आचार्यः ए.पि. सच्चिदानन्दः
प्राचार्यः (प्र)
राष्ट्रियसंस्कृतसंस्थानम्, (भारतमामानवामानापनविकामामामामाधीन
मानिनिविद्याश्या)
राजीवगान्धीपरिसर, शोरी-577 139
Prof. A. P. Sachidananda
Principal (I/C) RASHTRIYA SANSKRIT SANSTHAN (Deemed
University under MHRD Govt. of India) Rajiv Gandhi Campus, Sringeri - 577 139
| शुभसन्देशः ।
विदितवेदितव्यानां महर्षीणां तपोबलेन सकलजीविनां कल्याणाय
श्रेयोमार्गः वेदविहितः शास्त्रमुखेन सम्प्राप्तः । तेषां वेदशास्त्राणां
पारम्परिकमध्ययनं संरक्षितुं, तद्विषयकं ज्ञानं संवर्धयितुं च
राष्ट्रियसंस्कृतसंस्थानं सर्वदा यत्नशीलं वर्वति । नैकान् योग्यान् उपायान् च
योजयति । तेषूपायेषु विद्वत्समवाये निर्दिष्टं बिन्दुमाश्रित्य सङ्गोष्ठ्यां
विदुषां स्वशास्त्रमन्थनात् समानीतस्य नवनीतस्य संसेवनमन्यतममिति मत्वा बढ्यः
राष्ट्रियसङ्गोष्ठ्यः प्रवर्तिताः । एतत्सङ्कल्पानुरोधेन अस्मत्परिसरस्य
ज्यौतिषविभागेन “षडङ्ग ज्यौतिषम्" इति विषयमाश्रित्य राष्ट्रियसङ्गोष्टी
प्रवर्तिता । तस्यां राष्ट्रियसङ्गोष्ठ्यां बहवो हि विद्वन्मतल्लिकाः स्वीयान्
शोधविषयानमण्डयन् । तल्लेखसारान् समाकलय्य ज्यौतिषविभागस्य प्राध्यापकाः मिलित्वा
“षडङ्ग ज्यौतिषम्" नाम्नी पत्रिका सम्पादयितुं समुत्सुकाः सन्तीति मोमुदीति
नश्चेतः । ज्योतिषशास्त्रे प्रकाश्यमानेयं पत्रिका सर्वेषां ज्योतिषशास्त्रे
कृतश्रमाणां बुधजनानां जिज्ञासुच्छात्राणां च बहूपकाराय भवतीति
महान्मे विश्वासः। सन्दर्भेऽस्मिन् कृतश्रमाणां सर्वेषां वागधिष्ठात्री शारदाम्बा
मङ्गलमातनोतु इति भगवतीं तां विद्याधिदेवतां प्रार्थये । एतादृशस्वाध्याययज्ञे
सन्ततं प्रोत्साहितवयः कुलपतिवर्येभ्यः प्रो. परमेश्वरनारायणशास्त्रिवर्येभ्यः
कुलसचिवेभ्यः प्रो. एस. सुब्रह्मण्यशर्ममहोदयेभ्यः सादर प्रणामान्निवेदयामः ।
शुभावसरेऽस्मिन् परमकरुणामूर्तिनां श्रीमज्जगद्गुरूणां
श्रीश्रीश्रीभारतीतीर्थमहासन्निधानानां तत्करकमलसञ्जातानां
श्रीविधुशेखरभारतीमहासन्निधानानाञ्च अनुग्रहेण परिसरीयाणां सर्वेषां श्रेयांसि
भूयासुरिति आशासे ।
बुधजनविधेयः प्रो.ए.पि.सच्चिदानन्दः
सम्पादकीयम् ।
वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्र यो ज्यौतिष वेद स वेद यज्ञान् ॥
ज्योतींषि ग्रहनक्षत्राणि तान्यधिकृत्य कृतं शास्त्रं
ज्योतिश्शास्त्रम् । शास्त्रस्यास्य वेदोक्तकर्मणां कालनिर्णायकत्वेन वेदाङ्गत्वम्
। वेदाङ्गभूतेऽस्मिन् शास्त्रेऽपि सन्ति षडङ्गानि
जातक-गोल-निमित्त-प्रश्न-मुहूर्त-गणितनामानि । एतेषु जातक-प्रश्न-मुहूर्ताः लोके
सुप्रसिद्धान्यङ्गानीत्यत्र नास्ति संशीतिलेशः । तथापि एतेषाम् अपव्याख्यानमपि
लोके बहुधा श्रूयते शास्त्रप्रचाराल्पत्वात् । तदर्थमेव सर्वे
आमनन्ति यत् शास्त्रं सुचिन्तितमपि पुनः परिचिन्तनीयम् इति ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् इति वेदवाक्यं सभक्तिश्रद्धं
पालयन् आवर्ष नैककार्येषु निरतः आस्माकीनः विभागः वर्षेऽस्मिन् शास्त्रप्रचाराय
छात्रहिताय च 'षडङ्गं ज्यौतिषम्' इत्यस्मिन् विषये दिनद्वयात्मिकां
राष्ट्रियसङ्गोष्ठी समायोजयत् । तत्र समागताः नानादेशीयाः
ज्योतिश्शास्त्रपारावारगभीरता विज्ञानिनः स्वकीयशास्त्रपरिश्रमं प्रादर्शयन् । तेन
तत्रोपस्थिताः जिज्ञासवः छात्राश्च नितान्तं प्रसन्नाः इति तु हर्षस्य विषयः ।
आचार्याः उण्णिकृष्णन् नम्पियात्तिरिवर्याः उद्घाटकत्वेन समागत्य उद्घाटनपुरस्सरं
कुञ्चिकाभाषणेन सङ्गोष्ठीमिमामारभन्त । आचार्यः आर्. हरिदासभट्टः, डा.
रामकृष्ण उडुपः इत्यादीनां विदुषां वचोभिः मुदिताः जिज्ञासवः समापनसत्रे
विशिष्टातिथिरूपेण आगतानां विदुषां गुण्डिबैल् सुब्रह्मण्यभट्टवर्याणां
वास्तुशास्त्रीयव्याख्यानेन सन्तृप्ताः इति सामोदं विज्ञापयामः ।
अस्य समापनसत्रस्य अध्यक्षत्वेन समागतानाम् आचार्याणां
महाबलेश्वरभट्टवर्याणाम् उपस्थितिः अविस्मरणीया ।
विदितमेव यत् प्राचार्याणां ए.पि सच्चिदानन्दवर्याणां मार्गदर्शनमेव
अस्याः सङ्गोष्ठ्याः साफल्यस्य निदानमिति । एवमेव संस्थानस्यास्य कुलपतयः
प्रो.प.ना.शास्त्रिणः, तथा कुलसचिवाः प्रो.एस् सुब्रह्मण्य शर्माणः, एतेषां सहकारः
पुस्तकस्यास्य प्रकाशनेऽपि निरन्तरं वर्तत इति तेभ्यः अभिवन्दामहे ।
अत्रत्याध्यापकचराः रामकृष्णपेजत्तायवर्याः समये समये मार्गदर्शनं विधाय स्वलेखमपि
प्रेषितवन्तः । एवमन्ये च ये विद्वांसः स्वलेखप्रदानेन पुस्तकस्य गुणवत्तावर्धने
कारणीभूताः, तेभ्यः कार्तयं विनिवेदयामः । सङ्गोष्ठीसमये तथा पुस्तकसम्पादने च
बहुविधसाहाय्यमाचरितवान् ज्यौतिषविभागीयः परियोजना सहायकः विद्वान् विनायकभट्टः,
तस्मै
धन्यवादः । अत्रत्यः सङ्गणकज्ञः श्री रवीश एन्. भट्टवर्यः पुस्तकस्यास्य
विन्यासकार्ये साहाय्यमाचरितवान, तस्मै अपि कार्तइयं प्रशास्महे ।
एतत् सर्वं शारदाम्बायाः परमानुकम्पया, ज्ञानतपोमूर्तीनां
जगद्गुरूणां परमानुग्रहेण च सुसम्पन्नमिति शारदाम्बायाः जगद्गुरूणाञ्च सन्निधौ
साष्टाङ्गनमस्कारं समर्पयामः ।
इति सज्जनविधेयाः सम्पादनसमितिसदस्याः
विषयानुक्रमणिका
1. षडङ्गज्यौतिषम्
- आचार्यः उण्णिकृष्णन् नम्पियात्तिरिः ।
---- जातकम् ----- 2. अर्थबहुलं बृहज्जातकम्
- डा. रामकृष्ण उडुपः .ए
3. व्याधिनिरूपणम्
- डा. सुनीता
4. नष्टजातकम्
- डा. प्रसाद भट्टः 5. जातकपद्धतिग्रन्थाः तत्करिश्च
- विद्वान्. रमानन्द भट्टः एन् 6. वनिताङ्गानां
लक्षणविशेषः
___- श्री. कुलदीपः
7. ज्योतिश्शास्त्रदृष्ट्या उन्मत्तताविमर्शः
- श्री. प्रशान्त गांव्करः
8. चान्द्रयोगानां सफलवर्णनम्
- श्री. आनन्दपण्ड्या
----- मुहूर्तम् ----- 9. मुहूर्तशास्त्रविमर्शः
- विद्वान् श्रीशः 10. मुहूर्तरत्नाकरोक्तदेवप्रतिष्ठामुहूर्तविमर्शः
- विद्वान् बालचन्द्रभट्टः
-----प्रश्नः -----
11. प्रश्नशास्त्रोक्तः दीपलक्षणविचारः
- डा. मुरलीकृष्ण टि. 12. प्रश्रकाले दैवज्ञेन विचारणीयविषयाः
- डा. सुधांशुकुमारनन्दः 13. मिहिरोक्तद्रेक्काणलक्षणैः
देवताप्रभेदचिन्तनम्
- विद्वान् विनायकभट्टः 14. शरनिरूपणम्
- विद्वान सुब्रह्मण्यभट्टः
----- निमित्तम् -----
-
-
15. निमित्तविमर्शः
__- विद्वान् रामकृष्ण उडुपः
81
16. दुर्भिक्षयोगाः
- श्री. कृष्णकुमारः द्विवेदी
----- गोलः -----
-
-
-
-
-
-
---
17. गोलविमर्शः
- आचार्यः आर्. हरिदासभट्टः
91
----- गणितम् ----
18. ग्रहगणितम्
96
__ - विद्वान् भरत ऐताळः 19. सूर्यसिद्धान्तोक्तग्रहस्फुटीकरणविचारः
- विद्वान् श्रीपतिः
105
----- वास्तुशास्त्रम् --
110
20. वास्तुशास्त्रपरिचयः
- विद्वान् जि. सुब्रह्मण्य भट्टः 21. वास्तुशास्त्र
केरलीयं योगदानम्
- आचार्या इन्दिरा . पि 22. पुराणेतिहासेषु वास्तुशास्त्रम्
- श्रीमती कीर्तिसुधा
114
117
23. वज्रलेपनिर्माणविधिः गुणाश्च
- कुमारी. रोषिणी वेङ्कटेश्वरन्
119
119
----- शास्त्रीयलेखाः -----
24. संवत्सरनामसुभ्रान्तयः तत्परिहृतयश्च
123
- डा. रामकृष्णपेजत्तायः 25. संस्कृतकाव्येषु ज्योतिषशास्त्रविषयाः
- डा. कोम्पेल्लि विनयकुमारः 26. ज्योतिश्शब्दस्य
व्युत्पत्तिः
128
132
- डा.विजयानन्द अडिगः 27. ज्योतिषशास्त्रस्य लोकोपकारित्वं
महत्वञ्च
- डा. पि अरविन्दकुमारसोमदत्तः
135
षडङ्गज्यौतिषम्
आचार्यः उण्णिकृष्णन् नम्पियात्तिरिः
ज्यौतिषविभागाध्यक्षः राष्ट्रियसंस्कृतविद्यापीठम्,
तिरुपतिः आ.प्र] II MEDIIDI INTIMIT I MITI किं नाम
ज्यौतिषम्
विश्वस्य सर्वासु सभ्यतासु ज्योतिश्शास्त्रस्य प्रभावः दृश्यते ।
तथाऽपि भारतस्य पृथक् ज्योतिश्शास्त्रसम्प्रदायः वर्त्तते । ज्यौतिषं नाम
ग्रहनक्षत्राणां बोधकं शास्त्रम् । उक्तञ्च आचार्यभट्टोत्पलेन बृहत्संहितायाः
व्याख्याने यथा | ज्योतींषि ग्रहनक्षत्रादीनि तान्यधिकृत्य कृतं शास्त्र
ज्योतिश्शास्त्रमिति ।'
ज्योतिश्शास्त्रं वेदाङ्गत्वेन प्रसिद्धम् । वेदपुरुषस्य षडङ्गेषु
अन्यतमम् अङ्गं भवति ज्यौतिषम् । शिक्षा, कल्पः, निरुक्तं,
ज्यौतिषं,
छन्दः,
व्याकरणञ्च
वेदस्य षडङ्गानि । वेदपुरुषस्य चक्षुः ज्यौतिषमित्युक्तम् । अत्राह
प्रश्नमार्गकारः।
छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्यौतिषं चक्षुषी च ।
शिक्षा घ्राणं श्रोत्रमुक्त निरुक्तं
वेदस्याङ्गान्येवमाहुर्मुनीन्द्राः॥2 ज्यौतिषस्य प्रयोजनम्
मानवजीवने कालज्ञानम् अपेक्षितमेव । अत्र ग्रहाणां स्थितिभेदेन
दिनरात्रपक्षमास त्वयनसंवत्सरादीनां कालस्य च ज्ञानं सम्भवति । एतत्
ज्योतिश्शास्त्राधारेणैव अवगन्तव्यम् । एवं धर्मशास्त्रोक्तकर्मणाम् आचरणा
यापेक्षितानां पर्वदिनानां निर्णयः, जातकनिर्माणम, मुहूर्तनिर्णयः,
देवालय
'बृहत्संहिता || १.१ व्याख्याने 2 प्रश्नमार्गः ||
१अ.
११ श्लो.
षडझं ज्यौतिषम् मनुष्यालयादीनां निर्माणक्रमः || एवं
नैके विषयाः अस्मिन् शास्त्रे निरूपिताः । अर्थार्जने आपदः निवारणे च इदं शास्त्रं
साहाय्यं करोतीति सारावलीकारः अभिप्रैति। तद्यथा |
अर्थार्जने सहायः पुरुषाणामापदणवे पोतः।
यात्रासमये मन्त्री जातकमपहाय नास्त्यपरः ॥1
• ज्योतिश्शास्त्रं षडङ्गवत्
ज्योतिश्शास्त्रं त्रिस्कन्धात्मकमिति प्राचीनाः वराहमिहिर भास्कराचार्यादयः
अवोचन् । ते च गणितम् सिद्धान्तः। संहिता, होरा चेति । किन्तु प्रश्नमार्गकारः
आदौ पूर्वाचार्याणां मतं पुरस्कृत्य ततः परं ज्योतिश्शास्त्रं षडङ्गयुक्तमित्याह ।
जातक गोल निमित्त प्रश्न मुहूर्ताख्य गणित मामानि ।
अभिदधतीह षडङ्गान्याचार्या ज्यौतिषे महाशास्त्रे ॥2
एतेषां षडङ्गानां परिचयः प्रदीयते || 1.जातकम् | जन्मकालिकग्रहस्थितिम्
आधारीकृत्य सकलचराचराणां जन्म जन्मान्तर बर्त्तमानभविष्यफलनिरूपणम् अत्र क्रियते ।
वराहमिहिराचार्येण लघुजातके जातकस्य प्रयोजनमेवम् उपवर्णितम् ||
यदुपचितमन्यजन्मनि शुभाऽशुभं तस्य कर्मणः पक्तिम् । व्यञ्जयति
शास्त्रमेतत् तमसि द्रव्याणि दीप इव ॥3
अन्यस्मिन् जन्मनि कृतानां कर्मणां शुभाशुभानां फलानामवगमे इदं
शास्त्रं साहाय्यमाचरति । सर्वेऽपि ग्रहाः प्रपञ्चे विद्यमानान् सर्वान् प्रभावयति
। अतः ग्रहाणां राशीणाञ्च विविधाः संज्ञाः प्रदाय संज्ञानुरूपेण फलचिन्तनस्य
N
सारावली ||१अ. 2 प्रश्नमार्गः | १.६श्लो.
लघुजातकम् | १अ. ३श्लो.
षडङ्गं ज्यौतिषम् मार्गमस्मिन्नङ्गे प्रदर्शयामासुः पराशर
बराहमिहिरप्रभृतयः आचार्याः । पुनश्च ग्रहाणां भावस्थानालोकयोगेन च फलानि भिन्नानि
भवन्ति ।
अस्मिन्नङ्गे बहवः ग्रन्थाः बहुभिः रचिताः । वराहमिहिराचार्यस्य
बृहज्जातकं तेषु अग्रिमं स्थानमलङ्करोति । अस्य ग्रन्थस्य बहूनि व्याख्यानानि
सन्ति। भट्टोत्पल एव अस्य ग्रन्थस्य प्रथमव्याख्याकारः । केरले एव संस्कृतभाषायां
बृहज्जातकस्य चतुर्दशव्याख्यानानि उपलभ्यन्ते । तेषु व्याख्यानेषु दशाध्यायीनामकं
व्याख्यानं बृहज्जातकस्य दशानामेव अध्यायानां विवृतिः । दशस्वेव अध्यायेषु
अवशिष्ठानां सर्वेषामध्यायानां विवरणं सङ्ग हीतम्।
कल्याणवर्मणः सारावलीनामकग्रन्थः प्रसिद्धः । सामान्यतः जातक विषयाः
सर्वे अत्र निरूपिताः । एवमेव मन्त्रेश्वराचार्यस्य फलदीपिका, पृथुयशसः
होरासारः, बलभद्रमिश्रस्य होरारत्नं, नारायणभट्टस्य चमत्कारचिन्तामणिः,
भृगुमहर्षेः
भृगुसूत्रं, जैमिनिमुनेः जैमिनीसूत्रम् इत्यादि सूत्रग्रन्थाः केशवीयजातकपद्धतिः,
ताजिकनीलकण्ठी
इत्यादयः ग्रन्थाः अत्यन्तं प्रसिद्धाः । 2. गोलः | गोले
तु भूगोलवर्णनम्, गोलबन्धश्च निरूप्यते । विश्वरचना, आकाश कक्ष्या,
भूगोलस्थितिः,
मेरुस्थितिः,
भूगोले
समुद्रस्य स्थितिः, यमकोटिलङ्कासिद्ध पुरीत्यादीनां वर्णनं, ग्रहकक्ष्याक्रमः,
भचकभ्रमणमित्यादयः
खगोलीयविषयाः प्रतिपाद्यन्ते। 3. निमित्तम् | कर्मारम्भसमये
अकस्मात् उत्पन्नानां शब्दानां, दर्शनानां, चेष्टानां च
निरूपणम् अनेन शास्त्रेण क्रियते । इदमपि जन्मान्तरकर्मणः फलसूचकमिति विश्वासः ।
उक्तं प्रश्नमार्गे यथा |
अन्यजन्मकृतं पुंसां सर्व कर्म शुभाशुभम् ।
यत्तस्य शकुनः पार्क निवेदयति पृच्छताम् ॥' जन्मसमये अथवा
प्रश्नसमये उत्पन्नानां शब्दानां, दर्शनानां फलानि
प्रश्नमार्गः || ३अ. ६श्लो.
षडझं ज्यौतिषम् भिन्नानि भवन्ति । शकुनमिति अन्यः कश्चन विषयः
अस्मिन्नङ्गे अन्तर्भवति । यात्रारम्भसमये अकस्मात् अभिमुखदर्शनादि मनुष्य
तिर्यग्जातीनां शुभाशुभफलं सूचयति । निमित्तशकुनविषयाः प्रश्ने नातके महूर्ते च
परिगणनीयाः । वृहत्संहिता प्रश्नमार्गः इत्यादिग्रन्थेषु अयं विषयः विस्तरतः
प्रतिपादितः ।
निमित्तलक्षणविषयान् गुरुमुखात् शास्त्रग्रन्थानामध्ययनाच्च
अवगन्तव्यम् इति प्रश्नमार्गे निरूपितम् |
लोकाच्छास्त्रमुखात्तथा गुरुमुखादूह्यं निमित्तान्तरम् विज्ञातव्यमतः
शुभाशुभफल प्राज्ञैः प्रयत्नादिह । यद्यद् पृच्छति पृच्छकोऽन्तिकगतं तन्नाशचिह्न
भवे]
न्नाशः स्यादिह तस्य तस्य न चिरात्तव्यत्यये व्यत्ययः ॥1 4. प्रश्नः
। इदानीमनुभूयमानस्य कर्मणः फलं पूर्वजन्मार्जितमुत अस्मिन्नेव जन्मन्यर्जिमथवा
सञ्चितकर्मणः फलं शुभं वा अशुभम् इति ज्ञातुं प्रश्नशास्त्रमपेक्षते।
कस्य पक्तिरिति ज्ञातुमिदानी पूर्वकर्मणाम् ।
इहार्जितञ्च विज्ञातुं कर्म प्रश्नो विधीयते ॥2 प्रश्नशास्त्र
जातकशास्त्रोक्तक्रमणैव फलचिन्तनं कर्तव्यमित्याह ||
सम्प्रेर्यमाणस्त्ववशश्शरीरी प्रसह्य दैवेन शुभाशुभेन । ज्योतिर्विदः
सन्निधिमेति यस्मात्प्रश्नोऽप्यथो जन्मसमः फलेषु ॥3 जन्मलग्नतया
प्रश्नलग्नं सङ्कल्प्य पण्डितः ।
जातके यद्यदुद्दिष्टं तत्तत्प्रश्नेऽपि चिन्तयेत् ॥4
अस्मिन्नङ्गे पृच्छाकालिकं लग्नं स्वीकृत्य फलप्रवचनं करोति दैवज्ञः । अस्मिन्
शास्त्रे
'प्रश्नमार्गः ||२अ. १५३ श्लो. 2 प्रश्नमार्गः |
१अ.
४१श्लो. 3 प्रश्नमार्गः १अ. ४६श्लो. प्रश्नमार्गः ||१अ.४७श्लो.
षडङ्गं ज्यौतिषम् पृच्छककृत्यं दैवज्ञकृत्यञ्च प्रश्नकालः
प्रश्नविषयाः प्रश्नभेदाश्च विस्तरतः प्रतिपादिताः। प्रश्नचिन्तनकाले षड्लग्नानि
चिन्तनीयानि । अत्र श्लोको यथा ||
आरूढोदयलग्नांशछत्रस्पृष्टाङ्गराशयः । चन्द्राधिष्टितराशिश्च
चिन्त्याः षट्श्नकर्मणि ॥1
प्रश्ने बहवो विषयाः सन्ति । ते च आयुःप्रश्नः, रोगप्रश्नः,
अष्टमङ्गलप्रश्नः,
विवाहप्रश्नः,
सन्ततिप्रश्नः,
देवप्रश्नः,
राजप्रश्नः,
युद्धप्रश्नः,
यात्राप्रश्नः,
ताम्बूलप्रश्नः,
वर्षप्रश्नः,
भोजनप्रश्नः,
लाभप्रश्नः,
नष्टप्रश्नः,
प्रोषितागमप्रश्नः,
स्वप्नप्रश्नः
इत्यादयः।
प्रश्नशास्त्रविषयकाः बहवो ग्रन्थाः सन्ति । मिहिराचार्यस्य
बृहज्जातके नष्ट जातकप्रकरणे नष्टजातकरचनाक्रमः प्रश्नशास्त्रानुसारेणैव निरूपितः
। प्रश्नग्रन्थेषु प्रसिद्धः ग्रन्थः प्रश्नमार्ग एव । अयं ग्रन्थः सङ्कलितग्रन्थः
। अस्मिन् ग्रन्थे उपत्रि सहस्रं 8000|| श्लोकाः सन्ति । अस्मिन् ग्रन्थे
प्रश्नशास्त्रस्य कश्चन समीचीनक्रमः प्रतिपादितः । पुनः कृष्णाचार्यस्य कृष्णीयं,
प्रश्नानुष्ठानपद्धतिः,
प्रश्नभूषणं,
प्रश्न
चण्डेश्वरः, दैवज्ञवल्लभा, षदञ्चाशिका, आर्यासप्ततिः
इत्यादयः ग्रन्थाः प्रसिद्धाः । 5. मुहूर्त्तः । वस्तुतः
ज्योतिश्शास्त्रस्य उपयोगः कालनिर्णय एव । उक्तञ्च |
वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः।
तस्मादिदै कालविधानशास्त्र यो ज्यौतिष वेद स वेद यज्ञान् ॥
ततः वेदोक्तयागादीनां करणार्थं शुभाशुभकालनिर्णयः अपेक्षितः आसीत्।
शुभकाले कृतकर्माण्येव सफलानि भवन्ति । आधानकालादारभ्य अन्त्येष्टिपर्यन्तं यानि
विहितानि कर्माणि सन्ति धर्मशास्त्रनिर्दिष्टानि तानि सर्वाण्यपि निर्दिष्टमुहूर्त
स्वीकृत्यैव कुर्वन्ति जनाः । त्रैवर्णिकाः षोडशसंस्काराणाम् आचरणं मुहूर्त
स्वीकृत्यैव कुर्वन्ति । कालान्तरे गृहनिर्माणं, यात्रा, कृषिकर्मादि
सर्वाणि कर्माणि मुहूर्त स्वीकृत्यैव कर्तुमारब्धवन्तः ।
' प्रश्नमार्गः अ. १श्लो.
षडङ्गं ज्यौतिषम् मुहूर्तो नाम अह्नः पञ्चदशो भागः । वस्तुतः
मुहूर्त्तः कर्मयोग्यकालः भवति । तस्य शुभाशुभत्वं कर्मानुगुणं भवति । प्रत्येकस्य
कर्मणः पृथक् मुहूर्त्तः निर्दिष्टः । ततः मुहूर्त्तस्य बहुप्राधान्यं वर्त्तते ।
धनकेन्द्रत्रिकोणेषु शुभग्रहाः । त्रिषडायेषु पापग्रहाः च सर्वेषु शुभकर्मसु
शुभप्रदाः । अयं सामान्यः नियमः ।
मुहूर्त्तप्रतिपादकाः बहवो ग्रन्थाः सन्ति । रामदैवज्ञस्य
मुहूर्त्तचिन्तामणिः, माधवाचार्यस्य विद्यामाधवीयं, मुहूर्त्तमार्तण्डः,
मुहूर्त्तगणपतिः,
मुहूर्तपदवी,
मुहूर्तरत्नम् इत्यादयः बहवो ग्रन्थाः मुहूर्त्तशास्त्रप्रतिपादकाः
उपलभ्यन्ते । 6. गणितम् विदाङ्गज्यौतिषे लगधः गणितस्य महत्वम् एवम् अकथयत् |
यथा शिखा मयूराणां नागानां मणयो यथा।
तद्ववेदाङ्गशास्त्राणां ज्योतिष मूर्ध्नि संस्थितम् ॥1
गणितलक्षणमुक्तं भास्कराचार्येण सिद्धान्तशिरोमणौ यथा ||
त्रुट्यादिप्रलयान्तकालकलनामानप्रभेदः क्रमा
चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः।
भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते
सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः ॥ गणितस्य
साहाय्येन ग्रहाणां स्थितेः ज्ञानं सम्भवति । तस्य ज्ञानं फलादेशार्थमेव । खेटैः
स्फुटैरेव फलस्फुटत्वमिति प्रमाणं वर्तते ।
चितुरङ्गबलो राजा जगतीं वशमानयेत् । अहं पञ्चाङ्गबलवान् आकाश वशमानये
इत्याभाणकं वर्तते । अतः गणितं समेषामङ्गानामाधारभूतम् । गणितस्य दश भेदाः
प्रश्नमार्गकारेण प्रतिपादिताः यथा ||
वेदाङ्गज्यौतिषम् 2 सिद्धान्तशोरोमणिः |] १.६श्लो.
षडङ्गं ज्यौतिषम्
धुगणानयन खेटमध्यमस्फुटयोरपि ग्रहणद्वितयं खेटकलहास्तत्समागमाः ।
अस्तोदयौ च खेटाना नक्षत्राणाञ्च सङ्गम इति भेदास्तु विज्ञेया ग्रहाणां गणिते दश।
गणितस्य सिद्धान्तः इत्यपि नामान्तरमस्ति । ते च पञ्चसिद्धान्ताः |
ब्राह्म
सौर वासिष्ठ रीमश पोलिशभेदात् । एतेषु ब्राह्मसिद्धान्तः स्पष्टः, रोमशः
ब्राह्मसिद्धान्तासन्नः, सौरसिद्धान्तः स्पष्टतरः, वासिष्ठपौलिशौ
अस्पष्टौ च वर्तन्ते।
गणिते प्रतिपादिताः विषयाः भवन्तीमे | अहर्गणानयनम्,
ग्रहाणां
मध्यमस्फुटानयनम्, मन्दोच्चशीघ्रोच्चसाधनम्, ज्यासाधनम्, अयनांशनिर्णयः,
उदयान्तरसंस्कारः,
लग्नसाधनम्,
नतोन्नतसाधनम्,
क्रान्तिसाधनम्,
चन्द्रग्रहणम्,
सूर्यग्रहणम्,
उदयान्तरसाधनम्,
शृङ्गोन्नतिसाधनम्,
ग्रहयुतिः,
पातः,
कालमानानि,
पञ्चाङ्गानां
निर्णयः, प्रतिपदादितिथयः, सूर्यादिवासराः, अश्विन्यादि
नक्षत्राणि, विष्कम्भादियोगाः, बवादिकरणानि इत्यादयः।
प्रसिद्धेषु सिद्धान्तग्रन्थेषु सूर्यसिद्धान्तः प्रथमः ।
भास्कराचार्यस्य सिद्धान्तशिरोमणिः, आर्यभटस्य आर्यभटीयं, कमलाकरभट्टस्य
सिद्धान्त तत्त्वविवेकः इत्यादयः ग्रन्थाः प्रसिद्धाः । उपसंहारः । वस्तुतः एतानि
षडङ्गानि त्रिस्कन्धेष्वेव अन्तर्भवन्ति इत्याह प्रश्नमार्गकारः |
गोलो गणितञ्चेति द्वितयं खलु गणितसंज्ञिते स्कन्धे ।
होरासंहितयोरपि निमित्तमन्यत्त्रयञ्च होराख्ये ॥2
सिद्धान्तस्कन्धे गोलः गणितञ्च, होरासंहितयोः स्कन्धयोः निमित्तम्
जातकम् । प्रश्नः, मुहूर्तश्च होरास्कन्धे अन्तर्भवति । दैवज्ञः एतान् षडङ्गान् अपि
सम्यगध्ययनं कुर्यात्।
1 प्रश्नमार्गः || १अ. २०श्लो. 2 प्रश्नमार्गः ||
१अ.
६ श्लो.
