या कलागतिस्तद्वशात्,

भानि=  राशीन्,

भुञ्जते=  भोगं कुर्वते । ग्रहा इति शेषः । ग्रहाणां राश्यादिभोगज्ञानार्थमियमेव भिन्नागतिरुपयुक्ता नैकरूपेति भावः ॥ 26 ॥

अथ भभोगे विशेषं वदन् वक्ष्यमाणभगणस्वरूपमाह—ज़

शीघ्रगस्तान्यथाल्पेन कालेन महताल्पगः ॥

तेषां तु परिवर्तेन पौष्णान्ते भगणः स्मृतः ॥ 27 ॥

अथ=  शब्दः पूर्वोक्तेर्विशेषसूचकः ।

शीघ्रगः=  शीघ्रगतिग्रहश्चन्द्रादिः,

तानि=  भानि नक्षत्राणिच,

अल्पेन=  लघुना,

कालेन=  समयेन भुङ्क्त इति शेषः ।

अल्पगः=  मन्दगतिर्ग्रहः शनैश्चरादिः,

महता=  बहुकालेन भुनक्ति ।

तेषां=  भानां,

परिवर्तेन=  भ्रमणेन । तुकाराद्ग्रहगतिभोगजनितेन,

पौष्णान्ते= 

रेवत्यन्ते । अश्विनीतो रेवत्यन्त्यमित्यर्थः ।

भगणः=  भचक्रभोगाः,

स्मृतः=  कथितः ।

यद्यपि क्रान्तिवृत्तस्थद्वादशराशिषु यत् स्थानमारभ्य चलितो ग्रहः पुनस्तत्स्थानं यदा प्राप्नोति स चक्रभोगो भवति,

तथापि ब्रह्मणा सृष्ट्यादौ क्रान्तिवृत्ते रेवतीयोगतारायां स्वस्वकक्षानुरोधेनोर्ध्वाधः क्रमेण ग्रहाणां निवेशनं कृतमतस्तदवधितश्चक्रभोगं कृतमिति भावः ॥ 27 ॥

अथ विकलादिपरिभाषया भगणस्वरूपमाह—

विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते ॥

तत्रिंशता भवेद्राशिर्भगणो द्वादशैव ते ॥ 28॥

विकलानां=  विलिप्तानां,

षष्ट्या=  षष्टिसंख्यया,

कला=  लिप्तैका भवति ।

तत्षष्ट्या=  कलानां षष्ट्या,

भागः=  अंशः,

उच्यते=  कथ्यते ॥ तत्त्रिंशता=  भागानां त्रिंशत्संख्यया,

राशिः=  भं,

भवेत्=  स्यात् ।

ते=  राशयः,

द्वादशैव=  द्वादशसंख्यारूपैव,

भगणः= द्वादशराशिभोगात्मकः परिवर्तः कथितः ॥ 28॥

24सूर्यसिद्धान्त सं ।

1

अथ भगणान्विवक्षुः प्रथमं सूर्यबुधशुक्राणां भौमगुरुशनिशीघ्रोच्चानां च भगणानाह—

युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ॥

कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम् 29 ॥

सौरददीपिका ।

युगे=  एकस्मिन् महायुगे,

सूर्यज्ञशुक्राणां=  सूर्यबुधभृगूणां,

खचतुष्करदार्णवाः=  खाभ्रखांभ्रद्विरामवेदप्रमिताः ।

पूर्वयायिनां=  पूर्वगामिनाम्,

कुजार्किगुरुशीघ्राणां=  भौमशनिबृहस्पतीनां यानि शीघ्रोच्चानि तेषामपि पूर्वोक्तप्रमिता एव,

भगणाः=  द्वादशराशोभोगात्मकाः कथिताः ॥ 29 ॥

अथ चंद्रभौमयोर्भगणानाह—

इन्दो रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः ॥

दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु॥ 30 ॥

इन्दोः=  चन्द्रस्य,

रसाग्नित्रित्रीषुसप्तभ्रूधरमार्गणाः=  षड्वह्नित्रिहुताशपञ्चभूधराद्रिपञ्चमिताः ।

कुजस्य तु=  भौमस्य तु। दस्रत्र्यष्टरसाङ्काक्षिलोचनानि=  दन्ताष्टषडङ्काकृतिमिता भग

णः सन्ति ॥ 30 ॥

अथ बुधशीघ्रोच्चगुर्वोर्भगणाह—

बुधशीघ्रस्य शून्यर्तुखाद्वित्र्यङ्कनगेन्दवः ॥

बृहस्पतेः खदस्राक्षिवेदषड् वह्नयस्तथा ॥ 31 ॥

। बुधशीघ्रस्य=  बुधशीघ्रोच्चस्य,

शून्यर्तुखाद्रित्र्यङ्गनगेन्दवः=  षष्टिसप्ततित्र्यङ्कात्यष्टिमिता भगणाः सन्ति ।

तथा=  बिम्बात्मकस्य,

बृहस्पतेः=  गुरोः,

खदस्राक्षिवेदषड्वह्नयः=  नखद्विवेदषड्रामप्रमिता भगणाः सन्ति ॥ 31 ॥

अथ शुक्रशीघ्रोच्चशन्योर्भगणानाह—

सितशीघ्रस्य षट् सप्तत्रियमाश्विखभूधराः ।

शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः ॥ 32 ॥

सितशीघ्रस्य=  शुक्रशीघ्रोच्चस्य,

षट् सप्तयमाश्विखभूधराः=  षट्सप्तत्रिद्विद्विखसप्तमिताः,

शनेः=  शनैश्चरस्य

26 सूर्यसिद्धान्त 1

भुजङ्गषट् पञ्चरसवेदनिशाकराः=  अष्टषट्पञ्चरसेन्द्रमिता भगणाः सन्ति ॥ 32 ॥

अथ चन्द्रस्योच्चपातयोर्भगणाना—

चन्दोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे ॥

वामं पातस्य वस्वग्नियमाश्विशिखि दस्रकाः॥33॥

चन्द्रोच्चस्य=  चन्द्रमन्दोचस्य,

अग्नि शून्याश्विवसु सर्पार्णवाः=  रामनखाष्टाष्टवेदमिताः,

युगे=  महायुगे भगणाः सन्ति ।

पातस्य=  चन्द्रपातस्य,

वामं=  पश्चिमगत्या विलोमाः,

वस्वग्नियमाश्विशिखिदस्त्रकाः=  अष्टरामाकृतिरामद्विमिता भगणा महायुगे ॥ 33 ॥

अथ युगे नाक्षत्रदिवस स्तत्स्वरूपावगमाय ग्रहसावनदिनस्वरूपं स्वसंख्याज्ञानहेतुकं चाह—

भानामष्टाक्षिवस्वद्रि त्रिद्विद्व्यष्टशरेन्दवः ।

भोदया भगणैः स्वैः स्वैरूनाः स्वस्वोदया युगे ॥34॥

। भानां=  नक्षत्राणां भगणाः स्वतो गत्यभावात्प्रवह वायुना,

पश्चिमभ्रमणात्स्वादिनतुल्या भवन्ति ।

अष्टाक्षिवस्वद्रित्रिद्विद्वयष्टशरेन्दवः=  अष्टद्वयष्टनगाग्निजातिगजदिनमिताः,

भोदयाः=  नाक्षत्रादिवसा भवन्ति ।

स्वैः स्वैः=  स्वकीयैः स्वकीयैः,

भगणैः=  पूर्वोक्तैः,

ऊनाः=  वर्जिताः सन्तः,

युगे=  महायुगे,

स्वस्वोदयाः=  निजनिजसावनदिवसा भवन्ति । एवमभीष्टकालेऽपिग्रहगत भगणादिनोना ग्रहसावनदिवसा अभीष्टा भवन्ति ॥ 34॥

अथ वक्ष्यमाणचान्द्रदिवसाधिमासयोः संख्याज्ञानहेतुकं स्वरूमाह—

भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम् ॥

राविमासोनितास्ते तु शेषाः स्युरधिमासकाः ॥ 35॥

सूर्येन्दुभगणान्तरं=  सूर्यचन्द्रभगणयोरन्तरं,

शशिनः=  चन्द्रस्य,

मासाः भवन्ति=  चान्द्रमासाः भवन्ति ।

ते=  चान्द्र

28सूर्यसिद्धान्त सं ।1

मासाः,

रविमासोनिताः=  रविमासैरूनिताः सन्तः,

शेषाः=  अवशिष्टाः,

अधिमासकाः=  अधिमासा एव,

स्युः=  भवन्ति ।

तु=  तुकारादत्र द्वादशगुणितं रविभगणतुल्या वक्ष्यमाणा रविमासा ग्राह्यः ॥ 35 ॥

अथ वक्ष्यमाणावमसूर्यसावनयोः स्वरूपमाह—

सावनाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः ॥

उदयादुदयं भानोर्भूमिसावनवासराः ॥ 36 ॥

चन्द्रेभ्यः=  चन्द्रसम्बन्धिभ्यः,

द्युभ्यः=  दिवसेभ्यः,

सावनाहानि=  सावनदिनानि,

प्रोज्झ्य=  त्यक्त्वा शेषं,

तिथिक्षयाः=  न्यूनाहानि भवन्तीति शेषः। तिथिशब्देनात्र सावनदिवसो ज्ञेयः । ननु भोदया भगणैः इत्यादिना पूर्वं सर्वेषां सावनदिवसा उक्त्वा इत्यत्र कस्य ग्राह्या इत्यतः सूर्यसावनस्वरूपकथनच्छलेनोत्तरमाह—,

भानोः=  सूर्यस्य,

उदयात्=  उदयकालात्"


30 सूर्यसिद्धान्त सं ।

1

, उदयम्=  अव्यवहितोदयकालपर्यन्तमेको दिवसः । एतादृशाः,

भूमिसावनवासराः=  कुदिनानि भवन्ति ॥ 36 ॥

अथ सावनदिनप्रमाणं चान्द्रदिनप्रमाणं चाह—

वसुद्व्यष्टाद्रिरूपांक सप्ताद्रितिथयो युगे ।

चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः॥37॥

युगे=  एकस्मिन्महायुगे,

वसुद्व्यष्टाद्रिरूपांक सप्ताद्रितिथयः=  अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिताः सावनादिवसाः सौरदिवसापरनामधेयाः भवन्तीति, शेषः ।

खाष्टखखव्योमखाग्निखर्तुनिशाकराः=  शून्याष्टशून्यचतुष्कत्रिखषड्रूपमिताः,

चान्द्राः=  चन्द्रदिवसा भवन्ति ॥ 37 ॥

अथाधिमासावमयोः संख्यामाह—

षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः ॥

तिथिक्षया यमार्थाश्विद्व्यष्टव्योमशराश्विनः ॥38॥

,

षड्वह्नित्रिहुताशाङ्कतिथयः=  रसत्रित्रिगुणनवपञ्चभूमिताः,

अधिमासकाः=  अधिमासा एवाधिमासका भवन्ति । चकाराद्युगसम्बन्धिनो ज्ञेयः ।

यमार्थाश्विद्वयष्टव्योमशराश्विनः=  द्विपञ्चद्विद्व्यष्टखपञ्चद्विमिताः,

तिथिक्षयाः=  दिनक्षयाः, अवमां नीत्यर्थः । भवन्ति ॥ 38॥

रविमाससंख्या क्वहांश्चाह—

खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः ॥

भवन्ति भोदया भानुभगणैरूनिताः क्वहाः ॥39॥

। खचतुष्कसमुद्राष्टकुपञ्च=  खाभ्रखाभ्रवेदवसुरूपशरमिताः,

रविमासकाः=  सूर्यमासाः सन्ति ।

भानुभगणैः=  पूर्वोक्तैः सूर्यभगणैः,

ऊनिताः=  वर्जिताः,

भोदयाः=  भवासराः,

क्वहाः=  भूदिनानि,

भवन्ति=  स्युः ॥ 39 ॥

अथ कल्पे भगणादीनाह—

अधिमासोनरात्र्युक्षचान्द्रसावनवासराः ।

एते सहस्रगुणिताः कल्पे स्युर्भगणादतः 40 ॥

32 सूर्यसिद्धान्त सं ।

एते=  प्रागुक्ताः ।

भगणादयः=  भगणाः सूर्यादिभगणा आदिर्येषां ते भगणादयः,

अधिमासोनरात्र्युक्षचान्द्रसावनवासराः=  अधिमासाश्चोनरात्रयश्चाधिमासोनरात्रयः । ऋक्षं च

चान्द्रं च सावनं चर्क्ष चान्द्रसावनान्येतेषां वासरा ऋक्षचान्द्रसावनवासराः । अधिमासोनरात्र्यश्चर्क्षचान्द्रसावनवासराश्च ।

सहस्रगुणिताः=  सहस्रेण ताडिताः सन्तः,

कल्पे=  ब्रह्मदिने,

स्युः=  भवेयुः ॥40॥

अथ विचन्द्रसूर्यादिग्रहाणां मन्दोच्चपातभगणानाह—

प्राग्गतेः सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः ॥

कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः ॥ 41 ॥

खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषवः ॥

गोऽग्नयः शनिमन्दस्य पातानामथ वामतः ॥42॥

मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ॥

कृताद्रिचन्द्रा जैवस्य त्रिखाङ्कश्च भृगोस्तथा ॥43॥

शनिपातस्य भगणाः कल्पे यमरसर्तवः ॥

भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः ॥ 44॥

। प्राग्गतेः =  पूर्वगतेः,

सूर्यमन्दस्य=  अर्कमन्दोच्चस्य,

कल्पे=  ब्रह्मदिने,

सप्ताष्टवह्नयः=  सप्ताष्टराममिताः,

भगणाः=  द्वादशराशिभोगात्मकाः प्रोक्ताः । प्राग्गतेः कल्पे भगणा इत्येषां प्रत्येकं सम्बन्धः ।

कौजस्य=  भौमसम्बन्धिनः मन्दोच्चस्य,

वेदखयमाः=  चतुरधिकं शतद्वयम् ।

बौधस्य=  बुधमन्दोच्चस्य,

अष्टर्तुवह्नयः=  अष्टषष्टयधिकशतत्रयम् ।

जैवस्य=  गुरुमन्दोच्चस्य,

खखरन्थ्राणि=  नवशतम् ।

शौक्रस्य=  शुक्रमन्दोचस्य,

अर्थगुणेषवः=  पञ्चत्रिंशदधिकपञ्चशतम् ।

शनिमन्दस्य=  शनिमन्दोच्चस्य,

गोऽग्नयः=  एकोनचत्वारिंशत् प्रोक्ताः ।

अथ=  अनन्तरं,

पातानां=  भौमादिपातानां,

वामतः=  पश्चिमगत्या,

भगणाः=  उच्यन्त इति शेषः ।

कौजस्य=  कुजसम्बन्धिनः । तुकारात्पातस्य भौमपातस्येत्यर्थः,

मनुदस्राः=  चतुर्दशाधिकशतद्वयम् ।

बौधस्य=  बुधपातस्य,

अष्टाष्टसागराः=  अष्टाशीत्यधिकं चतुःशतम् ।

जैवस्य=  गुरुपातस्य,

कृताद्रिचन्द्राः=  चतुःसप्तत्यधिकशतम् ।

तथा भृगोः=  शुक्रसम्बन्धिनश्चकारात् पातस्य शुक्रपातस्येत्यर्थः,

त्रिखाङ्काः=  त्र्युत्त्ररनवशतम् ।

शनिपातस्य= मन्दपातस्य,

यमरसर्तवः=  द्विषष्ट्यधिकं षट्शतं,

कल्पे=  ब्रह्मदिने,

भगणाः=  भचक्राणि,

चन्द्रोच्चपातयोः=  चन्द्रस्य मन्दोच्चपातयोः,

भगणाः= भचक्राणि,

अत्र=  अस्मिन्नधिकारे,

पूर्वं=  ग्रहयुगभगणकथनप्रसङ्गे,

प्रोक्ताः=  कथिताः ।

एव=  एवकारो विस्मरणानिरासार्थकः॥ 41 ॥ 42 ॥

43 ।

44॥

अथ सृष्टिमारभ्य कृतयुगान्तं यावद्गताब्दज्ञानमाह—

षण्मनूनां तु सम्पिण्ड्यकालं तत्सन्धिभिः सह ॥

कल्पादिसन्धिना सार्धं वैवस्वतमनोस्तथा ॥45॥

युगानां त्रिघनं यातं तथा कृतयुगं त्विदम् ।

प्रोज्झ्यसृष्टेस्ततः कालं पूर्वोक्तं दिव्यसंख्यया॥46॥

सूर्याब्दसंख्यया ज्ञेयाः कृतस्यान्ते गता अमी ॥

खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः ॥ 47 ॥

। षण्मनूनां=  स्वायम्भुवादिगतानां षण्मनूनां,

कालं=  सौरवर्षात्मकं,

तत्सन्धिभिः=  तेषां षण्मनूनां षट्सन्धिप्रमाणैः,

सह=  सार्द्धं,

कल्पादिसन्धिना=  कल्पारम्भीयसंधिना कृत

युगमितयेत्यर्थः,

सार्द्धं=  सहितं,

सम्पिण्ड्य=  एकीकृत्य,

तु=  तुकारादायुषोऽर्धमितं तस्येत्यस्य निरासः ।

वैवस्वतमनोः=  वर्तमानसप्तमवैवस्वताख्यमनोः,

युगानां=  महायुगानां,

त्रिघनं=  त्रयाणां घनं सप्तविंशतिमित्यर्थः,

यातं=  गतम् ।

तथा=  एकीकृत्य,

इदं=  वर्तमानाष्टाविंशतियुगान्तर्गतं,

कृतयुगं=  सत्ययुगं,

तथा=  गतत्वेनैकीकृत्य,

ततः=  सिद्धाङ्कात्,

सृष्टेः कालं=  सृष्टिनिर्माणकालं,

दिव्यसंख्यया=  दिव्यमानेन,

पूर्वोक्तं=  प्राकथित कालं,

सूर्याब्दसंख्यया=  सौरवर्षमानेन षट्यधिकशतत्रयगुणितेन दिव्यमानेनेत्यर्थः,

प्रोज्झ्य=  त्यक्त्वा चः समुच्चयार्थोऽनुसन्धेयः,

अमी=  अवशिष्टाः,

खचतुष्कयमाद्य ग्निशररन्र्धनिशाकराः=  खाभ्रखाभ्रद्विसप्तत्रिपञ्चनवैकमिताः,

कृतस्यान्ते=  कृतयुगस्यावसाने,

गताः=  अतीताः,

ज्ञेयः=  बोध्याः ॥ 45 ॥ 46 ॥ 47 ॥

भा‌अषाभाष्य। अपनी सन्धियों के सहित छः मनु‌ओं का समय,

और कल्प के आरम्भसन्धि का काल और वर्तमान सातवें वैवस्वत मनु के सत्ता‌ईस 27 महायुगों का प्रमाण और यह वर्तमान कृतयुण प्रमाण इन सबों के योग मे पहले कहा हु‌आ सृष्टिका निर्माण काल घटा देने से स्टष्टि के ओरम्भ से लेकर् कृतयुग के अन्त तक 1953720000 गत सौरवर्ष होते है 45 ॥ 46 ॥ 47 ॥ अपनी 2 सन्धियों के सहित युगों का मान और है सृष्टि के आरम्भ से कृतयुग के अन्त तक के वर्षों का प्रमाण नीचे लिखे चक्र से स्पष्ट मालूम होता है।




, दिव्यवर्षप्रमाण से युगादिमानबोधक चक्र= 

युगनाम । कृतयुग ।

त्रेतायुग ।

द्वापरयुगा। कलियुग ।

महायुग,

चतुयुग=  ।


युगप्रमाण ।4000।

3000।

2000।

1000 । 10000

आद्यन्तसन्धिप्रमाण ।

800 ।

600 ।

400।

200 ।

2000

ससन्धियुगप्रमाण ।

4800।1200 ।

2400।

1200।

12000


सौरवर्षप्रमाण से

युगप्रमाण

1440000। 1080000। 720000 ।

360000 ।

3600000 ।


आद्यन्तसन्धिप्रमाण ।288000 ।

216000 ।

144000 ।

72000 ।

720000।

ससन्धियुगप्रमाण।1728000 ।

1296000। 864000 ।

432000 ।4320000 ।

सृष्टि के आरम्भ से कृतयुग के अन्तपर्यन्त सौरवर्षप्रमाणबोधक चक्र

6 मनुप्रमाण=  ।

6*306720000= ।1840320000

7सन्धिप्रमारशु=  ।

7*1728000=  ।

12096000 ।


27 महायुगप्रमाण=  ।

27* 4320000 = । 116640000।

कृतयुगप्रमाण । = । 1728000

सर्वयोग = = । 1970784000।

सृष्टिनिर्माणकाल ।

= । 1706400

शेष सिद्धान्तोक्त स्वचतुष्क इत्यादि,

सौरवर्ष=  ।

1953720000

एकमनुप्रमाण * महायुगप्रमाण 71= 306720000


कल्पप्रमाण महायुगप्रमाण * 1000= 4320000000

अथाभीष्टकालेऽहर्गणसाधनं ततो दिनमासाब्दप प्रतिज्ञां—

अत ऊध्वममी युक्ता गतकालाब्दसंख्यया ॥

मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः ॥ 48॥

पृथक्स्थास्तेऽधिमासघ्नाः सूर्येमासविभाजिताः ॥

लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः ॥ 49 ॥

द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः ॥

लब्धोनरात्रिरहिता लङ्कायामार्थरात्रिकः ॥ 50 ॥

सावनो द्युगणः सूर्यद्दिनमासाब्दपास्ततः ॥

सप्तभिः क्षयितः शेषः सूर्याद्यो वासरेश्वरः ॥ 51

अतः=  कृतयुगान्तात्,

ऊर्ध्वम्=  उपर्यनन्तरामित्यर्थः,

गत कालाब्दसंख्यया=  इष्टकाले गतसौराब्दसंख्यया,

अमी=  खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकरमिताः,

युक्ताः=  सहिताः सन्तोऽ भीष्टकाले गतसौराब्दा भवन्ति । एते,

मासीकृताः=  द्वादशगुणिता इत्यर्थः । द्वादशमासात्मकत्वादब्दस्य ॥ मधुशुक्लादिभिः= । मधुशुक्ल श्चैत्रशुक्लपक्ष आदिर्येषान्ते मधुशुक्लादयस्तैः,

गतैः=  यातैः,

मासैः=  माससंख्याभिः,

युताः=  योजिताः । अर्थाचैत्रशुक्तप्रतिपद मारभ्य ये गतमासास्तैर्युक्ताः कार्याः ।

ते=  सिद्धाः सौरमासाः,

पृथक्स्थाः=  स्थानद्वये स्थाप्याः । तत एकत्र,

अधिमासघ्नाः= युगाधिमासैर्गुण्याः,

सूर्यमासविभाजिताः=  युगसूर्यमासैर्भक्ताः लब्धाधिमासकैः, प्राप्ताधिमासकैर्निरग्रैः,

युक्ताः=  द्वितीयस्थाने योज्या इत्यर्थः । एवं ते चान्द्रमासाः भवन्ति । ततस्ते,

दिनकृत्य=  त्रिंशता संगुण्येत्यर्थः ।

दिनान्विताः=  वर्तमानमासस्य

1 सूर्यसिद्धान्त सं ।

[38

शुक्लप्रतिपदमारभ्य गततिथिभिर्योज्याः । स चान्द्रोऽहर्गणः स्यात् । एते,

द्विष्ठाः=  स्थानद्वय स्थाप्याः । एकत्र,

तिथिक्षयाभ्यस्ताः=  युगावमैर्गुणिताः,

चान्द्रवासरभाजिताः=  युगचान्द्राहैर्भाज्याः,

लब्धोनरात्रिरहिताः=  प्राप्तैर्गतावमैरन्यत्ररहिताः सन्तः,

लङ्कायां=  लङ्कादेशे,

आर्धरात्रिकः=  अर्धरात्रकालिकः,

सावनः=  सावनमानात्मकः,

द्युगणः=  अहर्गणः स्यादिति शेषः ।

ततः=  साधिताहर्गणात्,

सूर्यात्=  सूर्येमारभ्य,

दिनमासाब्दपाः=  वारपति,मासपति,वर्षपतयो भवन्ति । तत्रायमहर्गणः,

सप्तभिः=  सप्तसंख्याभिः,

क्षयितः=  शेषितः कार्यः सप्तभिर्विभाज्य शेषितः कार्य इत्यर्थः,

शेषः=  अवशिष्टः,

सूर्याद्यः=  अर्कवारादिफः,

वासरेश्वरः=  वारस्वामी गतो भवति । तदग्रिमो वर्तमानवारेश्वर इत्यर्थतः सिद्धम् ॥ 48॥ 49 ॥ 50 ॥ 51 ॥

अथ मासवर्षपयोरानयनमाह—

मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम् ॥

सप्तोद्धृतावशेषौ तु विज्ञेयौ मासर्वैर्षपौ ॥ 52 ॥

। अहर्गणात्,

मासाब्ददिनसंख्याप्तं=  मासदिनैरब्ददिनैश्च भागेन लब्ध फलं,

द्वित्रिघ्नं=  द्वाभ्यां त्रिभिश्च गुणितं कार्यं,

रूपसंयुतं=  रूपेणैकसंख्यया युतं,

सप्तोद्धृतावशेषौ=  सप्तोद्धृतेन फलत्यागेनावशिष्टौ,

मासवर्षपैः= मासवर्षस्वामिनौ,

विज्ञेयौ=  ज्ञातव्यौ।

तु=  तुकाराद्यक्रमेण वारेश्वरगणना तत्क्रमेणानयोर्गणना कार्या । परमत्र वर्तमानमासवर्षपौ ज्ञेयौ ॥ 5.2 ॥

अथ ग्रहानयनमाह—

यथास्वभगणाभ्यस्तो दिनराशिः कुवासेरैः ॥

विभाजितो मध्यगत्यां भगणादिर्ग्रहो भवेत् ॥ 53 ॥

दिनराशिः=  अहर्गणः,

यथास्वभगणाभ्यस्तः=  यत्कालिकैः. स्वस्वभगणैर्गुणितः,

कुवासरैः=  । तात्कालिकसावनदिनैः,

42 सूर्यसिद्धान्त सं ॥

विभाजितः=  भक्तः फलं,

मध्यगत्या=  मध्यमगतिमानेन...!,

भगणादिः=  भगणं द्वादशराश्यात्मकमादियैस्य स एतादृशः,

ग्रहो भवेत्=  मध्यमो ग्रहः स्यादित्यर्थः ॥ 53 ॥

अथामुं प्रकारमुच्चपातयोरानयनायातिदिशति—

एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः ॥

विलोमगतयः पातास्तद्धचक्राद्विशोधिताः ॥54॥

ये पूर्वयायिनः=  ये पूर्वदिग्गतयः,

स्वशीघ्रमन्दोच्चाः=  स्वेषां ग्रहाणां शीघ्रोश्चमन्दोच्चाः,

प्रोक्ताः=  पूर्वं कथितास्तेऽपि,

एवं=  ग्रहानयनरीत्या साध्याः ।

विलोमगतयः= पश्चिमगतयः,

पाताः=  ग्रहाणां पाताः,

तद्वत्=  ग्रहानयनरीत्या साध्याः । परं ते,

चक्रात्=  द्वादशराश्यात्मकात् ।

विशोधिताः=  वर्जिताः सन्तः पाता भवंन्तीत्यर्थः ॥ 54॥

अथ संवत्सरानयनमाह—

द्वादशाघ्ना गुरोर्याता भगणा वर्तमानकैः ।

राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विजयादयः॥55॥

गुरोः=  अहर्गणानीतगुरोः,

याताः=  गताः,

भगणाः=  सर्वोपरिस्थाः भचक्रभोगाः,

द्वादशघ्नाः=  " द्वादशभिर्गुणिताः,

वर्तमानकैः=  यस्मिन्राशौ गुरुः स्थितस्तत्सहितैः,

राशिभिः=  गणितागतमेषादिराशिभिः,

सहिताः=  युक्ताः,

षष्ट्या=  षष्टिसंख्यया,

शुद्धाः=  भागावशेषिताः सन्तः,

विजयादयः स्युः=  विजयादिसंवत्सराः भवेयुः ॥ 55 ॥

प्रभव आदि 60 संवत्सरोंका नामबोधक चक्रं

1 प्रभवः 21 सर्वजित् 41 प्लवङ्गः

2विभव 22सर्वधारी 42 कीलकः

3 शुक्लः 23विरोधी 43 सौम्यः

4 प्रमोदः 24विकृतः 45 साधारणः

5 प्रजापतिः 25 खरः 45 विरोधिकृत्

6 आंगिरा 26 नन्दनः 46 परिधावी

7 श्रीमुखः 27 विजयः 47 प्रमादी

8 भावः 28जय: 48 आनन्द:

9 युवा 29 मन्मथ 49 राक्षस

10 धाता 30 दुर्मुख: 50 नलः

11ईश्वरः 31हेमलम्बः 51 पिङ्गलः

12 बहुधान्यः 32 विलम्ब 52 कालयुक्तः

13प्रमाथी 33 विकारी 53 सिद्धार्थी

14 विक्रःमः 34 शार्वरी 54 रौद्रः

15 वृषः 35 प्लव: 55दुर्मतिः

16 चित्रभानुः 36 शुभकृत् 53 दुन्दुभिः

67 सुभानुः: 37 शोभकृत् 57 रुधिरोद्गारी

68 तारण 38 क्रोधी 58 रक्ताक्ष:

19 पार्थिवः 36 विश्वविख 56क्रोधनः

20 व्ययः 40 पराभवः 60क्षय

अथ लाघवेन ग्रहानायनमाह—

विस्तरेणैतदुदितं संक्षेपाद्व्यावहारिकम् ॥

मध्यमानयनं कार्यं ग्रहाणामिष्टतो युगात् ॥ 56 ॥

अस्मिन्कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः ॥

विना तु पातमन्दोचा न्मेषादौ तुल्यतामिताः ॥57

एतत्=  ग्रहानायनं,

विस्तरेण=  गणितक्रियाबाहुल्येन,

उदितम्=  उक्तम्,

व्यावहारिकं=  लोकव्यवहारोपयुक्तं,

संक्षेपात्=  अल्पगणितप्रयासात्,

ग्रहाणां=  खेटानां,

मध्यमानयनं=  मध्यममानेन गणितम् ।

इष्टतोयुगात्=  किंचिद्युगं स्वस्वबुध्यापरिकल्प्य ततः,

कार्यं=  पूर्वोक्तप्रकारेणैव कार्यमित्यर्थः ।

अस्मिन्=  इदानीन्तने,

कृतयुगस्य

46 सूर्यसिद्धान्त सं ।

सत्ययुगस्य,

अन्ते=  अवसाने,

मध्यगताः=  मध्यमः,

सर्वेग्रहाः=  सप्तग्रहाः सूर्यादयः,

पातमन्दोच्चान् विना=  पातमन्दोच्चान् विहायार्थात्पातमन्दोञ्चास्तुल्यतां न प्राप्ताः,

मेषादौ=  मेषराशिप्रारम्भे,

तुल्यतां=  समानताम्,

इताः=  प्राप्ताः,

तु=  तुकारादन्यस्थानेऽपि तुल्यतां न प्राप्ता इत्यर्थः ॥ 56 ।

॥ 5.7 ॥

अथोच्चपातयोर्विशेषमाह—

मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः ॥

निरंशत्वं गताश्चान्ये नोक्तास्ते मन्दचारिणः॥58॥

मकरादौ=  मकरादिप्रदेश,

शशाङ्कोच्चं=  चन्द्रस्य मन्दोच्चं कृतयुगान्ते वर्तते ।

तत्पातस्तु=  चन्द्रपातस्तु,

तुलादिगाः=  तुलादौ वर्तते ॥ अन्ये=  अवशिष्टा ये मन्दोच्चपाताः,

मन्दचारिणः=  अल्पगतयः,

उक्ताः=  कथिताः,

ते=  मन्दोच्चादयः,

निरंशत्वम्=  अंशाभावतां,

न गताः=  न प्राप्ताः । चकारात्कृतयुगान्तं बोध्यम्। अत्र यत्तु सूर्यसिद्धान्तस्य सुधावर्षिण्यां, अस्मादग्रेकल्पस्यात्र सहस्रांशोयुगम् इत्यादयो दशश्लोकाः केनचित्सूर्यमतानभिज्ञेन प्रक्षिप्तास्ते च सूर्यमतविद्भिर्हेयाः, इति। इति लिखितं तदत्यन्तमाश्चर्यजनकम् । यत इमे दश

मध्यमधिकं ।

47

श्लोकाः भूधरकृतायां सोपपत्तिकोदाहरणटीकायां दृश्यन्ते । भूधरस्तु

नृसिंहरङ्गनाथाभ्यां प्राचीनः एवं लेखनशैली तुवर्षायुते धृतिघ्ने

नववसुगुणरसरसाः स्युराधिमासाः " इति पञ्चसिद्धान्तिका लेखतोऽपिस्पष्टाः । एतत्सूर्यसिद्धान्तानुपलब्धाः कतिपयश्लोकाः बृहत्संहितायाः भट्टोत्पलविवृतावपि दृश्यन्त इति गणकैर्मध्यस्थबुद्ध्याविचारणीयम् ॥58॥

पूर्वमिष्टयुगाद्ग्रहानयनं यदुक्तकं तत्रैकप्रकारं स्वयमेवाह—

कल्पस्यात्र सहस्रांशो युगं तावत्प्र कीर्त्यते।

चतुर्विंशो युगस्यांशः सूर्याचन्द्रमसोर्युगम् ॥59॥

एकैकमष्टादशभिः सूर्याब्दैरयुताहतैः ।

तत्रार्केन्द्वधिमासार्किशुक्रेन्द्वह्नां निरंशता ॥ 60 ॥

अत्र=  सौरतन्त्रे,

कल्पस्य=  ब्रह्मदिनस्य,

सहस्रांशः=  सहस्रभागे यावत्,

तावत्=  तावत्कालपर्यन्तं,

युगं=  चतुर्युगप्रमाणं,

प्रकीर्त्यते=  प्रोच्यते ।

युगस्य=  । कल्पसहस्रांशस्य,

चतुर्विशोंऽशः=  चतुर्विशत्यंशः,

सूर्याचन्द्रमसोः=  । अर्केन्द्वोः,

युगं=  युगमानं कथितमिति शेषः,

एकैकं=  प्रतियुगमानम्,

अयुताहतैः=  अयुतगुणितैः,

अष्टादशभिः=  वसुचन्द्रमितसंख्याभिः,

सूर्याब्दैः=  अर्कवर्षैर्भवति ।

तत्र=  सूर्याचन्द्रमसोर्युगे,

अर्केन्द्वधिमासार्किशुक्रेन्द्वह्नां=  सूर्यचन्द्राधिमासशनिशुक्रो

४८ सूर्यसिद्धान्त सं ।

च्चचन्द्रदिनानां,

निरंशता=  निःशेषता भवति । अन्येषां तु सशेषतेत्यर्थः ॥ 59 । 60 ॥

तत्र युगे भगणानाह—

चन्द्रस्याङ्गाष्ट वह्न्यङ्गाखजिना भगणाः स्मृताः ॥ सौरमासास्तर्कभूमियमाश्चैवायुताहताः ॥ 61. ॥

अधिमासाः नवाष्टाग्निरसषट्कास्तिथिक्षयाः ॥

षडंशोनाः समुद्राङ्कशून्यार्थकृतखेन्दवः ॥ 62 ॥

रसाद्रिशरतर्काब्धिनगपञ्चरसास्त्विह॥

सषडंशाः कुदिवसा नलिनीरिपुवासराः ॥ 63 ॥

खादितर्केन्दुनन्दाद्रिरसतर्काःस्मृतास्तथा ॥

कुजस्य भगणा राशिचतुष्कसहिता अमी॥ 64 ॥

चन्द्रखाद्रीषुनन्दाः स्युरद्रिखेन्दुरसाः शनेः॥

ज्ञशीघ्रस्य नगाद्र्यग्निसप्तवेदनगास्तथा ॥ 6 ॥

भगणास्ते सषड्भाः स्युर्भगणाः स्युरमीगुरोः ॥

साशाभानि शराद्रीन्दुतिथयो भगणा अमी॥66 ॥

नवगोतत्त्वरन्ध्राक्षिरूह्या दैत्यगुरोस्तथा ॥

शीघ्रोच्चभगणा ज्ञेयास्तदा मन्दोच्चके विधोः॥67 ॥

सार्द्रराशिर्यमाब्ध्याग्निनखाः पातस्य साश्वकाः॥

रसाद्रिरसनन्दाः स्युः सूर्याचन्द्रमसोर्युगे ॥ 68 ॥

सूर्याचन्द्रमसोः=  अर्केन्द्वोः,

युगे=  एकस्मिन्युगे,

चन्द्रस्य=  इन्दोः,

अङ्काष्टवन्ह्यङ्गखजिनाः=  नवाष्टाग्निरसशून्यवेद्यमाः,

भगणाः=  पर्ययाः,

स्मृताः=  कथिताः।स्मृता इति प्रत्येयतं सम्बध्यते। अयुताहताः=  अयुतगुणिताः,

तर्कभूमियमाः=  रसचन्द्राश्विमिताः,

सौरमासाश्च=  अर्कमासाश्च।एवकारण भगणव्यवच्छेदः। नवाष्टाग्निरसषट्काः=  अङ्कवसुत्रिषडर्तुमिताः,

अधिमासाः=  सुप्रसिद्धाः। षडंशोनाः=  षष्ठांशेन रहिताः,

समुद्राङ्कशून्यार्थकृतखेन्दवः=  वेदनवखपञ्चसमुद्रशून्येन्दवः,

तिथिक्षयाः=  अवमानि। इह= अस्मिन्युगे,

सषडंशाः=  षष्ठांशसहिताः,

रसाद्रिशरतर्काब्धिनगपञ्चरसाः=  ऋतुसप्तपञ्चषड्वेदसप्तशररसाः,

कुदिवसाः=  भूदिनानि।  तथा=  तस्मिनेव सूर्याचन्द्रमसोर्युगे,

खाद्रितर्केन्दुनन्दाद्रिरसतर्काः= ।शून्यसप्तषड्रूपनवसप्तरसरसाः,

नलिनीरिपुवासराः=  नलिन्या रिपुश्चन्द्रस्तस्यै वासराश्चान्द्रदिनानीत्यर्थः स्मृताः कथिताः।  राशिच्चतुष्कसहिताः=  राशीनां चतुष्कं राशिचतुष्कं

50 सूर्यसिद्धान्त सं।

तेन सहिताः युक्ता राशिचतुष्टययुक्ता इत्यर्थः,

अमी=  अग्रिमश्लोकोक्ताः,

चन्द्रखाद्रीषुनन्दाः=  रूपशून्यसप्तपञ्चगावः,

कुजस्य=  भौमस्य,

भगणाः=  पर्ययाः,

स्युः= । अद्रिखेन्दुरसाः=  सप्तशून्यरूपाङ्गाः,

शनेः=  मन्दस्य।  ज्ञशीघ्रस्य=  बुधशीघ्रोच्चस्य,

तथा=  सूर्याचन्द्रमसोर्युगे,

नगाद्र्यग्निसप्तवेदनगाः= सप्तसप्तत्रिसप्तसमुद्राद्रयः,

भगणाः=  पर्ययाः,

स्युः=  परन्तु,

ते=  भगणाः,

सषड्भाः=  षड्राशियुक्ताः सन्ति। गुरोः=  बृहस्पतेः,

साशाभानि=  दशराशिसहिताः,

अमी=  अग्रोक्ताः,

शराद्रीन्दुतिथयः=  पञ्चसप्तरूपपञ्चेन्दवः,

भगणाः स्युः=  पर्ययाः स्युः।  तथा=  सूर्याचन्द्रमसोर्युगे,

दैत्यगुरो:=  शुक्रस्य,

अमी=  समीपस्थाः,

नवगोतत्त्वरन्ध्राक्षिः=  नवनवपञ्चद्विनवलोचनानि,

शीघ्रोच्चभगणाः=  शीघ्रोच्चस्य भगणाः,

ऊह्याः=  ज्ञेयाः। तदा=  सूर्याचन्द्रमसोर्युगे,

विधोः=  चन्द्रस्य,

मन्दोच्चके=  मन्दोच्चमेव मन्दोच्चकं तस्मिन्,

सार्धराशिः=  अर्द्धेन सहितो राशिः पञ्चदशभागसहितो राशिरिति तात्पर्यार्थः,

यमाब्ध्याग्निनखाः=  द्विवेदत्रिशून्यलोचनानि,

ज्ञेयाः=  बोध्याः। पातस्य=  चन्द्रपातस्य,

साश्वकाः=  सप्तराशिसहिताः,

रसाद्रिरसनन्दाः=  ऋतुसप्ताङ्गनवताः भगणाः,

स्युः=  भवेयुः ॥ 61 ॥ 62 ॥ 63 ॥ 64 ॥ 65.. ॥ 66 ॥ 67 ॥ 68 ॥

अथ भूव्यासं भूपरिधिं चाह—

योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु ।

तद्वर्गतो दशगुणात्पदं भूपरिधिर्भवेत् ॥ 69 ॥

52 सूर्येस्सिद्धान्त स ॥ [ अं।

द्विगुणानि=  द्विहतानि,

अष्टौ शतानि योजनानि=  अष्टशतमितयोजनानि,

भूकर्णः=  भुवः भूमिगोलस्य कर्णः भूव्यास इत्यर्थः।कथित इति शेषः। दशगुणात्=  दशघ्नात्,

तद्वर्गतः=  तस्य भूकर्णस्य वर्गात्,

पदं=  मूलं,

भूपरिधिर्भवेत्=  भुवः पृथिव्याः परिधिः स्यात् ॥ 69॥

अथ स्फुटपरिध्यानयन देशान्तर फलानयन तत्संस्कारं चाह—

लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटो भूपरिधिः स्वकः॥

तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता॥70 ॥

कलादि तत्फलं प्राच्यां ग्रहेभ्यः परिशोधयेत् ॥

रेखाप्रतीचीसंस्थाने प्रक्षिपेत् स्युः स्वदेशजाः॥71 ॥

भूपरिधिः=  पूर्वोक्तप्रकारेणानीतः कुपरिधिः,

लम्ब ज्याघ्नः=  स्वदेशीयलम्बज्यया" गुण्यः,

त्रिजीवाप्तः=  त्रिज्यया भक्तफलं,

स्वकः=  स्वदेशीयः,

स्फुटः=  स्पष्टः भुवः परिधिः स्यात्। ग्रहभुक्तिः=  ग्रहस्यः भुक्तिर्दिनगतिः,

देशान्तराभ्यस्ता=  स्वरेखास्वदेशयोरन्तरगतैर्देशान्तरयोजनैर्गुणनीया,

तेन=  स्वदेशपरिधिना,

विभाजिता=  भाज्या,

कलादि=  कलादिक,

तत्फल=  देशान्तरफलमित्यर्थः। प्राच्यां=  मध्यरेखातः पूर्वदिशि,

ग्रहेभ्यः=  सूर्यादिखेटेभ्यः,

परिशोधयेत्=  वर्जयेदृणं कुर्यादित्यर्थः। रेखाप्रतीचीसंस्थाने=  रेखातः पश्चिमदिशि स्वदेशे सति,

प्रक्षिपेत्=  योजयेद्धनं कुर्यादित्यर्थः।ततस्ते ग्रहाः,

स्वदेशजाः=  स्वदेशीयाः,

स्युः=  भवेयुः ॥ 70 ॥ 71 ॥

अथ मध्यरेखास्वरूपं तद्देशांश्च कांश्चिदाह—

राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः ॥

रोहीतकमवन्ती च यथा सन्निहितंसरः ॥ 72॥

,

राक्षसालयदेवौकः शैलयोः=  राक्षसानामालयः स्थानं लङ्केत्यर्थः देवानाममराणामोकः शैलं मेरुरनयोर्मध्ये यदृजु सूत्रं तत्र स्थिता देशा रेखाख्याः सन्ति। रोहीतकं=  रोहीतकनामाख्यं नगरम्,

अवन्ती=  उज्जयिनी,

सन्निहितसरः=  कुरुक्षेत्रं,

यथा=  स्थितमस्ति,

च=  चकारात्तथैवान्याने पुराणि सन्निहित तया ज्ञेयानि ॥ 72॥

यत्र रेखातः स्वपुरस्य पूर्वापरज्ञानं नास्ति तत्र देशान्तरज्ञानमाहा—

अतीत्योन्मीलनादिन्दोः पश्चात्तद्गणितागतात् ॥

यदा भवेत्तदा प्राच्यां स्वस्थानं मध्यतो भवेत्॥73 ॥

अप्राप्य च भवेत्पश्चादेवं वापि निमीलनात् ॥

तयोरन्तरनाडीभिर्हन्याद्भूपरिधिं स्फुटम् ॥ 74 ॥

षष्ठ्या विभज्य लब्धेस्तु योजनैः प्रागथापरैः ॥

स्वदेशपरिधिर्ज्ञेयः कुर्याद्देशान्तरं हितैः ॥ 75॥

1 श्रीभास्कराचार्यकृतीकर्णकुतूहले अन्यानि नगराणि पठितानि, पुरी

।राक्षसी देवकन्याऽथ कांची, सितः पर्वतः पर्यलीवत्सगुल्मौ।

पुरी चोज्जयिन्याद्गया गर्गराटं, कुरुक्षेत्रमेरू भुवो मध्यरेखा ॥ इति ॥ 2स्वदेशः परिधौ इति सुधाकरद्विवेदिकृतपाठान्तरं समीचीनम्।


56 सूर्यसिद्धान्त सं। [ श्र0

इन्दोः=  चन्द्रस्य,

गणितागतात्=  गणितेन चन्द्रग्रहणोक्तगणितेनागतात्,

उन्मीलनात्=  सर्वग्रहणान्तर्गतोन्मीलनकालात्,

अतीत्य=  उल्लङ्घयित्वा,

पश्चात्=  अनन्तरकाले,

तत्=  उन्मीलनं,

यदा=  यदि,

भवेत्=  स्यात्,

तदा=  तर्हि,

स्व स्थानं=  स्वदेशं,

मध्यतः=  मध्यरेखादेशात्,

प्राच्यां=  पूर्वदिशि,

भवेत्=  स्यात्तिष्ठतीत्यर्थः। अप्राप्य=  गणितागतकालातिक्रमणमकृत्वा,

च=  चकाराचन्द्रोन्मीलनं यदि पूर्वमेव स्यात् तर्हि मध्यरेखातः स्वस्थानमित्यर्थः, पश्चात्=  पश्चिमदिशि,

भवेत्=  तिष्ठतीत्यर्थः। वा=  प्रकारान्तरेण,

एवं=  गणितागताद् दृक्संसिद्धात्,

निमीलनात्=  निमीलनकालात्,

अपि.=  निश्चयेन रेखापुरात्स्वपुरस्य पूर्वापर ज्ञानं भवतीति तात्पर्यार्थेः,

तयोः=  दृक्सद्धकाल, गणितागतकालयोः,

अन्तरनाडीभिः=  अन्तरघटिकाभिः,

स्फुटं=  स्पष्टं,

भूपरिधिं=  कुपरिधिं,

हन्यात्=  गुणयेत् तादृशं गुणितस्पष्टपरिधिं,

षष्ट्या=  खरसमितसंख्यया,

विभज्य=  भक्त्वा,

लब्धैः=  प्राप्तैः,

प्राग्योजनैः=  पूर्वभागयोजनैः,

अथापरैः=  अथवा पश्चिमभागस्थयोजनैः,

स्वदेशपरिधिः=  स्वदेशस्य परिधिः स्वदेशस्थानमण्डलरूपः,

ज्ञेयः=  बोध्यः। तैः=  अन्तरयोजनैः,

देशान्तरं=  देशान्तरफलं कलात्मक,

कुर्यात्=  पूर्वोक्तप्रकारेण कुर्यीद्गणक इति शेषः। हि=  हिकारात्तत्संस्कारोऽपि पूर्वोक्तप्रकारेणभिन्न इत्यर्थः ॥ 73 ॥ 74 ॥ 75 ॥

अथ वारप्रवृत्तिकालज्ञानमाह—

वारप्रवृत्तिः प्राग्देशे क्षपार्धेऽभ्यधिके भवेत् ॥

तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत्॥76 ॥

।  प्राग्देश=  रेखातः पूर्वस्यां दिशि स्वदेशे स्थिते सति,

तद्देशान्तरनाडीभिः=  पूर्वकथितदेशान्तरघटिकाभिः,

अभ्यधिके=  युक्ते,

क्षपार्धे=  अर्थरात्रे,

वारप्रवृत्तिः=  वारस्य सूर्यादिवारस्य प्रवृत्तिः प्रारम्भः,

भवेत्=  स्यादित्यर्थः। पश्चात्=  पश्चिम भागस्थे देशे। तद्देशान्तरनाडीभिः। ऊने=  हीनेऽर्द्धरात्रे वारप्रवृत्तिः,

विनिर्दिशेत्=  कथयेत् अत्र वारप्रवृत्तिविषये सिद्धान्तशिरोमणौ मध्यमाधिकारे टिप्पण्यामिदं पद्य लिखितम्, केचिद्वार सवितुरुदयात्प्राहुरन्ये दिनार्धाद्भानोरर्धास्तमयसमयादूचिरे केचिदेवम् ।वारस्यादि यवन नृपतिर्दिङ्मुहूर्ते निशायां लाटाचार्यः कथयति पुनश्चार्द्धरात्रे स्वतन्त्रे ॥ इति अन्यदपि, सूर्योदयाद्रावण राजधान्यां वारप्रवृति मुनयो वदन्ति ॥ 76॥

अथ ग्रहस्य तात्कालिक कर्णमाह—

इष्टनाडीगुणाभुक्तिः षष्ट्या भक्ता कलादिकम्॥

६० सूर्यसिद्धान्त। [

गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत् ॥77 ॥

। इष्टनाडीगुणा=  लङ्गार्धरात्रितः गतगम्येष्टघटीभिर्गुण्या,

भुक्तिः=  ग्रहस्य मध्यगतिः,

षष्ट्या=  षष्टिसंख्यया,

भक्ता=  भाज्या,

कलादिकं=  लिप्तादिकं फलं,

गते=  गतेष्टकाले,

शोध्यं=  ग्रहे हीनं,

गम्ये=  अग्रिमेष्टकाले,

युतं=  ग्रहे धनं,

कृत्वा=  विधाय,

तात्कालिकः=  स्वाभीष्टकालिकः,

भवेत्=  गणकेन ज्ञातः स्यादित्यर्थः ॥ 77॥

अथ चन्द्रस्य परमविक्षेपमानमाह—

भचक्रलिप्ताशीत्यंशः परमं दक्षिणोत्तरम्॥

विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः ॥78 ॥ [

1 यह—श्री पहले अह—साधन किये है वे अर्धरात्र के हुये है ।इस का;हब्

।गत वा गम्य इष्ट घटिकायें अर्धरात्र से लेनी चाहि‌एँ ।

,

अनुष्णगुः=  चन्द्रः,

स्वक्रान्त्यन्तात्=  स्वासन्नक्रान्तिवृत्तप्रदेशादर्थात्क्रान्तिवृत्तस्थस्वभोगप्रदेशात्,

स्वपातेन= ,

चन्द्रपातेन पाता कर्षणेनेत्यर्थः, भचक्रलिप्ताशीत्यंशः=  भचक्रलिप्तानां द्वादशराशिलिप्तानामशीत्यंशोऽशीतिभागः,

परमं=  क्रांतिवृत्तविमण्डलयोः संपातस्थानाद्राशित्रयान्तं,

दक्षिणोत्तरं=  दक्षिणस्यामुत्तरस्यां वा,

विक्षिप्यते=  त्यज्यते ॥ 78 ॥

अथ भौमादीनां परमविक्षेपानाह—

तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः ॥

बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम्॥79]

।  जीवः=  गुरुः,

तन्नवांशं=  चन्द्रपरमविक्षेपस्य नवभागं,

द्विगुणितं=  द्विहतं षष्टिकलामितमित्यर्थः। स्वपातेन परमं दक्षिणोत्तरं विक्षिपति। कुजः=  भौमः,

त्रिगुणितं=  नवातिकलमितं विक्षिपति ।बुधशुक्रार्कजा:=  ज्ञभृगुशनय:,

चतुर्गुणं=  विंशत्यधिकशतकलामितं,

पातैः=  स्वस्वपातैः स्वस्वपाताकर्षणैरित्यर्थः,

विक्षिप्यन्ते=  स्वभोगक्रान्तिवृत्तप्रदेशत्यज्यन्ते ॥ 79॥

सूर्यसिद्धान्त सं ॥ ६२

अथ पूर्वोक्तमुपसंहरन्नाह—

एवं त्रिघनरन्ध्रार्करसार्कार्का दशाहताः ॥

चन्द्रादीनां क्रमादुक्ता मध्यविक्षेपलिप्तिकाः॥80 ॥

इति श्रीसूर्यसिद्धान्ते प्रथमो मध्यमाधिकारः संपूर्णः।

एव=  पूर्वोक्तप्रकारेण,

त्रिघनरन्ध्रार्करसार्कार्काः=  त्रिघन सप्तविंशतिः, रन्ध्राणि नव, अर्का द्वादश, रसाः षट्, अर्का द्वादश, अर्का द्वादशैतै,

दशाहताः=  दशगुणिताः,

क्रमात्=  उक्ताङ्कक्रमात्,

चन्द्रादीनां=  चन्द्रादिषड्ग्रहाणां,

मध्यविक्षेपलिप्तिकाः=  परममध्यशरकलाः,

उक्ताः=  कथिताः ॥ 80॥

इति श्रीसिद्धान्तवागीशमाधवप्रसादपुरोहितविरचितायां यां प्रथमो मध्यमाधिकारः सम्पूर्णः ॥ 1॥



। श्रीगणेशाय नमः ।

॥ सूर्यसिद्धान्तः ॥

अथ स्पष्टाधिकारः

सूर्यसिद्धान्तः 

माधव प्रसादकृतसौरदीपिकया भाष्येन च सहितः।

तत्रादौ ग्रहाणां गतिहेतूनाह—

अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः ॥

शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ॥ 1॥

।  कालस्य=  पूर्वप्रतिपादितकालस्य,

अदृश्यरूपाः=  वायवीयशरीराः,

अप्रत्यक्षा इति भावः,

भगणाश्रिताः=  भगणेष्वाश्रिताः। मूर्तयः=  विग्रहाः,

शीघ्रमन्दोच्चपाताख्याः=  शीघ्रमन्दोच्चपातसंज्ञकाः,

ग्रहाणां=  सूर्यादिग्रहाणां,

गतिहेतवः=  गतिकारणभूताः सन्ति।एतद्वशादेव ग्रहा दक्षिणोत्तरपूर्वापरादिषु प्रयान्तीत्यर्थः ॥ 1 ॥

कथमेते गतिहेतवो भवन्तीत्याह—

तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः ॥

प्राक् पश्चादपकृष्यन्ते यथासन्नंस्वदिङ्मुखम्॥2 ॥

प्रवहाख्यो मरुत्तांस्तु स्वोचाभिमुखमीरयेत् ॥

पूर्वापरापकृष्टास्ते गतिं यान्ति पृथग्विधाम् ॥ 3॥

, तद्वातरश्मिभिः=  तेषामुच्चानां वातरूपै रश्मिभिः किरणैः। बध्वा=  मूर्ताः बिम्बात्मकग्रहाः,

तैः=  उच्चादिभिः,

सव्येतरपाणिभिः=  वामदक्षिणहस्तैः,

स्वदिङ्मुखं=  स्वाभिमुखं,

यथासन्नं=  यथा ग्रहबिम्बमासन्नं भवति तथा,

प्राक्रपश्चात्=  पूर्वस्यां पश्चिमायां पूर्वपश्चिममार्गाभ्यामित्यर्थः । अपकृष्यन्ते=  अकृष्यन्ते। अयमभिप्रायः,

उच्चैः स्वस्थानात् षड्राशिपर्यन्तं स्वस्थानस्य पश्चाद्भाग एवासनत्वात्पश्चाद्भाग एव स्वदिगभिमुखमाकृष्यते,

आग्रेम षड्राशिपर्यन्तं चाग्रत एव स्वस्थानस्यासन्नत्वादग्रत एवाकृष्यते। प्रवहाख्यः=  प्रवहसंज्ञकः,

मरुत्=  वायुः,

तान्=  ग्रहान्,

तु=  तुकारादुच्चानि,

स्वोचाभिमुख=  स्वेच्चसम्मुखम्,

ईयेत्=  प्रेरयतीत्यर्थः। अतः कारणात्,

ते=  ग्रहाः,

पूर्वापरापकृष्टाः=  उच्चदैवतैः पूर्वतो परतो वापकृष्यमाणाः,

पृथग्विधं=  प्रथमावगतैकरूपभिन्नप्रकारावगतां प्रतिक्षणविलक्षणां,

भर्तिं=  गमनक्रियां,

यान्ति=  प्राप्नुवन्ति।वायुवशोत्थप्रत्यग्गतेर्भिन्नगतयो भवन्तीत्यर्थः ॥ 2 ॥ 3 ।

अथोच्चकर्षणप्रक्रारं धनर्णप्रकारं चाह—

ग्रहात्प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम् ॥

उच्चसंज्ञोऽपरार्द्धस्थस्तद्वत्पश्चान्मुखं ग्रहम् ॥ 4 ॥

स्वोच्चापकृष्ट भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः ।

तत्तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु ॥ 5॥

ग्रहात्=  ग्रहस्थानात्,

प्राग्भगणार्धस्थः=  ग्रहाधिष्ठितराशे राशिषट्कं यावत्प्राग्भगणार्धसंज्ञा तत्रस्थः,

उच्चसंज्ञः=  उच्च, " संज्ञो जीवः,

ग्रहं=  प्रहबिम्बं,

प्राङ्मुखं=  पूर्वाभिमुखं,

कर्षति=  आकर्षणं करोति। अपरार्द्धस्थः=  अपरराशिषट्कस्यापरार्द्धसंज्ञा तत्रस्थ उच्चः,

ग्रहं=  ग्रहबिम्बं,

पश्चान्मुखं=  पश्चिमदिगभिमुखं,

तद्वत्=  आकर्षणं करोतीत्यर्थः। स्वोच्चापकृष्टाः=  स्वस्वोच्चैराकर्षिताः,

ग्रहाः=  खेटाः,

यत्=  यत्संख्यामितं,

भगणैः=  राशिभिः,

प्राङ्मुखं=  पूर्वाभिमुखं,

यान्ति=  गच्छन्तिः,

तत्=  तत्संख्यामितं,

तेषु=  ग्रहेषु,

धनं=  स्वं फलं,

पश्चान्मुखेषु=  पश्चिमाकर्षितग्रहस्य राश्यादिभोगेषु,

तु=  तुकाराद्यत्संख्यामितं फल रूपं पश्चिमतो गच्छन्ति तत्संख्यामितमित्यर्थः,

ऋणं=  हीनम्,इति=  एतत्,

उक्तं=  आद्यकथितम् ॥ 4 ॥ 5॥

अथा दक्षिणोत्तराकर्षणमाह—

दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा ॥

विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात्।  ।6 ॥

उत्तराभिमुखं पातो विक्षिपत्यपरार्धगः ॥

ग्रहं प्राग्भगणार्द्धस्थो याम्यायामपकर्षति ॥ 7 ॥

। एवं=  यथोच्चेन पूर्वापराकर्षणं तथा,

एषः=  गणितागतः,

पातः=  पातसंज्ञकः,

राहुरपि=  रहति त्यजति ग्रहमिति राहुः तस्थानाधिष्ठातृदेवताविशेषोऽपि,

स्वरंहसा=  स्ववेगेन,

अपक्रमात्=  मण्डल भोगस्थानात्,

दक्षिणोत्तरतः=  दक्षिणस्यामुत्तरस्यावादिशि,

चन्द्रादीनां= 

वि, रविग्रहानां,

विक्षेपं=  शरतुल्यं विक्षेपणं,

विक्षिपति=  करोति। विशिष्टवाचकपदानांविशेषणवाचकपदसमवधाने विशेष्यमात्रार्थत्वाद्।विक्षिपंतीति तात्पर्यार्थः। अपरार्द्धगः=  ग्रहात्पश्चिमविभागे राशिषट्कस्थितः,

पातः=  राहु,

ग्रहं=  ग्रहबिम्बम्,

उत्तराभिमुखं=  उत्तरदिगभिमुखं,

विक्षिपति=  विक्षेपान्तरेण त्यजति।  प्राग्भगणार्द्धस्थः=  ग्रहस्थानात्पूर्वदिशि राशिषट्कस्थितो राहुः,

याम्यायां=  दक्षिणस्यां दिशि,

अपकर्षति=  विक्षिपंति ॥६ । ७॥

अथ बुधशुक्रयोर्विशेषमाह—

बुधभार्गवयोः शीघ्रात्तद्वत्पातो यदा स्थितः ॥

तच्छीघ्राकर्षणात्तौ तु विक्षिप्येते यथोक्तवत् ॥ 8 ॥

बुधभार्गवयोः=  ज्ञशुक्रयोः,

शीघ्रात्=  शीघ्रोच्चात्,

तद्वत्=  राशिषट्के,

यदा= ।यत्काले,

पातः=  पातसंज्ञकः,

,

स्थितः=  अस्ति,

तच्छीघ्राकर्षणात्=  तादृशपातस्य वेगेनाकर्षणात्,

तौ=  बुधशुक्रौ,

तु=  तुकाराद्यत्काले पातः।स्थितस्तत्काल इत्यर्थः। यथोक्तवत्=  दक्षिणस्यामुत्तरस्यां वा दिशि,