अर्थबहुलं बृहज्जातकम्
डा. रामकृष्ण उडुपः .ए
संस्कृतविभागाध्यक्षः पूर्णप्रज्ञसन्ध्यामहाविद्यालयः,
उडुपी, कर्णाटकम् DO ITE 19844995339700 METI षडङ्गात्मके
ज्यौतिषे बहुप्रमुखोऽयं विभागः जातकम्। तत्र ज्योतिश्शा स्वपञ्चाननः]
त्रिस्कन्धाचार्यः] ज्यौतिषपरमाचार्यः[] इति ख्यातः आचार्यवराहमिहिरः यजुघोष
स्वसन्दर्भे बृहज्जातके स्वल्पं वृत्तविचित्रमर्थबहुलम् इति, तदर्थबाहुल्यं
कथं दरीदृश्यते इति बृहज्जातकस्य कांश्चन अध्यायान् स्वीकृत्य प्रतिपाद्यते ।
तत्र केचन बृहज्जातकस्थाः अध्यायाः यद्विषयमधिकृत्य ते विरचिता
तदर्थानेव बोधयन्ति, न तु बह्वानिति भान्ति । यथा वा चतुर्थपञ्चमौ निषेक] जन्मविधिनामको
एकविंशश्च अनिष्टाध्यायः । तत्रापि आचार्येण निक्षिप्तं व्यञ्जितार्थं कथं
प्राचीकटन् रुद्रादयः टीकाकाराः इति ममाल्पानुभवेन सह प्रस्तूयते ।
धर्मप्रजासम्पत्त्यर्थमेव विवाहाख्यः संस्कारः इति भारतीयानामादर्शः
। अतः सन्तानयोगादेव पश्यामस्तावत् ।
रवीन्दुशुक्रावनिजैः स्वभागगैर्गुरौत्रिकोणोदयधर्मगेऽपि वा] इत्यत्र
स्पष्टार्थत्वादर्थबाहुल्यं नास्तीति भात्यपि सन्तानविचारनिर्णायको ज्यौतिषे
प्रामुख्यं] भाजौ बीजस्फुटक्षेत्रास्फुटौ कथमभिव्यञ्जितावाचार्येणेति सम्यङ्
निरूपितो रुद्रेण । तद्यथा []
तत्र सूर्याधिष्ठितराशिवशेन पुरुषस्य शुक्राधिष्ठितशुक्लस्य, चन्द्राधिष्ठितराशिवशेन
स्त्रियाः, कुजाधिष्ठितराशिवशेन शोणितस्य च
সান गर्भोत्पादनसामर्थ्यं
तदसामर्थ्यजनकदोषराहित्यञ्च निर्णतव्यमिति भावः । अत्र सन्तानकारकस्य गुरोः
त्रिकोणादिगतत्त्वेन, यस्य कस्यचित् जीवात्मनः सन्निधिोत्यते यतो जीव इति प्रथितः सः ।
एवमस्य उभयत्रापि सम्बन्धः । एवं रविशुक्रगुरुस्फुटानां योगेन बीजस्फुटः, तच्च
ओजराशावोजांशकस्थं चेत् बीजबलं पूर्णम् । अन्यथा बीजबलं नास्तीति । मिश्रे मिश्रं
फलं ज्ञेयम् । एवं चन्द्रकुजगुरुस्फुटानां योगेन क्षेत्रस्फुटं तच्च युग्मराशौ
युग्मांशकस्थं चेत् क्षेत्रबलमपि पूर्ण ज्ञेयम् । व्यत्यये नास्ति क्षेत्रबलम् ।
मिचे प्रायश्चित्तादिना सन्तानसम्भव इति फलति । अर्थबाहुल्यप्रदर्शकं
भट्टोत्पलटीकादिषु न दृश्यमानं रुद्रव्याख्यानमिदं अपूर्वार्थप्रदर्शिकाकारः
तथान्वसरत् । परं होरादशाध्यायीकारः रवीन्दुशुक्रावनिजैरिति तेषां संस्थितिवशात्
रविशुक्रयोः पुरुषजातके विषमराश्यशस्थितिः, स्त्रीजातके
शुक्रकुजयोः समराश्यशस्थितिः सन्तानप्रदेति सम्यक् सूचितवानपि
बीजस्फुटक्षेत्रस्फुटकल्पने तत्र न दृश्यते । व्याख्यानमिदं न केवलं कल्पना,
बहुशास्त्रकारसम्मतमिति
च एवं दृढीक्रियते । तदुक्तं फलदीपिकायाम् ||
जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके स्त्रीणां
क्षेत्रबलं वदन्ति सुतदं मिश्रे प्रयासात् फलम् ।
भास्वच्छुक्रगुरुस्फुटैक्यभवनेऽप्योजांशकेऽप्योजभे
पुंसां बीजबलं सुतप्रदमिदं मिश्रे तु मिश्र वदेत् ॥ इति । एवं
षष्ठसप्तत्यक्षरिणा शार्दूलविक्रीडितादिना वृत्तेनान्यत्र कीर्तनीयमिदं
बीजक्षेत्रस्फुट अपत्यसम्भवकालसूचिना केवलार्धश्लोकेन समसूसुचद् वराहमिहिर इति,
तस्य
अर्थबाहुल्यवैदग्ध्यमत्र सम्यक् प्रदर्शितवान् रुद्रः ।।
__ ततः उदयास्तगयोः कुजार्कयोः निधनं शस्त्रकृतं वदेत्तदा] इत्यत्र
गर्भगर्भिण्योः आगन्तुकशस्त्रकृतं निधनं वदेदिति स्पष्टार्थमेव रुद्रो जगाद न
षडझं ज्यौतिषम् विशेषम् । परम् अपूर्वार्थप्रदर्शिकाकारः उदयास्तगैः
पापैरनिष्टं चोक्तवान् । पूर्वार्धे सुमुखी वृत्तम् । अतः उदयास्तव्यतिरिक्तकेन्द्रगैः
शुभैः सुमुखीत्वं वाच्यम् । प्रसवसमये सम्पत्तयो भवन्तीत्यर्थवैशिष्ट्यं दर्शयामास
। तदतिशय्य दशाध्यायीकारः गोविन्दभट्टतिरिमहाभागः एवमभिप्रैति यत् अनेन
युद्धप्रश्नादावुपयोगोऽस्ति । उदयास्तगयोः कुजार्कयोः युद्धं महद् भवतीति
द्रष्टव्यं, कुजार्कयोः क्षत्रियत्वादाग्नेयत्वाच्च । तत्रापि विशेषतः कुजस्य
वधबन्धाधिपत्यमूह्यं तमोमयत्वादिति । टीकयाऽनया बह्वर्थप्रतिपादकेषु
बृहज्जातकश्लोकेषु आचार्यस्य श्लोकोऽयं दिग्दर्शक इति मे भाति । यतः
निषेकाध्यायस्थः एषः श्लोकः अवसरवशात् यत्र कुत्रापि सम्यक् समन्वेति । यथा
कुटुम्बप्रश्ने कुटुम्बभावे कुटुम्बाधिपतिना वा सह अयं योगश्चेत् कुटुम्बे
शस्त्रकृतो कलहोऽभूत् इति वक्तुं शक्यते । रोगप्रश्ने अयं योगश्चेत् अवसरवशात्
शस्त्रनिमित्तिकोऽयं रोगः अथवा शस्त्रक्रियया एव रोगस्यास्य परिहार इति वा एवं
दुस्थमान्दियुतिदृष्ट्यादि] समन्वितोऽयं योगो भवेत् शस्त्रनिमित्तेन निधनप्राप्ताः
प्रेताः सन्तीत्यादि वक्तुं शक्यत इति मम नम्रः आदेशोऽनुभवोऽप्यस्ति।
ततः पञ्चदशे श्लोके | धनुर्धरस्यान्त्यगते विलग्न] इति
ग्रहस्थित्यामस्यां जरायुस्थिताः बहवो भवन्तीति सर्वत्र दृश्यमानः स्पष्टार्थः ।
रुद्रस्तु स्थितिरिय जातके चेत् बहुजनपरिवारो भवतीति अर्थबाहुल्यं दर्शयामास ।
अपूर्वार्थप्रदर्शिकाकारस्तु इममेवार्थं व्याख्याय ।
देवप्रश्ने अयं योगः सम्भवति चेत् | सन्ति प्रभूता
अपि कोशसंस्थाः इत्यनेन कोशसंस्थाः मूर्तयः प्रभूताः बहवः सन्ति, अथवा
कोशसंस्था प्राभाविकी महाशक्तिरस्ति सपरिवारा इत्यपि बहुलार्थं कर्तुं शक्यत इति
ममानुभवः ।
ततः त्रिकोणगे ज्ञे विबलैस्ततोऽपरै रित्यत्र भट्टोत्पलः बुधे नवमस्थे
पञ्चमस्थे वा तदन्यैः सर्वग्रहैः बलहीनः जातः मुखाभिहस्तद्विगुणो भवतीति
___ 11
নচ विकृतजननं
व्याख्याति । केचित् त्रिकोणगे बुधे कन्यागतमाहुः । तच्चायुक्तमिति वदति सः । एतत्
सर्वसम्मतं सामान्यव्याख्यानम् । परं विशेषार्थप्रतिपादकः रुद्रः लग्नस्यापि
त्रिकोणत्वं स्वीकृत्य बुधोदये द्विशिराः, पञ्चमस्थे सति चतुर्भुजत्वं नवमस्थे
चतुष्पात्त्वमेवं विबलैरशुभैश्च, बलयुतैरन्यथेत्युवाच । एवं त्रिकोणगे
बुधे बलयुते सति वाग्बाहुल्यं, बलहीने मुखरोगः । पञ्चमस्थो
बलिष्ठश्चेत् बाह्वोर्बलाधिक्यं बलहीनश्चेत् हस्तच्छेदः । नवमस्थो बलिष्ठश्चेत्
वेगयायित्वं, तत्रापि विहगद्रेक्काणे चेत् रज्जुगमनादिक्रीडनम् इति । कर्मणि
कर्मकर्माधिपसम्बन्धेनायं योगश्चेद् विमानचालनादिकं वक्तुं शक्यत इति मे भाति ।
ततः प्रसिद्धोऽष्टादशः श्लोकः सौम्याशे रविजरुधिरौ चेत् सदन्तोऽत्र
जातः । योगोऽयं गर्भस्थशिशुः सदन्तो भवतीत्यर्थवान् । रुद्रः सदन्त इत्यनेन जातकः
गजदन्तादिना शिल्पव्यापारकुशलश्च भवतीति व्याख्याति । अपूर्वार्थप्रदर्शिकाकारस्तु
इममेवाभिप्रैति । होरादशाध्यायीकारः गोविन्दभट्टः
सदन्त इत्यनेन सत् शोभनमन्तःकरणं यस्य स सदन्तः शुभमना इति शुभमरण
इति वा प्राचीकटत् स्वानुभवम् । रोगप्रश्ने अयं योगश्चेत् सन्नन्तो यस्य सः सदन्तः
मरणासन्न इति, देवप्रश्ने अयं योगश्चेत् दन्तेन सहितः सदन्तः देवेषु स गजानन इति,
गणपतिसान्निध्यादिः
तद्विचारः अत्रास्ति इति वा वक्तुं शक्यत इति मम सानुभवाभिप्रायः । ततः पञ्चमे
जन्मविधिनामकाध्याये
शशाङ्के पापलग्ने वा वृश्चिकेशत्रिभागगे । शुभैः स्वायस्थितैर्जातः
सर्पस्तद्वेष्टितोऽपि वा ॥
स्पष्टार्थकस्य सर्पसर्पवेष्टितजननवाचकस्य अपूर्वमिदं रुद्रस्य
व्याख्यानं यथा तस्य आचार्यवराहमिहिरभावसारज्ञत्वं सम्यक् प्राचीकटदिति
उपस्थाप्यते । तद् यथा | जननलग्ने भौमद्रेष्काणगचन्द्रोदयः,
शुभानां
धनलाभस्थितिश्च सरलतया सम्भाव्यते, तथा मानुषीषु कुत्रापि सर्पजननं,
सर्पवेष्टितशिशुजननं
च न
षडझं ज्यौतिषम् दृश्यते इतीदं लक्षणमसम्भाव्यमिति न शङ्कनीयम् ।
असम्भाव्यं चेदाचार्यः स्वयमेव तथा वदेत् । आचार्येणोत्तरत्र वज्रादियोगानुक्त्वा
पूर्वशास्त्रानुसारेण मया वज्रादयः कृताः ।
चतुर्थे भवने सूर्याज्ज्ञशुक्रौ भवतः कथम् ॥ इति तेषामसम्भाव्यत्वञ्च
स्वयमेव वक्ष्यते । युक्तिवशादत्रापि लक्षणमि|| दमसम्भाव्यं
चेत् स्वयमेवाभिदधीत । न च तथाभिहितम् । तस्मादिदं लक्षणं
सम्भाव्यमेव । तथाप्तवचनं ।
विस्तीर्णा पृथिवी जनाश्च बहवः किं किं न सम्भाव्यते । इति ।
यदा भौमद्रेष्काणस्थस्य चन्द्रस्य जननकालोदयलग्नेन समकलत्वं
तत्कालीनस्य धनभावस्य लाभभावस्य च शुभग्रहैः समकलत्वं च युगपत् सम्भवति तदैवाऽयं
योगः परिपूर्णः स्यात् । ततो दुर्लभ एवाऽयं योगः । तत् किमर्थमयं योगोऽभिहित इति
चेद् अस्य योगस्य समकलत्वाभावेन सम्भवे जातः सर्पः, अन्यथा सर्पवत्
क्रूरस्वभावो भवति, सर्पवेष्टितः विषविद्यानैपुण्येन सर्पवेष्टितशरीरत्वादिप्रदर्शनकुशलो
भवति । रुद्रव्याख्यातिप्रौढिमाप्रदर्शकमिदं न केवलं
मिहिराचार्यहृद्गतबहुलार्थप्रदर्शकं मन्दबुद्धीनस्मादृशानपि बह्वर्थग्रहणार्थं
सम्प्रेरयति । यथा अनेन रोगप्रश्ने सर्पवेष्टित इत्यनेन अग्निसर्पादिचर्मरोगान्,
स्थलप्रश्ने
नागवीथिकादि, तथा देवप्रश्ने सर्प इत्यनेन सर्पदोषं वा चिन्तयितुं शक्यते।
ततः छागसिंहवृष लग्ने तत्स्थे सौरेऽथवा कुजे] इत्यत्र भट्टोत्पलः
स्पष्टज्ञापकं नालवेष्टितजननमुवाच । होरादशाध्यायीकारेण योगेऽस्मिन् जातः कदाचिद्
बद्धो भवतीत्यपि सूचितम् । अथ प्रश्नादौ बद्धो न वेति पृष्टे एवञ्चेत् बद्धो
भवत्यूह्यमिति व्याख्याय । रुद्रस्तु अत्र जातः सौरेण बलयुतेन यदि
तन्त्रानुष्ठानादिव्यापारसहितः, बलहीनश्चेत् परिकर्मादिकं
वाच्यमित्युवाच । एतत् शूद्रादिषु चेत् मत्स्यग्रहणार्थं जालादिकं करोति । कुजेन
यदि
সান
13 स्वर्णमेखलाबन्धनादिकं वाच्यमिति व्याख्याय ।
अपूर्वार्थप्रदर्शिकाकारस्तु रुद्रोदितमेव किञ्चिदुक्त्वा स्वटीकाविशेष प्रदर्शयति
। तद्यथा । सूर्यदेवत्यानुष्टुप्छन्दसा रवियुक्तराहुरपि लग्नस्थो नालवेष्टितं
कुरुत इत्यूह्यम् । [अथवा इत्यनेन सौरकुजादिवीक्षणेनापि लग्नस्थपापो नालवेष्टनं
करोतीत्यपि सूचितम् । तथाचोक्तं जातकपारिजाते |
लग्ने सपापे बहुपापदृष्टे राहुध्वजाभ्यां सहितेऽथ तत्र । पापग्रहाणां
तु विलग्नभे वा जातो नरो नालविवेष्टिताङ्गः ॥ इति ।
एवं व्याख्याकारेषु पृथक्तः विभिन्नार्थदर्शकोऽयं श्लोकः
अर्थबहुलमिति ग्रन्थोद्घोषं सफलं समर्थयति ।
ततः कूरङ्क्षगता वित्यत्र पापौ शनिकुजौ सूर्यात् सप्तमे नवमे पञ्चमे
वा स्थितौ चेत् सूर्यस्य चरस्थिरोभयराशिवशात् यथाक्रमं विदेशे स्वदेशे मार्गे वा
पिता बद्धो भवतीति । अपूर्वार्थप्रदर्शिकाकारस्तु योगोऽयं चन्द्रादस्ति चेत्
मातृबन्धनं वाच्यमिति विशेषार्थमन्यं योजयति । अनेन जातके प्रश्ने वा लग्नात्
लग्नाधिपात् वा अयं योगः सम्भवति तदा जातकस्य पृच्छकस्य वा बन्धनं वक्तुं शक्यते ।
तथैव पञ्चमाधिपात् अस्य योगस्य सम्भवे पुत्रस्य, सप्तमाधिपात्
भार्यायाः, तृतीयाधिपात् सहोदरस्य वा बन्धनमिति बह्वर्थं दर्शयितुं शक्यते ।
तत्सूचितं प्रश्नमार्गे |
सूर्यात् सप्तमधर्मधीष्वशुभभे पापौ पितुर्बन्धदौ कृत्वा लग्नं रवेः
स्थाने प्रष्टुर्बन्धोऽत्र कथ्यताम् । लग्ने चरे स्थिरे द्वन्द्वे बन्धो दूरान्तिकाध्वसु
॥ इति ।
ततः पूर्णे शशिनि[] इत्यत्र द्वाभ्यां लक्षणाभ्यां
पोतगताप्रसूतिरुक्ता । पोतो जलयानविशेषः, तत्र स्थिता प्रसूयते ।
औचित्याज्जलमध्यप्रदेशे इत्युक्तं भवति । अस्मिन् योगे जातस्य समुद्रगमनादिकं
सम्भवतीति रुद्रराघवयोः अभिप्रायः । जलप्रश्ने योगेऽस्मिन् सम्भवति सति
पोतगतेत्यनेन पोतगता जनता
षडझं ज्यौतिषम् उच्यते प्रसूयत इति अभीष्टकार्याण्युत्पादयति ।
भूरिवर्षागमेन सर्वत्र नावमधिरुह्य गच्छन्ति लोका इति वक्तुं शक्यत इति
होरादशाध्यायीकारस्याभिप्रायः । इदमप्युपन्नमेवेति ममाभिप्रायः । यथा कर्माजीवादिप्रश्ने
पूर्वोक्तलक्षणे सति नौकोद्योगादिफलप्रवचनस्य सम्भवनीयत्वादिति । यतो
बर्थप्रतिपादकानां बृहज्जातकश्लोकानां यादृशोऽपि यथार्थः बह्वर्थः नासम्भवनीय एव ।
ततः आप्योदयमाप्यगः शशी] इत्यत्र लग्नं जलराशिगं चन्द्रोऽपि आप्यगः
इति एको योगः, आप्यगं लग्नं सम्पूर्णश्चन्द्रः समवेक्षत इति द्वितीयः, लग्नमाप्यगं
चन्द्रः सम्पूर्णः मेषूरणबन्धुलग्नग इति तृतीयः । योगेष्वेषु त्रिष्वपि सलिले
सलिलसमीपे वा जननमिति तात्पर्यम् । रुद्रस्तु अत्र अप् शब्देन अप्स्वरूपस्य
शुक्रस्य क्षेत्रयोरपि ग्रहणमिति अथवा मेषूरणबन्धुलग्नग इति केन्द्रेषु
सप्तमव्यतिरिक्तनिर्देशात् न केवलं अस्मिन् योगे, अन्यत्रापि
योगेषु दृष्टिप्रसङ्गे सप्तमदृष्टिरेव ग्राह्येति च, अस्मिन् योगे
जाताः सद्योमरणलक्षणाभावेन जीवन्ति चेत् ते च सलिलद्रव्यस्य सम्पादने सलिलयाने
कुशला वापीकूपतटाकादिनिर्माणकुशला भवन्तीति, कूपप्रश्ने
एतद्योगत्रयमपि योज्यमित्युवाच । तत्रापि स्थलराशौ तैलघृतादिक्रयविक्रय, स्थिरे
जलराशौ कृषीप्रवृत्तिः, चरे जलराशौ यदि समुद्रयानादिकं वक्तव्यमिति व्याख्याय । अवद्यं
समग्रमिदं व्याख्यानं अन्यविशेषटीकाकाराणां व्याख्यामतिशेत इति मे भासते ।
देवप्रश्ननिधिप्रश्नादिषु योगत्रयान्यतमत् सम्भवति चेत् तस्य मूलं सलिले अस्तीति
आदेशः युज्यत इति ममाभिप्रायः ।
____ ततो मन्देऽजगते विलग्नगे सौर इति श्लोके भट्टोत्पलहोरादशाध्यायीकारौ
जलराशिगते लग्नगे मन्दे क्रमात् बुधसूर्येन्दुनिरीक्षिते क्रीडाभवने, सुरालये
देवालये, सोषरभूमौ लवणसहितप्रदेशे जननं वदेदिति दृश्यमानं स्पष्टार्थमेव
जगदतुः । परं रुद्रः, योगत्रयेऽस्मिन् जाता यथाक्रम नृत्तगीतवाद्यादिभिः,
ভান
15 देवालयव्यापारादिभिः, लवणनिर्माणादिभिर्जीवन्ति, बलहीने
सति एतेषां विरोध इति अर्थगर्भितं स्वाभिप्रायं प्राचीकटत् । इदमपि अतिशय्यापूर्वार्थप्रदर्शिकाकारः
स्वापूर्वार्थं प्रादर्शयत् । तद्यथा | अत्रोक्तं प्रसवं नष्टसुरतप्रश्नेऽपि
योज्यम् । क्रीडाभवनमिति दम्पतीशयनगृहं वा । उच्चादिबलयुतेन बुधेन
हंसतूलिकादियुक्तमञ्चगृहं चन्दनागरूधूपवासितं वाच्यम् । बलहीनेन बुधेन
नाटकशालाबालक्रीडास्थानमित्यादि वाच्यम् । सुरालय इत्यनेन बलयुतेन सूर्येण देवालयं,
बलहीनेन
जीर्णभूसुरगृहं मद्यविक्रयस्थानं वा वाच्यम् । एवं बलिना चन्द्रेण
समुद्रतीरसिकतासु बलहीनेन केवलोषरभूमौ च प्रसवो वाच्यः । अनेन मरणकारकस्य शनेः
बुधादिदृष्टिवशात् क्रीडाभवनादिषु जातस्य मृत्युरपि वाच्य इति सूचितमिति ।
ततो मुलग्नगं प्रेक्ष्य कुजः श्मशाने इति स्पष्टार्थमिदं योगपञ्चकम्
। एतद्योगपञ्चकेषु जातस्य यथाक्रमं बहुशवदाहः, रम्यप्रदेशस्थितिश्च,
अग्निहोत्रव्यापारश्च,
नरेन्द्रगृहे
देवालये गोशालायां वा स्थितिश्च, शिल्पमन्दिरस्थितिश्च सम्भवतीति रुद्रार्थवैशिष्ट्यम्
। होरादशाध्यायीकारोऽपि नृलग्नस्थमन्दस्य कुजदर्शनेन श्मशानस्थाननिर्णयः, एवं
मन्दस्य तत्तद्रदर्शनवशात् तत्तत्स्थाननिर्णयो भवतीति व्याख्याय । अथायं श्लोकः
कर्माजीवनिरूपणेऽप्युपयुज्यत इति स्ववैशिष्ट्यं दर्शयामास । अपूर्वार्थकारेऽपि
अयमेवार्थविशेषो दृश्यते, नान्यः ।
पूर्वोक्तश्लोकद्वयस्थैरष्टयोगैः यादृशेऽपि प्रश्ने पूर्वोक्ततत्तद्योगसम्भवात्
चिन्त्यमानविषयस्य प्रसवो मूलं तत्तद्प्रदेशे आसीत्
अस्ति वेति ऊहापोहपटुत्वेन वक्तुं शक्यत इति मे भासते।
यतो मन्त्रतुल्यमिहिराचार्यश्लोकानां बर्थगर्भितत्वात् ऊहापोहपटुना
दैवज्ञेन सर्वत्रापि विनियुज्यते । यथा स्थलप्रश्ने नरारूढलग्नगं मन्दं कुजे
पश्यति सति तदा पूर्वमयं प्रदेशः श्मशानभूमिरासीत् । तेनात्र निवसितानां
षडझं ज्यौतिषम् रोगादिकसमस्याः सन्तीति उक्तादेशानुभवः मेऽस्ति । तत
आरार्कजयोस्त्रिकोणगे चन्द्रेस्ते च अत्र कुजशन्योः त्रिकोणगे सप्तमस्थे च चन्द्रे
जातो मात्रा त्यज्यते इति भट्टोत्पलः । रुद्रादयस्तु चन्द्रेऽस्ते इत्यत्र
चन्द्रेऽर्के इति स्वीकृत्य व्याचक्षते । तत्र होरादशाध्यायीकारः चन्द्रेर्के
अर्कसाहिते चन्द्रे तेन चन्द्रस्य मौढ्यमप्यभिप्रेतमिति, रुद्रश्रीनिवासौ
चन्द्रे वा अर्कै वा त्रिकोणगे आरार्कजयोरिति व्याचख्यतुः । परं मम योगोयं
मातृवियोगाख्यः, चन्द्रस्य मातृकारकत्वात् भट्टोत्पलटीकैव साध्वीति भासते । तत
उत्तरार्धे स्पष्टार्थत्वात् भट्टोत्पले विशेषो नास्ति । रुद्रस्तु
अमरराजमन्त्रिणेति गुरौ निर्देशात् बलाधिकेन गुरुणा दृष्टे अमरत्वं, मध्यबलेन
गुरुणा दृष्टे राजत्वं स्वल्पबलेन गुरुणा दृष्टे मन्त्रित्वं द्योत्यत इति
विशेषार्थं दर्शयामास ।
ततः षोडशे | यदि नैकगतैस्तु इत्यत्र एकत्र स्थितैः
ग्रहैरुभयत्र स्थितौ लग्नेन्दू न दृश्येते तदा जनरहिते प्रदेशे प्रसूतिर्वक्तव्येति
स्पष्टार्थः । तत्र लग्नस्येन्दोश्च पृथक् स्थितयोरेकस्थितयो र्वा बहुभिर्ग्रहै
दृश्यमानत्वे सति जनाकीर्णे प्रदेशे प्रसूतिरिति नान्यत्र दृश्यमानं
रुद्रव्याख्यानम् । अतः प्रश्नेऽप्यवसरवशात् तत्र तत्र उभयमपि फलं विनियोक्तुं
शक्यते ।
___ तत अनिष्टाध्यायः लग्नात् पुत्रकलत्रभे इत्यनेनारभ्यते । लग्नात्
चन्द्राद्वा पुत्रकलत्रभे शुभपतिप्राप्तेऽथवा लोकिते तयोः सम्पदास्ति हि, अन्यथा
असम्भवो ज्ञेय इत्यन्वयः । स्पष्टार्थकस्यास्य विशेष रुद्रो दर्शयति | लग्नचन्द्रयोः
बलाबलेन पुत्रसम्पत् कलत्रसम्पच्च निरूपणीयेति वचनात् अन्येषामपि भावानां
लग्नाच्चन्द्राच्च यथाबलं निरूपणीयत्वं द्योत्यते । एवमुदाहरणार्थं दत्तस्य
पुत्रस्थानगतश्च पुत्रमरणं पुत्रोवनेर्यच्छतीत्यस्यापि विशेषार्थं दर्शयति । अत्र
पुत्रमरणं यच्छतीत्युक्त्या पञ्चमस्थे कुजे पुत्रा जायन्ते म्रियन्ते पापेष्वन्येषु
पुत्राभाव इत्युक्तं भवति ।
ঠান
17 ननु पुत्रभार्ययोः सम्पत्तिर्विपत्तिश्च कारकाभ्यां
गुरुशुक्राभ्यामपि निरूपणीयेत्यन्यशास्त्रेषु दृश्यते । तथा च
धीचित्पुत्राङ्गसौख्यं सुरगुरुरबलाभोग] भाग्यानि शुक्रः इत्यादीनि
शास्त्रान्तरवचनानि सन्ति । अत्र च तथा नो चेत् रुद्रेणैवमुच्यते । अत्रापि पूर्वं
गुरौ त्रिकोणोदयधर्मगेपि वा भवत्यपत्यं हि इत्यत्र गुरोः सन्तानकारकत्वं
प्रदर्शितम् । शुक्रस्य कलत्रकारकत्वं पुनरत्र प्रदर्श्यते उग्रग्रहैरिति ततो ।
लग्नात् पुत्रकलत्रभे शुभपतिप्राप्तेऽथवालोकिते इत्यत्र व्यञ्जितार्थो दृश्यते ।
तत्र शुभपति इत्यनेन शुभस्थानस्य अधिपतिः भाग्याधिपतिः सूच्यते । अनेन यथा
लग्नाधिपतिः पापग्रहोऽपि तत्तद्भावाधिपश्च पापोऽपि तस्य स्थितिदृष्ट्यादिना
लग्नादिभावानां वीर्योत्कटत्वं शुभं च वाच्यं तथा त्रित्रिकोण इति प्रथितऽस्य
भावेषु अत्यन्तं शुभस्य नवमभावस्य योऽधिपतिः स पापोऽपि तस्य स्थितिदृष्ट्यादिना
पुत्रकलत्रयोः सम्पत् वाच्या । दिग्दर्शकोऽयं श्लोक इति हेतुना सर्वेषामपि भावानां
भावसम्पत् भाग्याधिपतिप्राप्त्यवलोकनादिभिर्वाच्यामिति । तथा चोक्तं प्रश्नमार्गे |
भाग्याद्यभीष्टभावेष्वशुभो भावपुष्टिकृत् । लग्नात् पुत्रेति पद्ये
तद्वराहमिहिरोदितम् ॥ इति ।
तत उग्रग्रहैः सितचतुरस्रसंस्थितैरित्यत्र पक्षद्वयमस्ति । तत्र
रुद्रस्तु शुक्रात् चतुर्थाष्टमस्थैः उग्रग्रहैः, शुक्रे
पापयोर्मध्यस्थिते वा जायावधः अग्निना जनितो वा गर्भपातेन वा पाशनिमित्तेन वेति
व्याख्याय । यद्ययं योगः सौम्यग्रहैरसहितः असन्निरीक्षितश्चेदेव सम्भवति । यदि
शुभैर्युतो निरीक्षितो वा चेत् तदा योगोऽयं न सम्भवतीत्यभिप्रैति । परन्तु
भट्टोत्पलः यथाक्रमं योगत्रयस्य फलत्रयमिति यदि शुक्रः सौम्यग्रहैः असहितः
अनिरीक्षितश्चेत् तदा जायावधः पाशजेनेति स्वमतं प्रतिष्ठापयति ।
षडझं ज्यौतिषम् अत्र रुद्रः स्वटीकायां मतमिदमपि उल्लिखति ।
अतोऽधुनापि मिहिराचार्याभिप्रेतार्थः सन्दिग्धः । परन्तु उग्रग्रहैः
सितचतुरस्रसंस्थितैः इत्यत्र विशेषार्थं दर्शयति रुद्रः । सूर्यस्य
शुक्राच्चतुर्थादिष्वसम्भवेपि बहुवचनप्रयोगेण तमोग्रहयोरपि क्रूरग्रहेष्वन्तर्भावो
द्योत्यत इति । ततस्तत्र तृतीयपद्ये द्यूनस्थ] योरित्यत्र पञ्चमनवमयोः सप्तमे वा
रविशुक्रयोगे विकलदारयोगः स्पष्टार्थकः । अतोत्र रुद्रादिविशेषव्याख्यानं नास्ति ।
परन्तु ग्रन्थान्तरेषु योगोऽयं शुक्रस्य पापग्रहान्यतमयोगेनैव दृश्यते । तथा
चोक्तं फलदीपिकायाम
कामे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ शुक्रे वा
कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः ॥ इति ।
पक्षयोरनयोः कोऽयं साधुरिति चेदुच्यते आचार्यमतमिदमिति । यतः
कुजशुक्रयोगे कुजस्य क्रूरदृक्तरुणमूर्तिरुदारः पैत्तिकः सुचपलः कृशमध्यः इति
स्वरूपकथनत्वात् तेन कलत्रस्याकर्षकता एव सम्भवति न तु वैकल्यम् । वैकल्यमस्त्यपि
तत्तु मनोवैकल्यं चापल्यं न चाङ्गवैकल्यम् । उक्तञ्च तयोर्योगफलम्
गोपोमल्लोऽथदक्षो परयुवतिरतो द्यूतकृत्सासुरेज्ये इति । एवमनेन परयुवतिरतत्वं
भवेदपि वैकल्यं वक्तुं नैव शक्यते । तथैव शनिशुक्रयोगे अल्पचक्षुः इत्यनेन
सुक्ष्मेक्षिकता नास्तीति वक्तुं शक्यते नाङ्गवैकल्यम् । परं रविशुक्रयोगे रवेः
समीपमस्तंगता भवन्ति ग्रहा इति हेतोः वैकल्यकथनं समीचीनं तर्कसम्मतमपि ।
ततः कोणोदये भृगुतनयेऽस्तचक्रसन्धौ इत्यत्र यदि पञ्चमभावः शुभयुक्तो
न भवति, तदा शनैश्चरे लग्नस्थिते शुक्र शशिभवनालिझषान्तमृक्षसन्धिः इत्युक्ते
अस्तचक्रसन्धौ स्थिते अर्थात् मकरवृषभकन्यानामेकतमे लग्ने एवास्य योगस्य सम्भवः,
तदा
जातो वन्ध्यापतिः भवति । अर्थात् तस्य पत्नी प्रसवहीना भवतीत्यर्थः। अत्र यः कोऽपि
व्याञ्जितार्थः रुद्रेण न दर्शितोऽपि सोऽस्ति इति मे भाति । यतोऽत्र कारको
भावनाशाय इति ग्रन्थान्तरेषु दृश्यमानो नियमो व्यञ्जित
নিচ
19 इति भाति। एवमुक्तप्रकारेण शुक्रः सप्तमभावस्य अनिष्टदो भवति,
तद्भावकारकत्वात्
। गण्डान्तमिति प्रसिद्धेषु कर्कटवृश्चिकमीनान्त्येषु अन्यतमेषु स्थिते शुक्रे
पापतमेन शनिना दृष्टे तद्भावस्य हानिः भवत्येव । परन्तु अत्र प्रश्नोऽयं सञ्जायते
वन्ध्यापतिरित्यनेन सप्तमभावस्य का वा हानिः, स पञ्चमभावविषयः
खलु इति चेदुच्यते | सन्तानविचारः न केवलं पञ्चमभावविषयः । सप्तमभावस्यापि च सम्बन्धी ।
तस्मादेव यदि न सुतःमिष्टयुक्तम् इत्युक्तम् । अनेनैव ज्ञायते, यदि
सुतराशिरिष्टयुक्तश्चेत् तद्योगभङ्ग इति । तथापि सप्तमाभावस्य फलपूर्णता
पञ्चमभावविहितफलानुभवेन एव भवति । अत एव अस्माकं संस्कृती विवाहोत्सवासरे
धर्मप्रजासम्पत्यर्थम् इति संङ्कल्प्यते । अत एव उक्तं महकविना कालिदासेन प्रजायै
गृहमेधिनाम् इति । एवं भारतीयसुसंस्कृत्यां सत्सन्तानमेव दाम्पत्यस्य
गार्हस्थ्यस्य च सार्थक्ये हेतुत्वात् तदभावरूपं वन्ध्यापतित्वं तद्भावन्यूनता इति
सिद्धम् । अतः पञ्चमसप्तमयोः सम्बन्धो अविनाभावः । अत एव संयोज्य परिगृहीतमाचर्येण
लग्नात् पुत्रकलत्रभे इति । एवं पापग्रहैर्व्ययमद इत्यत्र क्षीणे चन्द्रे
पञ्चमस्थैः पापग्रहैः व्ययसप्तमलग्नराशिसंस्थैः असुतकलत्र] जन्मेति स्पष्टार्थः । अनेन
लग्नात् पुत्रकलत्रभे इत्युक्तो नियमः सामन्यनियमः । अयं च विशेषनियमः
नापवादोऽस्येति मन्तव्यम् ।
ततो असितकुजयोर्वर्गेऽस्तस्थे इत्यत्र सप्तमस्थितः शुक्रः शनिकुजयोः
वर्गगतः ताभ्यां वीक्षितश्च भवेत् तदा जातः परस्त्रीरतः । एवं योगोऽयं चन्द्रेण
सहितश्चेत् अर्थात् चन्द्रोऽपि लग्नगतो शुक्रं पश्यति चेत् तदा स्त्रिया सह
पुंश्चलो भवति । स्वयं परदाररतः तस्य भार्या पुंश्चली भवतीत्यर्थः ।
विशिष्टयोगस्यास्य हेतुश्चिन्त्यते चेत् प्रथमं तावत् मदनकारकस्य शुक्रस्य कारको
भावनाशाय इति नियमात् सप्तमस्थितिरेव अनिष्टदा । तद्भावफलमपि सुरतेप्सुः इत्यस्ति
अतः पापयोः शनिकुजयोः वर्गस्थितिदृष्ट्यादिसम्बन्धः परयुवतिरतत्वस्य कारणं भवति ।
20
षडझं ज्यौतिषम् अनेनैवं चिन्त्यते । मदनकारकस्य शुक्रस्य पापयोः
शनिकुजयोः सम्बन्धः तत्रापि कुजसम्बन्धः अनैतिकसम्बन्धहेतवे व्यभिचारयैव भवतीति ।
परयुवतिरतः तदर्थवादैः हृतविभवः इति कुजः शुक्रस्थितिफलं युवतिजितान्
सुहृत्सुविषमान् परदाररतान् इति शुक्रराशौ कुजस्थितिफलञ्च उक्तिमिमां पुष्टीकरोति
। तत्रापि विशेषेण वक्ष्यमाणे स्त्रीजातकाध्याये कुजशुक्रयोः परस्परांशकस्थयोः फलं
अन्योन्यांशगयोः सितावनिजयोरन्यप्रसक्ताङ्गना इत्युक्तमिदं स्त्रिया अपि
कुजशुक्रयोः सम्बन्धेन तदेव फलं प्रवच्यादिति स्पष्टं निरूपितवत् ।
ततः शिल्पी त्र्यंशे शशिसुतयुते केन्द्रसंस्थार्किदृष्टे इत्यत्र
रुद्रः शशिसुतयुते त्र्यंशे केन्द्रसंस्थार्किदृष्टे शिल्पी भवतीति व्याख्याति ।
शिल्पेन चित्रकर्मादिकवृत्तिना जीवतीत्यर्थः । अत्र भट्टोत्पलस्तु शशिसुतेन युक्तो
यो द्रेक्काणः स यस्य राशेः सम्बन्धी तस्मिन्स राशिः लग्नकेन्द्रस्थेन सौरेण
दृष्टे जातः शिल्पी भवतीति व्याख्याय । रुद्रोक्तिवत् बुधयुक्तराशेः शनिदृष्टिं
नेच्छति सः । यतः राशौ दृष्टे द्रेष्काणेऽपि दृष्टः स्यात् । यद्येष पक्ष
आचार्याभिप्रेतः स्यात्तदा बुधे केन्द्रस्थेन सौरेण दृष्टे शिल्पी भवतीदमेव
आचार्योऽवक्ष्यत् । त्र्यंशग्रहणं नाकारिष्यादिति अस्याभिप्रायः । परन्तु
रुद्रोऽस्य समाधानं विधत्ते | त्र्यंशग्रहणं पूर्णदृष्टिरेवात्र
ग्राह्येति द्योतयितुम् । मेषप्रथमद्रेष्काणस्थे बुधे तुलाप्रथम] द्रेष्काणस्थेन
शनैश्चरेण दृश्यमाने पूर्णदृष्टिर्भवति । तुलान्त्यस्थेन दृश्यमाने मेषादिस्थे
बुधे दृश्यं बुधं प्रति द्रष्टुर्मन्दस्य दृष्टिरल्पैव भवति । अतः पूर्णदृष्टिरत्र
ग्राह्येति त्र्यंशग्रहणं कृतम् । रुद्रमतमिदमेवाचार्यस्यापि सम्मतमिति मे भाति ।
यतः केवलं बुधस्थितद्रेष्काणराशेरेव शनिदृष्ट्यैव योगसम्भवे साक्षात्
शनिबुधसम्बन्धेन विना योगस्यास्य सम्भवत्वात् । एवमस्य शिल्पीत्यस्य नष्टसर्वस्वः
शिल्पमात्रेण जीवतीति व्याख्या साध्वी अपि, इदानीन्तनकाले
সান
21 शिल्पवृत्त्या जीवन्तो बहवः सुखिनो धनिकाश्च । कथमयं
दुर्योगेष्वन्तर्भवति कथमियं टीकापि सङ्गच्छते चेदुच्यते । यस्मिन् कालेऽपि
शिल्पकलादिक मानन्दहेतुर्यः कलामाध्यमो विद्यते स न केवलं वृत्तिदृष्ट्या
प्रवृत्तिदृष्टैव गृह्यते चेत् वरं भवति । अतो यस्य शिल्पकला प्रथमा प्रवृत्तिः
ततो वृत्तिश्च तेन धनादिकमयत्नतया लभ्यते तदा नास्य योगस्य सम्भवः । तदास्य
योगसूचको बुधः बली सुस्थश्च, अस्य शनिदृष्टिर्नास्तीति ज्ञातव्यम् ।
अतो बुधो यदि पूर्वोक्तवद्दुर्योगकारकश्चेत् तदा तस्य शिल्पीत्वं वृत्तिरेव न
प्रवृत्तिः फलमपि पूर्वोक्तमेव ज्ञेयमिति ।
निधनारिधनव्ययस्थिता रविचन्द्रारयमा यथा तथा इति स्पष्टार्थके
नेत्रहानिवाचकदशमश्लोके रविचन्द्ररयमाः यथा तथा निधनारिधनव्ययस्थिताः
बलवग्रहदोषकारणात् अनेत्रतां जनयन्तीत्यन्वयः । तत्र बलवद्रहदोषकारणात् एषां
चतुर्णां मध्ये यो बलवान् तस्य दोषो यः उक्तः वातपित्तकफेष्वन्यतमः तेन कुपितेन
कारणेन नेत्राभाव इत्यत्र अर्थविशेषं दर्शयतीत्थं रुद्रः | यतश्चन्द्रो
बहुवातकफः मन्दः कफानिलात्मा । अतोऽस्मिन् योगे तयोर्बलवत्त्वे श्लेष्मरोगेण
वातयुक्तेन नेत्रदोष इति स्वविवरणं वाहटवचनेन समर्थयति । अत्रान्यो विशेषः द्रष्टव्यः
। द्वितीयस्थानगतेन क्रूरेण अष्टमस्थग्रहदृष्टेन दक्षिणदृष्टेरभावः । व्ययस्थेन
षष्ठस्थदृष्टेन वामदृष्टेरभाव इति ।
ततो द्वादशे उदयत्युडुपेऽसुरास्यगे इति विशिष्टश्लोके असुरास्यगे
उडुपे उदयति त्रिकोणयोः अशुभयोश्च सतोः जातः सपिशाचो भवतीत्यन्वयः । अर्थात् राहोरास्यगते
ग्रस्तचन्द्रे लग्नस्थे पञ्चमे नवमे च पापयोः मन्दभौमाभ्यां युक्तयोः
पिशाचावेशयुक्तः असमञ्जवत् भवतीति । सदा न लभ्यः अपूर्वोऽयं योगः यदि प्रश्ने
सम्भवति तदा तत्र विशेषतः पिशाचबाधां वक्तुं शक्यते । सदा चन्द्रग्रहणस्य
असम्भवात् राहुकेत्वन्यतमयुतचन्द्रेणापि ग्रहस्थितिरियं लभ्यते चेत् सामान्यतो
22
षडझं ज्यौतिषम् दुष्टग्रहादिबाधां वक्तुं शक्यम् ।
पिशाचादिदुष्टग्रहबाधापि मनोघातरूपमेव अतो मनःकारकचन्द्रस्य दोषेण फलप्रवचनमिदं
तात्त्विकम् । एवं नेत्रकारके रवौ अपि उदयस्थे सोपप्लवमण्डले ग्रहणकालीने
नेत्राघात इति वचनमुक्तमाचार्येण । यत आत्मकारकस्य तस्य
मनोघातरूपपिशाचबाधाद्यसम्भवात् राहोः आत्मनो घातं कर्तुमशक्यत्वात्
रविकारकत्वनेत्रहानिरेव भणितमाचार्येणेति तय॑ते ।
ततो राश्यशपोष्णकर इति चतुर्दशेश्लोके राशिनाथः अंशनाथश्च शीतकरश्च
उष्णाकरश्च अमरेज्यश्च एतैः पञ्चभिः नीचाधिपांशकगतैः नीचाधिपस्यांशकप्राप्तैः
अर्थात् नीचांशकगैः शत्रुभागगतैर्वा जाता दासा भवन्ति । दासविशेषमप्युक्तवान्
प्रसूताः एभ्यः अल्पमध्यबहुभिः अभ्युपगमादिदासाः । एभ्यः अल्पैः एकेन द्वाभ्यां
अभ्युपगमदासः, मध्यैः त्रिचतुरैः क्रयदासः, बहुभिः चतुर्भिः पञ्चभिर्वा गर्भदासश्च
भवन्तीति । अस्य रुद्रविवरणमित्थम् || अनर्हत्वेऽपि स्वयमङ्गीकृत्य
दासवृत्तयः अभ्युपगमदासाः । अदासा अपि दासीभूताः क्रयदासाः। दास्याः गर्भसमुद्भवाः
गर्भदासा इति ।
अत्रेदं द्योत्यते | भावप्राधान्येन फलकथने यथा
लग्नपभाग्यपयोः प्राधान्य तथा राशिग्रहप्राधान्येन फलं प्रवक्तुं
राश्याधिपांशाधिपयोः आत्ममनः कारकयोः रविचन्द्रयोः ज्ञानसुखकारकस्य
सर्वेश्वरकारकस्य गुरोश्च प्रामुख्यमस्ति । अतो यस्मिन् जातके एतेषां स्थानादिबलं
सुस्थानस्थितिश्च शुभवर्गादिकं वर्तते तदा जातः प्रसिद्धो जयी सुखी च भवति । परमेषां
बलहीनत्वे मानवजीवनेऽवरत्वसूचिका दासवृत्तिः भवतीत्यर्थः।
ततो व्ययसुतधनधर्मगैः इति बन्धनयोगवाचके षोडशे श्लोके भट्टोत्पलः
भवनसमाननिबन्धनं विकल्प्यम् इत्यनेन राशिसदृशः प्राणी येन प्रकारेण बध्यते तेन
प्रकारेणेत्यर्थः इत्युक्त्वा तत्रोदाहरति । यथा मेषवृषधनुर्धराणामन्यतमे लग्ने
निगडैर्बध्यते । कर्कमकरमीनानामन्यतमे लग्ने बन्धनं विना दुर्गे स्थिता रक्ष्यते ।
সান
23 वृश्चिकलग्ने भूगृहे बध्यत इति । परमत्र रुद्रः सुस्पष्टं व्याख्याय
। स च वदति भवनसमाननिबन्धना विकल्प्याः लग्नराश्यनुरूपबन्धनयुक्ताः विकल्प्याः
विमृश्य कल्पनीया इति । तद्यथा मेषो वृषश्च पाशेन चापोश्वत्वात् पाशेनैव ।
मिथुनकन्यातुलाकुम्भनामन्यतमे विलग्ने शृङ्खलया बध्यते । तथा कर्कटसिंहमीनाः
शरीरबन्धनं विना दुर्गे क्षिप्त्वा बध्यन्ते । वृश्चिकः श्वभ्रे पिधानेन बध्यते ।
मृगश्चेत् दुर्गे क्षिप्तः पाशेन बध्यते । तत्र बन्धनस्य चिरकालादिचरस्थिरोभयवशात्
कल्पनीयमिति । एतत्तु समग्रं स्पष्टव्याख्यानम् । वैशिष्टमिदानीमस्य प्रदर्श्यते]
भवनसमाननिबन्धना इत्यत्र भवनं भावमपि प्रकल्पयन्नेवं विशिष्टार्थं दर्शयामास ।
व्ययगः पापो दुर्बलश्चेत् वेश्यास्त्रिया बध्यते ऋणदासत्वं वा । अत्र व्ययस्य
ऋणभावत्वात् तत् समीचीनम् । वेश्यानिमित्तेन बन्धनमिति कथं व्याचख्यौ
तच्चिन्तनीयमपि ग्रन्थकृदैवज्ञवचनप्रमाणमस्त्यस्य ।
तथा च सुतगतः पापः बलहीनश्चेत् पुत्रेण बध्यते । धर्मगो बलहीनश्चेत्
गुरुजननिमित्तं बन्धनम् । एवं धनगो दुर्बलश्चेत् राजानं दूषयति तेन स्वस्य
बन्धनञ्च भवति । अत्रापि कथमयमेवं व्याचख्यौ चेत् उच्यते रखौ द्वितीयस्थे
भूरिद्रव्यो नृपहृतधनो वक्ररोगी द्वितीये इति राज्ञो धनहानिफलं, पापयोरन्ययोः
इदमेव भावफलञ्च गृह्णन् रुद्रः व्याख्यामिमां चकारेति ज्ञायते । अत एवोक्तं मया
वराहमिहिरस्य भावेङ्गितज्ञः रुद्र इति ।।
ततो रवियमकुजैः सौम्यादृष्टैः इत्यत्र सौम्यादृष्टैः रवियमकुजैः
दशमराशिगतैः भृत्यमनुजो भवतीत्यर्थः । पूर्वोद्विष्टैः रविशनिकुजैः बह्वल्पमध्यैः
क्रमाद् वराधममध्यमाः, वरः श्रेष्ठभृत्यः, अधमभृत्यः, मध्यमभृत्यश्च
भवति । तत्र रविश्चेत् श्रेष्ठभृत्यः, शनिश्चेत् अधमभृत्यः, कुजश्चेन्मध्यमभृत्यः
इति । एवं दशमे पापग्रहाणां स्थित्या वृत्तिजीवने पराश्रयत्वं तस्य स्वोद्योगो
नास्तीति व्यञ्जितमाचार्येण । परन्तु ते च ये दशमगताः पापा अपि तत्स्थानं तेषां
स्वोच्चं
षडङ्गं ज्यौतिषम् स्वक्षेत्रादिकं यदि भवेत् ते च ग्रहाः
बलिष्ठाश्चेत् तदा तस्य वृत्तिः वेतनस्वीकरणस्वरूप पराश्रयिणी अपि सा उन्नता
वृत्तिः, समाजे स्थानमस्य महदस्तीत्यादि वक्तुं शक्यते । तत्रापि रविश्चेत्
राजाश्रयः तत्र महत्स्थानमित्यादिकं चिन्त्यम् । इदानीन्तनकाले प्राशासनिका
औन्नत्यवती वृत्तिश्चिन्त्या इति । शनिना अधमभृत्यत्वमुक्तमपि स च
उच्चादिशुभस्थानस्थितश्चेत् तदापि नृपाश्रयादिकं वृत्तिजीवनं वाच्यम् । तदा
शनेरुक्तं भृत्यत्वं शिष्यते । उच्चादिशुभस्थितिः अधमत्वस्य अपवादाय भवतीति । तच्च
ख्यातः स्वोच्चे गणपुरबलग्राममुख्योऽर्थवांश्च स्वन्तः प्रत्ययिता नरेन्द्रभवने
सत्पुत्रजायाधनो जीवक्षेत्रगतेऽर्कजे इत्यादिना ज्ञायते । कथमिदं दान वक्तुं
शक्यते | स्वभावतः शनिः प्रेष्यः सहस्रांशुजः इत्यनेन भृत्यकारकः खलु ! तथा
सति सामान्य राशिफलं शन्यादिपापग्रहाणां दशमस्थित्या वाच्यं विशेषमनिष्टयोग कथं
बाधते तत्रापि शनेः अधमभृतकत्वमुक्तम् तद्भवितव्यमेव खलु इति चेदुच्यते नेति ।
यत: दशमस्थाने शने: भृतकाधमत्वमुक्तमपि, स्थानं तत् तस्य
स्वोच्चं स्वक्षेत्रं चेत् तदा स्वोच्चादिषु स्थितानां कुजादि पञ्चताराग्रहाणां
केन्द्रस्थित्या प्रोक्ताः पञ्चमहापुरुषयोगाः एषां सर्वेषां दुर्योगानां
दुष्फलानां च भङ्गाय भवन्तीति । अतोऽत्र शनैश्चरेण शशक इति महायोगः सम्भवति । एवं
कुजस्यापि स्वोच्चादिस्थितस्य रुचकयोगसम्भवात् पराश्रयोद्योगो भवेदपि
मध्यमभृतकत्वस्य महापुरुषयोगः अपवाद एव भवतीति ज्ञायते । अतोऽन्यत्र राशिषु
दशमस्थेषु एषु ग्रहेषु एव भृतकत्वफलं प्रवाच्यमिति सिद्धम् ।
एवं स्वल्पश्लोकैः बर्थगर्भितैः ग्रन्थवरं रचयित्रा
आचार्यवराहमिहिरेण, बृहज्जातकस्य बह्वर्थदर्शकशौण्डेन रुद्रेण च बृहज्जातकस्थः अनिष्टः
अयमध्यायः इष्टः सम्पन्नः ज्यौतिषजिज्ञासूनामिति सकार्तझ्यं स्मरन् तौ महानुभावौ
समाप्यतेऽयं विषयः ॥
व्याधिनिरूपणम्
डा.सुनीता ज्यौतिषविभागाध्यक्षा
गुरुवायूरुपरिसरः
त्रिशूर, केरळराज्यम् ID THITTITLITILD ILITI] व्याधिशब्दः
वस्तुतः रोगशब्दस्य पर्यायः। आचार्येण अमरसिंहेन अमरकोशे आधिः व्याधिः च
पृथक्पृथक्परिभाषितः । तदेवम्]
एवं रुग्रुज चोपतापरोगव्याधिगदामयाः। अमरः ||२|११||
तथा पुंस्याधिर्मानसी व्यथा। अमरकोशः १[][२८] एवम् अष्टाङ्गसंग्रहे
वाग्भटेन प्रोक्तं व्याधयः ग्रहादिना जायन्ते । यथा]
ग्रहैरपि हि जायन्ते प्रच्छन्नैव्यायः शिशोः । कर्मशस्तमस्तेषु
देवयुक्ताभयं सदा ॥ अ.स. २]९८]
होराशास्त्रे बहुषु स्थलेषु रोगस्य चर्चा विस्तरेण प्राप्यते । तथापि
श्रीगणेशदैवज्ञेन प्रोक्तमतीव सुलभतया ग्रहणधारणयोग्यमिति निश्चप्रचम् । अतः
तेनोक्ताः रोगयोगाः सङ्ग्रह्यन्तेऽत्र ।
प्रालेयांशो रिपुस्थे खलखगसहिते मानवो रोगवान्स्यात् ।
क्रूरैर्निष्पीडितश्चेत्तनुसदनगतः शीतरश्मिस्तदानीम् ॥ जा.अ २२१||
अर्थात् चन्द्रः क्रूरग्रहयुतः भवति यदा तदा जातकः रोगवान् भवति,
अपि
च लग्ने क्रूराभ्यां निष्पीडितचन्द्रोऽपि जातक रोगयुक्तं करोति । यदि लग्नेशः
कस्मिन्नपि भावे मेषे वृश्चिके मिथुने कन्यायां वा स्थितः भवेत्तत्र शत्रुणा युतः
दृष्टः वा स्यात् तदा जातकः गुदरोगेण अर्शरोगेण वा पीडितो भवति । एवमेव मङ्गलशनी
षष्ठस्थौ तदा तयोः सम्बन्धिगदः जातकस्य देहे भवति । इतोऽपि षष्ठेशः
षडङ्गं ज्यौतिषम्
स्वोच्छराशौ अथवा विषमराशौ स्थितः क्रूरपापैर्वा निरीक्षितः
स्यात्तदाऽपि जातकस्य शरीरे शत्रुकृताभिचारादिगुप्तरोगः भवति ।
दन्तोष्ठरोगः | जातकस्य जन्मकुण्डल्यां षष्ठभावे राहुः
केतुर्वा स्यात् तदा जातकः दन्तोष्ठयोः रोगी भवति । जातकस्य जन्माङ्गभावेषु यदि
धनुर्वृषमेषान्यतमे लग्ने क्रूरैः ग्रहैः अवलोकिते अर्थात् उक्तराश्यन्वितलग्नं
क्रूराः ग्रहाः पश्यन्ति तदा जातकः दन्तरोगी दन्तुरो वा भवेत् ।
नेत्ररोगः भौमं चन्द्रं वा गुरुः पश्येत् तदा जातकः अक्ष्णा काणो
भवेत् अपि च सिंहराशिस्थचन्द्रमा सप्तमभावस्थभौमं पश्येत् तदा अपि जातकः अक्ष्णा
काणः भवति । सूर्यात् अग्रिमे भवने यदि भौमः स्यात् तदा जातकस्य दृष्टौ विच्छाया
नामकः नेत्ररोगविशेषः भवति । तथैव यदि सूर्यात्पुरोभावे बुधे सति तदापि दृष्टौ
विच्छायादोषः वक्तव्यः । एवं लग्ने अष्टमे वा स्थितः शुक्रः यदि क्रूरादिग्रहैः
अवलोकितः स्यात् तदा जातकस्य नेत्रात् अश्रुपातदोषजन्यपीडा भवति ।
पित्तरोगः | शनिः गुरुः वा षष्ठेशः यदि
क्रूरग्रहयुतः तुर्यस्थः स्यात्तर्हि जातकः कृष्णपित्तरोगेण आक्रान्तो भवति । एवं
जन्माङ्गस्थं षष्ठेशं चन्द्रं च यदि क्रूराः एव पश्येयुः तदा जातकः प्लीहवान् भवति
। एवमेव सप्तमेशं चन्द्रं च क्रूरः एव पश्येत्, शनि चन्द्रमसं
क्रूराः एव पश्येयुस्तदापि सः पित्तरोगेण पीडितो भवति। निष्पीडितो लग्ननाथः शनिः
लग्ने भवेत् तदा अपि जातकः हर्षहीनः प्लीहवान् च भवतीति वक्तव्यम् । दृष्टैः
क्रूरै न सौम्यैर्यदि रिपुगृहपे चोडुपे प्लीहावान्
जातकालङ्कारः२२२ 2जातकालङ्कारः २२ 3
जातकालङ्कारः३३१ 'जातकालङ्कारः ३२२
4
.
সানি
27 स्यात्, एवं कामाङ्गनाथे तदनु रविसुतः तुर्यगो नष्टदृष्टिः । जातकस्य
जन्माङ्गे यदि षष्ठेशं चन्द्रं च क्रूराः एव पश्येयुः तदा जातकः प्लीहवान् भवति ।
एवं सप्तमेशं चन्द्रं च क्रूराः एव पश्येयुस्तदापि जातकः प्लीहवान् भवति । अपि च
सुखस्थं शनि चन्द्रमसं च क्रूराः एव पश्येयुस्तदापि जातकः प्लीहवान् इति
वक्त्तव्यम् ।
रक्तविकारः | लग्ने बुधराह्वोः अथवा बुधकेत्वोः
युतिः स्यात्तदाजातकः श्वेतकुष्ठरोगीभवति । अपि च जन्माङ्गे क्वापि भौमचन्द्रमसोः
युत्या राहोः केतोर्वा युतिर्भवेत्तदापि जातकः श्वेतकुष्ठरोगी स्यात् । राहुः
केतुर्वा भौमसूर्यशनिभिः युतश्चेत्तदा मनुजः कृष्णकुष्ठरोगेण पीडितः भवति ।
जातकस्य जन्माङ्गे यदि कुजशनिभ्यां भौमेन शनिना वा युक्तश्चन्द्रः
मेषे वृषे वा स्थितः जातकं श्वेतकुष्ठरोगचिह्नान्वितं शरीरं करोति । एवं
दैत्येज्यारेन्दुमन्दाः यदि मीन कर्क बृश्चिकराशिगतास्तदा जातकः रोगी अर्थात्
श्वेतकुष्ठचिह्नान्वितदेहो भवति । एवमेव गुरुशुक्रौ षष्ठभावाधिपौ, लग्नस्थिती
क्रूरग्रहयुतौ भवेतां तदा नरः अशुभकर्मणां कर्ता एवञ्च रक्तकुष्ठी स्यात् ।
विषयेऽस्मिन्जातकालंकारे इतोऽपि उक्तमस्ति | जातकस्य
जातकपत्रे मीनकर्कवृश्चिकराशियुताः भावाः खलसहिताः अर्थात् क्रूरादिग्रहयुक्ताः
भवेयुः तदा जातकानां लूताकारकुष्ठरोगः चिरं स्यात् अर्थात् परमगदकरः
महत्पीडोत्पादकः कुष्ठरोगविशेषः बहुकालं यावत्पीडयेत् ||
दृष्टश्चेद्वक्रशोफी त्वथ खलसहिता मीनकर्कालिभावाः । लूताकारश्चिरं
स्यात्परमगदकरः कुष्ठः एवं नराणाम् ॥
हृद्रोगः जन्माङ्गे शत्रुनाथः सूर्यश्च क्रूरग्रहयुतचतुर्थभावे
स्यातां यदि तर्हि जातकः हृद्रोगी भवति ।
'जातकालङ्कारः ३२५ जातकालङ्कारे ३१
षडझं ज्यौतिषम् हस्तपादयोः गदयोगः । यदि जातकपत्रे पापग्रहयुतौ
आयुःपुण्या] धिनाथौ, सूर्यात् शनेः राहोः केतोर्वा चतुर्थभवने स्थितौ अथवा षष्ठभावे
भौमशनिराहुयुतौ स्यात्तदा जातकस्य जवा प्रताडितः भवति । अपि च खलैः अर्थात्
सूर्यभौमशनिराहुकेतुभिः अवलोकितौ व्ययभावस्थितौ, शनिरिपुपती
तदानीमपि तद्वदेव वक्तव्यम् । इतोऽपि रविविधुरविजाः वैरिरन्ध्रालयस्थाः स्युः
अर्थात् सूर्यः षष्ठे चन्द्रः अष्टमभावे, एवं शनिः चतुर्थभवने स्थितस्तदानीं
हस्ताभ्यां पीडा वक्तव्या।
दुर्गन्धिरोगः | जातकस्य जन्माङ्गस्थभावेषु यदि शुक्रः
मकरराशौ वा स्थितः स्यात्तदा जातकः दुर्गन्धवान् भवेत् । एवमेव षष्ठेशः अपि बुधः
अर्थात् मिथुनकन्यायां वा अवस्थितः तदापि जातकः दुर्गन्धीति वक्तव्यम् । एवमेव
जातकपत्रे शुक्रः बुधरूँ अथवा बुधेन युतः शुक्रः केन्द्रस्थो भवति तदापि जातकः
दुर्गन्धी भवति।
वस्तुतः ज्यौतिषशास्त्रे अत्यधिकाः रोगाः सूर्यचन्द्रमसोः प्रभावेण
प्रभाविताः । केचन एवमपि मन्यन्ते यत्केवलोचितानुचिताहारविहारेण व्याधिः प्रजायते
परन्तु ज्योतिषे अस्य मतस्य सर्वथा खण्डनं भवति, यतो हि लोके
प्रत्यक्षतः अनुभूयते यत्केचन अनियमितजीवनयापिनः स्वस्थाः एवं नियमिताः
व्याधियुक्ताः । अतः तत्र ग्रहाणां विलक्षणप्रभावः एव कारणम् । अस्मिन्विषये
अन्यत्र विद्वद्भिरपि उक्तं यत् । पूर्वजन्मकृतं पापम् अस्मिन्जन्मनि व्याधिरूपेण
जायते इति । यथा []
पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते । तच्छान्तिरौषधैर्दानैः
जपहोमादिकर्मभिः ॥ इति ||
नष्टजातकम्
डा.प्रसाद भट्टः अतिथि अध्यापकः,
ज्यौतिषविभागः,
राजीवगान्धीपरिसरः, शृङ्गेरी,
DIDDITIIIIIIIIIIIIIDOLI ज्योतींषि अधिकृत्य प्रवृत्तस्यास्य
ज्योतिश्शास्त्रस्य कालनिर्णायकत्वेन वेदाङ्गत्वम् । वेदाङ्गभूतेऽस्मिन्
शास्त्रेऽपि सन्ति षड् अङ्गानि] जातक गोल] निमित्त प्रश्न मुहूर्त गणितनामानि ।
तत्रान्यतमस्य जातकस्य निर्वचनावसरे प्रायः सर्वे ज्योतिश्शास्त्रपारावारगभीरताविज्ञानेनाचार्याः
इति बिरुदाङ्किताः स्वीयसन्दर्भ स्वशैल्या उररीकुर्वन्ति यत्
पूर्वार्जितसदादिकर्मफलरूपसुखाद्यभिव्यञ्जकम् । ज्योतिश्शास्त्रवनपञ्चाननेन
मिहिराचार्येण स्वकीये बृहज्जातके तदेवोक्तं कर्मार्जित पूर्वभवे सदादि यत्तस्य पक्तिं
समभिव्यनक्ति इति ।
__ किन्तु पूर्जितसदादिकर्मफलरूपसुखादीन् ज्ञातुकामेन आधानजनन]
समयज्ञानविहीनेन नष्टजातकेन किं कर्तव्यमिति जिज्ञासासमुद्भवे समुपदिशति पराशरः
मैत्रेयाय।
प्रश्नतोऽब्दायनर्तुपक्षतिथ्यःराशिषु।
अज्ञातेष्वपि तज्ज्ञातुं शक्यते नात्र संशयः ॥ इति ॥
सकलशास्त्रगुणगणसम्पन्नः भवद्भिः सुविदितमेवैतत् आचार्य भेदात् क्रमभेदोऽपि बहुधा
दृश्यते । अत एव ज्योतिश्शास्त्रपितामह इति बिरुदाङ्कितेन
आचार्यवराहमिहिरेण स्वसन्दर्भे' इति
नष्टजातकमिदं बहुप्रकारं मया विनिर्दिष्टम्
'प्र.मा जातक गोल निमित्त प्रश्न मुहूर्ताख्य गणितनामानि
अभिदधतीहषडङ्गान्याचार्या ज्योतिषे महाशास्त्रे ॥६॥ बृ.प.होरा
षडङ्ग ज्यौतिषम् इत्युक्तम् । अतः सत्सु बहुषु प्रकारेषु पराशर यवन
मणित्थ सत्याचार्यादिषु प्रोक्तेषु मिहिरपुरस्कृतप्रकाराः विवियन्तेऽत्र ॥
तत्र विदितमेव हि गुरुचारवशात् संवत्सरज्ञानं सुलभसाध्यमिति । अत एव
पराशरादि मिहिरपर्यन्तं सर्वे आचार्याः प्रश्नवशात् नष्टजातकनिर्माणावसरे
गुरुस्थानविज्ञापनमुपदिशन्ति । तदर्थं मिहिरः बृहज्जातके | लग्नत्रिकोणेषु
गुरु त्रिभागगैः विकल्प्य वर्षाणि वयोनुमानात् इत्युपदिदेश।।
अर्थात् | त्रिषु द्रेक्कणेषु प्रश्नलग्नोदयद्रेक्काणं ज्ञात्वा प्रथमे उदये
लग्ने एव, द्वितीये | पञ्चमस्थाने, तृतीये तु नवमे
इति गुरुं विज्ञाय सति सन्देहे' द्वादशवर्षेषु विकल्प्यः ।
प्रश्नलग्नतः प्रथमद्रेक्काणोदये लग्नतः गुरुं यावत्, द्वितीये
पञ्चमतः गुरुंयावत्, तृतीयोदये नवमात् गुरुं यावदिति, सन्देहसद्भावे
सति द्वादशभगणगुरुगमनकाले विकल्पनीयः इति मतान्तरमुक्त्वा एतन्नाभीष्टमिति
यवनवदनोद्गतवाणी भट्टोत्पलः ब्रवीति ।
द्रेष्काणलग्नक्रमास्तराशौ गुरुर्विलग्नादित्रिकोणगोऽभूत् । समुद्गते
तद्भवनक्रमेण स्वाचारभादब्दगति प्रगण्यात् ॥ इति
किन्त्वत्र मतभेदं पराशरः प्रोवाच यस्मिन् द्वादशांशे लग्नोदयो भवति
तस्मिन्नेव राशौ द्वादशाब्दचक्ररूपवयोनुमानात् गुरुज्ञेयः । एष एव सामन्यक्रम इति
भट्टोत्पलेनापि स्वटीकायां टीक्यते।
एवं आचार्यभेदात् क्रमभेदेसति बहुभिरागमैः सिद्धानि मतानि
स्वानुकूलार्थं सच्छिष्योपदेशार्थञ्च बहुयत्नात् परीक्ष्य गृहीतव्यानि ।
'बृहज्जतकनष्टजातकाध्याये 2 वयोनुमानात् आगतां व्यक्ति अभिलक्ष्य
विकल्पः कर्तव्यः ३ बृहज्जातकस्थ नष्टजातकाध्यायस्य द्वितीयश्लोकव्याख्यानावसरे 45.प.होरा
नष्टजातकाध्याय प्रश्नलग्नभास्करांश राशौ जीवे जनुर्भवेत् । ॥५॥ 5
बृहज्जातकस्थ नष्टजातकाध्यायस्य द्वितीयश्लोकव्याख्यानावसरे
"बृहज्जतकनष्टजातकाध्याय ग्राह्यमतः सच्छिष्यैः परीक्ष्य यत्नाद्यथा भवति
॥१७॥
ঠান
31
गुरुज्ञानात् संवत्सरं ज्ञात्वा अयनज्ञानार्थं प्रश्नोदयः होरा
पूर्वार्धे स्यात् तर्हि उत्तरायणे अपरार्धे चेत् दक्षिणायनमिति मिहिरपराशराभ्यां
प्रोच्यते । उदयद्रेक्काणाधिपस्य रवेः ग्रीष्मः, मन्दस्य शिशिरः,
कवेर्वसन्तः,
पुनरारस्य
ग्रीष्मः, शीतकरस्य वर्षा, सौम्यस्य शरत्, गुरोः हेमन्तः
ज्ञेयः । ऋत्वयनयोर्विरोधे चन्द्रज्ञजीवाः परिवर्तनीयाः शुक्रारमन्दैरयने विलोमे
इति मिहिरमतिः ।
एवं ज्ञाते मासेऽपि तिथ्यादीन् विहाय जातकनिर्माणमसाध्यमित्ययमंशः
कान्तिकस्य ज्ञातपूर्व एव । अतः कान्तिकेन मिहिरेण एवमूचे
अत्रापि होरापटवो द्विजेन्द्राः सूर्यांशतुल्यां तिथिमुद्धिशन्ति।
रात्रिधुसंज्ञेषु विलोमजन्म भागैश्च वेलाः क्रमशो विकल्प्याः ॥
वचनस्यास्य विवरणार्थं स्पष्टविप्रतिपत्यर्थञ्च अनामिकस्यामुकसमयं
स्वीकृत्य गणितक्रमः प्रदर्श्यतेऽत्र ।
अमुकस्य प्रश्ने । राश्यादिस्पष्टलग्नम् । ६२७२५४०
राश्यादिस्पष्टसूर्यः २७५५[]२५ प्रायः तस्य वयः २०
संवत्सरज्ञानाय गुरुस्थानज्ञानं पूर्वोक्तपराशरमिहिरयोः प्रकाराभ्यां
प्रदर्श्यते । प्रथमतया पराशरपद्धतिः ।
स्फुटलग्नस्य तु एकादशद्वादशांशे सिंह स्थितत्वात् तस्य जन्मसमये
तत्रैव जीवो ज्ञेयः । प्रश्नसमये जितुमेऽङ्गिरस्त्वात् इतःपर्यन्तम् एकादशवर्षीयः
इत्यभिज्ञातम् । वपुरवलोक्यानुमानाधिकारत्वात् भगणगमनसङ्ख्यासंवत्सरयोजन नात्
त्रयोविंशतिवर्षीय इत्यभवत् अतः प्रमोद इति संवत्सरे सञ्जात इति समूह्यते ।
1 बृहज्जतकनष्टजातकाध्याये | पूर्वार्धे
भवनस्यविन्द्याद्भानावुदग्दक्षिणगे प्रसूतिम्॥१॥
बृ.प.होरा नष्टजातकाध्याये सौम्ययाम्यायने स्यातां
होरापूर्वपरार्धयोः ॥५॥ 2 बृहज्जतकनष्टजातकाध्याये | ग्रीष्मोर्कलग्ने
कथितास्तु शेषैरन्यायनवृतुरर्कचारात् ॥२॥ 3 बृहज्जतकनष्टजातकाध्याये ॥३॥
बृहज्जतकनष्टजातकाध्याये ॥४॥
32
षडङ्गं ज्यौतिषम् मिहिरमते |
अन्त्यद्रेक्कणोदयदृष्टत्वात् नवमे नाम जितुमे इज्यो ज्ञेयः ।
सम्प्रश्न समयेऽपि सुरगुरोः तत्रैव सद्भावात् सद्वादशवर्षे सञ्जाते सत्यपि
संवहनमवलोक्य पुनर्वादशसंवत्सरसंयोगात् चतुर्विंशतिवर्षीयः इत्यवगच्छामः । अतः
अमुकः शुक्लनाम्नि संवत्सरे सञ्जात इति संज्ञायते। अयनज्ञानम् || स्फुटलग्नस्य
होरापरार्धत्वात् दक्षिणायनम् । ऋतुविज्ञानम् बोधनस्य द्रेक्काणत्वात् शरदृतुरिति
ज्ञेयः ऋत्वयनयोः वसंवादत्वाच्च । मासज्ञानम् द्रिकाणस्योत्तरार्धे उदयत्वात्
द्वितीयमासः | तुलामासः भवति । तिथिनिर्णयः । सूर्यांशतुल्यां तिथिमुद्धिशन्ति]
इत्युक्तत्वात् सूर्यांशसाधनक्रमः सूच्यते । तृतीय रोक्काणस्योत्तरार्धस्य
अंशाधुदयः २[२५]४०, अस्य कलाः | १४५/४० अनुपातेन तिथितिव्यः
अतः १४५[४०|ko | १४||३४० अतः
जन्मकालीनराश्यादिस्पष्टसूर्यः ||६|१४||३४00
जन्मेष्टकालसाधनम् ||
सायनतात्कालिकरवितः यथोक्तसिद्धान्तरीत्या क्रान्तिं संसाध्य
कान्तिज्या विषुवद्भानी |' इत्यादिना कुज्यां चरज्यां च विधाय ततो
दिनरात्रिमाने समाकलय्य सूर्योदयकालञ्च विज्ञाय तत्काले रविं प्रचाल्य औदेयिकार्कः
कर्तव्यः । पूर्वानीतजन्मकालिकार्कस्य औदेयिकार्कस्य च कलात्मकमन्तरं षष्ट्या
समुण्य स्फुटरविगत्या विभज्य घट्यात्मकं यत्फलं लभ्यते तत्तुल्यकाले उदयात् परं
पूर्वं वा जन्मकालः वेदितव्यः इति पराशरराद्धान्तः ।
वराहस्त्वेवमवादीत् || रात्रिधुसंज्ञेषु विलोमजन्म भागैश्च
वेलाः क्रमशो
1 सूर्यसिद्धान्ते द्वितीये अध्याये ॥६१ ।।
33
ভান विकल्प्याः
प्रश्नलग्ने रात्रिसंज्ञकराशौ व्यवस्थिते दिवा जन्मेति, दिवासंज्ञकराशौ
व्यवस्थिते रात्रौ जन्म प्रश्नकर्तुरभूत् इति वक्तव्यम् । प्रकृतोदाहरणे तुलायाः
दिनसंज्ञकत्वात् रात्रौ जन्मेति ज्ञायते । रात्रौ पुनः कियतीषु घटिकासु गतासु इति
चेत् || दिनप्रमाणं रात्रिप्रमाणं वा यदभीष्टं तत्
प्रश्नकालिकजन्मलग्नभुक्तकालेन संगुण्य प्रश्नकालिक नन्मलग्नप्रमाणेन विभाज्यं,
तदा
घटिकात्मकं यत् फलं लब्धं तत्समये अमुकस्य जन्म वाच्यम् । जन्मलग्नकाले
यथोक्तविधिना यल्लग्नं साध्यते तदेव जन्मलग्नं भवति । अस्मिन्नेव काले सर्वेऽपि
ग्रहाः साध्याः ।
एवं नष्टजातके सिद्धेऽपि बहुभिरागमैः विचिन्तिताः सुदुर्लभाः नैके
प्रकाराः वराहेणोपदिष्टे विशिष्टे बृहज्जातके विराजन्ते । अतः
तत्रोक्तमासराशिविज्ञाना यान्यक्रमाः प्रस्तूयन्ते।
प्रश्नकाले स्फुटचन्द्रः यस्मिन्नृक्षे भवति तेन नक्षत्रेण
चित्रादितारकाद्वन्द्वे|| ध्वन्यतमेन पूर्णेन्दुयोगे यस्य मासस्य
संज्ञा जायते तस्मिंश्चान्द्रमासे प्रष्टुर्जन्म वक्तव्यम् । एवमेव लग्नत्रिकोणेषु
उत्तमवीर्ययुक्तं राशियों भवति सः जन्मचन्द्राधिष्ठितराशिरित्यर्थः । तत्र संशये
सति शकुनैर्जातसंवादम] इत्यादि रीत्या प्रश्नकाले प्रच्छकः यदङ्गं स्पृशति
वराङ्गादिषु , स्थिरचक्रेण च यस्मिन् राशी च तिष्ठति, यद्राशिसम्बद्धमक्षरं
वा ब्रूते, तथैव भक्ष्येण आहृतेन आकारेण रुतेन, तत्रापि बहूनां
संभवे बलवशेन प्रष्टुर्जन्मचन्द्रो वक्तव्य अथवा प्रकारान्तरेण विलग्नात् यावान्
गतः सोमः तावान् शीतरश्मिना राशिः वक्तव्यः । किन्त्वत्र विशेषेण मीनोदये
मीनयुगमेव प्रदिष्टम्।
किन्त्वेतत् सर्वं ज्योतिश्शास्त्रपारावारगभीरताविज्ञानेन
शब्दन्यायसम] न्वितेषु बहुषु शास्त्रेषु निपुणेषु होरातन्त्रमहार्णवप्रतरणे
भग्नोद्यमानां शास्त्रप्लवरूप] होराशास्त्रप्रणेतुः मिहिरस्य नाभीष्टम् । यतो हि
केचिच्छशाङ्केति' प्रारभ्यते ।
1 बृहज्जतकस्य नष्टजातकाध्याये ॥५॥
षडङ्गं ज्यौतिषम् अतः मिहिरसम्मतं तेनैव स्वल्पजातकेऽप्युपदिष्टमस्य
मानसपुत्र इति बिरुदाङ्कितकल्याणवर्मणापि प्रदर्शितप्रकारोत्र प्रस्तूयते ।
प्रश्नस्पष्टोदयं लिप्तीकृत्य लग्नगतराशितत्रस्थग्रहाणां गुणकं
संगुण्य, उदयं प्रथममध्यमोत्तरद्रेक्काणेषु ज्ञात्वा प्रथमे उत्तरे च
नवकसंयोगवियोगं क्रमेणकृत्वा लब्धकर्मयोग्यगुणपिण्डं सप्ताहतलब्धिं त्रिघनै जिते
सति शेषं जन्मई भवति । एवं प्राप्तकर्मयोग्यगुणपिण्डं स्थानचतुष्टये धृत्वा
क्रमात् १०,८,७.५ गुणाङ्कया संगुण्य पूर्वोक्तप्रकारेण नवकसंयोगवियोगौ करणीयौ ।
एवं दशतः संगुणितकर्मपिण्डात् परमायुस्सङ्ख्यया |२०
विभज्यावशिष्टं गतसंवत्सरो भवति ।
तस्मादेव दशगुणितपिण्डात् ऋतुसंङ्ख्यया | विभज्यावशिष्टं
शिशिरादि ऋतुर्भवति । ऋतौ मासद्वयसद्भावात् तस्मादेव दशगुणितपिण्डात् संख्याद्वयेन
विभज्य एकशेषे प्रथमं शून्ये द्वितीयमिति चिन्तनीयम् । तत्र अष्टसंख्यया
संगुणितपिण्डं पक्षसङ्ख्यया | एकशेषे शुक्लेति शून्ये द्वितीयमिति,
तदेव
पिण्डं तिथिसङ्ख्यया १५ विभज्य शेष प्रतिपदादि तिथिरिति मन्तव्यम् । सप्ताहतपिण्डं
नक्षत्रसंख्यया २७] विभज्य शेषमश्विन्यादीति संख्याद्वयेन विभज्य एकशेषे दिन
अन्यथा रात्रिरिति साधनीयम् । एवमेव पञ्चनिघ्नगुणपिण्डया
दिनप्रमाणेनाथवा रात्रिप्रमाणेन घटिका | भागमपहृत्य शेषमेव जन्मघटिका इति
सुनिश्चित्य तस्मिन्नेवसमये लग्नादीन् साधयेत् । एवं सत्सु बहुषु क्रमेषु यत्नाद्
परीक्ष्य ग्राह्यमिति वराहोक्तिर्वरीवर्तीति कारणतः बहुभिरागमैः विचिन्तिताः
सुदुर्लभाः नैके प्रकाराः यत्नात् परीक्ष्य जिज्ञासुः विन्दीत ।
'अमुकदिनस्य स्पष्टसूर्य विना दिनाथवा रात्रि प्रमाणनिर्धारणे क्रम एव
नास्ति किन्तु भट्टोत्पलेन स्वटीकायां
पञ्चगुणकराशेस्तेन दिनप्रमाणेन रात्रिप्रमाणेन वा भागमपहृत्य
इत्युक्तमेवमेव सत्येन्द्रस्य हिन्दीटीकायामपि | पूर्वानीताः
दिनादयः चान्द्र: || रुद्रभट्टेनात्र किमपि नोक्तत्वात् सावनमानेन सामान्यरूपेण दिवसस्य
६० घटिकेति कारणतः तस्यार्धमिति कारणतः स्वीकृतमेवमया । 2 बृहज्जतकस्य
नष्टजातकाध्याये ॥१७॥
जातकपद्धतिग्रन्थाः तत्करिश्च
विद्वान्, रमानन्द भट्टः.एन् संविदाध्यापकः, वास्तुडिप्लोमाविभागः,
राजीवगान्धीपरिसरः,
शृङ्गेरी, कर्णाटकम् DDITIATIMIT198700MTIMI शास्त्रे
पद्धतिग्रन्थाः न केवलं जातके सन्ति अपि च ताजिके रमले । रमलशास्त्रं नाम
निर्दिष्टकोष्ठकेष्वन्यतमस्य स्पर्श वा वरणे या स्थितिघटते तदनु। सारेण फलकथनम् ।
ज्योतिषशास्त्रस्य एकदेशरूपं वार्षिकादिनानाविधफलादेश फलकशास्त्रं
ताजिकशब्दवाच्यम् । किन्तु पद्धतिपदं बहुत्र जातके एव प्रयुक्तं प्रसिद्धञ्च ।
शास्त्रेतिहासदृष्ट्या उपलब्धग्रन्थावलोकेन च प्रायः श्रीधरकृता
जातकपद्धतिरेव जातकपद्धतिनाम्ना प्रसिद्धानां ग्रन्थानामादिभूतेति ज्ञायते ।
जातकपद्धतिग्रन्थे ये विषयाः निरूपिताः तानेव विषयान् पराशरहोरायामपि द्रष्टुं
प्रभवामः । फलितं विहाय केवलं जातकरचनागणितविषयकाः ग्रन्थाः एव जातकपद्धतयः इति