विक्षिप्येते=  त्यज्येते ॥ 8 ॥

अथ मण्डलवशादाकर्षणे भेदमाह—

महत्वान्मण्डलस्यार्कः स्वल्पमेवापकृष्यते ॥

मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते॥9॥

भौमादयोऽल्पमूर्तित्वाच्छीघ्रमन्दोच्चसंज्ञकैः ॥

दैवतैरपकृष्यन्ते सुदूरमतिवेगिताः ॥ 10 ॥

अतो धनर्णं सुमहत्तेषां गतिवशाद्भवेत् ॥

अकृष्यमाणास्तैरेवं व्योम्नियान्त्यनिलाहताः 11 

, अर्कः=  सूर्यः,

मण्डलस्य=  बिम्बस्य,

महत्त्वात्=  बृहत्त्वात्,

स्वल्पमेव=  इतर ग्रहापेक्षयाल्पमेव,

अपकृष्यते=  उच्चसञ्ज्ञक जीवेनाकृष्यते ॥ चन्द्रः=  शशी,

मण्डलाल्पतया=  मण्डलस्य लघुत्वेन,

ततः=  सूर्यात्,

बहु=  अधिकम्। अपकृष्यते= ।उच्चसंज्ञकदेवेनाकृष्यते। भौमादयः=  कुजादि पञ्चग्रहाः,

अल्पमूर्तित्वात्=  लघुबिम्बत्वात्,

शीघ्रमन्दोच्चसंज्ञकैः=  शीघ्रोच्चमन्दोच्चसंज्ञकैः,

दैवतैः=  देवविशेषैः,

अप्रतिवेगिताः=  अतिवेगः शीघ्रवेगः संजातो येषां ते अतिजवाः,

सुदूरम्=  अत्यन्तम्,

अपकृष्यन्ते=  आकृष्यन्ते ॥

अतः=  सुदूराकर्षणात्,

तेषां=  भौमादीनां,

गतिवशात्=  आकर्षणोत्पन्नचलनवशात्,

सुमहत्= 

अत्यधिकं फलं,

धनर्णं=  स्वर्णं,

भवेत्=  भवतीत्यर्थः। तैः=  उच्चपातदैवतैः,

एवं=  पूर्वोक्तप्रकारेण,

आकृष्यमाणाः=  आकर्षिता एते भौमादयः,

व्योम्नि=  स्वस्वाकाशगोले,

अनिलाहताः=  प्रवहवायुताडिताः,

यान्ति=  गच्छन्ति उच्चसंज्ञकदेवानांमहत्सु पिण्डेषु स्वल्पाकर्षणशक्तिरल्पेषु त्वधिका तथा चासन्नेषु ग्रह पिण्डेष्वधिका दूरेषु त्वल्पत्यर्थत एव सिद्धम्।9।10।11॥

अथैवं गतिकारणैर्ग्रहाणामष्टभेदात्मिकां गतिमाह—

वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा।

तथा शीघ्रतारा शीघ्र ग्रहाणामष्टधा गतिः ॥ 12 ॥

ग्रहाणां=  भौमादिपञ्चग्रहाणां,

वक्रानुवक्रा, कुटिला, मन्दा, मन्दतरा, समा, शीघ्रतरा, शीघ्रा= इति,

अष्टधा=  अष्टप्रकारा,

गतिः=  भुक्तिरस्ति।  तथा=  तथा समुच्चयार्थे ॥ 12 ॥

अथैनामष्टधागतिं भेद द्वयेन क्रोडयति—

तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा॥

ऋज्वीतिपश्चधाज्ञेया या वक्रा सानुवक्रगा॥13 ॥

तत्र=  अष्टविधगतिषु,

अतशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा=  स्पष्टार्थमेवैतेषाम्,

इति=  एवं,

पञ्चधा=  पञ्चप्रकारा,

ऋज्वी=  मार्गी गतिः,

ज्ञेया=  बोध्या। या=  गतिः,

सानुवक्रगा=  अनुवक्रगतिना सह वर्तमाना।वक्रानुवक्रा कुटिलेत्यर्थः, वक्रा=  विलोमा गतिर्ज्ञेया।एवं ग्रहाणां मार्गी वक्राचेति गतिद्वयी जाता ॥ 13॥

अथ ग्रहाणां स्पष्टक्रियां प्रतिजानीते—

तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः ॥

प्रयान्ति तत्प्रवक्ष्यामि स्फुटीकर्णमादरात् ॥ 14 ॥

तत्तद्गतिवशात्=  पूर्वोक्तप्रकारागताष्टविधगतिवशात्,

नित्यं=  प्रतिदिनं,

यथा=  येन प्रकारेण,

दृक्तुल्यतां=  दृग्गोचरत्वं,

ग्रहाः=  सूर्यादयः,

प्रयान्ति=  प्राप्नुवन्ति,

तत्= 

९२,

सूर्यसिद्धान्त सं। [ अं

तादृशं,

स्फुटीकरणं=  स्पष्टक्रियागणितप्रकारम्,

आदरात्=  अत्यन्ताभिनिवेशात्,

प्रवक्ष्यामि=  प्रकर्षेण कथयामि ॥ 14 ॥

या अथ स्फुटीकरणोपयोगिनीनां ज्यानामुत्पत्तिमाह—

राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते ॥

तत्तद्विभक्तलब्धोन मिश्रितं तद् द्वितीयकम् ॥ 15 ॥

अद्येनैवं क्रमात्पिण्डान् भक्त्वा लब्धोनसंयुताः ॥

खण्डकाःस्युश्वन्तु विंशज्ज्यार्धपिण्डाःक्रमादमी ॥16 ॥

, राशिलिप्ताष्टमो भागः=  एकराशेर्या लिप्तास्ता सामष्टमांशः,

प्रथमम्=  आद्य,

ज्यार्ध=  सम्पूर्णजीवार्धम्,

उच्यते=  कथ्यते।  तत्तद्विभक्तलब्धोनामिश्रितं=  तदेव प्रथमज्यार्धं तेनैव प्रथमज्यार्धेन भक्तं लब्धेन प्रथमज्यार्धं हीनं यत्फलं तेन प्रथमज्यार्द्धेनैव युतं,

तत्=  प्रथमज्यार्धं,

द्वितीयकं=  द्वितीयज्यार्ध भवति ॥

आद्येन=  प्रथमज्यार्धपिण्डेन,

एवम्=  उक्तरीत्या,

क्रमात्=  क्रमतः

पिण्डान्=  ज्यार्धपिण्डान्,

भक्त्वा=  विभज्य,

लब्धोनसंयुताः=  लब्धेन प्रथमज्यार्धपिण्डा ऊनाः कार्यास्तेन च खण्डेन द्वितीयादिखण्डा योज्याः,

खण्डकाः स्युः=  असिद्धज्यार्धपिण्डा भवन्तीत्यर्थः।एवं,

चतुर्विंशत्=  चतुर्विंशत्संख्याकाः,

ज्यार्धपिण्डाः=  कार्याः ।अत्र भागहारे अर्धाधिके शेषे लब्धौ रूपं ग्राह्यम्। अर्धाल्पे शेषे शेषं त्याज्यमिति व्यवहारे सत्यपि ब्रह्मसिद्धान्तोक्तस्थले अर्धाधिके रूपं न ग्राह्यमिति। रूपग्रहणे रूपसममन्तरंपततीति ज्ञेयम्। ब्रह्मसिद्धांतवाक्यम्, *एकविंशाच्च विंशाच्च षष्ठात्पञ्चदशादपि। सप्तमाद्द्वादशात्सप्त दशान्नार्धोत्तरं मतम्,

अमी=  सिद्धपिण्डाः,

क्रमात्=  समनन्तरमेवोच्यन्ते ॥ 15 ।16।

अथ पूर्वोक्रसिद्धान्क्रमज्यापिण्डान्निबध्नाति—

तत्त्वाश्विनोऽङ्काब्धिकृता रूपभूमिधरर्तवः ॥

खांकाष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः ॥ 17 ॥

शून्यलोचनपंचैकाशिछन्द्र रूपमुनीन्दवः ॥

वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः ॥ 18 ॥

मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः ॥

पञ्चाष्टविषयाक्षीणिकुञ्जराश्विनगाश्विनः ॥ 19 ॥

रन्ध्रपञ्चाष्ठकयमा वस्वद्य्रङ्कयमास्तथा ॥

कृताष्टशून्यज्वलना नगादिशशिवह्नयः ॥ 20॥"

षट्पञ्चलोचनगुणाश्चन्द्रनेत्राग्निवह्वयः ॥

यमाद्रिवह्निज्वलना रन्ध्रशून्यार्णवाग्नयः ॥ 21॥

रूपाग्निसागरगुणा वस्वग्निकृतवह्वयः ॥

स्पष्टार्थः। श्लोकोक्तक्रमेणैवान्वयः ॥ 17 ॥18 ॥19 ॥20 ॥21॥


९६ सूर्यसिद्धान्त स ॥ २

अथोत्क्रमज्यासाधनमाह—

प्रोज्झ्योत्क्रमेण व्यासार्थादुत्क्रमज्यार्द्धपिण्डकाः॥22 ॥

।एतानुक्तान् क्रमज्यापिण्डान्,

व्यासार्थात्= पिण्डात्,

उत्क्रमेण=  विलोमरीत्या त्रयोविंशतितमपिण्डमारभ्य प्रथम ज्यापिण्डान्तमित्यर्थः। प्रोज्झ्य=  न्यूनीकृत्य क्रमेण,

उत्क्रमज्यार्धपिण्डकाः=  उत्क्रमज्यापिण्डा भवन्ति ॥ 22 ॥

अथ पूर्वोक्तसिद्धातानुत्क्रमञ्ज्यापिण्डानह—

मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः॥

द्व्यैष्टैकारूपषड्दस्राः सागरार्थहुताशनाः॥23 ॥।

खर्तुवेदा नवाद्र्यर्था दिङ्नगास्त्र्यर्थकुञ्जराः ॥

नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः ॥ 24

शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः।

१३४५,

१५२८= 

नवरूपमहीध्रैका गजैकाङ्कनिशाकराः॥१७१९,

१९१८=  २.२५॥

गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः।

२१२३,

२३३३= 

वस्वर्णवार्थयमला स्तुरङ्गर्तुनगाश्विनः॥ २५४८,

२७६७=  २.२६॥

नवाष्टनवनेत्राणि पावकैकयमाग्नयः।

२९८९,

३२९३= 

गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः॥ ३४३८=  २.२७॥


स्पष्टाथ: ॥ 23 ॥ 24 ।25 : 26 ॥ 27॥

अथ क्रान्तिसाधनमाह—

परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः।

१३९७= 

तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यते॥ २.२८॥

सप्तरन्ध्रगुणेन्दवः=  त्र्यूनं चतुर्दशशतं 1397,

परमापक्रमज्या=  परमक्रातिज्या,

तु=  तुकाराच्चतुर्विंशत्यंशानां वक्ष्यमाणज्यानयन प्रकारसिद्धेत्यर्थः,

ज्या=  अभीष्टज्या,

तद्गुणा=  परम क्रातिज्या गुणिता,

त्रिजीवाप्ता=  त्रिज्यया,

भक्ता,

तच्चापं= 

तस्य फलस्य चापं धनुः। क्रान्तिः=  कालात्मिकेष्टक्रान्तिः,

उच्यते =  कथ्यते ॥ २८॥

अथ स्पष्टीकर्णार्थं केन्द्रभुजकोटिकल्पनम्—

ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद्विशोध्य च ॥

शेषं केन्द्रपदं तस्माद्भुजज्या कोटिरेव च ॥ 26 ॥

गताद्भुजज्या विषमे गम्यात्कोटिः पदे भवेत् ॥

युग्मे तु गम्याद्बाहुज्या कोटिज्या तु गताद्भवेत्॥30 ॥

ग्रहं=  राश्यादि ग्रहं,

मन्दोच्चात्=  प्रागानीतराश्यादिमन्दोचात्,

संशोध्य=  ऊनीकृत्य,

शीघ्रात्=  शीघ्रोच्चात्,

च=  चः समुच्चये,

विशोध्य=  ऊनीकृत्य,

शेषं=  राश्याद्यवशिष्टं,

तथा=  उच्चसम्बन्धेन,

केन्द्रपदं=  मंन्दोचसम्बन्धेन मन्दकेन्द्रम्।शीघ्रोच्चसम्बन्धेन शीघ्रकेन्द्रं भवतीत्यर्थः। तस्मात्=  केन्द्रपदात् *,

भुजज्या=  भुजस्य ज्या,

कोटिः=  कोटिज्या,

च=  चः समुच्चये।कर्तव्या।तत्र त्रिभिस्त्रिर्भा राशिभिरकैकं पदं कल्प्यम्।  एव=  एवकारात् केन्द्रपदादेव भुजकोटिज्ये साध्ये। विषमे=  विषमसंख्यात्मके,

पदे=  केन्द्रपदे सति,

गतात्=  केन्द्रभुक्तात्,

भुजज्या=  विषमपदस्थकेन्द्रभुक्तमेव भुज इत्यर्थः। गम्यात्=  केन्द्रस्य भोग्यात्,

कोटिः=  विषमपदस्थितकेन्द्रस्य भोग्यमेव कोटि रित्यर्थः। भवेत्=  स्यात्। युग्मे तु=  समपदे तु,

गम्यात्=  भोग्यात्,

बाहुज्या=  भुजज्या स्यात्।  तु=  तुकारात्समपदे,

गतात्=  भुक्त्वात्,

कोटिज्या=  कोटिर्ज्या,

भवेत्=  स्यात्।तत्र समपदे राशित्रयोनितस्य भुजस्य यच्छेषं सा कोटिरित्यर्थः ॥ 29 ॥30॥

लिप्तास्तत्त्वायमैर्भक्ता लब्धं ज्यापिण्डकं गतम् ॥

गतगम्यान्तराभ्यस्तं विभजेत्तत्त्वलोचनैः ॥ 31 ॥

तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके ॥

स्यात्क्रमज्याविधिर्यमुत्क्रमज्यास्वपि स्मृतः ॥ 32 ॥

८२ सूर्यसिद्धान्त सं। [ अं

।  लिप्ताः=  यस्य ज्याकर्तुमिष्टा तस्य लिप्ताः,

तत्त्वयमैः=  पञ्चविंशत्यधिकशतद्वयेन,

२२५ भक्ताः=  हृताः,

लब्धं=  लब्धफलस्य संख्यातुल्यं,

गतं=  अतीतं,

ज्यापिण्डकं=  ज्यापिण्डमेव ज्यापिण्डकं स्यात्।यच्छेषं तत् ।

गतगम्यान्तराभ्यस्तं=  गतगम्यज्यापिण्डयोरन्तरेण गुणितं,

तत्त्वलोचनैः=  तत्त्वाश्विभिः,

विभजेत्=  हरेत्, तदवाप्तफलं=  तत् प्राप्तफलं,

गतसंज्ञके ज्यापिण्डे=  पूर्वं यद्गतसंज्ञकं ज्यापिण्डं प्राप्तं तस्मिन्,

योज्यं=  युक्तं कार्यमेवमभीष्टा ज्या स्यात्।  अयम्=  एषः,

क्रमज्याविधिः=  क्रमज्यानयनप्रकारः,

उत्क्रमज्यास्वपि=  उत्क्रमज्यानयनेष्वपि,

स्मृतः=  कथितः ॥ 31 ।32॥

अथ ज्यातो धनुरानयनमाह—

ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम् ॥

संख्यातत्त्वाशिवसंवर्गे संयोज्य धनुरुच्यते ॥ 33 ॥

। यस्य ज्याकर्तुमिष्टा तस्मिन्,

ज्या=  या ज्या शुध्यति तां,

प्रोज्झ्य=  न्यूनीकृत्य,

शेषम्=  अवशिष्टं,

तत्त्वाश्विहतं=  तत्त्वयमलैः संगुण्य,

तद्विवरोद्धृतं=  पतितखण्डाग्रिमखण्डयोरन्तरेण भक्त फलं,

सख्यातत्त्वाश्विसंवर्गे=  शुद्धज्यासंख्यायास्तत्वलोचनयोर्धाते,

संयोज्य=  युक्तं कृत्वेत्यर्थः।सिंद्धं,

धनुः=  चापम्,

उच्यते=  कथ्यते ॥ 33॥


अथ मन्दपरिध्यंशा विवक्षुः प्रथमं सूर्यचन्द्रयोराह—

रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः ॥

युग्मान्ते विषमान्तेच नखलिप्तोनितास्तयोः ॥34 ॥

रवेः=  सूर्यस्य। मन्दपरिध्यंशाः=  मन्दपरिधिभागाः,

मनवः=  चतुर्दश,

शीतगोः=  चन्द्रस्य,

रदाः=  द्वात्रिंशत्,

युग्मान्ते=  समपदान्ते ज्ञेयाः।युग्मपरिध्यंशा इत्यर्थः। विषभान्ते=  विषमपदान्ते,

तयोः=  सूर्यचन्द्रमसोः। नखलिप्तोनिताः=  विंशतिकलोनिताः,

च=  चकारात्पूर्वोक्ता एवांशा ज्ञेयाः।इह ग्रहफलोपपत्यर्थं मन्दोच्चनीचवृतानि पूर्वैः कल्पितानि तेषामेतावन्तो भागाः प्रमाणानि ॥ 34 ॥

अथ भौमादीनां मन्दपरिधिभागानाह—

युग्मान्तेऽर्थाद्रयः खाग्नी सुराः सूर्या नवार्णवाः ॥

ओजे द्व्यगावसुयमा रदारुद्रा गजाब्धयः॥35 ॥

। भौमादीनां,

युग्मान्ते=  समपदान्ते,

अर्थाद्रयः=  पञ्चसप्ततिः,

खाग्नी=  त्रिंशत्,

खुराः=  त्रयत्रस्त्रिंशत्,

सूर्या:=  द्वादश,

नवार्णवाः=  एकोनपञ्चाशत्। एते क्रमानुसारेण पूर्वोक्तमन्दपरिध्यंशाः स्युः। ओजे=  विषमपदान्ते,

द्व्यगाः=  द्विसप्ततिः,

वसुयमाः=  अष्टविंशतिः,

रदाः=  द्वात्रिंशत्,

रुद्राः=  एकादश,

गजाब्धयः=  अष्टचत्वारिंशत्। मन्दपरिध्यंशाः स्युः। वक्ष्यमाणश्लोकेन कुजादीनामिति चात्रान्वेति ॥ 35 ॥

अथ भौमादीनां युग्मपदान्ते शैघ्र्यपरिध्यंशानाह—

कुजादीनामतः शैघ्र्या युग्मान्तेऽर्थाग्निदस्रकाः ॥

गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गोऽग्नयः॥36 ॥

८६ सूर्यसिद्धान्त सं !

, अतः=  मन्दपरिधिकथनानन्तरं,

कुजादीनां=  भौमादिपङ्च खेटानां कुजबुधगुरुशुक्रमन्दानां,

युग्मान्ते=  समपदस्यान्ते,

अर्थाग्निदस्रकाः=  पञ्चत्रिंशदधिकशतद्वयं,

गुणाग्निचन्द्राः=  त्रय स्त्रिंशदधिकं शतं,

खनगाः=  सप्ततिः,

द्विरसाक्षीणि=  द्विषष्ट्युत्तरं शतद्वयं,

गोऽग्नयः=  एकोनचत्वारिंशत्,

शैघ्र्याः=  शीघ्र परिध्यंशा यथाक्रमेण कथितेत्यर्थः. ॥ 36॥

अथैतेषां विषमपदान्ते शैघ्र्यपरिध्यंशानाह—

ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः ॥

खर्तुदस्रा वियद्भेदाः शीघ्रकर्मणि कीर्तिताः ॥37 ॥

कुजादीनामिति पूर्वेणान्विति । ओजान्ते=  विषमपदस्यान्ते,

द्वित्रियमलाः=  द्वात्रिंशदधिकं शतद्वयं,

द्विविश्वे=  द्वात्रिंशदधिकं शतं,

यमपर्वताः=  द्विसप्ततिः,

खर्तुदस्राः=  षष्ट्यधिकं शतद्वयं,

वियद्वेदाः=  चत्वारिंशत्,

शीघ्रकर्मणि=  शीघ्रकर्मविषये।शीघ्रफलानयनार्थेमित्यर्थः,

कीर्तिताः=  कथिताः ॥37 ॥

अथ परिधेः स्फुटीकर्णमाह—

ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता ॥

युग्मवृत्ते धनर्णं स्यादोजादूनाधिके स्फुटम्॥38 ॥

भुजज्या=  अभीष्टांशानां भुजज्या मन्दपरिधिसाधने मन्दकेन्द्रभुजज्या शीघ्रपरिधिसाधने शीघ्रकेन्द्रभुजज्येत्यर्थः। ओजयुग्मान्तरगुणा=  विषमपरिध्यंशानां समपरिध्यंशानां चान्तरेण गुणिता,

त्रिज्ययोद्धृता=  त्रिज्याभक्ता,

ओजात्=  विषमपदान्तीयपरिधेः सकाशात्,

ऊनाधिके=  हीनाधिके सति क्रमेण,

युग्मवृत्ते=  समपदान्तीयपरिधौ,

धनर्णं=  स्वर्ण कार्यं तर्हि,

स्पुट स्यात्=  परिधिमानं स्फुटं स्यात्।युग्मपरिध्यंशाश्चेदोजपरिध्यंशेभ्य ऊनास्तदा लब्धं युग्मपरिध्यंशेषु धनं कार्यं यदि युग्मपरिध्यंशेभ्यो ऽधिकास्तदा लब्धं युग्मपरिध्यंशेषु हीनं कार्यमेवं कृते स्पष्टपरिध्यंश भवेयुरित्यर्थः ॥ 38 ॥

अथ भुजकोट्योः फलानयनं मन्दफलानयनं चाह—

तद्गुणे भुजकोटिज्ये भगणांशविभाजिते ॥

तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् ॥ 36॥

,

भुजकोटिज्ये=  केन्द्रभुजज्याकोटिज्ये,

तद्गुणे=  तेन स्फुटपरिधना गुणिते,

भगणांशविभाजिते=  भगणांशैः 360 भक्ते भुजकोटिफले स्त:। तद्भुजज्याफलधनुः=  भुजज्याफलस्य धनुः,

लिप्तादिकं=  कलादिकं,

मान्दंफलं=  मन्दफलं भवतीत्यर्थः ॥ 39 ॥

अथ चलकर्णानयनमाह—

शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम् ॥

संशोध्यंतु त्रिजीवायां कर्कादौ कोटिजं फलं ॥40 ॥

तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः॥

, शैघ्र्यं=  शीघ्रसम्बन्धि,

कोटिफलं=  कोटिज्ययानीत फलं,

मकरादौ केन्द्रे=  मकरादिषड्राशिस्थिते शीघ्रकेन्द्रे सति,

त्रिजीवायां=  त्रिज्यायां,

धनं=  स्वं,

स्मृतम्=  कथितम्। कर्कादौ=  कर्कादिषड्राशिस्थिते केन्द्रे,

तु=  तुकारात्तस्यामेव त्रिज्यायां,

कोटिज फलं=  कोटिज्ययोत्पन्नं फलं,

संशोध्यं=  त्याज्यम्।एवं स्पष्टकोटिज्या भवति। तद्बाहुफलवर्गैक्यात्=  तस्याः स्पष्टकोटि ज्याया भुजफलस्य च वर्गयोगात्,

मूलं=  पदं,

चलाभिधः= 

९० शे सूर्यसिद्धान्त सं ॥ [ अं

शीघ्राख्यः,

कर्णः=  शीघ्रकर्ण इत्यर्थः।कथित इति ॥ 40॥

अथ शीघ्रफलानयनमाह—

त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम् ॥41 ॥

लब्धस्य चापं लिप्तादि फलं शैघ्र्यमिदं स्मृतम्॥

एतदाद्ये कुजादीनां चतुर्थे चैव कर्मणि ॥ 42 ॥

भुजफलं=  पूर्वोक्तप्रकारेणानीतं भुजफलं,

त्रिज्याभ्यस्तं=  त्रिज्यया गुणितं,

चलकर्णविभाजितं=  शीघ्रकर्णेन भाज्यं।  लब्धस्य=  लब्धफलस्य,

चापं=  धनुः,

इदं=  तद्धनुरेकं।  ।1 शैघ्र्यं=  शीघ्रसम्बन्धि,

लिप्तादिफलं=  कलादिफलं,

स्मृतं=  कथितम्। एतत्=  शीघ्रफलं,

कुजादीनां=  भौमादिपञ्चखेटानां। आद्ये=  प्रथमे,

चतुर्थे च= ,

कर्मणि=  संस्कार्यम्। एव= एवकाराद्द्वितीयतृतीययोर्मान्दंफलं संस्कार्यमित्यर्थः ॥ 41 ॥ 42 ॥

अथ फलानां क्रमं सूर्याचन्द्रमसो: स्पष्टत्वं चाह—

मान्दं कर्मैक कर्केन्द्वो र्भौमादीनामथोच्यते ॥

शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्यनुक्रमात् ॥43 ॥

अर्केन्द्वो:=  सूर्याचन्द्रमसो:,

एक मान्द कर्म=  एकमेव मान्दं कर्म कार्यमेतयोः शीघ्रोच्चाभावात्।एकेनैव मन्दकर्मणानयोः स्पष्टत्वं भवतीत्यर्थः।  अथ=  अनन्तरं,

भौमादीनां=  कुजादीनाम्,

उच्यते=  स्फुटतां कथ्यत इत्यर्थः। शैघ्र्यं,मान्दं, पुनर्मान्दं,शैघ्र्यं=  इति,

अनुक्रमाच्चत्वारि=  कर्माणि भवन्ति।अयमर्थः।प्रथमं शैघ्र्यं द्वितीयं मान्दं पुनश्च तृतीयं मान्दं चतुर्थं शैघ्र्यं कर्मैतत् क्रम कृतकर्म चतुष्टयेन भौमादिपञ्चखेटाः स्पष्टा भवन्ति ॥ 43॥

अत्रापि विशेषमह—

मध्ये शीघ्रफलस्यार्धं मान्दमर्धफलं तथा॥

मध्यग्रहे मन्दफलं सकलं शेघ्र्यमेव च ॥ 44 ॥

। मध्ये=  मध्यग्रहे,

शीघ्रफलस्य=  स्वसाधितशीघ्रफलस्य। अर्थं=  दलं संस्कार्यम् ।

मान्दं=  मन्दसम्बन्धि,

अर्धफलं=  शीघ्रफलार्द्धसंस्कृतमध्यग्रहात्साधितमन्दफलस्यार्धं,

तथा=  तस्मिन्नेव संस्कार्यम्।शीघ्रफलार्धसंस्कृते संस्कार्यमित्यर्थः। मन्दफलम्=  अस्मात्सादितं मन्दफलं,

सकलं=  सम्पूर्णं,

मध्यग्रहे=  मध्यमखेटे संस्कार्यमेवं मन्दस्पष्टो भवति। शैघ्र्यं=  अस्मात् साधितं शीघ्रफलं,

च=  चकारात्समग्रं शीघ्रफलं मन्दस्पष्टे संस्कार्यमेवं स्फुटे ग्रहः स्यात्।एवकारादुक्तरीत्या साधितो ग्रहः स्फुटः स्यान्नान्यथेत्यर्थः ॥44 ॥

फलयोः संस्कारार्थं धनर्णकल्पनामाह—

अजादिकेन्द्रे सर्वेषां शेघ्र्ये मान्दे च कर्मणि ॥

धनं ग्रहाणां लिप्तादि तुलादावृष्णमेव च ॥ 45॥

सर्वेषांग्रहाणां=  सूर्यादिखेटानां,

शैघ्र्ये मान्दे च कर्मणि=  शीघ्रकर्मणि मन्दकर्मणि च,

अजादिकेन्द्रे=  मेषादिराशिषट्कस्थिते दे,

लिप्तादि=  कलादिफलं,

धनं=  स्वं ज्ञेयम्।ग्रहेषु योज्यमित्यर्थः,

तुलादौ=  तुलादिषड्राशिस्थिते केन्द्र इत्यर्थः।लिप्तादिफलं,

ऋणं=  ग्रहेषु हीनं कार्यमित्यर्थः,

एव च =  एवकारात्फलयोराननप्रकारभेऽदेपि न धनर्णरीतिभेदः चकारोव्यवस्थार्थकः ॥ 45॥

अथ ग्रहाणां भुजान्तरफलमाह—

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता ॥

भचक्रकलिकाभिस्तु लिप्ताः कार्याग्रहेऽर्कवत् ॥46 ॥

। ग्रहभुक्तिः=  सूर्यादिग्रहाणां स्पष्टगतिः,

अर्कबाहुफलाभ्यस्ता=  सूर्यस्य भुजफेलेन कलात्मकमन्दफलेन गुणिता,

भचक्र कलिकाभिः=  द्वादशराशिकलाभिः,

विभाजिता=  भक्ता।  लिप्ताः=  प्राप्तफलकलाः,

ग्रहे=  सूर्यादिग्रहे,

अर्कवत्=  सूर्यस्य ! मन्दफलतुल्यं,

कार्याः=  धनर्णं कुर्याद्यदि सूर्यस्य मन्दफलं धनं तदा।सूर्यादिग्रहेषु धनमृणं चेदृणं कुर्यादित्यर्थः ॥ 46 ॥

स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः ॥

दोर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत्॥47 ॥

, निशापतेः=  चन्द्रस्य,

मध्यभुक्तिः=  मध्यमगतिः,

स्वमन्दभुक्तिसंशुद्धा=  चन्द्रस्य मन्दोच्चगत्या हीना कार्या।तादृशगतेः सकाशात्,

दोर्ज्यान्तरादिकं=  दोर्ज्यान्तरमादिभूतं यस्यैतादृश गतिफलं,

कृत्वा=  वक्ष्यमाणप्रकारेण दोर्ज्यान्तरगुणा भुक्तिरित्यादिना प्रसाध्य,

भुक्तौ=  चन्द्रमध्यगतौ,

ऋणधनं=  वक्ष्यमाणरीत्या हीनं युक्तं च,

भवेत्=  स्यादित्यर्थः ॥ 47 ॥

अथ ग्रहाणां मन्दस्पष्टगतिं वासनासूचनपूर्वगति—

ग्रुहभूक्तेः फलं कार्यं ग्रहवन्मन्दकर्मणि ॥

दोर्ज्यान्तरगुणा भुक्रिस्तत्त्वनेत्रोद्धृता पुनः ॥ 48 ॥

स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कलाः ॥

कर्कादौ तु धनं तत्र मकरादावृणं स्मृतम् ॥ 49॥

मन्दकर्मणि=  गतिमन्दफलानयने,

ग्रहभुक्तेः=  ग्रहगतिसकाशात्,

ग्रहवत्=  ग्रहस्य मन्दफलसाधनरीत्या,

फलं=  गतिमन्दफलं,

कार्यं=  साध्यमित्यर्थः।  भुक्तिः=  ग्रहमध्यगतिः,

दोर्ज्यान्तरगुणा=  ग्रहस्य तृतीयमन्दकर्मणि दोर्ज्याकरणे ये भुक्तभोग्यखण्डे तयोरन्तरेण गुणिता,

तत्त्वनेत्रोद्धृता=  पञ्चविंशत्यधिकशतद्वयेन भाज्या,

पुनः=  ततोऽनन्तरमित्यर्थः।  स्वमन्दपरिधिक्षुण्णा,

=  स्वस्य मन्दपरिधिनागुणिता,

भगणांशोद्धृता=  षष्ट्यधिकशतत्रयेण भक्ता फलं,

कलाः=  गतिमन्दफलकला भवन्ति।  कर्कादौ=  कर्कादिकेन्द्रे,

तत्र=  ग्रहमध्यगतौ,

धन=  स्वं,

मकरादौ=  मकरादिकेन्द्रे,

ऋणं=  क्षयं,

स्मृतं=  कथितम्। तु=  तुकारान्मन्दस्पष्टगतिः सिद्धाभवतीत्यर्थः ॥ 48 ॥ 49 ॥

अथ स्पष्टगतिसाधनमाह—

मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितः ।

तच्छेषं विवरेणाथ हन्यात्त्रिज्यान्त्यकर्णयोः ॥ 50 ॥

चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् ॥

ऋणमूनेऽधिके प्रोज्झ्य शेषं वक्रगतिर्भवेत् ॥51 ॥

, अथ मन्दस्फुटीकृतां भुक्तिं=  अनन्तरं पूर्वसिद्धां मन्दस्पष्टगतिं,

शीघ्रोच्चभुक्तितः= शीघ्रोच्चगतेः,

प्रोज्झ्य=  हीनं कृत्वा यदवशिष्टं,

तच्छेषं=  तदवशिष्टं केन्द्रगतिरूपं,

त्रिज्यान्त्यकर्णयोः=  ज्याद्वितीयशीघ्रकर्णयोः।ग्रन्थान्तरैकवाक्यतार्थमत्र त्रिज्याशब्देन द्वितीयशीघ्रफलकोटिज्या ग्राह्या। विचरेण=  अन्तरेण।  हन्यात्=  गुणयेत्,

चलकर्णहृतं=  द्वितीयशीघ्रकर्णेन भक्तं फलं,

भुक्तौ=  मन्दस्पष्टगतौ,

त्रिज्याधिके कर्णे=  : द्वितीयशीघ्रकर्णे त्रिज्यातोऽधिकेसति,

धनं=  युक्तं,

ऊने=  द्वितीयशीघ्रकर्णे त्रिज्यातो न्यूने सति,

ऋणं=  हीनं कार्यं तर्हि स्पष्ट गतिः स्यात् ॥ अधिके=  शीघ्रफलाधिके सति शीघ्रफले,

प्रोज्झ्य=  मन्दस्पष्टगतिं त्यक्त्वा,

शेषं=  यदवशिष्टं तत्,

वक्रगतिः=  वक्रा गतिः,

भवेत्=  स्यादित्यर्थः ॥ 50।  ।5.1 ॥

अथ वक्रगत्युपपत्तिमाह—

दूरस्थितः स्वशीघ्रोच्चाद्ग्रहः शिथिलरश्मिभिः॥

सव्येतराकृष्टतनुर्भवेद्वक्रगतिस्तदा ॥ 52 ॥

स्वशीघ्रोचात्=  स्वस्य शीघ्रोचात्,

दूरस्थितः=  दूरगतः। त्रिभाधिकान्तरितः,

ग्रहः=  खेटः,

शिथिलरश्मिभिः=  शीघ्रोच्चदेवताहस्तगशिथिलरज्जुभिः,

सव्येतराकृष्टत्तनुः=  वामभागेतराकृष्टतनुर्यदा, तदा=  तत्काले,

वक्रगतिर्भत्=  विपरीतगतिः स्यात् ॥ 52 ॥

अथ वक्रारम्भभागांस्तथा वक्रत्यागभागांशचाह—

कृतर्तुचन्द्रे र्वेदेन्द्रैः शून्यत्रेकैर्गुणाष्टिभिः ।

शररुद्रैश्चतुर्थेषु केन्द्रांशैर्भूसुतादयः ॥ 53 ॥

भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश्चक्राद्विशौधितैः।

अवशिष्टांशतुल्यैः स्वैः केन्द्रैरुज्झन्ति वक्रताम् ॥54 ॥

। भूसुतादयः=  भौमादिपञ्चताराग्रहाः,

चतुर्थेषु=  चतुर्थे,

कर्मसूत्पनैः,

केन्द्रांशैः=  केन्द्रभागैः,

कृतर्तुचन्दैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टिभिः शररुद्रैः वक्रिणो भवन्ति=  कृत

र्तुचन्द्रैरित्याद्युक्तरूपैः क्रमेण वक्रारम्भं प्राप्नुवन्तीत्यर्थः। स्वैःस्वैः=  स्वकीयैः स्वकीयैः,

तैः=  केन्द्रांशैः,

चक्रात्=  द्वादशराशिभ्यः,

विशोधितैः=  हीनैः,

अवशिष्टांशतुल्यैः=  शेषसमानैः,

स्वैः=  स्वकीयैः,

केन्द्रैः=  केन्द्रांशैः,

तु=  तुकारात्क्रमेण ते भौमादयः,

वक्रताम्=  वक्रत्वम्,

उज्झन्ति=  त्यजन्ति ॥ 53 ॥ 54 ॥


अथ वक्रान्तभागानामतुल्यत्वे कारणान्तरमप्याह—

महत्त्वाच्छीघ्रपरिधेः सप्तमे भृगुभूसुतौ ॥

अष्टमे जीवशशिजौ नवमे तु शनैश्चरः ॥ 55॥

सौर दीपिका। शीघ्रपरिधः=  प्रागुक्तशीघ्रपरिधः,

महत्त्वात्=  अधिकत्वात्,

भृगुभूसुतौ=  शुक्रभौमौ,

सप्तमे=  शीघ्रकेन्द्रस्य सप्तमराशौ,

जीवशशिजौ=  बृहस्पतिबुधौ,

अष्टमे=  अष्टमराशौ वक्रत्वं त्यजतः। शनैश्चरस्तु=  शनिस्तु,

नवमे=  नवमराशौवक्रत्वं त्यजति ॥ 55॥

१०६ सूर्यसिद्धान्त सं॥

अथ चन्द्रादिग्रहाणां विक्षेपसाधनमाह—

कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम् ॥

वामं तृतीयकं मान्दं बुधभार्गवयोः फलम् ॥56 ॥

स्वपातोनाद्ग्रहाज्जीवाशीघ्राद्भृगुजसौम्ययोः ॥

विक्षेपघ्न्यन्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः ॥ 57 ॥

।  कुजार्किगुरुपातानां=  भौमशनिजीवपातानां,

शीघ्रजं

फलं=  चतुर्थकर्मसिद्धफलं,

ग्रहवत्=  ग्रहतुल्यं यथा ग्रहे संस्कृतं तद्वदित्यर्थः।संस्कार्यमितिशेषः। बुधभार्गवयोः=  बुधशुक्रयोः तृतीयकं=  तृतीयकर्मसिद्धं,

मान्दं फलं=  मन्दफलं,

वामं= विलोमं संस्कार्यम्। स्वपातेनात्=  स्वस्य फलसंस्कृतपातेन हीनात्।  ग्रहात्=  स्फुटग्रहात्,

जीवा=  भुजज्या कार्या ।भृगुसौम्ययाः=  बुधशुक्रयोः। स्वपातोनात्। शीघ्रात्=  शीघ्रोच्चात्। भुजज्या कार्या।सा जीवा,

विक्षेपघ्नी=  मध्यमशरकलाभिर्गुण्या,

अन्त्यकर्णाप्ता=  चतुर्थकर्णाप्त फलं,

विक्षेप:=  स्पष्टशरः स्यात् ॥ विधोः=  चन्द्रस्य विक्षेपगुणिता विक्षेपकेन्द्रदोर्ज्या त्रिज्यया=  त्रिराशिज्यया भाज्येत्यर्थः ॥ 56 ॥ 57 ॥

अथ स्पष्टक्रान्तिमाह—

विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता।

दिग्भेदे विद्युता स्पष्टा भास्करस्य यथागता ॥58 ॥

क्रान्तिः=  ग्रहस्पष्टापमः,

विक्षेपापक्रमैकत्वे=  शरापम योरेकदिक् त्वे सति,

विक्षेपसंयुता=  शरेण युक्ता कार्या।  दिग्भेदे=  शरापमयोरन्यदिक्त्वेसति,

वियुता=  रहिता शेषदिक्का स्पष्टा क्रान्तिः स्यात् ॥

भास्करस्य=  सूर्यस्य,

यथागता=  पूर्वागतैव,

स्पष्टा=  स्पष्टक्रान्तिः स्यात् ॥ 58 ॥

अथ ग्रहाणां स्वाहोरात्रानयनमाह—

ग्रहोदयप्राणहता खखाष्ठैकोद्धृता गतिः ॥

चक्रासवो लब्धयुताः स्वाहोरात्रासवः स्मृताः॥59 ॥

।  गतिः=  ग्रहणां स्पष्टगतिः,

ग्रहोदयप्राणहताः,

=  साय ग्रहस्य यो राशिस्तस्य ये निरेक्षोदयास्तैर्गुणिताः,

खखाष्टैकोद्धृताः=  अष्टादश शतेन भक्ताः,

लब्धयुताः=  लब्धासुभिर्युताः,

चक्रासवः=  षट्शताधिकैकविंशतिसहस्रमितासवः,

स्वाहोरात्रासवः=  स्वस्व ग्रहस्याहोरात्रासवः,

स्मृताः=  कथिताः ॥ 59 ॥

क्रान्तेः क्रमोत्कमज्ये द्वे कृत्वा तत्रोत्क्रमज्यया ॥

हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम् ॥ 60 ॥

क्रान्तेः=  ग्रहस्य स्पष्टक्रान्तेः,

क्रमोत्क्रमज्ये=  क्रमज्योक्रमज्याच।  ।द्वे कृत्वा=  द्वेप्राप्ति प्रसाध्य, तत्र=  तयोर्मध्ये,

उत्क्रमज्यया=  क्रान्त्युत्क्रमज्यया,

हीना= रहिता,

त्रिज्या=  त्रिभज्या कार्याशेयं,

दिनव्यासदलं=  अहोरात्रवृत्तव्यासार्ध द्युज्येत्यर्थः। तत्=  दिनव्यासदलं,

दक्षिणोत्तरं=  दक्षिणगोले दक्षिणगोले उत्तरगोले च स्यात् ॥ 60।

क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता ॥

त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः ॥ 61 ॥

तत्कार्मुकमुदक्क्रान्तौ धनहानी पृथक् स्थिते ॥

स्वाहोरात्रचतुर्भागेदिनरात्रिदले स्मृते ॥ 62 ॥

याम्यक्रान्तो विपर्यस्ते द्विगुणे तु दिनक्षपे

विक्षेपयुक्तेनितया क्रान्त्या भानामपि स्वके ॥ 63 ॥

, क्रान्तिज्या=  क्रान्तिक्रमज्या,

विषुवद्भाघ्नी=  विषुवच्छायया गुण्या,

द्वादशोद्धृता= =  द्वादशभिर्भक्ता फलं,

क्षितिज्या=  कुज्यास्यात् ।सा,

त्रिज्यागुणा=  त्रिज्या गुण्या,

अहोरात्रार्थ कर्णाप्ता=  दिनव्यासदलेन भक्त्वा फलं चरज्या स्यात्,

तत्कार्मुकं=  तस्यधनुः,

चरजासवः=  चरज्योत्पन्नासवश्चरासव इत्यर्थः। स्वाहोरात्रचतुर्भागे=  पूर्वानीत स्वाहोरात्रस्य चतुर्थांशे,

पृथक् स्थिते=  स्थानद्वयस्थे,

उदक्क्रान्तौ= उत्तरक्रान्तौ सत्यां चरात्,

धनहानी= युक्तहीनो कार्यौ तौ क्रमेण,

दिनरात्रि दले=  दिनार्धा रात्र्यर्धे,

स्मृते=  कथिते,

याम्यक्रान्तौ=  दक्षिणक्रान्तौ सत्यां,

विपर्यस्ते=  दिनरात्रि दले भवतः यत्र चरजासवे धनं कृतं तत्र रात्र्यर्धे यत्र हीनं कृतं तत्र दिनार्धं स्यात् ।

तु=  तुकारात्ते दिनरात्रि दले,

द्विगुणे=  द्वाभ्यां गुणिते कृते,

दिनक्षपे=  दिनमान रात्रिमानेस्तः। विक्षेपयुक्तोनितया एवं नक्षत्रशरेण युतोनितया,

भानां=  नक्षत्राणां,

क्रान्त्या=  पूर्वोक्त प्रकारेणानीतया क्रान्त्या,

स्वके=  अपि नक्षत्राणामपि दिनक्षपा प्रमाणे साध्ये इत्यर्थः॥६१ । ६२ । ६३॥

अथ भभोगमानपूर्वकं तिथिभोगमानं ग्रहस्य नक्षत्रानयनं चाह—

भभोगोऽष्टशतीलिप्ताः खाशिवशैलास्तथा तिथेः ।

ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम् ॥ 64 ॥

अष्टशतीलिप्ताः=  अष्टशतकलाः,

भभोगः=  नक्षत्रंभोगः,

तिथेः खाश्विशैलाः=  तिथेर्विंशत्यधिकसप्तशतकलाः,

तथा=  भोग इत्यर्थः,

ग्रहलिप्ताः= यस्य ग्रहस्यनक्षत्र ज्ञान मभीष्टं तद्ग्रहस्य कलाः,

भभोगाप्ताः=  भभोगेन भक्ताः फलं,

भानि=  गतनक्षत्राणि भवन्ति।शेषं वर्तमाननक्षत्रस्य गतकलास्तस्मात्,

भुक्त्या=  ग्रहगत्या,

दिनादिकं=  गतदिनादिकं साध्यम्।  ।अयमर्थः ॥ शेषकलाभिरूनं भभोगं भोग्यकला भवन्ति ।भुक्तभोग्यकलासु ग्रहगत्या भाजिते फलं क्रमेण गत, गम्यदिनादिकं भवति ॥ 64 ॥

अथ प्रसंगाद्योगानयनमाह—

रवींदु योगलिप्ताभ्यो योगा भभोगभाजिताः ।

गतगम्याश्च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः ॥ ॥ 65 ॥

। रवीन्दुयोगलिप्ताभ्यः=  सूर्याचन्द्रमसोर्योगकलाभ्यः,

योगाः=  विष्कम्भादयः ।भभोगभाजिताः=  भभोगेन विभक्ता भवति।  गताः=  गतकलाः,

गम्याश्च=  गम्यकलाश्च,

षष्टिघ्नाः=  षष्टिगुणिताः,

भुक्तियोगाप्तनाडिकाः=  सूर्याचन्द्रमसोर्गतियोगेन भजनाल्लब्धघटिका गतैष्या भवन्ति ॥ 65॥

अथ प्रसंगात्तिथ्यानयनमाह—

अर्कोनचन्द्रलिप्ताभ्यस्तिथयो भोगभाजिताः ।

गता गम्याश्च षष्टिघ्नाना नाड्यो भुक्त्यन्तरोद्धृताः ॥ 66 ॥

अर्कोनचन्द्रलिप्ताभ्यः=  व्यर्केन्दुकलाभ्यः,

तिथयः=  प्रतिपदादयः,

भोगभाजिताः=  तिथिभोगेन विभक्ता भवन्ति।  गताः=  गतकलाः,

गम्याश्च=  गम्यकलाश्च,

षष्टिघ्नाः=  षष्टिगुणिताः,

भुक्त्यन्तरोद्धृताः=  सूर्याचन्द्रमसोर्गत्यन्तंतरेण भक्ताः फलं,

नाड्यः=  क्रमेण वर्तमानातिथेः गतघटिका गम्यघटिकाश्च भवन्ति ॥ 66 ॥

अथ पञ्चाङ्गावशिष्टं करणानयनं विवक्षुस्तावत्स्थिरकर्णान्याह—

ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम् ॥

किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्चापरार्धतः 67

। कृष्णायाः=  कृष्णपक्षीयायाः।  चतुर्दश्याः=  चतुर्दशीतिथेः,

अपरार्धतः=  द्वितीयार्धाद् द्वितीयार्धामारभ्य इत्यर्थः,

धृवाणि=  स्थिरकर्णानि स्युः।तान्याह,

शकुनिः=  शकुनिकरणं प्रथमम् !,

नागं=  नागांख्यं द्वितीयम्,

तृतीयं तु चतुष्पदं=  चतुष्पदाख्य तु तृतीयम्,

किस्तुघ्नं=  किंस्तुघ्नाख्यं चतुर्थे करणमस्ति। अयमर्थः । प्रतिमासं कृष्णपक्षीयचतुर्दश्या अपरार्धे शकुनिकरणम् । अमापूर्वार्धे नागकरणम् ।अमाया उत्तरार्धे चतुष्पदाख्यं करणम् ।शुक्लपक्षीय प्रतिपत्पूर्वार्धे किंस्तुघ्ननामकरणमिति ॥

अथ चरकरणान्याह,

बवादीनि ततः सप्त चराख्यकरणानि च ॥

मासेऽष्टकृत्व एकैकं करणानां प्रवर्तते ॥ 68 ॥

ततः=  स्थिरकरणकथनानन्तरं शुक्लपक्षीयप्रतिपदपरार्धतः,

बवादीनि=  बवकरणमादियेषां तानि,

सप्त=  बवम्, बालवम्, कौलवम्, तैतिलम्, गरम्, वणिजम्, विष्टिः,

, भद्रा=  इति सप्तसंख्याकानि,

चराख्यकरणानि=  चर,

ल=  करणानि भवन्ति।  मासे=  एकस्मिश्चान्द्रमासे,

करणानां=  बवादिसप्तकरणानां मध्ये,

एकैकम्=  एकमेकं करणं,

अष्टकृत्वः=  अष्टावृत्तिः,

प्रवर्तते=  प्रकर्षेण भवतीत्यर्थः ॥ 68 ॥

अथ सर्वेषां करणानां भोगं स्फुटगतेः समाप्तिं चाह—

तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत्।  ।

एषा स्फुटगतिः प्रोक्ता सूर्यादीनां खचारिणाम् 69.

।  सर्वेषां करणानां=  चरकरणानां स्थिरकरणानां च,

तिथ्यर्धधभोगं=  तिथ्यर्धकालमितावस्थानं,

प्रकल्पयेत्=  कल्पनां कुर्या दित्यर्थः,

सूर्यादीनां=  सूर्य आदिर्येषां ते सूर्यादयस्तेषां,

खचारिणां=  खेटानां,

एषा=  अदृश्येत्यादिप्रकल्पयेदित्यन्तं यावत्,

स्फुटगतिः=  स्पष्टगतिः स्पष्टक्रियाज्ञानसंपादिका,

प्रोक्ता=  तुभ्यं प्रति मया कथिता। एतेन स्पष्टाधिकारः परिपूर्तिमाप्त इति सूचितम् ॥ 69 ॥

इति श्रीसिद्धान्तवागीश माधवप्रसादपुरोहितविरचितायां यां द्वितीयः स्पष्टाधिकारः सम्पूर्णः ॥ 2 ॥







अथ त्रिप्रश्नाधिकारः।

तत्र विना प्रश्र्नं गुरोस्तत्प्रतिपादनेच्छामुदयाद्विना च तदिच्छ छात्राणां तज्ञज्ञानासम्भवात्त्रयाणां दिग्देशकालानां प्रश्नाः सोत्तरा यस्मिन्नधिकारे स त्रिप्रश्नाधिकारः।

तत्र प्रथमं दिग्ज्ञानमाह—

शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपि वा समे ॥

तत्र शंक्वङ्गुलैरिष्टैः समं मण्डलमालिखेत् ॥ 1 ॥

तन्मध्ये स्थापयेच्छकुं कल्पना द्वादशागुलम् ॥

तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्धयोः ॥ 2 ॥

तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ ।

तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा ॥ 3 ॥

याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा ॥

दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्भदेव हि॥4 ॥

। तत्र=  दिक्साधनोपक्रमे,

अंबुसंशुद्धे=  अम्बुना जलसमीकृत्,

शिलातले=  शिलाप्रदेशे,

अपि वा=  अथवा,

वज्रलेपे=  अनेकवस्तुमिश्रितपदार्थस्य लेपो यस्मिन् स वज्रलेपस्तस्मिन् वज्रलेपकृत चत्वरादौ,

समे=  समस्थाने भूमिपृष्टे,

इष्टै:=  अभीप्सितै:,

शंक्वङ्गुलैः=  शङ्गुः प्रमाणाङ्गुलैः,

समम्=  अवक्रं नतोन्नतरहितम्,

मण्डलं=  वृत्तम् क्षितिजाख्यं,

आलिखेत्=  रचयेत्।

तन्मध्ये=  तद्वृत्तकेन्द्रे,

कल्पनाद्वादशांगुलम्=  कल्पनयाद्वादशसङ्ख्याकांगुलानि तुल्यानि यस्मिंस्तं द्वादशविभागात्मकमित्यर्थः,

शंकुं=  काष्ठादिनिर्मितं दण्डं,

स्थापयेत्=  न्यसेदित्यर्थः।  तच्छायाग्रं=  स्थापितशङ्गोच्छायाग्रं,

वृत्ते=  लिखित मण्डले,

पूर्वापरार्धयोः=  दिनस्य पूर्वाह्नपराह्नयोः,

यत्र=  यस्मिविभागे,

स्पृशेत्=  स्पर्श कुर्यात्,

तत्र=  छायग्रस्पर्शस्थानयो: उभौ=  द्वौ,

बिन्दू=  बिन्दुरूपचिह्ने,

पूर्वापराभिधौ=  पूर्वापराख्यौ, विधाय= कृत्वा,

तन्मध्ये=  पूर्वापर बिन्दौ मध्ये,

तिमिना=  मत्स्येन,

रेखा= सरळा रेखा,

कर्तव्या= कार्या,

दक्षिणोत्तरा= सा याम्योतरा रेखा भवति। याम्योत्तरदिशोः =  दक्षिणोत्तरदिशो:,

मध्ये=  मध्यस्थाने,

तिमिना=  मत्स्येन,

पूर्वपश्चिमा=  पूर्वापरा रेखा कार्येत्यर्थः।  तद्वदेव=  पूर्वोक्तप्रकारेणैव,

दिङ्नध्यं मत्स्यैः= दिग् द्वया न्तरोत्पन्नमत्स्यैः। मत्स्यान्तरमत्स्यैरित्यर्थः,

हि=  निश्चयेन,

विदिशः=  कोणदिशः,

संसाध्याः सम्यक् प्रकारेण साध्याः ॥ 1। 2। 3। 4 ।

अथ तात्कालिकच्छायाग्रस्थानमाह—

चतुरस्र बहिः कुर्यात्सूत्रैर्मध्याद्विनिर्गतैः॥

भुजसूत्रांगुलैस्तत्र दत्तरिष्टप्रभा स्मृता ॥ 5॥

,

मध्यात् =  दिग्रेखासम्पातरूपमध्यचिह्नात्,

विनिर्गतः=  निःसृतैः,

सूत्रैः=  अष्टदिग्रेखारूपसूत्रैः,

बहिः=  वृत्ताद्बहिः,

चतुरस्रं =  समचतुर्भुजं वर्गक्षेत्रं,

कुर्यात् =  रचयेदित्यर्थः ।

तत्र=  समचतुर्भुजे,

भुजसूत्रांगुलैः =  वक्ष्यमाणभुजमितसूत्रस्यांगुलैः,

दत्तैः=  पूर्वापरसूत्रादर्धज्यावदीयमानः,

इष्टप्रभा=  इष्टच्छाया,

स्मृता =  कथिता ॥ 5 ॥

प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् ॥

उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्यते ॥ 6 ॥

प्राक्पश्चिमाश्रिता=  पूर्वपश्चिमसम्बद्धा साधिता ।

रेखा = पूर्वपररेखा,

सममण्डलं =  समवृत्तं,

प्रोच्यते =  कथ्यते। वृत्तान्तःस्थिता पूर्वापररेखा सममण्डलपदेनोच्यत इत्यर्थः ।

उन्मण्डलं=  सैव रेखोन्मण्डलं ।

विषुवन्मण्डलं च =  सैव रेखा विषुववृत्तं च,

परिकीर्त्यते =  कथ्यत इत्यर्थः ॥ 6॥

अथाग्रज्ञानमाह—

रेखा पाच्यपरा साध्या विषुवद्भाग्रगा तथा॥

इष्टच्छायाविषुवतोमध्यमग्राभिधीयते ॥ 7॥

विषुवद्भाग्रगा=  पलभाग्रगा दक्षिणोत्तररेखायां विषु वच्छाया यत्र लग्ना तत्स्थानस्पर्शिनीत्यर्थः ।

प्राच्यपरा रेखा=  पूर्वापररेखानुकारा रेखा,

तथा =  पूर्वांपररेखायाः समानान्तरेत्यर्थः ।

साध्या=  कार्येत्यर्थः ।

इष्टच्छाया विषुवतोः =  इष्टच्छायाग्रपलभाग्ररेखयोः,

मध्यं =  पूर्वलिखितचतुरस्रेऽङ्गलात्मकमन्तरम्,

अग्रा=  कर्णवृत्ताग्रा,

अभिधी यते=  कथ्यते ॥ 7॥

अथ प्रसंगाशातच्छायातः कर्णज्ञानं तच्छुद्धिं चाह—

शंकुच्छायाकृतियुतेमूलं कर्णोऽस्य वर्गतः ॥

प्रोज्झ्य शंकुकृतिं मूलं छाया शंकुर्विपर्ययात् ॥8॥

शंकुच्छायाकृतियुतेः =  शंकोश्छायायाश्च वर्गयोगस्य


, मूलं=  पदं,

कर्णः=  छायाकर्णः स्यात् ।

अस्य=  छायाकर्णस्य,

वर्गतः=  कृतेः सकाशात्,

शंकुकृतिं=  शंकुवर्गं,

प्रोज्झ्य =  पातयित्वा,

मूलं=  शेषस्य पदं,

छाया=  प्रभास्यात् ।

विपर्ययात् =  छायासाधनवैपरीत्यात् । कर्ण वर्गे छायावर्गहीने यच्छेषं तस्य मूलमित्यर्थः ।

शंकुः=  द्वादशांगुलशंकुः स्यात् ॥ 8 ॥

अथायनांशानामानयनमाह—

त्रिंशत्कृत्यो युगे भानां चक्रं प्रापरिलम्बते॥तद्गुणाद्भूदिनैर्भक्ताद्द्युगणाद्यदवाप्यते ॥ 9 ॥

तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः ॥

युगे=  महायुगे,

भानां=  नक्षत्राणां,

चक्र=  वृत्तं क्रान्तिवृत्तमित्यर्थः ।

त्रिंशत्कृत्यः =  त्रिंशताकृतिर्विंशतिः । त्रिंशद्गुणितविंशतिः । षट्शतमिति यावत् ।

प्राक् =  पूर्वभागे,

परिलम्बते=  ध्रुवाधारभगोलस्थानान्तवारमवलम्बते । अर्था स्वमार्गे प्रतीच्या कियद्भिर्भागैरचलित्वा ततः परावर्त्य स्वस्थानं प्राप्य । पुनश्च तावद्भिरंशैः पूर्वस्यां चलति ततोऽपि परावर्त्य यथास्थितंमवतीत्येको विलक्षणो भगणः । तेन प्रागित्युपलक्षणम् । संवाद काले प्रागवलम्बनेन प्राक्परिलम्बत,

इत्युक्तम् ।

तद्गुणात्=  षट्शतगुणितात्,

द्युगणात् =  अहर्गणात्,

भूदिनैः=  युगल कुदिनैः,

भक्तात्=  हृतात्,

यदवाप्यते=  यल्लभ्यते,

तत्=  तस्य,

दो=  भुजः कार्यः,

त्रिघ्नाः =  भुजांशास्त्रिभिर्गुणिताः, कार्याः,

दशाप्तांशाः=  तेभ्यो दशभक्तेन लब्धाः,

अयना भिदाः=  अयनाख्याः,

विशेयाः =  विशेषेण बोध्याः ॥ 9॥

स्पष्टाधिकारे कान्त्याधानयनमुक्तं तत्केवलाद्ग्रहान्न साध्यमित्याह—

तत्संस्कृताद्ग्रहात्क्रान्तिच्छायाचरदलादिकम्॥10॥

। तत्संस्कृतात्=  अयनांशसंस्कृतात्,

ग्रहात् =  गणितागत खेटात्,

क्रान्तिच्छायाचरदलादिकं =  क्रान्तिरपमश्छाया वक्ष्य माणाः। चरदलं चरमादिशब्दाल्लग्नमायनवलनमायनदृक्कर्म च संगृह्यते। तत् साध्यम् ॥ 10 ॥

अथायनांशानां प्रत्यक्षसिद्धत्वमाह—

स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये ।

प्राक् चक्रं चलितं हीने छायार्कात्करणागते ॥11॥

अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिके ।

अयने =  दक्षिणायने तथा उत्तरायणेकक्र्कादौ मकरा दौ चेत्यर्थः ।

विषुवद्वये =  गोलसन्धौ मेषा दौ वा तुला दौ चह्नितं चक्रं,

दृक्तुल्यतां= दृष्टिगोचरतां,

स्फुटं =  प्रत्यक्षं,

गच्छेत् =  भवे दयनद्वयेपरमक्रान्तित्वाद्विषुवद्वये च क्रान्त्यभावादित्यर्थः ।

छायार्कात्=  छायार्को वक्ष्यमाणस्तस्माच्छायार्कात्,

करणा गते =  गणितागतस्फुटार्के,

हीने=  न्यूने सति,

च=  भचक्र,

प्राक् =  पूर्वभागे,

चलितं =  गतम् ।

अथाधिके=  छाया र्का‌ऊत्करणागतेऽधिके सति,

शेषैरन्तरांशैः=  गणितागतकरणागत सूर्ययोरन्तरांशैः,

आवृत्य =  भचक्रं परिवर्त्य,

पश्चात् =  प्रत्यक्,

तथा =  चलितमित्यर्थः । ज्ञेयम् ॥ 11 ॥

अथ चराद्युपजीव्यां पलभामाह—

एवं विषुवती छाया स्वदेशे या दिनार्धजा ॥ 12 ॥

दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा ॥

। स्वदेशे=  स्वाभीष्टदेशे,

एवम् =  अयनांशसंस्कृतसूर्योत्पन्ना।

विषुवती=  विषुवद्दिनसम्बद्धा,

दिनार्धजा=  माध्याहिकी,

वा=  याचप्रमाणा,

छाया=  द्वादशांगुलशंकोश्छाया,

दक्षिणोत्तररेखायां =  याम्योत्तरेखायां,

सा=  तावत्प्रमाणा,

तत्र=  स्वाभीष्टदेशे,

विषुवत्प्रभा=  पलभा भवति ॥ 12 ॥

अथ लम्बाक्षयोरानयनमाह—

शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते ॥13॥

लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा ॥

त्रिज्ये=  स्थानद्वयस्थापिते त्रिज्ये,

शकुच्छायाहते=  द्वादशाङ्गुलशंकुपलभागुणिते । एकत्र शङ्कुगुणितापरत्र पलभया गुणिते त्यर्थः ।

विषुवत्कर्णभाजिते=  पलकर्णेनोभयत्र भाज्या, फले क्रमेण,

लम्बाक्षज्ये=  यत्र शङ्कुना त्रिज्या पलकर्णमक्ता तत्रलब्धं लम्बज्या स्यादन्यत्राक्षज्या स्यात् ।

तयोः=  लम्बाज्याक्षज्ययोः,

चापे=  धनुषी,

लम्बाक्षौ=  क्रमेण लम्बांशाक्षांशौ स्याताम् ।

सदा=  सर्वकाले, उभयगोल इत्यर्थः । तौ,

दक्षिणौ=  दक्षिण दिक्स्थौ भवतः ॥ 13 ॥

अथ मध्यच्छायावशेनाक्षांशानयनमाह—

मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका 14

स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणे भुजे ॥

उत्तराश्चोत्तरे याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः 15

दिग्भेदे मिश्रिताः साम्ये विश्लिष्ट्याश्चाक्षलिप्तिकाः॥

। मध्यच्छाया=  स्वेष्टमध्याह्ने साधितदिङ्मध्यगतशङ्कोर्दक्षिणो,  त्तररेखास्थच्छाया,