बहूनां मतिरितिकृत्वा पराशरे फलस्यापि निरूपणात् तदत्र नान्तर्भवतीति भावयामि ।
श्रीपतिपद्धता आयुर्दायप्रकरणे देवल श्रीधर सत्य नीलकण्ठ जीवशर्मणां
नामस्मरणात्तेषां पद्धतयः पूर्वमासन् इति वक्तुं न शक्यते । यतस्तेषां
स्मरणमायुर्दाये विहितत्वादायुयगणितस्य सकलहोराग्रन्थप्रति[]
भारतीयज्योतिश्शास्त्रस्येतिहासः | पृष्ठसं १६९
भा.ज्यो पृष्ठसं ६४० ३ वर्षपद्धतिः, नक्षत्रपद्धतिरित्यादि श्रूयते ।
तच्चिन्त्यम् । ताजिकमेव वर्षपद्धतिरिति स्यात् ।
निगदीति मुनिः किल देवलः ५.२५, सत्याभिधानस्य
मतेन ५.२४, जीवशर्मगदितं हि तदायुः ५.३२, तच्छ्रीधराद्यैः
स्फुटमायुरुक्तम्] ५.३६ श्रीनीलकण्ठादय एवमूचुः ५.३१ ।
षडङ्गं ज्यौतिषम् पादितविषयत्वात् । तथा दशापाकभेदविषये
यवनादीनामनिर्देशोऽपि पूर्ववज्ज्ञेयम्। किन्तु प्रौढमनोरमायां दिवाकरस्य इदं वचनं
दृश्यते प्रामाणिकैः श्रीधरादिभिः आचार्यगर्गपरशरबादरायणदेवलादिपद्धतयः तज्जातकानि
च सम्पूर्णानि दृष्टानि 10 । अत्र कण्ठरवेण पद्धतिरिति
प्रोक्तत्वात् गर्गादिपद्धतय आसन् इति वक्तुं शक्यते । तेषामुपलब्धिः प्रायो
नास्तीति मन्ये । पुनः दिवाकरः श्रीनीलकण्ठ श्रीधरश्रीपतीनां नामान्यपि उल्लिलेख ।
एवं पद्धतिसंज्ञया व्यवहृताः ग्रन्थाः पूर्वमपि आसन् । तेषां विषये आधिक्येन किमपि
नोपलभ्यते । उपलब्धग्रन्थ विषयान् प्रस्तौमि ये पद्धतिग्रन्थाः च पुनः
श्रीधरादिभिः प्रसिद्धिमवापुः ।
जातकपद्धतिकाराः
जातकपद्धतिकारेषु अत्यन्तं प्राचीनानां परिचयः प्रायो नोपलभ्यते ।
लब्धविषयस्यापि अत्यन्तं संक्षिप्ततयैवात्र परिचयो दीयते । नात्र किञ्चिदपि तेषां
कालादिविषये विदुषां विमतिः विशेषतः प्रदर्श्यते । श्रीधरः
त्रिस्कन्धविद्याकुशलः श्रीधराचार्यः परवर्तिभिः भास्करादिभिः स्तुतः
स्वग्रन्थकरणे आश्रितश्चासौ स्कन्धत्रयेऽपि कृती कृतीर्व्यरचयत् । अस्य कालः
विद्वद्भिः ७७५ मितशकात्पूर्वमेवेति निश्चितः । अस्य रचनाः पाटीगणितसम्बन्धिनी
'केशवपद्धतिव्याख्यायां प्रौढमनोरमायाम् ||५.२१
तत्प्रामाणिकैः श्रीनीलकण्ठश्रीधरश्रीपतिभिः अनुक्तत्वात].00१.३
3 अत्र इतिहासः शङ्करबालकृष्णदीक्षितानां भारतीय ज्योतिष इति
पुस्तकात्, सुधाकरद्विवेदिनां गणकतरङ्गिणीतः, आचार्यलोकमणिदाहालमहोदयानां
भारतीयज्योतिश्शास्त्रस्येतिहासः इति पुस्तकाच्च स्वीकृतम् । पतौ पुनः तदुल्लेखो न
कृतः । दैवज्ञनामनिर्देशकाले एव तेषु पुस्तेषु तद्विषयवती पृष्ठसङ्ख्या निर्दिष्टा
। अन्यस्मात्स्वीकृतं तत्तत्स्थले प्रदर्शितम्। 'बीजगणिते
एकवर्णमध्यमाहरणे अत्र श्रीधर सूत्रम् | चतुराहतवर्गसमैः ....... इति साक्षात्
श्रीधरवाक्यं भास्करण उपनिबद्धं स्वीये ग्रन्थे मृतीयश्लोकानन्तरम् । तथान्ते
भास्करः ब्राह्माह्वयश्रीधरपद्मनाभबीजानि ..... आदाय तत्सारम् .... इति वदति
भावितप्रकरणे।
37
সান त्रिशतिका,
बीजगणितम्,
संहितोक्तविषया
रत्नमाला, जातकपद्धतिश्चेति ।
उपलब्धत्रिशतिकायाम्।
नत्वा शिवं स्वविरचितपाट्या गणितस्य सारमुद्धृत्य ।
लोकव्यवहाराय प्रवक्ष्यति श्रीधराचार्यः ॥ इति वचनं दृश्यते । अनेन
वाक्येन अस्य बृहती काचित्पाटी अस्तीति विज्ञायते या च न दृष्टिगोचरा अद्यावधि ।
नेमिचन्द्रशास्त्रिभिः रचिते भारतीयज्योतिषनामके ग्रन्थे गणितसारः, ज्योतिर्ज्ञानविधिः
इत्येतद्द्वयं संस्कृते लिखितम् । जातकतिलकञ्च कन्नडभाषायामनेन व्यलेखि । अतोऽयं
कर्णाटके प्राप्तजन्मेति अयं जैनमतानुयायीति च प्रतिपादितम् ।
कैश्चिन्नवीनैः विद्वद्भिः ज्योतिर्ज्ञानविधिः अथवा श्रीकरणं,
पाटीगणितं,
पाटीसारः,
कन्नडभाषायां
जातकलीलावती इत्येते ग्रन्थाः अनेन व्यलेखीत्युक्तम् । पुनश्च अस्य कालम्
क्रिस्तात्परं ८५० तः क्रि.श ११५० पर्यन्तमपि नीतवन्तः । अस्य नाम्ना प्रसिद्धायाः
श्रीधरपद्धतेः कर्तृत्वेऽपि विदुषां शङ्का विद्यते । किन्तु अस्याः पद्धतेः
श्रीपतिपूर्वत्वं बहुभिरादृतम् ।। दामोदरः
जातकपद्धतिकारो दामोदरः कः इति स्फुट इतिहासो नोपलभ्यते । मया DDIतः
प्राप्तमातृकायां प्रत्यध्यायमन्ते इति श्रीश्रीपद्मनाभात्मज श्रीदामोदरविरचितायो
गणकाभिरामायां जातकपद्धतौ .... अध्यायः इति वचनं दृश्यते । तस्मादयं दामोदरः
पद्मनाभतनूजः इति ज्ञायते । प्रायोऽसौ पद्मनाभः
त्रिशतिका प्रकटिता
भा.ज्योति पृष्ठसं ९८ 3 पाटीगणितमेव नवशती अथवा बृहत्पाटी,
पाटीसार
एवं गणितसारो वा त्रिशतिका 4 भारतीय गणितशास्त्रद हागू शास्त्रज्ञर
चरित्रे कन्नडभाषा || पृष्ठसं ५३
भा.ज्यो पृष्ठसं ३५२ , भा इ पृष्ठसं १९०
षडङ्गं ज्यौतिषम् नार्मदात्मजो यन्त्ररत्नावलीकारः इत्यनुमीयते । अतः
दामोदरस्य कालः १३३९ शकः इति निर्णीतः । अयं भटतुल्यं नाम आर्यमतानुसारि करणं
रचयामास । अस्य जातकपद्धतिविषयो नोक्तः कुत्रापि इतिहासपुस्तके । तथापि दीक्षितैः।
पद्धतिकारो दामोदरः भटतुल्यकारो भवितुमर्हतीत्युक्तम् । तदाश्रित्य तदुभयो रचयिता
एक एवेति निर्णीयते।
अस्य पद्धतेः प्रायो गणकाभिरामा इति नाम स्यात् । यत आदौ वक्ष्ये
गणकाभिरामा लघुक्रियां जातकपद्धतिं च इति तेनैव उच्यते । अतः अस्यां पद्धतौ
क्रियालाघवं स्यात् । कृष्णदैवज्ञेन दामोदरस्येति प्रदर्शितवाक्यमपि अस्यां
मातृकायां दृश्यते । तत्र भूरि क्रियालाघवमस्ति । तद्धि चेष्टाकेन्द्रसाधने
दामोदरसूत्रम् ||
स्फुटमध्यमयोरैक्यं दलितं शोधयेच्चलात् । चेष्टाकेन्द्रमिदम् ..... ॥
अस्य सूत्रस्य लाघवत्वं गणितज्ञाः सर्वे ज्ञातुं शक्नुवन्त्येव ।
श्रीपतिरपि श्रीजिष्णुज.....दामोदरप्रभृतयः इति तन्त्रकारं दामोदरं
सस्मार । सः दामोदरः कः इति न ज्ञातम् । इतिहासपुस्तकेषु एकस्यैव दामोदरस्य परिचयो
विहितो वर्तते । लीलावतीटीकापि दामोदराख्येन निर्मिता वर्तते । अत्र विद्वांसः
विप्रतिपन्नमतयः ।
परमेश्वरः
केरलदेशीयः तत्रस्थ अलट्ट रुग्रामवासी भृगुगोत्रोत्पन्नब्राह्मणः
परमेश्वरः
1भा.ज्यो पृष्ठसं ६३६
दा.प ३.१९ 3 सि.शे || १८.१८ * भा.ज्यो
| पृ.सं ३४७ 5 भा.च पृष्ठसं ९८, भा.ख
पृष्ठसं ४६, आ.भ७०
নচ अत्यन्तं
निष्णातखगोलवीक्षकः आसीत् । पञ्चपञ्चाशद्वर्षकालं ग्रहणग्रहयोगादिषु परीक्ष्य
समहग्गणितं करणं चकार इति तदन्तेवासिनो नीलकण्ठसोमयाजिनो वचनाद् गोलेऽस्य
महच्छ्रमो विज्ञातो भवति । एवं वीक्षणविचक्षणोऽसौ सततगोलावलोकेन १३५३ शकवर्षे
दृग्गणिताख्यं करणं व्यरचयत् । तथास्य आर्यभटीयस्य भटदीपकाव्याख्यानमपि प्रसिद्धम्
। तत्रादौ लीलावती भास्करीय लघु चान्यच्च मानसं व्याख्यातम्' इति
अनेनोक्तम् । लीलावत्याः विवरणी, लघुभास्करीयस्य परमेश्वरभाष्यम,
लघुमानसस्य
विवरणव्याख्यानञ्च अनेन विरचितानि । न केवलं एतावन्त्येव । त्रिस्कन्धार्थविदसौ
गोलदीपिका ||
गोलदीपिका २, ग्रहणन्यायदीपिका, ग्रहणाष्टकम्,
वाक्यकरणम्,
आचारसङ्ग्रहः,
जातकपद्धतिः,
मुहूर्तरत्न
जातकादेश प्रश्नपञ्चाशिकानां भाष्यम्, महाभास्करीयस्य कर्मदीपिकाव्याख्याम,
महाभास्करीयस्य
गोविन्दस्वामिनो भाष्यस्य सिद्धान्त दीपिकाभाष्यम्, सूर्यसिद्धान्तस्य
विवरणभाष्यम्, मुहूर्तदीपिका, वाक्यदीपिका, भादीपिका
इत्येतान् कृतिविशेषान् आरचयत् । एवमाधुनिकज्योतिर्विद्भिः समा| तोऽस्य
ज्योतिर्विदः गुरवः रुद्रनारायणमाधवाख्यास्त्रयः । अस्य कालः क्रिस्तात् परम् १३६०
१४५५ इति निर्णीतम् । अस्य जातकपद्धतिविषयेऽधिकं नोपलभ्यते । केशवः
विवाहवृन्दावनकर्तुः केशवार्काद्भिन्नोऽयं द्वितीयः केशवः भारतवर्षे
पञ्चाङ्गकरणे प्रसिद्धस्य करणस्य ग्रहलाघवस्य कर्तुः गणेशदैवज्ञस्य पिता ।
गणकचक्रचूडामणिरिति प्रसिद्धस्य अस्य कालः १३७८ शकवर्षमिति सुधाकर द्विवेदिभिः
गणकतरङ्गिण्यां निर्णयः स्थापितः । अस्य मुहूर्ततत्त्वे गुरुवैजनाथ
चरणद्वन्द्वे रतः केशवः नन्दिग्रामतः सुतस्तु कमलज्योतिर्विदग्र्यस्य
इत्यस्मादसौ
आ.भट भटदीपिकायाः आदौ भा.ज्यो पृष्ठसं ३५५, भा इ पृष्ठसं
१९१, ग.त पृष्ठसं ५३
षडङ्गं ज्यौतिषम् केशवः वैजनाथशिष्यः, नन्दिग्रामवासी,
कमलाकराख्यस्य
ज्योतिर्विदः सूनुरिति च विज्ञायते । अस्य रचनानां विषये गणेशदैवज्ञः वक्ति
स्वकृतमुहूर्ततत्त्वटीकायाम् ||
सोपार्य ग्रहकौतुकं खगकृतिं तच्चालनाख्यं कृतेः सिद्धिं जातकपद्धति
सविवृतिं तत्ताजिके पद्धतिम् । सिद्धान्तेऽप्युपपत्तिपाठनिचय मौहूर्ततत्त्वाभिध
कायस्थादिजधर्मपद्धतिमुखं श्रीकेशवार्योऽकरोत् ॥ इति ॥ अनेन
ग्रहकौतुकम्, मुहूर्ततत्त्वम्, जातकपद्धतिः, ताजिकपद्धतिः,
वर्षग्रहसिद्धिः,
तिथिसिद्धिः,
ग्रहचालनम्,
गणितदीपिका,
सिद्धान्तवासनापाठः
कायस्थादिधर्मपद्धतिः, आचारपद्धतिः, कुण्डाष्टलक्षणम्, ग्रहकौतुकटीका,
जातक
पद्धतिविवृतिः इत्येते ग्रन्थाः व्यरचि । अयं श्रीपतिपद्धतेः व्याख्यातुः
कृष्णदैवज्ञस्य परमगुरुरासीदिति कृष्णस्य वचनाद् ज्ञायते । अस्य वैशिष्ट्यं
प्रपञ्चितं दिवाकरेण |
श्रीकेशवार्यवचनानि जयन्ति तानि निर्दूषणानि बहुलार्थसुपूरितानि ।
धन्यानि शिष्यजनबुद्धिविवृद्धिदानि स्वल्पाक्षराणि बुधतोषविधायकानि'॥
इति। अनन्तः
अयं द्वितीयः अनन्तः दैवज्ञोपाहः चिन्तामणिदैवज्ञतनूजः भारतवर्षे
सर्वत्र लब्धप्रसरयोः ताजिकनीलकण्ठी महूर्तचिन्तामण्योः कोंः नीलकण्ठरामदैवज्ञयोः
पिता । अस्य कालः १४५९ शकः इति अनुमितम् । गोविन्ददैवज्ञो
स्वकृतमुहूर्तचिन्तामणेष्टीकायामस्य कृतिविषये वक्ति यत् ||
यो रम्या जनिपद्धति समकरोढुष्टाशयध्वंसिनी
टीकाञ्चोत्तमकामधेनुगणितेऽकार्षीत्सतां प्रीतये ॥ इति ॥
केशवपद्धतेः प्रौढमनोरमाटीकायाम् १.१ 2भा.ज्यो पृष्ठसं
३७६, भा इ पृष्ठसं १९६, ग.त पृष्ठसं ६४
ঠান
अस्मात् अस्यैकाकृतिः जातकपद्धतिः अपरा कामधेनुगणितटीकेति
कृतिद्वयमस्येति ज्ञायते। दिवाकरः
नृसिंहदैवज्ञपुत्रः भरद्वाजगोत्रोत्पन्नः स्वपितृव्यात्
शिवाख्यात्प्राप्तविद्यः अयं दिवाकरः काव्यन्यायकोषव्याकरणादिषु शास्त्रेष्वतीव
निष्णातः । अस्य कालः १५२८ शकवर्षः । तत्त्वविवेकवासनायां गङ्गाधरशर्मा तत्र
दिवाकरो महान् गाम्भीर्यपाण्डित्यशाली कमलाकरस्याप्यध्यापकः । अनेन
जन्मपद्धतिवर्षपद्धति प्रभृतिमूलग्रन्थाः केशव्याः प्रौढमनरमा व्याख्या
उदयान्तरवासना इत्यादयः टीकाग्रन्थाः रचिताः इत्याह । अयं जातकमार्गपद्ममिति अथवा
पद्मजातकमिति नाम्ना जातकपद्धतिम्, स्वपद्धतः गणिततत्त्वचिन्तामणिनाम्नी
सोदाहरणटीकाम, वर्षगणितपद्धतिभूषणस्य मञ्जुभाषिणीटीका, मकरन्दस्य
मकरन्दविवरणाख्यां विवृतिञ्च अलिखत् । अस्य प्रौढमनोरमा जातकपद्धतिविषये सन्देह]
सन्दोहनिवारिणी प्रौढतमा व्याख्या । अस्य शास्त्रनैपुण्यं तत्र प्रकाशितं भवति ।
तथापि यद्यप्यशक्या विवृतीविधातुं मया जडेनामलकेशवोक्तेः' इति स्वविनयं
प्राकटद्यः दिवाकरः स नवदशवर्षसमवयःकाले एव स्वपद्धतिं रचयामास । तत्र ग्रन्थान्ते
स्वयमेव वक्तीदम् ||
1 भा.ज्यो पृष्ठसं ३९१, भाइ पृष्ठसं २०२, ग.त
पृष्ठसं ९४ 2 सिद्धान्ततत्त्वविवेकः | उपसंहाराध्यायः १४ श्लोकस्य वासनायाम्
। 3 पद्मजातकमेव पद्धतिप्रकाशः वा इति न ज्ञायते। द्विवेदिभिः
उभयमप्युक्तं प्रत्येकस्मिन् स्थले। 00
IMIM इत्यस्मिन्नपि जनिपद्धतिप्रकाशः इति लिखितम् | पृष्ठसं २२४ ।
किन्तु पद्धतिप्रकाशः दिवाकरकृतः इति वक्तुं शक्यते यतः प्रौढमनोरमायां | एतदायनबलानयन
पद्धतिप्रकाशे लाघवेन मयोक्तम् इति दिवाकरस्य वचनमस्ति पौ.म ३.९]। बहुत्र एवमेव
वर्तते | द्रष्टव्य केशवपद्धतः प्रौढमनोरमाटीकायाम् ३.११,१२,
५.१९
। दिवाकरस्य पद्धतेः पद्मजातकनाम्न्याः विवरणे | इति
पद्धतिप्रकाशः समाप्तः इत्यप्यस्ति ||000
पृ.सं२८०]
LOLLLLI] 183|| केशवपद्धतः प्रौढमनोरमाटीकायाम् १.१
षडझं ज्यौतिषम् नन्देन्दुवर्षेण मया कृतोऽयं ग्रन्थो रवेः
पादयुगप्रसादात् ।
शाके नगाम्भोधिशरेन्दुतुल्ये १५४७ प्राचा प्रबन्धान परिभाव्य सम्यक्
॥इति॥ मुकुन्दः
मुकुन्दपद्धतिरसौ मुकुन्दरामशर्मकृता अर्वाचीनेति प्रतिभाति ।
अत्रादौ मुकुन्दाभिधां पद्धति मञ्जुलाञ्च प्रकुर्वे मुदे हौरिकाणां मुकुन्दः'
इत्यतो
वचनादियं पद्धतिः मुकुन्दरामकृतेति ज्ञायते । अध्यायान्ते च
श्रीमत्पण्डितरघुवरदत्तसून मुकुन्दरामकृतायां मुकुन्दपद्धतौ इति वचनादपि
एतद्ज्ञायते । आयुर्निर्णयाख्ये ग्रन्थे दृश्यते
भागीरथीविमलतीरसमीपशोभे खण्डाभिधे रुचिरसंवसथे सविप्रे ।
श्रीख्यातिरामगणकोऽजनि तन्त्रविज्ञस्तस्यात्मजो रघुवरो गणकाग्रगण्यः॥ तत्सूनुना
बुधवरेण मुकुन्दनाम्नायुनिर्णयो भुजगबाणपुराणतुल्ये । शाके मधौ सितदले ज्ञदिने
दशम्यामेष व्यधायि बुधपुङ्गववृन्दतुष्यैः ॥इति।
अनेन आयुर्निर्णयः अस्यैव अपरो ग्रन्थः १८५८ शके रचितः इति ज्ञायते।
तथा अस्य पितामहः ख्यातिरामः, जनकश्च गढवालदेशस्थ[ ढाकॅमण्डलान्तर्गत
खण्डग्रामनिवासि बडेथवालवंशावतंस श्रीमत्पण्डितरघुवर दत्तशर्मा । मुकुन्दकृता
पद्धतिः श्रीपत्यादिक्रमानुसारिण्यपि अस्यामयं विशेषो यदेकेनैव ग्रन्थेन आयुर्दायः
द्वादशभिः प्रकारेणापि साधयितुं शक्यत इति ।
___एवं जातकपद्धतिप्रकारे बहवः तत्प्रणेतारः सन्ति शास्त्रे ।
तेषामप्रसिद्धेः तद्विषयोऽत्र मया समासतः प्रकाशितः इति शम् ।
III पृष्ठसं २८० मु.प१.१ 3 आ.नि सर्वाध्यायान्ते
वनिताङ्गानां लक्षणविशेषः
श्री. कुलदीपः
शोधच्छात्रः, राजीवगान्धीपरिसरः
शृङ्गेरी, कर्णाटकम् OD (MOONOTTIMIT 90] IO MITI यदि गृहस्थस्य
पत्नी शोभनलक्षणयुक्ता तर्हि गृहस्य स्वामी सर्वदा सुखम् अनुभवति अन्यथा दुःखी
भवति । अतः एतत्कारणात् आदौ सुखसमृद्धिप्राप्त्यर्थं स्त्रीणां शुभाशुभलक्षणम्
ईक्षयेत् । तत्र आदौ पादतललक्षणम् ||
स्त्रीणां पादतलं स्निग्धं मांसल मूदुल समम् । अस्वेदमुष्णमरुणं
बहुभोगोचितं स्मृतम् ॥
नारीणां पादतलं नाम चरणस्याधोभागः स्निग्धः, कोमलः, समः,
स्वेदरहितः,
स्पर्शकरणे
उष्णतासहितः, रक्तवर्णः विविधप्रकाराणां भोगानां बहुभोगसामग्रीप्रदाने समर्थः भवति
इति शास्त्रकारैः कथितम् । यस्याः नार्यः पादतले चक्रस्य, स्वस्तिकचिह्नस्य,
शङ्खस्य,
कमलस्य,
ध्वजस्य,
मीनस्य,
आतपत्रस्य
च रेखा भवेत् सा नारी क्षितिपाङ्गना राज्ञी भवति । अर्थात् शुष्कं, मलिनं,
कठोरं,
त्रुटितं,
बालुकादिस्थानेषु
खण्डितप्रतिबिम्बकं, शूर्प इव अग्रभागे विस्तारयुक्तं, विशेषरूपेण
नीरसं पादतलं कष्टस्य दुःखस्य च सूचकं शास्त्राचार्यैः कथितम् । कटिलक्षणं कथितम् |
चतुर्भिरङ्गुलै शस्ता कटिविंशतिसंयुतैः । समुन्नतनितम्बाब्या
चतुरस्रा मृगीदृशाम् ॥ विनता चिपिटा दीर्घा निर्मासा सङ्कटा कटिः ।
षडझं ज्यौतिषम् हृस्वरोमयुता नार्या दुःखवैधव्यसूचिका॥
विंशतिसङ्खयकाङ्गुलसंयुतैः चतुष्कोणात्मिका सम्यक् साधुतया उन्नतः पृष्ठभागः
मृगीदृशां नारीणां कटिः प्रशस्ता । निम्ना, चिपिटा, दीर्घा
लम्बायमाना वा, मांसर हिता, परुषा, लघ्वी, रोमयुता
कटिभागः दुःखस्य पतिमृत्योश्चाभिव्यञ्जिका भवति ।
कण्ठस्य लक्षणम्।
मांसलो वर्तुलः कण्ठः प्रशस्तश्चतुरङ्गुलः ॥ शस्ता ग्रीवा
त्रिरेखाङ्का त्वव्यक्ताऽस्थिसुसंहता। निर्मासा चिपिटा दीर्घास्थिपुटा न शुभप्रदा
॥ स्थूलग्रीवा च विधवा वक्रग्रीवा च किङ्करी।
वन्ध्या हि चिपिटग्रीवा हृस्वग्रीवा च निःसुता ॥ मांसयुक्तः वृत्तः
अङ्गुलचतुष्टयपरिमाणः कण्ठः प्रशंसितः । रेखात्रययुक्ता, गूढास्थियुक्ता
स्त्रीणां कण्ठः प्रशस्ता । मांसरहिता अवर्तुला लम्बायमानास्थिपुटयुक्ता ग्रीवा न
कल्याणप्रदा । यस्याः स्थूलग्रीवा भवति सा पत्या रहिता भवति । अल्पकालेनैव पतिः
स्वर्गगामी भवति । वक्रग्रीवा दासी भवति । अवर्तुलग्रीवा सन्तानोत्पादनेऽसमर्था
भवति । हृस्वग्रीवा युक्ता स्त्री सन्तानरहिता पुत्ररहिता वा भवति ।
कपोलमुखलक्षणम् ]
शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ । रोमशौ परुषौ निम्नौ
निर्मासौ परिवर्जयेत् ॥ समं समासं सुस्निग्धं स्वामोद वर्तुले मुखम्।
जनितृवदनच्छायं धन्यानामिह जायते ॥ स्थूलौ, वर्तुलाकारौ,
साधुतया
उन्नतौ स्त्रियः कपोलौ प्रशस्तौ । रोमयुक्तौ, कठोरौ, अनुन्नतौ,
मांसरहितौ
स्त्रीणां कपोलौ न प्रशस्तौ । अतः एतादृशी स्त्री न
সান गृह्णीयात्
। समानं मांसयुक्तं चिक्कणं सुन्दरेण आमोदेन सुगन्धेन युक्तं वर्तुलाकारं
पितृमुखतुल्यं स्त्रीणां मुखं सौभाग्ययुक्तानां जायते अर्थात्सर्वासां न जायते
इत्यर्थः।
ओष्ठलक्षणम्
पाटलो वर्तुलः स्निग्धो रेखाभूषितमध्यभूः ।
सीमन्तिनीनामधरोधराजानिप्रियो भवेत् ॥ कृशः प्रलम्बस्फुटितो रूक्षो दौर्भाग्यसूचकः
।
श्यावः स्थूलोऽधरोष्ठः स्याद् वैधव्यकलहप्रदः ॥ श्वेतरक्तः, वर्तुलाकारः,
चिक्कणः,
रेखया
भूषिता मध्यभागो यस्याः सा केशवेषः सोऽस्ति यासां तासां स्त्रीणाम् अधरोष्ठः
भूपालप्रियो भवेत् । क्षीणः, लम्बायमानः, त्रुटितः
प्रस्फुटितः वा, रूक्षः, अस्निग्धोऽधरोष्ठो दौर्भाग्यसूचकः भवति । कपिशः, स्थूलः
अधरोष्ठः वैधव्यस्य कलहस्य च प्रदाता भवति । नाभिलक्षणम् |
गम्भीरदक्षिणावर्ता नाभिः स्यात् सुखसम्पदे ।
वामावर्ता समुत्ताना व्यक्तग्रन्थिन शोभना॥ सम्प्रति नाभेर्लक्षणं
कथ्यते खातयुक्ता, दक्षिणदिशि भ्रमरयुक्ता नाभिः सुखाय सम्पत्तये च स्यात् । वामदिशि
भ्रमरयुक्ता उन्नता, नाभेः ग्रन्थिरूपो मध्यभागः, यदि स्पष्टरूपेण दृष्टिगोचरा भवेत्
तर्हि सा नैव कल्याणप्रदा भवति । समुन्नतः, मांसलयुक्तः,
स्थूलः,
नारीणां
नितम्बः समस्तभोग्यपदार्थभोगाय शास्त्रकारैः उक्तः । उक्तप्रकारतो भिन्नः
अन्यलक्षणलक्षितो नितम्बः अकल्याणाय स्वीकृतः । कपित्थः वृक्षविशेषस्तस्य फलवत्
वर्तुलौ, कोमलौ, मांसयुक्तौ, घनौ, कटिप्रथौ स्फिचौ
वा सम्भोगे सुखं वर्धयतः । योनिलक्षणम् ||
शुभः कमठपृष्ठाभो गजस्कन्धोपमो भगः ।
षडझं ज्यौतिषम् वामोन्नतस्तु कन्याजः पुत्रजो दक्षिणोन्नतः ॥ आखुरोमा
गूढमणिः सुश्लिष्टः संहतः पृथुः ।
तुङ्गः कमलवर्णभिः शुभोऽश्वत्थदलाकृतिः ॥ अर्थात् यस्याः
कच्छपपृष्ठतुल्यः, गजस्कन्धसमो योनिः कल्याणप्रदायको भवति । वामभागे उन्नतो योनिः
कन्योत्पादकः, दक्षिणभागे उन्नतो भगः पुत्रोत्पादको भवति इत्यर्थः। नेत्रलक्षणम् |
ललनालोचने शस्ते रक्तान्ते कृष्णतारके ॥ गोक्षीरवर्णविशदे सुस्निग्धे
कृष्णपक्ष्मणी। उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ॥ मेषाक्षी
महिषाक्षी च केकराक्षी न शोभना।
काम गृहीता नितरां गोपिङ्गाक्षी सुदुर्वृता ॥ अर्थात् रक्तापाङ्गे,
श्यामकनीनिके
प्रमदायाः नेत्रे प्रशंसिते । गोदुग्धवद् धवलवणे विस्तृते चिक्कणे
श्यामपक्ष्मयुक्ते नेत्रे प्रशस्ते । उन्नतनेत्रयुता स्त्री दीर्घायुः न भवति ।
वर्तुलाक्षी परपुरुषरता भवेत् । यस्याः मेषस्य, महिषस्य वा
नेत्र इव अक्षिणी सा उत्तमा न भवति । गौरिव पीतवर्णनेत्रस्त्री अत्यधिककामेन
सम्पृक्ता तथा च विशेषरूपेण दुश्चरिता भवति।
शोभनलक्षणयुक्तापि दुष्टं निम्नस्तरीयं शीलं स्वभावः तर्हि सा
कुलक्षणानाम् उत्कृष्टा भवति । अतः एतादृशी कन्या विवाहे परित्याज्याः ।
शुभलक्षणरहितापि या स्त्री साध्वाचरणयुक्ता सा समस्तशुभ लक्षण उत्पत्तिस्थानं भवति
यथा उक्तम्।
सुलक्षणापि दुःशीला कुलक्षणशिरोमणिः । अलक्षणापि या साध्वी
सर्वलक्षणभूस्तु सा ॥
ज्योतिश्शास्त्रदृष्ट्या उन्मत्तताविमर्शः
श्री. प्रशान्त गांवकरः शोधच्छात्रः, मीमांसाविभागः
राजीवगान्धीपरिसरः
शृङ्गेरी,कर्णाटकम् oln o omnimo el MIDI अविदित्वार्थो
मन्त्रस्य संसिद्धिं नाधिगच्छति। ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति
इत्यादिप्रसिद्धोक्तिसद्भावात् ज्यौतिषे चित्तोत्थरोगन्तु प्रधानतया उन्माद
शब्देनोच्यत इति कारणतः उन्मादशब्दार्थः प्रथमतया ज्ञातव्यः। तत्र सिंहेन उन्मादो
चित्तविभ्रम' इत्युक्तम् । उन्मादो नाम कामक्रोधादिभिः सञ्जातचित्तविभ्रमः ।
चित्तविभ्रमस्तु कथं किमर्थं सम्पत्स्यत इति ज्योतिश्शास्त्रे विस्तरेण विमृष्टं
वर्तते ।
तत्र सदादिकर्मप्रतिफलरूपफलव्यञ्जकजातकात् भूतभविष्यद्वर्तमानरूपी
फलकथनाय स्वल्पमपि अर्थबाहुल्यरूपेण मिहिरः उवाद यत् |
संस्पृष्ट पवनेन मन्दगयुते द्यूने विलग्ने गुरौ सोन्मादो
वनिसूनुनास्तभवने जीवे विलग्नाश्रिते । तद्वच्चाह यमोदयेऽवनिसुते धर्मात्मजबूनगे
याते वा ससहस्ररश्मितनये क्षीणे व्ययं शीतगौ ॥१३॥ इति
अत्र विशेषतया द्रष्टव्यं यत् स्वल्पं वृत्तविचित्रमर्थबहुलं
शास्त्रप्लवं प्रारभे] इति प्रतिज्ञातेन मिहिरेणात्र तद्वच्चाह इत्युक्तम् ।
अर्थात् ततः पूर्वोक्तयोगयोर्मध्ये कश्चिद्विशेषो वर्तत इति । लग्नस्थो गुरुः
सप्तमस्थेन शनिना यदा दृश्यते तर्हि वातरोगः तादृश एव गुरुः यदि कुजेन दृश्यते
तर्हि मनोरोगः इत्युक्तम् ।
'नाट्यवर्ग २३४
बृहज्जातके अनिष्टाध्याये १३
48
षडङ्गं ज्यौतिषम् तत्र स्पष्टज्ञानार्थमेतदवगन्तव्यं मनोरोगो नाम
केवलं MITIII इत्यादि सामान्यमानसिकक्लेशः न भवति किन्तु स्वदिनचर्याम् अर्थात्
परस्परव्यवहारे भाषणे इत्यादिषु स्वनियन्त्रणमेव परित्यक्तवान् भवति सः । अतः
अनयोः योगयोरवलोकनेन एवं ज्ञातुं शक्नुमः, ज्ञानकारकस्य देहभावस्य च यदा पीडा
भवति तर्हि मानसिकरोगवान् भवति इति । एवमेव पुनः योगद्वयमुच्यते ग्रन्थकारेण तत्र
प्रथमं शनिना क्षीणचन्द्रेण सह व्ययभवने सद्भावात् सम्भवति । यमोदये अवनिसुते
धर्मे वा आत्मजे वा द्यूने वा स्थिते द्वितीयो योगः । अर्थात् ज्ञानकारकगुरुः
मनःकारकचन्द्रः स्वास्थ्यस्थानलग्नं प्रज्ञाप्रतिभास्थानमिति कारणात् पञ्चमस्य च पीडासद्भावे
मनोरोगः इति ज्ञायते ।
एवमेव | लग्नस्थगुरुः सप्तमस्थेन कुजेन दृष्टश्चेदेको योगः, सप्तम
स्थशनिना दृष्टश्चेद्वितीयः, यमोदये अवनिसुते धर्मे वा आत्मजे वा
छूने वा स्थिते तृतीयः लग्नभावे चन्द्रबुधयोः युतेः सद्भावाच्चतुर्थः, व्यये
भावे क्षीणचन्द्र] युक्तशनिना पञ्चमः पापयुक्तक्षीणचन्द्रेण
लग्नपञ्चमसप्तमनवमयोरन्यतमे स्थित्या षष्ठः, पापयुतमान्देः
नवमभावस्थित्या सप्तमः, एवञ्च पापयुतस्य बुधस्य तृतीय षष्ठाष्टमद्वादशयोरन्यतमे
स्थितिश्चेत्यष्टमः इत्यष्टौ योगाः योजिताः । एतेषां योगानां
सूक्ष्मावलोकेनावगम्यते यत् लग्नपञ्चमयोः नवमभावस्य च तथा ज्ञानकारकगुरु बुधयोः
मनःकारकचन्द्रस्य च पीडा यदा भवति तदा मानसिकरोगः इति ज्ञायते ।
एवं लग्ने रखौ भूमिसुते कलत्रे सोन्मादभाक् तत्र नरो हि जातः|
इति
जातकपारिजातकारेणोक्तत्वात् मनोबुद्ध्यहङ्कारतत्वभूतानां चन्द्रगुरुरवीणां पीडासद्भावे
मनोरोगः इत्यपि सिद्धम् । वातपित्तकफभेदेन यादृशस्य ग्रहस्य पीडा भवति तादृशः
उन्मादः इति विदितमेव । तत्सर्वं प्रश्नमार्गनामके ग्रन्थे
हर्षेच्छाभयशोकादेविरुद्धाशुचिभोजनात् ।
'जातक पारिजात अ.६७६
ঠান
गुरुदेवादिकोपाच्च पञ्चोन्मादाः भवन्त्यथ ॥
त्रिदोषजाः सन्निपाता आगन्तव इति स्मृताः । इत्यादिभिः श्लोकैः
विस्तरेण उन्मादभेदकारणलक्षणानि निरूपितानि ।
एवञ्च अधुनातनाधुनिकवर्धमानानन्तरूपनगरप्रपञ्चे ||III इत्यादयः
अपि भावोद्वेगरूपेण विशिष्टरूपमनोरोगाः इव भान्ति । तथा च होमियोपथिक् नामके
आधुनिके वैद्यशास्त्रे II I IIII III 1886 1936] महोदयेनोच्यते
यत् IIIIIIIIIIIIIIIIIIIIIIIIIIIIII In 11001 II III IIM 100 llwmm 0.00
I' इति । तथा च IIIIIIIIIIII इत्याख्ये द्वितीयार्धपुस्तके DM
DILIND DIL DILDLIMDID
DD OIL IDOLD I DILI] इत्यस्मिन् विषयनिरूपणावसरे
प्रत्येकराशिविषयाः अपि विस्तरेण कथिताः तदर्थं निर्दिष्टरूपौषधमपि सूचितम् । अतः
आधुनिकमनोरोग चिन्तनावसरे राशिविषयविशिष्टगुणाः अपि चिन्त्याः अनिवार्यरूपेण ।
राशिविषयविशिष्टगुणेषु कथं मनोरोगचिन्तनमितिचेदुच्यते मन्त्रेष्वरेण
फलदीपिकायां | उन्मादवातारुचिभिः कुलीरे, तुलाधरे धीज्वरसन्निपातज, मृगे
तु शूलारुचिधीभ्रमाद्यै] रित्युक्तत्वात् कर्कतुलामृगराशिभिः मनोरोगचिन्तनं कर्तव्यमिति
ज्ञायते । एवञ्च कल्याणपञ्चगव्याज्यसेव्यादिषु जपहोमक्रियादिषु च सर्वे उन्मादाः
नश्यन्ति ।
होराशास्त्रकारेण मिहिरेण ग्राह्यमदः सच्छिष्यैः परीक्ष्य यत्नाद्यथा
भवति इत्युक्तवात् ऊहापोहपटुधिया पूर्वोक्ताः अनुभवगम्ययोगाः यत्नाद् परीक्ष्य
प्रयोक्तव्याः इति मे मतिः ।
IMILINDI TIMILILOID ADITI INDIMIMIT
चान्द्रयोगानां सफलवर्णनम्
श्री. आनन्दपण्ड्या शोधच्छात्रः, व्याकरणविभागः
राजीवगान्धीपरिसरः,
शृङ्गेरी, कर्णाटकम् lo minid 01/191/01 (IRTI जातकशास्त्रे
चन्द्रकृतारिष्टयोगाः चन्द्रकृतराजयोगाः चन्द्रकृतमातृसुख दुःखविषयकाः योगाः,
चन्द्रकृताधियोगाश्च
सम्यक्तया दरीदृश्यन्ते । एतेषां चान्द्रयोगानां मध्ये सर्वप्रथमं
चन्द्रकृतसामान्य अधम मध्यम श्रेष्ठयोगत्रयाणां वर्णनं प्रस्तूयते । अस्मिन् विषये
वाराहस्योक्तिः अवलोकनीया । यथा |
अधमसमवरिष्ठान्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधीनपुणानि ॥
अहनि निशि च चन्द्रे स्वेऽधिमित्रांशके वा
सुरगुरुसितदृष्टे वित्तवान् स्यात्सुखी च ॥ जन्मसमये सूर्यः यस्मिन्
स्थाने स्थितः भवति, तत्स्थानतः चन्द्रः केन्द्रादिस्थानेषु केन्द्रपणफरापोक्लीमस्थानेषु
अन्यतमे स्थाने यदि स्थितः भवेत् तदा विनयधनशास्त्रज्ञानबुद्धिचतुरताश्च क्रमेण
अधम मध्यम श्रेष्ठाश्च समायान्ति ।
चन्द्रकृताऽधियोगाः
सौम्यैः स्मरारिनिधनेष्वधियोग इन्दोस्तस्मिंश्चमूपसचिवक्षितिपालजन्म
। सम्पन्नसौख्यविभवा हतशत्रवश्च दीर्घायुषो विगतरोगभयाश्च जाताः ॥
चन्द्रतः शुभग्रहाः बुधगुरुशुकाः सप्तमषष्ठाष्टमे एषु त्रिषु
स्थानेषु अथवा एतयोः द्वयोः स्थानयोरथवा कश्चिदेकस्मिन्नेवस्थाने यदि भवेयुः तदा
अधियोगनामकः योगः भवति । कश्चित् आचार्यः कथयति यद् एते त्रयः शुभग्रहाः एषु
त्रिषु स्थानेषु यदा भवेयुः तदा उक्ताधियोगनामकः योगः प्रभवति,
সানচে किन्त्वैतादृशः
विचारः नोचितं परिलक्ष्यते । अत्रैव श्रुतकीर्ति आचार्याः कथयन्ति यथा |
निधनं द्यूनं षष्ठं चन्द्रस्थाद्यदा शुभैर्युक्तम् ।
अधियोगः स प्रोक्तो व्यासकृतौ सप्तधा पूर्वैः॥
अस्याभिप्रायः, चन्द्रस्थानात् ८,७,६
एषु स्थानेषु शुभग्रहाः यदि भवेयुः तदा अधियोगाः सप्तधा भवन्ति । यथा | १.