भुजा=  माध्याह्निको भुजः,

तेन=  भुजेन,

त्रिभमौर्विका =  त्रिज्या,

गुणिता=  हता,

स्वकर्णाप्ता=  मध्याह्नच्छायाकर्णेनाप्ता,

धनुः =  फलस्य चापं,

लिप्ताः=  कलाः,

नताः=  रवेर्नतलिप्ताः स्युः ।

ताः=  नतकलाः,

दक्षिणे भुजे=  भुजे दक्षिणदिक्स्थे सति,

उत्तराः=  उत्तरदिक्काः स्युः।

उत्तरे =  उत्तरगे भुजे सति,

याम्याः =  दक्षिणाः ।

ता=  नतलिप्ताः,

सूर्यक्रान्तिलिप्तिकाः =  सूर्यापमकलाः,

दिग्भेदे =  देशोभिन्नत्वे,

मिश्रिताः=  युक्ताः कार्याः,

साम्ये =  दिक्साम्ये, विश्लिष्टाः=  अन्तरिताः कार्याः,

अक्षलिप्तिकाः=  अक्षकला नन्ति ॥ 14 । 15 ॥

अथाक्षांशेभ्य पलभानयनमाह—

ताभ्योऽक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम् 16

लम्बज्यार्कागुणाक्षज्या विषुवद्भाथ लम्बया ॥

ताभ्यः =  अक्षकलाभ्यः,

अक्षज्या=  अक्षांशज्या भवति ।

च=  समुञ्चये,

तद्वर्ग=  अक्षज्यावर्ग,

त्रिज्याकृतेः=  त्रिभज्या वर्गात्,

प्रोज्झ्य =  त्यक्त्वा,

पदं=  मूलं,

लम्बज्या =  लम्बांशज्या भवति ।

अथ=  अनन्तरम्,

अक्षज्या=  अक्षांशज्या।

अर्कगुणा=  द्वादशगुणा,

लम्बया=  लम्बज्या भक्ता फलं,

विषुवद्भा=  पलभा स्यात् ॥ 16 ॥

अथ छायार्कसाधनमाह—

स्वाक्षार्कनतभागानां दिक्साम्येन्तरमन्यथा ॥17॥

दिग्भेदेऽपक्रमः शेषस्तस्य ज्या त्रिज्यया हता॥

परमापक्रमज्याप्ता चापं मेषादिगो रविः ॥ 18॥ ।

कर्कादौ प्रोज्झ्य चक्रार्धात्तुलादौ भार्धसंयुतात् ॥

मृगादौ प्रोज्झ्य भगवान्मध्याहेऽर्कः स्फुटे भवेत् ॥

स्वाक्षार्कनतभागानां=  स्वदेशीयाक्षांशानां मध्यच्छाया भुज स्तेन गुणिता त्रिभमौर्विका, इत्यादिना साधितानामर्कनतांशानां च,

दिसाम्ये =  एकदिक्स्थे, अन्तरं=  वियोगं कार्यम् ।

दिग्भेदे=  अन्यदिक्त्वे,

अन्यथा =  योगः कार्यः ।

शेषः=  संस्कारोत्पन्नोऽङ्कः,

अपक्रमः=  सूर्यस्य क्रान्तिः स्यात् ।

तस्य=  क्रान्तेः,

ज्या=  भुजज्या,

त्रिज्यया=  त्रिराशिज्यया,

हता=  गुण्या,

परमापक्रमज्यासा=  परमक्रान्तिज्यया भक्ता,

चापं=  फलस्य धनुः,

मेषादिगः=  मेषादिराशित्रयान्तर्गतः,

रवि=  सूर्यः स्यात् ।

कर्कादौ=  कर्कादित्रये,

चक्रार्द्धात् =  षड्राशितः,

प्रोज्झ्य= त्यक्त्वा,

तुलादौ=  तुलादिराशित्रये भाधंसंयुतात षड्राशियुतादागतार्कः।

मृगादौ=  मकरादिराशित्रये,

भगणात् =  द्वादशराशिभ्यः,

प्रोज्झ्य = त्यक्त्वा शेषं,

मध्याह्ने =  मध्याहकाले,

अर्कः स्फुटो भवेत् =  सूर्यः स्पष्टो भवेत् ॥ 17 । 18 ॥

अथागतस्पष्टसूर्यान्मध्यमार्कानयनमाह—

तन्मान्दमसकृद्वामं फलं मध्यो दिवाकरः॥ 16॥

। तन्मान्दं फलं=  स्फुटार्कात्साधितं मन्दफलं,

वामं=  _ विलोमम्,

असकृत् =  अनेकवारं स्पष्टसूर्ये संस्कार्यम् । अयमर्थः । स्फुटार्कस्य मन्दफलेन स्फुटार्को वामं संस्करणीयः । केन्द्रे ऋणात्मके स्फुटार्के धनं, धनात्मके ऋणं कार्य स च संस्कारोऽसत्कार्य एवमसकृत्कर्मणा साधितः,

दिवाकरः =  सूर्यः,

मध्यः =  मध्यमो भवेत् ॥ 19 ॥

अथ मध्यच्छायाकर्णयोः साधनमाह—

स्वाक्षार्कापक्रमयुतिर्दिक्साम्येऽन्तरमन्यथा ॥

शेष नतांशाः सूर्यस्य तदाहुज्या च कोटिज्या॥20

शंकुमानांगुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम् ॥

कोटिज्यया विभज्यासे छायाकर्णावहर्दले ॥ 21 ॥

। दिसाम्ये=  दिगैकत्वे,

स्वाक्षार्कापक्रमयुतिः= स्वदेशीयाहांशानां सूर्यकान्त्यंशानां च योगः,

अन्यथा =  दिग्भे, अन्तरं =  वियोगः कार्यः ।

शेषं=  संस्कारोत्पन्नमुभयत्र,

सूर्यस्य =  अर्कस्य,

नतांशाः=  मध्याह्ने नतांशाः भवन्ति ।

तद्बाहुज्याकोटिज्या च=  तेषां नतांशानां भुजज्या दृग्ज्या र स्यात्, नवतिशुद्धा नतांशाः कोटिस्तदुत्पन्ना ज्या कोटिज्या महाशंकुः स्यात्,

भुजत्रिज्ये=  भुजज्यात्रिज्ये,

शंकुमानांगुलाम्पस्ते=  शंकुमानांगुलैर्द्वादशभिः संगुण्ये,

कोटिज्यया =  नतांशोननक्त्यंशाना,

ज्यया,

विभज्य=  भक्त्वा,

आप्ते =  लब्धे,

अहर्दले =  मध्याह्ने,

छाया कर्णौ =  छाया तत्कौर्णौ,

यथाक्रमम् =  यथाक्रमेण भवतः । प्रथमस्थाने या लब्धिः सा मध्याहच्छाया द्वितीयस्थाने या लब्धिः सा च मध्याह्नच्छायाकर्णौ भवतीत्यर्थः ॥ 20 । 21 ॥

अथ भुजसाधनं विवक्षुः प्रथममयां कर्णाग्र भानयति—

क्रान्तिज्या विषुवत्कर्णगुणाप्ता शंकुजीवया ॥22

अर्काग्रा स्वेष्टकर्णघ्नी मध्यकर्णोद्धृता स्वका॥

, क्रान्तिज्या=  अर्कक्रान्तिज्या,

विषुवत्कर्णगुणा=  पलकर्णेन गुणा,

शंकुजीवया=  शंकुज्यया द्वादशांगुलरूपशंकुज्ययेत्यर्थः द्वादशभिरिति यावत् ।

आप्ता=  भक्ता फलम्,

अर्काना=  सूर्यस्या भवति । सा,

स्वेष्टकर्णघ्नी=  अभीष्टकालिकच्छायाकर्णेन गुण्या,

मध्यकर्णोद्धृता=  मध्याह्निककर्णेनार्थात् त्रिज्यया भाज्या लब्धा,

स्वका=  अभीष्टकालिकाग्रा स्यात् ॥ 22 ॥

अथ भुजानयनमाह—

विषुवद्भायुतार्काग्रा याम्ये स्यादुत्तरो भुजः ॥ 23॥

विषुवत्यां विशोध्योदग्गोले स्याबाहुरुत्तरः॥

विपर्यया जो याम्यो भवेत्प्राराच्यपरान्तरे ॥ 24 ॥

माध्याह्निको भुजो नित्यं छाया माध्याह्निकी स्मृता ।

,

याम्ये=  दक्षिणगोले,

अर्काग्रा=  सूर्यस्याभीष्टकालिक कर्णाग्रा,

विषुवद्भायुता=  पलभया युक्ता,

उत्तरोभुजा स्यात् =  ही शंकुमूलादुत्तरों भुजः स्यात्,

उदग्गोले =  उत्तरगोले,

विषुवत्यां=  पलभायां,

विशोध्य=  कर्णाग्रां त्यक्त्वा शेषम्,

उत्तरः=  उत्तर दिक्कः,

बाहुः स्यात् =  भुजः स्यात् ।

विपर्ययात् =  विपरीत शोधनात् । कर्णाग्रायां पलभायाः शोधनात्,

याम्यः=  दक्षिणः,

भुजः=  बाहुः,

प्राच्यपरान्तरे भवेत् =  छायाग्रात् पूर्वा । परसूत्रान्तरालप्रदेशे स्यात् । अयमर्थः । दिङ्मध्यस्थापितशंकुच्छायाग्रे बिन्दुं कृत्वा दिङ्मध्यपूर्वापररेखाछायाग्रपर्यन्तं भुजश्चेदुत्तर एव भुजः । । दक्षिणभुजश्चेदक्षिणभुज एव भुजः । दिङ्मध्यपूर्वापररेखाछायाग्रपर्यन्तंपूर्वोक्तप्रकारेण यदा भुजाभावस्तदा दिङ्मध्यस्थापितशंकोश्छायाग्रमपि

पूर्वापररेखायामेव तिष्ठति ।

माध्याहिकः=  मध्याह्नकालीनः, भुजः= 

बाहुः,

नित्यं =  सदा,

माध्याहिकी=  मध्याहकालिकी,

छायस्मृता=  छाया कथिता ॥ 23 । 24 ॥

अथ सममण्डलकर्णामयनमाह—

लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्कणे ॥ 25 ॥

क्रान्तिज्याप्ते तु तौकर्णौसममण्डलमे स्वौ ॥

लम्बाक्षजीवे =  लम्बज्याक्षज्ये,

विषुवच्छायाद्वादश्यसङ्गुण्ये=  क्रमेण पलभाद्वादशगुणिते,

क्रान्तिज्याप्ते=  उभयत्रक्रान्तिज्यया भक्ते फले,

सममण्डलगे=  समवृत्तस्थे,

रवौ= सूर्ये ।

तौकर्णौ =  छायोत्पन्नौ कर्णौ भवतः ।

तु =  तुकारादुभयत्र सम वृत्तस्थेऽर्के द्वादशांगुलशङ्कोश्छायाकर्णः स्यात् ॥ 25 ॥

अथ प्रकारान्तरेण सममण्डलकर्णानयनमाह—

सौम्याक्षोना यदा क्रान्तिः स्यात्तदा द्युदलश्रवः॥26॥

विषुवच्छाययाभ्यस्तः कर्णो मध्याग्रयोद्धृतः॥

यदा=  यस्मिन्देशे यस्मिन्समये,

सौम्या= उत्तरा,

क्रान्ति=  अपमः,

अक्षोना=  अक्षादल्पा,

स्यात्तदा =  तस्मिन्देशे तस्मिन्काले सममण्डलगे रवौ द्वादशाङ्गलशङ्कोश्छायाकर्णौ भवति नान्यथा । अथ,

द्युदलश्रवः=  पूर्ववदानीतो द्युदलकर्णः मध्याह्नकाले छायाकर्णः,

विषुवच्छायया=  पलभया,

अभ्यस्ता=  गुणितः,

मध्याग्रया=  मध्याह्नकर्णाग्रया,

उद्धृतः=  भक्तः । फलं,

कर्णः =  सममण्डलस्थे ग्रहे द्वादशाङ्गलशङ्कोश्छायाकर्णः स्यात् ॥ 26 ॥

पुनरमायाः साधनमाह—

स्वक्रान्तिज्यात्रिजीवानी लम्बज्याप्ताप्रमौर्विका ॥27॥

स्वेष्टकर्णहता भक्का त्रिज्ययाग्राङ्गलादिका ॥

,

स्वक्रान्तिज्या =  स्वाभीष्टापमज्या,

त्रिजीवानी =  त्रिज्यया गुणिता,

लम्बज्यासा=  लम्बज्यया भक्ता फलं,

अग्रमौर्विका=  अप्रैव मौर्विका जीवा इत्यप्रमौर्विका अग्रा भवतीत्यर्थः । सा,

स्वष्टक

हता=  स्वाभिमतकर्णेन गुणिता,

त्रिज्यया=  त्रिभज्यया,

भक्ता=  हृता फलम्,

अङ्गलादिकामा=  अङ्गलामिकामा

त्कर्णवृत्ताग्रा भवति ॥ 27 ॥


अथ कोणशंकुहग्ज्ययोः साधनमाह—

त्रिज्यावर्धितोऽप्रज्यावर्गोनाहादशाहतात् ॥28॥

पुनर्दादशनिघ्नाच लभ्यते यत्फलं बुधैः॥

शङ्कुवर्गार्धसंयुक्तविषुवर्गभाजितात् ॥ 29 ॥

तदेव करणी नाम तां पृथक् स्थापयेद्बुधः ॥

अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा ॥ 30 ॥

भक्ता फलाख्यं तद्द्वर्गसंयुक्तकरणीपदम् ॥

फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः ॥ 31 ॥

याम्ययोर्विदिशोः शङ्कुरेवं याम्योत्तरे स्वौ ॥

परिभ्रमति शङ्कोस्तु शङ्कुरुत्तरयोस्तु सः ॥ 32 ॥

तत्त्रिज्यावर्गविश्लेषान्मूलं दृग्ज्याभिधीयते ॥

त्रिज्यावर्गार्धतः=  त्रिज्यावर्गस्यार्धात्,

अग्रज्यावर्गोनात् =  अग्रज्याया वर्गेण हीनात् शेषात्,

द्वादशाहतात् =  द्वादशगुणितात्,

पुनः= द्वितीयवारं,

द्वादशनिघ्नात्=  द्वादश गुणात्,

च=  चः समुच्चये,

शङ्कुवर्गार्धसंयुक्तविषुववर्गभाजितात् =  द्वादशाङ्गुलशङ्कोवर्गार्धेन युक्तं यत्पलभावर्गं तेन भाजितात्,

बुधैः =  गणितज्ञैः,

यत् =  यावत्संख्यामितं,

फलं लभ्यते=  फलं प्राप्यते,

तदेव =  तावत्संख्यामितं फलमेव,

करणीनाम=  करणीसंज्ञा ज्ञेयेत्यर्थः ।

बुधः=  गणकः,

तां =  करणी,

पृथक्=  एकान्ते,

स्थापयेत् =  स्थापनं कुर्यात् ।

विषुवच्छाया=  पलभा,

अर्कघ्नी=  द्वादशगुणिता,

अग्रज्यया=  पूर्वगृहीतयाग्रज्यया,

गुणिता= हता,

तथा भक्ता=  शङ्कुवर्गार्धसंयुतपलभावर्गेण भक्ताप्तं,

फलाख्यं=  फलसंज्ञं स्यात् ।

तद्वर्गसंयुक्तकरणीपदं=  फलस्य वर्गेण युतायाः करण्या मूलं,

दक्षिणोत्तरगोलयोः=  याम्योदग्गोलयोः क्रमेण,

फलेन =  फलाख्येन,

हीनसंयुक्त= 

हीनयुतमर्थादक्षिणगोलगेऽर्के फलाख्येनोनमुत्तरगोलगे रवौ युतम् ।

एवम्=  उक्तप्रकारेण,

शंकुः=  सिद्धशंकुः,

शङ्कोः =  गणितकर्तुः सकाशात्,

याम्योत्तरे =  दक्षिणोत्तरे,

रवौ=  सूर्ये,

परिभ्रमति=  सति,

तु=  तुकारात्क्रमेण,

याम्ययोरुत्तरयोः=  दक्षिणयोरुत्तस्योश्च,

विदिशोः=  कोणयोः, आग्नेयनैर्‌ऋत्योरीशानवायव्योरित्यर्थः,

सा=  कोणाख्यः,

शंकुः=  नरः स्यात् ।

तत्रिज्यावर्गविश्लेषात् =  कोणशंकुत्रिज्यावर्गयोरन्तरात्,

मूलं=  पदं,

दृग्ज्या =  नतांशज्या,

अभिधीयते=  उच्यते । अत्रेयमभिसन्धिः । यदा यत्र देश उत्तरक्रान्तिः स्वदेशाक्षांशेभ्यो न्यूना तदा, तस्मिन्देशे सममण्डलकालात्परतः करणीपदमक्षफलान्वितं पूर्वापराह्वयोर्याम्यकोणयोरेकशंकुः स्यात् । एवं पूर्वोक्तप्रकारेण यदा यद्देशेऽर्कक्रान्तिरुत्तरा स्वदेशाक्षांशेभ्योऽधिका तदा तामेव शेषाक्षफलान्वितां करणीयमेवं पूर्वापराह्वयोरीशानवायव्ययोः शंकुः स्यात् ॥ 28 । 26 । 30 । 31 । 32 ॥


अथैतच्छायाछायाकर्णयोरानयनमाह—

स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते ॥ 33 ॥

छायाकर्णौ तु कोणेषु यथास्वं देशकालयोः ॥ **

दृक्त्रिज्ये =  कोणीयदृग्ज्यात्रिज्ये,

द्वादशाहते=  द्वादशगुणे,

स्वशङ्कुना =  कोणशंकुना,

विभज्य =  भक्त्वा,

प्राप्ते=  । लब्धे,

छायाकर्णौ =  छायाछायाकर्णौ,

तु=  तुकारात्क्रमेण देश कालानुरोधेन वा,

कोणेषु =  चतुर्षु कोणेषु,

देशकालयोः=  देशकालानुरोधेन,

यथास्वं=  स्वमनतिक्रम्येति यथास्वं, यथादेशं यथाकालं यथाकोसं कोणशङ्कोः सम्भवस्तत्र छायाकौँ भवतः इत्यर्थः ॥ 33 ॥


अथ दिक्सम्बन्धेन छायाकर्णावुक्त्वा कालसम्बन्धेनाह—

त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता॥34॥

अन्त्या नतोत्क्रमज्योना स्वाहोरात्रार्धसङ्गुणा

त्रिज्याभक्ताभवेच्छेदोलम्बज्यानोऽथभाजितः 35

त्रिभज्यया भवेच्छङ्कुस्तद्वर्ग परिशोधयेत् ॥

त्रिज्यावर्गात्पदं दृग्ज्या छायाकर्णौ तु पूर्ववत् 36

त्रिज्या=  त्रिभज्या,

उदक्चरजायुक्ता=  उत्तरगोलोत्पन्न चरासुभुजज्यया युता । उदक्चरज्यया युता कार्येत्यर्थः ।

याम्यायां=  दक्षिणगोले,

तद्विवर्जिता =  चरज्यया हीना कार्या शेषम्,

अन्त्या=  अन्त्या स्यात् । सा,

नतोत्क्रमज्योना =  नतकालोत्क्रमज्ययोनान्त्या शेषमिष्टान्त्या भवति । सा,

स्वाहोरात्रार्ध संगुणा=  स्वकीयाहोरात्रवृत्तव्यासार्धेन गुणिता,

त्रिज्याभक्ता=  त्रिभज्यया भक्ता फलं,

छेदो भवेत् =  छेदसंज्ञः,

इष्टहतिः=  स्यात् ।

अथ=  अनन्तरं छेदः,

लम्बज्याघ्नः=  लम्बज्यया गुणितः,

त्रिभज्यया=  त्रिज्यया,

भाजितः=  भाज्यः फलं,

शंकुर्भवेत् =  इष्टकाले शंकुः स्यात् ।

तद्वर्ग =  शंकुवर्ग,

त्रिज्यावर्गात् =  त्रिभज्यावर्गात्,

परिशोधयेत् =  विशोधयेत् । शेषस्य,

पदं=  मूलं,

दृग्ज्या =  भुजज्यारूपा नतांशज्या स्यात् । *,

तु=  तुकारादाभ्यां शङ्कुदृग्ज्याभ्यां,

पूर्ववत् =  पूर्वोक्तरीत्या,

छायाकर्णौ =  छायाछायाकर्णौ साध्यौ ॥ 34 । 35 । 36 ॥


अथ छायाकर्णाभ्यां नतकालानथनमाह—

अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता ॥

दृग्ज्या तद्वर्गसंशुद्धा त्रिज्यावर्गाच्च यत्पदम् ॥37॥

शङ्कुः स त्रिमजीवाघ्नः स्वलम्बज्याविभाजितः॥

छेदःसत्रिज्ययाभ्यस्तः स्वाहोरात्रार्धभाजितः॥38॥

उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम् ॥

उत्क्रमज्याभिरेवं स्युःप्राक्पश्चार्धनतासवः॥ 36॥

त्रिज्या =  त्रिभज्या,

अभीष्टच्छायया=  अभीष्टकालिक च्छायया,

अभ्यस्ता=  गुणिता,

तत्कर्णभाजिता=  अभीष्ट च्छायाकर्णेन भक्ता फलं,  दृग्ज्या=  नतांशज्या स्यात् ।

तद्वर्गसं शुद्धात् =  दृग्ज्यावर्गेण हीनात्,

त्रिज्यावर्गात् =  त्रिराशिज्याकृतेः,

यत्पदं =  यन्मूलं तत्,

शंकुः=  अभीष्टशंकुः स्यात् ।

सः=  शंकुः,

त्रिभजीवाघ्नः =  त्रिज्यया गुणितः,

स्वलम्बज्याविभाजितः=  स्वदेशीयलम्बज्यया भक्तः फलं,

छेदः=  इष्टहतिः स्यात् ।

सः=  छेदः,

त्रिज्यया=  त्रिराशिज्यया,

अभ्यस्तः=  गुणितः,

स्वाहोरात्रार्धभाजितः =  स्वाज्यया भक्तः फलम्,

उन्नतज्या=  उन्नतकालवशेन ज्यार्थादिष्टान्त्यका स्यात् ।

तया=  इष्टा न्त्यया,

हीना =  रहिता,

स्वान्त्या=  स्वकीयान्त्या नतोत्क्रमज्या स्यात्,

शेषस्य=  अवशिष्टस्य नतोत्क्रमज्यारूपस्य,

उत्क्रम ज्याभिः=  उत्क्रमज्यापिण्डैः,

कार्मुकं=  धनुः कार्यः ।

एवम् =  उक्तप्रकारेण सिद्धाङ्काः,

प्राक्पश्चा नतासवः=  दिनस्य पूर्वा पराधयोनतकालासवः,

स्युः=  भत्रेयुः धनुरेव नतासवो भवन्ति । इष्टच्छाया पूर्वाह्ने चेत्यागर्धे नतासवः, अपराह्णे इष्टच्छाया चेत्पश्चार्धे नतासवः ॥ स्युरित्यर्थः ॥ 37 ॥ 38 । 36 ॥


अथाग्रातश्छायार्कसाधनमाह—

इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता ॥

क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता॥40॥

तच्चापं भादिकं क्षेत्रं पदैसत्र भवा रविः॥

,  लम्बज्या=  स्वदेशीयलम्चज्या,

इष्टाग्राघ्नी=  इष्टकालिक कर्णाग्रया गुणिता,

स्वकर्णाङ्गुलभाजिता=  इष्टकालिकछाया कर्णाङ्गुलैर्भक्ता, फलं,

क्रान्तिज्या =  इष्टापमज्या स्यात् ।

सा=  इष्टक्रान्तिज्या,

त्रिजीवाघ्नी=  त्रिज्यया गुणिता,

परमापक्रमोद्धृता=  परमक्रान्तिज्यया भक्ता यत्फलं सा दोर्ज्या स्यात् ।

तच्चापं =  तस्या दोर्ज्यायाः धनुः,

भादिकं=  राश्यादिकं,

क्षेत्रं=  स्थानं भुज इत्यर्थः । तत्रक्षेत्रे,

भवः=  उत्पन्नः,

रविः=  सूर्यः,

पदैः=  चतुर्भिः पदैः स्यात् । "कर्कादौ प्रोज्झ्य चक्रार्धात्, " इत्यादि पूर्वोक्तप्रकारेण भवतीत्यर्थः ’पदज्ञानं तु सिद्धान्ततत्त्वविवेके कमलाकरेणोक्तम् । तद्यथा,

आद्ये पदेऽपचयनी पलभाल्पिका स्याच्छायाल्पिका भवंति वृद्धिमती द्वितीये ।

छायाधिका भवति वृद्धिमती तृतीये तुर्ये पुनः क्षयवती तदनल्पिका च ॥

वृद्धिं व्रजन्ती यदि दक्षिणाग्रच्छाया तथापि प्रथमं पदं स्यात् ।

ह्रासं प्रयान्तीमथ तां विलोक्य रवेर्विजानीहि पदं द्वितीयम् ॥


अथ भाभ्रमणमाह—

इष्टेऽह्नि मध्ये प्राक्पश्चाद्धृते बाहुत्रयान्तरे ॥41॥

मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्सूत्रेण भाभ्रमः॥

। इष्टेऽह्निमध्ये=  अभीष्टदिने,

प्राक्पश्चात् =  पूर्वापरविभागे, बाहुत्रयान्तरे=  भुजत्रयान्तरे,

धृते=  चिह्नत्रये कृते सति

,  मत्स्यद्वयान्तरयुतेः =  अव्यवहितचिह्नाभ्यां मत्स्यद्वयमुत्पाद्य मत्स्यद्वयस्य प्रत्येकमुखपुच्छगतसूत्रयोर्यस्मिन्स्थाने योगस्तस्मात्,

त्रि स्पृक्सूत्रेण = चिह्नत्रयलग्नतुल्यसूत्रमितेन व्यासार्थेन,

भाभ्रमः=  छायाभ्रमणमार्गवृत्तं भवति । प्रथमान्तिमकालान्तर्गतकालिकच्छायाग्रंतद्वृत्तपरिधौ भवतीत्यर्थः ॥ 41 ॥

अथ लङ्कोदयासुसाधनं तन्निबन्धनं चाह—

त्रिभद्युकर्णार्धगुणाः स्वाहोरात्रार्धभाजिताः ॥12॥

क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक् पृथक् ॥

स्वाधोऽधः परिशोध्याथ मेषाल्लङ्कोदयासवः॥43॥

खागाष्टयोऽर्थगोऽगैकाः शरत्र्यङ्कहिमांशवः ।

एकद्वित्रिभज्याः =  एकराशेः राशिद्वयस्य राशित्रयस्य च ज्या,

त्रिभद्यकर्णार्धगुणाः=  राशित्रयाद्युकर्णार्धेनार्थात्परमाल्पद्युज्यया गुण्याः,

स्वाहोरात्रार्धभाजिताः=  स्वाहोरात्रार्धेन स्वस्वद्युज्यये त्यर्थः भाज्याः,

तच्चापानि =  फलानां धनूंषि,

पृथक् पृथक् =  भिन्नभिन्नस्थाने स्थाप्यानि ।

स्वाधोऽधः=  स्वादधोऽधः,

परिशोध्य =  न्यूनीकृत्य । प्रथमफलं द्वितीयफलाद्वितीयफलं तृतीयफला द्धीनं कार्य प्रथमं यथास्थितमित्यर्थः । शेषं,

मेषात् =  मेषमारभ्य। राशित्रयाणां,

लङ्कोदयासवः=  लङ्कायामुदयासवः,

क्रमात् =  क्रमेण भवन्तीत्यर्थः । प्रथमं मेषस्य, द्वितीयं वृषस्य, तृतीय मिथुनस्य लङ्कोदयासुमानं भवतीति फलितार्थः ।

अथ=  अनन्तरं तन्मानमाह

, खागाष्टयः =  सप्ततियुतं षोडशशतं मेषमानं,

अर्थगोऽगैकाः=  पञ्चोनमष्टादशंशतं वृषमानं,

शरत्र्यङ्कहिमांशवः=  पञ्चत्रिंशदधि

कमेकोनविंशतिशतं मिथुनमानं भवतीत्यर्थः ॥ 42 । 43 ॥


अथैभ्यः स्वदेशोदयासूनाह—

स्वदेशचरखण्डोना भवन्तीष्टोदयासवः॥ 14॥

व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः॥

उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः ॥ 45 ॥

। ।एते सिद्धा लङ्कोदयासवः,

स्वदेशचरखण्डोनाः=  स्वदेशचर खण्डैरूनाः कार्यास्ते,

इष्टोदयासवः =  स्वदेशे मेषादीनामुदयासवः,

भवन्ति =  जायन्ते ।

ततः=  अनन्तरं,

व्यस्ताः =  लङ्को दयासवो विलोमक्रमेण स्थापिताः,

स्वैः स्वैः=  स्वदेशसम्बन्धिमेषादि राशीनां चरखण्डैः,

व्यस्तैः =  उदयक्रमेण स्थापितैः,

युताः=  युक्ताः सन्तः,

कर्कटाद्यास्त्रयः=  कर्कटादित्रयाणामसवो भवन्ति ।

एते एव =  मेषादीनामुदयासवः एव,

षट्=  षट्संख्याकाः,

उत्क्रमेण =  कन्यासिंहकर्कादिक्रमेण,

तुलादयः=  तुलराशि रादिरेषान्ते तुलादयः । तुलराशिमारभ्य मीनान्तमित्यर्थः ।

इष्टाः=  अभिमतदेशोदयासुमानाः,

भवन्ति =  जायन्ते ॥ 44 । 45 ॥


अथेष्टकालिकलग्नसाधनमाह—

गतभोग्यासवः कार्या भास्करादिष्टकालिकात् ॥

स्वोदयासुहता भुक्तभोग्या भक्ताः खवह्निभिः ॥16॥

अभीष्टघटिकामुभ्यो भोग्यासून् प्रविशोधयेत् ॥

तद्वत्तदेष्यलग्नसूनेवं यातान्तथोत्क्रमात् ॥ 47॥

शेषं चेत्रिंशताभ्यस्तमशुद्धेन विभाजितम् ॥

भागहीनं च युक्तं च तल्लग्नं क्षितिजे तदा ॥48 ।

इष्टकालिकात् =  यत्कालीनं लग्नं साध्यं तत्कालीनात्,

भास्करात् =  सूर्यात्,

गतभोग्यासवः =  गतासवो भोग्या

सवश्च,

कार्याः=  साध्याः । कथं साध्या इत्यत आह ।

भुक्तभोग्याः=  सूर्याधिष्ठितराशेभुक्तांशाः भोग्योशाश्च,

स्वोदयासुहताः= 

सूर्याक्रान्तराशेः स्वोदयासुभिर्गुणिताः,

खवह्निभिः =  त्रिंशता,

भक्ताः =  भाज्याः क्रमेण गतासवो भोग्यासवश्च भवन्ति ।

अभीष्टघटिकासुभ्यः=  सूर्योदयादिष्टकालपर्यन्तं याः गतेष्टघटिकारस्तामसुभ्यः,

भोग्यासून्=  भानोर्भो ग्यांशेभ्यः साधितासून्,

प्रविशोधयेत् =  पातयेत् ।

तदेष्यलग्नासून् =  सूर्याधिष्ठित राशेरग्रिमराशीनामुदयासूनपि,

तद्वत् =  क्रमेण शोधयेत् ।

एवम् =  उक्तरीत्या,

यातान् =  गतासून्,

तथा =  भुक्तराश्युदयासूंश्च,

उत्क्रमात् =  व्यस्तक्रमात् शोधयेत् ।

शेषं चेत् =  यदि शेषं स्यात्तदा,

त्रिंशताभ्यस्तं =  शेषं त्रिंशता गुणितम्,

अशुद्धेन =  यो राश्युदयो न शुध्यति सोऽशुद्धस्तेन,

विभाजितं =  भाज्यं,

भागहीनं =  भागादेना फलेन हीनं कार्यमाद्यदि भुक्तासुभ्यः फलं साधितं तदा लब्ध भागादिकं भुक्तभागादिकं चार्के हीनं कार्यम् ।

युक्तं च =  भागादिना फलेन युतं कार्यमाद्यदि भोग्यासुभ्यः फलं साधितं तदा लब्धं भागादिफलं भोग्यभागादिकं चार्के योजयेत्,

तदा=  अभीष्टकाले,

तत्=  सिद्धफलं,

क्षितिजे=  क्षितिजवृत्तस्य पूर्व विभागे,

लग्नं स्यात् =  क्रान्तिवृत्तस्य यः प्रदेशः क्षितिजे लग्नस्त देव सायनमुदयलग्नं स्यात् ॥ 46 । 47 । 48 ॥


अथ मध्यलग्नानयनमाह—

पाक्पश्चान्नतनाडीभिस्तस्माल्लङ्कोदयासुभिः ॥

भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत् ॥ 46॥

। ___,

प्राक्पश्चान्नतनाडीभिः=  पूर्वनतघटिकाभिः पश्चिम नतघ,  टिकाभिश्च,

तस्मात् =  तात्कालिकसूर्यात्,

लङ्कोदयासुभिः=  निरक्षदेशराश्युदयासुभिः पूर्वोक्तप्रकारेण सिद्धं यद्राशिभागादिकं तत्,

भानौ=  सूर्ये,

क्षयधने =  हीनयुते,

कृत्वा =  पूर्वनतनाडी भिः साधितं फलं रवौ क्षयं पश्चिमनतनाडीभिः साधितं फलं रवौ धनंकार्यमित्यर्थः ।

तदा=  अभीष्टसमये,

मध्यलग्नं =  दशमलग्नं,

भवेत् =  स्यात् ॥ 46॥


अथ कालसाधनमाह—

भोग्यासून्नकस्याथ भुक्तासूनधिकस्य च ॥

सपिण्ड्यान्तरलग्नासूनेवं स्यात्कालसाधनम् ॥50 ॥

अथ=  अनन्तरम्,

ऊनकस्य =  लग्नार्कयोर्मध्य ऊनस्य,

भोग्यासून्=  तात्कालिकसूर्यस्य भोग्यांशेभ्यः साधितानसन्,

अधिकस्य=  लग्नार्कयोर्मध्ये योऽधिकस्तस्य,

भुक्तासून्=  सूर्यस्य भुक्तांशेभ्यः साधितासून्,

अन्तरलग्नासून् =  लग्नार्कयोर्मध्ये ये राशयस्तेषामुदयासून्,

च=  चकारः समुच्चये,

संपिण्ड्य =  संयोज्य,

एवम् =  उक्तप्रकारेण,

कालसाधनं स्यात् =  कालस्य सिद्धिः स्यात् ॥ 50 ॥


एवमानीतस्येष्टकालस्य स्थितिमाह—

सूर्यादूने निशाशेष लग्नेर्कादधिके दिवा ॥

भचक्रार्धयुताद्भानोरधिकेऽस्तमयात्परम् ॥ 51 ॥

। सूर्यात् =  अर्कात्,

लग्ने=  उदयलग्ने,

ऊने=  न्यूने । सूर्यात्रिराश्यन्तर्गतत्वेन न्यूने सति,

निशाशेषे =  रात्रिशेषे । अर्द्ध रात्रदिनान्तरे पूर्वप्रकारेणानीतेष्टकालस्य स्थितिरित्यर्थः ।

अधिके=  अर्काल्लग्नेऽधिकेऽग्रतः स्थिते,

दिवा=  दिवेष्टकालो ज्ञेयः ।

भच कार्धयुताद्भानोः=  राशिषट्कन युतात्सूर्यात्,

अधिक =  लग्ने ऽधिक,

अस्तमयात् =  सूर्यास्तकालात्,

परम्=  अनन्तरमिष्ट

कालः स्यात् । एतेन रात्रीष्टकाले सति सषड्भसूर्याल्लग्नं साध्यमिति सूचितम् ॥ 51 ॥

इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां

यां तृतीयस्त्रिप्रश्नाधिकारः ॥ 3 ॥


4 चन्द्रग्रहणाधिकारः

तत्र प्रथम सूर्यचन्द्रयोबिम्बयोजनानि तत्स्फुटीकरणं चाह—

सार्धानि षट्सहस्राणि योजनानि विवस्वतः ॥

विष्कम्भोमण्डलस्येन्दो सहाशीत्या चतुःशतम्॥1॥

स्फुटस्वभुक्त्या गुणितो मध्यभुक्तयोद्धृतौ स्फुटौ।

विवस्वतः=  सूर्यस्य मण्डलस्य गोलरूपबिम्बस्य,

सार्धानि=  सहस्रस्यार्धेन सहितानि,

षट्सहस्राणि= , षष्टि शतं,

योजनानि= ,

विष्कम्भः=  व्यासः ।

इन्दो=  चन्द्रस्य गोलाकारबिम्बस्य,

अशीत्या सह चतुःशतं=  अशीत्युत्तरचतुःशतं योजनानि विष्कम्भः कथितः=  उक्तः,  चेप्पँबडिनदि.। तौ व्यासौ,

स्फुटस्वभुक्त्या=  स्पष्टस्वगत्या,

गुणितो=  हतौ,

मध्यभुक्त्योद्धृतौ=  मध्यगत्या भक्तौ,

स्फुटौ =  स्पष्टौ भवतः ॥ 1 ॥


अथ चन्द्रकक्षायां सूर्यबिम्ब साधयंस्तयोः कलात्मक

विम्बानयनमाह—

खेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः ॥2॥

शशाङ्ककक्षागणितो भाजितो वार्ककक्षया ॥

विष्कम्भश्चन्द्रकक्षायां तिथ्यासा मानलिप्तिकाः ॥3॥

रवेः=  सूर्यस्य,

विष्कम्भः=  स्पष्टव्यासः,

स्वभगणाभ्य स्तः=  स्वस्य भगणैः सूर्यभगणैर्गुणितः,

शशाङ्क भगणोद्धतः=  चन्द्रभगणैर्भक्तः ।

वा=  अथवा,

शशाङ्ककक्षागुणितः=  वक्ष्यमाणचन्द्रकल्या गुणितः,

अर्ककक्षया=  वक्ष्यमाणरविक क्षया,

भाजितः=  भक्तः सन्,

चन्द्रकक्षायां=  शशाङ्काधिष्ठि ताकाशगोले सूर्यव्यासः स्पष्टो भवति । सूर्यचन्द्रयोर्व्यासयोजनसंख्या,

तिथ्याप्ता =  पञ्चदशभक्ता,

मानलिप्तिकाः=  सूर्याचन्द्रमसो श्चन्द्रकक्षायां बिम्बव्यासकला भवन्ति ॥ 2 । 3 ॥

स्फुटेन्दुभुक्ति र्भूव्यासगणिता मध्ययोद्धृता ॥

लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम् ॥ 4 ॥

मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम् ।

विशोध्य लब्दं सूच्यां तु तमो लिप्तास्तु पूर्ववत् ॥

स्फुटेन्दुभुक्तिः =  स्पष्टचन्द्रगतिः,

भूव्यासगणिता=  भूव्यासेन हता,

मध्यया=  चन्दस्य मध्यगत्या,

उद्धृता =  भक्ता,

लब्धं=  भजनफलं,

सूची=  सचीसज्ञंस्यात्,

स्फुटार्कश्रवणान्तरं= भूव्यासोनस्पस्टरविबिम्बं,

मध्येन्दुव्या सगुणितं =  मध्यमचन्द्रबिम्बव्यासेनाशीत्यधिकचतुःशतयोजनैर्गुणितं,

मध्याव्यासभाजितं= सूर्यस्य मध्यमबिम्बव्यासेन पञ्चषष्टिशत योजनभक्तं,

लब्धं=  फलं,

सूच्यां=  पूर्वसिद्धायां,

विशोध्य =  न्यूनीकृत्य,

तु=  तुकाराच्छेषं,

तमः=  भूच्छायारूपं तमश्छायायास्त मस्वरूपत्वात् ।

पूर्ववत् =  पूर्वोक्तप्रकारेण,

लिप्ताः=  कलाः कार्याः,

तु=  तुकाराद्भच्छायायाः ॥ 4 ॥ 5 ॥


अथ ग्रहणद्वयसम्भूतिमाह—

भानोभर्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा ॥

शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके ॥6॥

भानो=  सूर्यात्,

भार्धे =  राशिषट्कान्तरे,

मही च्छाया=  भूच्छाया भ्रमति ।

तत्तल्ये=  सषड्भार्कसमे,

वा=  अथवा,

भर्कसमेऽपि =  सूर्यतुल्येऽपि,

शशाङ्कपाते=  चन्द्रपाते

,

कियद्भागाधिकोनके =  सषड्भसूर्यादर्काद्वा कतिपयैगैरधिकोनेऽपि चन्द्रपाते,

ग्रहणं =  सूर्याचन्द्रमसोर्ग्रहणं भवति ॥ 6॥


अथ ग्रहणयोः कालमाह—

तुल्यौराश्यादिभिः स्याताममावास्यान्तकालिको ॥

सूर्येन्दू पौर्णमास्यन्ते भार्धे भागाधिको समौ ॥7॥

। अमावास्यान्तकालिकौ=  अमान्तकालोत्पन्नौ,

सूर्येन्दू= 

अर्कचन्द्रौ,

राश्यादिभिः=  राश्याद्यवयवैः,

तुल्यौ=  समौ

,  स्याताः=  भवेताम् ।

पौर्णमास्यन्ते =  पूर्णिमाया अन्ते,

भार्धे =  राशिषट्कान्तरे,

भागादिकौ =  अंशादिकौ,

समौ=  तुल्यौ स्याताम् ॥ 7 ॥

अथ समलिप्तीकरणमाह—

गतष्यपर्वनाडीनां स्वफलेनोनसंयुतौ ॥

समलिप्तौ भवेतां तौ पातस्तात्कालिकोऽन्यथा ॥8॥

,  ।

तौ=  सूर्यचन्द्रौ,

गतैष्यपर्वनाडीनां=  यत्कालिकौ सूर्य चन्द्रौ तत्कालागता एष्या वा दर्शान्तपूर्णिमान्तान्यतरघटिकास्तासां,

स्वफलेन =  स्वस्वगतिसम्बन्धेन “इष्टनाडीगुणामुक्तिः—


इत्यादिना साधितफलेन,

ऊनसंयुतौ=  क्रमेण हीनयुतौ,

सम लिप्तौ=  समकलौ,

भवेतां=  स्याताम् ।

पातः=  चन्द्रपातः,

अन्यथा =  गतैष्यक्रमेण युतहीनः,

तात्कालिका=  पर्वान्तकालिकः स्यात् ॥ 8॥


अथ छाद्यछादकनिर्णयमाह—

छादको भास्करस्येन्दुरधास्थो धनवद्भवेत् ॥

भूछायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ ॥ 6 ॥

भास्करस्य =  सूर्यस्य,

अधास्थः =  सूर्यादयःस्थितः,

इन्दुः=  चन्द्रः,

घनवत् =  मेघवत्,

छादकः=  भावर्णकरः,

भवेत् =  स्यात् । यथाधःस्थो मेघः सूर्यस्याच्छादको भवति तथा

चन्द्रो भवतीत्यर्थः ।

प्राङ्मुखः =  प्रागभिमुखः,

चन्द्रः=  मृगाङ्को गच्छं,

भूछायां=  महीछायां,

विशति=  प्रवेशं करोति । अतः कारणात्,

अस्य =  चन्द्रस्य,

असौ =  भूमा छादिका,

भवेत् =  स्यात् ॥ 6॥

अथ ग्रासानयनमाह—

अथ ग्रासानयनं सम्पूर्णन्यूनग्रहणानं ग्रहणाभावज्ञानं चाह—

तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः॥

योगार्धात्प्रोज्झ्य यच्छेषं तावच्छन्नं तदुच्यते॥10॥


यद्ग्राह्यमधिके तस्मिन्सकलं न्यूनमन्यथा ॥

योगार्धादधिके न स्याद्विक्षेपे ग्राससम्भवः ॥11॥

।4,

छाद्यच्छादकमानयोः=  यश्छाद्यते स छायः । यश्छादयति

स छादकः । अर्थाच्चन्द्रग्रहे चन्द्रश्छायो भूभा छादकः । सूर्यग्रहणे सूर्यरछाद्यश्चन्द्रश्छादक इति । अनयोः,

योगार्धात् =  मानैक्यार्धात्,

तात्कालिकेन्दुविक्षेपं =  तात्कालिकचन्द्रशरमर्थात्पूर्णिमान्त कालिकचन्द्रशरं,

प्रोज्झ्य=  न्यूनीकृत्य,

यच्छेषं=  यदवशिष्टं,

तत्=  तत्प्रमाणकं,

तावत् =  तावत्प्रदेशात्मक,

छन्नं=  ग्रास मानम्,

उच्यते=  कथ्यते ।

यत् =  यस्मात्,

ग्राह्य =  ग्राह्य मानं,

तस्मिन् =  छन्नमाने,

अधिके=  ग्राह्यमानात् महति सति,

सकलं =  सम्पूर्णग्रहणं भवति,

अन्यथा =  ग्राह्यमानान्न्यूने छन्ने ग्रासे सति,

न्यूनं=  ग्राह्यमानान्तर्गत ग्रहणं स्यात् ।

योगार्धात्=  मानैक्यार्धात्,

अधिके=  महति,

विक्षेपे=  शरे सति,

ग्रास सम्भवः =  ग्रासस्य सम्भवे ग्रहणमित्यर्थः,

न स्यात् =  न भवेत् ॥ 10 ॥ 11 ॥


अथ स्थितिमर्धियोरानयनमाह—

ग्राह्यग्राहकसंयोगवियोगौ दलितो पृथक् ॥

विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे ॥ 12 ॥

षष्ट्या संगुण्य सूर्येन्द्वोःर्भु क्त्यन्तरविभाजिते ।

स्यातां स्थितिविमर्दार्धे नाडिकादिफले तयोः ॥13॥

ग्राह्यग्राहकसंयोगवियोगौ=  छाद्यच्छादकमानयोर्योगान्तरे,

दलितौ=  अर्धिते,

पृथक्=  स्थानान्तरे स्थाप्ये ।

विक्षेपवर्गहानाभ्यां=  शरवर्गहीनाभ्यां,

तद्वर्गाभ्यां =  योगवियोग योर्वर्गाभ्याम् ये,

उभे =  द्वे,

पदे=  मूले भवतस्ते,

षष्ट्या= 


षष्टिसंख्यया,

संगुण्य =  गुणयित्वा,

सूर्येन्द्वोः=  अर्कचन्द्रयोः,

भुक्त्यन्तरविभाजिते=  गत्यन्तरकलाभिर्भक्ते सति,

तयोः=  योगवियोगयोः स्थाने,

नाडिकादिफले =  घटिकादिफले,

स्थितिविमर्दार्धे =  क्रमेण स्थित्यर्धविमर्दार्धे,

स्यातां=  भवेताम् ॥ 12 । 13 ॥


अथ स्थित्यर्धमर्दार्धे असकृत्साध्ये इत्याह—

स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्टिभाजिताः॥

लिप्सादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः ॥14॥

तद्विक्षेपैः स्थितिदलं विमर्दार्ध तथासकृत् ॥

संसाध्यमन्यथा पाते तल्लिप्तादिफलं स्वकम् ॥15॥

गतयः=  सूर्य, चन्द्र, पातानां गतयः,

स्थित्यर्धनाडिकाः भ्यस्ताः=  स्थित्यर्धघटिकाभिर्गुणिताः,

षष्टिभाजिताः=  षष्टि भक्ताः,

लिप्तादि=  कलादिफलं,

प्रग्रहे =  स्पर्शस्थित्यर्धानयने,

शोध्यं=  तेषु ग्रहेषु हीन कार्यम् ।

मोक्षे=  मोक्षस्थित्यर्धा नयने,

देयं=  तच्चालनफलं तेषु ग्रहेषु योज्यम् ।

पाते=  चन्द्रपाते,

स्वकं=  स्वगत्या साधितं,

तल्लिप्तादिफलं=  तस्य कलादि फलं,

अन्यथा=  विलोमं स्पर्शस्थित्यर्धनिमित्तं योज्यं मोक्षस्थित्यर्ध निमित्तं हीनं कार्यमित्यर्थः ।

तद्विक्षेपैः =  एवं तात्कालिकचन्द्र पाताभ्यां साधितशरकलाभिः,

स्थितिदलं =  स्थित्यर्धं स्पर्शस्थित्यर्धं मोक्षस्थित्यर्धं च,

पुनः पुनः=  असकृत्साध्यम् ।

तथा =  तेनैव प्रकारेण,

विमर्दार्धं =  स्पर्शमर्दार्धं मोक्षमर्धमित्यर्थः,

असकृत्=  पुनः पुनः,

संसाध्यं=  कार्यमित्यर्थः । एवं स्थित्यर्धमर्दार्धे स्फुटे भवतः ॥ 14 । 15 ॥

अथ मध्यग्रहणस्पर्शमोक्षकालानाह—

स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् ॥

स्थित्यर्धनाडिकाहीने ग्रासो मोक्षस्तु संयुते ॥16॥

स्फुटतिथ्यवसाने =  स्पष्टतिथ्यन्ते,

तु=  तुकारात्स्फुट, तिथ्यन्ते एव न पूर्वापरकाल इत्यर्थः ।

मध्यग्रहणं =  ग्रासोपचय समाप्तिम्,

आदिशेत् =  कथयेत् ।

स्थित्यर्धनाडिकाहीने=  स्पर्शस्थित्यर्धघटिकाभिरूने स्पष्टतिथ्यन्ते,

ग्रासः=  ग्रासारम्भः स्पर्श इत्यर्थः ।

संयुते तु’=  मोक्षस्थित्यर्धयुक्ते स्पष्टतिथ्यन्तकाले तुः ।

मोक्षः=  ग्रहणसमाप्तिः स्यात् ॥ 16 ॥


अथ सर्वग्रहणे निमीलोन्मीलनकालावाह—

तद्वदेव विमर्दार्धानाडिकाहीनसंयुते॥

निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे ॥ 17॥

सकलग्रहे =  सम्पूर्ण ग्रहणे,

तद्वदेव =  पूर्वोक्तप्रकारवदेव

,

विमर्धनाडिकाहीनसंयुते =  स्पर्शमोक्षमर्दार्धघटिकाभिः क्रमेणोनयुते स्पष्ट तिथ्यन्ते,

निमीलनोन्मीलनाख्ये=  क्रमेण निमीलनोन्मीलनसंज्ञे,

भवेतां=  स्याताम् ॥ 17 ॥

अथेष्टकाल इष्टग्रासानयनार्धं कोटिकलानयनमाह—

इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः॥

भुक्त्यन्तरं समाहन्यात्षष्ट्याप्ताः कोटिलिप्तिकाः18

,

अर्कचन्द्रयोः=  सूर्येन्द्वोः,

भुक्त्यन्तरं =  गत्यन्तरं,

इष्ट नाडीविहीनेन =  इष्टघटिकाभिरूनेन,

स्थित्यर्धेन=  स्पर्शस्थित्य

र्धेन,

समाहन्यात् =  गुणयेत्,

षष्ट्यप्ताः=  षष्टि भक्ताः, कोटिकलाः =  छाद्य, छादकबिम्बकेन्द्रयोरन्तररूपकोटेः लिप्ता भवन्ति ॥ 10 ॥


अथात्र सूर्यग्रहणे विशेषमाह—

भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्धसंगुणाः॥

स्फुटस्थित्यर्धसम्भक्ताः स्फुटाः कोटिकलाः स्मृताः 19

भानोः=  सूर्यस्य,

ग्रहे =  ग्रहणे,

कोटिलिप्ताः=  कोटि कलाः,

मध्यस्थित्यर्धसंगुणाः=  सूर्यग्रहणोक्तस्पष्टशरानीतस्थित्यर्धेन हताः,

स्फुटस्थित्यर्धसंभक्ताः=  सूर्यग्रहणोक्तस्फुटस्थित्यर्धेन भक्ताः,

कोटिकलाः =  कोटेः कलाः,

स्फुटाः=  स्पष्टाः,

स्मृताः=  कथिताः ॥ 16 ॥


अथेष्टमासानयनमाह—

क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत् ॥

मानयोगार्धतःप्रोज्झ्यग्रासस्तात्कालिको भवेत् 20

,  ।

क्षेपः=  तात्कालिकशरः,

भुजः=  भुजसंज्ञकः स्यात् ।

तयोः=  भुजकोट्योः,

वर्गयुतेः=  वर्गयोगात्,

मूलं=  पदं,

श्रवः=  कर्णः स्यात् ।

तत्=  कर्णः,

मानयोगार्धतः=  मानैक्यार्धात्,

प्रोज्झ्य= विशोध्य,

तात्कालिकः =  इष्टकालिकः,

ग्रासः=  अवान्तासः,

भवेत् =  स्यात् ॥ 20 ॥


अथ मध्यग्रहणानन्तरमिष्टग्रासानयनमाह—

मध्यग्रहणतश्चोर्धमिष्टनाडीविशोधयेत् ॥

स्थित्यर्धान्मौक्षिकाच्छेषं प्राग्वच्छेषं तु मौक्षिके21॥

। मध्यग्रहणतः =  मध्यग्रहणकालात् । स्पष्टतिथ्यन्तादित्यर्थः,

ऊर्ध्वम् =  अनन्तरम् । उपरीत्यर्थः ।

इष्टनाडी=  इष्टघट्यः । इष्टघटिकासम्बन्धिकर्म इत्यर्थः,

मौक्षिकात्स्थित्यर्धात् =  मोक्ष कालिकस्थित्यर्धात्,

विशोधयेत् =  त्यजेत्,

शेष=  शेषकर्म,

प्राग्वत्=  भुक्त्यन्तरं समाहन्यादित्यादिप्रकारेण कुर्यात् ।

मौक्षिके=  मोक्षस्थित्यर्धान्तर्गतेष्टकाले,

शेषम् =  उर्वरितो ग्रासो भवति । न पूर्ववद्गत इत्यर्थः ॥ 21॥


अथेष्टग्रासादिष्टकालानयनमाह—

ग्राह्यग्राहकयोगार्धाच्छोध्याः स्वच्छन्नलिप्तिकाः ॥

तद्वर्गात्प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम् ॥22॥

कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हताः॥

मध्येन लिप्तास्तन्नाड्यः स्थितिवद्ग्रासनाडिकाः 23

। ग्राह्यग्राहकयोगार्धात् = छाद्यच्छादकयोर्मानैक्यार्धात्,

स्व, च्छन्नलिप्तिकाः=  इष्टग्रासकलाः,

शोध्या=  त्याज्याः,

तद्वर्गात्=  शेषवर्गात्,

तत्कालविक्षेपस्य=  तात्कालिकशरस्य,

कृतिं=  वर्गं,

प्रोज्झ्य = विशोध्य,

पदं=  शेषस्य मूलं चन्द्रग्रहणे,

कोटिलिप्ताः=  कोटिकलाः स्युः ।

रवेः लिप्ताः=  सूर्यस्य कोटिकलाः,

स्पष्टस्थित्यर्धेन =  मध्यग्रहणकालस्पर्शमोक्षा न्यतरकालयोरन्तररूपेण,

आहताः=  गुण्याः,

मध्येन =  मध्य स्थित्यर्धेन,

हृताः=  भक्ताः फल स्फुटकोटिकला भवन्ति । ताभ्यः लिप्ताभ्यः,

स्थितिवत् =  स्थित्यर्धसाधनरीत्या षष्ट्या संगुण्य सूर्ये द्वोर्भुक्त्यन्तरविभाजिताः", इत्यादिना,

तन्नाड्यः =  तासां कोटि कलानां घट्यः,

ग्रासनाडिकाः=  स्वेष्टग्रासघटिकाः स्युः ॥ 22 ॥ 23 ॥


अथ वलनानयनमाह—

नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ॥

वलनांशाः सौम्ययाम्याः पूर्वापरकपालयोः ॥ 24 ॥ राशित्रययुताग्राह्यात्क्रान्त्यशैदिक्समैर्युताः ॥

भेदेऽन्तराज्ज्या वलना सप्तत्यंगुलभाजिता ॥25॥

,  नतज्या =  सूर्याचन्द्रमसौनतकालज्या,

अक्षज्यया=  स्वदेशाक्षांशज्यया,

अभ्यस्ता=  गुणिता,

त्रिज्याप्ता=  त्रिज्यया भक्ता,

तस्य =  लब्धफलस्य,

कार्मुकं=  धनुः कलात्मक षष्टि भक्त । पूर्वापरकपालयोः,

पूर्वपश्चिमकपालयोः=  क्रमेण,

सौम्ययाम्याः=  उत्तरदक्षिणाः,

वलनांशाः=  अक्षवलनांशाः । पूर्वनति सौम्याः पश्चिमनतिदक्षिणवलनांशा भवन्तीत्यर्थः ।

राशि त्रययुतात् =  राशित्रयेण युक्तात्,

ग्राह्यात् =  राश्यादिग्राह्यात्,

क्रान्त्यशैः=  क्रान्त्यशाः साध्यास्त’ एवायनवलनांशा भवन्ति । तैः

, दिकसमैः=  दिक्तुल्यैः । तुल्यदिक्कैरायनाक्षवलनांशैः,

युताः=  । यतास्तेषां,

भेदे =  दिग्भेदे,

अन्तरात् =  आयनाक्षवलनयोरन्तरात्,

ज्या=  जीवा स्पष्टवलनज्या स्यात् । सा जीवा,

सप्तत्यंगुल भाजिता =  सप्तत्यंगुलैर्भक्ता,

वलना =  अंगुलादिका वलना भवति ॥ 24 ॥ 25 ॥


अथ कलात्मकविम्बविक्षेपादीनामङ्गुलीकरणम्—

सोन्नतं दिनमध्यर्धं दिनार्धाप्तं फलेन तु॥

छिन्द्यादिक्षेपमानानि तान्येषामगुलानि तु 26 ॥

दिनं=  दिनमानम्,

अध्यर्धं =  स्वार्धयुक्तं । स्वकीयेनार्धेन युक्तमित्यर्थः ।

सोन्नतं=  इष्टकालिकोनतघटिकाभिः सहितं,

दिनार्धाप्तं =  दिनार्धेन भक्तं,

फलेन =  लब्धफलेन,

तानि=  पूर्वोक्तानि कलात्मकानि,

विक्षेपमानानि=  विक्षेपग्राह्यग्राहकबि म्बमानानि,

छिन्द्यात् =  भजेत् । फलम्,

एषां=  विक्षेपादीनां,

अङ्गलानि=  भवन्ति ॥ 26 ॥

इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां यां



5 अथ सूर्यग्रहणाधिकारः।

तत्रादौ लम्बननत्योरभावस्थानमाह—

मध्यलग्नसमे भानो हरिजस्य न सम्भवः ॥

अक्षोदमध्यमक्रान्तिसाम्ये नावनतेरपि ॥ 1॥

मध्पलग्नसमे=  उदयास्तलग्नयोर्मध्यं मध्यलग्नं त्रिभोनलग्न मित्यर्थस्तत्तुल्ये,

भानो =  सूर्ये सति,

हरिजस्य=  लम्बनस्य लम्बनान्तरलम्बनस्येत्यर्थः,

सम्भवो न=  अभाव इत्यर्थः,

अक्षो दाध्यमक्रान्तिसाम्ये =  अक्षांशानामुत्तरमध्यलग्नस्य क्रान्त्यंशानां च तुल्यत्वे,

अवनतेः= नतेः,

अपि=  अपिशब्दात्सम्भवः,

न=  अभाव एवं तन्मूलभूतानां नतांशानामभावात् ॥ 1॥

अथाभावस्थानातिरिक्तस्थाने सम्भवात्प्रतिपादनं

प्रतिजानीते—

देशकालविशेषेण यथावनतिसम्भवः ॥

लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यते ॥ 2॥

देशकालविशेषेण =  देशविशेषेण कालविशेषेण,

अवनतिसम्भवः =  नत्युत्पत्तिर्गोलस्थित्या,

यथा=  भवति । च पुनः,

पूर्वान्यदिग्वशात् =  पूर्वापरदिगनुरोधात्,

च=  चकारादेश कालविशेषेण,

लम्बनस्यापि =  हरिजस्यापि सम्भवो यथा भवति, तथा =  तत्तुल्येन’ नतिर्लम्बनं च आनयनद्वारा,

उच्यते =  कथ्यते ॥ 2 ॥

अथ तत्रोपयुक्तामुदयाभिधामाह—

लग्नं पर्वान्तनाडीनां कुर्यात्स्वैरुदयासुभिः ॥

तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा॥3॥

स्वैः =  स्वदेशयैः,

उदयासुभिः =  राश्युदयासुभिः,

पर्वान्तनाडीनां =  पर्वान्तघटिकानां,

लग्नं =  पर्वान्तकालिक

लग्नं,

कुज्यात्=  साधयत्।

तज्ज्या =  अयनाशसंस्कृतस्य

लग्नस्य भुजज्या,

अन्त्यापक्रमज्याघ्नी=  परमकान्तिज्यया हता

, लम्बज्याप्ता=  लम्बज्या भक्ताफलं,

उदयाभिधा=  उदय

संज्ञिका स्यात् ॥ 3 ॥


अथोपयुक्तां मध्यज्यामाह—

तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम् ॥

तत्कान्त्यक्षांशसंयोगो दिक्साम्येऽन्तरमन्यथा ॥ 4 ॥

शषं नतांशास्तन्मौर्वी मध्यज्या साभिधीयते ॥

, तदा=  पर्वान्तकाले,

लङ्कोदयैः=  निरक्षोदयैः,

यथोदितं= 

पूर्वोक्तप्रकारेण नतघटीद्वारा,

मध्यसंज्ञं=  दशम भावात्मकं

, लग्नं=  उदयं साध्यम् ॥

दिक्साम्ये=  दिगैकत्वे,

तत्क्रान्त्य

क्षांशसंयोगः=  तस्य मध्यलग्नस्यायनांशसंस्कृतदशमलग्नस्य क्रान्त्यंशानां स्वदेशाक्षांशानां च योगः कार्यः ।

अन्यथा=  दिग्भेदे क्रान्त्यक्षांशोभिन्नदिक्त्वे सति,

अन्तर=  वियोगः कार्यः ।

शेषं=  शिष्टं,

नतांशाः =  संस्कारदिक्का नतांशा भवन्ति ।

तन्मौर्वी=  तेषां नतांशानां जीवा कार्या ।

सा=  मध्यलग्न नतांशज्या,

मध्यज्या=  मध्यज्येति नाम,

अभिधीयते=  कथ्यते ॥ 4 ॥


अथाभ्यां नतिसम्बनोपयुक्तं दृक्क्षेपं दृग्गतिं चाह—

मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ॥5॥

मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम् ॥

तस्त्रिज्यावर्गविश्लेषान्मूलं शंकुः स दृग्गतिः॥6॥

मध्या= मध्यज्या,

उदयज्यया= उदयाभिधया,

अभ्यस्ता=  गुणिता,

त्रिज्याप्ता=  त्रिज्यया भक्ता,

फलं=  भजनफलं,

वर्गितं=  स्वगुणितम् । फलस्य वर्गः कार्य इत्यर्थः ।

मध्यज्या वर्गविश्लिष्टं =  मध्यज्यावर्गेणान्तरितं कार्यं,

शेषतः=  शेषात् यत्,

पदं =  मूलं स,

दृक्क्षेपः=  दृक्क्षेपसंज्ञः स्यात् ।

तत्त्रिज्या वर्गविश्लेषात् =  दृक्क्षेपवर्गत्रिज्यावर्गयोरन्तरात्,

मूलं=  पदं,

शंकु=  शंकुः स्यात् ।

सः=  शंकुः,

दृग्गतिः=  दृग्गतिसंज्ञो भवति ॥5।6॥


अथ गणिसुखार्थं लाघवात् दृग्गती आह—

नतांशबाहुकोटिज्येऽस्फुटे दृक्षेपदृग्गती ॥

नतांशबाहुकोटिज्ये=  दशमभावनतांशानां भुजकोटिज्ये,

अस्फुटे=  स्थूले,

दृक्क्षेपदृग्गती=  क्रमेण दृक्क्षेपदृग्गतिसंज्ञे भवतः । अर्थान्नतांशज्या दृक्क्षेपेस्तद्वर्गोनत्रिज्यावर्गस्य मूलं दृग्भातिर्भवति॥


अथ लम्बनानयनमाह—

एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया ॥7॥

मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता ॥

रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चाद्घटिकादिकम् ॥ 8

एकज्यावर्गतः=  एकराशिज्यावर्गात्,

दृग्गतिजीवया=  पूर्वोक्तदृग्गत्या भक्तात् यत्,

लब्धं =  फलं भवेत्तत्,

छेदः= छेदसंज्ञः स्यात् ।

मध्यलग्नार्कविश्लेषज्या =  अमान्तकालिक त्रिभोनलग्नसूर्ययोरन्तरांशज्या,

छेदेन =  छेदसंज्ञेन,

विभाजिता= 

भक्त फलं,

प्राक्रपश्चात् =  त्रिभोनलग्नरूपमध्यलग्नात्पूर्वापरविभागे, रवीन्द्वोः=  सूर्यचन्द्रयोः,

घटिकादिकं =  नाड्यादिकं,

सम्बनं=  हरिजं,

ज्ञेयं=  बोध्यम् ॥6,7 ॥


अथ मध्यग्रहणकालज्ञानार्थं तिथौ लम्बनसंस्कारं

सदसकृत्साध्यमित्याह—

मध्यलग्नाधिके भानौ तिथ्यन्तात्प्रविशोधयेत् ॥

धनमूनेऽसकृत्कर्म यावत्सर्वं स्थिरीभवेत् ॥ 9 ॥

। भानो=  सूर्ये,

मध्यलग्नाधिके =  त्रिभोनलग्नाधिके सति,

तिथ्यन्तात् =  दर्शतिथ्यन्तकालात् पूर्वसाधितं लम्बनं,

प्रवि शोषयेत् =  हीनं कुर्यात् ।

ऊने =  त्रिभोन लग्नात्सूर्ये न्यूने सति ।

धनं =  तिथ्यन्ते युतं कार्यम् । एवं,

कर्म=  गणितकर्म,

असकृत्=  पुनः पुनस्तावत्कार्य,

यावत्सर्वं=  लम्बनादि सर्वे गणितं यावत्काल पर्यन्तं,

स्थिरीभवेत् =  अविलक्षणं भवेत् ॥ 6 ॥


अथ नतिसाधनमाह—

दृक्क्षेपः शीततिग्मांश्योर्मध्यभुक्त्यन्तराहतः॥

तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिर्भवेत् ॥1

दृक्षेपः=  पूर्वानीतो दृक्क्षेपः,

शीततिग्मांश्वो=  चन्द्रार्कयोः,

मध्यभुक्त्यन्तराहतः=  मध्यमगत्योरन्तरेण गुणितः,

तिथिघ्नत्रिज्यया=  पञ्चदशगुणितत्रिज्यया,

भक्तः=  हृतः,

लब्धं =  यत्कलादिफलं,

सा=  देशकालविशेषेण गोलासिद्धा,

अवनतिः=  कलादिका नतिः,

भवेत् =  स्यात् ॥ 10 ॥


अथ प्रकारान्तराभ्यां नतिसाधनमाह—

दृक्क्षेपात्सप्ततिहृताद्भवेदावनतिः फलम् ॥

अथवा त्रिज्यया भक्तात्सप्तसप्तकसंगुणात् ॥ 11॥

दृक्क्षेपात्=  पूर्वानीतदृक्क्षेपात्,

सप्ततिहृतात् =  सप्तत्या भक्तात्,

फलं=  कलादिफलं,

वा =  प्रकारान्तरेण,

अवनतिः =  नतिः,

भवेत् =  स्यात् ।

अथवा =  प्रकारान्तरेण,

सप्तसप्तकसंगुणात् =  सप्तानां सप्तकं सप्तवारमावृत्तिरेकोनपञ्चाश दित्यर्थः तेन गुणितादृक्क्षेपात्,

त्रिज्यया= त्रिभज्यया,

भक्तात्=  फलं कलादिका नतिः स्यात् ॥ 11 ॥


अथ नतेर्दिज्ञानं स्पष्टविक्षेपं चाह—

मध्यज्यादिग्वशात्सा च विज्ञेया दक्षिणोत्तरा ॥

सेन्दुविक्षेपदिक्साम्येयुक्ता विश्लेषितान्यथा ॥12॥

। सा=  अवनतिः,

मध्यज्यादिग्वशात् =  मध्यज्याया दिगनुरोधात्,

दक्षिणोत्तरा=  याम्योत्तरार्थात्मध्यज्या चेद्दक्षिणा तदानतिरपि दक्षिणा चेदुत्तरातदोत्तरा,

विज्ञेया=  बोध्या ।

सा=  दक्षिणोत्तरावनतिः,

इन्दुविक्षेपदिक्साम्ये=  चन्द्रशरदिक्तुल्ये । नतिचन्द्रशरयोरेकदिक्त्वे,

युक्ता=  चन्द्रशरेण युता ।

अन्यथा=  दिग्भेदे,

विश्लेषिता=  अन्तरिता नतिः स्पष्टशररूपा स्यात् ॥ अत्र चन्द्रविक्षेपो मध्यग्रहणकालिक इति ज्ञेयम् ॥ 12 ॥ ।

अथ स्थित्यर्धाद्यानयनमाह—

तया स्थितिविमर्दार्धग्रासाद्यं तु यथोदितम् ॥

प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् ॥ 13॥

तया=  विक्षेपसंस्कृतया नत्या,

स्थितिविमर्दार्धग्रासाद्यं= स्थित्यर्धविमर्धग्रासाः । आद्यशब्दात्स्पर्शमोक्षसम्मीलनोन्मीलनं ।

च ग्राह्यं,

यथोदितं =  चन्द्रग्रहणे यथाक्तं तथा,

प्रमाणं=  मतं साध्यमित्यर्थः ।

वलनाभीष्टग्रासादि =  वलनाभीष्टग्रासाः । आदिशब्दादिष्टग्रासादिष्टकालानयनम् ।

हिमरश्मिवत् =  चन्द्र ग्रहणोक्तरीत्या समानेयमित्यर्थः ॥ 13 ॥


अथ स्थित्यर्धविमर्दार्धे च विशेषमाह—

स्थित्यर्धेनाधिकात्याग्वत्तिथ्यन्ताल्लम्बनं पुनः

ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम् ॥ 14॥

प्राक्कपालेऽधिकं मध्याद्भवेत्प्राग्ग्रहणं यदि ॥

मौक्षिकं लम्बनं हीनं पश्चार्धे तु विपर्ययः ॥ 15॥

तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा ॥

हरिजान्तरकं शोध्यं यत्रैतत्स्याद्विपर्ययः ॥ 16॥

एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता ॥

स्वेस्वे स्थितिदले योज्या विमर्दार्धेऽपिचोक्तवत्॥17॥

, तिथ्यन्तात् =  गणितागतदर्शान्तकालात्,

स्थित्यर्धोनाधिकात्=  स्पार्शिकस्थित्यर्धेन हीनात्,

मौक्षिकस्थित्यर्थेन च युतात्,

प्राग्वत् =  एकज्यावतश्छेद इत्यादि प्रकारेण,

ग्रासमोक्षोद्भवं=  स्पर्शमोक्षकालिकं,

लम्बनं =  हरिजं,

पुनः=  असकृत्,

साध्यं= 

कार्यम् ।

प्राक्कपाले =  त्रिभोनलग्नात्पूर्वभागे । त्रिभोनलग्नाधिके,

मध्यात् =  मध्यकालिकलम्बनात्,

प्राग्ग्रहणं=  स्पर्शकालिकलम्बनं,

यदि =  चेत्,

अधिकं=  महान्,

भवेत् = स्यात्,

मौक्षिकं=  मोक्षकालिकं,

लम्बनं =  हरिजं,

हीनं=  न्यून भवेत् ।

पश्चार्धे तु= त्रिभोनलग्नात्पश्चिमभागे, त्रिभोनलग्नादूने रवौ तु,

विपर्ययः=  विपर्यासो भवेत् । मध्यकालिकलम्बनात्स्पर्शकांति लम्बनं न्यूनं मोक्षकालिकलम्बनमधिकमित्यर्थः ।

तदा=  ।

तन्मध्यहरिजान्तरं =  स्पर्शमध्यमोक्षकालिकलम्बनान्तरं,

मोक्षस्थितिदले=  मोक्षस्थित्यर्धे,

देयं =  योज्यम् ।

प्रग्रहणे=  स्पर्शस्थित्यः,

तथा=  देयमित्यर्थः ।

यत्र=  यस्मिन् काले,

विपर्ययः=  उक्तवैपरीत्यं,

स्यात् =  भवेत् । प्राक्कपाले मध्या कालिक लम्बनात्स्पार्शिकलम्बनं न्यूनं मौक्षिकलम्बनमधिकम्, पश्चिमकपाले तु मध्यकालिकलम्बनात्स्पार्शिकलम्बनमधिकं मौक्षिकलम्बनं न्यूनं स्यादित्यर्थः । तत्र

,  एतद् =  साधितं,

हरिजान्तरकं =  लम्बनान्तर मोक्षस्थितिदले मध्यमोक्षकालिकलम्बनान्तरम्, स्पार्शिकस्थिति मध्यस्पर्शकालिकलम्बनान्तरमित्यर्थः,

शोध्यम् =  अपनेयम्,

एतदुक्तं =  लम्बनान्तरं,

कपालैक्ये=  स्पर्शमध्ययोर्मध्यमोक्ष योर्वा कपालाभिन्ने उक्तलम्बने योज्ये शोध्ये वेति प्रतिपादित,

तद्भेदे=  स्पर्शमध्ययोर्मध्यमोक्षयोर्भेदे कपालभेदे,

लम्बनैकता=  उक्तलम्बनयोरैक्यम् । एवं स्पर्शमोक्षस्थित्यर्धे स्पष्टे भवतः ।

विमर्दार्धेऽपि=  मर्दार्धेऽपि,

उक्तवत् =  स्थित्यर्धेनाधिकादित्यादिरीत्या,

स्वे स्वे=  निजे निजे,

स्थितिदले=  स्थित्यर्धे मर्दार्धग्रहणेन प्रोक्तरीत्या,

योज्या= मिश्रिता कार्येति शम् ॥14।15।16।17 इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां सौरर

पिकायो पञ्चमः सूर्यग्रहणाधिकारः समाप्तः ॥ 5 ॥



6 अथ छेद्यकाधिकारः।

तत्र तं सप्रयोजनं प्रतिजानीते—

न छेद्यकमृते यस्माद्भेदा ग्रहणयोः स्फुटाः॥

ज्ञायन्ते तत्प्रवक्ष्यामि छेद्यकज्ञानमुत्तमम् ॥ 1॥

,  ।

यस्मात् =  यस्मात्कारणात्,

ग्रहणयोः=  चन्द्रसूर्यग्रहणयो,

भेदाः=  कस्यां दिशि स्पर्शमोक्षौ सम्मीलनोन्मीलने ग्रस्तोंऽश कियानित्यादिभेदाः,

स्फुटाः=  वास्तवाः,

छेद्यकं =  गोलस्थिति प्रदर्शकः प्रकारश्छेद्यकपदवाच्यस्तं,

ऋते=  विना । छेद्यकव्यतिरेके णेत्यर्थः ।

न ज्ञायन्ते=  न बुध्यन्ते तस्मात्कारणात्,

तत्‌उत्तमं=  तत् श्रेष्ठं,

छेद्यकज्ञानं=  परिलेखसाधकग्रन्थं सूर्यांशपुरुषोऽहं,

प्रवक्ष्यामि =  कथयामि ॥ 1 ॥

अथ वलनवृत्तस्य परिलेखमाह—

सुसाधितायामवनौ बिन्दुं कृत्वा ततो लिखेत् ॥

सप्तवर्गांगुलेनादौ मण्डलं वलनाश्रितम् ॥ 2॥

सुसाधितायां=  जलवत्समीकृतायाम्,

अवनौ =  भूमौ,

बिन्दुम् =  अभीष्टस्थाने वृत्तमध्यज्ञापकचिह्नं,

कृत्वा =  विधाय,

ततः =  चिह्नात्,

सप्तवर्गांगुलेन=  एकोनपञ्चाशदंगुलमितेन व्यासार्धेन,

आदौ=  प्रथमं,

वलनाश्रितं =  वलनाश्रयीभूतं वलन दानार्थं,

मण्डलं =  वृत्तं,

लिखेत् =  रचयेत् । गणक इति

शेषः ॥ 2 ॥

अक द्वितीयतृतीयवृत्ते आह—

ग्राहगाह्यकयोगार्धसम्मितेन द्वितीयकम् ॥

मण्डलं तत्समासाख्यं ग्राह्यार्धेन तृतीयकम् ॥ 3॥

ग्राह्यग्राहकयोगार्धसम्मितेन =  ग्राह्यग्राहकबिम्बयो र्योगार्धेन,

द्वितीयकं=  द्वितीयमेव द्वितीयकं,

मण्डलं =  वृत्तं,

लिखेत् =  रचयेत्,

तत्=  द्वितीयवृत्तं,

समासाख्यं =  समाससंज्ञं ज्ञेयम् ।

ग्राह्यार्धेन =  ग्राह्यबिम्बस्य मानार्धेन,

तृतीयकं=  तृतीयवृत्तं लिखेत् ॥ 3 ॥

अथ तवृत्तषु दिवसाधनं स्पर्शमोक्षदिनियमं चाह—

याम्योत्तराप्राच्यपरासाधनं पूर्ववद्दिशाम् ॥

प्रागिन्दोर्ग्रहणं पश्चान्मोक्षोऽर्कस्यविपर्ययात् ॥4॥

दिशाम्= अष्टदिशां मध्ये,

याम्योत्तराप्राच्यपरासाधनं=  दक्षिणोत्तरापूर्वापरायाश्च साधनं,

पूर्ववत् =  त्रिप्रश्नाधिकारोक्तवत्कार्यम् ।

इन्दोः =  चन्द्रस्य,

प्राक्=  पूर्वदिशि,

ग्रहणं=  ग्रहणारम्भो भवति ।

पश्चात् =  पश्चिमादशि,

मोक्षः =  ग्रहणान्तो भवति ।

अस्य=  सूर्यस्य,

विपर्ययात् =  दिग्विपर्ययात् । पश्चिमदिशि स्पर्शः पूर्वस्यां मोक्षो भवतीत्यर्थः ॥ 4 ॥


अथ वलनवृत्ते वलनदानमाह—

यथादिशं प्राग्ग्रहणं वलनं हिमदीधितेः ॥

मौक्षिकं तु विपर्यस्तं विपरीतमिदं रवेः ॥5॥

हिमदीधितेः=  चन्द्रस्य,

प्राग्ग्रहणं =  स्पार्शिकं,

वलनं=  हरिजं,

यथादिशं=  पूर्वचिह्नाद्यथादिशं दक्षिणं चेद्दक्षिणाभिमुखमुत्तरं चेदुत्तराभिमुखं पूर्वापरसूत्रादर्धज्यावद्वलनाश्रितवृत्ते देयम् ।

मौ क्षिकं तु=  मौक्षिक वलनं तु,

विपर्यस्तं=  विपरीतं पश्चिमचिहा पूर्वापरसूत्राद्देयम् ।

इदं =  वलनं,

रवेः =  सूर्यस्य,

विपरीतं=  व्यस्तं देयम् । मौक्षिकं वलनं पूर्वचिह्ना‌द्दक्षिणं चेद्दक्षिणाभिमुखमुत्तरं चेदुत्तराभिमुखं देयं स्पार्शिकं वलनं पश्चिमचिह्नाद्दक्षिणं चेदुत्तराभिमुखमु तरं चेद्दक्षिणाभिमुख देयमित्यर्थः ॥ 5 ॥

अथ शरदानमाह—

वलनापानयेन्मध्यं सूत्रं यद्यत्र संस्पृशेत् ॥

तत्समासे ततो देयौ विक्षेपौ ग्रासमौक्षिकौ ॥ 6 ॥

बलनामात् =  स्पार्शिकमौक्षिकवलनयोरपात्,

मध्यं =  वृत्तस्य मयं केन्द्रं प्रति,

सूत्रं =  रेखात्मक सूत्रं,

नयेत् =  रचयेत् ।

तत्=  तत्सूत्रं,

समासे=  समाससंज्ञके द्वितीयवृत्ते,

यत्र=  यस्मिन्प्रदेशे,

संस्पृशेत् =  स्पर्श कुर्यात्,

ततः=  तस्मात्प्रदेशात्स मासवृत्ते,

ग्रासमौक्षिको=  स्पर्शमोक्षकालिको,

विपी=  शरौ,

देयौ=  अर्धज्यावत् यथादिशं देयौ ॥ 6॥

अथ स्पर्शमोक्षस्थानशानमाह—

विक्षेपाग्रात्पुनः सूत्रं मध्यविन्दुं प्रवेशयेत् ॥

तग्राह्यबिन्दुसंस्पर्शाद् ग्रासमोक्षौ विनिर्दिशेत्॥7॥

विक्षेपाग्रात् =  शरामात्,

पुनः =  द्वितीयवारं,

सूत्रं= 

रेखारूपसूत्रं,

मध्यबिन्दु =  वृत्तस्य केन्द्रं प्रति,

प्रवेशयेत् =  प्रविष्टं कुर्यात् ॥ नयेदित्यर्थः ।

तग्राह्यबिन्दुसंस्पर्शात् =  तत्सूत्रग्राह्यबिम्बपरिध्यो सम्पातात्,

ग्रासमोक्षौ= स्पर्शमोक्षौ,

विनि दिशेत् =  कथयेत् ॥ 7 ॥


अथ ग्रहणे विक्षपस्य दिग्ख्यवस्थां मध्यग्रहणज्ञानार्थ

मध्यकालिकवलनदानं चाह—

नित्यशोऽर्कस्य विक्षेपाः परिलेखे यथादिशम् ॥

विपरीताः शशाङ्कस्य तदशादथ मध्यमम् ॥ 8 ॥

वलनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि ॥

भेदे पश्चान्मुखं देयमिन्दो नोविपर्ययात ॥ 6 ॥

अर्कस्य =  सूर्यस्य ग्रहणे,

विक्षेपाः=  चन्द्रस्य विक्षेपाः,

परिलेखे =  ग्रहणभेददर्शनप्रकारे,

नित्यशः = नित्यं,

यथा दिशम् =  यथास्थितदिशं ज्ञेयाः ।

शशाङ्कस्य=  चन्द्रस्य ग्रहणे चन्द्रविक्षेपाः,

विपरीताः=  विपरीतदिक्काः । दक्षिणाश्चेदुत्तरा उत्तरा रचेद्दक्षिणा ज्ञेया इत्यर्थः ।

अथ=  अनन्तरं,

तद्वशात्=  मध्यग्रहणका लिकविक्षेपदिगनुरोधात् । सूर्यग्रहणे मध्यग्रहणकालिकस्पष्टशरदिक्चि ह्राचन्द्रग्रहणे मध्यकालिकविक्षेपदिग्विपरीतदिचिह्नादित्यर्थः ।

यदि=  यहीत्यर्थः ।

तद्विक्षेपकता=  मध्यग्रहण कालिकवलनशरदिशोरैक्यता चेत्तदा,

मध्यम=  ग्रहणमध्यकालिक, वलनं=  स्फुटवलनं,

प्राङ्मुख=  पूर्वचिह्नसम्मुखं,

देयं =  दानं कुर्यात् ।

भेदे=  वलनशरयोर्दिग्भेदे,

पश्चान्मुखं=  पश्चिमचिह्नाभिमुखं,

देयं=  दानं कुर्यात् । एवम्,

इन्दोः =  चन्द्रस्य वलनदानक्रममुक्तम् ।

भानोः=  सूर्यस्य,

विपर्ययात् =  उक्तवैपरीत्यात् । एकदिशि पश्चिमचिह्नाभिमुखं भिन्नदिशि पूर्वदिचिह्नाभिमुखं देयमित्यर्थः ॥ 8 ॥6॥


अथ मध्यग्रहणपरिलेखमाह—

वलनाग्रात्पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत् ॥

मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत् ॥ 10॥

विक्षेपामाल्लिखेद्वृत्तं ग्राहकार्धेन तेन यत् ॥

ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत् ॥11॥

। वलनाग्रात् =  मध्यकालिकवलनाग्रात्,

पुनः=  द्वितीयवारं,

मध्यबिन्दु=  वृत्तस्य केन्द्र प्रति,

सूत्रं =  रेखां,

प्रवेशयेत् =  नयेदित्यर्थः ।

मध्यसूत्रेण =  अनेन सूत्रेण,

वलनाभिमुखं= ,

मध्यवलनामाभिमुखं,

विक्षेपं=  मध्यविक्षेपं,

नयेत् =  प्रापयेत् । वृत्तस्य केन्द्रादित्यर्थः ।

विक्षेपाग्रात् =  शराग्रात्,

ग्राहकार्धेन=  ग्राहकबिम्बस्य मानार्धेन,

वृत्तं=  मण्डलं,

लिखेत्=  रचयेत् ।

तेन=  वृत्तेन,

यत् =  यन्मितं,

ग्राह्यवृत्तं =  छाद्यवृत्तं,

समा क्रान्तं =  व्याप्तं,

तत् =  तन्मितं,

तमसा=  अन्धकारेण छादकेन,

ग्रस्तम् =  आच्छादितं,

भवेत् =  स्यात् ॥ 10 ॥ 11 ॥


पूर्वापरकपालभेदेन परिलेखे विशेषमाह—

छेद्यकं लिखता भूमौ फलके वा विपश्चिता॥

विपर्ययो दिशां कार्यः पूर्वापरकपालयोः॥12॥

भूमौ=  समभूमौ,

वा=  अथवा,

फलके =  काष्ठपट्टिकायां,

छेद्यकं=  परिलेखं,

लिखता=  गणकेन,

विपश्चिता=  तत्त्वज्ञेन,

दिशा=  पूर्वादिदिशां,

पूर्वापरकपालयोः=  प्राक्पश्चिमकपालयोः,

विपर्ययः=  व्यत्यासः,

कार्यः=  संपादयेत् पूर्वकपाले यथा दिशां परिलेखं कृतं तथा पश्चिमकपालेन कार्यम् । किन्तु पश्चिमकपाले विलोमक्रमेण दिगङ्कनं कार्यमित्यर्थः ॥ 12 ॥

अथानादेश्यग्रहणमाह—

स्वच्छत्वाद्वादशांशोऽपि ग्रस्तश्चन्द्रस्य दृश्यते ॥

लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वान्न विवस्वतः॥ 13॥

चन्द्रस्य=  इन्दुमण्डलस्य,

द्वादशांशः=  द्वादशभागः,

ग्रस्तोऽपि =  आच्छादितोऽपि,

स्वच्छत्वात्=  ग्रस्तातिरिक्त संपूर्णदृश्यबिम्बस्य प्रकाशमानत्वात्,

न दृश्यते=  ग्रस्तोंऽशः न दृश्यते संपूर्णदृश्यबिम्बमुज्ज्वलं दृश्यते । तत्र ग्रहणं न वदेदित्यर्थः ।

विवस्वतः =  सूर्यस्य,

लिप्तात्रयं=  कलात्रयं,

अस्तमपि=  छादकबिम्बेनाच्छादितमपि,

तीक्ष्णत्वात् =  सूर्यस्य तेजस्तैक्ष्ण्याल्लो कनयनप्रतिघातत्वाच्चेत्यर्थः ।

न दृश्यते =  न भासते । संपूर्ण बिम्बं प्रकाशमानमेव भासत इत्यर्थः ॥ वृद्धवशिष्ठेन तु, "ग्रस्तं शशांकस्य कलाद्वयं चेत्कलात्रयं भानुमतो न लक्ष्यम् । तत्किञ्चिदूनं ह्युदया स्तकाले लक्ष्यं यतस्तौ करगुम्फहीनौ, " इत्युक्तम् ॥ 13 ॥


अथेष्टग्रासपरिलेखार्थं ग्राहकमार्गज्ञानमाह—

स्वसंज्ञितास्त्रयः कार्या विक्षेपाग्रेषु विन्दवः॥

तत्र प्राङ्मध्ययोर्मध्ये तथा मौक्षिकमध्ययोः॥14॥

लिखेन्मत्स्यौ तयोर्मध्यान्मुखपुच्छविनिःसृतम् ॥

प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् ॥ 15 ॥

तत्र सूत्रेण विलिखेच्चापं बिन्दुत्रयस्पृशा ॥

स पन्था ग्राहकस्योक्तो येनासौ सम्प्रयास्यति ॥16॥

विक्षेपाग्रेषु =  स्पर्शमध्यमोक्षकालिकशराग्रेषु,

स्वसंज्ञिताः=  स्पर्शमध्यमोक्षसंज्ञिताः,

त्रयो बिन्दवः=  स्पर्शशराग्रे स्पर्शबिन्दु मध्यशराग्रे मध्यबिन्दुर्मोक्षशराग्रे मोक्षबिन्दुरिति त्रयो बिन्दवः । गणकेन,

कार्याः=  विधेयाः ।

तत्र =  बिन्दुत्रयेषु,

प्राङ्मध्ययोः=  स्पर्शमध्यबिन्द्वोः,

मध्ये =  अन्तराले, मौक्षिकमध्ययोः=  मोक्षमध्यबिन्द्वोः,

तथा =  अन्तराले,

मत्स्यौ =  मत्स्यद्वयं,

लिखेत्=  रचयेत् ।

तयोः=  मत्स्ययोः,

मध्यात्=  गर्भात्,

मुखपुच्छ

विनिःसृतं =  मुखपुच्छाभ्यां निष्कासितं,

सूत्रद्वितयं =  द्वे सूत्रे,

प्रसार्य=  अग्रेऽपि स्वमार्गे निःसार्य,

तयोः=  स्वस्वमार्गे प्रसारितसूत्रयोः,

यत्र=  यस्मिन्स्थाने,

युतिः =  योगः,

भवेत् =  स्यात्,

तत्र =  तस्मिन्स्थाने केन्द्रं प्रकल्प्य,

बिन्दुत्रयस्पृशा=  बिन्दुत्रयाणां स्पर्श कुर्वता,

सूत्रेण =  व्यासार्धरूपेण,

चापं =  धनुः,

विलिखेत् =  कुर्यादित्यर्थः ।

सः=  चापात्मकः,

ग्राहकस्य =  छादकस्य,

पन्थाः =  मार्गः,

उक्तः=  कथितः ।

येन=  मार्गेण,

असौ=  ग्राहकः,

संप्रयास्यति=  गमिष्यतिः॥ 14 । 15 । 16 ॥



अथेष्टग्रासपरिलेखमाह—

ग्राह्यग्राहकयोगार्धात्पोज्झ्येष्टग्रासमागतम् ॥

अवशिष्टांगुलसमां शलाकां मध्यबिन्दुतः ॥17॥

तयोर्मार्गोन्मुखीं दद्याद् ग्रासतः प्राग्ग्रहाश्रिताम् ॥

विमुञ्चतो मोक्षदिशि ग्राहकार्धेनमेव सा ॥18॥

स्पृशेद्यत्र ततो वृत्तं ग्राहकार्देन संलिखेत् ॥

तेन ग्राह्याद्यदाक्रान्तं तत्तमोग्रस्तमादिशेत् ॥16॥

ग्राह्यग्राहकयोगार्धात् =  छायच्छादकबिम्बमानयोर्योगार्धात्,

आगतं =  ग्रहणाधिकारोक्तप्रकारावगतम्,

इष्टग्रासम् =  इष्ट कालिकाभीष्टग्रासं,

प्रोज्झ्य =  त्यक्त्वा,

अवशिष्टांगुलसमां=  शेषाङ्गुलप्रमाणां,

शलाकां=  यष्टिं,

मध्यबिन्दुतः=  वृत्तत्रयमध्य केन्द्रबिन्दोः सकाशात्,

तयोः=  स्पर्शमोक्षविक्षेपाग्रयोः,

मार्गोन्मुखी=  मार्गरेखाभिमुखी,

ग्रासतः=  मध्यग्रासतः,

प्राक्=  पूर्वकाले इष्टग्रासे सति,

ग्रहाश्रितां=  स्पर्शशराग्रसम्बन्धिमार्गचाप रेखासक्तां,

विमुञ्चतः=  मध्यादनन्तरं मोक्षात्प्राक्स्थितस्याभीष्ट ग्रासस्य,

मोक्षदिशि =  मोक्षविक्षेपाग्रसम्बन्धिमार्गचापरेखायां सक्तां रेखारूपशलाकां,

दद्यात् =  दानं कुर्यात् ।

सा=  शलाका,

ग्राहकाध्वानं =  ग्राहकमार्गचापरेखां,

यत्र =  यस्मिन्भागे,

स्पृ शेत् =  स्पर्शं कुर्यात्,

तत एव=  तस्मात्प्रदेशादेव,

ग्राहकार्धेन=  ग्राहकबिम्बस्य मानार्धरूपव्यासार्धेन,

वृत्तं =  मण्डलं,

संलिखेत्=  सम्यक्प्रकारेण रचयेत् ।

तेन=  वृत्तेन,

ग्राह्यात् =  छाद्यवृत्तात् । यत् =  यन्मितं वृत्तभागं,

आक्रान्तं =  व्याप्तं,

तत्=  तन्मितं ग्राह्यवृत्तांशं,

तमोग्रस्तं =  तमसा छादकबिम्बेन भूभयेत्यर्थः अस्त माच्छादितम्,

आदिशेत् =  कथयेत् ॥ 17 ॥ 18 ॥19॥


अथ निमीलनपरिलेखमाह—

मानान्तरार्धेन मितां शलाकां ग्रासदिङ्मुखीम् ॥

निमीलनाख्यां दद्यात्सा तन्मार्गेयत्रसंस्पृशेत् ॥20॥

ततो ग्राहकखण्डेन प्राग्वन्मण्डलमालिखेत् ॥

तद्भाग्रामण्डलयुतिर्यत्र तत्र निमीलनम् ॥ 21॥

मानान्तरार्धेन=  ग्राह्यग्राहकबिम्बमानयोरन्तरार्धेन,

मितां=  तुल्यां,

निमीलनाख्या=  निमीलनसंज्ञकां,

शलाकां=  रेखारूपशलाकां,

ग्रासदिङ्मुखीः=  स्पर्शशराग्राभिमुखीं मध्यबिन्दोः सकाशात्,

दद्यात् =  दानं कुर्यात् ।

सा=  शलाका,

तन्मार्गे=  ग्राहकमार्गे,

यत्र=  यस्मिन्प्रदेशे,

संस्पृशेत्=  संलग्ना स्यात्,

ततः= तस्मात्प्रदेशात्,

ग्राहकखण्डेन=  ग्राहकबिम्बमानार्धेन,

प्राग्वत् =  पूर्वोक्तवत् । यथेष्टग्रासार्थे वृत्तं कृतं तद्वत्,

मण्डलं=  वृत्तम्,

आलिखेत् =  कुर्यादित्यर्थः,

तग्राह्यमण्डलयुतिः=  लिखितवृत्तग्राह्यवृत्तयोर्योगः,

यत्र=  यस्मिन्प्रदेशे भवेत्,

तत्र=  तस्मिन्प्रदेशे,

निमीलनं=  ग्राह्यबिम्बस्य निमज्जनं स्यात् ॥20॥21॥


अथोन्मीलनपरिलेखमाह—

एवमुन्मीलने मोक्षदिङ्मुखी संप्रसारयेत् ॥

विलिखेन्मण्डलं प्राग्वदुन्मीलनमथोक्तवत् ॥ 21 ॥

। ।

उन्मीलने =  उन्मीलनज्ञानायेत्यर्थः ।

एवं=  मानान्तरार्धमितां शलाकां मध्यबिन्दोः सकाशात्,

मोक्षदिङ्मुखी =  मोक्ष शराग्राभिमुखी,

संप्रसारयेत् =  सम्यक्प्रकारेण कुर्यादित्यर्थः ।

प्राग्वत्=  पूर्ववत् मौक्षिकमार्गदत्तशलाकायोगस्थानात्,

मण्डलं=  ग्राहकवृत्तं,

विलिखेत् =  रचयेत् ।

अथ=  अनन्तरम्,

उक्तावत् =  पूर्वोक्तवत् । ग्राह्यग्राहकयोगदिशीत्यर्थः,

उन्मीलनं=  ग्राह्य बिम्बस्योन्मज्जनं स्यात् ॥ 22 ॥


अथ ग्रहणे चन्द्रस्य वर्णानाह—

अर्धादूने स धूम्रं स्यात्कृष्णमर्धाधिकं भवेत् ॥

विमुश्चतः कृष्णताम्रं कपिलं सकलग्रहे ॥ 23 ॥

अर्धात् =  अर्धबिम्बात्,

ऊने =  अल्पे अस्ते सति,

सः=  अस्तभागः,

धूम्रं =  चन्द्रबिम्बं धूम्रवर्णं,

स्यात् =  भवेत् ।

अर्धा धिकं=  अस्तबिम्बमर्धाधिकं चेत्तदा,

कृष्णं=  चन्द्रबिम्बकृष्णवर्णं,

भवेत् =  स्यात् ।

विमुञ्चतः =  मुच्यमानस्य । पादोनबिम्बाधिकग्रस्तबिम्बस्य,

कृष्णताम्रं=  श्यामरक्तमिश्रवर्णः स्यात् ।

सकलग्रहे=  सम्पूर्णग्रहणे,

कपिलं=  पिशङ्गवर्णबिम्बं भवेत् । अत्र भूमायास्तेजोऽमावतया चन्द्राच्छादकत्वादेत वर्णाः सम्भवन्ति । सूर्यस्य तु चन्द्रो जलगोलरूप आच्छादकः स दर्शान्तादिवशेऽस्मद्दृश्यार्धे सदा कृष्ण एवेति कृष्ण एव सूर्यस्य ग्रस्तोऽशः सर्वदा । अत एवापिकृतत्वाद्भगवता सूर्यस्य वर्णो नोक्तः ॥ 23॥

अथोक्तच्छेधकस्य गोप्यत्वमाह—

रहस्यमेतद्देवानां न देयं यस्य कस्यचित् ॥

सुपरीक्षितशिष्याय देयं वत्सरवासिने ॥ 24॥

एतत् =  ग्रहणच्छेचकं,

देवानाम् =  अमराणामपि,

रहस्यं =  गोप्यं वस्तुवर्तते । अत‌एव,

यस्य कस्यचित् =  यस्मै कस्मैचिदपरीक्षिताय,

न देयं=  न दातव्यम् । किन्तु,

सुपरीक्षितशिष्याय=  सुष्टु परीक्षितः सुपरीक्षितः स चासौ शिष्यरच तस्मै,

वत्सरवासिने =  यः वर्षपर्यन्तं स्वसमीपे वासं करोतितस्मै । वर्षपर्यन्तं तत्सङ्गत्या तस्य तत्त्वतया ज्ञानं भवतीति हेतुना "वत्सरवासिने" इति विशेषणं दत्तम् । एतादृशाय सदाचरणशीलाय,

देयं=  दातव्यम् ॥ 24 ॥

इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां यां षष्ठश्छेधकाधिकारः समाप्तः ॥ 6 ॥


7 अथ ग्रहयुत्यधिकारः।

तत्र युतिभेदानाह—

ताराग्रहाणामन्योन्यं स्यातां युद्धसमागमौ ॥

समागमः शशाङ्केन सूर्येणास्तमनं सह ॥1॥

,  ।

ताराग्रहाणां=  भौमादिपञ्चखेटानाम्,

अन्योन्यं =  परस्परं,

युद्धसमागमौ =  वक्ष्यमाणलक्षणभिन्नौ,

स्यातां=  भवेताम् ।

शशाङ्केन=  चन्द्रेण,

सह=  पञ्चताराणां योगः,

समागमः=  समागमसंज्ञः स्यात् ।

सूर्येण =  अर्केण सह भौमादिपञ्चताराणामन्यतमस्य चन्द्रस्य वा यदा योगस्तदा,

अस्त मनं=  अदर्शनं पूर्णास्तगतत्वं भवतीत्यर्थः ॥1॥


अथ युतेर्गतैष्यत्वमाह—

शीघ्रे मन्दाधिकेऽतीतः संयोगो भवितान्यथा ॥

द्वयोः प्राग्यायिनोरेवं वक्रिणोस्तु विपर्ययात् ॥2॥

प्राग्यायिन्यधिकेऽतीतो वक्रिण्येष्यः समागमः ॥

। शीघ्रे=  ययोर्ग्रहयोर्योगोऽभिमतस्तयोर्मध्ये यः शीघ्रगतिर्ग्रहस्तस्मिन्, मन्दाधिके =  मन्दगतिग्रहादधिके सति,

संयोगः=  तयोर्युति संज्ञः,

अतीतः=  गतो ज्ञेयः ।

अन्यथा =  शीघ्रगतिग्रहान्मन्द गतिग्रहेंऽधिके सति,

भविता=  एंष्यः संयोगो ज्ञेयः ।

एवम् =  उक्तलक्षणयोः,

प्राग्यायिनोः=  पूर्वगतिकयोः,

द्वयोः =  ग्रहयोर्भवति ।

वक्रिणोः =  वक्रगतिग्रहयोः,

तु=  तुकाराद्गतैष्यत्वं,

विपर्ययात् =  उक्तवैपरीत्याद्भवति ।

प्राग्यायिनोः=  पूर्वगतिग्रहे,

अधिके=  वक्रगतिग्रहादधिके सति,

अतीतः=  गतयोगः ।

वक्रिणि=  वक्रगतिग्रहे पूर्वगतिग्रहादधिके सति,

एष्यः=  गम्यः,

समागमः=  योगः स्यात् ॥ 2॥

अथ युतिकाले तुल्यग्रहयोरानयनं युतिकालस्य गतैष्यदिनाद्यानयनं चाह—

ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः॥3॥

भुक्त्यन्तरेण विभजेदनुलोमविलोमयोः॥

द्वयोर्वक्रिण्यथैकस्मिन्मुक्तियोगेन भाजयेत् ॥ 4॥

लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति ॥

विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ ॥ 5॥

समलिप्तौ भवेतां तौ ग्रहौ भगणसंस्थितौ ॥

विवरं तद्वदुद्धृत्य दिनादि फलमिष्यते ॥ 6॥

ग्रहान्तरकलाः=  युतिसम्बन्धिग्रहयोरभीष्टैककालिक्योरन्त रकलाः,  स्वस्वभुक्तिलिप्तासमाहताः=  पृथक् पृथक् स्वस्वगतिक कलाभिर्गुणिताः,

अनुलोमविलोमयोः=  मार्गगयोर्वक्रगयोर्वेत्यर्थः,

द्वयोः=  ग्रहयोः,

भुक्त्यन्तरेण=  स्पष्टभुक्त्यन्तरेण,

विभजेत् =  गणको भजेत् ।

एकस्मिन् =  द्वयोर्मध्य एकतरे,

वक्रिणि=  वक्रगतिग्रहे सति,

भुक्तियोगेन=  गतियोगेन,

भाजयेत्= हरेदित्यर्थः ।

गते=  गतयोगे,

लब्धं लिप्तादिकं=  फलं कलादिकं स्वं स्वं,

शोध्यं=  पूर्वगतिग्रहयोर्हीनं,

भविष्यति= एष्ययोगे,

देयं=  योज्यम् ।

वक्रगत्योः =  वक्रगतिग्रहयोः स्वं स्वं फलं,

विपर्ययात् =  उक्तवैपरीत्यात्कार्यम् । गतयोगे योज्यमेष्ययोगे हीनमित्यर्थः ।

एकस्मिंस्तु=  द्वयोर्मध्य एकतरे वक्रिणि तु स्व स्वफले,

धनव्ययौ=  युतहीनौ कार्यौ । एवं कृते सति,

तो=  युतिसम्बन्धिनौ,

भगणसंस्थितौ=  राश्यधिष्ठितचक्रस्थितौ राश्याद्यात्मकौ,

ग्रहौ=  खेटौ,

समलिप्तौ=  समकलौ,

भवेतां=  स्याताम् ।

विवरं=  अभीष्टैककालिकग्रहयोरन्तरं,

तद्वत्=  पूर्वोक्तवत् । भुक्त्यन्तररूपहरेणेत्यर्थः,

उद्धृत्य=  भक्त्वा,

दिनादि=  दिनघटिकेत्यादि,

फलं=  गतैष्ययुतिवशाद्गतैष्यफलम्,

इष्यते। उच्यत इत्यर्थः ॥ 3। 4 । 5 । 6॥


अथ दृक्कर्मार्थमुपकरणानि साध्यानीत्याह—

कृत्वा दिनक्षपामानं तथा विक्षेपलिप्तिकाः॥

नतोन्नतं साधयित्वा स्वकाल्लग्नवशात्तयोः ॥ 7॥

!,

तयोः=  समयोर्ग्रहयोः,

दिनक्षपामानं=  स्वस्वक्रान्ति वशाच्चरासुभिः,

क्रान्तिज्या विषवद्भाघ्नी इत्यादि प्रकारेण =  दिनरात्रि मानं,

कृत्वा=  साधयित्वा,

विक्षेपलिप्तिकाः=  शरकलाः,

तथा=  प्रसाध्येत्यर्थः ।

स्वकालग्नवशात्=  स्वकीयलग्नवशात्

,

नतोन्नतं=  नतोन्नतकालं,

साधयित्वा =  साधनं कृत्वा वक्ष्यमाणं दृक्कर्म कार्यमित्यर्थः ॥ 7 ॥


अथाक्षदृक्कर्म तत्संस्कारचाह—

विषुवच्छाययाभ्यस्ताद्विक्षेपाद्द्वादशोद्धृतात् ॥

फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम् ॥8॥

लब्धं प्राच्यामृणं सौम्याद्विक्षेपात्पश्चिमे धनम् ॥

दक्षिणे प्राक्कपाले स्वं पश्चिमे तु तथा क्षयः ॥6॥

विषुवच्छायया=  पलभया,

अभ्यस्तात् =  गुणितात्,

विक्षेपात्=  पूर्वसाधितग्रहविक्षेपात्,

द्वादशोद्धृतात् =  द्वादशभिर्भक्तात्,

फलं=  लब्धं,

स्वनतनाडीघ्नं =  स्वकीयनतघटिकाभिर्गुणितं,

स्वदिनाविभाजितं=  स्वकीयेन दिनार्धेन रात्रौ । रात्र्यर्धेन भक्तमित्यर्थसिद्धम् । उक्तरीत्या,

सौम्यात् =  उत्तरात्,

विक्षेपात् =  शरात्,

लब्धं =  कालादिफलं,

प्राच्या प्राक्क पाले,

ऋणं=  ग्रहे हीनं,

पश्चिमे =  पश्चिमकपाले,

धनं=  योज्यम् ।

दक्षिणे तु=  याम्ये तु,

तथा=  शरे सति,

प्राक्कपाले=  पूर्वकपाले,

स्वं=  धनं,

पश्चिमे=  पश्चिमकपाले,

क्षयः=  हीनं कार्यम् ॥ 8 ॥


अथायनदृक्कर्माह—

सत्रिभग्रहजक्रान्तिभागघ्नाः क्षेपलिप्तिकाः॥

विकलाः स्वमृणं क्रान्तिक्षेपयोर्भिन्नतुल्ययोः ॥10॥

। सत्रिभग्रहजक्रान्तिभागघाः=  सत्रिभग्रहस्य क्रान्त्यशैर्गुणिताः,

क्षेपलिप्तिकाः=  शरकलाः,

विकलाः=  आयन दृक्कर्मविकला भवन्ति । ता ग्रहे विकलास्थाने,

भिन्नतुल्ययो=  भिन्नैकदिक्कयोः,

क्रान्तिक्षेपयोः=  सत्रिभग्रहक्रान्तिग्रहशरयोः क्रमेण ।

स्वमृणं=  कार्याः क्रान्तिक्षेपयोर्भिन्नदिक्त्वे ग्रहे योज्याः दिगैकत्वे सति । रहिता कार्या इत्यर्थः ॥10॥

अथ प्रसंगाद्दृक्कर्मसंस्कारस्थलान्याह—

नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने ।

शृङ्गोन्नतौ च चन्द्रस्य दृक्कर्मादाविदं स्मृतम् ॥ 11 ॥

नक्षत्रग्रहयोगेषु =  नक्षत्रग्रहयोगेषु,

ग्रहास्तोदयसाधने=  ग्रहाणामस्तोदयौ नित्यास्तोदयौ सूर्यसान्निध्यवशेनास्तोदयौ च

तयोः साधने,

चन्द्रस्य =  इन्दोः,

शृङ्गोन्नतौ=  शृङ्गोन्नतिसाधन इत्यर्थः,

च=  समुच्चयार्थकः,

आदौ=  प्रथमं,

इदं =  प्रागुक्तं,

दृकर्म=  आयनाक्षजं दृक्कर्म,

स्मृतं =  कथितम् ॥ 11 ॥

अथ दृकर्मसंस्कृतग्रहयोर्युतिकालं तात्कालिकतद्विक्षेपाभ्यां

ग्रहयोर्याम्योत्तरान्तरं चाह—

तात्कालिको पुनः कार्यो विक्षेपौ च तयोस्ततः ॥

दिक्तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम् ॥12॥

। पुनः=  द्वितीयवारं तादृशग्रहाभ्यां युतिकालं ज्ञात्वा युतिकाले ग्रहयोः साधनं दृक्कर्मद्वयं च तावत्कार्यं यावदविशेषः । तस्मिन्काले,

तात्कालिको=  युतिकालिको ग्रहौ,

च=  समुच्चये,

तयोः=  तात्कालिकग्रहयोः,

विक्षेपौ=  स्वस्वविक्षेपौ,

कार्यौ=  साध्या वित्यर्थः ।

ततः=  सूक्ष्मयुतिसमये ग्रहयोः शरसाधनानन्तरं,

दिक्तुल्ये=  दिगैकत्वे,

अन्तरं =  शरयोरन्तरं,

भेदे तु=  दिग्भेदे तु

, योगः=  विक्षपयोर्योगः कार्यः,

शिष्टं=  संस्कारोत्पन्नं,

ग्रहान्तरं= युतिसम्बन्धिग्रहबिम्बकेन्द्रयोर्याम्योत्तरमन्तरं भवति ॥ 12 ॥

अथ पञ्चताराणां विम्बमानकलानयनमाह—

कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः ॥

विष्कम्भाश्चन्द्रकक्षायां भृगोः षष्टिरुदाहृताः॥13

त्रिचतुःकर्णयुक्त्थ्याप्तास्ते द्विघ्नास्त्रिज्यया हताः॥

स्फुटाः स्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिकाः॥

अर्धार्धवर्धिताः =  स्वस्य यदर्थं तस्यार्धेन स्वचतुर्थांशेनेत्यर्थः वर्धिता युक्ताः,

त्रिंशत् =  खरामाः,

कुजार्किज्ञामरेज्या नां = 

भौमशनिबुधगुरूणां,

विष्कम्भाः=  बिम्बव्यासाः योजनात्मकाः, चन्द्रकक्षायां=  चन्द्राकाशगोले,

उदाहृताः=  कथिताः ।

भृगोः=  शुक्रस्य,

षष्टिः=  षष्टिसंख्यामितो ज्ञेयः,

ते=  विष्कम्भाः,

द्विघ्नाः=  द्विगुणाः,

त्रिज्यया=  त्रिराशिज्यया,

हताः= 

गुणिताः,

त्रिचतुःकर्णयुक्तक्त्थ्याप्ताः=  तृतीयचतुर्थकर्णयोर्योगेनभक्ता इति साम्प्रदायिकव्याख्यानम् । नव्यास्तु, त्रिशब्देन त्रिज्या

चतुःकर्णश्चतुर्थकर्मणि शीघ्रकर्णस्तयोर्योगेन भक्ता इत्यर्थ कुर्वन्ति। स्वकर्णाः=  स्वबिम्बव्यासाः,

स्फुटाः=  स्पष्टा भवन्ति ।

तिथ्याप्ताः=  पञ्चदशभक्ताः,

मानलिप्तिकाः=  मानकलाः,

भवेयुः=  स्युः ॥ 13 । 14 ॥


अथ युतिसम्बन्धिनौ ग्रहौ युतिसमये प्रदर्शनीयावित्याह—

छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत् ॥

ग्रहः स्वदर्पणान्तस्थः शङ्क्वग्रे सम्प्रदृश्यते ॥15॥

छायाभूमौ =  छायादानार्थं जलवत्समीकृतायां पृथिव्यां,

विप र्यस्ते =  ग्रहो यस्मिन्ककाले तद्वैपरीत्येन भिन्नकपाले दत्ते,

स्वच्छा याग्रे=  ग्रहस्य छायाग्रस्थाने स्थापिते,

स्वदर्पणान्तस्थः =  स्वस्य यो दर्पण आदर्शस्तत्र स्थापितस्तन्मध्यस्थितः,

ग्रहः=  खेटः स्यात् । तं,

दर्शयेत् =  गणको दर्शयेत् ।

शङ्क्वग्रे =  दिक्संपातस्थापित शंकोरग्रे मस्तके आकाशे ग्रहः,

सम्प्रदृश्यते=  गणकेनति शेषः ॥15॥


ननु कथं दृश्यत इत्यतः प्रकृतग्रहयोर्युतिसम्बन्धिनोर्दर्शनप्रकारमाह—

पञ्चहस्तोच्छ्रितौ शङ्कू यथा दिग्भ्रमसंस्थितौ ॥

ग्रहान्तरेण विक्षिप्तावधो हस्तनिखातगौ ॥ 16 ॥

छायार्कौ ततो दद्याच्छायाग्रच्छङ्कु मूर्धगौ ॥

छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत् ॥ 17 ॥

स्वशङ्कुमूर्धगौ व्योम्नि ग्रहौ दृक्तुल्यतामितौ ॥


।यस्मिन्काले ग्रहौ द्रष्टुमभिमतौ तात्कालिकलग्नादात्रौ यदुदयास्त लग्ने क्रमेण न्यूनाधिके यदि भवतस्तौ सूर्यसान्निध्यजनितास्ताभावे दर्शनयोग्यौ । तदा,

पञ्चहस्तोच्छ्रिसौ=  पञ्चहस्तप्रमाणेन,

शङ्कू=  काष्ठादिनिर्मितसरलदण्डौ,

यथादिग्भ्रमसंस्थितौ=  ग्रहयोर्युतिकाले यस्यां दिशि भ्रमणं तत्र संस्थितौ,

ग्रहान्तरेण=  ग्रहयोर्याम्योत्तरान्तरेण अङ्गुलात्मकेन,

विक्षिप्तौ=  अन्तरितौ,

अधः=  भूमेरन्तः,

हस्तनिखातगौ=  हस्तप्रमाणे यो गर्तस्तत्र स्थितौ । तयोरधः पतनं न भवेत्तथा दृढतया रोपणीयाविति । भूम्यां शङ्कोहस्तमात्रं रोपयित्वा भूमेरूर्ध्वं चतुर्हस्तप्रमाणदीर्घौ शंकू स्यातामित्यर्थः ।

ततः=  शंकुमूलाभ्यां,

छायाग्रात् =  महाधिष्ठितकपाल दिशि पूर्व या छाया दत्ता तदग्रात्,

शङ्कुमूर्धगौ=  स्वस्वशङ्क्वग्ररूप मस्तकप्रापिणौ,

छायाकर्णौ=  स्वस्वच्छायाकर्णौ,

दद्यात्=  गणको दद्यात् । एतदुक्तं भवति । युतिकालेतिसम्बन्धिग्रहयोश्छायांचतुर्हस्तप्रमाणेन साधयित्वा पूर्वोक्तप्रकारेणशङ्कु मूलात्स्वस्वछायादानं कृत्वा छायाग्रे चिह्नं कार्यं तत्र कीलादिना सूत्रं बध्वा शङ्क्वग्र पर्यन्तं प्रसार्यमिति ।

छायाकर्णाग्रसंयोगे =  छायाकर्णाग्रयोः सम्पाते,

संस्थितस्य =  छायाग्रस्थानकृतगर्तोपविष्टस्य,

व्योम्नि=  आकाशे,

स्वशङ्कुमूर्धगौ=  स्वस्वङ्कारूपमस्तकसमसूत्रस्थितौ,

दृक्तुल्यतां=  दृष्टिगोचरताम्,

इतौ=  प्राप्तौ,

ग्रहौ=  खेटौ,

प्रदर्शयेत् =  सन्दर्शयेत् ॥ 16 ॥ 17 ॥


अथ पञ्चताराग्रहाणां पूर्वकथितयुद्धसमागमादीनां लक्षणान्याह—

उल्लेखं तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यते ॥ 18॥

युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम् ॥

अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणुः ॥16॥

समागमोंऽशादधिके भवतश्चेद्बलान्वितौ ॥

।  तारकास्पर्शात् =  भौमादिपञ्चताराणां बिम्बनेम्योः स्पर्श मात्रात्,

उल्लेख=  उल्लेखसंज्ञं युद्धं वदन्ति ।

भेदे=  मण्डलभेदे,

भेदः=  भेदसंज्ञो युद्धावान्तरभेदः,

प्रकीर्यते =  कथ्यते ।

परस्परम् =  अन्योन्यम्,

अंशुयोगे=  किरणयोगे सति,

अंशु विमर्दाख्यं=  किरणसंघट्टनसंज्ञं,

युद्धं =  समरं स्यात् ।

अंशा दूने=  द्वयोर्ग्रहयोर्याम्योत्तरान्तरेऽशात्षष्टिकलात्मकैकभागादूनेऽनधिके सति,

अपसव्याख्यं=  अपसव्यसंज्ञं,

युद्धं =  ग्रहयुद्धं स्यात् ।

अत्र=  अपसव्ययुद्धे,

एकः =  एकग्रहः,

अणुश्चेत् =  अणुबिम्बश्चेत्तदाप सव्याख्यं युद्धं व्यक्तं स्यादन्यथात्वव्यक्तं स्यात् । एषां चतुर्णां फलम् । ’अपसव्ये विग्रहं ब्रूयात्संग्रामं रश्मिसंकुले । लेखनेऽमात्यपीडा स्याद्भेदने तु धनक्षयः ॥ इति भार्गवीयोक्तं ज्ञेयम् । युद्धभेदानुक्त्वा समागम माह, समागम इति ।

अंशादधिके =  द्वयोर्याम्योत्तरान्तरेंऽशादभ्यधिके सति,

समागमः =  योगो भवति ।

बलान्वितौ चेत् भवतः=  स्थूलमण्डलतयान्वितौ स्थूलबिम्बावित्यर्थः । चेत्तदा तयोः समागमः व्यक्तः स्यादन्यथा त्वव्यक्तः समागमः । तथा चोक्तम्

“द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः ।

अत्रान्योन्यं प्रीतिर्विपरी तावात्मपक्षघ्नौ ॥

युद्धे समागमो वा यद्यव्यक्तौ तु लक्षणैर्भवतः ।

भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्दिष्टम् ॥’ इत्युक्तेः ।

भेदोल्लेखांशुसम्मर्दा अपसव्यस्तथापरः । ’ततो योगो भवेदेषामेकांशकसमापनात् ॥’

इति काश्यपोक्तेश्च सर्व निरवद्यम् ॥ 18 ॥ 16 ॥


अथ युद्ध पराजितस्य ग्रहस्य लक्षणमाह—

अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तिमान् ॥20॥

रूक्षो विवर्णो विध्वस्तो विजितो दक्षिणाश्रितः ॥

अपसव्ये=  अपसव्याख्ये,

युद्धे=  ग्रहयोर्युद्धे यः,

जितः=  जयलक्षणैर्विवर्जितः स,

विजितः=  पराजितो ज्ञेयः । जितस्य लक्षणमाह,

पिहितः=  आच्छादितः,

अणुः =  इतरग्रहापेक्षया सूक्ष्मबिम्बः,

अदीप्तिमान् =  प्रभारहितः,

रक्षः=  अस्निग्धः,

विवर्णः =  स्वाभाविकवर्णेन रहितः,

दक्षिणाश्रितः=  इतरग्रहा पेक्षया दक्षिणदिशि स्थितः । एतादृशः,

विध्वस्तः=  हतो ज्ञेयः॥20॥


अथ जयिनो ग्रहस्य लक्षणमाह—

उदकस्थोदीप्तिमान् स्थलोजयी याम्येऽपियोबली 21॥

। उदक्स्थः =  इतरग्रहापेक्षयोत्तरदिशि स्थितः,

दीप्तिमान् = 

प्रभायुक्तः,

स्थूलः=  इतरग्रहापेक्षया पृथुबिम्बः,

जयी =  जययुक्तः स्यात् ।

यः=  ग्रहः,

याम्येऽपि=  दक्षिणस्यामपि,

बली=  दीप्तिमान् पृथुबिम्बः स जयी भवति ॥ 21 ॥

अथ युद्ध विशेषमाह—

आसन्नावप्युभौ दीप्तौ भवतश्चेत्समागमः॥

स्वल्पो दावपि विध्वस्तौ भवेतां कूटविग्रहौ ॥22॥

। उभौ=  द्वौ,

आसन्नावपि =  एकभागान्तर्गतान्तरितावपि

,

दीप्तौ =  प्रभायुक्तौ,

चेद्भवतः=  तदा,

समागमः =  समागमाख्ययुद्धो भवति,

द्वावपि =  द्वौ, ग्रहावपि,

स्वल्पो =  सूक्ष्मबिम्बौ, विध्वस्तौ=  पराजयलक्षणाक्रान्तौ चेत्स्यातां तदा,

कूटविग्रहौ=  कूटविग्रहसंज्ञको युद्धभेदौ,

भवेताम् =  स्याताम् ॥ 22 ॥

अथोत्सर्गतः शुक्रस्य जयलक्षणाक्रान्तत्वमस्तीति वदन् समागमः

शशाङ्केनेति प्राक्प्रतिज्ञातसमागम उक्तप्रकारमतिदिशति—

उदस्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी ।

शशाङ्केनैवमेतेषां कुर्यात्संयोगसाधनम् ॥ 23 ॥।

उदक्स्थः =  इतरग्रहापेक्षयोत्तरदिक्स्थः,

वा =  अथवा,

दक्षिणस्थः=  दक्षिणदिक्स्थः । उभयदिशि स्थितोऽपीत्यर्थः ।

भार्गवः =  शुक्रः,

प्रायशः=  उत्सर्गतो जयलक्षणाक्रान्तत्वेन्द्र, जयी=  जययुक्तो भवति । कदाचित्पराजयलक्षणाक्रान्तो भवतीति तात्पर्यार्थः ।

एतेषां =  भौमादिपञ्चताराग्रहाणां,

शशाङ्केन=  चन्द्रेण सह,

एवम् =  उक्त प्रकारेण,

संयोगसाधनं =  युति साधनं,

कुर्यात् =  उक्तरीत्या गणकः कुर्यात् । अत्र विशेषार्थकम् । ’अवनत्या स्फुटो ज्ञेयो विक्षेपः शीतगोर्युतौ ।’ इत्यर्धं श्लोकं क्वचित्पुस्तकेदृश्यते न सर्वत्रेति क्षिप्तं प्रतिभात्यत उपेक्षितम् । अधिकारस्यापूर्ण श्लोकत्वापत्तेश्च ॥ 23 ॥


नन्वेषां ग्रहाणां दूरान्तरेण सदोर्ध्वाधरान्तरसद्भावात्परस्परं

योगासम्भवेन कथं युतिः सङ्गतेत्यत आह—

भावाभावाय लोकानां कल्पनेयं प्रदर्शिता॥

स्वमार्गगाःप्रयान्त्येते दूरमन्योन्यमाश्रिताः॥24॥

। ’,

एते=  ग्रहाः,

स्वमार्गमाः=  स्वस्वकक्षायां स्थिताः,

अन्योन्यं=  परस्परम्,

आश्रितः =  युतिकाल ऊर्ध्वाधरान्तराभावेन संयुक्ताः सन्तः,

प्रयान्ति=  गच्छन्ति ।

दूरं =  दूरान्तरेण दर्शनात्,

इयः=  ग्रहयुतिः,

कल्पना=  कल्पनात्मिका वास्तवा,

प्रद र्शिता=  पूर्वोक्तग्रन्थेन कथिता । नन्ववस्तुभूता किमर्थमुक्तेत्यत आह—

भावाभावायेति ।

लोकानां =  भूस्थितप्राणिनां,

भावाभावाय=  भावः शुभफलमभावोऽशुभफलं तस्मै शुभाशुभफलादेशायावस्तुभूतापि

युतिरुक्तेतिभावः ॥ 24 ॥इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां यां ग्रहयुत्यधिकारः सप्तमः समाप्तः ॥ 7 ॥