सर्वे शुभग्रहाः यदि सप्तमस्थाने एव भवेयुः तदा प्रथमः योगः भवति । २. सर्वे
शुभग्रहाः यदि षष्ठस्थाने एव भवेयुः तदा द्वितीयः अधियोगः भवति । ३. यदि सर्वे
शुभग्रहाः अष्टमस्थाने भवेयुः तदा तृतीयोऽधियोगः भवति । ४. यदि सर्वे शुभग्रहाः
सप्तषष्ठस्थानयोर्भवेयुः तदा चतुर्थयोगः भवति । ५. यदि सर्वे शुभग्रहाः
षष्ठाष्टमयोः एव भवेयुः तदा पञ्चमो योगः भवति । ६. यदि सर्वे शुभग्रहाः
सप्तमाष्टमयोः एव भवेयुः तदा षष्ठयोगः समायाति । ७. यदि सर्वे शुभग्रहाः
षष्ठसप्तमाष्टमेषु त्रिषु स्थानेषु भवेयुः तदा सप्तमयोगः भवति। इत्थं प्रकारेण
वराहमिहिरादीनाम् आचार्याणां सम्मतं सप्तधाधियोगः परिलक्ष्यते । सुनफा अनफा
दुरुधुरा केमद्रुमयोगाः | १. चन्द्रस्थानात् द्वितीयस्थाने
सूर्यं विहाय अन्येषां पञ्चानां भौमादिग्रहाणां मध्ये कश्चिदेकः ग्रहः विद्यमानो
भवेत्तदा सुनफानामकः योगः समायाति । २. चन्द्रस्थानात् द्वादशस्थाने
भौमादिग्रहाणां कश्चिदेको ग्रहः यदि भवेत् तदा अनफायोगः भवति । ३. यदि
चन्द्रस्थानात् द्वितीयद्वादशस्थानयोः एतयोः द्वयोः स्थानयोः यदि ग्रहो भवेतां
दुरुधरा योगः भवति । ४. यदि चन्द्रस्थानात् एतयोः द्वयोः द्वादशद्वितीयस्थानयोः
ग्रहो न भवेत्तदा केमद्रुमयोगः भवति ।
52
षडङ्गं ज्यौतिषम् प्रकारेणानेन सुनफादियोगाः बहूनाम् आचार्याणां मतेन
सिद्धं भवति । केचिद्वदन्ति केनापि अन्यग्रहेण सह चन्द्रमा यदि भवति अथवा
जन्मलग्नात् केन्द्रस्थैः ।,४,७,१०|शुभग्रहैः
केमद्रुमो नेष्यति अर्थात् न भवति । केचिद्वदन्ति चन्द्रस्थानात् चतुर्थस्थाने
सूर्यं विहाय यदि कश्चिद् ग्रहः भवेत् तदा सुनफा, दशमस्थाने यदि
भवेत् तदा अनफा, चतुर्थदशमस्थानयोः सूर्यं विहाय यदि ग्रहो भवेत् तदा दुरुधुरा योगः
प्रभवति । चतुर्थदशमस्थानयोः यदि ग्रहः न भवेत् तदा केमद्रुमयोगः समायाति । स्वकीय
अभिमतेनान्ये आचार्याः एवं कथयन्ति । एषु योगेषु सूर्यः अन्यैः योगकारकग्रहैः सह
यदि भवेत् तदा योगभङ्गः न भवति किन्तु सूर्यः योगकारकः भवितुं नार्हति ।
चन्द्रकृदमलायोगः
महर्षिः पराशरः चन्द्रकृदमला योगविषये स्वाभिमतमेवं प्रकटयति । यथा ||
लग्नाद्वा
चन्द्रलग्नाद्वा दशमे शुभसंयुते
योगोऽयममला नाम कीर्तिराचन्द्रतारकी ॥ चन्द्रकृतचक्रवर्तियोगः
आचार्यः वैद्यनाथमहाभागः चन्द्रकृतचक्रवर्तियोगस्य विषये स्वाभिमतं
प्रकटयति । यथा |
नीचङ्गतो जन्मनि यो ग्रहः स्यात्तद्राशिनाथोऽपि तदुच्चनाथः । स चन्द्रलग्नाद्यदि
केन्द्रवर्ती राजा भवेद्धार्मिक चक्रवर्ती ॥
नरस्य जन्मकाले यो ग्रहो नीचमात्मीयनीचराशिगतो भवति तद्राशिनाथः
अर्थात् नीचराशेरधिपः तथा तदुच्चनाथस्तस्य नीचस्थस्य ग्रहस्य यदुच्चं
तद्राशिपतिरपि द्वौ उच्चनीचपती वा एकः कश्चिच्चन्द्राल्लग्नाद् वा यदि केन्द्रस्थान
1,४,६,१० गतो भवति तदा जातो धार्मिकश्चक्रवर्ती च राजा भवेदिति ।
मुहूर्तशास्त्रविमर्शः
विद्वान् श्रीशः संस्कृताध्यापकः सर्वकारीयप्रौढशाला,
शृङ्गेरी, कर्णाटकम्
DO (III: shreeshabhat65@gmail.com वेदो
नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम् इत्यादिशति भगवत्पादीया भणितिः । तस्याः
इदमान्तर्यं स्यात् यत् मानवः वेदाध्ययनशीलः सन् तत्प्रतिपादिकर्मानुष्ठानपरश्च
स्यात् इति । तत्र स्वनुष्ठीयताम इत्ययं शब्दः वेदप्रतिपाद्यकर्मणां विधिपूर्वकं,
योग्ये
काले एव आचरणम् च व्यञ्जयति । तादृश] कर्मणामाचरणं तु पूर्वमीमांसादिशास्त्रैः
ज्ञायते किन्तु कालनिर्णयस्य का वा गतिः|| इति परामर्श सम्प्रवृत्तमिदं शास्त्रं
ज्यौतिषशास्त्रम् । अत एव उद्दष्टं वेदाङ्गज्योतिषे]
वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः।
तस्मादिदै कालविधानशास्त्र यो ज्योतिष वेद स वेद यज्ञान् ॥ इति । एवं
वैदिककर्मणां कालनिर्णयार्थ प्रवृत्तमेतत् शास्त्रं काले गते सुरूढं सत्
व्यापकत्वं च प्राप्तम् । ब्रह्माणमारभ्य पराशरान्तं | १८ | मुनिभिः
सुपुष्टमिदं शास्त्रं बिदाङ्गज्यौतिषम् प्रभृतिकग्रन्थसमूहमेवावहति । अत एव
उच्यते] चतुर्लक्षं तु ज्यौतिषम् इति । परिवर्तनं परिपुष्टिश्च लोकसामान्यम् इति
नियमानुसारं शास्त्रमिदं गणितम्, संहिता, होरा चेति
स्कन्धत्रयात्मकं सम्पन्नम् । अमीषु स्कन्धेषु तत्कायोपनयस्य नाम मुनिभिः
सङ्कीर्त्यते संहिता इति कीर्तितात् संहिता स्कन्धात् एव मुहूर्तः, निमित्तं
च प्रत्येकतामवाप्य जातकमुहूर्तप्रश्ननिमित्तगोल गणितनामानि इति षडङ्गमिदं
शास्त्रं सम्पन्नम् । तत्र | मुहूर्त इति पुन्नपुंसकलिङ्गात्मकः अयं
'ऋ.वे.ज्यौ ३.६ य.वे.ज्यौ.३
षडङ्गं ज्यौतिषम् शब्दः हुर्छा कौटिल्ये इति धातोः औणादिकस्य का
प्रत्ययस्य प्रवर्तनात् निष्पन्नः।
कौटिल्यम अपसरणम् । अञ्जिघृसिभ्यः क्तः] इति क्त प्रत्यये बाहुलकात्
हुछेरपि प्राक् मुडागमः । गल्लोपः इति छस्य लोपः । ॐरुपधायाः इति दीर्घः]
यद्यप्यस्मात् शब्दात् प्रतीयमानं शास्त्रं तु संहिताभागातद् एव पृथग्भूतम् अथापि
वेदेष्वेव अस्य उल्लेखः असकृत्प्रतीयते । शाकलसंहितायाः तृतीयमण्डले विश्वामित्र
मदीसंवादसूक्ते तावत् रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः।' इति
श्रुतेः भाष्यकारः सायणः हे नद्यः, यूयं प्रकर्षवेगात् क्षणकालं यावत्
रमध्वम् | मुहूर्तशब्दस्य कालपरिमाणरूपमेवार्थमकथयत् । अग्रे तस्मिन्नेव मण्डले
निर्यद्दिवः परि मुहूर्तमागात् स्वैर्मन्त्रैरनृतुपा ऋतावा । इति मन्त्रस्यापि
कालपरिमाणरूपमर्थं प्रतिपादितवान् । तैत्तिरीयेऽपि
अथ यदाह । चित्रः केतुर्दाता प्रदाता सविता प्रसविता ।
अभिशस्तानुमन्तेति एष एव तत् । एष एव ते अहो मुहूर्ताः। इति ।
अथर्वज्योतिषेऽपि कालवाचकत्वेनास्य शब्दस्योल्लेखः दरीदृश्यते]
चतुर्भिः कारयेत्कर्म सिद्धिहेतोर्विचक्षणः ।
तिथिनक्षत्रकरणमुहूरिति नित्यशः॥ इति । महाभारते
तत इष्टेऽहनिप्राप्ते मुहूर्ते साधुसम्मते । जग्राह विधिवत्पाणिं
माद्याः पाण्डुनराधिपः । ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजिदष्टमे ॥ इति
कथितम् ।
'ऋ.चे.सं.१.३३.५
ऋ.वे.सं.1.५३.८ 3 तै.बा.३.१०.६ 'म.भा. १.११३.१६[]१.१२३.६
मुहूर्तम् रामायणे
युक्ते मुहुर्ते विजये सर्वाभरणभूषितैः ।
भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः ॥' इति । एवं
बहुत्र बहुधा प्रयुक्तमानस्यास्य शब्दस्य कालपरिमाणरूप एवार्थः सर्वत्र गीयते ।
मुहूर्तशब्दः कालवाचकः इति सर्वत्र सुस्पष्ट एव । किन्तु कियन्तं वा कालं स शब्दः
प्रतिपादयति || इति नूनमयं प्रश्नः समुदेत्येव । वायुपुराणीयमिदं वचनं मुहूर्त
शब्दस्य कालपरिमितिमित्थं सूचयति काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा
गणयेत्कलान्तरम् । त्रिंशत्कलाश्चैव भवेन्मुहूर्तः तैस्त्रिंशता रात्र्यहनी
समेते ॥ इति । मनुस्मृतावपि
निमेषाद्दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला।
त्रिंशत्कला मुहूर्तः स्यात्ते रात्रं तु तावतः॥ इत्युक्तम् ।
अमरकोशोऽपि अमुमेवार्थं प्रतिपादयति]
अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला।
तास्तु त्रिंशत् क्षणस्तेतु मुहूर्तों द्वादशास्त्रियाम्॥ इति । १
लघ्वक्षरोच्चारणकालः
१ अक्षिनिमेषः १५]१८ निमेषाः
१ काष्ठा ३० काष्ठाः
कला
३० कलाः
१ मुहूर्तः ३० मुहूर्ताः
१ अहोरात्रम्
रामा.१.७३.९ 2 वा.पु.५०.१६९ 'मनुस्मृतिः १.६४
'अमरकोषः कालवर्गः
56
षडझं ज्यौतिषम् एतैरुल्लेखैरियं स्पष्टप्रतिपत्तिः जायते
आधुनिककालगणनाक्रमे तु ४८ निमेषात्मकः काल एव मुहूर्तः इति । एकस्मिन्नहोरात्रे
एतादृशाः त्रिंशन्मुहूर्ताः रुद्रादिनामकाः निर्दिष्टाः । एतेषु ब्राह्मनामकः
एकोनत्रिंशत्तमः प्रातः ४२४ तः ५] १२ पर्यन्तम् योगादिसाधनार्थं प्रशस्ततमः ।
आयुर्वेदेऽप्यस्य महत्त्वमुपवर्णितम् । विष्णुपुराणे छायानुसारं १५ मुहूर्ताः
सूचिताः । तेष्वन्यतमोऽयमभिजिदभिधः यत्र छाया एव न वरीवर्ति । अस्य मुहूर्तस्य
व्यवहारः अद्यापि लोकवर्ती । नाडिके द्वे मुहूर्तस्तु पञ्चाशत्पलमाढकम् इति ऋग्वेदाङ्गज्योतिषे
घटिद्वयप्रमाणः मुहूर्तः सूचितः । एवं सति मुहूर्तस्य कालपरिमाणे सिद्धे केन वा
हेतुना अस्य शास्त्रत्वं, षडङ्गान्तर्निहितत्वं च । इति
जिज्ञासायामुच्यते मुहूर्तशब्दस्य व्याप्यत्वेन नाडिकाद्वयमित्यर्थः प्रतिपन्नः ।
किन्तु नैतावता अस्य शास्त्रत्वं सिद्ध्यति । मुहूर्तशब्दः व्यापको भूत्वा
ग्रहाणां गतिक्शात् सिद्धः कालविशेषः इत्यस्मिन्नर्थे भुवनेषु रूढः सञ्जातः।
अथ को वा लाभः अस्मिन् कालविशेषे ज्ञाते इति पृष्टे सति ।
दिग्देशकालानुकूलकं कर्म यथार्थफलं प्रदत्ते नान्यथा । सत्स्वपि बहुधूपकरणेषु
कृतेऽपि भूरिप्रयत्ने बहुकर्माणि अनिष्टफलप्रदानि, निर्दिष्टफलाप्रापकाणि
वा जायन्ते। तत्र तु दोषः कालस्यैव इति निश्चयः । अयं च कालः आदित्यादिग्रहाणां
गतिवशः सन् ग्रहगत्यनुगुणं शुभाशुभत्वमञ्चति ।
न चैवमपभाषितव्यं ग्रहाः कथं वा कालस्य शुभाशुभत्वप्रापकाः इति।
सूर्यादिखचराणां किरणविशेषैः जन्तवः, वस्तुविशेषाश्च प्रभाविताः भवन्ति इति
तु आधुनिकैरप्यङ्गीक्रियत एव । पूर्णिमा अमावास्ययोः समुद्रजलस्तरे उपचयापचयौ
दृग्गोचरी भवतः खलु । पद्मकुमुदबान्धवौ यदोदितौ तदैव खलु पद्मकुमुदयोः विकासः!
कुहू सिनीवाल्योः उन्मत्तानां मानसिकस्थितिव्यत्ययः लोकपरिचितः
'ऋ.वे.ज्यौ.
मुहूर्तम्
57
एव। अतः रव्यादिनभचराणां चेतनाचेतनेषु प्रभावः सिद्ध एव । किन्तु स
प्रभावः कदा कस्मिन् जायते || कश्च सः परिणामः | इत्यादिविचारान्
यौगिकदृष्ट्या विचार्य अस्मत्प्राञ्चो मनीषिणः लोकोपकारार्थं प्रत्येकं
कर्मविशेषस्य समुचितकालनिर्णय महता प्रयत्नेन आविश्चक्रुः । तानेव विषयान्
शास्त्रमिदमभिव्यनक्ति । गर्भाधानादिसंस्कारविशेषाः, अन्ये
अनेकव्यावहारिकविशेषाश्च निर्दिष्टे एव काले अनुष्ठीयन्ते चेदेव अभीप्सितफलदायकाः
इति अनुमन्वानाः जनाः मौहूर्तिकैरुक्तकाले एव नित्यनैमित्तिककार्याणि आचरिष्यन्ति
। अतः तत्तत्कर्मानुरोधेन वारतिथिनक्षत्रादीनां परस्परसंयोगेन अत्यन्तगुणाधिक्य,
दोषन्यूनत्वं
च यस्मिन् काले सिद्ध्यति स एव कालः कर्मानुष्ठानयोग्यः सन् मुहूर्तशब्देन
व्यवह्रियते । कर्मानुष्ठानात् यत्फलं प्राप्यते अपूर्वम् इत्यपरपर्यायं, तत्साधनाय
युक्तः कालः आवश्यकः इति मुहूर्तशास्त्रस्यारम्भः ।
यत्कार्य नक्षत्रे तद्देवत्यासु तिथिषु तत्कार्यम् ।
करणमुहूर्तेष्वपि तत्सिद्धिकरं देवतासदृशम् ॥1 इति
बृहत्संहिताकारस्य आचार्यस्य वराहमिहिरस्य सूक्तिरप्येतदेव प्रमाणीकरोति ।
• कालः शुभक्रियायोग्यः मुहूर्त इति कथ्यते ।
• मुहुर्मुहुस्तारयति कर्तारं श्रौतकर्मणाम् । तस्मिन्
मुहूर्तमित्युक्तं ज्योतिश्शास्त्रविशारदैः॥
इति विपश्चिद्भिः बहुधा स्तूयमानस्य शास्त्रस्यास्य
बृहत्संहिताकालानन्तरमेव प्रत्येकमस्तित्वमिति विदुषामभिप्रायः । यतो हि पूर्वमिमे
विचाराः संहितास्कन्धे एव अन्तरिता आसन् । किन्तु संहितास्कन्धस्य वैशाल्यात्,
अस्य
बहूपयोगित्वाच्च मुहूर्तविषयाः संहितास्कन्धात् पृथग्भूत्वा
प्रत्येकमुहूर्तग्रन्थानां रचनापरम्परा प्रारब्धा इति तय॑ते ।
'बृहत्संहिता १.८.३
58
षडङ्गं ज्यौतिषम् इदानीं समुपलभ्यमानेषु मुहूर्तग्रन्थेषु लल्लस्य
रत्नकोशः सर्वप्रथमः स्वतन्त्रमुहूर्तग्रन्थः इति कथ्यते प्रायः क्रिस्ताब्दे
षष्ठे शतके विरचितत्वात्, तत्पूर्व स्वतन्त्रमुहूर्तग्रन्थस्य
कस्यापि अनुपलब्धिवशाच्च । एवं क्रिस्ताब्दात् षष्ठशतकात् परं प्रवृद्धे अमुष्मिन्
स्वतन्त्रशास्त्र नैके ग्रन्थाः ग्रथिताः ग्रथ्यमानाश्च वर्तन्ते इत्यनेन
अधुनातनकाले अस्य शास्त्रस्य प्रामुख्यं जानीमो वयम् । तेषु प्रमुखाः ।
ग्रन्थनाम
ग्रन्थकर्ता
रचनासमयः शकवर्षेषु ५६०
रत्नकोशः
रत्नमाला राजमार्ताण्डः
श्रीपतिः भोजः
९६४
विद्वज्जनवल्लभः
भोजः
९६४
बल्लालसेनः
१०९०
पद्मनाभः
१०८२
कालिदासः केशवः शार्ङ्गधरः केशवः पीताम्बरः
। ।
अद्भुतसागरः व्यवहारप्रदीपः ज्योतिर्विदाभरणम् विवाहवृन्दावनम्
विवाहपटलः मुहूर्ततत्त्वम् विवाह्पटलः ज्यौतिषदर्पणः मुहूर्तमार्ताण्डः
तोडरानन्दः मुहूर्तचिन्तामणिः
१४००
१४२०
कञ्चपल्लु
१४७९
नारायणः
नीलकण्ठः
१५०९
रामदैवज्ञः
।
१५२२
शिवः
मुहूर्तम्
59 मुहूर्तचूडामणिः
१५४० मुहूर्तकल्पद्रुमः विठ्ठलदीक्षितः १५४९ मुहूर्तदीपकः
महादेवः मुहूर्तगणपतिः
गणपतिः
१६०७ मुहूर्तमाला
रघुनाथः
१६६० मुहूर्तसिन्धुः
गङाधरशास्त्री १७४४
टीकाकृद्भिप्रायानुसार मुहूर्तमाधवीयम् विद्यामाधवीयम् । विद्यामाधवः
त्रयोदशशतकम अमीषु ग्रन्थेषु न केवलं गर्भाधानादि
संस्कारविशेषावश्यकाः मुहूर्ताः स्फुटिताः, अपि तु
दैनन्दिनजीवनावश्यककार्याणां सम्पत्तये तिथि बासर नक्षत्र योग करणानां
परस्परयोगवशात् शुभः कालः संसूचितः । मुहूर्तग्रन्था बाहुल्येन नक्षत्र राशि
ग्रहाणां परिचयात्मकं संज्ञाध्यायमारभ्य त्याज्यतिथिनक्षत्राणि, बहुप्र]
कारकाः दोषाः, दोषापवादः, गुणनिरूपणम्, बलाबलनिरूपणम्,
गर्भाधानादि
संस्काराणां शुभाशुभकाल:, विशेषतः उपनयनविवाहविचाराः, अग्निनिर्णयः,
देवप्रतिष्ठा,
गृहप्रवेशः,
पट्टाभिषेकः,
कृष्यारम्भः,
बीजावापः,
फलकर्तनम्,
क्रयविक्रयणम्,
गृहवास्तु,
प्रयाणकालनिर्णयः,
कूपनिर्मितिः,
ग्रहगोचरफल]
मित्यादिमुख्यविषयैः साकं नैकविचारान् विशदीकुर्वन्ति ।
सत्स्वपि ग्रन्थेषु केचन ग्रन्थाः कतिपयेष्वेव देशेषु आदरणीयतां प्राप्ताः
। सामान्यतः उत्तरभारते रामदैवज्ञस्य मुहूर्तचिन्तामणिग्रन्थस्य प्राधान्य
द्योत्यते चेत् दक्षिणभारते विद्यामाधवीयाख्यग्रन्थः आद्रियते । दक्षिणेऽपि
केरलप्रान्ते
'मुहूर्तमाधवीयस्य पुरोवाक्
60
षडङ्गं ज्यौतिषम् मुहूर्तपदवीनामकं षट्त्रिंशच्लोकात्मकं
ग्रथमनुसरन्ति । एवं देशवशाद्भिन्नाः सन्तोऽमी मुहूर्तग्रन्थाः सर्वेऽपि सर्वदापि
सर्वथापि शुभाशुभकालानेव सूचयन्ति । गर्भाधानम् :
सर्वेऽपि संस्काराः जीविनां जीवनोत्कर्षहेतव इति तु निश्चप्रचम् ।
तथापि एषु षोडशसु संस्कारेषु केचन महत्त्वाधिक्यं प्राप्ताः । तत्सन्निभेषु
आद्योयं गर्भाधानाख्यः।
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् ।' इति भगवान्
बादरायण उवाच । तथैव योग्यकाले सत्क्षेत्रे एव कृतमाधानं सत्सन्तानाविर्भा]
वहेतुर्भवितुमर्हति । अत एव मौहूर्तिकाः संस्कारस्यास्य महत्त्व प्रादुः । तस्य
संस्कारस्य योग्यः कालः मुहूर्तमाधवीये ग्रन्थे एवं निरूपितः||
विभावरीः षोडश भामिनीनाम् ऋतूद्माद्या ऋतुकालमाहुः ।
नाद्याश्चतस्रोऽत्र निषेकयोग्या पराश्च युग्माः सुतदाः प्रदिष्टाः॥ इति ।
आयुर्वेदादारभ्य आधुनिकवैद्यविज्ञानपर्यन्तं सर्वे रजोदर्शनानन्तरं
पञ्चम रात्रादारभ्य षोडशरात्रं यावत् गर्भाधानस्य सुसमयः इत्यङ्गीकुर्वन्त्येव ।
पुनस्तत्रैव]
वीर्याढ्यौ स्वनवांशगावुपचये पुंसोऽर्कशुक्रौ यदा योषायाश्च तथा
निशाकरकुजौ गर्भस्तदोत्पद्यते। इति ।
अत्र पुंसः जन्मात् यदा बलिनौ अर्कशुक्रौ उपचयगौ तथा स्त्रियः
जन्मनक्षत्रात् चन्द्रकुजौ यदा उपचयगौ तदैव गर्भसमयः इति । अत्रेदमवधेयम्| गर्भाधानसमर्थता
तरणिना रेतः सितेनोच्यताम्] इति स्त्रीणां
'महाभारतम् शान्तिपर्व 'माधवीयम ६.३ 3 माधवीयम १.५
मुहूर्तम्
61 रक्तगुणोऽसृजाऽथ शशिना गर्भस्य सन्धारणा |' इति च
प्रश्नमार्गीयं वचः । मुहूर्तचिन्तामणिग्रन्थेऽपि
केन्द्रत्रिकोणेषु शुभैश्च पापैः त्र्यायारिगैः पुङ्ग्रहदृष्टलग्ने।
ओजांशगेऽब्जेऽपि च युग्मरात्रौ चित्रादितीज्याश्चिषु मध्यम स्यात्॥
इति रजोदर्शनानन्तरं चतस्रो निशीथिन्यः वाः इति सूचितः । उपनयनम् : माधवीये
ग्रन्थे संस्कारस्यास्य मुहूर्त एवमाम्नातः|
कर्तुयोर्जन्मविलग्नराश्योस्तत्काललग्नस्य हिमत्विषश्च ।
स्थानेऽष्टमे सद्भिरसग्रहैर्वा विशुद्धिमेके नियमादिहाहुः॥ ब्रूमोऽत्राभिमतं यदत्र
नियतं तत्काललग्नाष्टमे शुद्धिः किन्तु न कर्तृजन्मनिधने शुक्रेन्दुपुत्रौ शुभौ॥
इत्यादिवचनैः उपनयनकालीनलग्नात् अष्टमशुद्धिरपेक्ष्या इति । मुहूर्त
चिन्तामणिस्थमिमं श्लोकं प्रायः सर्वे जानन्त्येव ।
वटुकन्याजन्मराशेः त्रिकोणायद्विसप्तगः। श्रेष्ठो गुरुः खषत्र्याचे
पूजयान्यत्र निन्दितः॥4 विप्राणां व्रतबन्धनं निगदितं गर्भाजनेर्वाऽष्टमे वर्षे वाऽप्यथ
पञ्चमे क्षितिभुजां षष्ठे तथैकादशे वैश्यानां पुनरष्टमेऽप्यथ पुनः स्याद् द्वादशे
वत्सरे कालेऽथ द्विगुणे गते निगदिते गौणं तदाहुर्बुधाः॥
1 प्र.मा. १९.४
3 माधवीयम २.३४ * मु.चिं. ५.४६ 'मु.चिं. ९.३९
षडङ्गं ज्यौतिषम् इति उपनयनकालसामान्य निर्दिशति ।
उपनयनकालीनलग्नवशात् फलमेवं कथयति माधवीयकारः
मूको विद्वान् बोधवान् वेदवादी शिल्पी धीमान् लब्धवाणिज्यवृत्तिः ।
पापी पूज्यः शूद्रको राजदूतः शास्त्रार्थज्ञःस्याञ्च मेषादिलग्ने॥'
इति
। विवाहः।
वर्णों वश्यं तथा तारा योनिश्च ग्रहमैत्रकम् । गणमैत्रं भकूटं च नाडी
चैते गुणाधिकाः॥2
इति स्त्रीपुरुषजातकवशात् अष्टौ कूटानाहुः । एतैरष्टभिः कूटैराहत्य
३६ गुणेषु गुणाधिक्ये सति विवाहः प्रशस्तः । एतेषु विप्राणां ग्रहमैत्रतां,
वैश्यानां
स्त्रीदीर्घकूट, शूद्राणां योनिकूटं विशेष्यतया परिशीलयन्ति शास्त्रज्ञाः । पापसाम्यतां
वीक्ष्य विवाहः कार्यः इति विशेषः।
दम्पत्योरैक्यकाले व्ययधनहिबुके सप्तमे लग्नरन्ध्र लग्नाच्चन्द्राच्च
शुकादहिरविरविजा भूमिपुत्रो द्वयोश्च । तत्साम्ये पुत्रपौत्रप्रचुरधनयुतौ दम्पती
दीर्घकालं तस्मिन्नेकत्रहीने मृतिरिति मुनयः प्राहुरत्र्यादयस्ते॥ इति ॥
यदि वधूवरयोः जननकालीनग्रहस्थितिवशात् उभयोः लग्न चन्द्र शुक्रवशात्
आद्य द्वितीय चतुर्थ सप्तम अष्टम द्वादशेषु रवि कुज शनि राहु केतुषु अन्यतमस्य
सत्त्वे एको दोषः इत्येवं गणयित्वा दोषसाम्ये सति विवाहः शुभः इति ज्यौतिषिकाणां
मतम् । गुणाल्पत्वेऽपि मनःकूटस्य सत्त्वे विवाहः प्रशस्यते इति केषाञ्चन
मौहूर्तिकाणामाशयः ।
'माधवीयम्.८
मु.चिं.१.२१ 3 प्रश्नमार्गम् परिशिष्टम्
मुहूर्तम्
63
दम्पत्योश्चान्योन्य सक्तिः शुभदा विशेषतः प्रोक्ता । पाणिग्रहण
नृणामत्यर्थ चिन्तनीयं स्यात्॥ यस्यां मनः समासक्तं तामेव विवहेदुधः ।
सर्वानुगुणभागेऽपि मनोऽनुगुणताधिका ॥' इति ।
यदि विवेकिनौ वधूवरौ परस्परासक्तौ तर्हि तयोर्विवाहः प्रशस्यते ।
एवमुक्त्वा विवाहकालं निर्दिशन्ति । कन्यातुलानृमिथुनान्यतिपूजितानि मध्याः
कुळीरझष चापवृषा विवाहे इति । अभिजिल्लग्नविचारः
मध्यन्दिनगते भानौ मुहूर्तोऽभिजिदाहयः। सर्वदोषान्निहन्त्याशु पिनाकी
त्रिपुरं यथा॥3
अशेषदोषापहरं शुभप्रदं जगुर्मुनीन्द्रा अभिजिन्मुहूर्तम्॥ इति उदयात्
चतुर्थं लग्नं सर्वदोषघ्नम् अभिजितं प्राहुः ।।
अधुनातनकाले लुप्तप्रायः किन्तु प्राचीने प्रचुरप्रायः मुहूर्तः
गोधूलिनामकः सूर्योदयात् सप्तमं लग्नम् अर्थात् रविबिम्बार्धास्तात्परं
घटिकाद्वयकालः गोधूलिनामकः मुहूर्तः।
नास्यामृक्षं न तिथिकरणं नैव लग्नस्य चिन्ता नो वा वारो न च लवविधि!
मुहूर्तस्य चर्चा । नो वा योगो न मृतिभवनं नैव जामित्रदोषो गोधूलिस्सा
मुनिभिरुदिता सर्वकार्येषु शस्ता ॥4
'प्र.मा. २.१.६५/६६ 2 माधवीयम ६.३५
मुहूर्तदीपिका पुरोवाक् 'मु.चिं.६.१००
षडङ्गं ज्यौतिषम्
गोपैर्यष्ट्याहतानां खुरपुटदलिता याति धूलिदिनान्ते सोद्वाहे
सुन्दरीणां विविधधनसुतारोग्यसौभाग्यदात्री। तस्मिन् काले न ऋक्ष न तिथिकरणं नैव
लग्नं न योगाः ख्याताः पुंसां सुखार्थं शमयति दुरितान्युच्छ्रितं गोरजस्तु॥
इति भागुरीयवांसि मुहूर्तस्य माहात्म्यमुपवर्णयन्ति । षोडशसु
संस्कारेषु अन्येषु वा कर्मसु मुहूर्तानामावश्यकता प्रतिपादिता । किन्तु अत्रायं
प्रश्नसमयः [] मुहूर्तस्तु सप्ताङ्गसम्पत्तिसमेतः | तिथि बार
मक्षत्र योग करण लग्न तत्कालीनग्रहस्थितयः | खलु । एतादृशः
कालः अल्पीयान् एव । संस्कारास्तु बहुकालसाध्याः । तदा मुहूर्ते एव संस्कारस्य
सिद्धिः कथम् || इति । तदर्थमेवं समादध्मः
कार्यं यदेकं क्रियते प्रधानं तदा स्युरन्यान्युपसर्जनानि । ग्राह्यो
विरुद्धेऽप्युपसर्जनानां बली प्रधानानुगुणो मुहूर्तः॥' इति ।
संस्कारकर्मसु यो मुख्यो भागः स एव मुहूर्तसमये आचरणीयः । यथा चौले
दर्भाङ्करैः केशकर्तनम्, उपनयने उपवीतधारणम्, विवाहे
कन्यादानं पाणिग्रहणं वा, गृहप्रवेशे प्रवेशः इत्यादि ।
ननु पञ्चाङ्गे प्रत्येकं कर्मणो मुहूर्ताभिधः कश्चन समयो निर्दिश्यते
। स च शुभसमयः कियन्तं कालं व्याप्य तिष्ठति इति सर्वैः ज्ञेयोऽयं विषयः ।
यदि स मुहूर्तः प्रत्येकं राशेः पुष्करांशमभिलक्ष्य निर्दिष्टस्तर्हि
प्रायः त्रयोदशनिमेषान् यावत् व्याप्य तिष्ठति । यदि पुष्करभागे निर्दिष्टस्तर्हि
चतुरो निमे] षान् व्याप्नोति । यदि पुष्करांशे पुष्करभागे वा न निर्दिष्टस्तदा
तादृशी ग्रहस्थितिः, लग्नं च यावत्कालं वर्तते तावत्पर्यन्तं स मुहूर्तः स्वीक्रियते ।
एवं सुमुहूर्तेषु मानवाः सत्कर्माण्याचरन्तः श्रेयः परमवाप्नुयुरिति शम् ।
'माधवीयम् १.४६
मुहूर्तरत्नाकरोक्तदेवप्रतिष्ठामुहूर्तविमर्शः
विद्वान् बालचन्द्रभट्टः शोधच्छात्रः, ज्यौतिषविभागः
राजीवगान्धीपरिसरः
शृङ्गेरी, कर्णाटकम्
DIRMIT1987000TATIO सद्गृहस्थैः देवाः पूजनीयाः इति तु
रूढिः । मूर्तिपूजनं शास्त्रोक्तं भवेत् तथैव प्रतिष्ठापनमपि । तच्च स्थापनं
शुभकाले चेच्छुभं दुष्काले कृतम् अशुभम् स्यात् । तत्र देवानां सर्वेषां
प्रतिष्ठायां दक्षिणायनं त्याज्यम् । अन्यदुत्तरमिष्टम् । आहुः ।।
दक्षिणायनगे सूर्ये प्रतिष्ठा प्राणहारिणी ।
उत्तरायणे सा च सर्वकार्यार्थसिद्धये ॥ उत्तरायणे अपि कुम्भे सूर्यः
अनिष्टकृत् । तत्र सूर्यो जीवदृष्टश्चेत् शुभो भवति । एवं दक्षिणायनेऽपि कदाचित्
विष्णुप्रतिष्ठायां श्रावणः शस्तः इति । तथैव उत्तरायणे चान्द्राः पुष्यादयः
षण्मासाः श्रेष्ठाः इति । पौषे राज्यविवृद्धिः स्यात् माघमासे तु सम्पदः इत्यादि
कैश्चित् वर्णक्रमान्मासाः उक्ताः तिथयः अपि वर्णक्रमे सन्ति । सर्वदेवप्रतिष्ठेषु
सामान्येन पुष्यादीनि नव भानि पुण्यानि प्रोक्तानि । तथा च ज्योतिषार्णवे ||
उत्तरात्रितयं चैव पुष्यादित्यदिवाकराः ।
शर्वपौष्णानिलाश्चैव शुभाः स्युर्दैवतालये ॥ श्रीपतिना प्रतिदैवतं
केचिद्राशयः उक्ताः ।
सिंहोदये दिनकरो मिथुनं मृगेशो नारायणश्च युवतौ घटभेऽजजन्मा । देव्यो
द्विमूर्तिभवनेषु निवेशनीयाः क्षुद्राश्चरे स्थिरगृहे निखिलाश्च देवाः॥ कदाचित्
दग्धदेवगृहं चेत् साधारणस्यापि कालस्य इष्टत्वात् तस्य प्रतिष्ठां
66
षडङ्गं ज्यौतिषम् कर्तुं शक्यते । रात्रिचराः रात्रौ स्थाप्याः,
दिनचराः
दिवा इति तत्तद्देवता प्रकृत्या उक्तम्। विद्याधरादीनां देवगणे अन्तर्भूतत्वात्
दिवैव प्रतिष्ठा करणीया । एवमेव तत्तद्देवताकनक्षत्रे करणं शुभम् ।
लग्नात् त्रिकोणे केन्द्रे वा बलवान् स्वतुङ्गवर्गगः शुभः कश्चित्
स्थितः चन्द्रः सुकर्मा शुभांशके यदि स्यात् एको योगः । चन्द्रदृष्टस्थानगः
स्वोच्चगः पापः त्रिषडायगश्चेदन्यः, एवमेव अष्टौ योगाः देवतानां
प्रतिष्ठाकर्मणि सुखारोग्यधन]
सम्पद्देवतादिशुभप्रदाः भवन्ति । अत्र भोजराजः एवमभिप्रैति ||
मैत्रेयोत्तरास्वर्कहरित्रयेषु पौण्यादितिब्राह्मयुगेषु शस्ता ।
सौम्यायने शुक्लदिनाद्यभागे व्यारार्किवारेषु सुरप्रतिष्ठा ॥
शशाङ्कताराबलसंयुतेऽह्नि चन्द्रे तनुस्थे शुभखेटदृष्टे । स्वे स्वे तिथौ वासरभेक्षणे
वा मधूनमाघादिकपंचमासु॥
इति ग्रहाणां योगाः बलानि च श्लोकत्रयेणाह । अत्र सामान्यतः सर्वे
योगाः अन्तर्भूताः भवन्ति । चन्द्रस्य आनुकूल्यता सर्वत्र द्रष्टव्या भवति ।
सामान्यतो दिनशुद्धिः एवं विचार्या, सौम्यायने मकरादिषड्राशिस्थिते सूर्ये
सति तथा जीवांशकशुक्रेषु दृश्यमानेषु सत्सु तथा मृदुक्षिप्रचरध्रुवनक्षत्रेषु
शुक्लपक्षे स्वःतिथिक्षणे यस्य देवस्य प्रतिष्ठा कर्तुमिष्टा तस्य तत्स्वामिके
नक्षत्रे तिथौ वा मुहूर्ते कार्या । अत्र गुर्वास्तशुक्रास्तयोः सामान्यतः
शुभकार्येषु निषेधात् परिशेषतो गुरुशुक्रोदयोत्तरे प्रशस्तम् । दक्षिणायननिषेधः
चौले वक्ष्यते । मत्स्यपुराणेऽपि |
चैत्रे वा फाल्गुणे वापि ज्येष्ठे वा माधवेऽपि वा । माघे वा
सर्वदेवानां प्रतिष्ठा शुभदा भवेत् । प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ॥
इति ,
सौम्यप्रकृतीनाम् देवानाम् उत्तरायणे स्थापनमुक्त्वा उग्रप्रकृतीनां
तु दक्षिणायनेऽपि कार्यम् इत्युक्क्तं वैखानससंहितायां ||
मुहूर्तम्
मातृभैरववाराहनारसिंहत्रिविक्रमाः ।
महिषासुरहन्त्री च स्थाप्या वै दक्षिणायने । शैवसिद्धान्तशेखरे ||
श्रेष्ठोत्तरे प्रतिष्ठा स्यात् अयने मुक्तिमिच्छताम् ।
दक्षिणे तु मुमुक्षूणां मलमासे न सा द्वयोः ॥ इत्युक्तम् , तत्र
तिथीन् वारान् चाह नारदः ।
यदिन यस्य देवस्य तदिने तस्य संस्थितिः । द्वितीयादिद्वयोः
पञ्चम्यादितस्तिसृषु क्रमात् ॥ दशम्यादि चतसृषु पौर्णमास्यां विशेषतः ।
कुजवर्जितवारेषु कर्तुः सूर्ये बलप्रदे ।
चन्द्रताराबलोपेते पूर्वाह्ने शोभने दिने ॥ तन्त्रसमुच्चये
देवप्रतिष्ठाक्रमः सम्यनिरूपितः,
तत्रोपविश्य सकलीकृतचर्चितात्मा सम्प्रीणितस्वगुरुवर्यगणाधिनाथः ।
विप्रान् प्रतर्प्य तपनीयगवादि दत्वा मौहर्तिकोत्तमसमुक्तविविक्तलग्ने॥
स्वमतानुसारं देवप्रतिष्ठां कर्तुं शक्यते, केचन
तन्त्रसारोक्तरीत्या, अन्ये आगमप्रकारेण, अन्ये च वैदिकोक्तरीत्या कुर्वन्ति,
तत्तु
तेषामभीष्टम् । एवं ध्वजप्राकारादिस्थापनं पूजासमयः अपि देवप्रतिष्ठावसरे नियमेन
अनुसर्तव्यो भवेत्। तदा अस्माकं संस्कृतेः अङ्गभूतः देवालयः आस्तिकानाम् आत्मा
भवतीति निश्चयेन जानीमहे ।
तन्त्रसमुच्चये २४
प्रश्नशास्त्रोक्तः दीपलक्षणविचारः
डा. मुरलीकृष्ण टि. संविदाध्यापकः, ज्यौतिषविभागः,
राजीवगान्धीपरिसरः,
शृङ्गेरी, कर्णाटकम्
IN ME I IMTII MINI प्रश्नशास्त्रे निमित्तानां विशिष्टं
स्थानमुपकल्पितम् । अत्र दीपलक्षणमप्य] न्यतमम् । बृहत्संहितायाः चतुरशीतितमे
अध्याये यद्दीपलक्षणमुक्तं तत्प्रश्नमार्ग] कारेण प्रश्नमार्गे चतुर्थाध्यायस्य
षष्ठसप्तमाष्टमनवमश्लोकेषु सङ्ग्रहीतम् । प्रश्नकाले प्रज्वालितस्य दीपस्य
स्थितिमवलोक्य तत्कालप्राप्तैः विविधैः लक्षणैः पृष्टस्य प्रश्नस्य अथवा चिन्त्यमानस्य
विचारस्य फलनिर्देशः क्रियते । सर्वेषु देवमानुषादिप्रश्नेषु सर्वेषु कर्मसु च
दीपस्य प्रसादेन भविष्यतः शुभम् अप्रसादेन अशुभञ्च ज्ञायते । अतः दीपलक्षणं
सर्वस्य शुभाशुभफलस्य सूचकः स्यादित्युक्तं प्रश्नमार्गे
सर्वप्रश्नेषु सर्वेषु कर्मस्वपि विशेषतः।
प्रसादेनैव दीपस्य भविष्यच्छुभमादिशेत् ॥1 दीपस्य
अप्रसन्नतायाः ज्ञानम् प्रश्नकाले दैवज्ञः दीपप्रज्वालनार्थ मादिशति। यदि दीपस्य
ज्वाला अप्रदक्षिणावर्तयुता, मलिनकिरणान्विता मील]
कृष्णादिवर्णकिरणयुता] अग्निकणनिस्सरणशीला, स्वल्पप्रकाशयुक्ता
अथवा वर्ति] तैलयोः अमलत्वेऽपि ज्वलनाभावः, ज्वालितेऽपि
क्षिप्रनाशो दृश्यते तर्हि तदशुभ सूचकम् । एवमेव दीपः सशब्दः, कम्पायमानः,
विदीर्णज्वालायुतः,
पौनःपुन्येन
ज्वालितश्चेदपि मुहुर्मुहुः नष्टस्तर्हि अशुभफलसूचकः । तदुक्तं यथा प्रश्नमार्गे |
वामावर्तो मलिनकिरणः सस्फुलिङ्गोऽल्पमूर्तिः
1.प्रश्नमार्गः [14अ. 5लो.