अथ नक्षत्रग्रहयुत्यधिकारः। 8

तत्र प्रथम नक्षत्राणां धृवज्ञानमाह—

प्रोच्यन्ते लिप्तिका भानां स्वभोगोऽथ दशाहतः ।

भवन्त्यतीतधिष्ण्यानां भोगलिप्ता युता ध्रुवाः ॥1॥

भानाम् =  अश्विन्यादिनक्षत्राणामुत्तराषाढाभिजिच्छ्रवण धनिष्ठावर्जितानां,

लिप्तिकाः=  भोगसंज्ञाः कलाः,

प्रोच्यन्ते= , समनन्तरमेव कथ्यन्ते ।

अथ=  अनन्तरं,

स्वभोगः=  स्वाभीष्ट नक्षत्रस्य कलात्मकभोगो वक्ष्यामाणः,

दशाहताः=  दशभिर्गुणिताः,

अतीतधिष्ण्यानां =  अश्विन्यादिगतनक्षत्राणां,

भोग लिप्ता =  भभोगोऽष्टशतीलिप्ता इत्युक्ताष्टशतकलाः,

युताः=  प्रत्येक युताः । अश्विन्यादिगतनक्षत्रसंख्यागुणितकलाष्टाशतं युतमित्यर्थः ।

, ध्रुवाः=  नक्षत्राणां ध्रुवा भवन्ति ॥ 1 ॥


अथ अश्विन्यादिनक्षत्राणां भोगलिप्ताः शरांशाश्चाह—

अष्टार्णवाः शून्यकृताः पञ्चषष्टिनगेषवः॥

अष्टार्था अब्धयोऽष्टागा अङ्गागा मनवस्तथा ॥2॥

कृतेषवो युगरसाः शून्यबाणा वियद्रसाः ॥

खवेदाः सागरनगा गजागाः सागरर्तवः ॥ 3 ॥

मनवोऽथ रसा वेदा वैश्वमाप्यार्धभोगगम् ॥

आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः 4॥

त्रिचतुःपादयोः सन्धौ श्रविष्ठा श्रवणस्य तु ॥

स्वभोगतो वियन्नागाः षद्कृतिर्यमलाश्विनः॥5॥

रन्ध्राद्रयः क्रमादेषां विक्षेपाः स्वादपक्रमात् ॥

दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशोनव ॥6॥

सौम्ये रसाः खं याम्येऽगाः सौम्ये खार्कास्त्रयोदश॥

दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे ॥7॥

याम्येऽध्यत्रिककृता नव सार्धशरेषवः ॥

उत्तरस्यां तथा षष्टिस्त्रिंशत् षट् त्रिंशदेव हि ॥ 8॥

दक्षिणे त्वर्धभागस्तु चतुर्विशतिरुत्तरे ॥

भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम् ॥

अष्टार्णवा इत्यारभ्य वेदा इत्यन्तं पाठक्रमेणान्वयरूपेणाश्विन्यादि। पूर्वाषाढान्तनक्षत्राणां भोगलिप्ताः सन्ति ।

प्राप्यार्धभोगगं=  पूर्वाषाढनक्षत्रस्यार्धभोगे स्थितम् । धनुराशेर्विंशतिभागे स्थितमित्यर्थः ।

,  वैश्वम् =  उत्तराषाढायोगतारानक्षत्रं ज्ञेयम् । एतेनोत्तराषाढायाधृवो ऽष्टौराशय विंशतिभागाः सिद्धम् ।

आप्यस्यैव =  पूर्वाषाढाया एव,

प्रान्ते =  अवसाने,

अभिजित् =  अभिजिद्योगतारा ज्ञेया ॥ चत्वारिंशत्कलाधिकषड्विंशतिभागाधिका अष्टौ राशयोऽभिजितो ध्रुव इत्यर्थः ।

वैश्वान्ते=  उत्तराषाढाया अवसाने,

श्रवणस्थितिः=  श्रवणस्य योगतारायाः स्थितिरस्ति । दशभागसहिता नवराशयः श्रवणस्य । ध्रुवक इत्यर्थः ।

श्रवणस्य=  श्रवणनक्षत्रस्य,

त्रिचतुःपादयोः=  तृतीयचतुर्थचरणयोः,

सन्धौ=  अन्तादिसन्धौ । तृतीयचरणान्त इत्यर्थः ।

श्रविष्ठा=  धनिष्ठा वर्तते । एतेन नवराशयो विंशतिभागा धनिष्ठाधृवः सिद्धः ।

स्व भोगतः =  धनिष्ठाभोगात् । अग्रे वियन्नागा इत्यारभ्यरन्ध्राद्रय इत्यन्तं,

क्रमात् =  पाठक्रमेणान्वयरूपात् शततारामारभ्य रेवत्यन्तं नक्षत्राणां भोगलिप्ता सन्ति । अथ ध्रुवकानयनं यथा । अश्विनी भोगः 48 दशगुणितः 480 अतीतनक्षत्राभावाद्भोगयोजना भावः । अतोऽश्विन्याः कलात्मको ध्रुवः । 480 ॥ भरण्याभोग 10 दशाहतः 400 अतीतनक्षत्रस्यैकत्वादेकगुणितनक्षत्रभोगेन 14800=  800युतो 1200 जातो भरण्या ध्रुवः 1200 । एवमन्येषामपि ज्ञेयम् । अथ नक्षत्राणां विक्षेपभागानाह,

एषाम् =  उक्त ध्रुवकस म्बन्धिनाम्,

दस्रादीनां=  अश्विन्यादिनक्षत्राणां,

यथाक्रमं=  पाठक्रमादित्यर्थः,

स्वात् =  स्वकीयात्,

अपक्रमात्=  क्रान्त्यमात्,

विक्षेपाः भागाः=  विक्षेपभागा दक्षिणा उत्तरा वा भवन्ति ।

सौम्ये=  उत्तरदिशि,

दिङ्मासविषयाः=  क्रमेण दश द्वादश पञ्च दास्रादित्रयाणां,

याम्ये=  दक्षिणस्यां दिशि क्रमेण रोहिण्यादि त्रयाणां,

पञ्च दिशो नव=  पञ्च दश नव,

सौम्ये=  उत्तरदिशः पुनर्वसुपुष्ययोः क्रमेण,

रसाः खं=  षट् शून्यम् ।

याम्ये=  दक्षिणे,

अगाः=  सप्तारलेषायाः।

सौम्ये=  उत्तरदिशि मघा दित्रयाणां क्रमेण,

खास्त्रियोदश =  शून्यं द्वादश त्रयोदश ।

दक्षिणे=  दक्षिणदिशि हस्तचित्रयोः ’क्रमेण,

रुद्रयमलाः=  एकादश द्वौ ।

अथ =  अनन्तरम्,

उत्तरे=  उत्तरदिशि स्वात्याः,

सप्तत्रिंशत् =  त्र्यूनचत्वारिंशत् ।

याम्ये=  दक्षिणे विशाखादि षण्णां क्रमेण,

अध्यर्धत्रिककृताः=  सार्धैकाः त्रयः, चत्वारः,

नवसार्धेशरेषवः=  नव, सार्धपञ्च, पञ्च ।

तथा=  विक्षेपभागाः,

उत्तरस्याम् =  उत्तरदिशि क्रमेणाभिजिच्छ्रवणधनिष्ठानां,

षष्टि त्रिंशत् षट्त्रिंशत् =  षष्टिः, खरामाः, रसाग्नयः ।

एव=  एवकारो न्यूनाधिकव्यवच्छेदार्थः ।

हि=  निश्चयेन,

दक्षिणे=  दक्षिणदिशि शततारायाः,

अर्धभागः=  भागस्यार्द्धः । त्रिंशत्कला इत्यर्थः ।

उत्तरे=  उत्तरदिशि पूर्वाभाद्रपदोत्तराभाद्रपदारेवतीनां क्रमेण,

चतुर्विंशतिः षडर्विशतिः खं =  चतुर्विशतिः, षड्विंशतिः शून्यम् । ज्ञेयम् ।

च=  चकारः पूरणार्थः ॥ 2 । 3 । 4 । 5। 6 । 7।8।1॥


अथागस्त्यलुब्धकवह्निब्रह्महृदयताराणां ध्रुवकविक्षेपांस्तदुपपत्तिञ्चाह—

अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः॥

विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः ॥10॥

विक्षेपो दक्षिणे भागैः खार्णवैः स्वादपक्रमात् ॥

हुतभुग्ब्रह्महृदयो वृषे दाविंशभागगौ ॥ 11॥

अष्टाभिस्त्रिंशता चैव विक्षिप्ता‌वुत्तरेण तौ

गोलं बध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम् ॥ 12॥

स्वात् =  स्वकीयात्,

अपक्रमात्=  क्रान्त्यग्रात्,

अशीति भागः=  अशीत्यशैः,

याम्यायां=  दक्षिणस्यां दिशि,

मिथुनान्तगः=  कर्कादिभागे स्थितः,

अगस्त्यः=  तारात्मकोऽगस्त्यो वर्तते । अगस्त्यस्य राशित्रयं ध्रुवकः । दक्षिणविक्षेपोऽशीत्यशमित इत्यर्थः ।

मृगव्याधः च =  लुब्धकः च,

मिथुनस्य =  मिथुनराशेः,

विंशे=  विंशतिमिते,

अंशे =  भागे,

व्यवस्थितः=  विशेषणावस्थितः । लुब्धकनक्षत्रस्य राशिद्वयं विंशतिभागा ध्रुवक इत्यर्थः ।

दक्षिणे=  दक्षिणदिशि,

खार्णवैः =  चत्वारिंशता,

भागः=  अंशैः परिमितस्तस्य,

विक्षेपः=  शरः । लुब्धकस्य दक्षिणविक्षेपश्चत्वारिंशदंशमित इत्यर्थः ।

हुतभुग्ब्रह्महृदयौ =  अग्निब्रह्महृदयौ,

वृषे =  वृषराशौ,

द्वाविंशभागगौ=  द्वाविंश भागस्थितौ । वह्निब्रह्महृदयनक्षत्रयोविंशतिभागाधिककराशिदृवकः ।

तौ=  वह्निब्रह्महृदयौ,

उत्तरेण =  उत्तरस्यामित्यर्थः ।

अष्टाभि त्रिंशता= अष्टांशैस्त्रिंशदंशैः,

च=  चकारः क्रमार्थे,

एव=  एवकारो न्यूनाधिकव्यवच्छेदार्थः ।

विक्षिप्तौ=  विक्षेपवन्तौ । वह्नेरष्टभागमित उत्तरशरः । ब्रह्महृदयस्यो त्तरविक्षेपस्त्रिंशदित्यर्थः । नन्वेते ध्रुवा विक्षेपाश्च कालक्रमेण नियता अनियता वेत्यत आह ।

गोलं=  वक्ष्यमाणं,

बध्वा=  वंशशलाकादिभिर्निबध्य,

स्फुटं =  स्पष्टं,

विक्षेपं=  क्रान्तिसंस्कारयोग्यं ध्रुवप्रोतवृत्तगतशरं,

ध्रुवकं=  आयनदृकर्मसंस्कृतं,

परीक्षेत =  दृग्गोचरसिद्धमङ्गीकुर्यात् । तथा च क्रान्तिसंस्कारयोग्य विक्षेपानयनसंस्कृतध्रुवकयोरयनांशवशादस्थिरत्वादपि, मयेदानीन्तनसम ’ यानुरोधेन लाघवार्थमायनकर्मसंस्कृता ध्रुवाः क्रान्तिसंस्कारयोग्यविक्षेपाश्च नियता उक्ताः । कालान्तरे वेधसिद्धा ज्ञेयाः । नैत इति फालितार्थः ॥ 10। 11 । 12 ॥


अथ रोहिणीशकटभेदमाह—

वृषे सप्तदशे भागे यस्य याम्योंऽशकद्वयात् ॥ विक्षेपोऽभ्यधिकोभिन्द्याद्रोहिण्याःशकटं तु सः॥13॥

वृषे=  वृषराशौ,

सप्तदशे भागे=  सप्तदशेंऽशे,

यस्य=  ग्रहस्य,

याम्यः=  दक्षिणः,

विक्षेपः=  शरः,

अंशकद्वयात् =  भागद्वयात्,

अभ्यधिकः =  महान्स्यात्,

सः =  ग्रहः,

रोहिण्याः =  रोहिणीनक्षत्रस्य,

शकटं =  शकटाकारसन्निवेशं,

भिन्द्यात् =  छिन्द्यात् । तन्मध्यगतो भवेदित्यर्थः ॥ 13 ॥


अथ भग्रहयोगसाधनातिदेशमाह—

ग्रहवद् द्युनिशे भानां कुर्याद् दृक्कर्म पूर्ववत् ॥

ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च ॥ 14॥

भानां=  नक्षत्राणां,

द्युनिशे =  दिनरात्रिमाने,

ग्रहवत् =  ग्रहाणां यथा दिनरात्रिमाने कृते तद्वत्साध्य इत्यर्थः । तदनन्तरं,

पूर्ववत् =  पूर्वतुल्यं,

कर्म =  आक्षकर्म,

कुर्यात् =  तदनन्तरं,

शेषं=  नक्षत्रग्रहयुतिसाधनं ग्रहध्रुवतुल्यतारूपं,

ग्रहमेलकवत्=  ग्रहयोगसाधनरीत्या कार्यमित्यर्थः,

ग्रहभुक्त्या=  केवलया ग्रहगत्या,

दिनानि=  ग्रहनक्षत्रयुतिदिनानि,

साध्यानि=  नक्षत्राणां गत्यभावात् ।

च=  चकारः समुच्चये ॥ 14 ॥


अथ ग्रहनक्षत्रयुतिकालस्य गतैष्यत्वमाह—

एष्यो हीने ग्रहे योगे धृवकादधिके गतः॥

विपर्ययादागते ग्रहे ज्ञेयः समागमः ॥ 15 ॥

ग्रहे=  आयनाक्षदृक्कर्मसंस्कृतग्रहे,

ध्रुवकात् =  आक्षकर्मसं स्कृतनक्षत्रध्रुवात्,

हीने =  न्यूने सति,

योगः =  ग्रहनक्षत्रयोगः ।

एष्यः=  स्वाभीष्टसमयाद्भावी ।

अधिके=  ग्रहे ऽधिके सति,

गतः=  पूर्व जातः ।

वक्रगते=  विलोमयायिने,

ग्रहे =  खेटे,

विपर्ययात्=  उक्तवैपरीत्यात्,

समागमः=  नक्षत्रग्रहयोगः,

ज्ञेयः=  बोध्यः ॥ 15 ॥


अथाश्विन्यादिनक्षत्रस्य बहुतारात्मकत्वात्कस्यास्ताराया एतेध्रुवका इत्याशङ्काया उत्तरं वद नक्षत्राणां योगतारामाह—फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः॥

विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता ॥16॥

पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता॥

हस्तस्य योगतारा सा श्रविष्ठायाश्व पश्चिमा ॥17॥

ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा ॥

भरण्याग्नेयपित्र्याणां रेवत्याश्चैव दक्षिणा ॥18॥

रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि ॥

यथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका ॥ 16॥

। फाल्गुन्योः=  पूर्वाफाल्गुन्युत्तराफाल्गुन्योः,

भाद्रपदयोः=  पूर्वाभाद्रपदोत्तराभाद्रपदयोः,

तथैवाषाढयोर्द्वयोः=  पूर्वाषाढोत्तरा षाढयोः,

विशाखाश्विनिसौम्यानां=  विशाखाश्विनिमृगशिरसाम्,

उत्तरा=  उत्तरदिक्स्था,

योगतारा=  ध्रुवकादिज्ञानार्थं वेधोपयोगितारा,

स्मृता=  कथिता ।

हस्तस्य =  हस्तपञ्चाङ्गुलिसन्निवेशकारस्य हस्तनक्षत्रस्य,

पश्चिमोत्तरतारायाः =  नैर्‌ऋत्यदिगाश्रितपश्चिमाव स्थितताराया उत्तरदिगवस्थिततारायाः,

द्वितीया=  पूर्वोक्तातिरिक्ता,

पश्चिमे =  वायव्याश्रिते,

स्थिता=  वर्तमानेत्यर्थः ।

सा=  वायव्याश्रिता,

योगतारा=  स्मृता ।

श्रविष्ठायाः=  धनिष्ठायाः,

च=  चः समुच्चये,

पश्चिमा =  योगतारा स्मृतेत्यर्थः ।

ज्येष्ठा श्रवणमैत्राणां=  ज्येष्ठाश्रवणानुराधानां,

बार्हस्पत्यस्य=  पुष्यस्य,

मध्यमा=  प्रत्येकं तारात्रयात्मकत्वात्मध्यतारा योगतारा स्यात् ।

भरण्याग्नेयपित्र्याणां =  भरणीकृत्तिकामघानां,

रेवत्याः=  रेवतीनक्षत्रस्य,

दक्षिणा एव=  दक्षिणदिक्स्था एव योगतारा स्मृता ॥

च=  समुच्चये ।

रोहिण्यादित्यमूलानां=  रोहिणीपुनर्वसुमूलानां,

सार्पस्य =  आश्लेषायाः,

च=  समुच्चये या,

प्राची=  पूर्वदिक्स्था,

एवं हि =  सैवेत्यर्थः । योगतारा स्मृता ।

प्रत्यवशेषाणां =  अवशिष्टनक्षत्राणामार्द्राचित्रास्वात्यभिजिच्छतताराणां स्वतारासु यात्यन्तं,

स्थूला=  महती क्रान्तिमती च सा,

योगतारका=  योगतारैव योगतारका,

स्यात्=  भवेत् कथितेत्यर्थः ॥16।17।18।16॥


अथ ब्रह्मसंज्ञकनक्षत्रावस्थानमाह—

पूर्वस्यां ब्रह्महृदयादेशकैः पञ्चभिः स्थितः॥

प्रजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः ॥ 20 ॥

,  ।

ब्रह्महृदयात् =  ब्रह्महृदयसंज्ञकनक्षत्रावस्थानात्,

पूर्वस्यां=  पूर्वभागे,

पञ्चभिरंशकैः=  पञ्चाशैः,

वृषान्ते=  वृषान्तनिकटे,

प्रजापतिः=  तारात्मको ब्रह्मा,

स्थितः=  क्रान्तिवृत्ते स्थितः ।

असौ=  ब्रह्मा,

सौम्ये=  उत्तरस्यां दिशि,

अष्टत्रिंशदंशकैः= ,

द्यूनचत्वारिंशदंशकैः स्थितः । अष्टत्रिंशद्भागा अस्य विक्षेप इत्यर्थः ॥20॥

अथापांवत्सापयोरवस्थानमाह—

अपांवत्सस्तु चित्राया उत्तरेऽशैस्तु पञ्चभिः॥

बृहत्किञ्चिदतो भागैरापः षभिस्तथोत्तरे ॥ 21 ॥

चित्रायाः=  चित्रातारकायाः सकाशात्,

पञ्चभिरंशः=  पञ्चभागैः,

उत्तरे=  उत्तरस्यां दिशि,

अपांवत्सः =  अपांवत्ससंज्ञकस्तारात्मकः स्थितः । प्रथमतुकारश्चित्रातुल्यध्रुवकार्थकः । द्वितीयतु कारश्चित्राविक्षेपस्य दक्षिणभागद्वयात्मकत्वादपांवत्सविक्षेप उत्तरस्त्रिभाग इति स्फुटार्थकः ।

अतः=  अपांवत्सात्,

किञ्चित् =  अल्पान्तरेण,

बृहत् =  स्थूलतारात्मकः,

आपः=  आपसंज्ञकः,

तथा=  अपांवत्सात्,

षड्भिर्भागैः=  षड्भिरंशः,

उत्तरे =  उत्तरस्यां दिशि स्थितः । चित्राध्रुवक एवापस्य ध्रुवको विक्षेप‌उत्तरो नवांशा इत्यर्थः ॥ 21 ॥

। इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां यां नक्षत्रग्रहयुत्यधिकारोऽष्टमः समाप्तः ॥ 8 ॥


सूर्यसिद्धांतः अध्यायः 9॥ 9.18 ॥

9 अथोदयास्ताधिकारः।

तत्र ग्रहाणामुदयास्तयोः कारणमाह—

अथोदयास्तमययोः परिज्ञानं प्रकीर्त्यते ॥

दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम् ॥ 1॥

अथ =  ग्रहनक्षत्रयुत्यधिकारानन्तरं,

दिवाकरकराक्रान्त मूर्तीनां =  सूर्यकिरणैरभिभूता मूर्तयो येषां तेषां चन्द्रादिषड्ग्रहाणां नक्षत्राणां च,

अल्पतेजसां=  न्यूनप्रभावताम्,

उदयास्तमययोः=  सूर्यान्निसृतस्य ग्रहस्य यस्मिन्काले यदन्तरेण प्रथमादर्शनं सम्भावितं सः उदयः । सूर्यादरस्थितस्य यस्मिन्काले यदन्तरेण प्रथमदर्शनं सम्भावितं सोऽस्तः । अनयोः,

परिज्ञानं =  सूक्ष्मज्ञानप्रकारः,

प्रकीर्त्यते=  अतिसूक्ष्मत्वेन मयोच्यत इत्यर्थः ॥ 1 ॥


तत्र प्रथम पञ्चताराणां पश्चिमास्तपूर्वोदयावाह—

सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्कजाः ॥

ऊनाः प्रागुदयं यान्ति शुक्रज्ञो वक्रिणौ तथा ॥ 2॥

सूर्यात् =  अर्कात्,

अभ्यधिकाः =  राश्यादिनाधिकाः,

जीवकुजार्कजाः =  गुरुभौमशनयः,

पश्चात् =  पश्चिमस्यां दिशीत्यर्थः,

अस्तम् =  अदर्शनं,

यान्ति=  गच्छन्ति,

ऊना=  सूर्यादूनाः गुरुभौमशनयः,

प्राक् =  पूर्वस्याम्,

उदयम् =  दर्शनं यान्ति ।

तथा=  तेनैव प्रकारेण,

वक्रिणी=  वक्रगति प्राप्तौ,

शुक्रज्ञौ =  शुक्रबुधौ ज्ञेयौ । सूर्यादधिको पश्चिमास्तं गच्छतः सूर्यादल्पौ पूर्वोदयं प्राप्नुत इत्यर्थः ॥ 2॥

,  अथ चन्द्रबुधशुक्राणां पूर्वास्तपश्चिमोदयावाह—

ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः॥

व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः ॥ 3॥

। विवस्वतः =  सूर्यात्,

ऊनाः =  अल्पाः,

शीघ्रयायिनः=  । सूर्यादधिकगतयः,

चन्द्रज्ञभार्गवाः=  चन्द्रबुधशुक्राः,

प्राच्यां=  पूर्वस्याम्,

अस्तम् =  अदर्शनं,

व्रजन्ति =  यान्ति ।

अभ्य धिकाः =  सूर्यादधिकाः,

पश्चात् =  पश्चिमदिशि,

उदयं=  दर्शनं यान्ति ॥ 3 ॥

अथोदयास्तज्ञानार्थमासन्नेऽभीष्टदिने सूर्यग्ग्रहौ कार्यावित्याह—

सूर्यास्तकालिको पश्चात्प्राच्यामुदयकालिकौ ॥

दिवा चार्कग्रहो कुर्याद् दृकर्माथ ग्रहस्य तु ॥ 4 ॥

पश्चात् =  पश्चिमोदयास्तसाधने,

सूर्यास्तकालिको=  सूर्यस्या स्तकालिको सूर्यास्तकाले साध्यावित्यर्थः ।

च=  चकारो विकल्पार्थकः ।

प्राच्यां =  पूर्वोदयास्तसाधने,

उदयकालिकौ=  सूर्योदयकालि कौ,

दिवा =  दिनेऽभीष्टकाले,

अर्काग्रहौ =  सूर्यग्रहौ,

कुर्यात् =  साधयेत् ।

अथ=  अनन्तरं,

ग्रहस्य=  खेटस्य,

दृकर्म=  आयनाक्षदृक्कर्मद्वयं कुर्यात् ॥ 4 ॥

अथेष्टकालांशानयनमाह—

ततो लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः ॥

प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः ॥5॥

ततः= ताभ्यां सूर्यदृग्ग्रहाभ्यां,

लग्नान्तरप्राणाः=  सूर्यदृग्ग्रहयोरन्तरासवः,

षष्टिभाजिताः=  षष्टि भक्ताः,

कालांशाः =  इष्टकालांशा भवन्ति । प्रागुदयास्तसाधने ।

प्रतीच्यां=  पश्चिमोदयास्तसाधने,

षड्भयुतयोः=  षड्राशियुतयोः सूर्यदृग्ग्रहयोः,

लग्ना न्तरासवः=  अन्तरासवः,

तद्वत् =  षष्ठिभक्ता इष्टकालांशा भवन्तीत्यर्थः ॥ 5 ॥


अथ यैः कालांशै र्भौदीनामुदयोऽस्तो वा भवति तानाह—

एकादशामरेज्यस्य तिथिसंख्यार्कजस्य च ॥

अस्तांशा भूमिपुत्रस्य दश सप्तादिकास्ततः ॥6॥

पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्महत्तया ॥

प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भृगोः ॥7॥

एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः ॥

वक्री शीघ्रगतिश्चात्करोत्यस्तमयोदयौ ॥ 8 ॥

ततः=  इष्टकालांशसाधनानन्तरम्,

अस्तांशाः=  यैरंशैरस्त भवति तेऽशाः । उपलक्षणादुदयांशा ज्ञेयाः,

अमरेज्यस्य=  गुरे,

एकादश=  कालांशाः ।

अर्कजस्य=  शनेः कालांशानां,

तिथिसङ्ख्या =  पञ्चदशसंख्या,

भूमिपुत्रस्य=  भौमस्य,

सप्ताधिका दश=  सप्तभ्यः सहिता दश । सप्तदश कालांशा इत्यर्थः,

भृगोः= 

शुक्रस्य,

महत्तया =  वक्रत्वेन नीचासन्नत्वात्स्थूलबिम्बतया,

पश्चात्=  पश्चिमायाम्,

अष्टाभिः=  अष्टकालांशैः,

अस्तमयः अस्तो भवतीत्यर्थः,

प्राक्=  पूर्वस्याम्,

उदयः=  अष्टाभिः कालांशैरुदयश्च भवतीत्यर्थः,

प्राक्=  प्राच्याम्,

अल्पत्वात् =  शुक्रस्याणुबिम्बत्वात्,

दशभिः=  दशकालांशैः,

अस्तम् =  अदर्श भवति ।

पश्चात् =  पश्चिमायाम्,

उदयः=  उदयो भवतीत्यर्थः,

वक्री =  विलोम गतिः,

शीघ्रगतिः=  द्रुतगतिः,

चः =  समुच्च ये, बुधः =  सौम्यः ।

अर्कात् =  सूर्यात्,

द्वादशभिश्चतुर्दशभिरंशकैः=  द्वादशभिश्चतुर्दशभिश्च कालांशैः,

एवं =  शुक्ररीत्या,

अस्तमयोदयौ=  पश्चादस्तं प्रागुदयं द्वादशभिः कालांशैर्महाबिम्बतया । तथा प्रागस्तं पश्चादुदयं च चतुर्दशभिः कालांशैरणुबिम्बत्वाद्बुधः,

करोति=  सम्पादयतीत्यर्थः ॥ 6 । 7 । 8 ॥


अथ दृश्यादृश्यत्वमाह—

एभ्योऽधिकैः कालभागैर्दृश्या न्यूनै रदर्शनाः॥

भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः ॥6॥

भानुभाग्रस्तमूर्तयः =  भानुभाभिर्महत्तेजोधिकार्करश्मिभिर्ग्रस्ताच्छादिता मूर्तयो बिम्बा येषां ते तथोक्ताः ।

खचराः=  खेटाः,

एभ्यः=  प्रोक्तेभ्यः परमकालांशेभ्यः,

अधिकैः कालभागः=  अधिकेष्टकालांशैः,

दृश्याः =  अभीष्टकाले दर्शनयोग्या भवन्ति ।

न्यूनः =  न्यूनेष्टकालांशैः,

लोके=  भूलोके,

अदर्शनाः=  अदृश्याः,

भवन्ति=  जायन्त इत्यर्थः ॥ 6 ॥


अथोदयास्तयोर्गतैष्यदिनाद्यानयनमाह—

तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः॥

दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः ॥ 10 ॥

तत्कालांशान्तरकलाः = पठितेष्टकालांशयोरन्तरकलाः

,

भुक्त्यन्तरविभाजिताः=  सूर्यग्रहयोर्वक्ष्यमाणेन कालगत्यन्तरेण भक्ताः ।

वक्रिणः=  वक्रगतिग्रहस्य,

भुक्तियोगेन=  सूर्यग्रहयोः कालभुक्तियोगेन भक्ताः,

तत् लब्धं फलं= तत् प्राप्तफलं,

दिनादि=  उदयास्तयोर्गतैष्यदिनाद्यं भवतीत्यर्थः ॥ 10 ॥


कालगतिमाह—

तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते ॥

स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः॥11॥

भुक्ती =  सूर्यग्रहयोगती कलात्मके,

तल्लग्नासुहते =  ग्रहा

धिष्ठितराश्युदयासुभिर्गुणिते,

अष्टादशशतोद्भुते =  अष्टादशशतेन भक्ते फले,

कालगती=  क्रमेण सूर्यग्रहयोः कालगती,

स्यातां=  भवेताम् ।

ताभ्यां =  कालगतिभ्यां,

गतगम्ययोः=  उदयास्तयोः,

दिनादि=  पूर्वोक्तप्रकारेण दिनादि फलं साध्यम् ॥ 11 ॥

अथ नक्षत्राणां सूर्यसानिध्यवशादस्तोदयज्ञानार्थं

कालांशानाह—

स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः॥

अभिजिब्रह्महृदयं त्रयोदशभिरंशकैः ॥ 12 ॥

हस्तश्रवणफाल्गुन्यः श्रविष्ठारोहिणीमघाः ॥

चतुर्दशांशकैर्दृश्या विशाखाश्विनिदैवतम् ॥13॥

कृत्तिकामैत्रमूलानि सार्प रौद्रर्क्षमेव च ॥

दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा ॥ 14 ॥

भरणीतिष्यसौम्यानि सौक्ष्म्यास्त्रिःसप्तकांशकैः॥

शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु॥15॥

स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः, अभिजिब्रह्महृदयं =  स्वात्यादिब्रह्महृदयं यावत्,

त्रयोदशभिरंशकैः =  त्रयोदशकालांशैः,

हस्तश्रवणफाल्गुन्यः श्रविष्ठारोहिणीमघाः=  हस्तश्रवणपूर्वाफाल्गुन्युत्तराफाल्गुनिधनिष्ठारोहिणीमघाः,

चतुर्दशांशकैः =  चतुर्दशकालांशैः,

दृश्याः =  उदिताः । उपलक्षणत्वाददृश्या अपि भवन्ति ।

विशाखाश्विनिदैवतं कृत्तिकामैत्रमूलानि सार्प रौद्रर्क्षमेव च =  विशाखाश्विनिकृ त्तिकानुराधामूलाश्लेषार्द्राः,

पञ्चदशभिः=  पञ्चदशकालांशैः,

दृश्यन्ते=  दर्शनमायान्ति । उपलक्षणत्वान्न दृश्यन्तेऽपि ।

आषाढाद्वितयं =  पूर्वाषाढोत्तराषाढाद्वयं,

तथा =  पञ्चदशकालांशैः द्दृश्यन्त इत्यर्थः ।

भरणीतिष्यसौम्यानि=  भरणीभ तिष्यः पुष्यः सोमदैवतं मृगशिरो नक्षत्रमेतानि नक्षत्राणि,

सौक्ष्म्यात् =  अणुबिम्बत्वात्,

त्रिःसप्तकांशकैः=  एकविंशतिकालांशैः,

शेषाणि =  पूर्वाधिकारोक्तनक्षत्रेषूक्तातिरिक्तानि,

भानि =  नक्षत्राणि । शततारा पूर्वोत्तराभाद्रपदारेवतीसंज्ञानि । वह्निब्रह्मांपांवत्सापसंज्ञानि च,

सप्तद शभिः=  सप्तदशकालांशैः,

दृश्यादृश्यानि =  दर्शनादर्शनयोग्यानि भवन्ति,

तु=  समुच्चयार्थकः ॥ 12 । 13 । 14 । 15 ॥


अथ दिनाद्यानयनार्थमिच्छाया एव प्रमाणजातीयकरणत्वमाह—

अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः॥

विभज्य लब्धाः क्षेत्रांशास्तैदृश्यादृश्यताथवा ॥16॥

दृश्यांशाः =  कालांशाः,

अष्टादशशताभ्यस्ताः =  अष्टादशशतगुणिताः,

स्वोदयासुभिः=  ग्रहराश्युदयासुभिः,

विभज्य=  भक्त्वा,

लब्धाः =  प्राप्ताः,

क्षेत्रांशाः =  क्रान्तिवृत्तस्थांशा भवन्ति,

अथवा =  प्रकारान्तरेण,

ते=  क्षेत्रांशैः,

दृश्याश्य ता=  दर्शनादर्शनयोग्यता च ज्ञेया । कालांशाभ्यां क्षेत्रांशावानीय तद न्तरकला यथास्थितगत्योरन्तरेण योगेन वा भक्ताः फलमुदयास्तयोर्गतैष्य दिनाचं पूर्वागतमेव स्यादित्यर्थः ॥ 16 ॥

ननु यथा ग्रहाणाममुकदिश्वस्तोऽमुकदिश्युदय इत्युक्तम् ।

तथा नक्षत्राणां नोक्तम् । गत्यभावाद्वियोगयोगासम्भवेन गतैष्यदिनाद्यानयनासम्भवश्चेत्यत आह—

प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत् ॥

गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि ॥17॥

एषां=  नक्षत्राणां,

प्राक् =  प्राच्याम्,

उदयः=  दर्शनं,

पश्चात् =  पश्चिमायाम्,

अस्तः=  अदर्शनं भवति । गत्यभावादल्पगतिग्रहवद्भवतीत्यर्थः । एषां नक्षत्राणां,

पूर्ववत् =  पूर्वप्रकारोक्तवत्,

दृक्कर्म=  आक्षदृक्कर्म कार्यम् ।

सदैव =  सर्वदैव,

भानु भुक्त्या=  रविगत्या,

गतैष्यदिवसप्राप्तिः =  गतैष्यदिवसानां लब्धिः स्यात् ।

हि=  निश्चयार्थे ॥ 17 ॥

अथ सदोदितनक्षत्राण्याह—

अभिजिब्रह्महृदयं स्वातीवैष्णववासवाः॥

अहिर्बुध्न्यमुदस्थित्वान्न लुप्यन्तेऽर्करश्मिभिः ॥18॥

। अभिजिब्रह्महृदयं स्वातीवैष्णववासवा अह्नि

बुध्न्यं=  अभिजिद्ब्रह्महृदयस्वातीश्रवणधनिष्ठोत्तराभाद्रपदाः,

उदक्स्थत्वात् =  सौम्यशरातिदैर्घ्यात्,

अर्करश्मिभिः=  सूर्यकिरणैः,

न लुप्यन्ते=  न छाद्यन्ते । अस्तं न यान्तीत्यर्थः ॥ 18 ॥इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचिताया

यामुदयास्ताधिकारो नवमः समाप्तः ॥ 1 ॥



10 अथ शृङ्गोन्नत्यधिकारः।

तत्र कालांश कथन पुरःसरं चन्द्रस्योदयास्तयोः

साधनातिदेशं करोति—

उदयास्तविधिः प्राग्वत्कर्तव्यः शीतगोरपि ॥

भागौदशभिः पश्चाद्दृश्यः प्राग्यात्यदृश्यताम् ॥1॥

शीतगोरपि =  चन्द्रस्यापि,

प्राग्वत् =  पूर्वाधिकारोक्तरीत्या,

उदयास्तविधिः=  उदयास्तसाधनप्रकारः,

कर्तव्यः=  विधातव्यः ।

द्वादशभिर्भागैः=  द्वादशसंख्याकैः कालांशैः,

पश्चात्=  पश्चिमायां,

दृश्यः=  उदितो भवति ।

प्राक्=  प्राच्याम्,

अदृ श्यताम् =  अस्तं,

याति =  प्राप्नोति एतादृशावुदयास्तौ मासे एक दैव भवतः । प्रत्यहमुदयास्तौ वक्ष्यमाणप्रकारेण भवतः ॥1॥


अथ सूर्यास्तमयात्परतश्चन्द्रस्य नित्यास्तसाधनमाह—

रवीन्द्वोः षड्भयुतयोः माग्वलग्नान्तरासवः॥

एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिकाः॥2॥

तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजिते ॥

तत्फलान्वितयोर्भूयः कर्तव्या विवरासवः ॥ 3॥

एवं यावस्थिरीभूता रवीन्दोरन्तरासवः॥

तैः पाणैस्तमेतीन्दुः शुक्लेऽर्कास्तमयात्परम् ॥ 4॥

।शुक्लपक्षेऽभीष्टदिने सूर्यास्तकाले स्पष्टौ सूर्यचन्द्रौ साध्यौ चन्द्रमध्ये दृक्कर्मद्वयं संस्कार्यम् । तयोः,

षड्भयुतयोः=  षड्राशियुतयोः,

रवी न्द्वोः=  सूर्याचन्द्रमसोर्मध्ये,

लग्नान्तरासवः=  रविलग्नान्तरासुवत्‌अन्तरकालासवः, प्राग्वत्=  भोग्यासूनूनकस्येत्यादिना साध्याः । तौ सूर्य चन्द्रौ,

एकराशौ=  अभिन्नराशौ चेत्स्यातां तदा,

रवीन्द्वोः=  सषड्भ सूर्याचन्द्रमसोः,

विवरलिप्तिकाः=  अन्तरकलाः,

कार्याः विधेयाः ।

तन्नाडिकाहते=  अन्तरकलानां येऽसवस्तेषां घटिका स्ताभिर्गुणिते,

रवीन्द्वोः=  सूर्यचन्द्रयोः,

भुक्ती=  कालात्मकगती,

पष्टिभाजिते=  षष्टिभक्ते,

तत्फलान्वितयोः=  स्वस्वफलयुतयोः,

भूयः=  पुनः,

विवरासवः=  अन्तरासवः,

कर्तव्याः पूर्वरीत्या विधातव्याः ।

एवं =  तद्घटिकाभिः सूर्यास्तकालिको सषड्भ सूर्यदृक्कर्मसंस्कृतचन्द्रौ प्रचाल्य,

रवीन्द्वोः =  सूर्यचन्द्रयोः,

अ न्तरासव"=  अन्तरप्राणासवः,

यावस्थिरीभूताः=  अभिन्नास्तावत्साध्याः ।

तैः प्राणैः=  अभिन्नैरसुभिः,

इन्दुः=  चन्द्र,

शुक्षे =  शुक्लपक्षे,

अस्तमयात्परं=  सूर्यास्तादनन्तरम्,

अ स्तम् =  अदर्शनताम्,

एति=  प्रानोति ॥ 2 ॥ 3 ॥ 4 ॥


अथोदयसाधनमाह—

भगणार्ध रवेर्दत्त्वा कार्यास्तद्विवरासवः॥

तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत् ॥ 5॥

कृष्णपक्षे =  असितपक्षे,

भगणार्धं=  षड्राशीन्,

रवेः= 

सूर्यस्य,

दत्त्वा=  संयोज्य,

तु =  तुकाराच्चन्द्रस्यादवेत्यर्थः ।

तद्विवरासवः=  तयोद्दृकर्मसंस्कृतचन्द्रसषड्भसूर्यकरैरन्तरासवः पूर्वोक्त प्रकारेण,

कार्याः=  साध्याः,

तैः =  साधितैः,

प्राणैः=  असुभिः।

शीतांशुः=  चन्द्रः,

उदयं =  सूर्यास्तानन्तरमुदयं,

व्रजेत् =  गच्छेत् ॥ 5 ॥


अथ शृङ्गोन्नतिरुच्यते—

अर्केन्दोः क्रान्तिविश्लेषो दिक्साम्ये युतिरन्यथा ॥

तज्ज्येन्दुरकाद्यत्रासौ विज्ञेया दक्षिणोत्तरा ॥6॥

मध्याह्नेन्दुप्रभाकर्णसंगुणा यदि सोत्तरा॥

तदानाक्षजीवायां शोध्या योज्या च दक्षिणा

शेषं लम्बज्यया भक्तं लब्धो बाहुः स्वदिङ्मुखः ॥

कोटिः शङ्कुस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत् ॥ 8॥

अर्केन्द्वोः=  सूर्यचन्द्रयोः,

दिकसाम्ये=  दिगैकत्वे,

क्रान्ति

] शृङ्गोनत्यधिकार।321

विश्लेषः =  स्पष्टक्रान्त्योरन्तरम् ।

अन्यथा=  दिग्भेदे,

युतिः=  योगः कार्यः । अत्र क्रान्तिशब्दः क्रान्तिज्यापरो ज्ञेयः । उपपत्यविरोधात् ।

तज्ज्या = सा त्रासौ ज्या च संस्कारासद्धा‌ऋमिता ज्येत्यर्थः ।

अर्कात् =  सूर्यात्,

इन्दुः=  चन्द्रः,

यत्र=  यस्यां दिशि तद्दिका,

दक्षिणोत्तरा=  याम्योत्तरा,

असौ=  ज्या,

विज्ञेया=  बोध्या।

मध्याह्नेन्दुप्रभाकर्णसंगुणा=  अह्नोऽहोरात्रस्यमध्यमिति मध्याह्नः सूर्यास्तकालस्तस्मिन्समये चन्द्रस्य छायाकर्णः साध्यस्तेन मध्याह्नः च्छायाकर्णवत्साधितेन्दुच्छायाकर्णेन संगुणा,

यदि सोत्तरा=  हे साज्योत्तरदिक्का,

तदा=  तर्हि,

अर्कघ्नाक्षजीवायां=  द्वादश गुणिताक्षज्यायां,

शोध्या=  अन्तरिता,

दक्षिणा=  याम्याचेत्तदा,

योज्या=  अर्कनाक्षजीवायां युक्ता कार्या,

शेषं=  संस्कार लम्बज्यया=  स्वदेशलम्बज्यया,

भक्तं =  भाजितं,

लब्धः=  फलं

, स्वदिङ्मुखः=  संस्कारदिगभिमुखः,

बाहुः=  भुजः स्यात् । शङ्कुः =  द्वादशांगुलःश ङ्कुः,

कोटिः =  कोटिर्भवेत् ।

तयोः=  भुजकोट्योः,

वर्गयुतेः =  वर्गयोगात्,

मूलं =  पदं,

श्रुतिः=  कर्णः,

भवेत् =  स्यात् ॥ 6 । 7।8॥


अथ शुक्लानयनमाह—

सूर्योनशीतगोलिप्ताः शुक्लं नवशतोद्धृताः।

चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम् ॥ 6॥

सूर्योनशीतगोः=  अर्कोनितचन्द्रस्य,

लिप्ताः =  कलाः,

नवशतोद्धताः=  नवशतभक्ताः,

शुक्रं=  फलं चन्द्रस्यरवेतं स्यात् । तत्,

चन्द्रबिम्बमुलाभ्यस्तं =  चन्द्रग्रहणाधि कारोक्तप्रकारेणागतचन्द्रबिम्बांगुलैर्गुणितं,

द्वादशभिः=  द्वादशांगुलैः,

हृतं=  भक्तं फलं,

स्फुटं=  स्पष्टशुल्लमानं स्यात् ॥ 1॥


अथ श्रुङ्गोन्नतिपरि लेखमाह—

दत्त्वार्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम् ॥

ततः पश्चान्मुखी कोटिं कर्णं कोट्यग्रमध्यगम्॥10॥


कोटिकर्णयुताद्बिन्दोर्बिम्बं तात्कालिकं लिखेत् ॥

कर्णसूत्रण दिक्सिद्धिं प्रथमं परिकल्पयेत् ॥11॥

शुक्लं कर्णेन तद्बिम्बयोगादन्तर्मुखं नयेत् ॥

शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत् ॥12॥ तन्मध्यसूत्रसंयोगाद्बिन्दुत्रिस्पृग्लिखेद्धनुः॥

प्राग्बिम्बं यादृगेव स्यात्तादृक् तत्रदिने शशी॥13॥

अर्कसंज्ञितं =  सूर्यसंज्ञितं,

बिन्दुं=  चिह्नं,

दत्त्वा=  दिक्साधितसमायां भूमौ दिक्संपाते कृत्वा,

ततः=  सूर्यबिन्दोः सकाशात्,

बाहुं =  पूर्वसाधितभुजं,

स्वदिङ्मुखं =  स्वस्य या दक्षिणोत्तरा दिक् तदभिमुखं दत्त्वा,

ततः=  भुजाग्रचिह्नात्,

पश्चान्मुखीं=  पश्चिमदिगभिमुखीं,

कोटिं=  द्वादशांगुलात्मिकां दत्त्वा,

कोट्यग्रमध्यगं=  कोट्यग्रसूर्यचिह्नयोर्गतं स्पष्टं,

कर्णं=  पूर्व साधितं दत्त्वा,

कोटिकर्णयुतात्=  कोटिकर्णरेखायोगात्,

बिन्दोः =  चिह्नात्,

तात्कालिकं =  सूर्योदयास्तकालिकं,

बिम्बं=  साधित चन्द्रमण्डलं,

लिखेत् =  चन्द्रबिम्बार्धांगुलप्रमाणेन कारयेत् । तत्र,

प्रथमम् =  आदौ,

कर्णसूत्रेण =  कर्णरेखया,

दिक्सिद्धिं =  दिशानिष्पत्तिं,

परिकल्पयेत् =  कुर्यात् । चन्द्रबिम्बकर्णरेखयोः संपात स्थाने चन्द्रमण्डले पूर्वा, स्वमार्गेणाने वर्धिता सैव कर्णरेखा चन्द्रमण्ड लस्यापरभागे यत्र लग्ना तत्र पश्चिमा, तन्मत्स्याभ्यां दक्षिणोत्तरा रेखा च चन्द्रमण्डले कुर्यादित्यर्थः ।

तद्बिम्बयोगात् =  कर्णरेखाचन्द्र बिम्बपरिध्योः संपातादपूर्वात्,

कर्णेन=  कर्णरेखामार्गेण,

अन्तर्मुखं =  चन्द्रबिम्बकेन्द्राभिमुखं,

शुक्लं=  पूर्वसाधितश्वेतं,

नयेत् =  शुक्लाग्रचिह्नं कुर्यात् ।

शुक्लाग्रयाम्योत्तरयोः =  शुक्लचिह्नयाम्योत्तरचिह्नयोः,

मध्ये =  अन्तराले,

मत्स्यौ =  द्वौ मत्स्यौ,

प्रसाधयेत् =  संपादयेत् । शुक्लाग्रदक्षिणचिह्नाभ्यां मत्स्यः शुक्लानोत्तरचिह्नाभ्यां मत्स्यश्चेति पूर्वोक्तरीत्या मत्स्यौ कुर्यादित्यर्थः ।

तन्मध्यसूत्रसंयोगात्=  तयोमत्स्ययोर्मध्यसूत्रयोर्यत्र संपातस्तत्स्था नात्,

बिन्दुत्रिस्पृक्=  शुक्लाग्रचिह्नयाम्योत्तरचिह्नस्पर्शि,

धनुः=  वृत्तैकदेशात्मकं,

लिखेत् =  कुर्यात् ।

प्राक्=  पूर्वकाले,

बिम्बं=  लिखितचन्द्रबिम्बं,

यादृक् =  लिखितचापच्छेदेन यादृशं पश्चिमभागे भवति,

तादृक् एव=  तादृशः एव,

तत्र=  तस्मिन्,

दिने=  अहनि,

शशी=  चन्द्रः,

स्यात् =  भवेत् । आकाशेऽपि तामेव स्यादित्यर्थः ॥ 10 । 11 । 12 । 13 ॥


अथ शृङ्गोन्नतौज्ञानमाह—

कोट्या दिक्साधनात्तिर्यक्सूत्रान्ते शृङ्गमुन्नतम् ॥

दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य सा कृतिः ॥ 14 ॥

कोट्या =  कोटिरेखया,

दिक्साधनात् =  चन्द्रवृत्ते कर्णरेखावद्दिक्साधनात्,

कोटिम् =  अग्रभागामिकाम्,

उन्नतां=  उच्चां,

कृत्वा=  विधाय,

तिर्यक्सूत्रान्ते=  दक्षिणोत्तररेखाया अवसाने,

उन्नतम् =  उच्च,

शृङ्गं=  चन्द्रशृङ्गं,

दर्शयेत् =  अवलोकयेत् ।

सा=  परिलेखसिद्धा,

प्राकृतिः=  स्वरूप,

चन्द्रस्य =  इन्दोः । आकाशस्थचन्द्रस्येत्यर्थः । भवति ॥ 14 ॥


अथ कृष्णपक्षे विशेषमाह—

कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथासितम् ॥

दद्यादामं भुजंतत्र पश्चिममण्डलं विधोः ॥ 15 ॥

। कृष्णे =  कृष्णपक्षे,

षड्भयुतं =  षड्राशिसहितं,

सूर्यम् =  अर्कम्,

इन्दोः =  चन्द्रात्,

विशोध्य =  न्यूनीकृत्य,

तथा=  पूर्वोक्तप्रकारेण,

असितं=  कृष्णमानं साधयेत् ।

तत्र=  कृष्ण शृङ्गोन्नतिसाधने,

भुजं=  पूर्वोक्तभुजं,

वाम=  विपरीतं,

दद्यात्=  अर्कचिह्नादुत्तरं भुजं दक्षिणतो दक्षिणं भुजमुत्तरतो गणको दद्यात् ।

विधोः=  चन्द्रस्य,

मण्डलं =  बिम्बं,

पश्चिमं=  पश्चिमभागे कृष्णाभिवृद्धि दर्शयेदित्यर्थः ॥ 15 ॥

इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां,

यां शृङ्गोन्नत्यधिकारो दशमः समाप्तः ॥ 10॥


11 अथ पाताधिकारः। ॥ 23 ॥

तत्र भेदद्वयात्मकपातस्य सम्भवं विवक्षुः प्रथमं वैधृत

संज्ञापातस्य सम्भवमाह—

एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा॥

तद्युतो मण्डले क्रान्त्योस्तुल्यत्वे वैधृतामिधः ॥

सूर्याचन्द्रमसौ =  सूर्यचन्द्रौ,

एकायनगतौ=  एकस्मिन्नेवायनस्थौ,

यदा=  यस्मिन्काले,

स्यातां=  भवेतां तत्र,

तद्युतौ=  सूर्यचन्द्रयोर्भाद्ये योगे,

मण्डले =  द्वादशराशिमिते सति,

क्रान्त्योः =  अपमयोः,

तुल्यत्वे=  समत्वे,

वैधृता भिधः=  वैधृतसंज्ञः,

पातो भवति मङ्गलं विशेषेण प्रियते अवरोध्यत इति विधृतः । विधृत एव वैधृतः इति ॥1॥


अथ व्यतिपातसंज्ञकपातस्य सम्भवमाह—

विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिकाः॥

समास्तदाद्वा व्यतीपातो भगणार्धे तयोर्युतिः ॥ 2॥

। यदा,

चन्द्रार्कौ =  चन्द्रसूर्यौ,

विपरीतायनगतौ=  भिन्नायनस्थौ भवतस्तत्र तदा तयोः,

क्रान्तिलिप्तिकाः=  क्रान्तिकलाः,

समाः=  तुल्याः,

तयोः=  सूर्याचन्द्रमसोः,

युतिः=  राश्यादियुतिः,

भगणार्धे =  राशिषट्के सति,

तदा=  तस्मिन्काले,

व्यतीपातः=  व्यतीपातसंज्ञकः पातो भवति मङ्गलं विशेषेण पात यतीति व्यतीपात इति ॥ 2॥


क्रान्त्योः समत्वे पातो भवतीत्यत्र कारणमाह—

तुल्यांशुजालसम्पर्कात्तयोस्तु प्रवहाहतः॥

तदृक् क्रोधभवो वह्निर्लोकाभावाय जायते ॥ 3 ॥

। तयोः =  सूर्याचन्द्रमसोः,

तु=  तुकारात्क्रान्तिसाम्यकालिकयोः । ।

तुल्यांशुजालसंपर्कात् =  समकिरणानां जालं समूहस्तयोरन्यो न्याभिमुखयोः संपर्कात् संयोगात्,

तद्दृक्क्रोधभवः=  तयोदृष्टि

संयोगाभ्यां क्रोधोत्पन्नः,

वह्निः=  अग्निः,

प्रवहाहतः=  प्रवहवायुवेगेन प्रज्वलितः,

लोकाभावाय=  जनानामशुभफलाय,

जायते=  उत्पद्यते ॥ 3 ॥

अथायं वह्निर्व्यतीपाताख्यो वैधृताख्यो वेत्यत पाह—

विनाशयति पातोऽस्मिल्लोकानामसकृद्यतः ॥

व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः ॥ 4 ॥

अस्मिन् =  क्रान्तिसाम्यकाले,

प्रसिद्धः=  पूर्वश्लोकोक्तस्वरूपः,

पातः=  वह्निः,

यतः=  यस्मात्कारणात्,

असकृत् =  वारंवारं,

लोकानां=  जनानां मङ्गलानि,

विनाशयति=  नाशं करोति । अतः कारणात्,

व्यतीपातः=  व्यतीपातसंज्ञोऽस्ति ।

अयं =  वह्निः,

संज्ञाभेदेन =  नामान्तरेण,

वैधृतिः=  वैधृतसंज्ञो भवति । उभयत्र पाताख्यो वह्निर्भवतीति भावः ॥ 4 ॥

अथ तत्स्वरूपमाह—

स कृष्णो दारुणवपुलोंहिताक्षो महोदरः॥

सानिष्टकसे रौद्रो भूयो भूयः प्रजायते ॥ 5 ॥

,  ।

सा=  क्रान्तिसाम्यकालोत्पन्नोऽग्निपुरुषः,

कृष्णः=  श्याम वर्णः,

दारुणवपुः =  कठिनशरीरः,

लोहिताक्षः=  आरक्तनेत्रः,

महोदरः=  पृथूदरः,

सर्वानिष्टकरः =  सर्वलोकानामशुभ कारकः,

रौद्रः=  भयानकः,

भूयो भूयः=  अनेकवारं प्रतिमासं प्रायो वारद्वयं,

अजायते=  प्रत्येकक्रान्तिसाम्यकाल उत्पन्नो भवती त्यर्थः ॥ 5 ॥


अथ स्पष्टकालज्ञानार्थं क्रान्तिसाधनमाह—

भास्करेन्द्वोभचक्रान्तश्चक्राविधिसंस्थयोः॥

दृक्तुल्यसाधितांशादियुक्त्योः स्वावपक्रमौ ॥ 6॥

दृकतुल्यसाधितांशादियुक्तयोः =  त्रिप्रश्नोक्तरीत्यानीत

छायार्कस्फुटार्कयोरन्तरसाधितैरयनांशैः संस्कृतयोः,

भचक्रान्तश्च,  क्रार्धावधिसंस्थयो=  ययोर्योगो द्वादशराशयः षड्राशयस्तदवधिसंस्थयोः,

भास्करेन्द्वोः=  सूर्याचन्द्रमसोः,

स्वावपक्रमौ=  स्वस्व क्रान्ती साध्ये । सूर्यस्य क्रान्तिः साध्या चन्द्रस्य विक्षेपसंस्कृता क्रान्तिः साध्यत्यर्थः ॥ 6 ॥


अथ क्रान्तिभ्यां स्पष्टपातकालस्य गतैष्यत्वं विशेष चाह—

अथौजपदगस्येन्दोः क्रान्तिर्विक्षेपसंस्कृता ।

यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा ॥7॥

ऊना चेत्स्यात्तदा भावी वामं युग्मपदस्य च ॥ ।

पदान्यत्वं विधोः क्रान्तिर्विक्षेपाच्चेद्धि शुध्यति ॥ 8॥

अथ =  क्रान्तिसाधनानन्तरम्,

ओजपदस्य =  विषमपदस्थस्य,

इन्दोः =  चन्द्रस्य,

विक्षेपसंस्कृता=  शरसंस्कृता,

क्रान्तिः =  अपमः । स्पष्टक्रान्तिरित्यर्थः,

यदि =  यर्हि,

भानोः =  सूर्यस्य,

क्रान्तेः =  साधितक्रान्तेः सकाशात्,

अधिका=  महती,

स्यात् =  भवेत्,

तदा=  तर्हि,

पातः=  स्पष्टक्रान्तिसाम्यात्मकः,

गतः=  साधितक्रान्तिकालात्पूर्वकाले जात इत्यर्थः ।

चेत् =  यहि,

ऊना=  लघुः,

स्यात् =  भवेत् ।

तदा=  तर्हि,

भावी=  गम्यः । साधितक्रान्तिकालादुत्तरकाले भवतीत्यर्थः ।

युग्मपदस्य =  समपदस्थचन्द्रस्य,

वामं=  उक्त गतैष्यक्रमेण वैपरीत्यम् । चन्द्रस्य स्पष्टक्रान्तिः सूर्यक्रान्तेरधिका तदा गम्यपातः न्यूना चेद्गतपातः स्यादित्यर्थः ।

चेत् =  यहि,

क्रान्तिः =  चन्द्रक्रान्तिः,

विक्षेपात् =  भिन्नदिक्कशरात्,

विशुध्यति =  हीना भवति । तदा,

विधोः=  चन्द्रस्य,

पदान्यत्वं =  भिन्नपदत्वं ज्ञेयम् ॥ 7 ॥ 8॥


अथ गतैष्यकालानयनं विवक्षः प्रथमं स्पष्टक्रान्तिसाम्यानयन

प्रकारमाह—

क्रान्त्योर्ज्ये त्रिज्ययाभ्यस्ते परक्रान्तिज़्ययोद्धृते ॥

तच्चापान्तरमधं वा योज्यं भाविनि शीतगौ ॥ 9 ॥

शोध्यं चन्द्राद् गते पाते तत्सूर्यगतिताडितम् ॥

चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत्फलम्॥10॥

तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् ॥

कर्मैतदसकृत्तावद्यावत्क्रान्ती समे तयोः॥ 11 ॥

क्रान्त्योः =  सूर्याचन्द्रमसोः साधितक्रान्त्योः,

ज्ये =  जीवे,

त्रिज्यपाभ्यस्ते=  त्रिज्यागुणिते,

परक्रान्तिज्यया=  परमा पमज्यया,

उद्धृते=  भक्ते,

तच्चापान्तरं=  लब्धफलयोश्चापान्तरम्,

वा=  अथवा,

अर्थं=  चापान्तरार्थं,

भाविनि=  गम्यपाते सति,

शीतगौ=  चन्द्रे,

योज्यं=  युक्त कार्यम् ।

गते पाते=  गतपाते सति,

चन्द्रात् =  इन्दोः सकाशात्,

शोध्यं =  त्याज्यम् । हीनं कार्यमित्यर्थः ।

तत्=  चन्द्रसम्बन्धिसंस्कृतफलं,

सूर्यगति ताडितं=  सूर्यगत्या गुणितं,

चन्द्रभुक्त्या =  इन्दुगत्या,

हृतं, भक्तं,

लिप्तादि फलं=  कलादिफलं,

शशिवत् =  चन्द्रवत्,

भानौ=  सूर्ये संस्कार्यम् ।

शशाङ्कपातस्य =  चन्द्रपातस्य,

तद्वत् =  पूर्वोक्तप्रकारेण साधितं,

फलं=  कलादिकं फलं चन्द्र पाते,

विपर्ययात् =  विलोमक्रमात्,

देयं=  संस्कार्यम् । चन्द्रयुत हीनक्रमेण चन्द्रपाते हीनयुतं कार्यमित्यर्थः ।

यावत् =  यावत्काल पर्यन्तं,

तयोः=  सूर्यचन्द्रयोः,

क्रान्ती=  स्पष्टक्रान्ती समे तुल्ये स्तः,

तावत् =  तावत्कालपर्यन्तं,

एतत्कर्म =  गणितक्रिया रूपोक्तं कर्म,

असकृत् =  अनेकवारंकार्यम् ॥ 1।10।11 ॥


अथ पातकालस्य गतगम्यत्वमाह—

क्रान्त्योः समत्वे पातोऽथ प्रक्षितांशोनिते विधौ ॥

हीनेऽर्धरात्रिकाद्यातो भावी तात्कालिकेऽधिके ॥12॥

कान्त्योः =  सूर्यचन्द्रयोः स्पष्टक्रान्त्योः,

समत्वे =  तुल्यत्वे

, पातः=  स्पष्टपातः स्यात् । पातमध्यः स्पष्टः स्यादित्यर्थः ।

अथ=  अनन्तरं,

प्रक्षिप्तांशोनिते =  क्रान्तिचापान्तरसिद्धचन्द्रफलेन युतोनिते,

विधौ =  चन्द्रे,

अर्धरात्रिकात् =  स्पष्टपातसम्बन्धि चन्द्रासन्नार्धरात्रकालिकचन्द्रात्,

हीने=  न्यूने सति,

यातः=  तदर्धरात्रकालात्पातकालो गतः ।

तात्कालिके=  क्रान्तिसाम्यकालिकचन्द्रे,

अधिके =  अर्धरात्रकालिकचन्द्रादधिके सति,

भावी=  गम्यपातः । तदर्धरात्रकालात्पातकाल एष्य इत्यर्थः ॥ 12 ॥


अथ स्पष्टपातस्य कालज्ञानमाह—

स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः॥

षष्टिघ्नाश्चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः ॥13॥

द्वयोः=  पूर्वप्रतिपादितयोः,

स्थिरीकृतार्धरात्रेन्द्वोः=  । स्पष्टक्रान्तिसाम्यकालिकचन्द्रतदासन्नार्धरात्रकालिकस्पष्टचन्द्रयोः,

विवरलिप्तिकाः=  अन्तरकलाः,

षष्टिघ्नाः =  षष्टिगुणिताः,

चन्द्र भुक्त्याप्ताः=  अर्धरात्रकालिकस्पष्टचन्द्रगत्या भक्ताः फलं,

पात कालस्य =  स्पष्टक्रान्तिसाम्यकालस्य,

नाडिकाः =  गतैष्यघटिका भवन्ति ॥ 13॥


अथ पातकालस्य स्थित्यर्धानयनमाह—

रवीन्दुमानयोगार्धं षष्ट्या सङ्गुण्य भाजयेत् ॥

तयोर्भुक्त्यन्तरेणाप्तं स्थित्यर्धं नाडिकादि तत् ॥ 14 ॥

। रवीन्दुमानयोगार्धं=  सूर्यचन्द्रयोः कलात्मकबिम्बयोर्योगार्धं,

षष्ट्या=  षष्टिसङ्ख्यया,

संगुण्य =  गुणयित्वा,

तयोः=  सूर्यचन्द्रयोः,

भुक्त्यन्तरेण =  गत्यन्तरेण,

भाजयेत् =  हरेत्,

आप्तं =  यल्लब्धं,

तत्=  फलं,

नाडिकादि=  घटिकादि,

स्थित्यर्धं=  पातकालात्पूर्वमपरत्र च स्थित्यर्धकालपर्यन्तं पातस्याव स्थानमित्यर्थः ॥ 14 ॥

अथ पातस्यादिमध्यान्तकालानाह—

पातकालः स्फुटो मध्यः सोऽपि स्थित्यर्धवर्जितः॥ ।

तस्य सम्भवकालः स्यात्तत्संयुक्तोऽन्त्यसंज्ञितः ॥15॥

स्फुटः=  स्पष्टः,

पातकालः=  क्रान्तिसाम्यकालः,

मध्यः=  मध्यसंज्ञो ज्ञेयः ।

सः=  मध्यकालः,

स्थित्यर्धवर्जितः=  पूर्वानीतस्थित्यर्थेन हीनः,

तस्य =  पातस्य,

सम्भवकालः=  आरम्भकालः स्यात् ।

अपि =  समुच्चये,

तत्संयुक्तः =  स्थित्यर्ध युक्तो मध्यकालः,

अन्त्यसंज्ञितः=  पातस्यान्तकालः पातनिवृत्ति काल इत्यर्थः ।

स्यात् =  भवेत् ॥ 15 ॥

अथ पातस्थितिकालस्य मङ्गलकृत्ये निषिद्ध त्वमाह—

आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः॥

प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः ॥ 16 ॥

एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम् ॥

सम्भवस्तावदेवास्य सर्वकर्मविनाशकृत् ॥ 17॥

आद्यन्तकालयोः=  पातारम्भसमाप्तिकालयोः,

मध्यः=  अन्तरालवर्ती,

कालः=  समयः,

अतिदारुणः=  अत्यन्तकठिनः,

प्रज्वलज्ज्वलनाकारः=  देदीप्यमानाग्निस्वरूपः,

सर्वकर्मसु=  सर्वेषु मङ्गलकृत्येषु,

गर्हितः=  निन्दितः,

ज्ञेयः=  बोध्यः । तथा च कृतं मङ्गलकृत्यं भस्मावशेषं स्यादिति भावः । अयमेव पुण्यकालः। अर्केन्द्वोः= सूर्यचन्द्रयोः,

मण्डलान्तरं =  प्रत्येकं बिम्बैक देशरूपं,

यावत् =  यावत्कालपर्यन्तम्,

एकायनगतं =  तुल्यमा गस्थितं,

तावत् =  तावत्कालपर्यन्तम्,

एव =  एवकारेणन्यूनाधिक व्यवच्छेदः,

अस्य=  पातस्य,

सर्वकर्मविनाशकृत् =  सकलशु भकर्माणामाचरितानां नाशकारी,

सम्भवः=  उत्पत्तिः । स्थितिरिति यावत् ॥ 16 ॥ 17 ॥


नन्वयं केवलं मङ्गलनाशको न शुभकारक इत्यत आह—

स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः॥

प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानत स्तथा ॥ 18 ॥

।तस्मिन्काले,

स्नानदानजपश्राद्धव्रतहोमादिकर्मभिः=  स्नानदानादिपुण्यक्रियाभिः,

सुमहच्छ्रेयः=  सुतरां महत्कल्याणं,

प्राप्यते=  मनुष्यैर्लभ्यते ।

तत्कालज्ञानतः=  पातकालज्ञा नात्,

तथा =  स्नानदानादितुल्यं पुण्यं भवति । तं च कालं गणयित्वा यः सम्यग्जानाति तस्य स्नानदानादितुल्यफलं स्वत एव भवतीत्यर्थः ॥ 18 ॥


अथ पातविशेषमाह—

रवीन्दोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा ॥

दिर्भवेद्धि तदा पातः स्यादभावो विपर्ययात् ॥19 ॥

यदा=  यस्मिन् काले,

रवीन्द्वोः=  सूर्यचन्द्रयोः,

क्रान्त्योः =  स्पष्टक्रान्त्योः,

तुल्यता =  समता,

विषुवत्सन्निधौ=  विषुवन्निकटे क्रान्त्यभावासन्ने रबिगोलसन्धिसमीप इत्यर्थः स्यात्,

तदा=  तस्मिंस्तदासन्नकाले,

पातः=  व्यतीपातवैधृतभेदद्वयात्मकः,

द्विः=  द्विवारं,

भवेत् =  स्यात्,

विपर्ययात् =  उक्तव्यत्यासात् । चन्द्र, स्थायनसन्धिनिकटे यदि सूर्यक्रान्तितश्चन्द्रक्रान्तिद्यूना स्यात्तदेत्यर्थः ।

अभावः=  क्रान्तिसाम्यरूपपातस्याभावो भवति ॥ 16 ॥


अथ शुभकार्ये महापातस्य निषिद्धत्वोक्तिप्रसङ्गात्पञ्चाङ्गा न्तर्गतयोगान्तर्गतव्यतीपातस्यैव ज्ञानमाह—

शशाङ्कार्कयुलिप्ता भभोगेन विभाजिताः॥

लब्धं सप्तदशान्तोऽन्यो व्यतीपातस्तृतीयकः॥20॥

शशाङ्कार्कयुतेः=  अयनांशसंस्कृतयोः सूर्यचन्द्रयोर्योगस्य,

लिप्ताः=  कलाः,

भभोगेन=  अष्टशतेन,

विभाजिताः=  भक्ताः,

लब्धं=  फलं,

सप्तदशान्तः=  सप्तदशमध्ये षोडशानन्तरं सप्तदशपर्यन्तमित्यर्थः ।

अन्यः=  एतदधिकारपूर्वोक्तातिरिक्तः,

तृतीयकः =  तृतीय एवं तृतीयकः,

व्यतीपातः=  व्यतीपातयोगः स्यात् । रवीन्द्वोर्योगे सप्तराशयो भागाः षोडशलिप्ताश्चत्वारिंशद्भवन्ति 7 । 16 । 40

तल्लिप्ता अष्टशताप्तः लब्धं सप्तदश भवन्ति । तदन्ते सप्तदशो विष्कम्भादियोगपातो व्यतीपातसंज्ञकः सोऽपि खर्जूरिकचक्र एक रेखाग्रस्थयोरनुलोमविलोमयोश्चन्द्रार्कयोदृष्टयुद्भवो वह्निरेव रौद्रः परुषोलोके शुभकार्यविनाशार्थमुत्पद्यते। असौ व्यतीपातः सकलोऽपि शुभकार्य विनाशकृद्भवतीति भावः ॥ 20 ॥


अथ भसन्धिग‌ण्डान्तयोः स्वरूपज्ञानमाह—

सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादा भसन्धयः॥

तदग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्यते ॥ 21 ॥

सार्पेन्द्रपौष्ण्यधिष्ण्यानाम् =  आश्लेषाज्येष्ठारेवती नक्षत्राणाम्,

अन्त्याः =  चतुर्थाः,

पादाः =  चरणाः,

भसन्धयः=  नक्षत्रसन्धयो भवन्ति ।

तदग्रभेषु=  आश्लेषाज्येष्ठा रेवतीनक्षत्राणामाग्रिमनक्षत्रेषु । मघामूलाश्विनीनक्षत्रेष्वित्यर्थः ।

,

आद्यपादः=  प्रथमचरणः,

गण्डान्तं नाम =  नक्षत्रगण्डान्तं प्रसिद्धं,

कीयते=  कथ्यते ॥ 21 ॥


अथैतदधिकारोक्तानां व्यतीपातादीनां निषिद्धत्वमाह—

व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा ॥

एतद्भसन्धित्रितयं सर्वकर्मसु वर्जयेत् ॥ 22॥

व्यतीपातत्रयं=  व्यतीपातानां त्रयमुपलक्षणत्वाद्वैधृतित्रयमपि,

घोरं=  दुष्टम् ।

गण्डान्तत्रितयं =  गण्डान्तत्रयं,

तथा=  घोरम् ।

भसन्धित्रितयं=  नक्षत्रसन्धित्रयं तथा घोरम् ।

एतत् =  पूर्वोक्तघोरं,

सर्वकर्मसु =  सकलमाङ्गल्यकर्मसु,

वर्जयेत् =  जह्यादित्यर्थः ॥ 22 ॥


अथार्कांशपुरुषः शिष्टावशिष्टं स्ववाक्यमुपसंहरति—

इत्येतत्परमं पुण्यं ज्योतिषां चरितं हितम् ॥

रहस्यं महदाख्यातं किमन्यच्छ्रोतुमिच्छसि ॥ 23 ॥

।हे मयासुर ! तुभ्यम्,

इति=  एवम्,

एतत् =  शृणुष्वैकमना इत्यादिः सर्वकर्मसु वर्जयेदित्यन्तं,  ज्योतिषां=  ग्रहनक्षत्रादीनां,

चरितं =  माहात्म्यं गणितादिज्ञानमिति यावत्,

हितं=  इह लोके कीर्तिकरं,

परमं=  परलोक उत्कृष्टं,

पुण्यं =  धर्म्यम् । अत‌एव,

महद्रहस्यम् =  अतिगोप्यम्,

आख्यातं=  मया कथितम् ।

अन्यत् =  उक्तातिरिक्तं,

किं=  कतरत्,

श्रोतुं=  ज्ञातुम्,

इच्छसि =  अभिलषसि । तथा च मया तुभ्यं यत् पूर्वमुक्तं तत्र यत्र यत्र तव संशयंस्तत्र तत्र मत्सङ्कोचमुपेक्ष्य मां प्रति प्रश्नस्त्वया कार्यः ।

तव समाधानं करिष्यामीति भावः ॥ 23 ॥

इति, श्रीसिद्धान्तवागीशपण्डितमाधवप्रप्तादपुरोहितविरचितायांयां पाताधिकारो नामैकादशः समाप्तः ॥ 11 ॥


12 अथ भूगोलाध्यायः। 198

अथ भूगोलाध्यायो व्याख्यायते । तत्र मयासुरेण सूर्यांशपुरुषः पृष्ट इत्याह—

अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः ॥

भक्त्या परमयाभ्यर्च्य पप्रच्छेदं मयासुरः ॥1॥

,

अथ =  सूर्यांशपुरुषवचनश्रवणानन्तरं,

मयासुरः=  मयनामा श्रोता दैत्यः,

कृताञ्जलिः=  रचितहस्ताग्राञ्जलिपुटः,

अर्कांश समुद्भूतं=  सूर्याशोत्पन्नं पुरुषं स्वाध्यापकं गुरुं,

परमया=  उत्कृष्टया,

भक्त्या =  आराध्यत्वेन ज्ञानरूपया,

अभ्यर्च्य=  सम्पूज्य,

प्रणिपत्य=  नमस्कृत्य,

इदं =  वक्ष्यमाणं प्रश्नवृन्दं,

पप्रच्छ =  पृष्टवान् ॥ 1॥


अथ तत्प्रश्नानाह—

भगवन्किम्प्रमाणा भूः किमाकारा किमाश्रया ।

किंविभागा कथं चात्र सप्तपातालभूमयः॥2॥

अहोरात्रव्यवस्थां च,  विदधाति कथं रविः ।

कथं पर्येति वसुधां,  भुवनानि विभावयन् ॥ 12.03 ॥


देवासुराणामन्योन्य, महोरात्रं विपर्ययात् ।

किमथ तत्कथं वा स्या, द्भानोर्भगणपूरणात् ॥ 12.04 ॥


पित्र्यं मासेन भवति,  नाडीषष्ट्या तु मानुषम् ।

तदेव किल सर्वत्र,  न भवेत्केन हेतुना ॥ 12.05 ॥


दिनाब्दमासहोराणा, मधिपा न समाः कुतः ।

कथं पर्येति भगणः,  सग्रहोऽयं किमाश्रयः ॥ 12.06 ॥


भूमेरुपर्युपर्यूर्ध्वाः,  किमुत्सेधाः किमंतराः ।

ग्रहर्क्षकक्षाः किंमात्राः,  स्थिताः केन क्रमेण ताः ॥ 12.07 ॥


ग्रीष्मे तीव्रकरो भानु, र्न हेमंते तथाविधः ।

कियती तत्करप्राप्ति, र्मानानि कति किं च तैः ॥ 12.08 ॥

हे भगवन् =  षड्गुणैश्वर्यसम्पन्न ! । सर्वबोधकेति तात्पर्यार्थः ।

भूः=  भूमिः,

किंप्रमाणा=  कियत्प्रमाणं यस्याः सा । भूमेः परिधियोजनानि कियन्तीत्यर्थः ।

किमाकारा=  कथमाकारः स्वरूपः यस्याः सा ।

किमाश्रया=  का आश्रया यस्याः सा । तथास्या आश्रय आधारः क इत्यर्थः । कथं तिष्ठतीति यावत् ।

किंविभागा= कथं विभागा विभक्तांशा यस्याः सा ।

अत्र=  भूम्यां

, सप्तपाताल भूमयः=  पातालविभागरूपा आश्रयाः सप्तसंख्याकाः,

कथं=  केन प्रकारेण तिष्ठन्तीत्यर्थः ।

च=  समुच्चयार्थे ।

रवि=  सूर्यः

, अहोरात्रव्यवस्थां=  दिनरात्र्योर्विवेकं,

कथं=  केन प्रकारेण,

विद

धाति=  करोति ।

भुवनानि=  वक्ष्यमाणानि,

विभावयन् =  प्रकाशयन्,

वसुधां=  पृथ्वी,

कथं =  केन प्रकारेण,

पर्येति =  प्रदक्षिणतया भ्रमति । भूमेनिराधारावस्था नासम्भवेन साधारत्वे भूम्यभितो ग्रहभ्रमणमाधारे बाधितमिति भावः ।

देवासुराणां=  देवदैत्यानाम्,

अन्योन्यं=  परस्परम् ।

अहोरात्रं = अहोरात्रं सुप्रसिद्ध दिवानक्तमित्यर्थः ।

विपर्ययात् =  वैपरीत्यात् यदा देवानामहस्तदा दैत्यानां रात्रिर्यदा देवानां रात्रिस्तदा दैत्यानामह इति,

किमर्थं=  किंप्र योजनमभिप्रेत्य भवति ।

तत्=  देवासुरयोरहोरात्रं,

भानोः= सूर्यस्य,

भगणपूरणात् =  द्वादशराशिभोगात्,

कथं=  कुतो भवति,

वा=  समुच्चये ॥

पित्र्यं=  पितृणामहोरात्रं,

मासेन दर्शावधिकचान्द्रमासेन,

केन हेतुना =  केन कारणेन,

भवति जायते ।

नाडीषष्ट्या=  घटीषष्ट्या,

मानुषं=  मनुष्याणामहो रात्रं यद्भवति,

तदेव=  मानुषाहोरात्रमेव,

सर्वत्र=  सर्वलोके,

किल=  निश्चयेन केन हेतुना,

न भवेत् =  न स्यात् ।

दिनाब्दमासहोराणां= दिनवर्षमासहोराणाम्,

अधिपाः=  स्वामिन,

समाः=  अभिन्नाः,

कुतो न=  कस्मात्कारणान्न भवन्ति तेषामेक एव पतिः किमु नेत्यर्थः ।

सग्रहः=  ग्रहसहितः,

भगणः =  ज्योतिश्चक्रं,

कथं=  केन प्रकारेण,

पर्येति=  भ्रमति ।अयं दृश्यमानः सग्रहो भगणः,

किमाश्रयः=  क आधारो यस्येति भगणस्याधारश्च क इत्यर्थः ।

भूमेः =  पृथिव्याः सकाशात्,

उपर्युपर्यूर्ध्वाः=  आकाशे ऊर्ध्वाधः क्रमेण स्थिताः,

ग्रहर्क्षकक्षाः=  ग्रह नक्षत्राणामाकाशे मार्गाः,

किमुत्सेधाः=  कियानुत्सेध उच्चता यासाःताः ।

किमन्तराः=  कियदन्तरालं यासां ताः । ग्रहनक्षत्राणां कक्षान्तराल प्रमाणं कियदित्यर्थः।

किंमात्राः=  किमात्मिकाः,

किंस्वरूपाः=  किंप्रमाणा वा ।

ताः=  ग्रहर्क्षकक्षाः

,

केनक्रमेण स्थिताः=  केन क्रमेणाकाशे अधिष्ठिताः सन्ति । पूर्व कस्त दुत्तरं क इत्यादिक्रमो न ज्ञात इत्यर्थः ।

ग्रीष्मे =  ग्रीष्मर्तौ,

भानुः=  सूर्यः,

तीव्रकरः=  तीक्ष्णकिरणो भवति ।

तथाविधः=  तादृशः ॥ तीक्ष्णाकरण इत्यर्थः,

हेमन्ते=  हेमन्तौ,

न=  कथं ने भवती त्यर्थः ।

तत्करप्राप्तिः=  सूर्यकिरणानां गमनपद्धतिः,

कियती=  कियत्प्रमाणा । सूर्यकिरणैः कियदाकाशस्यान्धकारो विनष्टं भवतीत्यर्थः । भानोः करैः क्रियद्देशं समन्ततो व्याप्तमिति यावत्,

मानानि=  सौर सावननाक्षत्रचान्द्रादीनि,

कति=  कतिसंख्याकानि मानानि सन्ति ॥

तैश्च =  मानश्च,

किं=  किं प्रयोजनम् ॥2।3।4।5।6।7। 8 ॥



एतान्प्रश्नान्कृत्वा मयः प्रार्थयति—

एतं मे संशयं चिन्धि भगवन्भूतभावन ॥

अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवान् ॥ 9 ॥

हे भगवन् =  षड्गुणैश्वर्यसम्पन्न ! । सर्वबोधकेति तात्पर्यार्थः ।

,

भूतभावन=  भूतस्यातीतकालस्य भावना विचारो यस्य तत्सम्बुद्धौ। भूतस्योपलक्षणाद्वर्तमानभविष्यतोरपि कालज्ञेति सिद्धोऽर्थः । त्वं,

मे=  मम,

एतं =  पूर्वोक्तं,

संशयं =  संदेहं मत्कृतप्रश्नानियर्थः ।

छिन्धि =  छेदय । दूरीकुर्वित्यर्थः ।

त्वामृते=  त्वां विना,

अन्यः=  अपरः,

सर्वदर्शिवान्=  सर्वद्रष्टा । सर्वज्ञ इत्यर्थः ।

छेत्ता=  संशयापनोदकः,

न विद्यते =  नास्ति । भो भगवन्त्वां विनान्यो मम संशयच्छेत्ता सर्वदर्शी च कोऽपि नास्तीत्यर्थः ॥ 6 ॥

अथ मयासुरोक्तप्रश्नानुवादं श्रुत्वा सूर्यांशपुरुषो मयासुरं

प्रति पुनर्वदतिस्मेत्याह—

इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यमस्य हि ॥

रहस्यं परमध्यायं ततः प्राह पुनः स तम् ॥ 10॥

सः=  सूर्याशपुरुषः,

इति=  पूर्वोक्तं,

भक्त्योदितं=  आराध्यज्ञानेनोत्पन्नं,

मयोक्तं =  मयेन कथितं,

वाक्यं =  वचनं,

श्रुत्वा =  आकर्ण्य,

पुनः =  द्वितीयवारं,

ततः=  पूर्वार्धकथनानन्तरं,

तं=  मयासुरं प्रति,

परं=  द्वितीयं,

अध्यायं =  ग्रन्थम् । ग्रन्थस्योत्तरखण्डमित्यर्थः,

अस्य =  पूर्वखण्डस्य,

रहस्यं =  गोप्यत्वेन तत्त्वभूतं,

हि =  निश्चयेन,

प्राह =  उवाच । प्रकर्षणावददित्यर्थः ॥ 10 ॥


अथ सूर्यांशपुरुषवचनानुवादे सूर्यांशपुरुषो मयासुरं प्रति

मदुक्तं सावधानतया श्रोतव्यमित्याह—

शृणुष्वैकमना भूत्वा गुह्यमध्यात्मसंज्ञितम् ॥

प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम ॥ 11 ॥

। मम=  सूर्यांशपुरुषस्य,

अतिभक्तानां=  अत्यन्त मद्भजन कारकाणाम्,

अदेयम् =  अदातव्यं वस्तु,

न विद्यते=  न वर्तते । अतिभक्तानां सर्वमेव देयमित्यर्थः । अतः कारणाददं त्वां प्रति,

गुह्यं=  गोप्यं स्वतो ज्ञातुमशक्यत्वात् । अत‌एव,

अध्यात्मसंज्ञितम् =  अध्यात्मज्ञानसंज्ञम् । यथात्मज्ञानमतिकाठिनं तथेदमित्यर्थः । उपदेशमात्रगम्यमिति भावः ।

प्रवक्ष्यामि=  कथयिष्यामि । तत्त्वम्,

एकमना भूत्वा=  एकस्मिन्मनो विद्यते यस्यासौ । एकचित्तो भूत्वेत्यर्थः,

शृणुष्व = श्रोत्रद्वारात्मनः संयोगेन प्रत्यक्षं कुर्वित्यर्थः ॥ 11॥


गुह्यं वक्ष्यामीति तदुक्तञ्चाह—

वासुदेवः परं ब्रह्म,  तन्मूर्तिः पुरुषः परः ।

अव्यक्तो निर्गुणः शांतः,  पञ्चविंशात्परोऽव्ययः ॥ 12.12 ॥


प्रकृत्यंतर्गतो देवो,  बहिरंतश्च सर्वगः ।

संकर्षणोऽपः सृष्ट्वादौ,  तासु वीर्यमवासृजत् ॥ 12.13 ॥


तदण्डमभवद्धैमं,  सर्वत्र तमसावृतम् ।

तत्रानिरुद्धः प्रथमं,  व्यक्तीभूतः सनातनः ॥ 12.14 ॥


हिरण्यगर्भो भगवा, नेष छंदसि पठ्यते ।

आदित्यो ह्यादिभूतत्वात्,  प्रसूत्या सूर्य उच्यते ॥ 12.15 ॥


परं ज्योतिस्तमः पारे,  सूर्योऽयं सवितेति च ।

पर्येति भुवनानेष,  भावयन्भूतभावनः ॥ 12.16 ॥


प्रकाशात्मा तमोहंता,  महानित्येष विश्रुतः ।

ऋचोऽस्य मंडलं सामा, न्युस्रा मूर्तिर्यजूंषि च ॥ 12.17 ॥


त्रयीमहोऽयं भगवान्,  कालात्मा कालकृद्विभुः ।

सर्वात्मा सर्वगः सूक्ष्मः,  सर्वमस्मिन् प्रतिष्ठितम् ॥ 12.18 ॥


रथे विश्वमये चक्रं,  कृत्वा संवत्सरात्मकम् ।

छंदांस्यश्वाः सप्त युक्ताः,  पर्यटत्येष सर्वदा ॥ 12.19 ॥


त्रिपादममृतं गुह्यं,  पादोऽयं प्रकटोऽभवत् ।

सोऽहंकारं जगत्सृष्ट्यै,  ब्रह्माण मसृजत् प्रभुः ॥ 12.20 ॥


वासुदेवः=  वसत्यस्मिन् जगत्समस्तमसौ वा जगति समस्ते

वसतीति वासुः । देवनाद्भासनाद्देवः । वासुश्चासौ देवश्च वासुदेवः । तथा चोक्तम् । सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । अतोऽसौ वासुदेवाख्यो विद्वद्भिः परिगीयते । इति,

परब्रह्म=  परं सर्वोत्तम ब्रह्म । जीवानामपि ब्रह्मात्मकतया । तद्वारणाय परमिति सर्वोत्तममित्यर्थकम् ।

तन्मूर्तिः =  वासुदेवस्य मूर्तिरंशः,

पुरुषः परः=  पुरुषोत्तम इत्यर्थः ।

अव्यक्तः=  अतीन्द्रियः,

निर्गुणः= निर्मताः गुणाः सत्त्वरजस्तमांसि यस्मात्सः प्रकृतरेव गुणसम्बन्धात् ।

शान्तः=  रागद्वेषादिरहितः,

पञ्चविंशात् =  पञ्चविंशतितत्त्वात् । षोडश विकृतयः, सप्त प्रकृतिविकृतयो, मूलप्रकृतिश्चेति चतुर्विंशतितत्त्वानि पञ्चविंशस्तु जीवस्तस्मादित्यर्थः ।

परः=  अतिरिक्तः,

अव्ययः=  क्षयरहितः । नित्य इत्यर्थः ।

प्रकृत्यन्तर्गतः=  मायोपहित सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । सान्तर्गता परावर्तिनी यस्य पुरुषाधिष्ठिताया एव तस्याः सृष्ट्यादौ प्रवर्तनात् । यतः प्रकृतिरचेतना पुरुषश्चेतन इति ।

देवः=  दीव्यतीति देवः,

बहिरन्तश्च सर्वगः= जगदुपादानत्वात्सर्वव्यापक एवंभूतः,

सङ्कर्षणः=  वासुदेवांशः,

आदौ=  प्रथमम् । सृष्ट्यादावित्यर्थः,

अपः=  पयांसि सृष्ट्वा निर्माय,

तासु=  अप्सु,

वीर्यम्=  सत्त्वविशेषम्,

अवासृजत् =  चिक्षेप ।

तत्=  वीर्य,

हैम=  सौवर्णम्,

अण्डं=  गोलाकारं,

सर्वत्र =  बहिरन्तश्च,

तमसा=  अन्धाकारेरणा,

आवृतम् =  आच्छादितम्,

अभवत् =  अन्धकारसहिताकाशे सुवर्णाण्डमजनीत्यर्थः ।

तत्र=  अण्डमध्ये,

प्रथमं=  पूर्वं,

सनातनः=  नित्यः,

अनिरुद्धः=  अनिरुद्धाख्यः पुरुषः,

व्यक्तीभूतः=  अभिव्यक्तः । नतत्पन्नः । सत्कार्यवादाभ्युपगमात् । यथा तिलेभ्यस्तैलं सदैवाभिव्यक्तं न तूत्पन्नम् ।

एषः=  सङ्कर्षणांशोऽनिरुद्धः,

भगवान् =  षडैश्वर्यसम्पन्नःः,

छन्दसि=  वेदे


,

हिरण्यगर्भः=  हिरण्यगर्भ इति नाम्ना,

पठ्यते=  अभिधीयते। सुवर्णाण्डमध्यरूपगर्भे स्थितत्वात् । वेदेऽस्य हिरण्यगर्भ इति प्रसिद्ध मभिधान्तरमित्यर्थः,

हि =  निश्चयेन,

प्रादिभूतत्वात् =  सर्वेषां प्रथममभिव्यक्तत्वात्,

आदित्यः =  अयं आदित्य इति नाम्नोच्यते ।

प्रसूत्या =  सर्वेषां प्रसवस्थानतया,

सूर्यः=  सूयतेऽस्माजगदिति सूर्यः,

उच्यते=  कथ्यते । “हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्’ इति श्रुतिः ।

अयम् =  अनिरुद्धः,

परं=  सर्वस्मादुत्कृष्टं,

ज्योतिः=  तेजोभाः,

सूर्यः=  सूर्यशब्दवाच्यः ।

तमः पारे =  तमसोंऽधकारस्य विरामे वर्तमानत्वात्,

सवितेति च=  सवितेति नाम्नोच्यते । सवितृशब्दवाच्यो भवतीत्यर्थः । "आदित्यवर्णं तमसः परस्तात्" इति श्रुतिः ।

एषः =  सविता,

भूतभावनः=  भूतानां स्थावरजङ्गमात्मकानां भावन उत्पत्तिस्थितिसंहारकारकः,

भुवनानि=  लोकान्,

भावयन् =  प्रकाशयन्,

पर्येति=  अहोरात्र पर्यटति ।

एषः=  अनिरुद्धाख्यः,

प्रकाशात्मा=  प्रकाशमानत्वात्प्रकाशात्मा तथा,

तमोहन्ता=  अन्धकारस्य नाशकत्वात्तमोहन्ता । अत एव,

महान् =  महत्तत्त्वम् ।

इति=  नाम्ना,

विश्रुतः=  वेदपुराणादौ निरुक्तः ।

अस्य =  सूर्यस्य,

ऋचः=  ऋग्वेदमन्त्राः,

मण्डलं=  तेजोविशेषपिण्डं,

सामानि=  सामवेदमन्त्राः,

उस्राः =  किरणाः,

यजूंषि=  यजुर्वेदमन्त्राः,

मूर्तिः =  स्वरूपम्,

च=  समुच्चये । अत एवं,

अयं =  निरुक्तः,

भगवान् =  षड्गुणैश्वर्यसंपन्नः,

त्रयीमयः=  वेदत्रयात्मकः, कालात्मा=  कालरूपस्तदुदयादिनैव कालपरिगणनात् । अत एव,

कालकृत् =  कालस्याहोरात्रादेः कर्ता,

विभुः=  ईश्वरःअत एव,

सर्वगः=  सर्वत्र स्थितो व्यापकः,

सर्वात्मा=  जग स्वरूपः,

सूक्ष्मा =  अव्यापकमूर्तिधारी । सर्वगोऽपि सूक्ष्मत्वान्नोप लभ्यत इत्यर्थः ।

अस्मिन् =  निरुक्तसूर्ये,

सर्वं=  जगत्,

प्रतिष्ठितं =  स्थितम् सर्वाधारक इत्यर्थः ।

विश्वमये=  संसारात्मके,

रथे=  स्यन्दने,

संवत्सरात्मकं=  वर्षात्मकं,

चक्रं =  रथाङ्गं कालचक्रं,

सप्त छन्दांस्यश्वाः=  सप्त सप्तसंख्याकानि छन्दांसि गायत्त्र्युष्णिगनुष्टुप्बृहतीपंक्तित्रिष्टुंब्जगत्योऽश्वास्तुरङ्गमाः,

युक्ताः=  संयोजिताः,

कृत्वा=  नियोज्य,

एषः=  अनिरुद्धनामा,

सर्वदा=  नित्यं,

पर्यटति =  भ्रमति ।

त्रिपादं=  वेदात्मनस्त्रिचरणम्,

अमृतं=  दिवि ज्ञेयम् । अत एव,

गुह्यम् =  अग म्यमिदम्,

अयं=  स्थावरजङ्गमात्मकजगद्रूपः,

पादः=  चतुर्थचरणः,

प्रकटः =  प्रत्यक्षः,

अभवत् =  बभूव । ’त्रिपादूर्ध्वमुदैत्पुरुषः पादोऽस्येहाभवात्पुनः’ इति श्रुतिरपि व्यक्ता ।

सः=  अनिरुद्ध नामा,

प्रभुः=  उत्पत्तिसमर्थः,

जगत्सृष्ट्यै=  जगत्सर्जननिमित्तम्,

अहंकारम् =  अहङ्कारतत्त्वरूपं,

ब्रह्माणं =  पुरुषम्,

असृजत् =  उत्पादयामास ॥ 12 । 13 । 14 । 15 । 16 । 17 । 18 । 16 । 20॥

अथोत्पादितब्रह्मपुरुषं जगत्सर्जनार्थ नियुज्य स्वयं भ्रम,

नवतिष्ठत इत्याह—

तस्मै वेदान् वरांदत्त्वा,  सर्वलोकपितामहम् ।

प्रतिष्ठाप्याण्डमध्येऽथ,

स्वयं पर्येति भावयन् ॥ 12.21 ॥

। अथ =  ब्रह्मोत्पादनानन्तरं,

स्वयम् =  अनिरुद्धनामा,

तस्मै=  उत्पादितब्रह्मपुरुषाय,

वरान् =  श्रेष्ठान्,

वेदान् =  चत्वारो वेदान्,

दत्त्वा =  अर्पयित्वा,

सर्वलोकपितामहं =  सर्वलोकानां पितामहरूपं तं ब्रह्माणम्,

अण्डमध्ये=  सुवर्णाण्डमध्ये,

प्रतिष्ठाप्य=  निधाय,

भावयन् =  जगत्प्रकाशयन्सन्,

पर्येति=  स्वयं तदण्डमध्यगतो भ्रमति ॥ 21 ॥ ।


अथ जातसृष्टीच्छो ब्रह्मा चन्द्रसूर्यावस्मात्प्रत्यक्षा

वुत्पादयामासेत्याह—

अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्तिभृत् ॥

मनसश्चन्द्रमा जज्ञे मूर्योऽक्ष्णोस्तेजसां निधिः ॥ 22 ॥

अथ =  अधिकारप्राप्त्यनन्तरम्,

अहङ्कारमूर्तिभृत् =  अहङ्कारतत्वमार्तिधारकं,

ब्रह्मा=  सर्वलोकापितामहा,

सृष्ट्यां= 

सृष्ट्युत्पादने,

मनः=  अन्तःकरणं,

चक्रे=  करोतिस्म । ब्रह्मणोऽहं सृष्टिं करोमीतीच्छा जातेत्यर्थः । अनन्तरं,

मनसः=  ब्रह्मणो मनसः सकाशात्,

चन्द्रमा=  इन्दुः,

जज्ञे=  उत्पन्नः । चन्द्रो भवत्विति मनसा सलिलात्मकश्चन्द्रो जात इत्यर्थः ।

अक्षणोः=  नेत्राभ्यां सकाशात्,

तेजसां निधिः =  तेजःपुञ्जः,

सूर्यः =  रविरुत्पन्नः ॥ 22 ॥

अथ महाभूतोत्पत्तिमाह—

मनसः खं ततो वायुरग्निरापो धरा क्रमात् ॥

गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे ॥ 23 ॥

ततः =  अनन्तरं,

मनसः=  ब्रह्मणो मनसः,

खम् =  आकाशं,

ततः=  आकाशात्,

वायु=  पवनः । वायोः सकाशात्,

अग्निः =  वह्निः । वह्नेः,

आपः =  जलम् । जलाद्,

धरा=  भमिरुत्पन्ना । एतानि,

पञ्च=  पञ्चसंख्याकानि,

महाभूतानि=  तत्वानि,

क्रमात् =  यथोत्तरं,

गुणैकवृद्ध्या =  गुणस्यैकोपचयेन,

जज्ञिरें=  उत्पन्नानि ।

एव=  एवकारान्न्यूनाधिकव्यवच्छेदः । शब्दैकगुणमाकाशम् । शब्दस्पर्शगुणवान्वायुः । शब्दस्पर्शरूपगुणात्मकं तेजः । शब्दस्पर्शरूपरसात्मकगुणचतुष्टययुतं जलम् । शब्दस्पर्शरूपरसगन्धगुणा पृथ्वी जातेति भावः ॥ 23 ॥


अथ चन्द्रसूर्ययोः स्वरूपं वदन्पञ्चताराणामुत्पत्तिमाह—

अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः॥

तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे ॥ 24॥

भानुचन्द्रौ =  सूर्यचन्द्रौ,

अग्नीषोमौ=  वहिजल गोलात्मको जातौ । सूर्योऽग्निस्वरूपस्तेजोगोलकरचाक्षुषत्वात् । चन्द्रस्तुसोमस्वरूपः, मद्यस्य सोमवाच्यत्वाजलगोलरूपः । अग्नीषोमाविति प्रयोगरछान्दसिकः ।

ततः= अनन्तरं,

तेजोभूखाम्बुवातेभ्यः=  अग्निभूम्यम्बरजलपवनेभ्यः,

क्रमशः=  क्रमात्,

अङ्गारकादयः=  भौमादयः,

पञ्च=  पञ्चताराग्रहाः,

जज्ञिरे=  उत्पन्नानि । तेजसो भौमः, पृथिव्या बुधः, आकाशाद्गुरुः, अद्भ्यः शुक्रः, वायोः शनिरुत्पन्न इत्यर्थः ।

तु=  तुकारादुक्तभूतस्य भागाधिक्यमन्यभूतानां भागसाम्य मित्यर्थः ॥ 24 ॥


अथ राशि नक्षत्राणि चाह—

पुनर्द्वादशधात्मानं व्यभजद्राशिसंज्ञकम् ॥

नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी ॥25॥


पुनः =  अनन्तरम्,

आत्मानं =  मनःकल्पितं वृत्तं,

द्वादशधा=  द्वादशस्थानेषु,

राशिसंज्ञकं=  मेषादिद्वादशराशिसंज्ञक,

व्यभजत् =  चकारेत्यर्थः ।

भूयः=  द्वितीयवारं,

वशी=  इच्छाविषयं वशं विद्यते यस्येति वशी, ब्रह्मा,

नक्षत्ररूपिणं =  अश्विन्यादिनक्षत्ररूपिणं,

सप्तविंशात्मकं =  सप्तविंशतिविभागात्म कमकरोत् । वशी ब्रह्मा द्वादशधा मेषादिराशिरूपोजातस्तत आत्मानमश्विन्यादि सप्तविंशतिनक्षत्ररूपं चकारेत्यर्थः ॥ 25 ॥


अथ चराचरं जगदकरोदित्याह—

ततश्चराचरं विश्वं निर्ममे देवपूर्वकम् ॥

ऊर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्यः प्रकृतीः सृजन् ॥26॥

अथ ततः=  भचक्रसर्जनानन्तरम्,

ऊर्ध्वमध्याधरेभ्यः=  श्रेष्ठमध्याधमेभ्यः,

स्रोतोभ्यः=  व्यक्तिभ्यः,

प्रकृती= सत्त्वरजस्तमोविभेदात्मिकाः,

सृजन् =  निर्मायन्,

देवपूर्वकं =  देवमनुष्यासुरादिकं,

विश्वं=  जगत्,

चराचरं =  चेतनाचेतनात्मकं,

निर्ममे=  कृतवान् ॥ 26 ॥

अथ रचितपदार्थानामवस्थानं कृतवानित्याह—

गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात् ॥

विभागंकल्पयामास यथास्वं वेददर्शनात् ॥ 25

। गुणकर्मविभागेन=  पूर्वकल्पे येन यादृशं सदसत् कृतं तस्य यादृशा गुणाः सत्वरजस्तमोरूपास्तदनुसारेण,

प्राग्वदनुक्रमात्=  चन्द्रसूर्यादिप्रागुक्तसृष्टिरचनानुक्रमात्,

सृष्ट्वा =  देवमनु ष्यासुरभूमिपर्वतादिकचराचरसर्जनं कृत्वा,

वेददर्शनात्=  वेदोक्तप्रकारात्,

यथास्वं=  यथादेशं यथाकालं,

विभागम् =  अवस्थानविभागं,

कल्पयामास =  कृतवान् ॥ 27 ॥

केषामित्याह—

ग्रहनक्षत्रताराणां भूमेर्विश्वस्य वा विभुः॥

देवासुरमनुष्याणां सिद्धानां च यथाक्रमम् ॥ 28

। विभुः=  समर्थः,

ग्रहनक्षत्रताराणां=  खेटर्क्षत्रताराणां,

भूमेः=  पृथिव्याः,

विश्वस्य=  त्रैलोक्यस्य,

वा=  वा

समुच्चये,

देवासुरमनुष्याणां=  देवदानव नराणां,

सिद्धानां= 

विद्याधरादिकानां,

च=  चकारः समुच्चये,

यथाक्रमं=  यथायोग्य मवस्थानं कृतवान् ॥ 28 ॥


अथावस्थानं ब्रह्माण्डाकाशे कृतमित्यत आह—

ब्रह्माण्डमेतत्सुषिरं तत्रेदं भूर्भुवादिकम् ॥

काहद्वितयस्यैव सम्पुटं गोलकाकृतिः ॥ 26 ॥

एतत् =  प्रागुक्तं,

ब्रह्माण्डं =  ब्रह्मणाधिष्ठितं सुवर्णाण्डं,

सुषिरम्=  अवकाशात्मकं,

तत्र=  अवकाशे,

इदं =  जगत्,

भूर्भुवादिकं=  भूर्भुवःस्वर्गात्मकमवस्थितं न बहिः । अस्य स्वरूप माह,

कटाहद्वितयस्य=  कटाहोऽर्धगोलाकारं सावकाशं पात्रं तस्य द्वितयं तस्य,

एव=  एवकारो न्यूनाधिकव्यवच्छेदकार्थः ।

सम्पुटम् =  आभिमुख्येन मिलितं,

गोलकाकृतिः=  गोलाकारः स्यात् ॥ 21 ॥


अथ ब्रह्माण्डान्तःपरिधि वदस्तदन्तर्भग्रहादिकमाकाशे

यथास्थानं भ्रमतीत्याह—

ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते ॥

तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा ॥30॥ मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दुजेन्दवः॥

परिभ्रमन्त्यधोऽधस्थाः सिद्धविद्याधरा घनाः॥31॥

ब्रह्माण्डमध्ये=  ब्रह्माण्डान्तः,

परिधिः=  वृत्तमानं,

व्योमकक्षा=  आकाशकक्षा,

अभिधीयते=  उच्यते ।

तन्मध्ये=  ब्रह्माण्डमध्ये,

भानां=  नक्षत्राणां,

भ्रमणं =  गमनं भवति ।

तथा=  तद्वत्,

अधोऽधः=  नक्षत्रकक्षाया अधोऽधः,

क्रमशः=  क्रमात्,

मन्दामरेज्यभूपुत्रसूर्यशुक्रेन्दु जेन्दवः=  शनिगुरुभौमार्कभृगुबुधचन्द्राः,

परिभ्रमन्ति=  भ्रमणं कुर्वन्तीत्यर्थः ।

सिद्धविद्याधरा घनाः=  सिद्धविद्याधरा मेघाश्च,

अधस्थाः =  चन्द्रादधः क्रमेणाकाशेऽवस्थिताः सन्ति ॥ 30॥31॥


अथ भूम्यवस्थानमाह—

मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥

विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥32॥

। अण्डस्य=  ब्रह्माण्डस्य,

समन्तात्=  सर्वप्रदेशात्,

मध्ये=  मध्यस्थाने केन्द्ररूपे,

व्योम्नि=  आकाशे,

भूगोल=  पृथ्वी मण्डलः,

तिष्ठति=  स्थितोऽस्तीत्यर्थः । किंविशिष्टो भूगोलः,

ब्रह्मणः=  ईश्वरस्य,

धारणात्मिका=  निराधारावस्थानरूपां,

परमाम् =  उत्कृष्टां,

शक्ति=  सामर्थ्यविशेषं,

विभ्राणः=  धारयन् । एतेन भूः किमाकारा किमाश्रयेति प्रश्नद्वयमुत्तरितम् ॥32 ॥

अथ ’कथं चात्र सप्त पातालभूमय’ इति प्रश्नस्योत्तरमाह—

तदन्तरपुटाः सप्त नागासुरसमाश्रयाः॥

दिव्यौषधिरसोपेता रम्याः पातालभूमयः ॥ 33 ॥

रम्याः =  रमणीयाः,

दिव्यौषधिरसोपेताः=  दिव्या या‌ओषधयः स्वप्रकाशास्तासां रसैर्युक्ताः,

नागासुरसमाश्रयाः=  नागा वासुकिप्रमुखादयः सर्पाः असुराः दैत्या एषामाश्रयो येषु सन्तीत्ये तादृशाः,

सप्त=  सप्तसङ्ख्याकाः,

पातालभूमयः=  पातालप्रदेशाः । अतलवितलसुतलादिकाः,

तदन्तरपुटाः=  तस्य भूगोलस्या न्तरपुटा मध्यस्थपुटा गुहारूपाः सन्ति ॥ 33 ॥


अथ मेरोरवस्थानमाह—

अनेकरत्ननिचयो जाम्बूनदमयो गिरिः॥

भूगोलमध्यगो मेरुरुभयत्र विनिर्गतः ॥ 34॥

। अनेकरत्ननिचयः=  अनेकानि नानाविधानि माणिक्यवज्रादीनि तेषां निचयः समूहो यत्रासौ बहुविधरत्नपूरित इत्यर्थः,

जाम्बूनदमयः=  स्वर्णमयः,

मेरुः=  मेरुनामाख्यः,

गिरिः=  पर्वतः,

भूगोलमध्यगः=  भूगोलस्य मध्यप्रदेशगतः,

उभयत्र= भूगोलस्योभयत्र,

विनिर्गतः=  बहिः स्थितदण्डाकारस्वर्णाद्रिमध्ये भूगोलः प्रोतस्तिष्ठतीत्यर्थः, अत‌एव भूभृदित्यन्वर्थसंज्ञेति तात्पर्यार्थः ॥34॥


अथ मेरौ देवादीनां निवासस्थानमाह—

उपरिष्टात् स्थितास्तस्य,  सेंद्रा देवा महर्षयः ।

अधस्तादसुरास्तद्व, द्द्विषंतोऽन्योन्यमाश्रिताः ॥ 12.35 ॥

तस्य =  मेरोः,

उपरिष्टात् =  उपरिभागे उत्तरध्रुवादधो भाग इत्यर्थः ।

सेन्द्राः =  इन्द्रेण संहिताः,

देवाः=  अमराः,

महर्षयः=  मुनयश्च,

स्थिताः=  तिष्ठन्ति,

अधस्ताद्=  अधोभागे दक्षिणध्रुवाधोभागे,

असुराः=  दैत्याः,

तद्वत् =  यथोर्ध्वभागे देवास्तद्वदित्यर्थः ।

आश्रिताः=  आस्थिताः सन्ति । ते देवदैत्याः,

अन्योन्यं=  परस्परं,

द्विषन्तः =  द्वेषं कुर्वन्तस्तत्रतिष्ठन्तीत्यर्थः ॥ 35 ॥


अथ भूगोले समुद्रावस्थानमाह—

ततः समन्तात्परिधिः क्रमेणायं महार्णवः ॥

मेखलेव स्थितो धात्र्या देवासुरविभागकृत् ॥ 36॥

ततः=  मेरुगिरेः सकाशात्,

समन्तात्=  अभितः,

परिधिः=  परिधिरूपः,

देवासुरविभागकृत् =  देवासुराणां विभागयोः सीमीभूतः,

अयं=  प्रत्यक्षः,

महार्णवः =  लवणसमुद्रः, 

क्रमेण=  निरन्तरालक्रमेण,

धात्र्याः =  भूम्याः,

मेखलेव=  काञ्चीव ।

स्थितः =  तिष्ठति तेन समुद्रादुत्तरं भूगोलस्याध जम्बूद्वीपं देवानाम्,

दाक्षिणं भूगोलस्यार्धं दैत्यानामिति सिद्धम् । मेरुदण्डानुरुद्धभूगोलमध्ये परिधिरूपो लवणसमुद्रोऽस्तीति फलितार्थः ॥ 36 ॥


अथ समुद्रोत्तरतटे चत्वारि नगराणि सन्तीत्याह—

समन्तान्मेरुमध्यात् तुल्यभागेषु तोयधेः॥

दीपेषु दिक्षु पूर्वादि नगर्यो देवनिर्मिताः ॥ 37॥

मेरुमध्यात्=  दण्डाकारमेरोर्मध्यप्रदेशात् । भूगोलगर्भात्मकात्यर्थः,

समन्तात् =  अभितः,

तोयधेः=  भूमेर्वलयाकारेण स्थितजलधेः,

दिक्षु =  चतुर्षु दिक्षु,

तुल्यभागेषु=  समानभागेषु द्वीपेषु जम्बूद्वीपारम्भेषु,

देवनिर्मिताः=  देवैः कृताः,

पूर्वादि गिर्यः =  मेरोः पूर्वदक्षिणपश्चिमोत्तरदिक्षु चत्वारो नगर्यः सन्ति॥37॥


अथासां स्थितिमाह—

भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता ॥

भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥38॥

याम्यायां भारते वर्षे लङ्का तद्द्वन्महापुरी ॥

पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता ॥36॥

उदक्सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता ॥

तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः॥40॥

पूर्वस्यां =  पूर्वदिशि,

भूवृत्तपादे =  भूपरिधिचतुर्भागे,

भद्राश्ववर्षे =  भद्राश्वसंज्ञकवर्षे,

स्वर्णमाकारतोरणा=  सुवर्णनिर्मिताः प्रासादास्तोरणानि च यस्यामेतादृशी,

नगरी=  पुरी,

यमकोटीति =  यमकोटिनाम्ना,

विश्रुता =  विख्याता ।

याम्यायां=  दक्षिणस्यां दिशि,

भारते वर्षे=  भारतसंज्ञकवर्षे ।

तद्वत् =  स्वर्णप्राकारतोरणा,

लङ्का=  लङ्कासंज्ञा,

महापुरी= महानगरी विख्याता,

पश्चिमे=  पश्चिमस्यां दिशि,

केतुमालाख्ये=  केतुमालसंज्ञकवर्षे,

रोमकाख्या=  रोमकसंज्ञा नगरी,

प्रकीर्तिता=  उक्ता ।

उदक् =  उत्तरस्यां दिशि,

कुरुवर्षे =  कुरुसंज्ञकवर्षे,

सिद्धपुरी नाम =  सिद्धपुरीसंज्ञा,

प्रकीर्तिता =  कथिता ।

तस्यां =  सिद्धपुर्यो,

गतव्यथाः=  दुःखरहिताः,

सिद्धाः=  योगाभ्यासरताः,

महात्मानः=  अस्मदादिभ्यो महानुत्कृष्ट आत्मा येषां ते । देवसदृशा इत्यर्थः,

निवसन्ति=  निवासं कुर्वन्ति ॥ 38 ।

39 । 40 ॥


अथोक्तानां चतुर्णां पुरीणां परस्परमन्तरालमव्यवहितं

मेरोरासामन्तरञ्चाह—

भूवृत्तपादविवरास्ताश्चान्योन्यं प्रतिष्ठिताः॥

ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः ॥41॥

ता=  उक्तनमर्यः,

अन्योन्यं=  परस्परं,

भूवृत्तपाद विवराः =  भूपरिधिचतुर्थांशान्तरालः,

प्रतिष्ठिताः =  स्थिताः सन्तीत्यर्थः ।

च=  चकारः समुच्चयार्थकः ।

ताभ्यः=  उक्तपुरीभ्यः सकाशात्,

उत्तरगः=  उत्तरदिक्स्थः,

सुराश्रयः=  देवैरधिष्ठितः,

मेरुः=  पूर्वोक्तः,

तावान् =  भूपरिधिचतुर्थांशान्तरेण स्थित इत्यर्थः ।

एव =  एवकारो न्यूनाधिकव्यवच्छेदार्थकः ॥ 41॥


अथ तेषां पुराणां निरक्षत्वमस्तीत्याह—

तासामुपरिगो याति विषुवस्थो दिवाकरः॥

न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते ॥ 42 ॥

विषुवस्थः =  विषुववृत्तस्थः सायनमेषतुलादिगत इत्यर्थः ।

दिवाकरः=  सूर्यः,

तासाम् =  उक्तपुरीणाम्,

उपरिगः=  उर्ध्वगः सन्,

याति=  गच्छति । अर्थात्ताश्चतस्रो नगर्यः विषुववृत्तस्य धरातले सन्ति । अतः कारणात्,

तासु=  नगरीषु,

विषुव च्छाया=  अतच्छाया,

न=  न भवति ।

अक्षस्य=  अक्षध्रुवस्य,

उन्नतिः=  उच्चता,

नेष्यते =  नाङ्गीक्रियते । अक्षांशाभावान्निरक्षदेशत्वं तेषां सिद्धमिति भावः ॥ 42 ॥


अथ ध्रुवस्थितिमाह—

मेरोरुभयतो मध्ये ध्रुवतारे नभःस्थिते ॥

निरक्षदेशसंस्थानामुभये क्षितिजाश्रये ॥ 43 ॥

मेरोः=  दण्डाकारमेरोः,

उभयतः=  उभयपार्श्वयोरुपरिः देवभागे दैत्यभागे चेत्यर्थः,

नभःस्थिते=  आकाशस्थिते,

ध्रुव तारे=  दक्षिणोत्तरे तारे क्रमेण,

मध्ये=  आकाशमध्ये भवतः ।

निरक्षदेशसंस्थानां=  प्रागुक्तनगरस्थितमनुष्याणाम्,

उभये=  दक्षिणोत्तरे ध्रुवतारे,

क्षितिजाश्रये =  तद्भूगर्भक्षितिजवृत्तस्थे भवत इत्यर्थः ॥ 43 ॥


अथ लम्बांशाक्षांशयोः परमत्वमाह—

अतो नाक्षोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः॥

नवतिलम्बकांशास्तु मेरावक्षांशकास्तथा ॥ 44॥

अतः=  उभये क्षितिजाश्रय इति कारणात्,

तासु=  उक्तनगरीषु,

अक्षोच्छ्रयः=  ध्रुवौच्यं,

न=  नास्ति । क्षितिजाद्धृवौच्यमक्षंशा इति ध्रुवोन्नतरभावादक्षांशाभाव इति भावः ।

लम्बका शास्तु =  लम्बांशास्तु,

नवतिः=  नवतिसंख्याकाः सन्ति । शून्याक्षांशोननवतेर्लम्बांशत्वात् ।

मेरौ=  मेरुगिरौ, अक्षांशाः पलांशाः,

तथा=  नवतिः । ध्रुवस्य परमोच्चत्वात् । यथा निरक्षदेश ऽक्षांशाभावाल्लम्बांशाः परमास्तथा मेरावक्षांशपरमत्वाल्लम्बांशाभाव इत्य

र्थसिद्धम् ॥ 14 ॥

अथ देवदानवयोर्दिनारम्भमाह—

मेषादौ देवभागस्ते देवानां याति दर्शनम् ॥

असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः ॥ 45 ॥

देवभागस्थे =  देवभागं निरक्षदेशादुत्तरभूगोलार्धं तत्र,

मेषादौ =  मेषादिप्रवेशे,

देवानां =  मेरोरुत्तराग्रवर्तिनां,

सूर्यः=  अर्कः,

दर्शनं =  प्रथमदर्शनं,

याति=  गच्छति । मेषादिस्थे सूर्ये देवानां दिनारम्भो भवतीत्यर्थः,

असुराणां =  दैत्यानां,

तुलादौ=  तुलादिप्रवेशे,

तद्भागसञ्चरः=  दानवभागे दक्षिणभूगोलाधः सञ्चरो गमनं यस्येत्येतादृशः सूर्यः दर्शनं याति । तुलादिस्थे सूर्ये दैत्यानां दिनोदयं भवतीत्यर्थः ॥ 45 ॥


अथ ग्रीष्मे तीव्रकर इत्याद्यथोक्तप्रश्नस्योत्तरमाह—

अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः ॥

देवभागे सुराणां तु हेमन्ते मन्दतान्यथा ॥ 46॥

,

तेन=  उत्तरदक्षिणगोलयोः सूर्यस्य सञ्चाररूपकारणेन,

ग्रीष्मे= ,

ग्रीष्मौ,

रवेः =  सूर्यस्य,

देवभागे =  उत्तरगोले,

अत्यासन्न तया=  अत्यन्तनिकटस्थत्वेन,

सुराणां =  देवानां,

तीवकराः=  तीव्ररश्मयो भवन्ति ।

हेमन्ते =  हेमन्तर्तौ,

अन्यथा=  सूर्यस्य दूरास्थितत्वेन,

मन्दता =  अत्युष्णताभावो भवति ॥ 46॥ ।


अथ मेषादौ देवभागस्थ इत्युक्तं देवासुराहोरात्र

कथनव्याजेन विशदयति—

देवासुरा विषुवति क्षितिजस्थं दिवाकरम् ॥

पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षये ॥47॥

। विषुवति =  विषुवद्दिने,

देवासुराः =  देवदानवाः,

क्षितिजस्थं =  क्षितिजवृत्तस्थितं,

दिवाकरं =  सूर्य,

पश्यन्ति =  अवलोकनं कुर्वन्ति । देवाः विषुवति मेषादौ क्षितिजस्थं सर्यमुद्यन्तं पश्यन्ति, दैत्या अस्तं गच्छन्तं पश्यन्ति । तुलादौ विषुवति देवा अस्तं यातमर्कं पश्यन्ति, असुराः उद्यन्तं पश्यन्तीति भावः । अतः,

एतेषाम् =  देवदैत्यानाम्,

अन्योन्यं=  परस्परं,

वामसव्ये =  अपसव्यसव्ये,

दिनक्षये =  दिवसरात्री भवतः ॥ 47 ॥


अथ पूर्वश्लोकस्य सन्दिग्धत्वशङ्कया दिनपूर्वापरार्ध कथनच्छलेन तदर्थे विशदयति—

मेषादावुदितः सूर्यस्त्रीन्राशीनुदगुत्तरम् ॥

सञ्चरन्प्रागहर्मध्यं पूरयेन्मेरुवासिनाम् ॥ 4 ॥

कर्कादीन्सश्चरंस्तद्वदह्नः पश्चार्धमेव सः ॥

तुलादीस्त्रीन्मृगादींश्च तददेव सुरद्विषाम् ॥ 16 ॥

मेषादौ =  विषुवद्वृत्तक्रान्तिवृत्तयोः सम्पाते रेवत्यासन्ने,

उदितः=  दर्शनतां प्राप्तः,

सूर्यः=  सविता,

उत्तरं=  यथोत्तरंक्रमेणेति यावत्,

उदक्=  उत्तरभागस्थान्,

त्रीन्राशीन् =  मेष वृषमिथुनान्,

सश्चरन् =  अतिक्रामन्सन्,

मेरुवासिनां=  देवानां,

प्रागहर्मध्यं =  प्रथम दिनस्यार्धं,

पूरयेत् =  पूर्णं करोतीत्यर्थः । मिथुनान्ते सूर्य मेरुस्थानां मध्याह्नं स्यादिति फलितार्थः,

कर्कादीन्=  कर्कादीस्त्रीनाशीन्कर्कसिंहकन्याः,

तद्वत् =  क्रमेणेत्यर्थः,

सञ्चरन् =  अतिक्रामन्सन्,

स=  सूर्यः,

अह्नः=  दिवसस्य,

पश्चार्धम् =  अपरदलं पूरयेत् ।

एव=  एवकारो न्यूनाधिकव्यवच्छेदार्थः । कन्यान्ते सूर्ये मेरुस्थानां सूर्यास्तो भवतीति फलितार्थः ।

तुलादौस्त्रीन् =  तुलावृश्चिकधनुराख्यानराशीन्,  मृगादींश्च =  मकरकुम्भमीनान् च

, तद्वत्=  क्रमेणातिक्रामन्सन्सूर्यः,

सुरद्विषां =  दैत्यानां दिनं पूरयति ।

च=  चकारेण तुलामृगादिक्रमेण पूर्वापरार्धयोः पूर्तिज्ञेया ।

एव=  एवकार उक्तातिरिक्तव्यवच्छेदार्थः । धन्वन्ते सूर्ये दैत्यानां मध्याह्नं मीनान्ते सूर्ये सूर्यास्तो भवतीति फलितार्थः ॥ 48 । 46 ॥


अथातो देवासुराणामिति प्रश्नस्योत्तरमाह—

अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात् ॥

अहोरात्रप्रमाणं च भानोर्भगणपूरणात् ॥ 50 ॥

,

अतः=  उक्तकारणात्,

तेषां=  देवदैत्यानाम्,

अन्योन्यं= 

परस्परं,

हि=  निश्चयेन,

विपर्ययात् =  व्यत्यासात्,

दिन क्षपे=  दिनरात्री भवतः । “अथ तत्कथं वा स्यात् । भानोर्भगणपूरणादिति प्रश्नस्याप्युत्तरं फलितमित्याह—,

भानोः=  सूर्यस्य


, भगणपूरणात् =  मेषादिद्वादशराशिभोगात्,

अहोरात्रप्रमाणं=  देवदानवानामहोरात्रमानं भवति ।

च=  चकारः पूर्वार्धेन समुच्चयार्थक स्तेन द्वयोः पूर्वोक्तमेकं कारणमिति स्पष्टम् ॥ 50 ॥


अथ मेषादावुदित इत्यादिश्लोकस्य फलितार्थे तदुपपत्तिं चाह—

दिनक्षपार्धमेतेषामयनान्ते विपर्ययात् ॥

उपर्यात्मानमन्योन्यं कल्पयन्ति सुरासुराः॥51॥

। एतेषां =  देवदैत्यानाम्,

अयनान्ते =  अयनसन्धौ,

विप,

र्ययात् =  व्यत्यासात्,

दिनक्षपार्धं=  दिनार्धं रात्र्यर्धं च भवति । मिथुनान्ते देवानां दिनार्धमसुराणां रात्र्यर्धं तथा धनुरन्ते सुराणां निशार्धमसुराणां दिनार्धं च स्यादिति फलितार्थः ।

सुरासुराः=  देव दानवाः,

अन्योन्यं=  परस्परम्,

आत्मानं=  स्वम्,

उपरि=  ऊर्ध्वभागे,

कल्पयन्ति =  अङ्गीकुर्वन्ति ॥ 51॥


अथ देवदैत्ययोरूर्ध्वाधोरीतिमन्यत्रापि सदृष्टान्तमतिदिशति—

अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम् ॥

भद्राश्वकेतुमालस्था लङ्कासिद्धपुराश्रिताः ॥52॥

अन्येऽपि=  देवदैत्यभिन्ना अपि,

समसूत्रस्थाः =  भूव्यासान्तरिता नराः,

भद्राश्वकेतुमालस्थाः =  भद्राश्वकेतुमालस्यान्तर्गतयमकोटिरोमकपट्टनस्थाः,

लङ्कासिद्धपुराश्रिताः=  लङ्कासिद्ध पुरीस्थिताश्च,

परस्परम् =  अन्योन्यम्,

अधः=  स्वस्मादधोभागे,

मन्यन्ते=  इष्यन्ते । मदीयमेव स्थानमुपरिस्थितमिति मन्यन्ते ॥52॥


अथोक्तकाल्पनिकमेवेति दृढयन्नाह—

सर्वत्रैव महीगोले स्वस्थानमुपरिस्थितम् ॥

मन्यन्ते खे यतो गोलस्तस्य क्वोर्ध्वक्व वाप्यधः॥53॥

,  ।

महीगोले=  भूगोले,

सर्वत्रैव=  सर्वप्रदेशेषु मध्ये,

स्वस्थानं=  निजाधिष्ठितस्थानम्,

उपरि =  ऊर्ध्वभागे,

स्थितं=  वसन्तं,

मन्यन्ते=  अङ्गीकुर्वन्ति ।

यतः=  यस्मात् कारणात् ।

गोल=  भूगोलः,

खे=  आकाशेऽस्ति ।

तस्य=  भूगोलस्य

, क्व=  कस्मिन्भागे,

ऊर्ध्वम् =  ऊर्ध्वत्त्वं,

क्व= कस्मिन्भागे,

अधोऽपि =  अधस्त्वमप्यर्थादस्य भूगोलस्य कुत्राप्यूर्ध्वाधरत्वं नास्तीति भावः ।

वा=  वा समुच्चये ॥ 53 ॥


नन्वियं भूः समा दर्पणोदराकारा प्रत्यक्षा कथं

गोलाकारेत्यत आह—

अल्पकायतया लोकाः स्वात्स्थानात्सर्वतो मुखम् ॥

पश्यन्ति वृत्तामप्येतां चक्राकारां वसुन्धराम् ॥54॥

लोकाः=  जनाः,

अल्पकायतया=  हस्वशरीरत्वेन,

स्वात्स्थानात्=  स्वकीयस्थानात्,

सर्वतः=  सर्वदिक्षु,

मुखम् =  अभिमुख,

वृत्तामपि =  गोलाकारामपि,

एतां=  प्रत्यक्षां,

वसुन्धरां =  भूमि,

चक्राकारां=  वर्तुलदर्पणोदराकारां,

पश्यन्ति=  लोकयन्ति अत्यल्पोच्चो नरः स्वस्थानात्सर्वदिक्षु पृथिव्याः शतांशादप्यल्प भाग पश्यत्यतस्तत्र भूवृत्तस्याल्पभागत्वाद्वक्रता नोपलक्ष्यते । गोलाकारां न पश्यतीत्यर्थः । तथा चोक्तं शाकल्यसंहितायाम्, ’वृत्तस्य षण्ण्वत्यंशो दण्डव दृश्यते तु सः’ इति ॥ 54 ॥