সংড়ী:
69
क्षिप्रं नाशं व्रजति विमलस्नेहमूर्त्यन्वितोऽपि । दीपं पापं कथयति
फलं शब्दवान वेपथुश्च
व्यादीर्णार्चिविमलमसकृयश्च नाशं प्रयाति ॥2 दीपस्य
प्रसन्नतायाः ज्ञानम् पूर्वोक्तानाम् अशुभफलानां वैपरीत्ये ज्वालितः दीपः शुभफलसूचकः
ज्ञेयः। अर्थात् दीपशिखा यदा स्थूला, विस्तृतशरीरा, अकम्पमाना दृढा
च, शब्दरहिता, कान्तियुक्ता, प्रदक्षिणगतिका,
वैडूर्यवर्णसहिता,
हेमवर्णयुक्ता,
अवक्रा
च दृश्यते तदा तद्भाग्यवर्धकं स्यात्। एवम् अन्यान्यपि शुभाशुभफलानि अग्नेः
लक्षणाधारेण युक्त्या योज्या इत्युक्तम्। उक्तंहि प्रश्नमार्गे]
दीपः संहतमूर्त्तिरायततनुर्निर्वेपथुर्दीप्तिमान् । निश्शब्दो रुचिरः
प्रदक्षिणगतिर्वैडूर्यहमद्युतिः।
लक्ष्मी क्षिप्रमभिव्यक्ति रुचिरां यश्चोच्छिखो दृश्यते
शेष लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः॥3
पूर्वादिदिग्वलितया दीपशिखया शुभाशुभफलचिन्तनम् । दीपशिखा पूर्वदिग्वलिता दृष्टा
तदा सा अभीष्टप्राप्ति सूचयति। एवमेव अग्निकोणे अग्निभीति, दक्षिणे
प्राणहानि, नैर्ऋत्ये विस्मृति, पश्चिमे शान्ति, वायव्ये
ऐश्वर्यनाशम्, उत्तरे रोगशान्तिम्, ईशाने सुखञ्च सूचयति। तथा अग्निशिखा
ऊर्द्धगतिका दृष्टा तर्हि देहसौख्यम्अभीष्टवस्तूनां सिद्धिश्च सद्यःकाले
प्रदास्यतीति सूचयति।
देवतात्मस्वरूपः दीपः | प्रज्वालिते दीपे विद्यमानैः तैलं,
वर्तिः,
ज्वाला
इत्यादिभिः निमित्तैः पृच्छकस्य स्थितिं विजानीयात्। तत्रेयं युक्तिः । दीपे
विद्यमानं तैलं प्रष्टुर्देहः, तदुदरे विद्यमानः वर्त्तिः
प्रष्टुरात्मा, दीपज्वाला तदीयमायुः,दीपस्य
2.प्रश्नमार्गः ||4अ.6लो. 3.प्रश्नमार्गः
||4अ. 7श्लो. 4. द्रष्टव्यम् प्रश्नमार्गः 14अ.9लो.
षडझं ज्यौतिषम् विमलत्वं मलिनत्वञ्च क्रमशः
पृच्छकस्यसुखदुःखादिसूचकम् पात्रं गृहं, मृदुपरुषयुक्तः वायुः क्रमशः
बन्धुशत्रुस्वरूपश्चेति ज्ञेयः । एवं महादेवतात्मा सः दीपः पृच्छकस्य सम्पूर्णां
शुभाशुभस्थिति स्पष्टमवगमयति। अतस्तद्धीमता दैवज्ञेन स्वकीयां युक्तिमाश्रित्य
पृच्छकाय निवेदयेत्। अत्रेदं प्रश्नमार्गकारस्य वचनम्]
स्नेहो यस्येह देहो भवति तदुदरे वर्तिनी वर्तिरात्मा ज्वाला
चायुस्तदीये विमलमलिनते सौख्यदुःखे क्रमेण । पात्रं गेहं समीरो मूदुपरुषगुणो
बन्धुशत्रुस्वरूपः
प्रष्टुर्वृत्तं निकामं पिशुनयति महादेवतात्मा स दीपः ॥5
दीपलक्षणदर्शनेन फलचिन्तनार्थम् आश्रयणीया युक्तिः । दीपः पृच्छकस्य सकलं
वृत्तान्तं दर्शयति। अर्थात् पृच्छकस्य गुणदोषयोः सूचकः। तच्चिन्तनक्रमः साम्प्रतं
विशदीक्रियते। तैलेनप्रष्टुः देहस्य चिन्तनं कुर्यात्। अतःमलिनं तैलं पृच्छकस्य
शरीरस्य रोगसूचकम्। कीटयुक्तं तैलं कीटदष्टं शरीरसूचकम्। संक्षारितः दीपः रक्तस्य
मालिन्यं सूचयति। तैलस्य उष्णता शीतलता च क्रमशः पृच्छकशरीरस्य उष्णताधिक्य,
शैत्याधिक्यञ्च
सूचयति। केनापि प्रकारेण दोषरहितं शुभ्रं तैलं पृच्छकशरीरस्य स्वास्थ्यस्थिति
बोधयति। तैलाधिक्ये प्रष्टुः शरीरं पुष्टं, तैलाल्पत्वे
अपुष्टञ्चेति चिन्तनीयम्। वर्त्या प्रष्टुःआत्मनः चिन्तनं कर्तव्यम्। वर्तिः
मलिनस्तर्हि बुद्धिमान्द्यसूचकः। वर्तिकायाः कृशत्वे शरीरस्यापि कृशत्वं, स्थूलत्वे
शरीरस्यापि स्थूलत्वं चिन्तनीयम्। ग्रन्थियुक्तः वर्तिः प्रष्टुः शरीरमनसोः
अस्वास्थ्य सूचयति। तैलस्य वर्तिकायाश्च शुभ्रता प्रष्टुः शुद्धान्तःकरणं
दृढशरीरञ्च बोधयति। दीपज्वालयापृच्छकस्य आयुः विजानीयात्।
___ दीर्घा दृढा वर्तुलाकारा च ज्वाला दीर्घायुः सूचयति। ज्वाला अस्थिरा
अल्पा चेदल्पायुः। आदौ ज्वालायाः ज्वलनाधिक्यं ततः क्रमशः अल्पता च दृष्ट
5.प्रश्नमार्गः ||4अ. 8लो.
प्रश्नः
71
तर्हि आयुःक्षीणता। तद्वैपरीत्येन आयुर्वृद्धिश्च। ज्वालायाः
विमलमलिनते क्रमेण प्रष्टुः सौख्यं दुःखञ्च दर्शयति। ज्वालायाः विमलतायां प्रष्टा
सुखी, तन्मालिन्ये दुःखी च। दीपपात्रं पृच्छकस्य गृहं दर्शयति। दीपपात्रस्य
पृथुत्वे गृहस्य विशालत्वं,
औन्नत्ये गृहौन्नत्यं, शुद्धौ गृहशुद्धिश्च चिन्त्यम्।
सुन्दरं दीपपात्रं गृहसौन्दर्य] सूचकम्। भग्नं पात्रं भग्नगृहं, मालिन्ययुतं
पात्रं मलिनगृहं, केशादियुक्तं पात्रं शल्ययुक्तं गृहञ्चेति दर्शयति। भग्नस्य पात्रस्य
योजनं दृष्टञ्चेत् भग्नं गृहं समीकृतमिति ज्ञेयम्। दीपस्य
देशाद्देशान्तरनयनदर्शनेन पृच्छकस्य मूलगृहमन्यदस्ति, इदं तद्भिन्नं
तदनन्तरकालिकं गृहमिति चिन्त्यम्। दीपाधारः बलिष्ठे बलिष्ठः गृहाधारः। तथाच
आधारस्य बलिष्ठता दीपस्य ऊर्ध्वभागस्य निर्बलता च दृष्टा चेद्गृहाधारस्य
बलवत्वेऽपि गृहच्छद्याः निर्बलतां वक्तव्यम्। दीपे तैलनिपातः दृष्टे जलप्राप्तेः
सूचकः। मृदुगुणयुक्तस्य वायुप्रवाहस्य दर्शनात् बन्धूनां साहाय्यं चिन्त्यम्।
परुषगुणात् वायुप्रवाहात् ज्वालायाः वलनदर्शनात् शत्रुभीतिश्चिन्त्या। दीपस्य यः
भागः मलिनः दृष्टः प्रष्टुर्गृहस्य तद्भागे दोषः चिन्त्यः। दीपस्य पार्श्वे
आयुधानां स्थित्याअस्थ्यादिशल्यानां चिन्तनं कुर्यात्। एवमेते केचन दीपलक्षणेन
चिन्तनीयाः विषयाः। उपसंहारः
स्नेहो यस्येह देहे... इत्ययं श्लोकः दीपस्याधारेण ज्ञातव्यानंशान्
स्थूलरूपेण बोधयति। अत एव प्रश्नमार्गकारः श्लोकान्ते यथाह | शेष
लक्षणमग्निलक्षणसमं योज्यं यथा युक्तितः इति। अर्थाद्दीपलक्षणेन प्रष्टुः
शुभाशुभस्थितिं स्वप्रतिभाविशेषेण गुरूपदिष्टमार्गेण च युक्तिपूर्वकं विज्ञाय
उपदेष्टव्यम्। इतःपूर्वं तस्य विवेचनं दिङ्मात्रं विहितम्। प्रश्नसन्दर्भ
दैवज्ञस्य प्रतिभाञ्च अनुसृत्य इतोऽपि विस्तृत प्रबुद्धं विवेचनमस्मिन् विषये
भवितुमर्हति।
प्रश्नकाले दैवज्ञेन विचारणीयविषयाः
डा. सुधांशुकुमारनन्दः संविदाध्यापकः, वास्तुडिप्लोमाविभागः,
राजीवगान्धीपरिसरः
शृङ्गेरी, कर्णाटकम् OILDLIDIDIODDILDITI ज्योतिषशास्त्रे
प्रश्नशास्त्रस्य महत्वपूर्ण स्थानं विद्यते । जन्मकालिकग्रह] स्थितिं विज्ञाय
यद्यपि पूर्वार्जितकर्मविशेषाणां शुभाशुभफलं समुपदेष्टुं जातकमेव पर्याप्तम् ।
तथापि मनसि शङ्का उदेति यत् जातके स्थिते सति प्रश्नस्य का वा आवश्य कता | तदा
एवं समाधेयं यत् कदाचित् किमपि अमूल्यं वस्तु नष्टं, चौर्य सञ्जातम्,
युद्धे
कस्य जयः | उद्दिष्टस्य कार्यस्य सिद्धिर्भवति वा [ वर्तमानकाले अनुभूयमा मस्य
दैहिकमानसिकश्रमस्य किं कारणम् | इत्यादिविषयाः अत्र प्रतिपाद्यन्ते।
यः ज्योतिषशास्त्रं सम्यग्रूपेण जानाति सः दैवज्ञ इति उच्यते । तत्र
दैवज्ञस्य अपेक्षिताः गुणाः बृहसंहितायां वर्णिताः सन्ति । यथा शुचिर्दक्षः,
प्रगल्भो,
वाग्मी
प्रतिभानवान् देशकालवित्सात्त्विको न पर्षद्भीरुः सहाध्यायिभिरन] भिभवनीयः
इत्यादिरूपेण।
प्रश्नमार्गे प्रश्नविचारसमये दैवज्ञः कालः, देशः, श्वासः,
स्पर्शः,
आरूढ
राशि, शकुनादिषु स्वदृष्टिं निक्षिप्य पृच्छकस्य समाधानं दद्यादित्युक्तम्
। तद्यथा |
दैवज्ञेन समाहितेन समयो देशः स्वायुर्दशा। प्रष्टुः
स्पर्शनमाश्रितक्षहरितौ प्रश्नाक्षरणि स्थितिः ॥ चेष्टाभावविलोकने च वसनाद्यन्यच्च
तत्कालज । पृच्छायाः समये तदेतदखिलं ज्ञेयं हि वक्तुं फलम् ॥ इति॥
মহo:
इदानीं उपर्युक्तविषयाणां संक्षिप्तपरिचयः प्रदीयते । कालः | अवसरेऽस्मिन्
कालस्य समय इति प्रयोगः । पृच्छकः यदा प्रश्नं करोति तस्मिन्समये प्रश्नलग्नादिकं
संसाध्य फलमादिशति । कदाचिच्च दैवज्ञाः कालस्य प्रातः, मध्याह्नः,
सायं
रात्रिः वेति स्वीकृत्य प्रभाते वाञ्छितं पुष्पं मध्याह्ने फलवाञ्छितम्, सायाह्ने
देवनामस्तु रात्रौ तु नदीनामकम् इत्यादिना झटिति एव कार्यसिद्ध्यादिकं प्रश्नानां
समाधानं यच्छति।। देशः | यस्मिन् स्थाने स्थित्वा प्रष्टा
प्रश्नं करोति तत् स्थानं देश इत्यभिधीयते । प्रश्नशास्त्र कस्मिन् स्थले प्रश्नः
कर्तव्यः कुत्र न कर्तव्यः इति वर्णितमस्ति । प्रश्नस्य फलं स्थानस्य पवित्रता
अपवित्रताधारेण भवति । पवित्रस्थले कृतप्रश्नस्य सिद्धिः, अपवित्रस्थले
यस्यार्थे प्रश्नः कृतः तस्य असिद्धिः इति ज्ञेयम् । श्वासः | स्वशरीरे
प्रचलितस्य श्वासस्य गतिं विलोक्य या विचारप्रक्रिया प्रश्नशास्त्रे विहिताऽस्ति
सा श्वासविचारप्रक्रिया इति ज्ञायते । स्पर्शः | पृच्छकः
प्रश्नसमये यदङ्गं स्पृशतीति ज्ञात्वा तद्वारा फलनिर्णयप्रक्रिया। आरूढराशिः |
आरूढचक्रे
यत्र पृच्छकः उपविशति अथवा स्वयं स्वर्णखण्डेन चक्रस्य यं राशिं स्पृशति
तदारूढराशिः । तद्वारा प्रश्नशास्त्रे फलविचारः विधीयते । प्रश्नाक्षरम् | प्रश्नसमये
प्रष्टुः आद्यक्षरानुसारेण फलविचारः क्रियते। स्थितिः || प्रश्नसमये
पृच्छकस्य स्थितिः ।
चेष्टा | प्रश्नसमये पृच्छकेन कृताङ्गभङ्ग्यादि । भावः | प्रष्टुः
मनोभावः कीदृशः इति । विलोकनम् | प्रश्नकर्तुः दृष्टिः कुत्रास्ति ।
वस्त्रम् | तेन धृतं वस्त्र, तस्य
वर्णः, अलङ्कारादिभूषणानि दृष्ट्वा फलं विचार्यते । शकुनम् | तात्कालिकनिमितानि।
प्रश्नविचारसमये दैवज्ञः उपर्युक्तविषयान् सम्यक् परिशील्य फलमादिशति
चेत् तस्य स्पष्टता आगमिष्यति ।
मिहिरोक्तद्रेक्काणलक्षणैः देवताप्रभेदचिन्तनम्
विद्वान् विनायकभट्टः परियोजनासहायकः, ज्यौतिषविभागः
राजीवगान्धीपरिसरः
शृङ्गेरी,कर्णाटकम्
NITI MUONTB3/I1 MTI ज्योतिश्शास्त्रवनपञ्चाननेति विश्रुतः
वराहमिहिराचार्यः बृहज्जातकाख्यं प्रमाणभूतं ग्रन्थरत्नं विरचय्य सहृदयहृदयाकाशे
मिहिरायते । स्विल्प वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं प्रारभे| इति
प्रतिज्ञायैव मिहिराचार्यः बृहज्जातकस्यारम्भं चकार । अस्य अर्थबहुलत्वं
प्रश्नशास्त्रेऽपि महदुपकारं करोतीति बहूनां टीकाकाराणां मतम् । तस्मादत्र
मिहिरोक्तद्रेक्काणलक्षणैः देवताप्रभेदचिन्तनं कथमिति किञ्चिन्निरूप्यते।
देवप्रश्नचिन्तनावसरे लग्नाद्विम्बम्, सानिध्यमथबिम्बञ्च
पञ्चमेनाऽपि चिन्त्यताम् इति प्रकारेण क्रमः विद्यते । चिन्तनावसरे फलितांशानां
स्पष्टी|| करणार्थं द्रेक्काणस्वरूपः प्रयोजनकरः । बृहज्जातकस्य
उपान्तिमाध्याये मिहिराचार्येण श्लोकाः निर्दिष्टाः । चोरप्रश्नेऽपि अस्य उपयोगः
विद्यते । तत्रोक्त श्लोकानामाधारेण देवताचिन्तनप्रकारस्तु यथा | मेषराशिः
प्रथमद्रेकाणः = परशुं समुद्यतं इत्युक्तत्वात् परशुरामः । द्वितीयद्रेक्काणः ==
वाजिमुखी इत्युक्तत्वात् हयग्रीवः तथा अश्वारूढापार्वती । तृतीयद्रेक्काणः =
भग्नव्रत इत्यनेन विश्वामित्रः कपिलमुनिश्च ग्राह्यौ ।
'बृहज्जातकम् १.२
बृहज्जातकम् २४. १३
प्रश्नः
वृषभराशिः प्रथमद्रेक्काणः = नारी इत्यनेन कन्याकुमारीचिन्तनम् ।
द्वितीयद्रेक्काणः = गोपतितुल्येति उक्तत्वात् बलरामस्य चिन्तनम् ।
तृतीयद्रेक्काणः = द्विपसमकायः गणपतिः तथा शरभसमात्रिः शरभेश्वरः ।
मिथुनराशिः
प्रथमद्रेक्काणः = सूच्याश्रयं समभिवाञ्छति इति आयुधधारिणी स्त्रीदेवता
। द्वितीयद्रेक्काणः = गरुडानन इत्यस्मात् गरुडवाहनः कृष्णः ।
तृतीयद्रेक्काणः = वरुण इत्यस्मात् वरुणः । बद्धतूणकवचस्सधनुष्कः
श्रीरामः । कर्कराशिः प्रथमद्रेकाणः = द्विपकायः गणपतिः, क्रोढतुल्यवदनः
वराहमूर्तिः, हयकण्ठः हयग्रीवश्च । द्वितीयरेक्काणः = पद्मार्चिता पद्मावती,
अरण्यगता
वनदुर्गा च इति विचिन्त्यम् ।
तृतीयद्रेक्काणः - नौस्थः मत्स्यमूर्तिः, सर्पवेष्टितः
रुद्रः, अथवा नागः । सिंहराशिः प्रथमद्रेक्काणः = श्वानरः दत्तात्रेयः,
अभ्रेत्यस्मात्
गरुडः, तथा वनदेवताः । द्वितीयद्रेक्काणः = हयाकृतिः हयवदनः, बिभर्ति
कृष्णाजिनम् इति वामनः, सिंहस्तु नरसिंहः इत्येवं चिन्तनम् । तृतीयद्रेकाणः =
वानरतुल्यचेष्टः मुख्यप्राणः, मृगेश्वरः शंकरः ।
N
'बृहज्जातकम् २४.४ 2बृहज्जातकम् २४. ३ बृहज्जातकम् २४.१०२ 'बृहज्जातकम्
२४.१३१५
षडझं ज्यौतिषम् कन्याराशिः प्रथमद्रेक्काणः = कन्या इत्यस्मात्
कन्याकुमारी, गुरोः कुलमभिवाञ्छति नारी इत्यस्मात् अहल्या, रेणुकानां
चिन्तनम् विहितम् । द्वितीयरेक्काणः = प्रगृहीतलेखनीति गणपतिः, बिभर्ति
कार्मुकमिति कोदण्डरामः।
तृतीयद्रेकाणः = गौरी, तथा सुधौतादुकूल इत्यस्मात् पद्मावती
चिन्तनम् । तुलाराशिः प्रथमद्रेक्काणः = प्रतिमानहस्त इत्यस्मात्
पाण्डुरङ्गविट्ठलः चिन्त्यः । द्वितीयद्रेक्काणः = गृध्रमुक इत्युक्तत्वात् गरुडः,
अथवा
गरुडवाहनः श्रीनिवासः। तृतीयद्रेक्काणः = वने मृगान् विभीषयति इति किरातेश्वरः,
वानररूपभृत्
हनूमान् इति विचिन्त्यम् । वृश्चिकराशिः प्रथमद्रेक्काणः = सर्पनिबद्ध
इत्युक्तत्वात् नागयक्षी, सर्पराजश्च चिन्त्यौ ।
द्वितीयद्रेक्काणः = भुजगावृतदेहा इति सार्पराज्ञी, कच्छप इति
कूर्ममूर्तिः । तृतीयद्रेक्काणः = कूर्ममूर्तिः, श्वमृग इति
दत्तात्रेयः, मृगपतिरित्यस्मात् नरसिंहः । धनूराशि: प्रथमद्रेक्काणः =
धनुर्विगृह्येति श्रीरामः, तपस्विन इति कपिल विश्वामित्रादयः ।
द्वितीयरेक्काणः = मनोरमा चम्पकहेमवर्णेति लक्ष्मीः,त्रिपुरसुन्दरी,
अम्बिकादयः।
तृतीयरेक्काणः = दण्दधरः परमेश्वरः, कौशेयकानुद्वहते इति ऋषीणां चिन्तनम् ।
मकरराशिः
1 बृहज्जातकम् २४.१६१८
बृहज्जातकम् २४. १९२१
बृहज्जातकम् २४.२२ २४ 4 बृहज्जातकम् २४. २५/२० बृहज्जातकम्
२४.२८९०
प्रश्नः
प्रथमद्रेक्काणः = सूकरकाय इति वराहमूर्तिः, जालबन्धनधारीति
नन्दीशः, दुर्मुखो वीरभद्रेति ऊह्यम्। द्वितीयद्रेक्काणः = अब्जदलायताक्षी
लक्ष्मीः, श्यामा इति श्यामलादेवी चिन्तनम् । तृतीयद्रेक्काणः = कुम्भमुद्वहति
इति अगत्स्यः, कल्किलक्षणमपि अत्रास्ति । कुम्भराशिः प्रथमद्रेक्काणः = अत्र
गृध्रतुल्यवदनो इति गरुडस्य चिन्तनम् । द्वितीयद्रेक्काणः = दग्धे शकटे इति
शकटासुरभञ्जनः, अङ्गना वने इति
दैत्यमर्दिनी। तृतीयद्रेक्काणः = भाण्डानि लोहव्यतिमिश्रितानीति
धन्वन्तरेः चिन्तनम् क्रियते । मीनराशि: प्रथमद्रेक्काणः = शङ्खमिचैरिति
शङ्खचक्रपाणिः महाविष्णोः चिन्तनं विहितम् । द्वितीयरेक्काणः = जलधेः
परिवारयुक्तेति जलदुर्गा, चम्पकमुखेति शान्तादुर्गा ।
तृतीयद्रेकाणः - सर्पनिवेष्टिताङ्ग इति शिवः, वस्त्रविहीनेति
जैनसंन्यासिनः चिन्त्याः। उपसंहारः
एवमत्र देवताभेदाः प्रपञ्चिताः । देवतानिर्णयाय
प्रश्नमार्गादिशास्त्र समाश्रयणीयम् । अत्रोक्तं लक्षणं | इदम् अन्यतमम्
इति स्वीकृत्य लक्षणबाहुल्याद् विद्यमाननिर्णय आदेष्टव्यः । स्फुटमिह भवति
द्वित्रसंवादभावात् इति फलचिन्तनं स्पष्टं भवति । ग्रहस्थितिवशात्
देवताचिन्तनावसरे फलस्पष्टीक] रणार्थं तथा देवता स्वरूपस्य, आयुधाभरणादीनां
चिन्तनार्थं च द्रेकणस्योपयोगः । अत्र निरूपितानां समेषां विषयानाम् उपलब्धिरेव
वासना इति शम् ।
'बृहज्जातकम् २४.३१ १३ बृहज्जातकम् २४.३४१६
शरनिरूपणम्
विद्वान् सुब्रह्मण्यभट्टः
शोधच्छात्रः राजीवगान्धीपरिसरः,
शृङ्गेरी ,कर्णाटकम् DO T: (NO TIM DO TATTI अथ दैवज्ञेन
समाहितेन समयो देशः स्ववायुः ....| इत्यादिना पद्येन पृच्छासमये, आलोके
खल्वि'त्यादिलक्षणलक्षितेन दैवज्ञेन फलादेशाय अवश्य ज्ञेयत्वेन कथितेषु
पञ्चदशसु विषयेषु निजश्वासोऽप्यन्यतमः । आत्मावस्था सदृशमखिलं पृच्छकस्यापि
वाच्यमि त्यतः स्वश्वासस्थितिमप्याश्रित्य पृच्छकस्य फलकथनमित्ययं शास्त्रीय एव
पन्थाः । इदञ्च श्वासपरीक्षणं दैवज्ञेन प्रतिदिन प्रातः कार्यम् । तत्र वायोः
इडादिगतिरपि ज्ञेया । इडा वामा भवेन्नाडी, दक्षिणा पिङ्गलाख्या इति नाड्योः
संज्ञा । तृतीया नाडी अपि विद्यते सुषुम्नाख्या योगशास्त्रोक्ता । अस्याः अत्र
मध्यमेति संज्ञा । रन्ध्रद्वयेन निर्विशेषं निर्गमे मध्य मत्वम् इति व्याख्याकारः
। एवं नाडीषु वायुसञ्चारपरीक्षणे कृते बुधगुरुशुक्रचन्द्र[] वारेषु वामे
चरन्मारुतः शुभदः, इतरेषु दिनेषु पिङ्गलायां शुभः, विपरीते विपरीतः
। अत्र शुभाशुभफलं वपुस्स्वास्थ्य अर्थागम मृष्टभोजनतः विण्मोक्षपर्यन्तेष्वपि
विषयेषु चिन्त्यमिति शास्त्रविदां मतम् । सूर्यादिषु वासरेषु प्रतिकूले श्वासे
क्रमात् वपुर्वेदना कलह मरण दूरप्रयाण राज्यापत कार्यासिद्धि भूमिनाशादिकञ्च फलं
वाच्यम् । सदागतिः सन्तततया भान्वादीनां वासराष्टके विपरीतसञ्चारी क्रमेण
'प्रश्नमार्गः [.१२
आलोकेखलुयस्यकस्यचिदसावायातियत्किञ्चनप्रष्टुं मां प्रति
नूनमित्यवहितस्तन्यस्तदृष्टिदृढम् । तच्चेष्टादिकमाकलय्य सकलं तत्कालजातं
पुनर्जानीयात्सदसन्निमित्तमपि च स्वासस्थितिंचात्मनः ॥ प्रश्नमार्गः २.०२
प्रश्नमार्गः २.४४
प्रश्नः
79 गुरुनाश पुत्रापत्ति अरिबन्धन स्वमरण स्वगुरुमृति मूहेतुकधननाश
मार्यागृह[] नाशादिकं पिशुनयति ।
अथ श्वासस्य दैर्घ्यमानेन पृथिव्यादिषु पञ्चसु तत्सञ्चारं
निर्धारयेत् । दक्षिणहस्तं नासादण्डमध्ये विन्यस्य श्वासं बहिरवतार्य वामया वा
दक्षिणया नाड्या श्वासोऽधिकं बहिरगमदिति परीक्ष्यम् । तस्य श्वासस्य दैर्घ्यमपि
सूक्ष्मतया परीक्षेत। आगतो वायुः यदि षोडशाङ्गुलः तर्हि तत्र पृथिवी भूतमिति,
द्वादशाङ्गुले
आप इति, अष्टाङ्गुलमिते तेजः इति, मारुत इति षडङ्गुलमिते, त्र्यङ्गुलमिते
आकाश इत्येवं वायोः भूतसजारक्रमः । एवं भूतेषु वायोः सञ्चारे ज्ञाते पक्षेऽच्छे
खलु पक्षतौ क्षितिरिडायातोन्नमन्मन्दिरम्
वह्निर्वारिभयायुधक्षतिशरीरारुर्गृहप्लोषणम्.. इत्यादि फलं वाच्यम्।
एवमुभयनाड्योरिदं समं फलं, किन्तु संहतदीर्घः श्वास एव] शुभदः,
विशीर्णाग्रः
सर्वथा अशुभः इति मन्तव्यम् । एतच्च प्रश्नसामान्यविषयम् ।
नष्टप्रश्ने तु ] वायोः पृथिव्यादिषु अवस्थितिश्चेत्नष्टवस्तुक्रमात्
भूजल भूपृष्ठ धूम ऊर्ध्वदेशेषु वा पूर्व दक्षिण पश्चिम सौम्यदिक्षु आकाशे तु मध्ये
वा तत्रैव अस्तीति वाच्यम्।
रोगप्रश्ने तु, दक्षभागगः पुरुषः कश्चिद्वा रोगी यदि
पृच्छति दैवज्ञस्य वायुसञ्चारोऽपि तदा दक्षिणे तर्हि स रोगी चिरञ्जीवति, यदि
पुरुषो रोगी । स्त्री चेद्रोगिणी वामस्थिता अथवा कश्चन वामस्थः पृच्छति, वायुरपि
इडासञ्चारी तदा शुभं वाच्यम् । पृच्छके दक्षिणस्थे वायौ इडास्थे वा वायौ
दक्षिणस्थे पृच्छके वामस्थिते रोगस्य कृच्छ्रसाध्यत्वं वाच्यम् । तथा
उच्छ्वासद्वारा अन्तर्गते वायौ पृच्छति सति रोगी जीवति, निःश्वासेन
बहिर्गते वायौ चेत्पृच्छा रोगी म्रियते इति वक्तव्यम् । अनुष्ठानपद्धतौ तु
पुंस्त्री अभेदेन वायुसंयुते दिशिपृच्छकस्य अवस्थानं जीविताय भवतीति ।
मरणसूचकशकुनाभावे दूतमारुतयोरेकदिक्त्वं जीवदम्
'प्रश्नमार्गः ३८३६.२
४॥
षडङ्गं ज्यौतिषम् अन्यथा नाम लयलिङ्गश्रवणाद्यभावे वा तत्सद्भावे
दूतमारुतयोभिन्नदिक्त्वं मृतिप्रदम्। चरः पृष्टा पृच्छानन्तरं दैवज्ञश्वासदिशि
तिष्ठति चेदपि रोगनाशो वदनीयः ।
गर्भप्रश्ने तु | केवलं गर्भिणी दर्शनात्तत्काले वायौ
दक्षिणे सति पुमान्, वामे सति स्त्री, मध्ये सुषुम्नायां निर्जीवापत्यं
वाच्यम् । गर्भिण्यापृष्टे सा श्वासदिशि अस्ति चेत्पुमान्, वायुशून्यदिशि
स्त्री, द्वयोर्यदि वायुः तर्हि युगलमिति वदेत् । पृच्छाकाले
वायोराकाशसञ्चारे शिशुमृतिर्वाच्या । वायुयुक्तदिशि पृष्ट्वा समनन्तरमेव
वायुरहितदिशि तिष्ठति चेदपि असत्प्रजा वाच्या।।
देवप्रश्नेऽपि शरनिरूपणं कार्यम् । देवेन देवो दूतेन देवतायतन
क्रमात् ।' इत्यतः श्वासस्थित्या देवं, दूतेन देवालयं, एनयोरैक्ये
देवसान्निध्यवृद्धिं च चिन्तयेत् । श्वासदिशि दूतसंस्थे सान्निध्यवृद्धिम्,
अन्यथा
अशुद्धिमादिशेत् । शुक्लपक्षे, शुभवासरे च इडा शुभा, इतरेषु
पिङ्गला शुभा । यदि नाडी दूतसहिता तर्हि अखिलकला परिपूर्णत्वं देवस्य वाच्यम्
इत्येवं शरफलं देवप्रश्ने।
इडानाडी निर्गमे, पिङ्गला प्रवेशने शुभा । अर्थात्
वामनासारन्ध्रेण श्वासनिर्गमनकाले स्वगृहात्प्रस्थाय दक्षनासावायुसञ्चारकाले
राजगृहादिप्रवेशनं सर्वाभीष्टसिद्धिं करोतीत्यर्थः ॥
एवं विवादे द्यूतयुद्धे च स्नानभोजनमैथुने । व्यवहारे भये भङ्गे
भानुनाडी प्रशस्यते ॥ यात्रादानविवाहेषु वस्त्रालङ्कारभूषणे । शुभे सन्धौ प्रवेशे
च वामनाडी प्रशस्यते ॥ इत्यादिभिः अनेकैः वचनैः अङ्कयुद्धादिप्रकरणभेदेन श्वासफलं
बहूक्तं प्रश्नमार्गादिषु उद्ग्रन्थेषु । तदत्र विस्तरभयान्नोल्लिख्यते मया इति
शम् ॥
'प्रश्नसङ्ग्रहः १०१.८
प्रश्नमार्गः || २.५६/५७
निमित्तविमर्शः
विद्वान् रामकृष्ण उडुपः
शोधसहायकः, SMSP संस्कृतसंशोधनकेन्द्रम्
उडुपी, कर्णाटकम् IO III: ramakrishna moodary@gmail.com निर्
उपसर्गपूर्वक जिमिदा स्नेहने धातोः क्त प्रत्यये सति निमित्तमिति रूपं हेतुः
कारणमित्यर्थे सिध्यति । प्रश्नमुहूर्त्तादिषु तिथिवारनक्षत्रयोगकरणानि, ग्रहाणां
स्थितिश्च प्रधानं पात्रं वहति । तथा तैः प्रश्नस्य चिन्तनं मुहूर्त्तस्य
शुभाशुभत्वं वा यदा निर्णीयते तदा कानिचन कारणानि तस्य पुष्टिं कुर्वन्ति । तथा
काश्चन घटनाः स्वयं फलं प्रदर्शयन्ति । तानि कारणानि, ताः घटनाश्च
निमित्त शब्देन व्यपदिश्यन्ते । तत् लोके शकुनमिति प्रसिद्धम् । बहवः आचार्याः
निमित्तविषयान् स्वग्रन्थेषु प्रोक्तवन्तः ।
___ ग्रहाः देवताः, पूर्वजन्मकृतशुभाशुभकर्मफलसूचकाः,
प्रदातारश्च
। अतः तैः फलनिरूपणं शास्त्रीयं स्यात् । किन्तु निमित्तानि ग्रहैरेव नैव
सूच्यन्ते । अतः निमित्तानि यदा दृश्यन्ते तद्वशात् शुभाशुभफलकथनं शास्त्रीयं कथं
स्यादिति प्रश्ने सति तान्यपि अस्माकं पूर्वार्जितकर्मसूचकानीति वराहादयः
निरूपयन्ति, यथा ||
अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । यत्तस्य शकुनः पाकं
निवेदयति गच्छताम् ॥ बृ.सं.८६.५ अन्यजन्मकृतं पुंसां सर्वं कर्म शुभाशुभम् ।
यत्तस्य शकुनः पाकं निवेदयत पृच्छताम् ॥ प्र.मा.३.६
अतः निमित्तान्यपि स्वयमेव फलप्रदाने समर्थानि भवन्ति । प्रश्नेषु
मुहूर्तेषु च अस्य संवादात् शुभाशुभफलपक्वत्वं भजते ।अतः प्रश्नादिषु सर्वत्र
निमित्तानि उपयुज्यन्ते।
82
षडङ्गं ज्यौतिषम्
शुभशकुनानि । अशुभशकुनानि वीणा मणु मृदङ्गादीनां मङ्गलकरध्वनयः,
गानं,
कार्पासः,
औषधम्,
कृष्णधान्यम्,
लवणम्,
मङ्गल्वस्तूनि,
स्त्रियः,
वेश्याः,
दधि,
अक्षताः,
इक्षुः,
| जालः,
भस्म,
अङ्गारः,
अयः,
तक्रम्,
सर्पः,
दूर्वा,
चामरः,
पूर्णकुम्भः,
कुसुमानि,
माला,
फलम्,
दुर्गन्धः,
मलः,
भ्रान्तः,
जडः,
अन्धः,
कन्यका,
घण्टा,
दीपः,
कमलम्,
छत्रम्,
तोरणम्,
| मूकः,
बधिरः,
क्लीबः,
सन्यासी,
वाहनम्,
देवस्तुतिः,
वेदघोषः,
बबैकपशुः,
दर्पणम्,
| दुःखसूचकशब्दाः,
क्षुतम्,
पतनम्,
सुवर्णम्,
वत्सेन
सहिता गौः, भक्ष्यम्, पण्डितः, पूजास्थानादीनां पतनम्, वस्त्र छत्र] श्रोतृनयनयोः मनसश्च
इष्टं वस्तु, वराह गोधा सर्प] | पादरक्षादीनां क्षतिः, नाशसूचकवाक्यानि,
उलूकादि
पर्यायशब्दानां श्रवणम्, कपि ऋक्षादीनां क्रूरमृगाणां पक्षिणां
च शब्दः, दीपस्य दर्शनम्, शब्दश्रवणं वा, गज अश्व
वृषभादीनां | नाशः, पूर्णकुम्भस्य पतनम्, वामे मार्जार] दर्शनं शब्दश्रवणं वा,
भारद्वाज
भज मयूराणां | डुण्डुभहलूक छडादीनां दर्शनम्, दक्षिणे नकुल
बाषयोरपि दर्शनं कीर्तनं शब्दश्रवणम्, | कस्यापि क्षुतादिकम्, वामे