अथ देवदानवयोर्निरक्षदेशेषु च भचक्रभ्रमणमाह—

सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम् ॥

उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखः सदा ॥55॥

भूगोलाध्याय। 391

अयं =  प्रत्यक्षः,

भगोलः=  नक्षत्राधिष्ठितगोलः,

देवानां=  सुराणां,

सव्यं =  पूर्वदक्षिणादिक्रमेण,

सुरद्विषां=  दैत्यानाम्,

अपसव्यं =  पूर्वोत्तरादिक्रमेण,

भ्रमति =  अटति,

व्यक्षे= । निरक्षदेशे,

उपरिष्टात् =  मस्तकोर्ध्वमध्यभागे,

पश्चान्मुखः=  पश्चिमदिगभिमुखः,

सदा=  नित्यं भ्रमति ॥ 55 ॥


अथ निरक्षे दिनरात्र्योर्मानं कथयन्नन्यत्रापि ततो न्यूना

धिकं मानं भवतीत्याह—

अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरी तथा ॥

हानिवृद्धी सदा वामं सुरासुरविभागयोः ॥ 56 ॥

अतः =  निरक्षे मस्तकोर्ध्वे भगोलो भ्रमतीति कारणात्,

तत्र=  निरक्षदेशे नतोन्नताभावात्सदा,

त्रिंशन्नाडिकं=  त्रिंशद्घटीमितं,

दिनम् =  अहः स्यात् ।

तथा =  त्रिंशद्घटीपरिमिता,

शर्वरी=  रात्रिः स्यात् ।

सुरासुरविभागयोः =  समुद्रादुत्तरदक्षिणदेशयोः,

सदा=  नित्यं,

हानिवृद्धी =  दिनरात्र्योः क्षयवृद्धी,

वामं=  व्यस्तं स्यात् । देवांशे यदा दिनह्रासे रात्रिवृद्धिस्तदा दानवभागे रात्रि हानिर्दिनवृद्धिश्च भवति । देवांशे दिनवृद्धौ रात्रिहानिस्तदा सुराणां भागे दिनह्रासो रात्रिवृद्धिश्च भवतीति भावार्थः ॥ 56 ॥


अथैतच्छ्लोकोत्तरार्धं विशदयति—

मेषादौ तु सदा वृद्धिरुदगुत्तरतोऽधिका ॥

देवांशे च क्षपाहानिर्विपरीतं तथासुरे ॥ 57॥

तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे ।

देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम् ॥58॥

,  ।

मेषादौ =  मेषादिषड्भे,

उदक् =  उत्तरगोले सूर्ये सति,

उत्तरतः=  यथोत्तरं,

सदा=  उत्तरगोले,

देवांशे =  देवभागे,

अधिका=  यथोत्तरमधिका,

वृद्धिः=  दिनवृद्धिः।

तु=  तुकारात् निरक्षदेशाद्यथा यथा सूर्यस्योत्तरगमनं तथा तथा दिनवृद्धिः परमोत्तरगमने परमदिनवृद्धिस्ततो यथोत्तरं न्यूना वृद्धिस्ततः सूर्यस्य परावर्तनादित्यर्थः ।

क्षपाहानिः=  रात्रेरपचयो भवति ।

आसुरे =  दानवभागे,

तथा =  दिनरात्र्योः क्षयवृद्धी,

विपरीतं=  व्यस्तम् । दिने हानी रात्रौ वृद्धिरित्यर्थः ।

तुलादौ=  तुलादिषड्भे सूर्ये सति,

तयोः=  देवासुरभागयोः,

द्युनिशोः=  दिनरात्र्योः,

उभे =  द्वे,

क्षयवृद्धी=  उपचयापचयौ,

वामं =  व्यस्तम् ।तुलादिषडाशिस्थितेऽर्के देवभागे दिनरात्र्योः क्रमेण क्षयवृद्धी भवतस्त दैव दानवानां दिनरात्र्योः क्रमेण वृद्धिक्षयौ भवत इति फलितार्थः ।

तद्विज्ञानं=  तयोः क्षयवृद्धयोनि संख्याज्ञानं,

नित्यं=  प्रत्यहं,

देशक्रान्तिवशात् =  देशस्याक्षांशानां क्रान्त्यशानां च वशा,  दुभयानुरोधादित्यर्थः,

पुरा=  पूर्वखण्डे स्पष्टाधिकारे "क्रान्तिज्या विषुवद्भाघ्नी, " इत्यादिप्रकारेण दिनरात्र्योरर्धम्,

उदितम् =  उक्तम् । दिनरात्र्योर्ध्वं द्विगुणं दिनरात्र्योर्मानं भवतीत्यर्थसिद्धम् ॥ 57 । 58 ॥


क्रान्त्यंश योजनान्याह—

भवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम् ॥

अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरिस्थितः॥ 56 ॥

भूवृत्तं=  भूगोलपरिधियोजनमानं,

क्रान्तिभागघ्नं = स्वाभीष्टक्रान्त्यशैर्गुणनीयं,

भगणांशविभाजितं =  षष्ट्यधिकशत त्रयेण भक्तम्,

अवाप्त योजनैः =  लब्धयोजनैः,

व्यक्षात् =  निरक्षदेशाद्दक्षिणत उत्तरतो वा,

उपरिस्थितः=  आकाशे वर्तमानः,

अर्कः=  सूर्यः,

याति =  गच्छति । क्रान्त्यभावे तु निरक्षदेशोपर्येव परिभ्रमति ॥ 56 ॥


अथ दिनमानानयनगणितस्यावधिदेशज्ञानमाह—

परमापक्रमादेवं योजनानि विशोधयेत् ॥

भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः॥60॥

अयनान्ते विलोमेन देवासुरविभागयोः॥

नाडीषष्ट्या सकृदहर्निशाप्यस्मिन्सकृत्तथा ॥61॥

। परमापक्रमात्=  परमकान्तेः,

एवं =  पूर्वोक्तरीत्या,

,

योजनानि =  साधितयोजनानि,

भूवृत्तपादात्=  भूपरिधिचतुर्थांशात्,

विशोधयेत् =  परिवर्जयेत्,

शेषाणि=  अवशिष्टानि,

यानि =  यत्संख्यामितानि,

योजनानि =  क्रोशचतुष्टयात्मकानि,

स्युः=  भवन्ति,

तैः=  योजनैः,

देवासुरविभागयो=  निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्यौ देशौ तयोः,

अयनान्ते=  उत्तरदक्षिणायनसन्धौ,

विलोमेन =  व्यत्यासेन,

सकृत् =  एकवारं,

नाडीषष्ट्या=  घटीषष्ट्या,

अहः=  दिनमानं भवति। अस्मिन् =  एतादृशे देशे तस्मिन्नेवायनसन्धौ,

सकृत् =  एकवारं,

तथा=  घटीषष्ट्या विलोमेन,

निशा =  रात्रिर्भवति ।

अपि=  अपि शब्दो दिनेन समुच्चयार्थः । एतदुक्तं भवति । कर्कादिस्थेऽर्के निरक्षदेशादुत्तरतद्योजनान्तरितदेशे षष्टिघटीमितं दिनं तदैव निरक्षदेशा दक्षिणतयोजनान्तरितदेशे षष्टिघटीमिता रात्रिः । मकरादिस्थे सूर्ये तादृशोत्तरभागे षष्टिघटीमिता रात्रिर्दक्षिणभागे तादृशे षष्टिघटीमितं । दिनमिति ॥ 60 । 61 ॥

अथोक्तदिनरात्रिमानगणितं तवधिदेशपर्यन्तं दक्षिणोत्तर

भागयोर्नाग्र इत्याह—

तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः॥

परतो विपरीतोऽयं भगोलः परिवर्तते ॥ 62 ॥

। तदन्तरे =  निरक्षदेशोक्तावधिदेशयोरन्तराले दक्षिणोत्तरविभाग देशे,

षष्ट्यन्ते =  षष्टिघटीमध्ये,

क्षयवृद्धी=  अपचयोपचयौ,

अहर्निशोः=  दिनरात्र्योर्यथायोग्यं भवतः ।

परतः=  अवधिदेशादग्रिमदेशे देवदानवस्थाननिकटे,

अयं =  प्रत्यक्षः,

भगोलः=  नक्षत्रगोलः,

विपरीतः=  अवधिदेशान्तर्गतदेशसम्बन्धीगणितविरुद्धः,

परिवर्तते=  भ्रमति,

अपि=  अपिशब्दात्तत्रोक्तरीत्या दिनरात्र्योर्वृद्धिक्षयौ न भवत इत्यर्थः ॥ 12 ॥


अथ विपरीतगोलस्थिति प्रदर्शयति—

ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः॥

धनुर्मृगस्थः सविता देवभागे न दृश्यते ॥ 63 ॥

तथा चासुरभागे तु मिथुने कर्कटे स्थितः ॥

नष्टच्छायामहीवृत्तपादे दर्शनमादिशेत् ॥ 64 ॥

। द्विज्यापक्रमयोजनैः =  द्विराशिज्याया ये क्रान्त्यशास्तेषां योजनैः,

ऊने =  हीने,

भूवृत्तपादे=  भूपरिधिचतुर्थांशे,

धनुर्मृगस्थः=  धनुर्मकरराशिस्थः,

सविता=  सूर्यः,

देवभागे=  उत्तरभागे,

न दृश्यते =  तद्देशवासिभिर्नालोक्यते । धनुर्मकरस्थेऽर्के तेषां रात्रिः स्यादित्यर्थः ।

असुरभागे=  निरक्षदेशादक्षिणदेशे

, तु=  तुकारात्तद्योजनान्तरितप्रदेशे,

मिथुने=  मिथुनराशौ,

कर्कटे= ,

कर्कराशौ,

स्थितः =  वर्तमानः सूर्यः,

तथा =  तद्देशवासिभिर्न दृश्यते ।

, नष्टच्छायामहीवृत्तपादे=  अभावं प्राप्ता छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे,

दर्शनं =  सूर्यालोकनम्,

आदिशत् =  कथयेत्।

यत्र भूच्छायात्मिका रात्रि स्ति तत्र दिनमित्यर्थः । तथा च निरक्षदेशा त्तद्योजनान्तरितोत्तरप्रदेश कमिथुनस्थोऽर्को दृश्यते । तद्योजनान्तस्ति दक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यत इति फलितार्थः ॥ 63॥ 64 ॥

अथान्यत्रापि विपरीतस्थिति दर्शयति—

एकज्यापकमानीतैर्योजनैः परिवर्जितैः॥

भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः ॥65॥

धनुर्मृगालिकुम्भेषु संस्थितोऽर्को न दृश्यते ॥

देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये ॥ 66 ॥

एकज्यापक्रमानीतैः=  एकराशिज्यायाः क्रान्त्यशेभ्यः साधितैः,

योजनैः=  क्रोशचतुष्टात्मकैः,

भूमिकक्षाचतुर्थांशे =  भूपरिधिचतुर्भागे,

परिवर्जितैः =  शोधितैः,

व्यक्षात्=  निरक्ष देशात्,

शेषैर्योजनैः=  अवशिष्टयोजनैः,

तु=  तुकारादन्तरिते देशे,

देवभागे =  उत्तरभागे,

धनुर्मुगालिकुम्भेषु =  धनुर्मकर वृश्चिककुम्भराशिषु,

संस्थितोऽर्कः=  वर्तमानः सूर्यः,

नदृश्यते=  तद्देशवासिभिर्नालोक्यते ।

असुराणां=  दानवानां तद्योजनान्तरितदक्षिणभागे,

वृषाद्ये =  वृषादिके,

भचतुष्टये=  राशि चतुष्टये स्थितोऽर्कस्तदेशवासिभिर्न दृश्यते ।

तु=  तुकारादुत्तरभागे वृषादिचतुष्टयस्थितोऽर्कस्तद्देशवासिभिर्दृश्यते, वृश्चिकादिचतुष्टयस्थितोऽका दक्षिणभागे तद्देशवासिभिर्दृश्यत इत्यर्थः ॥ 55 । 66 ॥


अथ मेर्वग्रभागयोरपि स्थितिवैलक्षण्यमाह—

मेरौ मेषादिचक्रार्धे देवाः पश्यन्ति भास्करम् ॥

सकृदेवोदितं तद्वदसुराश्च तुलादिगम् ॥ 67 ।

,

मेरौ=  उत्तरभागस्थमेरौ,

देवाः=  अमराः,

मेषादि चक्रार्धे=  मेषादिराशिषट्के,

भास्करं =  स्थित्तम्,

सकृत्=  एकवारम्,

उदितम्=  अदर्शनानन्तरं प्रथमदर्शनविषयं निरन्तरं,

पश्यन्ति =  आलोकयन्ति ।

असुराः=  दैत्याः,

तुलादिगं = तुलादिराशिषट्कस्थं,

तद्वत् =  सकृदुदितं,

सूर्ये निरन्तरं पश्यन्ति ॥ 67 ॥


केनचिदिष्टेन भूव्यासं सूर्यकर्णं चापवर्त्य पुनस्ताभ्यां समायां भूमौ भूवृत्तं सूर्यकक्षावृत्तं च विलिख्योर्ध्वाधरयाम्योत्तररेखे च कार्ये । अत्रो धिरसूत्रं मध्यसूत्रं ज्ञेयम् । मध्यसूत्रं स्वोर्ध्वे यन्त्र सूर्यकक्षावृत्तं स्पृशेत्तत्र खमध्यम् । सूर्यकक्षावृत्तयाम्योत्तररेखयोर्यत्र संपातस्तस्माद्गर्भक्षितिजस्थ सूर्यचिह्नाद्भूपरिधि स्पृष्ट्वान्ते मध्यसूत्रं यावद् दृक्सूत्र नेयम् । दृक्सूत्रमध्य सूत्रयोर्योगे दृक्चिह्नम् । तत्रस्थद्रष्टा गर्भक्षितिजस्थसूर्यं पश्यतीति । भू गर्भाद् दृक्सूत्रभूगोलस्पर्शचिह्नावधिसूत्रं नेयं तत्सूत्रं दृक्सूत्रोपरि लम्बो भवति, अस्माद्द्वे सजातीयेक्षेत्रे उत्पद्यते । एषां साजात्यं स्पष्टमेव ।अथानुपातेनोच्छ्रितियोजनानामानयनम् । अत्र सूर्यकर्णभूव्यासार्धयोर्वर्गा न्तरमूलं कोटिः, कुखण्डं भुजः, सूर्यकर्णः कर्ण इत्येक जात्यम् । कुखण्डं कोटिः, स्पर्शचिह्नाद् दृक्चिह्नपर्यन्तं दृक्सूत्रखण्डं भुजः, भू गर्भादृक्चिह्नावधिसूत्रं कर्ण इति । द्वितीयं जात्यम् । रविकर्णो भुजः, मध्यसूत्रे कोटिरनयोर्वर्गयोगमूलं दृक्सूत्रं कर्ण इति पूर्वसजातीयं बृहत् क्षेत्रम् । अथानुपातः । सूर्यकर्णभूव्यासार्धयोर्वर्गान्तरमूलरूपकोटौ रवि कर्णः कर्णस्तदा कुखण्डकोटौ क इति कुकेन्द्रद्वचिह्नान्तरं कुखण्डोनं स्वभूपृष्ठो दृक्चिह्नमानं स्यात् । तद्वशाद्गर्भकुजस्थार्कदर्शनं भवतीत्यु पपन्नम् । ___ यथा यथा तद्दृक्चिह्नादप्यूर्व दृक्चिह्न स्यात्तथा तथा गर्भक्षिति जादप्यधोऽधःदृश्यांशैरुद्गमार्कं पश्यति तद्दृक्चिह्नात् । तज्ज्ञानार्थमुपायः । सूर्यकक्षावृत्ते गर्भक्षितिजाधो दृश्यांशास्तत्रस्थसूर्यचिह्नाद्भूपरिधि स्पृष्ट्वाग्रे मध्यसूत्रं यावद् दृक्सूत्रं नेयम् । दृक्सूत्रमध्यसूत्रयोः संपाते दृक् चिह्नम् । अथ च भूगर्भकेन्द्राद् दृक्सत्रसमानान्तरमन्यत्सूत्रं विधेयम् । अनयोर्‌दृक्सूत्रसमान्तरसूत्रयोर्मध्ये कुच्छन्नांशाः । गर्भक्षितिजात्समानान्तर सूत्रं यावद् दृश्यांशकुच्छन्नांशयोर्योगोऽस्ति । मध्यसूत्रोत्समानान्तरसूत्रपर्यन्तं दृश्यांशकुच्छन्नांशयोर्योगस्य कोटिर्भुजः, समानान्तरसूत्रे कोटि मध्यसूत्रे त्रिज्याकर्णः । इत्येकं जात्यम् । तथा च भूगर्भात्स्पर्शचिह्नावधि कुखण्डं भुजः, दृक्सूत्रखण्डं कोटिः, कुकेन्द्रादृचिह्नावधि मध्यसूत्रे कर्णः । इति द्वितीयं जात्यम् । अथानुपातः । यदि कुच्छन्नदृश्यांशजकोटिमौर्व्या त्रिज्या लभ्यते तदा कुखण्डेन किं लब्धं कुख‌डोनं स्वभूपृष्ठोर्ध्वं दृक्चिह्नमानं स्यात्तद्वशाद्गर्भक्षितिजादप्यधः स्थितदृश्यांशैः सूर्यं पश्यति तद्दचिह्नात् ।

ध्रुवाधःस्थितानां तु नाडीवृत्तमेव कुजं तदधो दृश्यांशाः क्रान्त्यंशा एव परापमान्तम् । तत्र यथोक्तवद् दृक्चिह्नसिद्धिः । अथ सर्वदेशेऽपि यथा सदोदितोऽर्कस्तथोच्यते । कुजान्नाडीवृत्तावधि लम्बांशाः, ततो जिनांशा स्तद्योगतुल्यदृश्यांशः कुजादधःस्थैरक्तवद्दृक्चिह्नमानीयते तत्सदोदया र्कदर्शनयोग्यं स्यादेव । परं ते दृश्यांशाः कुच्छन्नकोट्यल्पका एव नाधिका न समास्तथा हि । दृक्चिहं मध्यसूत्रस्थमेवेति नियतम् । ततोऽदृक्सूत्रं भूगोलस्पर्शनार्हं यत्तु कुगोले गोलचतुर्थांशाल्पदेशे एव स्पृशति तत्संपूर्ण न, यत्तच्चतुर्थांशदेशस्थं तिर्यग्गतं तत्तु मध्यसूत्रसमानान्तरितं दृक्चिह्नार्हम् । अर्कगोले तत्सूत्रावधि गर्भकुजात्कुच्छन्नकोट्यंशाः स्वदृक्चिह्नान्यथानुपपत्त्या कुच्छन्नकोट्यल्पका एव दृश्यांशाः स्वदृक्चिह्नार्हा नेतरा, जिनाढ्यकुच्छन्नलवाक्षदेशे लम्बांशसिद्धांशयोगः कुच्छन्नकोटितुल्यस्तदधिकदेशे तु तदल्प इति यथोक्तमुपपन्नम् ॥ __

यदा दृश्यांशाः कुजीव पृष्ठकुजाधस्तदा तदन्तरतो यथोक्त्या पृष्ठोर्ध्व गर्भकुजीयदृक्चिह्नाधस्तदृक्चिह्न स्यात् ॥

दृक्चिह्नज्ञानाद् दृश्यांशकज्ञानं विलोमगणितेन सुबोधम् ॥

अथ पितॄणां सूर्योदयास्तावाह—

इन्दोर्मण्डलतश्चोर्ध्वे स्थितास्ते पितरो रविम् ॥

उदितं कृष्णपक्षार्धे पश्यन्त्यस्तं सितार्धके ॥ 6॥

,  । पितरः=  पितृगणाः,

इन्दोः=  चन्द्रस्य,

मण्डलतः=  मण्डलाकाराबिम्बात्,

ऊर्ध्वे=  ऊर्ध्वभागे,

स्थिताः=  अधिष्ठिताः । अतः,

ते =  पितरः,

कृष्णपक्षार्धे= कृष्णपक्षाष्टम्याम्,

उदितम् =  उदयप्राप्तं,

रविं=  सूर्यं,

पश्यन्ति =  आलोकयति ’,

सितार्धके=  शुक्लपक्षाष्टम्याम्,

अस्तम् =  अस्तगामिनं पश्यन्ति । एतेन पितृणाममावास्यायां मध्याह्नं, पूर्णिमायां निशीथोभवतीति सिद्धमेव । अत‌एव दर्शमध्याह्नस्य श्राद्धादौ विशिष्टकालत्वमुक्तम्

॥ 68 ॥


अथ निरक्षदेशादयनसन्धौ कियद्भिर्योजनैरूर्ध्वमर्को भवति तदाह—

भूमण्डलात्पञ्चदशे भागे देवेऽथवासुरे ॥

उपरिष्टाद्रजत्यर्कः सौम्ययाम्यायनान्तगः ॥ 66 ॥

। देवे =  उत्तरभागे,

अथवासुरे =  वा दक्षिणभागे,

भूमण्डलात् =  निरक्षदेशात्,

पञ्चदशे भागे =  भूपरिधिपञ्चदशभाग तुल्यान्तरितदेशे क्रमेण,

सौम्ययाम्यायनान्तगः=  उत्तरायणान्तदक्षिणायनान्तगः,

अर्कः=  सूर्यः,

उपरिष्टात् =  ऊर्ध्वं,

व्रजति=  भ्रमति ॥ 66 ॥


अथ निरक्षदेशाद्भूपरिधिपञ्चदशभागपर्यन्तं सूर्यस्य दक्षिणो

त्तरगमनमुक्त्वा तच्छायागमनं प्रतिपादयति—

तदन्तरालयोश्छाया याम्योदसम्भवत्यपि ॥

मेरोराभिमुखं याति परतः स्वविभागयोः॥ 70 ॥

,  ।

तदन्तरालयोः=  निरक्षदेशात्पञ्चदशभागमध्यस्थितदक्षिणोत्तरदेशयोः,

छाया=  द्वादशाङ्गलशङ्कुप्रभा,

याम्या =  दक्षिणा,

उदगपि=  उत्तरापि,

सम्भवति =  सम्यक् भवति । निरक्षदेशात्पञ्चदशभागान्तरालोत्तरदेशे मध्याह्ननतांशानां दक्षिणत्वे छायाग्रमुत्तरम् । नितांशानामुत्तरत्वे दक्षिणम् । एवं निरक्षदेशात्पञ्चदशभा गान्तरालस्थितदक्षिणदेशे सूर्यस्योत्तरस्थत्वे छायाग्रं दक्षिणं दक्षिण स्थत्वे छायाग्रमुत्तरं भवति ।

परतः=  पञ्चदशभागात्परतः,

स्वविभागयोः=  दक्षिणोत्तरविभागयोः,

मेरोरभिमुखं =  मेरुसम्मुखं,

याति =  गच्छति दक्षिणभागे दक्षिणमेरोरभिमुखमुत्तरभाग

उत्तरमेरोः सम्मुखं छायाग्रं गच्छतीति फलितार्थः ॥ 70 ॥

अथ कथं पर्येति वसुधां भुवनानि विभावयन्निति प्रश्नस्योत्तरमाह—

भद्राश्वोपरिंगः कुर्याभारते तूदयं रविः॥

रात्र्यर्ध केतुमाले तु कुरावस्तमयं सदा ॥71 ॥

भारतादिषु वर्षेषु तद्वदेव परिभ्रमन् ॥

मध्योदयार्धरात्र्यस्तकालान्कुर्यात्मदक्षिणम् ॥72॥

___ भद्राश्वोपरिगः=  यमकोटयां मध्याह्नगः,

रविः=  सूर्यः,

भारते =  लङ्कायाम्,

उदयं=  स्वोदयं,

कुर्यात् =  करोती

त्यर्थः ।

तदा=  तस्मिन्काले,

केतुमाले =  रोमकाख्यायाम्,

रा,

त्र्यर्धं=  निशीथं कुर्यात् ।

कुरौ =  कुरुवर्षे सिद्धपुर्याम्,

अस्त मयम् =  अस्तमनं कुर्यात् ।

तु=  तुकारादुक्तवर्षयोरन्तराले दिनस्य गतं शेषे वा रात्रेश्च तद्यथायोग्यं कुर्यादित्यर्थः ।

भारतादिषु=  भारतादित्रिषु,

वर्षेषु =  वर्षसंज्ञेषु भारतकेतुमालकुरुवर्षेषु,

तद्वत्=  भद्राश्वोपरिगवत्,

एव =  एवकारान्न्यूनाधिकव्यवच्छेदः ।

परिभ्रमन् =  परिभ्रमेण स्वस्वाभिमतस्थानोपरिस्थितं कुर्वन् सूर्यः,

प्रदक्षिणं=  प्रदक्षिणं यथा स्यात्तथा सव्यक्रमेणं स्वस्थानादिक्रमेणेति यावत् । उक्तचतुर्वर्षेषु,

मध्योदयार्धरात्र्यस्तकालान् =  मध्याह्नो दयार्धरात्र्यस्तसंज्ञान्कालान्,

कुर्यात् =  संपादयेत् । एतदुक्तं भवति । लङ्कायां मध्याह्नगोऽर्को रोमक उदयं सिद्धपुर्यामर्धरात्रं यमकोट्यामस्तं करोति । रोमके मध्याह्नगोऽर्कः सिद्धपुर्यामुदयं यमकोट्यामर्धरात्रं लङ्कायामस्तं करोति । सिद्धपुर्या मध्यगोऽर्को यमकोट्यामुदयं लङ्काया मर्धरात्रं रोमकेऽस्तं करोति । एवमेवान्येष्वन्तरालदेशेषु सर्वत्र मध्योदयार्धरात्रास्तमया रवेज्ञातव्याः ॥ 71 । 72 ॥


अथ ध्रुवयोर्भचक्रस्य चोन्नतिनत्योर्व्यवस्थामाह—

ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः॥

निरक्षाभिमुखं यातुर्विपरीते नतोन्नते ॥ 73 ॥

,

मेरुं=  मेरोरुत्तराग्रं दक्षिणाग्रं वा तदभिमुखं,

प्रयास्यतः=  गच्छतः पुरुषस्य ।

ध्रुवोन्नतिः=  क्रमेणोत्तरदक्षिणयोर्भुवयोरौच्यं

, भचक्रस्य=  नक्षत्राधिष्ठितगोलमध्यभागवृत्तस्य,

नतिः=  क्रमेणदक्षिणोत्तरयोर्नतत्वं भवति ।

निरक्षाभिमुखं=  निरक्षदेशाभिमुखं

, यातुः=  गच्छतः पुरुषस्य,

नतोन्नते=  पूर्वोक्ते,

विपरीते=  व्यस्ते भवतः ॥ 73 ॥


अथ कुत एवमित्यतः । कथं पर्येति भगणः सग्रहोऽयं किमाश्रय

इति प्रश्नस्योत्तरं भचकभ्रमणवस्तुस्थितिमाह—

भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः॥

पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥ 74 ॥

ध्रुवयोः=  ऊर्ध्वाधःस्थितमेरोरग्राद्वयोर्ध्वाधः स्थितयोवतारयोः,

बद्धं =  ब्रह्मणा निबद्धं,

भचक्र=  नक्षत्राधिष्ठितमूर्तगोलरूपं,

प्रवहानिलैः=  प्रवहवाय्वंशैः,

आक्षिप्तं =  अभिघातं प्राप्तं सद्,

अजस्रं =  निरन्तरं,

पर्येति=  पश्चिमाभिमुखं भ्रमति ।

तन्नद्धा=  नक्षत्रकक्षया बद्धा,

ग्रहकक्षा=  शन्यादिग्रहाणां कक्षा,

यथाक्रमं=  यथाधोऽधः क्रमेण निबद्धास्तेनैव क्रमेण भचक्रेण सह भ्रमति । भचक्रे निबद्धत्वात् ॥ 74 ॥


,  अथ पित्र्यं मासेन भवतीति प्रश्नस्योत्तरमाह—

सकृदुद्गतमब्दार्थं पश्यन्त्यः सुरासुराः॥

पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि ॥7॥

सुरासुराः=  देवदैत्याः,

सकृत् =  एकवारम्,

उद्गतमर्कम् =  उदितं सूर्यं,

अब्दार्धं=  सौरवर्षार्धपर्यन्तं,

पश्यन्ति =  आलोकयन्ति ।

शशिगाः=  चन्द्रबिम्बगोलोर्ध्वस्थिताः,

पितरः=  पितृगणाः,

पक्षं=  पञ्चदशतिथिपर्यन्तं पश्यन्ति ।

भुवि=  भूमौ,

नराश्च =  मनुष्याश्च,

स्वदिनं=  स्वदिनपर्यन्तं पश्यन्ति ॥7॥


अथ ग्रहकक्षाणां महदल्पत्वं तत्रस्थभागानां महदल्पत्वं चाह—

उपरिस्थस्य महती कक्षाल्पाधःस्थितस्य च ॥

महत्या कक्षया भागा महान्तोऽल्पास्तथाल्पया ॥76॥

,  उपरिस्थस्य =  ऊर्ध्वस्थग्रहस्य,

कक्षा=  भ्रमणमार्गरूपा

,  महती =  बृहती,

अधःस्थितस्य=  अधःस्थग्रहस्य कक्षा,

अल्पा=  अल्पपरिमाणास्ति ।

महत्या कक्षया=  बृहत्कक्षया,

महान्तः=  महाप्रमाणाः,

तथाल्पया= अल्पकक्षया,

अल्पाः =  लघुप्रमाणाः,

भागाः=  अंशा भवन्ति । सर्वत्र द्वादशभागानामङ्कनत्वात् ॥ 76 ॥


अथ ग्रहभगणभोगकालयोर्महदल्पत्वमाह—

कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः॥

ग्रहः कालेन महता मण्डले महति भ्रमन् ॥ 77 ॥

। __,

अल्पभ्रमणाश्रितः=  अल्पभ्रमणं परिधिमानं यस्या साल्पभ्र मणाधःकक्षा तत्स्थः,

ग्रहः=  खेटः,

अल्पेन=  लघुना,

कालेन=  समयेन,

भगणं=  द्वादशराश्यात्मकं,

भुङ्क्ते=  अतिभ्रमते ।

महति मण्डले =  बृहत्कक्षामण्डले,

भ्रमन् =  गच्छन्,

महता=  बहुना,

कालेन =  समयेन भगणं भुङ्क्ते । वक्ष्यमाण, योजनगतेरभिन्नत्वात् ॥ 77 ॥


अथात एवोधिःक्रमेण प्रहयोर्भगणास्तुल्यकालेऽल्पा

,  बहवो भवन्तीति सोदाहरणमाह—

स्वल्पयातो बहून् भुङ्क्ते भगणाञ्छीतदीधितिः॥

महत्या कक्षया गच्छंस्ततः स्वल्पं शनैश्चरः ॥ 78 ॥

। अतः=  चन्द्रस्य कक्षाल्पत्वात्,

शीतदीधितिः=  चन्द्रः,

स्वल्पया=  लघुप्रमाणकक्षया,

बहून्भगणान् =  बहुप्रमाणा न्भचक्रान् । बहुवारं द्वादशराशीनित्यर्थः ।

भुङ्क्ते=  अतिक्रामते,

शनैश्चरः=  मन्दः,

महत्या=  महाप्रमाणया,

कक्षया=  वायुवृत्तमार्गरूपया,

गच्छन् =  भ्रमन्सन्,

ततः=  चन्द्रात्,

स्वल्पं=  भगणमल्पप्रमाणान्भगणान् । जात्यभिप्रायेणैकवचनम् । अल्पवार द्वादशराशीन्भुङ्क्ते । अत‌एव शनैश्चर इति मन्दस्यान्वर्थ नामारितं ॥ 78॥

अथ दिनाब्दमासहोराणासधिपा न समाः कुत इति,

प्रश्नस्योत्तरमाह—

मन्दादधःक्रमेण स्युश्चतुर्थी दिवसाधिपाः॥

वर्षाधिपतयस्तदत्तृतीयाश्च प्रकीर्तिताः॥79 ॥

ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः॥

होरेशाः सूर्यतनयादधोऽधः क्रमशस्तथा ॥8॥

मन्दात् =  शनेः सकाशात्,

अधः क्रमेण=  अधःकक्षाक्रमेण,

चतुर्थाः=  चतुर्थसंख्याका ग्रहाः,

दिवसाधिपाः =  वारेश्वराः,

स्युः=  भवेयुः ।

तद्वत् =  मन्दादधःक्रमेण,

तृतीयाः=  तृतीयसंख्याका ग्रहाः,

च=  समुच्चयार्थे ।

वर्षाधिपतयः=  षष्ट्यधिकशतत्रयदिनात्मकस्य वर्षस्य स्वामिनः,

प्रकीर्तिताः=  प्रकथिताः,

शशिनः=  चन्द्रसकाशात्,

ऊर्ध्वक्रमेण=  ऊर्ध्वकक्षाक्रमेण,

मासानां =  त्रिंशद्दिनात्मकानाम्,

अधिपाः= स्वामिनः, स्मृताः=  कथिताः ।

सूर्यतनयात् =  शनेः सकाशात्,

अधोऽध क्रमशः=  अधःकक्षाक्रमेण,

तथा =  मासेश्वरवदव्यवहिताः,

होरेशाः=  होराधिपतयः कथिताः ॥ 76 । 80 ॥


अथ ’ग्रहर्षकक्षाः किं मात्राः’ इति प्रश्नस्योत्तरं विवक्षुः

प्रथमं नक्षत्राणां कक्षामानमाह—

भवेद्भकक्षा तिग्मांशोर्भ्रमणं षष्टिताडितम् ॥

सर्वोपरिष्टाद्भ्रमति योजनैस्तैर्भमण्डलम् ॥ 81॥

तिग्मांशोः=  सूर्यस्य,

भ्रमणं =  वक्ष्यमाणकक्षापरिधिमानंयोजनात्मकं,

षष्टिताडितं=  षष्ट्या गुणितं सन्,

भकक्षा=  नक्षत्रकक्षा,

भवेत् =  स्यात् ।

नैर्योजनैः =  नक्षत्रकक्षामितैर्योजनैः,

सर्वोपरिष्टात् =  चन्द्रादिसप्तग्रहेभ्य उपरिदूरं,

भमण्डलं=  नक्षत्रमण्डलं,

भ्रमति =  पर्येति ॥ 81 ॥


अथ ग्रहकक्षाणां मानज्ञानार्थं खकक्षामानम् । कियती तत्कर

प्राप्तिरिति प्रश्नस्योत्तरमाह—

कल्पोक्तचन्द्रभगणा गणिताः शशिकक्षया ।

आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः॥2॥

,  कल्पोक्तचन्द भगणाः =  " एते सहस्रगुणिताः कल्पे स्युर्भगणादयः" इत्युक्त्या युगचन्द्रभगणाः सहस्रगुणिताः कल्पचन्द्रभगणा इत्यर्थः ।

शशिकक्षया =  वक्ष्यमाणया चन्द्रकक्षया,

गुणिताः=  ताडिताः,

सा=  तन्मिता,

आकाशकक्षा =  खकक्षा,

ज्ञेया=  बोध्या ।

रवेः=  सूर्यस्य,

करव्याप्तिः =  किरणप्रचारः,

तथा=  आकाशकक्षापरिमित इत्यर्थः । सूर्यकिरणानां समूहेन निहततमसो नभसः परिधिमानं भवतीति भावः ॥ 82 ॥


अथ ग्रहाणां कक्षानयन योजनगत्यानयनं चाह—

सैव यत्कल्पभगणे भक्ता तद्भ्रमणं भवेत् ॥

कुवासरैविभज्याहः सर्वेषां प्राग्गतिः स्मृता ॥3॥

सैव=  आकाशकक्षैव,

यत्कल्पभगणैः =  यस्य ग्रहस्य कल्पभगणैः,

भक्ता =  विभाजिता,

तद्भ्रमणं =  फलं तस्य ग्रहस्य कक्षापरिधिमानं योजनात्मकं,

भवेत् =  स्यात् ।

कुवासरैः=  । कल्पकुदिनैः,

विभज्य =  सैव खकक्षा विभज्य फलं,

सर्वेषाम् =  उक्तभगणसम्बन्धिनां ग्रहादीनाम्,

अह्नः=  दिवसस्य । दिनसम्बन्धिनीत्यर्थः,

प्राग्गतिः=  योजनात्मिका पूर्वगतिः,

स्मृता=  कथिता ॥ 83 ॥


अथ योजनात्मकगतेः कलात्मकगति स्वीयामाह—

भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसंगुणा ॥

स्वकक्षाप्ता तु सा तस्य तिथ्याप्ती गतिलिप्तिकाः 84

भुक्तियोजनजा =  गतियोजनोत्पन्ना या,

सङ्ख्या =  अङ्क सङ्ख्या,

सा=  सङ्ख्या,

इन्दोः=  चन्द्रस्य,

भ्रमणसंगुणा=  क्षया गुणिता,

स्वकक्षाप्ता=  अभिमतग्रहस्य कक्षया भक्ता,

सा=  फलरूपा,

तिथ्याप्ता=  पञ्चदशभक्ता,

तु=  तुकारात्फलं,

तस्य=  अभिमतग्रहस्य,

गतिलिप्तिकाः=  गतिकला भवन्ति ॥ 84 ॥


अथ किमुत्सेधा इति प्रश्नत्योत्तरमाह—

कक्षा भूकर्णगुणिता महीमण्डलभाजिता ॥

तत्कर्णा भूमिकर्णोना ग्रहोच्यं स्वं दलीकृताः 85॥

,  ।

कक्षाः=  ग्रहकक्षाः,

भूकर्णगुणिताः=  भूव्यासेन ’ गुणिताः,

महीमण्डलभाजिताः=  भूपरिधिना भक्ताः,

तत्ककर्णाः=  फलं तस्याः कक्षायाः कर्णा व्यासा भवन्ति । एते,

भूमिकर्णोना=  भूव्यासेन हीनाः,

दलीकृताः =  अर्धिताः सन्तः,

स स्वगृहीतव्याससम्बन्धि,

ग्रहोच्यं =  ग्रहस्योच्चता भूमेः सकाशाद्भवति ॥ 85 ॥

अथ नीताः कक्षाः स्वयमुदाहरति—

खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः॥

ज्ञशीघ्रस्याङ्कखद्वित्रिकृतशून्येन्दवस्ततः॥86॥

शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः॥

ततोऽबुधशुक्राणां खखार्थेकसुरार्णवाः॥87॥

कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः॥

चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः॥88॥

कृतर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः॥

स्वर्भानोर्वेदतर्काष्टद्विशैलार्थखकुञ्जराः॥86॥

पञ्चबाणाक्षिनागर्तु रसाद्र्यर्काः शनेस्ततः॥

भाना रविखशून्याङ्कवसुरन्ध्रशराश्विनः ॥ 6 ॥

। ,

हिमदीधितेः=  चन्द्रस्य,

कक्षा =  भ्रमणमार्गरूपा,

खत्र याब्धिद्विदहनाः =  सहस्रगुणितसिद्धरामाः ।

तु=  तुकारादागम प्रामाण्येनाङ्गीकार्या ।

ज्ञशीघ्रस्य=  बुधशीघ्रोच्चस्य,

अङ्कखद्वि त्रिकृतशून्येन्दवः =  नवखदन्तवेददिशः ।

ततः=  चन्द्रकक्षायां ऊर्ध्वं ज्ञेयम् । तदूर्ध्वं,

शुक्रशीघ्रस्य=  शुक्रशीघ्रोच्चस्य,

सप्ता ग्निरसाब्धिरसषड्यमाः=  अद्रित्र्यङ्गवेदषड्सपक्षाः।

ततः=  तदूर्ध्वं,

अर्कबुधशुक्राणां=  सूर्यबुधशुक्राणां,

खखार्थैकसुरार्णवाः=  खखपञ्चभूदेवाब्धयः ।

कुजस्य =  भौमस्य,

अपि= , आपिशब्दात्सूर्यादूर्ध्वम्,

अङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः=  नवखनवषडिन्द्रसर्पाः ।

चन्द्रोच्चस्य =  चन्द्रमन्दोच्चस्य,

कृताष्टाब्धिवसुद्वित्यष्टवह्नयः =  वेदाहिवेदसर्पपक्षरामनागरामाः । भौमा चन्द्रोच्चादूर्ध्वं,

गुरोः=  बृहस्पतेः,

कृतर्तुमुनिपश्चाद्रिगुणेन्दु विषयाः=  वेदाङ्गमुनिपञ्चस्वररामचन्द्रशराः ।

स्वर्भानोः=  राहोः,

वेदतर्काष्टद्विशैलार्थखकुञ्जराः =  वेदाङ्गगजयमसप्तपञ्चाशीतयः,

ततः=  बृहस्पतेराहोर्वोर्ध्वं,

शनैः =  मन्दस्य,

पश्चबाणाक्षिनागर्तुरसाद्र्यर्काः=  पञ्चपञ्चद्वयष्टषड्ससप्तार्काः ।

भानां =  शने‌रूर्ध्वं नक्षत्राणां,

रविखशून्याङ्कवसुरन्ध्रशराश्विनः=  द्वादश नवशताष्टनवतत्त्वानि कक्षायोजनानि सन्ति । खत्रयाब्धिद्विदहना इत्यारभ्य रविखशून्याङ्कवसुरन्ध्रशराश्विन इत्यन्तं चन्द्रकक्षात ऊर्ध्वकक्षाक्रमेण चन्द्रान्नक्षत्रपर्यन्तं कक्षायोजनानि कथितानीत्यर्थः ॥ 86 । 87 ।

88 । 86 । 10 ॥

अथाकाशकक्षापरिधियोजनान्याह—

खव्योमखत्रयखसागरषट्कनाग,

व्योमाष्टशून्ययमरूपनगाष्टचन्द्राः॥

ब्रह्माण्डसम्पुटपरिभ्रमणं समन्ता,

दभ्यन्तरे दिनकरस्य करप्रसारः ॥ 91॥

खव्योमखत्रयखसागरषट्कनागव्योमाष्टशून्ययम रूपनगाष्टचन्द्राः =  वेदाङ्गाष्टाशीतिनखभूसप्तधृतयः प्रयुतगुणिता

योजनानि,

ब्रह्माण्डसंपुट परिभ्रमणं=  ब्रह्माण्डगोलस्य परिधिः स्मृतः ।

अभ्यन्तरे=  ब्रह्माण्डगोलाभ्यन्तरे,

दिनकरस्य=  सूर्यस्य,

समन्तात् =  अभितः,

करप्रसारः=  सूर्यकिरणानां प्रचारः स्यात् । एतेन ब्रह्माण्डगोलान्तः परिधिर्न बाह्य इति सूचितम् ॥ 11॥


अथ कक्षाभ्य ग्रहानयनमाह—

आकाशकक्षा षष्टिघ्ना कल्पभूवासरोद्धृता॥

लब्धं गुणकमाख्यातं तेन हन्याद्यवृन्दकम् ।92॥

कक्षाभिः षष्टिनिघ्नाभिर्ग्रहाणां भगणादयः॥

!, आकाशकक्षा =  खकक्षा,

षष्टिघ्ना=  षष्टिगुणिता,

कल्प भूवासरोद्धता=  कल्पकुदिनैर्भक्ता,

लब्धं=  फलं,

गुणकं= 

गुण एवं गुणकस्तम्,

आख्यातं=  कथितं,

तेन =  गुणकेन, द्युवृन्दकम् =  अहर्गणं,

हन्यात् =  गुणयेत्,

पष्टिनिघ्नाभिः=  षष्टिगुणिताभिः,

कक्षाभिः=  अभिमतग्रहकक्षाभिर्भक्तं सत्,

ग्रहाणां =  खेट्यन्य,

भगणादयः=  भगणं द्वादशराश्यात्मकमादिर्येषां ते तथोक्ता भवन्ति ॥ 12 ॥

इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां सौरदी

,  पिकायां भूगोलाघ्यायो नाम द्वादशः समाप्तः ॥ 12 ॥



13 अथ ज्योतिषोपनिषदध्यायः।

तत्र पुनर्मुनयः श्रोतृन्प्रति श्लोकाभ्यामाह—

अथ गुप्ते शुचौ देशे स्नातः शुचिरलङ्कृतः ॥

संपूज्य भास्करं भक्त्या ग्रहान्भान्यथ गुह्यकान् ॥ 1॥

पारम्पर्योपदेशेन यथाज्ञानं गुरोर्मुखात् ॥

आचार्यः शिष्यबोधार्थं सर्व प्रत्यक्षदर्शिवान् ॥ 2॥

अथ =  अथ शब्दो मङ्गलार्थकः ।

अथ =  भूगोलकथनानन्तरं,

गुप्ते =  रहसि,

शुचौ =  पवित्रे,

देशे=  स्थाने,

स्नातः=  कृतस्नानः,

शुचिः=  शुद्धमनाः,

अलङ्कतः=  हस्तकर्णकण्ठा,  दिभूषणभूषितः ।

आचार्यः=  सूर्यांशपुरुषो । मयासुराध्यापकः,

भास्करं=  श्रीसूर्यं,

भक्त्या = आराध्यत्वेन ज्ञानरूपया,

संपूज्य=  नमस्कारस्तुतिविषयं कृत्वा,

ग्रहान् =  चन्द्रादिखेटान्,

भानि=  नक्षत्राणि राशींश्च,

गुह्यकान् =  पक्षादीन् संपूज्य । समुच्चयार्थक श्चकारोऽत्रानुसन्धेयः ।

गुरोः=  श्रीसूर्यस्य,

मुखात्=  वदनार विन्दात्,

पारम्पर्योपदेशेन =  परम्परया कथनेन,

यथाज्ञानं=  स्वशक्त्या यादृशं ज्ञानमवगतं,

शिष्यबोधार्थं =  भयासुरस्याभ्रमज्ञा नोत्पादनार्थ,

सर्व=  प्रागध्यायोक्तं,

प्रत्यक्षदर्शिवान् =  प्रत्यक्षं दर्शितवानित्यर्थः ॥ 1।2 ॥


कथं दर्शितवानिति मयासुरं प्रत्युक्तसूर्यांशपुरुषवचन स्यानुवादे सूर्यांशपुरुषो मयासुरं प्रति गोलबन्धोहेशं तदुपक्रम चाह—

भूभगोलस्य रचनां कुर्यादाश्चर्यकारिणीम् ।

अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम् ॥ 3॥

दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम् ।

आधारकक्षाद्वितयं कक्षा वैषुवती तथा ॥ 4॥

। ।

भूभगोलस्य =  भूगोलादभितः संस्थितस्य नक्षत्रगोलस्य,

आश्चर्यकारिणीम् =  आश्चर्योत्पादिकां,

रचनां=  स्थितिज्ञानार्थं दृष्टान्तात्मकगोलस्य निर्मितं,

कुर्यात् =  सम्पादयेत् । गणको गोल शिल्पज्ञ इते शेषः । कथं रचनां कुर्यादित्यत आह ।

अभीष्टं=  स्वल्पं बृहद्वास्वेच्छाकल्पितपरिधिप्रमाणकं,

दारवम् =  काष्ठघटित सच्छिद्रं,

पृथ्वीगोलं=  भुवो गोलं,

कारयित्वा=  काष्ठशिल्पज्ञ द्वारा कृत्वेत्यर्थः ।

मेरोः=  मेरुगिरेः,

दण्डं=  काष्ठदण्डम् । मेरोरनुकल्परूपं काष्ठदण्डामित्यर्थः ।

तन्मध्यगं=  काष्ठघटितभूगो लस्य मध्ये छिद्रमध्ये स्थितम्,

उभयत्र=  भूगोलस्थव्यासप्रमाणच्छिद्रव्याग्राभ्यां बहिरित्यर्थः ।

विनिर्गतम् =  एकाग्रादन्यतरामावशिष्ट दण्डप्रदेशतुल्यं निःसृतम् । उभयाग्राभ्यां तुल्यौ दण्डप्रदेशौ पथा स्था त्तथा कुर्यादित्यर्थः । भगोलनिबन्धनार्थमाधारवृत्तद्वयमाह ।

आधार कक्षाद्वितयं =  भूगोलस्योभयपारर्वाभ्यां तुल्यान्तरस्थिता दण्डोभयप्रदे शयोः प्रोतां याम्योत्तरसंज्ञिकां वंशशलाकया निर्मिता कक्षा कुर्यात् । तत्तुल्यमुन्मण्डलसंज्ञिका तदर्धकारिणी भूगोलस्य पूर्वापरप्रदेशयोः संसक्ता दण्डोभयप्रदेशयोः प्रोतामपरां कक्षां कुर्यात् । अनयोराधारकोति संज्ञा ज्ञेया ।

वैषुवती=  विषुवसम्बन्धिनी,

कक्षा=  वृत्तपरिधि विषुववृत्तमित्यर्थः ।

तथा= आधारवृत्तद्वयस्यार्धच्छेदेन भगोलमध्य वृत्तानुकल्पेन गणकेन निबद्धमित्यर्थः,

कुर्यात् = ॥ 3 ॥ 4 ॥


अथ मेषादिद्वादशराशीनामहोरात्रवृत्तनिबन्धनमन्यदप्याह—

भगणांशाङ्गुलैः कार्या दलितैस्तिस्र एव ताः॥

स्वाहोरात्रार्धकर्णैश्च तत्प्रमाणानुमानतः ॥ 5॥

क्रान्तिविक्षेपभागैश्च दलितैर्दक्षिणोत्तरैः॥

स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात् ॥6॥

कक्षाः प्रकल्पयेत्ताश्च कर्कादीनां विपर्ययात् ॥

तद्वत्तिस्रस्तुलादीनां मृगादीनां विलोमतः॥7॥

याम्यगोलाश्रिताः कार्याः कक्षाधाराद्वयोरपि ।

याम्योदग्गोलसंस्थानां भानामभिजितस्तथा ॥8॥

सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत् ॥

मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता ॥

। ,

ताः=  कक्षाः,

तिस्रः=  त्रिसङ्ख्याकाः,

भगणांशाङ्गुलैः=  षष्ट्यधिकशतत्रयपरिमिताङ्गुलैः,

दलितैः=  समविभागेन खण्डितैरङ्कितैरित्यर्थः ।

कार्या=  शिल्पज्ञेन गोलगणितज्ञेन कार्या ।

तत्प्र माणानुमानतः=  विषुवत्कक्षा प्रमाणानुमानात्,

स्वाहो रात्रार्धकर्णैः=  स्वशब्देन मेषादित्रिकं तस्य प्रतिराश्यहोरात्रवृत्तस्या र्धकर्णो व्यासार्धं द्युज्या ताभिरित्यर्थः ।

च=  चकारान्मेषादिराशि त्रयान्तानां वृत्तत्रयं सिद्ध कृत्वा वक्ष्यमाणप्रकारेण गोले निबन्धयेत् ।

क्रान्तिविक्षेपभागः=  क्रान्तिवृत्तस्य विषुवद्वृत्तप्रदेशाद्विक्षिप्त प्रदेशायैरशैः,

च= चकारादाधारवृत्तस्थैः,

दलितैः=  समविभागेन खण्डितैरङ्कितैः,

दक्षिणोत्तरैः= विषुववृत्तक्रांन्तिवृत्तप्रदेशयोदक्षिणो त्तरान्तरात्मकैरुक्तलक्षणैः,

स्वैःस्वैः=  स्वकीयैः स्वकीयैः स्वराशिसम्बन्धैः,

अपक्रमैः=  क्रान्त्यशैः,

मेषादीनां=  मेषादिराशित्रयान्तानां मेषान्तवृषान्तमिथुनान्तानामित्यर्थः,

तिस्रः=  त्रिसङ्ख्याकाः प्राङ्निर्मिता वृत्तरूपाः कक्षाः,

अपक्रमात् =  अपशब्दस्योपसर्गत्वात्क्रमादित्यर्थः,

प्रकल्पयेत्=  शिल्पज्ञगणको विषुववृत्तानुरोधेनाधारवृत्तद्वये उत्तरतो निबन्धयेदित्यर्थः ।

ताः=  मेषादीनां कक्षाः,

विपर्ययात्= =  व्यत्यासात्,

कर्कादीनां=  कर्कसिंहकन्यानामादिप्रदेशानां,

च=  चकारात्कल्पयेत् । मिथुनान्तवृत्त कर्कादेवृषान्तं सिंहादेर्मेषान्तवृत्तं कन्या देरिति फलितम् ।

तुलादीनां =  तुलावृश्चिकधन्विनां,

तिस्रः=  अन्यास्त्रिसङ्ख्याकाः कक्षाः,

तद्वत् =  एकद्वित्रिराशिक्रान्त्यशैस्तुलान्त वृश्चिकान्तधनुरन्तानां,

याम्यगोलाश्रिताः =  विषुवद्वृत्ता‌द्दक्षिण भाग आधारवृत्तद्वये निबद्धाः,

कार्याः=  गणकेन कार्याः ।

विलो मतः =  उत्क्रमात्तुलादीनां कक्षाः,

मृगादीनां=  मकरादीनां

भवन्ति । धनुरन्तवृत्तं मकरादेवृश्चिकान्तवृत्तं कुम्भादेस्तुलान्तवृत्तं मीनादेरिति फलितम् ।

भानाम् =  अश्विन्यादिसप्तविंशतिनक्षत्रबिम्बानां ।

याम्योदग्गोलसंस्थानां=  विषुववृत्ता‌द्दक्षिणोत्तरभागयोर्यथा योग्यमवस्थितानां यन्नक्षत्रध्रुवकस्पष्टक्रान्तिरुत्तरातनक्षत्राणामुत्तरभागवस्थितानां येषां स्पष्टक्रान्तिर्दक्षिणा तेषां दक्षिणभागावस्थितानामित्यर्थः ।

यो=  दक्षिणोत्तरभागयोः,

अपि=  अपि शब्दाद्याम्योत्तरनक्षत्र क्रमेणेत्यर्थः ।

कक्षाधारात्=  कक्षाणामाधारवृत्तद्वयात्तयोरित्यर्थः । सप्तम्यर्थे पञ्चमी । कक्षाः स्वस्पष्टक्रान्तिज्योत्पन्नद्युज्याव्यासार्धप्रमाणेन वृत्ताकाराः प्रकल्पयेत् । शिल्पज्ञो निबन्धयेत् । अन्येषामप्याह ।

अभिजितः=  अभिजिनक्षत्रस्य,

सप्तर्षीणां =  मरीचिवशिष्ठा दीनाम्,

अगस्त्यस्य =  घटजस्य,

ब्रह्मादीनां =  ब्रह्मसंज्ञकतारा णामादिशब्दाल्लुब्धकापांवत्सादिनक्षत्रबिम्वानां,

च=  चकारः समुच्चयार्थकः ।

तथा=  कक्षा यथायोग्य प्रकल्पयेदित्यर्थः ।

सर्वासाम् =  उक्तकक्षाणां,

मध्ये =  तुल्याभागेऽनाधारवृत्तमध्यप्रदशे,

एव=  एवकारादन्ययोगव्यवच्छेदः,

वैषुवतीकक्षा=  विषुवसम्बधिनी वृत्तरूपा कक्षा,

संस्थिता=  अवस्थिता भवति । तथा ।

कल्पयेत् =  शिल्पज्ञः कक्षा निबन्धयेदित्यर्थः । विषुववृत्तात्स्वस्पष्ट क्रान्त्यन्तरेण स्वाज्याव्यासाप्रमाणेनाहोरात्रवृत्तमाधारवृत्तयोर्निबन्धये दिति निकृष्टोऽर्थः ॥ 5 ॥ 6 । 7 । 8 । 1 ॥


अथ गोले मेषादिराशिसन्निवेशमाह—

तदाधारयुतेरूर्ध्वमयने विषुवद्वयम् ॥

विषुवस्थानतो भागैः स्फुटैर्भगणसञ्चरात् ॥ 10 ॥

क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिः प्रकल्पयेत् ॥

,  ।!,

तदाधारयुले=  विषुवकक्षोन्मण्डलसंज्ञकाधारकक्षयोर्युतेः संपा, तात्,

ऊर्ध्वम् =  उपरि । अन्तिमाहोरात्रवृत्तयोः संपाते,

अयने=  दक्षिणोत्तरायणसन्धिस्थाने भवतः । अत्रोर्ध्वपदसञ्चारादाधारवृत्तमूर्ध्वा धरं ग्राह्यं न तिर्यगुन्मण्डलाकारम् । तेनैतत्फलितम्, विषुववृत्तस्यो र्ध्वाधराधारवृत्त ऊर्चमधश्च संपातस्तत्रोर्ध्वासंपातान्मकराद्यहोरात्रवृत्तंचतुर्विंशत्यशैस्तदाधारवृत्ते दक्षिणतो यत्र लग्न तत्रोत्तरायणसन्धिस्थानम् । एवमधः संपातात्कर्काद्यहोरात्रवृत्तं चतुर्विंशत्यशैस्तदाधारवृत्त उत्तरतो यत्र लग्नं तत्र दक्षिणायनसन्धिस्थानमिति ।

विषुववयं=  विषुवस्थायनाद्विपरीतास्थितत्वादूर्ध्वशब्दद्योतितविपरीताधः शब्दसम्बन्धा

द्विषुववयं भवति । तात्पर्यार्थस्तु तिर्यगुन्मण्डलाकाराधारवृत्तविषुववृत्तसंपातौ पूर्वापरौ क्रमेण मेषादितुलादिरूपो विषुवत्स्थाने भवत इति । अथ राशिसाफल्यसन्निवेशमाह ।

विषुवत्स्थानतः=  विषुवप्रदेशात्,

स्फुटः=  स्फुटैः राशिसम्बन्धिभिः,

भागैः=  अंशैस्त्रिंशन्मितै रंशैरित्यर्थः ।

भगणसञ्चरात् =  राशिसाफल्यसन्निदेशात्,

तिर्य ग्जाज्याभिः=  उक्तवृत्तानुकारातिरिक्तानुकारसूत्रवृत्तप्रदेशैः,

अजादीनां=  मेषादीनां,

क्षेत्राणि =  स्थानानि,

प्रकल्पयेत् =  सुधीर्गणकोऽङ्कयेत् । यद्यथापूर्वदिक्स्थविषुवस्थानाद्गोलवृत्तद्वादशांश खण्डप्रदेशेन मेषान्ताहोरात्रवृत्ते पूर्वभागे यत्र स्थानं तत्र मेषान्तस्थानं तस्मात्तदन्तरेण वृषान्ताहोरात्रवृत्ते वृषान्तस्थानमस्मादयनसन्धिस्थान तत्प्रदेशान्तरेण मिथुनान्तस्थानमस्मात्तदन्तरेण क्रान्त्याहोरात्रवृत्ते कर्का न्तस्थानमस्मादपि सिंहान्ताहोरात्रवृत्ते तदन्तरेण सिंहान्तस्थानमस्मादपि तदन्तरेण पश्चिमविषुवस्थानं कन्यान्तस्थानमस्मादपि पूर्वभागे तुलान्ताहोरात्रवृत्ते तदन्तरेण तुलान्तस्थानमस्मादपि वृश्चिकान्ताहोरात्रवृत्ते तदन्त रेण वृश्चिकान्तस्थानमस्मादपि तदन्तरेणायनसन्धिस्थानं धनुरन्तस्थान मस्मात्कुम्भायहोरात्रवृत्ते तदन्तरेण मकरान्तस्थानमस्मादपि मीनाद्यहोरात्र वृत्ते तदन्तरेण कुम्भान्तस्थानं मीनादिस्थानं च । अस्मादपि पूर्वाविषुवे मीनान्तस्थान मेषादिस्थानं च तदन्तरेणेति व्यक्तम् ॥ 10 ॥


अथ सूर्यभ्रमणमार्गरूपां क्रान्तिसंज्ञककक्षामाह—

अयनादयनं चैव कक्षा तिर्यक् तथापरा ॥ 11 ॥

क्रान्तिसंज्ञा तया सूर्यः सदा पर्येति भासयन् ॥

अयनात् =  अयनस्थानमारभ्य,

अयनं =  द्वितीयायनपर्यन्तं,

च=  चकार आरम्भसमाप्त्योर्भिन्नायनस्थाननिरासार्थकः,

अपरा=  गोल आधारवृत्तसमा वृत्तरूपा,

कक्षा =  भ्रमणमार्गरूपा वृत्ताकारा,

तथा=  राश्यङ्कमार्गेण,

एव=  एवकारोऽन्यमार्गव्यवच्छेदार्थकः ।

तिर्यक् =  उक्तवृत्तानुकारविलक्षणानुकारा,

क्रान्तिसंज्ञा =  क्रमणं क्रान्तिः । ग्रहगमनभोगज्ञानार्थ वृत्तं तत्संज्ञमुपकल्पितम् । अयनविषुवद्वयसंसक्तं क्रान्तिवृत्तं द्वादशराश्यङ्कितं गोले निबन्धयेदिति तात्पर्यार्थः ।

भासयन् =  भुवनानि प्रकाशयन् सन्,

सूर्यः= 

आदित्यः,

सदा= निरन्तरं,

तया=  क्रान्तिसंज्ञया कक्षया,

पर्येति=  स्वगत्या गच्छन्भगणपरिपूर्तिभोगं करोति सूर्यगत्यनुरोधेन नियत क्रान्तिवृत्तं कल्पितमिति भावः ॥ 11 ॥


ननु चन्द्राद्याः क्रान्तिवृत्ते कुतो न गच्छन्तीत्यत आह—

चन्द्राद्याश्च स्वकैः पतिरपमण्डलमाश्रितैः ॥ 12 ॥

ततोऽपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात् ॥

चन्द्रायाः=  चन्द्रोदयोऽन्यतिरिक्ता ग्रहाः,

स्वकैः =  स्वीयैः,

पातैः=  पाताख्यदैवतैः,

अपमण्डलं=  क्रान्तिवृत्तम्,

आश्रि तैः=  स्वस्वभोगस्थानेऽधिष्ठितैः,

ततः=  क्रान्तिवृत्तान्तर्गतग्रहभोग स्थानात्,

च=  चकाराद्विक्षपान्तरेण,

अपकृष्टाः =  दक्षिणत

उत्तरतो वा कर्षिता भवन्ति । अतः कारणात्,

अपक्रमात् = 

क्रान्तिवृत्तान्तर्गतस्वस्वभोगस्थानादित्यर्थः । दक्षिणत उत्तरतो वा

, विक्षेपान्तेषु=  गणितागतविक्षेपकलाग्रस्थानेषु,

दृश्यन्ते=  भूस्थजनैदृश्यन्ते । तथा च क्रान्तिवृत्तं यथा विषुवन्मण्डलेऽवस्थित तथा क्रान्तिवृत्ते पातस्थाने तत्पड्भान्तरे स्थाने च लग्नमुक्तपरमविक्षे पकलाभिस्तत्रिभान्तरस्थानादूर्ध्वाधःक्रमेण दक्षिणोत्तरतो लग्नं च वृत्तं विक्षेपवृत्तं चन्द्रादिगत्यनुरोधेन स्वं स्व भिन्न कल्पितं तत्र गच्छन्तीति भावः ॥ 12 ॥


अथ त्रिप्रश्नाधिकारोक्तलग्नमध्यलग्नयोः स्वरूपमाह—

उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात् ॥ 13 ॥

लकोदयैर्यथा सिद्धं खमध्योपरि मध्यमम् ॥

सौरदीषिका ॥

उदयक्षितिजे =  उदयं गच्छत्यः क्षितिजवृत्ते,

लग्नं =  क्रान्तिवृत्तस्य यः प्रदेशः संसक्तः तत्प्रदेशो मेषाद्यवधिभोगेनोयल्लग्न मुच्यत इत्यर्थः ।

तद्वशात् =  उदयलग्नानुरोधात्,

अस्तम् =  अस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदिक्प्रदेशमित्यर्थः,

गच्छत् =  क्रान्तिवृत्तं गच्छद्यप्रदेशन प्रवहवायुना संलग्नं तत्प्रदेशो मेषाद्यवधिभोगेनास्तलग्नमुच्यत इत्यर्थः,

लङ्कोदयैः = निरक्षोदयासुभिः,

यथा=  त्रिप्रश्नाधिकारोक्तप्रकारेण,

सिद्धं=  निष्पन्नं,

मध्यमं=  मध्य लग्नं,

खमध्योपरि=  दृश्याकाशविभागस्य मध्यं मध्यगतदक्षिणोत्तरसूत्रवृत्तानुकारप्रदेशरूपं न तु खमध्यं तस्योपरिस्थितं क्रान्तिवृत्तं याम्योत्तरवृत्ते तत्प्रदेशेन लग्नं तत्प्रदेशे मेषाद्यवधिभोगेन मध्यलग्न, मुच्यत इति तात्पर्यार्थः ॥ 13 ॥


अथ त्रिप्रश्नाधिकारोक्तान्त्यायाः स्वरूपं स्पष्टाधिकारोक्त

चरज्यायाः स्वरूपं चाह—

मध्यक्षितिजयोर्मध्ये या ज्या सान्त्याभिधीयते 14॥

ज्ञेया चरदलज्या च विषुवक्षितिजान्तरम् ॥

या =  उत्तरगोले त्रिज्याचरज्यायुतिरूपा दक्षिणगोले चरज्योन, त्रिज्यारूपा त्रिप्रश्नाधिकारोक्ता,

अन्त्या=  अन्त्या ज्ञेया,

सा=  अन्त्या,

मध्यक्षितिजयोः=  याम्योत्तरवृत्तक्षितिजवृत्तयोः,

मध्ये=  अन्तरालेऽहोरात्रवृत्तस्यैकदेशे,

ज्या =  ज्यासंज्ञा,

अभिधीयते=  गोलतत्त्वज्ञैः कथ्यते ।

विषुवक्षितिज़ान्तरं =  निरक्षक्षितिजस्व स्वक्षितिजवृत्तयोरन्तरं,

च=  चकारो विशेषार्थकस्तुकारपरस्तेन तदन्त रालस्थिताहोरात्रवृत्तैकदेशस्यार्धज्यांरूपमृजुसूत्रमन्तरविशेषात्मकम् । तथा च स्वनिरक्षदेशयोरुदयास्तसूत्रयोरन्तरमूर्ध्वाधरमिति फलितार्थः।

चर दलज्या=  तदन्तरालस्थिताहोरात्रवृत्तैकदेशरूपचराख्यखण्डकस्य । न तु दलमर्धम् । ज्या चरज्येत्यर्थः ।

ज्ञेया =  गोलतत्त्वज्ञैर्ज्ञातव्या ॥14॥


अथ क्षितिजस्वरूपमाह—

कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम् ॥15॥

स्वकं =  स्वीय,

स्थानं=  भूप्रदेशैकरूपम्,

उपरि =  सर्व प्रदेशेभ्य ऊर्ध्वं,

कृत्वा =  प्रकल्प्य,

मध्ये =  तादृशभूगोल ऊर्ध्वाधःखण्डसन्धौ, यद्वृत्तं तत्,

क्षितिजमण्डलं=  क्षितिजवृत्त कार्यम् ॥ 15 ॥


अथैनं दृष्टान्तगोलं सिद्धं कृत्वास्य स्वतः एव पश्चिमभ्रमो

,  यथा भवति तथा प्रकारमाह—

वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टितम् ॥

अमृतस्रावयोगेन कालभ्रमणसाधनम् ॥ 16 ॥

बहिः=  गोलोपरीत्यर्थः,

वस्त्रच्छन्नं =  गोलाकारेण वस्त्रेण छन्नं छादितं दृष्टान्तगोलं,

लोकालोकेन = क्षितिजवृत्तेन,

वेष्टितं=  संसक्तं कृत्वा,

अमृतस्रावयोगेन=  अस्मिन्गोले यथामृतस्रावयोगः । बलयोगं कार्यं तेन,

कालभ्रमणसाधनं =  षष्टिनाक्षत्रघटीभिदृष्टा न्तगोलस्य भ्रमणं यथा भवति तथा साधनं कार्यम् । स्वयंवहगोलयन्त्रं कार्यमित्यर्थः । एतदुक्तं भवति । दृष्टान्तगोलं वस्त्रच्छन्नं कृत्वा तदाधारयष्ट्यग्रे दक्षिणोत्तरभित्तिक्षिप्तनलिकयोर्मध्ये तथा क्षेप्ये यथा यष्ट्यग्रं ध्रुवाभिमुखं स्यात् । ततस्तस्मिन्वक्ष्यमाणममृतस्रावं तथा योजयेद्येन तस्य। गोलस्य षष्टिघटिकाभिः पश्चिमभ्रमणं भवेत् ॥ 16 ॥


अथ स्वयंवहार्थे यन्त्रे बीजप्रक्षेपास्य गोप्यत्वं चाह—

तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत् ॥

गोप्यमेतत्सकाशोक्तं सर्वगम्यं भवेदिह ॥ 17॥

,  ।

गोलयन्त्रं =  दृष्टान्तगोलरूपं यन्त्रं,

तुङ्गबीजसमा युक्तं =  तुङ्गो महादेवस्तस्य बीजं वीर्य पारद इत्यर्थस्तेन गोजितं सत्,

प्रसाधयेत् =  गणकः शिल्पज्ञः संपादयेत् । यथा नाक्षत्रषष्टिवटीभिर्गोलयन्त्रभ्रमस्तथा पारदप्रयोगेण सिद्धं कुर्यादित्यर्थः ।

एतत्=  स्वयंवहकरणं,

गोप्यम् =  अप्रकाश्यम् । कुत इत्याह,

प्रका शोक्तं=  अतिव्यक्ततयोक्तं स्वयंवहकरणम्,

इह =  भूलोके,

सर्वगम्यं=  सर्बजनगम्यं,

भवेत् =  स्यात् । तथा च सर्वज्ञेये वस्तुनि चमत्कारानुत्पत्तेश्चमत्कृत्यार्थ सर्वत्र न प्रकाश्यामित्याशयेन तत्करणं । व्यक्त नोक्तमिति भावः ॥ 17 ॥


ननु त्वया गोप्यत्वेनोक्तं मया कथमवगन्तव्यं मादृशैरन्यैश्च कथ

मवगन्तव्यमित्यत आह—

तस्माद्गुरूपदेशेन रचयेगोलमुत्तमम् ॥

युगे युगे समुच्छिन्ना रचनेयं विवस्वतः ॥ 18॥

प्रसादात्कस्यचिद् भूयः प्रादुर्भवति कामतः॥

_ ।

,

तस्मात् =  स्वयंवहकरणस्य गोप्यत्वात्,

गुरूपदेशेन=  परम्पराप्राप्तगुरोर्नियाजकथनेन,

गोलं =  दृष्टान्तगोलम्,

उत्तमं=  स्वयंवहात्मकं,

रचयेत् =  गणकः कुर्यात् । तथा च मया तुभ्यमुक्ता ग्रन्थे गोप्यत्वेनातिव्यक्ता नोक्तेति भावः । अन्यैः कथं ज्ञेयमित्यत आह ।

विवस्वतः=  सूर्यमण्डलाधिष्ठातुर्जीवविशेषस्य,

इयं=  स्वयंवह रूपा,

रचना=  क्रिया,

युगे युगे=  बहुकाल इत्यर्थः ।

समु च्छिन्ना=  लोके लुप्ता,

कस्यचित् =  मादृशस्य,

प्रसादात्=  अनुग्रहाद्,

भूयः=  वारंवारं,

कामतः=  इच्छया,

प्रादुर्भवति=  व्यक्ता भवतीत्यर्थः । तथा च यथा मत्तस्त्वयावगतं तथान्यस्मान्मादृशा दन्यैरवगन्तव्यं कालस्य निरवधित्वात् सृष्टेरनादित्वाचेति भावः ॥ 18 ॥


अथोक्तस्वयंवहक्रियारीत्या स्वयंवहगोलातिरिक्तान्यस्वयं,

वहयन्त्राणि कालज्ञानार्थं साध्यानि तत्साधनं रहति

कार्यमिति चाह—

कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् ॥19॥

एकाकी योजयेद्री यन्त्रे विस्मयकारिणि ॥

कालसंसाधनार्थाय =  कालस्य दिनगतादेः सूक्ष्मज्ञाननिमित्तिं,

तथा =  यथा स्वयंवहयन्त्रं साधितं तद्वदित्यर्थः,

यन्त्राणि=  स्वयंवहगोलातिरिक्तानि स्वयंवहयन्त्राणि,

साधयेत् =  रचयेत् । गणकः शिल्पादिस्वकौशल्येन कारयेदित्यर्थः ।

विस्मयकारिणि=  आश्चर्योत्पादके,

यन्त्रे=  कालसाधके,

बीजं=  स्वयंवहतासंपादकं कारणम्,

एकाकी =  एकव्यक्तिकोऽद्वितीयः सन्,

योजयेत्=  शिल्पज्ञतया स्वयमेव निष्पादयेदित्यर्थः । अन्यथा द्वितीयस्य तज्ज्ञानेन न्मुखात्तद्यन्त्रहार्दृस्य लोकश्रवणगोचरतायां कदाचित्सेभावितायां विस्मयानुत्पत्तः ॥ 16 ॥

अथैषां स्वयंवहयन्त्राणां दुर्घटत्वाच्छक्कादियन्त्रैः कालज्ञानं ज्ञेयमित्याह—

शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकद्या ॥20

गुरुपदेशादिज्ञेयं कालज्ञानमतन्द्रितः॥

।’,

शङ्कुयष्टिधनुश्चक्रैः=  शङ्कुयन्त्र यष्टियन्त्र धनुर्यन्त्रचक्रयन्त्रैः

, अनेकधा =  नानाप्रकारकैः,

छायायन्त्रैः =  छायासाधक यन्त्रैः,

गुरूपदेशात् =  स्वाध्यापकस्य निर्व्याजकथनात्,

अतन्द्रि तैः =  अभ्रमैः पुरुषैः,

कालज्ञानं =  दिनगतादिज्ञानं,

विज्ञेयं = सूक्ष्म त्वेनावगम्यम् । एतत्सर्वे सिद्धांतशिरोमणी भास्कराचार्यैः स्पष्टीकृतम् ॥


अथ घटीयत्रादिभिश्चमत्कारि यन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्म

साधयेदिति कालसाधनमुपसंहरति—

तोययन्त्रकपालाद्यैर्मयूरनरवानरैः ॥ 21॥

ससूत्ररेणुगर्भैश्च सम्यक्कालं प्रसाधयेत् ॥

तोययन्त्रकपालाद्यैः=  तोययन्त्रं च तत्कपालं कपालं‌

जलयन्त्रं वक्ष्यमाणं च तदाद्यं प्रथमं येषां तैर्यन्त्रैर्बालुकाप्रभृतिभिः सापेक्षघटीयन्त्रैः,

मयूरनरवानरैः=  मयूराख्यं स्वयंवजयन्त्रं निरपेक्षं

नरयन्त्रं शंक्वाख्यं छायायन्त्रं पूर्वोद्दिष्टवानरयन्त्रं स्वयंवहं निरपेक्षतः,

,

ससूत्ररेणुगर्भैः=  सूत्रसहिता रेणवो धूलयों गर्भे मध्ये येषां तैः

सूत्रप्रोताः षष्टिसङ्ख्याका मृद्घटिका मयूरोदरस्था मुखाद्घटिकान्तरेण स्वत एव निःसरन्तीति लोकप्रसिद्धया तादृशैर्यन्त्ररित्यर्थः । यद्वा सूत्राकारेण रेणवः सिकतांशा गर्भे उदरे यस्यैतादृशं यन्त्रं वालुकायन्त्रं प्रसिद्धम् ॥ तेन सहितैर्मयूरादियन्त्रैर्वालुकायन्त्रेण चेति सिद्धोऽर्थः ।

च=  चकार स्तोययन्त्रकपालाद्यैरित्यनेन समुच्चयार्थकः ।

कालं =  दिनगतादिरूपं,

सम्यक् =  सूक्ष्मं,

प्रसाधयेत्=  प्रकर्षेण सूक्ष्मत्वेनेत्यर्थः । जानीयादित्यर्थः ॥ 21 ॥


ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधन

प्रकारा बहवो दुर्गमाश्च सन्तीत्याह—

पारदाराम्बुसूत्राणि शुल्बतैलजलानि च ॥ 22॥

बीजानि पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः ॥

तेषु=  मयूरादियन्त्रेषु,

पारदाराम्बुसूत्राणि=  पारदयुक्ता आरा यन्त्रपालिगता अङ्कुशाकृतयस्तेषां प्रयोगा जलस्य प्रयोगाः सूत्र साधनप्रयोगा एतेषां प्रयोगाः ।

शुल्बतैलजलानि=  शुल्ब शिल्पनै पुण्यं ताम्रं च तैलजलानि, तैलयुक्तजलस्य प्रयोगः,

च=  चकारात्तयोः पृथक्प्रयोगोऽपि,

बीजानि=  केवलं तुङ्गबीजप्रयोगः,

पांसवः=  धूलिप्रयोगास्तैर्युक्ताः,

प्रयोगाः=  एते सर्वे प्रयोगाः,

अपि=  अपि शब्दात्सुगमतरा इत्यर्थः,

दुर्लभाः =  साधारणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः । अन्यथा प्रतिगृहं स्वयंवहानां प्राचुर्यापत्तेः ॥ 22 ॥


अथ कपालाख्यं जलयन्त्रमाह—

ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डे ऽमलाम्भसि ॥23॥

षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम् ॥

अधश्छिद्रम् =  अधोभागे छिद्रं यस्य तत्,

ताम्रपात्रं =  ताम्रघटितं पात्रम्,

अमलाम्भसि =  अमलं निर्मलं जलं विद्यते यस्मिंस्तत्तादृशे,

कुण्डे =  बृहद्भाण्डे,

न्यस्तं=  धरितं सद्,

अहोरात्रे=  नाक्षत्राहोरात्रे,

षष्टिः =  षष्टिवारं,

मज्झति=  अधश्छिद्रमार्गेण जलागमनेन जलपूर्णतया जले निमग्नं भवति । तत्,

कपालकं =  कपालमेव कपालकं घटखण्डानां कपालपदवाच्यत्वा घटाधस्तनार्धाकारं,

यन्त्रं =  घटीयन्त्रं,

स्फुटं=  सूक्ष्मं ज्ञेयम् । तद्घटनं तु । वृत्तं ताम्रमयं पात्रं कारयेद्दशभिः पलैः । षडङ्गुलादि तदधोस्तारे द्वादशाङ्गुलम् ॥ तस्याधः कारयेच्छिद्रं कर्षेणाष्टाङ्गुलेन तु । इत्येतद्घटिकासंज्ञं पलषष्ट्यम्बुपूरणम् ॥ स्वेष्टंवान्यदहोरात्रे षष्ट्याम्भसि निमज्जनैः । ताम्रपात्रमधश्छिद्रमम्बुयन्त्रं कपालकम् ॥ तले द्व्यङ्गुल विस्तारषड्वृत्तो द्वादशोर्द्धतः । इति व्यक्तम् ॥ 23 ॥


अथ शङ्गुयन्त्रं दिवैव कालज्ञानार्थं नान्यदित्याह—

नरयन्त्रं तथा साधु दिवा च विमले रवौ ॥ 24 ॥

छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम् ॥

विमले =  मेषादिव्यवधानरूपमलेन रहिते,

रवौ=  सूर्ये,

दिवा =  दिने,

च= चकार एवकारार्थकस्तेन साभ्रदिनव्यवच्छेदः ।




,

नरयन्त्रं =  द्वादशाङ्गुलशङ्गुयन्त्रं,

तथा=  घटीयन्त्रवत्कालसाधकं,

साधु=  सूक्ष्मं रात्रौ नैत्यर्थसिद्धम् । ननु शङ्कोछायासाधकत्वं न काल साधकत्वं तेन तस्य कथं यन्त्रत्वं कालसाधकवस्तुनो यन्त्रत्वप्रतिपादनादित्यत आह—

, छायासंसाधनैः =  इदं शङ्गुरूपनरयन्त्रं छायायाः सम्यक् सूक्ष्मत्वेन साधनैरवगमैः कृत्वा,

कालसाधनं=  दिनगता कालस्य कारणं,

प्रोक्तं=  कथितम् । अन्ययन्त्रेभ्योऽस्मानिरन्तरतयाति

श्रेष्ठम् । तथा च छायासाधकत्वेनैव छायाद्वाराशङ्कोः

कालसाधकत्वमान यन्त्रत्वन्याघातः । अत‌एव साभ्रदिने रात्रौ चानुपयुक्तः । नरस्य छायायन्त्रोपलक्षणत्वाद्यष्टिधनुश्चक्राण्यपि तथेति ध्येयम् ॥ 24 ॥

अथास्यफलमाह—

ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्वतः ॥ 25॥

ग्रहलोकमवाप्नोति पर्यायेणात्मवान्नरः॥

। ग्रहनक्षत्रचरितं =  ग्रहनक्षत्राणां चरितं गणितविषयकं ज्ञानं ग्रन्थपूर्वखण्डरूपं,

गोलं=  भूगोलभगोलस्वरूपप्रतिपादकग्रन्थं ग्रन्थो त्तरार्धान्तर्गतं,

च=  चकारः समुच्चये,

तत्त्वतः=  वस्तुस्थितिसद्भावेन सार्वविभक्ति कस्तासरित्येके ।

ज्ञात्वा=  अवगम्य,

नरः= पुरुषः,

प्रहलोकः=  चन्द्रादिग्रहाणां लोकं तल्लोकाधिष्ठितस्थानं ग्रहो पलक्षणत्वान्नक्षत्राधिष्ठितस्थानमपि ध्येयम् ।

मवाप्नोति=  प्राप्नोति ॥

पर्यायेण=  जन्मान्तरेण पुरुषः,

आत्मवान् =  आत्मज्ञानी भवति । तथाचात्मज्ञानान्मोक्षप्राप्तिरेवेतिभावः ॥ 25 ॥

इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां सौरदीपि

कायां ज्योतिषोपनिषदध्यायस्त्रयोदशः सम्पूर्णः ॥ 13॥


14 अथ मानाध्यायः प्रारभ्यते।

अथ मानानि कति किं च तैरित्यवशिष्टप्रश्नस्योत्तरभूत आरब्धमानाध्यायो व्याख्यायते । तत्र प्रथमं मानानि । कतीति प्रथमप्रश्नस्योत्तरमाह—

ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा ॥

सौरं च सावनं चान्द्रमार्क्षं मानानि वै नव ॥ 1 ॥

। ’,

ब्राह्मं=  "कल्पो ब्राह्ममहः प्रोक्तम्, " इत्यादिना प्रतिपादित ब्राह्ममानम् ।

दिव्यं =  "दिव्यं तदह उच्यते— इत्यादिना प्रति पादितं द्वितीयं देवमानम् ।

पित्र्यं=  पितॄणां माने वक्ष्यमाणं,

तथा =  तृतीयम् ।

प्राजापत्यं=  प्रजापतिमानं वक्ष्यमाणं चतुर्थम् ।

गुरोः=  बृहस्पतेः,

तथा =  वक्ष्यमाणं पञ्चममानम् ।

सौरं =  सूर्यमानं,

च=  चकारात् षष्ठं मानम् ।

सावन=  सावनमानं सप्तमम् ।

चान्द्र=  चान्द्रमानमष्टमम् ।

आर्क्षं =  नाक्षत्रमानं नवमम्,

वै=  निश्चयेन,

नव=  एतानि नवसंख्याकानि, मानानि=  कालमानानि सन्ति ॥ 1 ॥


अथ किञ्च तैरिति द्वितीयप्रश्नस्योत्तरं विवक्षुः प्रथम व्यवहारोपयुक्तमानानि दर्शयति—

चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रर्क्षसावनैः॥

बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः ॥2॥

अत्र=  मनुष्यलोके,

सौरचान्द्रसावनैः=  सौरचान्द्र नाक्षत्रसावनैः,

चतुर्भिः=  चतुर्भिर्मानैः,

व्यवहारः=  कर्मघटना भवति ।

षष्ट्यब्दं=  प्रभवादिषष्टिवर्षे,

बार्हस्पत्येन=  बृहस्पतिमानेन । बृहस्पतिमध्यमराशियोगात्मककालेन प्रत्येकं,

ज्ञेयम् =  बोध्यम् ।

अन्यैः=  अवशिष्टैर्बाह्मदिव्यपित्र्यप्राजापत्यैः,

नित्यशः= 

सदेत्यर्थः,

न अस्ति=  व्यवहारो नास्ति ।

तु=  तुकारात्कादाचि " त्कत्वेन तैर्व्यवहारः ॥ 2 ॥


अथ सौरेण व्यवहारं प्रदर्शयति—

सौरेण द्युनिशोर्मानं षडशीतिमुखानि च ॥

अयनं विषुवचैव संक्रान्तेः पुण्यकालता ॥3॥

भचक्रपरिवर्तेन भानोर्देवसुरद्विषाम् ॥

अहोरात्रं कृतादीनां संख्या ज्ञेया तथोदिता ॥ 4॥

सारण =  सौरमानेन,

निशोः=  अहोरात्रयोः,

मानं=  प्रमाणं ज्ञेयम् । प्रात्याह्निकसूर्यगतिभोगादहोरात्रं भवतीत्यर्थः ।

षड शीतिमुखानि=  वक्ष्यमाणानि,

च=  चकारात् सौरमानेन ज्ञेयानि ।

अयनम् =  उत्तरायणं दक्षिणायनं च,

विषुवत् =  सायनमेषतुलादिमानं,

च=  चकारः समुच्चयार्थे,

संक्रान्तेः=  मेषादिराशीनामन्येषामपि शेषसंक्रान्तीनां,

पुण्यकालता=  सूर्यबिम्बकलासम्बद्धा,

एव=  एवकारात्सौरमानेन ज्ञेयम् ।

भानोः= सूर्यस्य,

भचक्रपरिवर्तेन=  द्वादशराशिभोगकालेन,

देवसुरः द्विषां=  देवदैत्यानाम्,

अहोरात्रं=  दिनरात्रिमानं ज्ञेयम् ।

तथा=  सौरमानेन,

कृतादीनां=  कृतत्रेताद्वापरकलियुगानां,

उदिता=  प्रथमाध्यायोक्ता,

संख्या=  वर्षसंख्या,

ज्ञेया=  बोध्या ॥3॥ 4 ॥


अथ षडशीतिमुखमाह—

तुलादिषडशीत्यहां षडशीतिमुख क्रमात् ॥

तचतुष्टयमेव स्याद् द्विस्वभावेषु राशिषु ॥ 5 ॥

षड्विंशे धनुषो भागे द्वाविंशे तिमिनस्य च ॥

मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे ॥ 6 ॥

ततः शेषाणि कन्याया या न्यहानि तु षोडश ॥

क्रतुभिस्तानि तुल्यानि पितृणां दत्तमक्षयम् ॥ 7॥

तुलादिषडशीत्यह्नां= ,

तुलारम्भात् षडशीतिदिक्सङ्ख्यानां सौराणां,

षडशीतिमुखं =  षडशीतिमुखसंज्ञं भवति ।

तच्चतुष्टयं =  षडशीतिमुखस्य चतुः संख्या,

द्विस्वभावेषु राशिषु =  द्विस्वभावसंज्ञकराशिषु,

एवं=  वक्ष्यमाणा,

स्यात् =  भवेत् ।

धनुषः=  धनुराशेः,

षड्विंशे=  षड्विंशतितमे,

भागे=  अंश ।

तिमिनस्य =  मीनस्य,

द्वाविंशे=  द्वाविंशतितमेंऽशे ।

मिथुनाष्टादशे=  मिथुनराशिरष्टादशे,

भागे=  अंशे ।

कन्यायाः=  कन्याराशेः,

चतुर्दशे=  चतुर्दशे भागे षडशीति मुखं भवति ।

ततः=  कन्यादिचतुर्दशभागानन्तरं,

शेषाणि =  भगणभागेऽवशिष्टानि,

कन्यायाः=  कन्याराशेः,

यान्यहानि=  सौरभागसमानि,

षोडश=  षोडशसंख्याकानि,

तानि=  सौरदिनानि,

क्रतुभिः=  यज्ञैः,

तुल्यानि =  समानि । अतिपुण्यानीत्यर्थः । तत्र,

पितृणां =  पितृजनानां,

दत्तं=  श्राद्धादि कृतम्,

अक्षयम् =  अनन्तफलदं भवति । तुलाराशिमारभ्य धनुराशेः षड् विंशतिभागपर्यन्तं सूर्याक्रान्तषडशीति भागाः प्रथमं षडशीतिमुखम् । ततः धनुराशेः सप्तविंशतिभागमारभ्य मीनराशेः द्वाविंशतिभागपर्यन्तं

सूर्याक्रान्तषडशीतिभागाः द्वितीयं षडशीतिमुखम् । ततोऽनन्तरं मीनरा शेस्त्रयोविंशतितमभागमारभ्य मिथुनाष्टादशभागपर्यन्तं सूर्याक्रान्तषडशीति । भागास्तृतीयं षडशीतिमुखम् । ततोऽनन्तरं मिथुनराशेरेकोनविंशतितम भागमारभ्यकन्यायाश्चतुर्दशभागपर्यन्तं सूर्याक्रान्तषडशीतिभागाश्चतुर्थं षडशीतिमुखं भवति । ततोऽनन्तरं कन्यायाः पञ्चदशभागमारभ्य कन्यान्तपर्यन्तं सूर्याक्रान्ताः षोडशभागाः सौरदिनानि तेषु पितृणां श्राद्धादिकं कृतं चेत्तदा पितॄणामक्षयतृप्तिः श्राद्धकर्तुः प्रतिदिनं यज्ञतुल्यफलं स्यादित्यर्थः ॥ 5 ॥ 6 ॥ 7 ॥


अथ राश्यधिष्ठितक्रान्तिवृत्ते चत्वारि स्थानानि पदसन्धिस्थाने

’विषुवायनाभ्यां प्रसिद्धानीत्याह—

भचक्रनाभौ विषुवद्वितयं समसूत्रगम् ॥

अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः ॥8॥

भचक्रनाभौ=  भगोलस्य ध्रुवाभ्यां तुल्यान्तरेण मध्यभागे,

विषुवद्वितयं =  विषुवद्द्वयं,

समसूत्रगं=  परस्परं व्यास सूत्रान्तरितं ध्रुवमध्ये विषुववृत्तस्थानाद्विषुववृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमेण पूर्वापरौ विषुवत्संज्ञौ मेषतुलाख्यौ चेत्यर्थः ।

अयन द्वितयम् =  अयनद्वयं कर्कमकरादिरूपम् ।

च=  चकारः समुच्चये । तेन समसूत्रगं,

ताः=  विषुवायनाख्याः ’क्रान्तिवृत्तप्रदेशरूपाभूमयः,

चतस्रः=  चतुःसंख्याकाः,

प्रथिताः=  गणितादौ पदादित्वेन प्रसिद्धाः ।

एव=  एवकारादन्यराशीनां निरासः ।

तु=  तुकारा त्तासां समसूत्रस्थत्वेऽपि विषुवायनत्वाभावात्पदादित्वेन प्रसिद्धिरित्यर्थः ॥8॥


अथावशिष्टनामादिस्वरूपमन्यदप्याह—

तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः॥

नैरन्तर्यान्तु संक्रान्तेज्ञेयं विष्णुपदीद्वयम् ॥ 6 ॥

। तदन्तरेषु =  विषुवायनान्तरारेषु,

संक्रान्तिद्वितयं द्वितयं

पुनः =  राश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तराले राश्या दिभागौ द्वौ भवत इत्यर्थः । यथा हि मेषाख्यविषुवकर्काख्यायनयोरन्त राले वृषमिथुनयोरादी । कर्कतुलयोरन्तराले सिंहकन्ययोरादी । तुलामकर योरन्तराले वृश्चिकधनुषोरादी । मकरमेषयोरन्तराले कुम्भमीनयोरादी इति । एवं विषुवानन्तरं संक्रमणद्वयमनन्तरमयनं तदनन्तरसंक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरसंक्रान्तिद्वितयमनन्तरमयनमित्यादि पौनः पुन्येन, ज्ञेयमित्यर्थः । संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेषमाह ।

नैरन्तर्यात् =  निरन्तरतया सम्भूतायाः,

संक्रान्तेः=  राश्यादिभागे ग्रहाणामाक्रमणसकाशात्,

विष्णुपदीद्वयं ज्ञेयं =  प्रथमसंक्रान्तिर्विष्णुपदसंज्ञा तयोर्द्वयं तदन्तरे प्रत्येकं भवतीति तात्पर्यार्थः,

तु=  तुकारात् षडशीतिसंज्ञं द्वितीयसंक्रमणं पूर्वसूचितं तयोरपि द्वयं तदन्तराले भवतीति ध्येयम् ॥ 1 ॥


अथायनद्वयमाह—

भानोर्मकरसंक्रान्तेः षण्मासा उत्तरायणम् ॥

कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम्॥10॥

। भानोः=  सूर्यस्य,

मकरसंक्रान्तेः=  मकराख्यसंक्रान्तेः सकाशात्,

षण्मासाः=  षट्सौरमासाः,

उत्तरायणम् =  उत्तरायणसंज्ञकाः स्युरित्यर्थः ।

कार्कादेः=  कर्कसंक्रान्तेः सकाशात्,

तथा=  सूर्यभोगात्,

एव=  एवकारादन्यग्रहनिरासः,

षण्मासाः=  षट्सौरमासाः,

दक्षिणायनम् =  दक्षिणायनसंज्ञकाः सन्तीत्यर्थः,

तु=  तुकारात्सौराः मासा ज्ञेया इत्यर्थः ॥10॥


अथर्तुमासवर्षाण्याह—

द्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः॥

मेषादयो द्वादशैते मासास्तैरेव वत्सरः ॥ 11 ॥

। ततः=  मकरसंक्रान्तेः सकाशात्,

अपि=  अपि शब्दादुत्तरायणपर्यन्तं,

द्विराशिनाथाः=  द्विराशिस्वामिका राशिद्वयार्कभोग्यास्मका इत्यर्थः ।

शिशिरादयः=  शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः,

ऋतवः=  कालविभागविशेषा भवन्ति ।

एते=  सूर्यभोगविषयकाः,

मेषादयः =  अजादिराशयः,

द्वादश =  द्वादशसंख्याकाः,

मासाः=  सौरमासाः सन्ति,

तैः=  द्वादशभिर्मासैः,

एष =  एव कारान्न्यूनाधिकव्यवच्छेदः,

वत्सरः=  सौरवर्षं भवति ॥ 11 ॥


अथ प्रसंगात्संक्रान्तौ पुण्यकालानयनमाह—

अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः॥

तदर्धनाड्यः संक्रान्तेर्वाक् पुण्यं तथापरे ॥ 12॥

अर्कमानकलाः =  सूर्यबिम्बकलाः,

षष्ट्या=  षष्टिसंख्यया,

गुणिताः=  ताडिताः,

भुक्तिभाजिताः=  सूर्यभुक्त्या मताः । फलं किञ्चिन्यूनाधिका द्वात्रिंशद्घटिका भवन्ति ।

तदर्धनाड्यः=  तस्य,

फलस्यार्धे=  तत्संख्याका घटिकाः षोडश घटिका इत्यर्थः,

संक्रान्तेः=  सूर्यस्य राशिप्रवेशकालादित्यर्थः,

अर्वाक्=  पूर्व,

पुण्यं=  स्नानदानादिधर्मकृत्ये पुण्यघटिकाः पुण्यवृद्धिकारकाः।

अपरे =  संक्रान्त्युत्तरकाले षोडश घटिका,

तथा =  स्नानादि धर्मकृत्ये पुण्यवृद्धिदा इत्यर्थः । अत्रापि धर्मशास्त्रोक्तः कालविशेषोऽपि संक्रान्तिषु तज्ज्ञैर्विज्ञयः । तत्रादौ प्रथमतः संक्रान्तिसूक्ष्म कालः कथ्यते । सुस्थो नरः सुखासीनो यावत्स्पन्दति लोचनम् । तस्य त्रिंशत्तमा भागस्त, स्परः परिकीर्तितः ॥ तत्पराच्छतभागस्तु त्रुटिरित्यभिधीयते । त्रुटेः सहस्र भागो यः स कालो रविसंक्रमी ॥ रविभवति तत्काले त्रैलोक्यं सचरा चरम् । ब्रह्मापि तं न जानाति किं पुनः प्राकृतो जनः ॥ इति ॥ तथा

सति संक्रान्तौ स्नानदानादिकं कथमित्याह—

अर्वाक् षोडश नाड्यस्तु नाड्यः पश्चाच षोडश । पुण्यकालोऽर्कसंक्रान्तेः स्नानदानजपादिषु । इति सर्व संक्रान्तिसाधारणधर्मविशेषः, पुनरुच्यते । मध्ये विषुवति दान विष्णुपदे दक्षिणायने चादौ । षडशीतिमुखेऽतीत्याथोदगयनेऽपि भूरि फलम् ॥ इति सौरमानम् ॥ 12 ॥


अथ सौरमुक्त्वा क्रमप्राप्तं चान्द्रमानमाह—

अर्काद्विनिसृतः प्राचीं यद्यात्यहरहः शशी ॥

तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः ॥ 13 ॥

अर्कात् =  सूर्यात्,

विनिसृतः =  सूर्यसमागमं त्यक्त्वा । पृथग्भूतः सन्,

शशी=  चन्द्रः,

अहरहः=  प्रतिदिनं,

यत्=  यत्संख्यामितं,

प्राची=  पूर्वी,

याति=  गच्छति,

तत्=  तत्संख्यामितं,

चान्द्रमानं=  चन्द्रप्रमाणं प्रतिदिने गत्यन्तरांशमितम् । ननु सौरदिनं सूर्यांशेन यथा भवति तथैतद्रूपैर्भागः कियद्भिः पूर्ण चान्द्र दिनं भवतीत्यत आह,

द्वादशभिः =  द्वादशसंख्याकैः,

अंशः=  भागः,

तु=  तुकारात्सूर्यचन्दान्तरोत्पन्नस्तस्य तद्रूपत्वात् ।

तिथिः=  एका तिथिः,

ज्ञेया=  बोध्या । सूर्यचन्द्रान्तरोत्पन्नादशभागैरेकं चान्द्र दिनं भवतीति भावार्थः । उपपत्तिस्तु प्रागेव स्पष्टाधिकारे कथिता ॥13॥


अथ चान्द्रव्यवहारमाह—

तिथिः करणमुद्द्वाहः क्षौरं सर्वक्रियास्तथा ॥

व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते ॥ 14 ॥

। तिथिः=  प्रतिपदाद्याः,

करणं =  बवादिकम्,

उद्वाहः=  विवाहः,

क्षौरं=  चौलकर्म । एतदाद्याः,

सर्वक्रियाः=  व्रतबन्धाद्युत्सवरूपाः,

व्रतोपवासयात्राणां =  नियमोपवासगमनानां,

क्रिया=  करणं,

तथा =  समुच्चयार्थकः,

चान्द्रेण =  चन्द्रमानेन,

गृह्यते=  अङ्गीक्रियते ॥ 14 ॥

अथ चान्द्रमासं प्रसङ्गात्पितृमानं चाह—

त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम् ॥

निशा च मासपक्षान्तो तयोर्मध्ये विभागतः॥15॥

। त्रिंशता=  त्रिंशन्मितैः,

तिथिभिः=  चान्द्रदिनैः,

चान्द्रः=  ऐन्दवः,

मासः=  त्रिंशत्तिथ्यात्मकः,

पित्र्यं=  पितृसम्बन्धि,

अहः =  दिनं,

स्मृतं=  कथितम् ।

निशा=  रात्रिः पितृसंबद्धा,

च=  चकारो व्यवस्थार्थकः । तेनोभयं नैकः प्रत्येकं किंतु मिलितं स्मृतमिति लिङ्गानुरोधेनोभयत्रान्वेति । तथा च चान्द्रो मासः । पित्र्याहोरात्रमिति फलितार्थः ।

मासपक्षान्तौ= मासान्तो दर्शान्तः पक्षान्तः पूर्णिमान्तः एतावित्यर्थः ।

विभागतः=  क्रमेणेत्यर्थः ।

तयोः=  पित्र्याहोरात्रयोः,

मध्ये =  अर्धे भवतः । दर्शान्तः पितृणां मध्याह्नः पूर्णिमान्तः पितॄणां निशीथ इत्यर्थः । अर्था त् कृष्णाष्टम्यर्धे दिनस्यारम्भः । शुक्लाष्टम्यर्धे दिनान्त इति सिद्धम् ॥15॥


अथ क्रमप्राप्तं नक्षत्रमानं प्रसङ्गान्माससंज्ञां चाह—

भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते ॥

नक्षत्रनाम्ना मासास्तु ज्ञेया पर्वान्तयोगतः॥16॥

नित्यं =  प्रत्यहं,

भचक्रभ्रमणं =  नक्षत्रसमूहस्य प्रवहवा युकृतपरिभ्रमः,

नाक्षत्रं=  नक्षत्रसंबन्धि,

दिनम्=  अहः,

उच्यते= 

मानतत्त्वज्ञैः कथ्यते । नित्यमित्यनेन चन्द्रभोगनक्षत्रभोगौ नाक्षत्रमित्यस्य निरासः । भचक्रभ्रमणानुपपत्तेः ।

पर्वान्तयोगतः=  पर्वान्तः पूर्णिमान्तस्तस्य योगात्तत्संबन्धात् ।

नक्षत्रनाम्ना=  नक्षत्रस्य नाम्ना,

मासाः=  चान्द्रमासाः,

ज्ञेयाः=  अवगम्याः ।

तु=  तुकाराच्चान्द्रा मासा ज्ञेया । पूर्णिमान्ते यस्मिनक्षत्रे चन्द्रः स्थितस्तन्नक्ष त्रनाम्ना मासो ज्ञेय इति तात्पर्यार्थः । यथा चित्रया युक्ता पौर्णमासी चैत्री, सा चैत्री यस्मिन्मासे असौ चैत्रः, चित्रासम्बन्धाच्चैत्र इति फलितार्थः । विशाखासंबन्धाद्वैशाखः । ज्येष्ठायाः सम्बन्धाज्ज्यैष्ठः । एवमाषाढादयो मासा ज्ञेयाः ॥ 16 ॥


ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे चैत्रादिमाससंज्ञा कथं

भवन्तीत्यत आह—

कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम् ॥

अन्त्योपान्त्यो पञ्चमश्च त्रिधा मासत्रयं स्मृतम् 17

471 ।

कार्तिक्यादिषु=  कार्तिकमासादीनां पौर्णमासीस्वित्यर्थः । “अत्र नक्षत्रसंयोगार्थमिति निमित्तसप्तमी,

संयोगे=  नक्षत्राणां संयोगे।",

कृत्तिकादि द्वयं द्वयं=  कृत्तिकादि द्वयं द्वयं नक्षत्रं कथितम्,

अन्त्योपान्त्यौ=  अन्त्य आश्विनः । उपान्त्यो भाद्रपदः । एतौ मासौ ।

पञ्चमः=  फाल्गुनः,

च=  चकारः समुच्चय इति,

मासत्रयं=  मासानां त्रयं,

त्रिधा=  स्थानत्रये,

स्मृतं=  कथितम् । तथा हि । कृत्तिकारोहिणीभ्यां कार्तिकः, मृगाभ्यां मार्गशीर्षः, पुनर्व सुपुष्याभ्यां पौषः, आश्लेषामघाभ्यां माघः, पूर्वोत्तराफाल्गुणीहस्तेभ्यः फाल्गुनः, चित्रास्वातीभ्यां चैत्रः, विशाषानुराधाभ्यां वैशाखः, ज्येष्ठा मूलाभ्यां ज्यैष्ठा, पूर्वोत्तराषाढाभ्यामाषाढः, श्रवणधनिष्ठाभ्यां श्रावणः, शततारापूर्वोत्तरा भाद्रपदाभिर्भाद्रपदः, रेवत्यश्विनीभरणीभराश्विन इति । अत्र सुधावर्षिण्यां सुधाकरपण्डितैस्तु एवं निरयणमानागतनक्षत्रैर्मासानां संज्ञान लिखिता तथैवार्थर्ववेदेऽपि मासानां संज्ञा । सायनमानवशात् तत्तत् नक्षत्राणां संबन्धाभावात्संज्ञास्वनापत्तिरतो निरयणमानेनैव व्यवहारः समुचित इत्येव प्राचीनानां वैदिकानां सम्मतिरिति स्फुटम्, इति लिखितं तदतीवरमणीयम् ॥ 17 ॥


अथ प्रसङ्गात्कार्तिकादिबृहस्पतिवर्षाण्याह—

वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ ॥

कार्तिकादीनि वर्षाणि गुरोरस्तोदयात्तथा ॥ 18 ॥

तथा =  पूर्वोक्तप्रकारेण । यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्संज्ञो मासो भवति तथैवत्यर्थः ।

गुरोः=  बृहस्पतेः,

अस्तो दयात् =  अस्तादुदयाद्वा,

शाखादिषु =  वैशाखादिद्वादशमासेषु,

कृष्णे =  कृष्णपक्षे,

पश्चदशे तिथौ=  अमायामित्यर्थः ।

च=  चंकारः पौर्णमासीसम्बन्धात्समुच्चयार्थकः ।

योगः=  दिननक्षत्र सम्बन्धः,

कार्तिकादीनि =  कार्तिकमादिर्येषां तानि,

वर्षाणि =  द्वादशवर्षाणि भवन्ति । वैशाख मास सूर्यः प्रायेण कृत्तिकानक्षत्रस्थो भवति तदैव गुरुः कृत्तिकानक्षत्रे रोहिणीनक्षत्रस्थो वा वैशाखे मासि ।


पञ्चदश्याममारूपायामुदेति, अथवास्तं गच्छति तदा—

गुरोः कार्तिक वर्षस्य प्रवेशः स्यात् । ज्येष्ठे, यदा मृगशीर्षनक्षत्रे स्थितः सूर्यस्तदा मृग शिरसि आर्द्रायां वा गुरुः स्थित उदेत्यस्तं वा गच्छति तदा मार्गशीर्षवर्षः । प्रायेणाषाढे सूर्यः पुनर्वसौ तिष्ठति तदा गुरुः पुनर्वसौ पुष्य वा स्थित उदेत्यस्तं वा गच्छति तदा पौषं वर्षम् । एवमग्रेऽपि ज्ञेयम् ॥ 10 ॥


अथ क्रमप्राप्तं सावनमाह—

उदयादुदयं भानोः सावनं तत्सकीर्तितम् ॥

सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः ॥ 19 ॥

उदयात् =  सूर्योदयात्,

उदयं =  उदयकालमारभ्याव्यवहितो दयकालपर्यन्तं यत्कालात्मकं,

तत्=  कालात्मकं,

सावनं =  सावन दिनं,

प्रकीर्तितं=  कथितम् ।

एतेन =  उदयद्वयान्तरात्मककाल

स्य गणनया,

सावनानि=  वसुद्वयष्टाद्रीत्यादीनि मध्याधिकारोक्तानि,

स्युः=  भवेयुः,

तैः =  अर्कसावनैः,

यज्ञकालविधिः=  यज्ञस्य यः कालस्तस्य गणना भवति ।

तु=  तुकारादन्येषामपि खेटाना मुदयादुदयपर्यन्तं यानि सावनदिनानि भवन्ति तेषां निरासः । सौरसा वनैरेव यज्ञकालस्य गणना भवतीत्यर्थः ॥ 16 ॥


अथ व्यवहारान्तरमाह—

सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ॥

मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते ॥ 20 ॥

सूतकादिपरिच्छेदः=  सूतकं जन्ममरणसम्बन्धि, आदिपद ग्राह्यं चिकित्सितचान्द्रायणादि तस्य परिच्छेदो निर्णयः ।

दिनमासाब्दपाः=  दिनाधिपमासेश्वरवर्षेश्वराः,

तथा =  समुच्चये,

ग्रहभुक्तिः=  ग्रहाणां गतिः,

मध्यमा=  स्थिरा ।

तु=  तुकारा स्पष्टगतेर्निरासः । तस्याः प्रतिक्षणं वैलक्षण्यादिनसम्बन्धस्याभावात् ।

सावनेन =  सावनमानेन,

एव=  एवकारादन्यमाननिरासः,

गृह्यते=  सुधीभिरङ्गीक्रियते । अत्र बहुवचनानुरोधेन गृह्यत इत्यत्र बहुवचनं ज्ञेयम् ॥ 20 ॥


अथ दिव्यमानमहा—

सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् ॥

यत्प्रोक्तं तद्भवेद् दिव्यं भानोर्भगणपूरणात् ॥21॥

भानोः=  सूर्यस्य,

भगणपूरणात् =  भगणभोगपूर्तेः,

सुरासुराणां=  देवदानवानाम्,

विपर्ययात् =  व्यत्यासात्,

यदहोरात्रं =  यद्दिनरात्रिमानं,

प्रोक्तं =  पूर्वमनेकधा निर्णीत,

तत्=  अहोरात्रं,

दिव्यं=  दिव्यमानं,

भवेत् =  स्यात् ॥ 21॥


अथावशिष्टे प्राजापत्यब्रह्ममाने आह—

मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् ॥

न तत्र द्युनिशोर्भेदो ब्राह्मं कल्पः प्रकीर्तितम्॥22॥

मन्वन्तरव्यवस्था=  मन्वन्तरावस्थितिः,

च=  चकारेण "युगानां सप्ततिः सैका, " इत्यादिना मध्याधिकारोक्ता ग्राह्या ।

,

प्राजापत्यं=  प्रजापतिमानम्,

उदाहृतं=  कथितम् । मनूनां प्रजापतिपुत्रत्वात् । ननु देवपितृमानयोर्दिनरात्रिभेदो यथोक्तस्तथास्मिन्माने दिनरात्रिभेदप्रतिपादनं कथं नोक्तमित्यत आह ।

तत्र=  प्राजापत्य माने,

निशोः=  दिनरात्र्योः,

भेदः =  विवेको,

न=  सौर,  चान्द्रवन्नास्ति।

कल्प=  यो युगसहस्रात्मकः कल्पः प्रागुक्त स्तदेव,

ब्राह्मं =  ब्रह्ममानं,

प्रकीर्तितम् =  कथितम् ॥ 22 ॥


अथ स्वोक्तमुपसंहरति—

एतत्ते परमाख्यातं रहस्यं परमाद्भुतम् ॥

ब्रह्मैतत् परमं पुण्यं सर्वपापप्रणाशनम् ॥ 23 ॥

हे परम =  हे दैत्यश्रेष्ठ ! सूर्यभक्तत्वात् ।

ते=  तु, भ्यम्,

एतत् =  अधुनोक्त,

परं=  द्वितीयकथनम्,

अद्भुतम् =  आश्चर्यकरम्,

आख्यातं=  निराकाङ्क्षतया संपूर्ण कथितम् ।

एतत् =  मदुक्तं,

ब्रह्म=  ब्रह्मसमं तथा चान्यशास्त्राणां ब्रह्मसमत्वाभावेऽपि तज्ज्ञानाद्ब्रह्मानन्दावाप्तिरस्माद्ब्रह्मस्वरूपाद्ब्रह्मानन्दा, याप्तौ किं चित्रमिति भावः । कुत इदं ब्रह्मसममित्यत आह ।

परमम्=  उत्कृष्टम् । अत्र हेतुभूतं विशेषणद्वयमाह ।

पुण्यं=  पुण्यजनकम्,

सर्वपापप्रणाशनम् =  सर्वपापानां नाशकम् ॥ 23 ॥

नन्वस्माद् ब्रह्मानन्दप्राप्तिरुक्त्वा पूर्व ग्रहलोकप्राप्तिश्चोक्ता

तत्रानयोः किं फलं भवतीत्यत आह—

दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानमुत्तमम् ॥

विज्ञायाकादिलोकेषु स्थानंप्राप्नोतिशाश्वतम् ॥ 24॥

आ=  नक्षत्रसम्बन्धिज्ञानं,

ग्रहाणां=  खेटानां,

ज्ञानं=  बोधं,

च=  समुच्चये,

उत्तमं=  सर्वशास्त्रेभ्यः उत्कृष्टम् । अत्र हेतु भूतं विशेषणमाह ।

दिव्यं=  स्वर्गलोकोत्पन्नं,

दर्शितं=  मया तुभ्यमुपदिष्टम्,

विज्ञाय =  ज्ञात्वा,

अर्कादिलोकेषु=  सूर्यादि ग्रहलोकेषु,

स्थानम् =  अधिष्ठानं,

प्राप्नोति =  आलभते,

शाश्वतं=  नित्यं ब्रह्मसायुज्यरूपं स्थानं प्राप्नोति । पूर्वार्धस्य द्वितीयत्रकारः समुच्चयार्थकोऽत्रान्वेति । तथाः चोभयं फलं क्रमेण भवतीति भावः ॥ 24 ॥

यत्त्वेतत्ते परमाख्यातमित्यादिश्लोकः कचित्पुस्तकेऽस्माच्छ्लोकात्पूर्वं

नास्ति किंतुमाननिरूपणान्तस्थे दिव्यं चा‌र्क्षमित्यादि श्लोकान्ते

मानाध्यायसमाप्तिं कृत्वाग्रे ॥

___ यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशा

स्त्राणां गणितं मूर्धनि स्थितम् ॥ 1॥ न दयं तत् कृतघ्नाय वेदविप्लवकाय च । अर्थलुब्धाय मूर्खाय सा‌इङ्काराय पापिने ॥ 2 ॥ एवं विधाय

पुत्रायाप्यदेयं सहजाय च । दत्तेन वेदमार्गस्य समुच्छेदः कृतों भवेत् ॥ 3 ॥ ब्रजेतामन्धतामित्रं गुरुशिष्यौ सुदारुणम् । ततः शान्ताय शुचये ब्राह्मणायैव दापयेत् ॥ 4 ॥ चक्रानुपातजो मध्यो मध्यवृत्तांशजः स्फुटः । कालेन दृक्समो न स्यात्ततो बीजक्रियोच्यते ॥ 5 ॥ राश्या दिरिन्दुरङ्कनो भक्तो नक्षत्रकक्षया । शेष नक्षत्रकक्षायास्त्यजेच्छेषकयो स्तयोः ॥ 6 ॥ यदल्यं तद्भजेद्भानों कक्षया तिथिनिघ्नया । बीजं भागा दिकं तत्स्यात्कारयेत्तद्धनं रवौ ॥ 7 ॥ त्रिगुणं शोधयेदिन्दौ जिननंभूमिजे क्षिपेत् । दृश्यमध्नामृणं ज्ञोचे खरामघ्नं गुरावृणम् ॥ ॥ ऋणं व्योमनवघ्नं स्यादानवेज्यचलोच्चके ॥ धन सप्ताहतं मन्दे परि धीनामथोच्यते ॥ 1 ॥ युग्मान्तोक्ताः परिधयों ये ते नित्यं परिस्फुटाः ॥ ओजान्तोक्तास्तु ते ज्ञेयाः परबीजेन संस्कृताः ॥ 10 ॥ वच्मि निर्बीज कानोजपदान्ते वृत्तभागकान् ॥ सूर्येन्द्वोर्मनवो दन्ता धृतितत्त्वकलो निताः ॥ 11 ॥ बाणतर्का महीजस्य सौम्यस्याचलबाहवः । वाक्पते रष्टनेत्राणि व्योमशीतांशवो भृगोः ॥ 12 ॥ शून्यतयोऽर्क पुत्रस्य बीज मेतेषु कारयेत् ॥ बीजं खागन्युद्धृतं शोध्यं परिध्यशेषु भास्वतः ॥ 13 ॥ इनाप्तं योजयेदिन्दोः कुजस्याश्वहतं क्षिपेत् ॥ विदश्चन्द्रहतं योज्यं सुरे रिन्द्रतं धनम् ॥ 14 ॥ धनं भृगोर्भुवा निनं रविप्नं शोधयेच्छनेः ॥ एवं "मान्दाः परिध्यंशाः स्फुटाः स्युर्वच्मि शीघ्रकान् ॥ 15 ॥ भौमस्यांभ्रगु णाक्षीणि बुधस्याब्धिगुणेन्दवः ॥ बाणाक्षा देवपूज्यस्य भार्गवस्येन्दुष ड्यमाः ॥ 16 ॥ शनश्चन्द्राब्धयः शीघ्रा औजान्ते बीजवर्जिताः ॥ द्विघ्नं

स्वं कुजभागेषु बाजं द्विघ्नमृणं विदः ॥ 17 ॥ अत्यष्टिनं धनं सुरेरि न्दुघ्नं शोधयेत्कवेः ॥ चन्द्रघ्नमृणमार्कस्य स्युरेभि‌ईक्समा ग्रहाः ॥ 18 ॥ एतद्बीजं मयाख्यातं प्रीत्या परमया तव ॥ गोपनीयमिदं नित्यं नोपदेश्य यतस्ततः ॥ 16 ॥ परीक्षिताय शिष्याय गुरुभक्ताय साधये ॥ देयं वि प्राय नान्यस्मै प्रतिकञ्चुककारिणे ॥ 20 ॥ बीजं निःशेषसिद्धान्तरहस्य । परमं स्फुटम् ॥ यात्रापाणिग्रहादीनां कार्याणां शुभसिद्धिदम् ॥ 21 ॥ इत्यस्य कचित् पुस्तके लिखितस्य बीजोपनयनाध्यायान्ते लिखितो दृश्यते तत्तु न समञ्जसम् ॥ उत्तरखण्डे ग्रहगणितनिरूपणाभावात् तनिरूपणप्रसङ्गनिरूपणीयाध्यायस्य लेखनानौचित्यात् स्पष्टाधिकारे तदन्ते वास्य लेखनस्य युक्तत्वाच्च । किं च ’मानानि कति किं च तैः! इति प्रश्नाग्रे प्रश्नानाममावाप्रश्नोत्तरभूतोत्तरखण्डेऽस्य लेखनमसङ्गतम् ॥ अपि च । उपदेशकाले बीजाभावादोऽन्तरदर्शनमनियतं कथमुपदिष्ट मन्यथान्तर्भूनत्वेनैवोकः स्यादित्यादिविचारेण केनचिदुष्टेन बीजस्यार्ष मूलकत्वज्ञापनायान्तेऽत्र बीजापनयनाध्यायः प्रक्षिम इत्यवगम्य न व्या ख्यात इति मन्तव्यम् ॥ 24 ॥


अथ मुनीनप्रति कथितसंवादस्योपसंहारमाह,

इत्युक्त्वा मयमामन्त्र्य सम्यक् तेनाभिपूजितः॥

दिवमाचक्रमेऽकांशः प्रविवेश स्वमण्डलम् ॥ 25 ॥

अर्कांशः=  सूर्यांशपुरुषः,

मयं =  मयासुरम्,

सम्यक्=  तत्त्वतः,

आमन्त्र्य =  ग्रहादिचरितमुपदिश्य,

इति=  "एतत्ते, " इत्यादि श्लोकद्वयम्,

उक्त्वा =  कथयित्वा,

तेन =  मयासुरेण,

अभिपूजितः=  गन्धपुष्पधूपदीपनैवेद्यवस्त्रालङ्कारादिभिः पूजाविषयी कृतः सन् । मयद्वारा मर्त्यलोके प्रसिद्धिं सूर्यतुल्यत्वेन प्राप्त इति भावः ।

दिवं=  स्वर्गम्,

आचक्रमे=  आक्रमणविषयं चक्रे । ननु स्वर्गेऽपि किं स्थानं गत इत्यत आह ।

स्वमण्डलम् =  सूर्यबिम्बं,

प्रविवेश=  विशतिस्माधिष्ठितवान् इत्यर्थः ॥ 25 ॥

अथ मयासुरावस्थां तात्कालिकीमाह—

मयोऽथ दिव्यं तज्ज्ञानं ज्ञात्वा साक्षाद्विवस्वतः॥

कृतकृत्यमिवात्मानं मेने निर्धूतकल्मषम् ॥ 26 ॥

अथ=  सूर्यांशपुरुषाऽन्तर्धानानन्तरं,

मयः=  मयासुरः,

साक्षात् =  अनन्यद्वारेत्यर्थः,

विवस्वतः =  सूर्यात्,

दिव्यं = 

स्वर्गस्थं,

तज्ज्ञानं =  ग्रहस्थित्यादिज्ञानं पूर्वोक्तं,

ज्ञात्वा =  प्राप्य

, आत्मानं=  स्वं,

निर्धूतकल्मषं=  निवारितपापं,

कृतकृत्यं =  संपादितकार्यं,

मेने =  मन्यतेस्म ॥ 26 ॥

अथ त्वमिदं ज्ञानं कथं प्राप्तवानिति श्रोतृमुनिभिः पृष्टो मुनिस्तान्

प्रति तत्रत्या अस्मत्प्रभृतय ऋषयो मयं प्रत्येतज्ज्ञानं

पृष्टवन्त इत्याह—

ज्ञात्वा तमृषयश्चाथ सूर्यलब्धवरं मयम् ॥

परिबव्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात् ॥ 27॥

। अथ=  मयासुरस्य ज्ञानप्राप्त्यनन्तरम्,

ऋषयः=  सूर्यांश पुरुषमयासुरसंवादाविभूमिप्रदेशासनभूमिप्रदेशस्था अस्मत्प्रभृतयो मुनयः,

तं=  कृतकृत्यं,

मयं=  मयासुरं,

सूर्यलब्धवरं=  सूर्यात्प्राप्नोवरो ज्ञानप्रसादो येनैतादृशं,

ज्ञात्वा=  निश्चयं कृत्वा,

उपेत्य=  उपसमीपे एत्यागत्य,

परिबव्रुः=  वेष्टितवन्तः सन्तः सम्प्रोचुः,

अथ=  अनन्तरम्,

आदरात् =  अत्यन्तसाभिलाषतया,

ज्ञानं =  ग्रहादि चरितं,

पप्रच्छुः =  पृष्टवन्तः ॥ 27 ॥


अथ मयासुरः स्वज्ञानं तत्प्रश्नकारकानस्मत्प्रभृतीन्मुनीन् प्रति

कथयामासेत्याह—

स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत् ॥

अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम् ॥28॥

स=  मयासुरः,

प्रीतः=  सन्तुष्टः सन्,

तेभ्यः=  अस्मत्प्रभृतिभ्य ऋषिभ्यः,

महत्=  अपरिमेयम् । अत‌एव,

ब्रह्मसम्मितं=  ब्रह्मतुल्यं,

लोके=  भूलोके,

अत्यद्भुततमं=  अत्यन्तमाश्चर्य कारकं श्रेष्ठम् । अत‌एव,

रहस्यं =  गोप्यं,

ग्रहाणां=  खेटानां,

चरितं=  ज्ञानं,

प्रददौ=  प्रकर्षेण निर्व्याजतया दत्तवान् । कथयामासेत्यर्थः ॥ 28 ॥

इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरोहितविरचितायां यां मानाध्यायश्चतुर्दशः समाप्तः ॥ 14 ॥ समाप्तश्चायं ग्रन्थः श्रीपरमेश्वरः प्रसीदतुः॥




No comments:

Post a Comment

  आमुख मन्त्रेश्वर कृत फलदीपिका जातक ग्रन्थों की शृङ्खला की एक अनुपम कड़ी है। यह ग्रन्थ अपने मूल रूप में प्राचीन भारतीय लिपि ' ग्रन्थ ...