गोळ्याः रुतम्, विषमसंख्याकमृगमकुल पक्षिणां प्रदक्षिणगमनम्, | बराह
गोधा सर्प हलूकादीनां दर्शनं, पुरुषसंज्ञकानां कोकिल सूकरी पल्ली
हलूक चेटिका | शब्दश्रवणं बा, कपि ऋक्षादिशब्दकथनम्,
छच्छुन्दरीकलहकारिका पोतकी गिालकानां | पितृपुष्पादीनाम्
आहरणम्, तिलः, नूतनं वामभागे स्थितिः, आममांसः मद्यं मधु घृतम् | वस्त्रम्,
दर्भाः,
मरणानन्तरापेक्ष्यद्रव्याणि,
श्वेतवस्त्रम्,
गन्धद्रव्याणि,
रत्नानि
राजा, संवर्धमानः | पुरतः सरटस्य दर्शनम्, आगच्छ,
तिष्ठ
पुरुषः, देवताविग्रहः, श्वेतचामरः, स्निग्धान्नम्,
| इत्यादिवाक्यश्रवणम्,
पाषाणादिषु
स्निग्धपानम्, शवः, ब्राह्मणौ, ज्वलदग्निः पादस्वलनम् इत्यादीनि ।
एते शकुनाः ग्राम अरण्य जल पृथ्वी आकाश दिन रात्रि भयकालेषु
सञ्चरन्तः इति प्राणिनां स्त्री ममपुंसकविभागाच्च ज्ञात्वा तद्वशात् फलं ज्ञेयं
स्यात् । सामान्यतया लोकादेवास्य ज्ञानं प्राप्नुयात् ।
1 प्र.मा.२.१३३ १५७, ३.१३२५
प्र.मा.२.१५७ प्र.मा.३.१० बृ.सं.८६.१२ १३ १४
रवेः दिक्
निमित्तम्
83 शकुनदर्शनफलं कस्य स्यादिति प्रश्ने | शकुनावसरे
मार्गे एकैव गच्छति चेत् तस्यैव फलम् । सैन्यस्य प्रयाणे शकुनफलं राज्ञः स्यात् ।
नगरे जातशकुन] फलं नगरदेवतायाः स्यात् । प्रयाणिकेषु बहुषु तेषु यो प्रधानः तस्य,
तेषु
साम्येषु जातिविद्यावयस्सु यो आधिक्ययुतः तस्य कृते निमित्तस्य फलं स्यात् ।
प्रश्नेषु सामान्यतया शकुनानां फलं पृच्छकस्य एवं। शकुनसम्भवकालः शकुनसम्भूत
दिग्वशात् विज्ञेयः । सूर्यस्य सञ्चारः प्रतिदिनं पूर्वादिदिक्षु भवति । रविः
सूर्योदया] त्प्रभृति सार्धसप्तघटीभिः एकैकां दिशं प्राप्नोति । तासु रविमुक्ता
दिक् अङ्गारः, सूर्य स्थिता दिक् दीप्ता, अग्रिमा धूमिनी, अन्याः शान्ताः
इति संज्ञाकाः । तद्यथा ||
सूर्योदयादिघटिकाः | __[३० घटिकापर्यन्तम्
पूर्वा १५०० घटिकापर्यन्तम्
आग्नेय्या २२[३० घटिकापर्यन्तम्
दक्षिणा ३००० घटिकापर्यन्तम् ३७[३० घटिकापर्यन्तम्
पश्चिमा ४५०० घटिकापर्यन्तम् ५२[३० घटिकापर्यन्तम् ६०००
घटिकापर्यन्तम्
ईशान्या शकुनसम्भूतकालस्य अङ्गारादि संज्ञाः क्रमात् भूत वर्तमान
भविष्य त्कालफलदाः भवन्ति । शान्तदिशि पूर्वार्धे भविष्ये उत्तरार्धे भूतकाले फलं
स्यात्।
नैऋत्या
वायव्या
उत्तरा
'बृ.सं.८६.११ 2 प्र.मा.२.१२
84
षडज्यौतिषम
दीप्तः
दीप्तः
वायव्या
उदयरविवशात् सज्ञाः फलस्य कालः
वर्तमानकाले फलम् आग्नेय्या
धूमिनी
भविष्यत्काले फलम
दक्षिणा
शान्ता पूर्वार्धे भविष्ये उत्तरार्धे भूतकाले फलम्
नैऋत्या
अङ्गारः
भूतकाले फलम् पश्चिमा
वर्तमानकाले फलम् धूमिनी
भविष्यत्काले फलम्
उत्तरा
शान्ता पूर्वार्धे भविष्ये उत्तरार्धे भूतकाले फलम् ईशान्या
अङ्गारः
भूतकाले फलम् दृष्टं शकुनं शुभ वा अशुभं वा इति प्रश्नेषु
दूतस्यारूढलग्नात् प्रश्नलग्नाद्वा सप्तमस्थ|| शुभाशुभग्रहैः
निर्णीयते । तत्र पुनः दशप्रकारकदीप्ताः शकुनाः शुभदाः । ते तु || दीप्तशकुनः
लक्षणम् क्षणदीप्तः । दारुण मूलेन्द्रााहिभं उग्र [पूर्वात्रयं याम्यमघे
संज्ञकनक्षत्राणां मुहूर्ते दीप्तशकुनः। तिथिदीप्तः | चतुर्थी षष्ठी
अष्टमी नवमी चतुर्दशीतिथिषु दृष्टः शकुनः । उडुदीप्तः | मूल ज्येष्ठा
आर्द्रा आश्लेषा पूर्वात्रय भरणी मघानक्षत्रेषु दृष्टः शकुनः । वातदीप्तः |
चण्डखरपरुषप्रतिलोममारुते
सति दृष्टः शकुनः । रविदीप्तः
सूर्याभिमुखे दीप्तः शकुनः । गतिदीप्तः | विद्युतुल्कार्कमरुतामभिमुखं
यो धावति सः गतिदीप्तः । स्थानदीप्तः | छिन्नभिन्नवक्राद्यशुभस्थानेषु दृष्टः
स्थानदीप्तः । भावदीप्तः
| सत्ताविहीनः । स्वरदीप्तः विषमविलुप्ताक्षरक्षामजर्जरस्वरः ।
चेष्टादीप्तः | पक्षपाततुण्डविधूनननिपातपरोचावचभावकुनानि ।
निमित्तम्
85 दशविधशकुनेष्वपि सौम्याः तृणफलादीनां भक्षणरताः शकुनाः शुभदाः,
मांसादिभक्षणरताः
अशुभदाः, अन्नभक्षणरताः मिश्रफलदाः भवन्ति ।
एवं गृह प्रासाद मधुरवृक्ष मङ्गलस्थानेषु स्थिताः शकुनाः शुभफलदाः
भवन्ति ।
तथैव एकस्मिन् काले बहवः शकुनाः दृश्यन्ते चेत् तेषु कस्य फलमिति
निर्णयः कालवशात् क्रियते । दिवाकाले दिनचरशकुनाः, पर्वतादिषु
स्थिताः, उपरिस्थशकुनाश्च बलिनः भवन्ति । रात्रौ रात्रिचरजलप्रायदेशस्थशकुनाः
बलिनः भवन्ति । नपुंसक स्त्री पुरुषसंज्ञकाः शकुनाः उत्तरोत्तरं बलीयाः भवन्ति।
गत्यादिषु प्रकरः शकुनः बली । अनुलोमगतिकः शकुनः बली । दिग्वशात् केचन शकुनाः
बलिनः भवन्ति । एवं बलविचारात् शकुनेषु बलिनः फलं वाच्यम्। ग्रामे आरण्यशकुनम्,
वने
नगरशकुनम्, रात्री दिवाकालीनम्, अह्नि रात्रिकालिकं च शकुनं फलं नैव
प्रयच्छति । रोगादिपीडिताः, कलहाद्यासक्ताः शकुनाः फलार्थं नैव
ग्राह्याः । ऋतुवशादपि केचन शकुनाः नैव फलं प्रयच्छन्ति । तद्यथा |
निष्फलदाः शकुनाः शिशिरः रोहितमृगः, वाची, च्छागः,
गर्दभः,
कुरङ्गः,
उष्ट्रः,
हरिणः,
शशश्च
वसन्तः
काकः, कोकिलश्च
वर्षर्तुः भाद्रपदमासः । वराहः, सारमेयः,
वृकश्च
वर्षतुः श्रावणमासः | गजः चातकश्च
शरत्
जलोत्पन्नाः, गौः, क्रौञ्चपक्षिणश्च
हेमन्तः
अमानुषाः बालाः, व्याघ्रः, ऋक्षः, वानरः,
चित्रकः,
महिषः,
बिलेशयश्च
1 बृ.सं.८६.१६
बृ.सं.८६.१७
86
षडङ्गं ज्यौतिषम् अर्थात् यस्मिन् समये ये मदभूताः अथवा आहारार्थम्
अधिकम् अटन्ति ते प्राणिनः शकुनत्वेन तदा नैव ग्राह्याः भवन्ति ।
शकुनसम्भूतदिग्वशात् तद्दिक्सूचितेन समागमं निर्दिशेत् । यथा पूर्वस्यां शकुनरवः
श्रुतः तदा क्षत्रियेण समागमः स्यात्। तदर्थं दिक्कक्राणि यथा |
कुहकज्ञः इन्द्रजालवित्उत्तरा धनवान
। माईक्षणीको दैवज्ञः
विषवाहकः
मालाकारः
वायवी.
रोशनी
वैष्णवः
चिरकः
शाकुनो धीवरः । शौण्डिकः पश्चिमा
अश्वरक्षकः
- पूर्वा
तस्करः
प्रमदा स्त्री
| कोशाध्यक्षः
अग्निजीवी तापसः आग्नेयी शिल्पी भक्षुः
नैऋती
धर्मरतः
गोपालकः
गोपालक मातङ्गः दक्षिणा
निमित्तम्
शकुनसम्भूता दिक्समागमस्य जातिः स्वरूपश्च
पूर्वा
क्षत्रियः, राजा
आग्नेय्या
राजकुमारः
दक्षिणा
वैश्यः, सेनापतिः
नैऋत्या
दूतः
पश्चिमा
शूद्रः, श्रेष्ठी
वायव्या
गूढपुरुषः
उत्तरा
ब्राह्मणः
ईशान्या
गजाध्यक्षः पुरुषाणां वामभागे शुभाः स्त्रीणां दक्षिणभागे शुभाः,
दिवाकाले
शुभाः ते रात्रौ स्त्रीणां शुभाः भवन्ति । उक्तञ्च ।सर्व एव विपर्यस्ताः ग्राह्याः
सार्थेषु योषिताम् ।
एकस्मिन्नेव स्थाने स्थित्वा रुवन् शकुनः सप्ताह मास मासत्रयान्तं
तिष्ठति चेत् क्रमात् ग्राम मगर देशानां नाशं सूचयति । सर्प मूषक बिडाल मत्स्यान्
विना अन्ये प्राणिनः स्वजातेः मांसं भक्षयन्ति चेत् दुर्भिक्षस्य सूचकाः भवन्ति ।
परयोनि षु मैथुननिरताः प्राणिनः देशनाशं सूचयन्ति । पूर्वादिदिक्षु सूचितशकुनफलं
क्रमात् युद्ध अग्नि शब्दयुतदेश कलह[जल सन्धन वेदध्वनि गोशब्दयुतदेशेषु प्राप्यते
।
एवं निमित्तानि बहुधा फलनिर्णये सहायकाः भवन्ति । शकुनफलानां
प्रवचनात् पूर्वं दिक् देश चेष्टा स्वर यासरादीन् विमृश्य बलाबलं सञ्चिन्तयेत् ।
एवं निमित्तशास्त्रं जातक प्रश्न मुहूर्तशात्रप्रवचने बहुधा
उपयुज्यते। दिग्दर्शनरूपेणात्र मया केचन सङ्ग्रहीताः ।
1.सं.८६.४९
बृ.सं.८६.७७ ब.सं.९६.१
दुर्भिक्षयोगाः
श्री. कृष्णकुमारः द्विवेदी
शोधच्छात्रः, राजीवगान्धीपरिसरः
शृङ्गेरी, कर्णाटकम्
MIDDITIDAILI सम्प्रति काले अनावृष्टिः, अल्पवृष्टिः,
राष्ट्रभङ्गः,
नूतनरोगाणां
प्रादुर्भावः, अनावृष्टिवशादल्पवृष्टिवशाद्वा सस्यानामभावः, शासनवर्गेषु
कलहः इत्यादयः प्रत्यक्षं वर्त्तते । यदि अस्माभिः ज्योतिश्शास्त्रद्वारा पूर्वमेव
आगामीकालस्य दुर्भिक्षस्य स्थितिः ज्ञायते, चेत् वयं
पूर्वमेव जीवनाथ धनधान्यादीनां सस्यानाञ्च सञ्चयं कृत्वा पुरुषार्थचतुष्टयं
साधयितुं शक्नुमः । अतः केचन दुर्भिक्षयोगाः प्रस्तूयन्ते । १॥ यस्मिन् वर्षे १३
मासाः भवन्ति एवं वर्षौ रवितः भौमः अग्रे भवति तर्हि दुर्भिक्षं जायते । २ यस्मिन्
वर्षे चैत्रज्येष्ठमासयोः वृष्टिः भवति तथा श्रावणभाद्रपदमासयोः शैत्यं
झञ्झावातश्च भवति चेत् दुर्भिक्षम् । ३|| यस्मिन् वर्षे
आषाढ़मासस्य पूर्णिमायाः क्षयः भवति तदा दुर्भिक्षं, सस्यानां जलस्य
च न्यूनत्वं भवति । ४] यस्मिन् वर्षे कर्कसङ्क्रान्तिः शनिरविभौमवासरेषु भवति,
एवं
वर्षेशः शनिरविभौमेषु कश्चित् भवति चेत् दुर्भिक्षं चर्मरोगाश्च भवन्ति ।। ५] यस्मिन्
वर्षे दीपावल्यां स्वातिनक्षत्रम्, शनिरविभौमवासरेषु कश्चित् एकः वासरः,
आयुष्मान्
योगश्च भवति तदा दुर्भिक्षं जायते । ६ यस्मिन् वर्षे माघशुक्लपञ्चम्यां शनिवासरः
भौमवासरो वा भवति तर्हि, दुर्भिक्ष
89
निमित्तम् भूकम्पोऽपि भवितुमर्हति।
यस्मिन् वर्षे एकस्मिन्नेव मासे सूर्यचन्द्रग्रहणं भवति चेत्,
दुर्भिक्षं
जायते । मनुष्याः रुग्णा अधिकाः भवन्ति ।
यस्मिन् वर्षे मीने शनिः, कर्के गुरुः, तुलायां भौमश्च
भवति चेत्, दुर्भिक्षं भवति । एषा स्थितिः फरवरी १९६७ तमे वर्षे आसीत् । ९
यस्मिन् वर्षे कार्तिकमासस्य प्रतिपत्तिथिः बुधवासरे भवति तर्हि, दुर्भिक्षं
धान्य] घृत सैल गुड़ादीनां वा मूल्यमधिकं भवति । १० यस्मिन् वर्षे
उत्तराभाद्रपदरेवतीभरणीमूलमघादिनक्षत्रेषु गुरुः तथा विशाखा]
स्वातिपूर्वाषाढ़ादिनक्षत्रेषु भौमः भवति तदा दुर्भिक्षम् । ११ यस्मिन् वर्षे
पौषमाघफाल्गुनमासेषु शैत्यं न्यूनं भवति तथा चैत्रज्येष्ठमासयोः वृष्टिः भवति चेत्
दुर्भिक्षं भवति । १२ यस्मिन् वर्षे आषाढकृष्णपक्षस्याष्टम्यां तिथौ कृत्तिका
मृगशीर्षनक्षत्रं वा भवति तर्हि, दुर्भिक्षं भवति । १३| यस्मिन्
वर्षे भौमवासरे अमावस्या भवति चन्द्रवासरे एकापि अमावस्या न भवति, तदा
दुर्भिक्षं जायते ।। १४ यस्मिन्वर्षे श्रावणमासे भाद्रपदमासे वा शनिगुरुभौमादयः
वक्राः तदाऽपि दुर्भिक्षम् । अगस्त १९९८ तमे वर्षे शनिगुरू वक्री अभूताम् । १५
यस्मिन् वर्षे धनुर्मीनसिंहकन्याराशिषु क्रूरग्रहाः भवन्ति तर्हि दुर्भिक्षं जायते
।
अगस्त १९८० तमे वर्षे सिंहकन्ययोः क्रूरग्रहाः आसन् । १६[] यस्मिन्
वर्षे रेवतीशतभिषाऽश्लेषामूलादिनक्षत्रेषु गुरुशनिराहुप्रभृतयः ग्रहाः भवन्ति तदा
दुर्भिक्षं भवति । १७ यस्मिन् वर्षे १३ मासाः भवन्ति तथा एकस्मिन्नेव मासे
तिथिद्वयं क्षयः भवति । तदा दुर्भिक्षं जायते ।
90
षडङ्गं ज्यौतिषम् १८ यस्मिन् वर्षे शनिमगलराहुयुतिः भवति । तस्मिन्
वर्षे दुर्भिक्षं भवति । एषा स्थितिः February १९६८ तमे वर्षे
आसीत् । १९ यस्मिन् वर्षे एकस्मिन् राशौ पञ्चग्रहाः भवन्ति तथा शनिगुरू अस्तौ भवतः
। तदा दुर्भिक्षं जायते । २०| यस्मिन् वर्षे गुरुशनिराहुभौमादयः
ग्रहाः एकस्मिन्नेव नक्षत्रे भवन्ति तर्हि दुर्भिक्षं भवति । २१ यस्मिन् वर्षे
सिंह गुरुः, कुम्भे राहुभॊमश्च भवतः । तस्मिन् वर्षे दुर्भिक्षं जायते। २२
यस्मिन् वर्षे मीनराशौ शनिराहुयुतिः भवति तदा दुर्भिक्षं जायते । एषा स्थितिः
अक्टोबर १९६८ तमे वर्षे आसीत् ।। २३[ यस्मिन् वर्षे एकस्मिन्नेव मासे
शनिमङ्गलगुरुशुक्रादिषु केचन त्रयः वक्रिणो भवन्ति तर्हि, दुर्भिक्षं
जायते।
एवमेव क्रूरसंवत्सरेष्वपि दुर्भिक्षं भवत्येव । यथा || १९६१
तमे वर्षे प्लवसंवत्सरे, १९७० तमे वर्षे रुधिरसंवत्सरे, १९७७
तमे वर्षे पिङ्गलसंवत्सरे, १९८४ तमे वर्षे रक्ताक्षिसंवत्सरे,
प्रमथ
दुर्मुख व्यय शावरी अनल राक्षसादिक्रूर] संवत्सरेष्वपि दुर्भिक्षं जायते एव ।
आधारग्रन्थाः।
१ ज्यौतिषकल्पद्रुमः
ज्योतिस्तत्त्वम् ३ जातकालङ्कारः ४ शीघ्रबोधः ५ भविष्यपुराणम् ६
भारतीयज्यौतिषम्
गोलविमर्शः
आचार्यः आर्. हरिदासभट्टः
ज्यौतिषविभागाध्यक्षः SMSP संस्कृतमहाविद्यालयः
उडुपी, कर्णाटकम् III-IIIIIIIIIIIIIIIIII गोलः
सिद्धान्तस्कन्धे अन्तर्भवति । ग्रहाणां मध्याद्यं गणितं यदत्रोक्तं तस्य
गोलोपपत्तिं विना गणकः प्रौढसभासु प्रौढिं नैति । अतः गणकः स्वयं ग्रहगणितज्ञोऽपि
तदुपपत्तिज्ञानमन्तरेण निश्चयज्ञानवान् न स्यात् । अतः गोलानभिज्ञः गणकः न
भातीत्युच्यते भास्कराचार्येण ||
भोज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविवर्जितं च । सभा न
भातीव सुवक्तृहीना गोलानभिज्ञो गणकस्तथात्र॥ इति।
वादी व्याकरणं विना यथा सभासु उपहासमेति तथा गोलानभिज्ञो गणकोऽपि
ज्योतिर्वित्सदसि उपहासमेति । अतः गोलज्ञानवान् भवेद्गणकः । अत्रादौ मया भूगोलस्य
स्वरूपं किञ्चिदुच्यते । केचिदेवमामनन्ति भूगोलम् यथा |
भूः मुकुरोदरसन्निभा समा] इति । यदि समा भूस्तदा तदुपरि दूरगतोऽपि
रविर्धमन् किमस्मदादिभिर्न दृश्यते । यथा देवाः षण्मासं यावत् रविं सततं पश्यन्ति
तथा अस्माभिरपि स दृश्येत । तथा न भवति । कनकाचलः मेरुः किल निशाजनकः । तदन्तरितः
न दृश्यते । एवं चेत् मेरुतटात् निःसृतस्य रवेरुदयः सदा उत्तरत एव भवेत् । यतो हि
मेरुरुत्तरत इति प्रसिद्धम् । कथमयं दक्षिणभागे उदेति । अतः भूमेः समतायां
सत्यामपि नोत्पद्यते इदम् । आदर्शोदरवदियं भूः समा नेति ज्ञायतेऽनेन।
एवं चेत् भूपृष्ठगतस्य पुरुषस्य भूरियं समा दृश्यते । अतः
प्रत्यक्षविरोध
92
षडङ्गं ज्यौतिषम् स्सञ्जातः । शङ्कामेनामेवं परिहरति भास्करः । यथा ||
समो यतः स्यात्परिधेः शतांशः पृथ्वी च पृथ्वी नितरां तनीयान्। नरश्च
तत्पृष्ठगतस्य कृत्स्ना समेव तस्य प्रतिभात्यतः सा ॥ इति ।
भूगोलश्च उत्तरदक्षिणक्रमेण द्वेधा विभज्यते । मध्यरेखातः उत्तरो
भागः उत्तरगोलः, दक्षिणो भागः दक्षिणगोल इति । मध्यरेखायां ये देशास्सन्ति ते
निरक्षदेशा इति कथ्यन्ते । निरक्षदेशे अक्षांशाः न सन्तीति कारणेन सः निरक्षदेश
इति व्यवह्रियते सर्वैरपि । तस्मादुत्तरे उत्तराक्षांशाः मेरुपर्यन्तम् ।
तस्माद्दक्षिणे कुमेरुपर्यन्तं दक्षिणाक्षांशाः । एवं याम्योत्तरम् अन्तरं
अक्षांशाः । पूर्वापरान्तरं रेखांशाः । अक्षांशरहितो देशः निरक्षदेशः स्वदेशस्तु
साक्षदेशः । निरक्षदेशे आकाशे खस्वस्तिकोपरिगतं पूर्वापरं वृत्तं यद्वर्तते तदेव
विषुवदत्तम् । नाडीवृत्त मित्यपि व्यवह्रियते । अनेन कालज्ञानं जायते । स्वदेशे
स्वमध्ये यद्वृत्तमस्माभिः कल्प्यते तस्य समवृत्तमिति नाम ।
वयं यथा यथा निरक्षदेशादुत्तरं गच्छामस्तथा तथा विषुवद्वत्तं
दक्षिणतो भवति । एवं निरक्षदेशः स्वदेशाद्यथा यथा दक्षिणतो भवति तथा
स्वस्वस्तिकाद्विषु। वद्वृत्तं नतं भवति । तयोरन्तरेऽक्षांशाः । ते च अक्षांशाः
निरक्षदेशादपसारयोजनै] रनुपातेनोत्पद्यन्ते । अतः कस्मिंश्चित्पुरे अक्षांशान्
ज्ञात्वा तस्मात्पुरादुत्तरतो ऽन्यस्मिन्प्रदेशेऽक्षांशाः ज्ञेयाः । ततः तेषाम्
अक्षांशानां अन्तरांशैः पुरान्तरयोजनैश्चानुपातः । यद्यन्तरांशैः पुरान्तरयोजनानि
लभ्यन्ते तदा चक्रांशैः
३६० किमिति। अत्र फलत्वेन भूपरिधियोजनानि लभ्यन्ते । तथा चोक्तम् ||
पुरान्तरं चेदिदमुत्तरं स्यात्तदक्षविश्लेषलवैस्तदा किम्।
चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरूक्तं परिधेः प्रमाणम् ॥ इति।
परिधिव्यासघातोऽतो गोलपृष्ठफलं स्मृतम् ॥ इत्यनेन भूपरिधिः व्यासेन
गुणितो भूगोलस्य पृष्ठफलं भवति । एवमेव यस्य
95
गोलः कस्यापि गोलस्य परिधिज्ञानाद्गोलपृष्ठफलानयनं कर्तुं शक्यते ।
भूगोले सप्तसागराणां सप्तद्वीपानां च निविशनमुपवर्ण्यतेऽत्र
गोलाध्याये । तत्रादौ पूर्वं यः निरक्षदेशः कथितस्ततः नवत्यंशेषु षट् स्थानानि
कथ्यन्ते आचार्यवर्यैः। प्रथमं लङ्कापुरं तस्मात् पूर्वं नवत्यंशे यमकोटिपुरं
पश्चान्नवत्यंशे रोमकपुरम् अधोभागे ८०°| अशीत्यधिकशतांशे सिद्धपुरं, तेभ्यः
चतुर्थ्यः पत्तनेभ्यः उत्तरं नवत्यंशे मेरुः दक्षिणे नवत्यंशे कुमेरुरिति षट्
स्थानानि । तथाह
लङ्काकुमध्ये यमकोटिरस्याः प्राक्पश्चिमे रोमकपत्तनं च । अधस्ततः
सिद्धपुरं सुमेरुः सोम्येऽथ याम्ये वडवानलश्च ॥ कुवृत्तपादान्तरितानि तानि
स्थानानि षङ्गोलविदो वदन्ति । वसन्ति मेरौ सुरसिद्धसङ्घा और्वे च सर्वे नरकाः
सदैत्याः ॥ इति ।
यो नरः यत्र तिष्ठति स अवनी स्वाधः स्थितां मन्यते । स आत्मानम् अस्य
भूमेरुपरिस्थं मन्यते । भूगोलगर्भे यः कोऽपि नरः नास्त्येव । भूगोलपृष्ठमभितो
लोकानां सत्वात्तेषां च सर्वेषां स्वाधो भूस्तदुपरि वयं वसाम इत्येवमेव
प्रतीतिर्जायते । अतः ये कुचतुर्थसंस्थाः परस्परं ते तिर्यगिवामनन्ति ।
कुदलान्तरस्थाः नीरतीरे अधःशिरस्काश्छाया मनुष्या इवामनन्ति । यथा वयमत्र
तिष्ठामस्तथा तिर्यगधःस्थिताश्च तत्र अनाकुलास्तिष्ठन्ति । भूमेरर्धम् उत्तरं
जम्बूद्वीपम् । दक्षिणेऽर्धे द्वीपषट्, सप्तसागराश्च सन्ति । तथा चोक्तं
भास्कराचार्येण|
भूमेरधं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्यवर्याः ।
अर्धेऽन्यस्मिन्द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः ॥ इति ।
जम्बूद्वीपमध्येऽपि गिरिनिवेशवशेन नवखण्डान्यन्यत्रोपवर्णितानि
सन्ति। अत्र नवमं तु हलावृतम् । सा स्वर्गभूमिः । तत्र देवानां गृहाणि सन्ति ।
तत्र मध्ये कनकरत्नमयः मेरुगिरिः कर्णिकाकारः । स एव देवानामालयः । तत्र मेरावुपरि
शिखरत्रयं वर्तते । तेषु शिखरेषु मुरारेब्रह्मणः पुरारेश्च पुराणि सन्ति ।
एवमन्येऽपि
94
षडङ्गं ज्यौतिषम् बहवः विचारास्तत्र निरूपितास्सन्ति ।
निरक्षदेशाद्दक्षिणे भूगोलार्धे भूर्लोकः । तस्मात् सौम्योऽयं
जम्बूद्वीपात्मको भूलॊको भुवर्लोकः, मेरुः, स्वर्लोकः,
आकाशे
नक्षत्रगोलादूर्ध्वं महो लोकः, तदुपरि जनो लोकस्तदुपरि तपो
लोकस्तदुपरि सत्यलोक इत्येवमत्र लोकव्यवस्था । तथा |
भूलॊकाख्यो दक्षिणे व्यक्षदेशात् तस्मात्सौम्योऽयं भुवः स्वश्च मेरुः
। लभ्यः पुण्यैः खे महः स्याजनोऽतोऽनल्पानल्पैः स्वैस्तपः सत्यमन्त्यः ॥
अस्मिन्भूगोले प्राच्यपरे विचित्रसंस्थे| इत्यमुं
विषयमधिकृत्य सम्यगाह आचार्यभास्करः । इष्टदेशान्मेरोरभिमुखीम् उत्तरां दिशं
निश्चलां कृत्वा निरक्षदेशाभिमुखीं दक्षिणां च निश्चलां कृत्वा
तन्मत्स्यात्प्राच्यपरा साध्या । एवं कृते यत्प्राच्यग्रे चिह्नं भवति ततः
पुनरुत्तरां दक्षिणां च साधयित्वा यावत्प्राच्यपरा साध्यते तावत् पूर्वरेखायां न
पतति । उत्तरायाश्चलितत्वात् प्राच्यपरापि चलिता भवति । अतः यस्मात् यत् प्राच्यां
स्यात्ततः तत्प्रतीच्यां न भवेत् । निरक्षदेशादितरत्र सर्वत्रापि एवमेव स्यात् ।
अत एव प्राचीप्रतीच्यौ च विचित्रसंस्थे भवतः । एतत् सर्वं गोलज्ञानेनैवावगन्तुं
शक्यते नान्यथा । तथा चोक्तम् ||
लङ्कापुरेऽर्कस्य यदोदयः स्यात्तदा दिनार्धं यमकोटिपुर्याम् ।
अधस्तदा सिद्धपुरोऽस्तकालः स्याद्रोमके रात्रिदलं तदैव । यत्रोदितोऽर्कः किल तत्र
पूर्वा तत्रापरा यत्र गतः प्रतिष्ठाम् । तन्मत्स्यतोऽन्ये च ततोऽखिलानामुदस्थितो
मेरुरिति प्रसिद्धम् ॥ यथोज्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यमकोटिरेव
। ततश्च पश्चान्न भवेदवन्ती लदैव तस्याः ककुभि प्रतीच्याम् । तथैव सर्वत्र यतो हि
यत्स्यात्प्राच्यां ततस्तन्न भवेत्प्रतीच्याम् । निरक्षदेशादितरत्र तस्मात्
प्राचीप्रतीच्यौ च विचित्रसंस्थे ॥ इति। निरक्षदेशे नरः दक्षिणोत्तरौ ध्रुवौ
स्वक्षितिजे पश्यति । तदाश्रितं नक्षत्र
95
गोलः मण्डलं निजमस्तकोपरिभ्रमन्तं स पश्यति । यथा यथा स उत्तरां
दिशां याति तथा तथा स्वस्वमध्यान्नतं भचक्रम् मक्षत्रमण्डम उत्तरध्रुम् उन्नतं च
पश्यति । तदन्तरे अक्षांशाः । यदि भूपरिधियोजनैश्चक्रांशाः लभ्यन्ते तदपसारयोजनैः
किमित्यनु पातेन अक्षांशाः लभ्यन्ते । त एव निरक्षदेशस्वदेशयोः
याम्योत्तरान्तरांशा अक्षांशरुपाः सम्भवन्ति । एवमेव अक्षांशेभ्यः निरक्षदेशस्वदेशयोरन्तरयोजनानि
सिध्यन्ति । एवमन्येऽपि बहवो विचारा अवगम्यन्ते गोलज्ञानेन ।
आकाशे यद्भचक्रम् अवलोक्यतेऽस्माभिस्तत्प्रवहानिलेन प्रेरितं
सत्पश्चि माभिमुखं भ्रमति । तत्र स्थानिग्रहकक्षामण्डलानि, तत्रस्थग्रहाश्च
पश्चिमाभिमुखं गच्छन्तीव भान्ति । परं ते च ग्रहाः स्वस्वकक्षासु तदल्पगत्या
पूर्वाभिमुखास्सञ्च] रन्ति । एतत्सर्वं गोलज्ञानेन तथा नित्यमाकाशदर्शनेन च
सम्यगवगन्तुं शक्यते ।
निरक्षदेशस्य खमध्ये यदत्तं कल्प्यतेऽस्माभिः तदेव विषुवदत्तम् ।
नाडीवृत्तमित्यपरं नाम तस्य । रविर्यस्मिन्मण्डले सञ्चरति तत्क्रान्तिमण्डलम् ।
नाडीवृत्तक्रान्तिवृत्तयोर्यः सम्पातः सः क्रान्तिपात इति कथ्यते ।
तस्मात्त्रिभेऽन्तरे दक्षिणोत्तरे परमकान्त्यंशाः लभ्यन्ते । ते च
चतुर्विंशत्यंशाः । क्रान्तिवृत्तादस्माद्द क्षिणोत्तरे ग्रहविक्षेपवृत्तानि सन्ति
। तेषां सम्पाताः क्रान्तिवृत्त एव वर्तन्ते । ते क्षेप पाताः पाता इति वा
कथ्यन्ते । तेभ्यः त्रिभेऽन्तरे तस्य तस्य ग्रहस्य क्रान्तिवृत्तवि]
क्षेपवृत्तयोर्याम्योत्तरमन्तरं परमं लभ्यते । स एव तस्य शर इति व्यवहारः क्रियते।
एवमत्र गोले खगोलभगोलयोः स्वरूपं सम्यग्प्रतिपादितम् । ग्रहगणिते
अनयोरुपयोगः महानस्ति । ग्रहगणिते यान्यानि साध्यन्ते तेषामुपपादनं गोलम] न्तरा
कर्तुं न शक्यते । अतः न केवलं गणितज्ञानेनैव सर्वमुपपादयितुं शक्यते । गोले सा
विमला करामलकवत्प्रत्यक्षतो दृश्यते इति भास्करवचनानुसारेण सर्वमेतद्गोले
सुस्पष्टमवगम्यते । गोलविषये सन्ति नैके वक्तव्यांशाः । अतः उपपत्तिबोधार्थं
संशयनिरासाय च गोलज्ञानमत्यन्तमावश्यकम् ।
ग्रहगणितम्
विद्वान् भरत ऐताळः
ज्यौतिषोपन्यासकः SMSP संस्कृतमहाविद्यालयः
उडुपी, कर्णाटकम्
WI: OTII II III. अपरिमिते गगने यानि तेजोमयानि बिम्बानि
दृश्यन्ते तान्येव ज्योतिःशब्देन व्यवह्रियन्ते । तेषु सदैकरूपगतिकानि
नक्षत्रशब्देन भिन्नगतिकानि च ग्रहशब्देन कथ्यन्ते । तानि बिम्बान्यधिकृत्य कृतं
शास्त्रं ज्यौतिषम् । शास्त्रमिदमादेशाय प्रवृत्तमिति सर्वेऽपि जानन्त्येव । तादृश
आदेशस्तु लग्नस्फुट] ग्रहादिभिः । ते तु स्फुटग्रहादयः गणिताधीनाः । गणितमिदं
लोकव्यापकम् । अतः सूर्यसिद्धान्तीयमङ्गलश्लोकस्यैकदेशे विद्यमानस्य ब्रह्मणे नमः |
इति
पदस्य कपिलेश्वरशास्त्रिवर्यः गणितपक्षेऽपि अर्थसमन्वयं कुर्वन् मानप्रतिपादनेन
लोकान् व्याप्नोति ब्रह्मस्वरूपं गणितं तस्मै नमः इति व्याख्याञ्चकार ।
त्रिस्कन्धात्मकस्य शास्त्रस्यास्यान्यतमस्स्कन्धो वर्तते गणिताख्यस्स्कन्धः ।
अस्य विशिष्टं स्थानं शास्त्रप्रपञ्चे । तदाह श्रीमान् भास्कराचार्यः जानन
जातकसंहिताः सगणितस्कन्धैकदेशा अपि
ज्योतिश्शास्त्रविचारसारचतुरप्रश्नेष्वकिञ्चित्करः इति । गणितमिदं
व्यक्ताव्यक्तभेदेन द्विधा विभज्यते । तत्र व्यक्तगणितं पाटीगणितम् अव्यक्तं च
बीजगणितम् । एतद्गणितद्वयं विहाय ग्रहगणितावगमः न भवत्येव । उक्तं भास्करेण
द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदवगमननिष्ठः प्रपठितुमधिकारी सोन्यथा
नामधारी इति । ज्योतिःशास्त्रस्य षडङ्गेषु विद्यमानस्य गणितपदस्य अर्थस्तु
ग्रहगणितमित्येव । ग्रहगणिते भेदत्रयं पश्यामः । सिद्धान्तः तन्त्रं करणं चेति ।
एतेषां त्रयाणामपि पृथक् पृथग्लक्षणं विद्यते । यत्र
गणितम्
97 कल्पादेरारभ्य गताब्दमासदिनादेः सौरसावनचान्द्रदिनान्यवगम्य
सौरसावनगताहर्गणान्मध्यमादीनां कर्मोच्यते तत् सिद्धान्तलक्षणम् । यत्र
वर्तमानयुगादेवर्षाण्येव ज्ञात्वा मध्यमग्रहानयनादिकर्मोच्यते तत् तन्त्रलक्षणम् ।
यत्र वर्तमानशकमध्ये अभीष्टदिनादारभ्य मध्यमग्रहानयनादिकर्मोच्यते तत् करणलक्षणं
भवति । सूर्यसिद्धान्तादारभ्य वर्तमानकालपर्यन्तं गणिते नूनान्याविष्करणानि
जायमानानि दृश्यन्ते । गणितविषये भारतीयानां योगदानमपि स्त्युत्यमेव वरीवर्ति ।।
युगणानयन खेटमध्यमस्फुटयोरपि ग्रहणद्वितयं खेटकलहस्तत्समागमः।
अस्तोदयौ च खेटानां नक्षत्राणां च सङ्गम इति भेदास्तु विज्ञेया ग्रहाणां गणिते दश॥
इति वचनानुसारेण दैवज्ञः एतान् ग्रहगणिते विद्यमानान् दश भेदान्
अवश्यं जानीयात् । तत्र धुगणो नाम अहर्गणः । दिनसमूह इत्यर्थः । उदयादुदयं भानो
मिसावनवासरः इति वचनात् सावनदिनसमूह एव परिगृह्यते । सूर्यसिद्धान्ते तु
लङ्कार्धरात्रिकालिकाहर्गणकथने किरणवक्रीभवनप्रक्रियाया अभाव एव कारणं भवति ।
अहर्गणस्यास्य वार एव नियामको भवति । कदाचित् मध्यमस्पष्टतिथि भेदेन
अनुपातागतावममप्येकान्तरितं स्यात् । तदानीमवमः सैकः निरेको वा' कार्यः
। एवमेव स्पष्टोऽधिमासः पतितः किन्तु गणितेन नायाति अथवा अपतितः गणितेन आयाति तदा
अधिमासे एव सैकः निरेको वा कार्यः । एवं च अहर्गणानयने अधिशेषावमशेषयोस्त्यागेऽपि
कारणं विद्यते । गणितागतेष्ट सौरमासाः अनुपातानीताधिमासाधिमासशेषाभ्यां
सहिताश्चेत् वर्तमानसौरवर्षादौ चान्द्रमासाः भवन्ति । वर्तमानगतचैत्र
शुक्लप्रतिपादौ तेषामानयनार्थं दर्शाग्रतः
१ सि.शि.गो ४.१६ २ सि.शि.गो ४.१८ ३ के.ग्र ३.३० ४ सि.शि ३.४
98
षडङ्गं ज्यौतिषम् सङ्कमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम् इति
वचनात् ते पूर्वानीताः चान्द्रमासाः अधिशेषेण हीनाः चैत्रशुक्लप्रतिपदादौ भवेयुः ।
परन्तु एकत्र अधिशेषेण योगोऽन्यत्र शोधः इति कारणात् परित्यज्यते । एवं च
सावयवैरवम] दिन_नास्तिथ्यन्तकालिकचान्द्राहाः तिथ्यन्ते सावनाहर्गणशब्देन कथ्यते ।
तिथ्यन्तसूर्योदययोस्तु मध्ये सदैव तिष्ठत्यवमावशेषम् इति वचनात्
पूर्वानीताहर्गणः अवमशेषेण युक्तश्चेत् सूर्योदये भवति । एवम् एकत्र शोधनमन्यत्र च
योजनमिति कारणात् अवमशेषोऽपि त्यज्यते । अत्र लब्धोऽहर्गणो मध्यम एव यतः, स्फुटगतेः
प्रतिक्षणं वैलक्षण्यात् मध्यमगत्या मध्यमदिनसमूह एव प्रकल्पितः। तदुक्तम् ||
ज्योतिर्विदो
मध्यमकालमानं ज्ञातुं सदा मध्यमसायनार्कः । नाडीवृतौ सञ्चरतीति मत्वा तस्योदये
वासरमारभन्ते इति । मध्यमाहर्गणादनुपातेन मध्यमग्रहाः आनीयन्ते । युगकुदिनैः ।
कल्पकुदिनैर्वा युगभगणाः । कल्पभगणाः लभ्यन्ते तदा इष्टेन क इत्यनुपातेन भगणादिकाः
मध्यमग्रहाः । ते तु दिशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः] इति भास्करीयवचनात्
नाडीवृत्तीयमध्यमार्कोदयकाले क्षितिजासन्नाः भवन्ति ।
क्रान्तिवृत्तीयस्फुटार्कोदयकाले क्षितिजे आनयनार्थं देशान्तर चर]
भुजान्तरोदयान्तराख्याः चत्वारः संस्काराः उपनिबद्धाः । केषुचित् सिद्धान्तेषु
स्वल्पान्तरत्वादुदयान्तरसंस्कारः परित्यक्तः । वस्तुतः गणिते स्वल्पान्तरात्
परित्यागोऽपि किञ्चिदन्तरं जनयत्येव । किन्तु तदन्तरमस्मदीयव्यवहारे दोषजनक न भवति
। वेधप्रक्रियया भगणान् ज्ञात्वा तद्वशादनुपातः । परन्तु एते भगणाः कालान्तरे
ग्रहस्फुटे व्यत्यासं जनयन्ति । तादृशव्यत्यासः बीजकर्मणा परिमार्ण्यते। अवास्तवभगणैर्मध्यमग्रहानानीय
तेषां चालनं बीजेन क्रियते । निरुपपत्तिकं बीजमिति बीजस्यार्थः । अथवा पुनर्वेधेन
नूनान् भगणानानीय अनुपातं कुर्यात् । इत्थमानीताः मध्यमग्रहाः
मन्दफलशीघ्रफलाख्याभ्यां संस्काराभ्यां स्फुटाः भवन्ति ।
गणितम्
99
स्फुटीकरणं नाम दृक्तुल्यत्वकरणाय विद्यमानः कश्चन गणितविशेषः ।
तदुक्तं तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यता ग्रहाः । प्रयान्ति तत्प्रवक्ष्यामि
स्फुटीकरणमादरात् इति । मान्दं कर्मैकमर्केन्द्वोः इत्युक्तेः रविचन्द्रयोः
मन्दफलसंस्कार एक एव । अन्येषां तु संस्कारद्वयम् । अत्र दृक्प्रतीतिरेव कारणमिति
सर्वेषु गणितज्ञेषु ऐकमत्यम् । किन्तु नवीनदृग्गणिते गोलत्रयसम्बन्धात् चन्द्रस्य
तिथिच्युत्याख्ययोः द्वयोः संस्कारयोः सम्भवः । अतः बाण मृद्धि रस क्षयस्य स्थाने
अष्ट मृद्धि दश] क्षयप्रसङ्गः । अतः केचन नवीनदृक्सिद्धान्तं नैवाङ्गीकुर्वन्ति ।
एवं चास्माभिः प्रतिवृत्तभङ्ग्या मन्दफलशीघ्रफलयोरुपपत्तिः प्रदर्श्यते ।
तत्पश्यामश्चेत् विषयोऽयं स्पष्टीभविष्यति, यत्
मन्दस्फुटग्रह एव वास्तव इति । यतः मन्दफलेन संस्कृतः मध्यमग्रहः मन्दस्पष्टो भवति
। तं मन्दस्पष्टग्रहं प्रतिवृत्ते दद्मः । शीघ्रप्रतिवृत्तमेव ग्रहभ्रमणवृत्तं,
तत्र
विद्यमानग्रहः मन्दस्फुटग्रहः, स एव वास्तविको भवेत् । पञ्चाङ्गगणितं
तु स्फुटरविचन्द्राभ्याम् । तत्र पञ्चाङ्गे तु नक्षत्रानयने कश्चन विशेषो विद्यते
। वसिष्ठादिभिः सूक्ष्मनक्षत्रानयनमिति किञ्चन गणितकर्म उपनिबद्धम् । सर्वाणि
नक्षत्राणि तुल्यभोगकानि न भवन्ति । तेषु कानिचित् अर्धभोगकानि कानिचित् समभोगकानि
कानिचिच्च अध्यर्धभोगकानि भवन्ति । समगतिस्तु चन्द्रमध्यमगतिमिता भवति । तेन
विधिना आनीतैर्नक्षत्रैरैव विवाहादिसंस्काराः कर्तव्याः । प्रतिपञ्चाङ्ग
तिथ्यादिप्रमाणेषु व्यत्यासो दृश्यते, तत्र कारणं रविचन्द्रयोः
स्फुटव्यत्यासः । स्फुटव्यत्यासे कारणं भगणप्रमाणादय एव ।
गणितेऽत्यन्तं प्रसिद्धो विषयः ग्रहणम् । इदं तु ग्रहगणितस्य
दृक्तुल्यत्व विषये निकषायते । यतः गणितोक्तकाल एव स्पर्शादयः सम्भवन्ति तदा
१ माध्यन्दिनी श्रुतिः २ सि.शि चन्द्रग्रहणम् ९ ३ सि.शि.गो ८.१० ४
सू.सि चन्द्रग्रहणव्याख्याने
100
षडङ्गं ज्यौतिषम् सिद्धान्तोऽयं दृक्तुल्यः इति व्यवहारः ।
गृह्यतेऽनेन इति व्युत्पत्त्या छाद्यबिम्बं यदा छादकः गृह्णाति तदा ग्रहणम् ।
ग्रहणे छादकः कः || इत्यत्र कथयति श्रुतिः
स्वर्भानुर्ह वा आसुरः सूर्यं तमसा विव्याध इति । एवं
राहोश्छादकत्वमङ्गीकुर्म] श्चेन्नैके दोषाः । अर्कच्छादकाच्चन्द्रच्छादकः पृथुतरो
भवति । उभयत्रापि ग्रहणे दिग्देशकालवर्णादिषु व्यत्यासः दरीदृश्यते । अतः राहुः
छादकः न भवत्येव । एवं चेत् ग्रहणे छादकः क इति जिज्ञासायामुक्तं भूभाविधं
विधुरिनं ग्रहणे पिधत्ते इति। एवमङ्गीक्रियते चेत् श्रुतिवचनविरोधप्रसङ्गः ।
तत्परिहृतो वर्तते भास्करण ||
'राहुः कुभामण्डलगश्शशाङ्क शशाङ्कगश्छादयतीनबिम्बम् ।
तमोमयश्शम्भुवरप्रदानात् सर्वागमानामविरुद्धमेतत् ॥ इति इदं च ग्रहणं
कदा संभवतीति जिज्ञासायामुक्तम् ||
"इन्द्राल्पे सम्भवो ज्ञेयो दशाल्पे निश्चयो मतः ।
चन्द्रग्रहे विपातार्कभुजांशे गणकोत्तमैः ॥ एवं सर्वग्रहे
नागभागाल्पे सम्भवो मतः । निश्चयस्तु त्रिभागाल्पे विपातार्कभुजांशके ॥ इति
एवं च चन्द्रग्रहणे चन्द्रकक्षायाः व्यासः सूर्यग्रहणे
चन्द्रकक्षाव्यासादल्पः। अतः चन्द्रग्रहणानां सम्भावना सूर्यग्रहणसम्भावानया
अल्पीयसी । अतः सूर्यग्रहणानां संख्या चन्द्रग्रहणसंख्याया अधिकतरा । प्रायेण
एकस्मिन् वर्षे द्वे सूर्यग्रहणे अवश्यं भवतः । ग्रहणानामधिकतया संख्या सप्त ।
तत्र द्वे चन्द्रग्रहणे पञ्च सूर्यग्रहणानि अथवा चत्वारि सूर्यग्रहणानि त्रीणि
चन्द्रग्रहणानि । एकस्मिन् चान्द्रमासे अ|नत्रिंशद्दिनानि २९.५० भवन्ति ।
सूर्यस्तु ३४६.६ दिनेषु पुनः राहुं प्राप्नोति । अतः ६५८५ राहोर्भगणकालतुल्यदिनानि
दिनैः राहुकेतुसूर्यचन्द्राः पूर्ववद्भविष्यन्ति । अतः पूर्ववद्रहणानि सम्भवन्ति ।
सूर्यग्रहणे तु कक्षाभेदात् नतिलम्बने उत्पद्यते । तदुक्तं
कक्षाभेदादिह
गणितम्
101 खलु नतिर्लम्बनं चोपपन्नम् इति । अन्यत्सर्वमपि चन्द्रग्रहणवदेव ।
भास्कराचार्येण सकृत्प्रकारेण लम्बनानयनमिति किंचन विशिष्टं कर्म आविष्कृतम् ।
तेनासकृत्कर्मणः वारणं भवति । ग्रहणे तु चन्द्रबिम्बस्य षोडश भागाः सूर्यबिम्बस्य
द्वादश भागाश्च खण्डिता अपि तेजस्तैदेण्यात् नैव दृश्यन्ते। इदमनादेश्यग्रहणमिति
व्यपदिश्यते । ग्रहणे नताख्यं विशिष्टं कर्म जिष्णुसुतेन उपनिबद्धम् । ये च
मन्दपरिधिभागाः कथितास्ते याम्योत्तरवृत्तस्थे रवौ । ते च नतांशवशाद्भिन्नाः
भवन्ति । नतकर्मणा लब्धेन फलेन रविचन्द्रयोश्चालनं कृत्वा, चालिताभ्यां
रविचन्द्राभ्यां पुनः तिथ्यन्तकालः । एवमस्कृत्कर्म कृत्वा तिथ्यन्तकालस्य
ग्रहणयोग्यत्वं साध्यम् । प्रतिदिनं तिथौ इदं कर्म कर्तव्यमिति नास्ति ।
अस्मद्व्यवहाराय नतकर्मणा हीना तिथिरपि युज्यते । केतकीग्रहगणितेऽपि ग्रहणगणिताय
रविचन्द्रयोस्स्फुटे कश्चन व्यत्यासः कृतः । इत्थं चिन्तयामश्चेत् ग्रहणगणितार्थं
बीजकर्म सूचितमिति ज्ञायते । किन्तु कमलाकरेण यदुक्तम् ||
अदृष्टफलसिध्यर्थं निर्बीजार्कोक्तमेव हि ।
गणितं यदि दृष्टार्थं तदृष्टयुद्भवतः सदा ॥ इति तदङ्गीकर्तुं न
शक्यते । ग्रहणवदेव अन्यो विषयः वर्तते । लघुग्रहौ बुधशुक्रौ सूर्यबिम्बस्य
उपर्यधो वा कक्षायां भ्रमतः । यदि पृथिवी तयोः क्रान्तिसम्पाते भवति तदा तौ
बिन्दुरूपेण सूर्यबिम्बं गच्छन्तौ दृश्यते । इदं ग्रहणमिति न कथ्यते । ताभ्यां
सूर्यबिम्बस्या च्छादनं न भवति केवलं सङ्क्रमणमेव । तत्र तु सूर्यबिम्बस्य
पञ्चाशदधिकैकशततमो भाग एव श्यामवर्णको भवति ।
पुनः दशविधगणितेषु अन्यतमं विद्यते ग्रहयुद्धम् । तन्निरूपणात्पूर्वं
ग्रहनक्षत्र
१ सि.शि.गो ८.२ २ सि.त.वि
102
षडङ्गं ज्यौतिषम् योर्विषये नवीनप्राचीनयोरभिप्रायः विवियते ।
प्राचीनास्तु गच्छन्तो भानि भुञ्जते इति ग्रहलक्षणं न क्षरन्तीति नक्षत्राणीति
नक्षत्रलक्षणं चाहुः । एवं चात्र प्राग्जन्मा] र्जितफलव्यञ्जकत्वमपि भवेत् । अनेन
ग्रहलक्षणेन रविराहुकेतूनामपि ग्रहत्त्वं सिद्ध्यति । नव्यास्तु स्वप्रकाशकाः
ताराः स्वप्रकाशहीनाश्च ग्रहाः इति कथयन्ति ।
अतः रवौ नक्षत्रलक्षणमेव समन्वेति । युरेनस् इत्यादिषु
प्राग्जन्मार्जितफलव्यञ्जक] त्वाभावग्रहत्वाभावः । चन्द्रस्तु भूमेरुपग्रह इति
नव्याः । कुजादयः पञ्चग्रहाः तारा इव अल्पमूर्तित्वात् ते ताराग्रहाः । तेषां योगः
कदाचिद्युद्धं कदाचिच्च समागमः । तत्र युद्धे सप्त प्रभेदान् प्रदर्शयामास भगवान्
सूर्यः । युतौ द्वयोर्ग्रहयोश्शरान्तरं मानैक्यार्धतुल्यं तदा द्वयोर्बिम्बयोः
परिधिस्पर्शः, इदं उल्लेखनामकं युद्धं भवति । मानक्यार्धाच्छरे ऊने सति एकस्मात्
बिम्बादन्यद्विम्बं भिद्यते । अतः भेदनामकं युद्धम् । अत्रापि सूर्यग्रहणवत्
नतिलम्बने उत्पद्येते कक्षाभेदात् । ग्रहयोश्शरान्तरे मानैक्यार्धादधिके सति तयोः
रश्मीनां मेलनं भवति इदं तु अंशुविमर्दाख्यं युद्धम् ।
अणुबिम्बमहद्विम्बयोर्ग्रहयोः शरान्तरे एकस्मदंशादूने सति मानक्यार्धादधिके च
अपसव्याख्यं युद्धं भवति । बलिनोर्ग्रहयोः शरान्तरे अंशादधिके समागम एव भवति ।
स्वल्पबिम्बकयोरासन्नत्वे कूटसंज्ञकं युद्धं ज्ञेयम् ।
विध्वस्तयोर्द्वयोर्ग्रहयोरा सन्नत्वे सति विग्रहाख्यं युद्धं भवति । युद्धे
पराजितस्य जयिनश्च लक्षणं शास्त्रेऽभि] हितम् । किन्तु अधिकतरेणान्तरेणान्तरितानां
ग्रहाणां युद्धं कथं सम्भवतीति जिज्ञासायामुक्तं सूर्यसिद्धान्ते भावाभावाय
लोकानां कल्पनेयं प्रदर्शिता । स्वमार्गगाः प्रयान्त्येते दूरमन्योऽन्यमाश्रिताः ।
इति ॥ ताराग्रहाणां परस्परं योगः युद्धमिति यथा प्रकीर्त्यते तथैव चन्द्रेण साकं
तेषां योगे समागमो भवति । ज्योतिःपुञ्जेन रविणा सह अल्पमूर्तीनां कुजादीनां
अदर्शनात् तेषामस्तङ्गतिः कीर्त्यते । अस्तङ्गतानां कुजादीनां पुनदर्शनमुदयः ।
तेषामुदयः अस्तो वा कालां[]
१सू.सि ७.२४
गणितम्
103 शवशाज्ज्ञायते । नाडीवृत्ते विद्यमानः कालः नाडीवृत्त एवांशात्मकः
क्रियते तदा कालांशः । क्रान्तिवृत्ते परिणाम्यते चेत् क्षेत्रांशो भवति ।
कालांशानां सार्वदेशि] कात् कालांशवशादुदयस्तावभिहितौ । एते कालांशाः ग्रहाणां
पृथक्पृथनिरूपिताः ।
दशविधग्रहगणितेष्वन्तिमं वर्तते भग्रहयुतिविचारः ।
तन्निरूपणात्प्राक् भानां विषये किंचिन्निरूप्यते । अनन्तनक्षत्राणां दर्शने
सत्यपि सप्तविंशतेः नक्षत्राणां कथने कारणमिदं यत् तानि च क्रान्तिवृत्तस्य
समीपस्थानि प्राग्जन्मार्जितफलव्यञ्ज] कानीति । अनन्तनक्षत्रेषु कानिचन सूर्यसमानि,
कानिचन
महीयांसि । किन्तु अस्माभिः तानि अतिलघ्वाकारकबिन्दव इव दृश्यन्ते । यतः तानि
सुदूरवर्तीनि । सूर्यस्य प्रकाशकिरणाः सार्धाष्टमिनिहितेन कालेन भूमिं स्पृशन्ति ।
किन्तु अति] समीपतमस्य मित्रनक्षत्रस्य किरणाः सार्धचतुर्वर्षमितेन कालेन भूमिं
स्पृशन्तीत्य] यमुदन्तः तस्य दूरत्वं प्रकटीकरोति । न क्षरन्तीति नक्षत्राणीति
नक्षत्रलक्षणं कथयामः। किन्तु नक्षत्राणि प्रायेण तीव्रगतिमन्ति, सुदूरवर्तित्वात्
तीव्रगतिजनित स्थानभ्रंशोऽत्यल्पः । अतः नक्षत्राण्यचलानि मन्यन्त इति नव्याः ।
तेषां तु प्रकृता गतिः केन्द्रीया गतिश्चेति गतिद्वयम् । नक्षत्रेष्चेकाकीन्यत्यल्पकानि,
प्रायेण
द्विकानि, त्रिकाणि बहुकानि वा लभ्यन्ते । किन्तु सप्तविंशत्या नक्षत्रैः साकं
ग्रहाणां जायमाना युतिरेव अस्मदुपयोगाय । अत्रापि लोकानां भावाभावाय
त्रिज्यावृत्ते युतिः प्रकल्पिता । ग्रहयुद्धादारभ्य यानि कर्माणि निगदितानि तत्र
सर्वत्रापि दृक्कर्माख्यं विशिष्टं कर्म कुर्यात् । गणितागतः ग्रहः
क्रान्तिवृत्तीयः । किन्तु दृष्ट्यु पलब्धग्रहः क्रान्तिवृत्तादन्यत्र शराग्रे
तिष्ठति । अतः क्रान्तिवृत्तीयग्रहस्थानोदये सति शराग्रस्थो ग्रहः
क्षितिजादुपर्यधो वा भवति । तस्मात् ग्रहस्थानस्योदय ज्ञानार्थं दृक्कर्म क्रियते
। तदाह भास्करः।
१ सि,शि गो ९.१ २सि.शि पाताधिकारः ८
104
षडङ्गं ज्यौतिषम् क्रान्तिवृत्ते ग्रहस्थानचिह्न यदा स्यात् कुजे नो
तदा खेचरोऽयं यतः ।
स्वेषुणोत्क्षिप्यते नाम्यते वा कुजात् तेन दृक्कर्म खेटोदयास्ते
कृतम् ॥ इति रखेः क्रान्तिवृत्त एव विद्यमानत्वादिदं कर्म न कृतम् ।
इत्थं दशविधग्रहगणिते केचन विषयाः सङ्ग्रहीताः। फलादेशदृष्ट्या अन्यः
प्रमुखगणितविषयो वर्तते चन्द्रशृङ्गोन्नतिः । चन्द्रस्य अर्धादूने शुक्ले तत्कोटी
शृङ्गाकारे भवतः । तयोर्मध्ये कस्यचन शृङ्गस्यौन्नत्यं वर्तते तदनुसृत्य फलादेशः ।
इष्टकाले कतरस्य शृङ्गस्यौन्नत्यमिति गणितद्वारा ज्ञायते । एतादृशी स्थितिः
मासादिपादे मासान्तपादे च । मासस्य द्वितीयतृतीयचरणयोरपि शृङ्गोन्नतिः दृश्यते सा
च कृष्णशृङ्गोन्नतिः । इयं च ब्रह्मगुप्तादिभिरानीता किन्तु सा स्पष्टतया
नोपलभ्यते । अतः शृङ्गोन्नतिशब्देन शुक्लशृङ्गोन्नतिरेव गृह्यते । एतादृशचन्द्रङ्ग
क्शात् जायमानानि नौ लागलादीनि दशसंस्थानानि सफलानि संहिताग्रन्थे विवृतानि।
सर्वत्र सिद्धान्तग्रन्थस्य गणिताध्यायान्ते पातनामकोऽध्यायः निरूपितः।
नित्ययोगोषु विद्यमानात् पातात् नितरां भिन्नोऽयम् । अस्य महापात इति अपरं नाम ।
रविचन्द्रयोः पूर्वापरान्तराभावकाल अमाख्यः यथा सर्वशुभकर्मसु गर्हितः तथैव
तयोर्दक्षिणोत्तरान्तरसाम्यकालः पाताख्यः । पातो नाम रवीन्द्वोः क्रान्तिसाम्यमिति
परिभाषा । अत्र चन्द्रस्य स्पष्टक्रान्तिरेव स्वीक्रियते। क्रान्तिसाम्यकाले अवश्यं
भुजौ तुल्यौ भवतः । अयं च पातः द्विधा विभज्यते व्यतीपात वैधृतभेदेन । अनयोः
स्वरूप एव व्यत्यासः । तच्च भास्करण | व्यतीपातोऽयनभेदे....... इत्यादिना
प्रोक्तम् । रवीन्द्वोः केन्द्रीयक्रान्तिसाम्यकालः पातमध्यः । बिम्बैकदेशे यदा
क्रान्तिसाम्यं तदा पातस्याद्यन्तौ भवतः । अयं च पातकालः शुभकर्मसु गर्हितः ।
किन्तु स्नानदानादिकमत्र वृद्धिमुपैति ।
बहुषु विषयेषु सत्स्वपि केषाञ्चन प्रमुखाणां विषयाणां स्वरूपमेव अत्र
प्रदर्घ्य विरम्यते।
सूर्यसिद्धान्तोक्तग्रहस्फुटीकरणविचारः
विद्वान् श्रीपतिः
शोधच्छात्रः राजीवगान्धीपरिसरः
शृङ्गेरी, कर्णाटकम्
H0 W: M131000 MELI अथ ज्योतिश्शास्त्रफलं पुराणगणकैरादेश
इत्युच्यते] इति वचनात् ज्योतिश्शास्त्रमिदं फलादेशाय प्रवृत्तमिति जाज्ञायते ।
एतादृशफलादेशस्तु स्फुटग्रहैरेव । तदाह श्रीमद्भास्कराचर्यः || खेटैः
स्फुटैरेव फलस्फुटत्वम् इति ।
यथास्वभगणाभ्यस्तो दिनराशिः कुवासरैः । विभाजितो मध्यगत्या
भगणादिर्ग्रहो भवेत्॥ इत्यादिभिरानीताः ग्रहाः मध्यमा एव भवन्ति मध्यमदिनसमूहात्म]
केनाहर्गणेनानीतत्वात् । स्फुटगतेः प्रतिक्षणं वैलक्षण्यत्वात् मध्यमदिनसमूहात्म]
काहर्गणः साधितः । अनेन मध्यमाहर्गणेन साधिताः ग्रहाः नाडीमण्डलीय
कल्पितमध्यमार्कोदयकालिकाः भवन्ति न तु क्रान्तिवृत्तीयमध्यमार्कोदयकालिकाः।
तदुक्तं []
ज्योतिर्विदो मध्यमकालमानं ज्ञातुं सदा मध्यमसायनार्कः । नाडीवृतौ
सञ्चरतीति मत्वा तस्योदये वासरमारभन्ते ॥ इति ॥
सूर्यसिद्धान्ते तु लङ्कायामार्धरात्रिकः| इत्युक्तेः
लङ्कादेशे अर्धरात्रिकाले एव ग्रहाः आयान्ति । एतेषां स्फुटीकरणं तु
मन्दफलशीघ्रफलाख्यसंस्काराभ्याम् । रविचन्द्रयोस्तु मन्दफलसंस्कारमात्रम् । इह हि
गणितप्रपञ्चे स्फुटीकरणं नाम दृक्तुल्यत्वसाधनमित्यर्थः । फलोत्पत्तौ कारणं
निरूपयामास भास्कराचार्यः ||
'सिद्धान्तशिरोमणिः [२] सूर्यसिद्धान्तः ११३ ग्रहलाघवः *
सूर्यसिद्धान्तः १२०
106
षडङ्गं ज्यौतिषम् भूममध्ये खलु भवलयस्यापि मध्यं यतः
स्याद्यस्मिन्वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये । भूस्थो द्रष्टा नहि भवलये
मध्यतुल्यं प्रपश्येत्तस्मात्तः क्रियत इह तद्दोः फलं मध्यखेटे ॥ इति ।
मन्दफलानयनम् ।
पूर्वोक्तवत् ग्रहभ्रमणवृत्तस्य प्रतिवृत्ताख्यस्य केन्द्रं
भूगर्भादन्यत्रान्त्य] फलज्यातुल्यान्तरे विद्यते । अतः भूस्थो द्रष्टा
गणितागतग्रहं दृष्ट्युपलब्धतुल्यं न पश्यति ।
अनयोर्गणितागतदृष्ट्युपलब्धयोरन्तरमेव मन्दकर्मणि मन्दफलमित्युच्यते
शीघ्रकर्मणि शीघ्रफलं भवति । एतादृशस्य फलस्यानयनार्थमादौ पाठपठित]
परिधेः स्फुटीकरणं कार्यम् । इदं च सूर्यसिद्धान्तोक्तविशिष्टं कर्म । भास्करेणापि
प्रकारान्तरेणेदं कर्माकारि न किन्तु सर्वेषां परिधीनाम् । पश्चात् स्पष्टपरिधिना
मन्दकेन्द्रभुजज्या गुणिता भगणांशैविभक्ता चेत् मन्दफलज्या प्रमाणं लभ्यते ।
तस्याः चापे क्रियमाणे सति मन्दफलं भवति । अस्य मन्दफलस्य संस्कारस्तु |
अजादिकेन्द्रे सर्वेषां शैघ्ये मान्दे च कर्मणि । धनं ग्रहाणां
लिप्तादि तुलादावृणमेव च ॥इति॥ एवं च मन्दफलेन संस्कृताः ग्रहाः मन्दस्पष्टा
भवन्ति । 'मान्दं कमैकमन्द्वोः इति वचनात् रविचन्द्रौ मन्दकर्मणा एव
स्फुटत्वमाप्नुतः । अस्य कारणं तु दृक्प्रतीतिरेव । शीघ्रफलसाधनम् |
गणितागत दृष्ट्युपलब्दग्रहयोश्शीघ्रकर्मणि यदन्तरं तदेव शीघ्रफलं
भवति। शीघ्रकेन्द्रभुजज्या कोटिज्या च पृथक् पृथक् स्पष्टपरिधिना गुणिता
भगणांशैरुद्धृता चेत् ज्यात्मके फले लभ्येते । तयोश्चापे कृते भुजकोटिफलाह्वये
भवतः । अत्रोपपत्तिस्त्रैराशिकेन || भगणांशैः शीघ्रकेन्द्रभुजज्या कोटिज्या
वा लभ्यते तर्हि स्फुटपरिधिना किमिति । मकरादौ शीघ्रकेन्द्रे सति त्रिज्या
5 सिद्धान्तशिरोमणिः गोलाध्यायः । "सूर्यसिद्धान्तः २१५
सूर्यसिद्धान्तः३
107
गणितम् कोटिफलयोर्योगेन कादौ चान्तरेण स्फुटा कोटिर्लभ्यते ।
स्फुटकोटिवर्ग] भुजफलवर्गयोर्योगपदं शीघ्रकर्णो भवति । भूगर्भात्
शीघ्रप्रतिवृत्तस्थग्रहपर्यन्तं विद्यमान सूत्रमेव शीघ्रकर्णो भवति । तदानयनं तु
प्रतिवृत्तभङ्ग्यात्र निरूपितम् प्रतिवृत्तमने प्रदर्शितमस्ति । मकरादिकेन्द्रे
त्रिज्यापेक्षया कर्णस्तु कोटिफलमितेनप्रमाणेनाधिको भवतीति कारणाद्धनम् । कादौ
कोटिफलमितेन प्रमाणेन न्यूनमिति कारणादृणम् ।
शीघ्रकर्णाग्रे भुजफलं तदा त्रिज्याने किमित्यनुपातेन शीघ्रफलज्या
प्रमाणं लभ्यते । एतस्याश्चापं कक्षावृत्ते शीघ्रफलं भवति । तदुक्तं
त्रिज्याभ्यस्थं भुजफलं चलकर्णविभाजितम् । लब्धस्य चापं लिप्तादि फलं
शैघ्यमिदं स्मृतम् ॥ फलोपपत्तिं परिलेखद्वारापि प्रदर्शयितुं शक्यते । तदत्र |
प्रतिवृत्तभङ्गी
शीघोप्यम
मा
मन्दस्पागह
पटप
11-11-0
5-13-30
पनिवलमेषादिः
MANONY
कशीधान्यफलज्या
11-13-30
AMRAPANNA
5-13-30
कामायने मेषादिः।
MANORAMA
2-13-30
सूर्यसिद्धान्तः
108
षडङ्गं ज्यौतिषम्
नीचोच्चवृत्तभङ्गी ]
शीची काम
TW
अनयोरुभयोर्भङ्ग्यारेकत्र प्रदर्शनं कुर्मश्चेद्मिश्रभङ्गी भवति ।
कुजादीनां ग्रहाणां संस्कारक्रमः
रविचन्द्रयोः पूर्वोक्तदिशा मन्दफलसंस्कारमात्रमभिहितम् ।
सौरसिद्धान्ते कुजादीनां चत्वारः संस्काराः उपनिबद्धाः । तदुक्तं शैघ्यं मान्दं
पुनर्मान्दं शैघ्यं चत्वार्यनुक्रमात् इति । आदौ मध्यमग्रहेण शीघ्रफलमानीय तदर्धेन
मध्यमग्रहः संस्कार्यः तदा शीघ्रफलार्धसंस्कृतमध्यमग्रहो भवति । तेन
पुनर्मन्दफलमानीय तदर्धेन शीघ्रफलार्धसंस्कृतमध्यमग्रहस्संस्कार्यः तदा
शीघ्रफलार्धमन्दफलार्धसंस्कृत तमध्यमग्रहो भवति । तेन मन्दफलमानीय गणितागते
मध्यमग्रहे सकलं संस्कार्यम् । तदा मन्दस्पष्टग्रहो भवति । मन्दस्पष्टग्रहेण
शीघ्रफलमानीय तेन मन्दस्पष्टग्रहः संस्कार्यः तदा स्फुटग्रहस्य प्राप्तिर्भवति ।
अत्रोपपत्तिविषये उपलब्धिरेव प्रमाणं भवति । तथापि गणितक्रमं पश्यामश्चेत्
गणितागतः
'सूर्यसिद्धान्तः
गणितम्
109 मध्यमग्रह एव अवास्तव इति प्रतिभाति । वास्तवमध्यमग्रहस्तु
मन्दफलार्ध] शीघ्रफलार्धाख्यफलद्वयसंस्कारात् । एवं ग्रहाः लङ्कादेशे स्फुटाः
भवन्ति । स्वदेशे आनयनार्थं पुनश्चतुरस्संस्कारान् कुर्यात् । ते च रेखान्तर
भुजान्तर चर] उदयान्तराख्याः । किन्तु सूर्यसिद्धान्ते स्वल्पान्तरत्वात्
चरोदयान्तराख्यौ संस्कारौं परित्यक्तौ । तन्न दोषाय भवति । भास्करोऽपि
सिद्धान्तशिरोमणौ लिलेख ||
[]'स्वल्पान्तरत्वादबहूपयोगात् प्रसिद्ध्यभावाच्च बहुप्रयासात् ।
ग्रन्थस्य तज्ज्ञैर्गुरुताभयेन यस्त्यज्यतेऽर्थो न स दूषणाय ॥ इति
मन्दकर्मणि कर्णानुपातस्य त्यागे कारणम् । यथा शीघ्रकर्मणि
कर्णानुपातेन त्रिज्याने फलमानीयते तथैव मन्दकर्मण्यपि वासनायास्तुल्यत्वात् ।
किन्तु मन्दकर्मणि अयं चानुपातः परित्यक्तस्स्वल्पान्तरत्वादिति केचित् ।
अस्मिन् विषये ब्रह्मगुप्तः कारणमाह | मन्दकर्मणि मन्दकर्णतुल्येन
व्यासार्धेन यद्वृत्तमुत्पद्यते तत्कक्षावृत्तम् । तत्र ग्रहो भ्रमति ।
पाठपठितमन्दपरिधिभागाः त्रिज्यापरिणताः । एते कर्णव्यासार्धे परिणाम्यते अनुपातेन
। त्रिज्यावृत्ते पाठपठितपरिधिः तदा कर्णवृत्ते क इति । अत्र परिधेः कर्णों गुणः
त्रिज्या च हरः । पुनर्मन्दफलज्यानयनार्थं दोग़या गुणयेत् भांशैश्च विभजेत्।
अत्रोपलब्धं फलं कर्णाग्रे, त्रिज्याने साधनार्थं त्रिज्यया गुण्या
भांशैश्च भाज्या । एवं सति त्रिज्यातुल्ययोः कर्णतुल्ययोश्च गुणकभाजकयो शे कृते
पूर्वोक्तसूत्रमेव अवतिष्टति। अतः मन्दकर्मणि कर्णानुपातः परित्यक्त इति अवगम्यते
। किन्तु शीघ्रकर्मणि एतादृशी स्थितिरेव वरीवर्ति तथापि इत्थं न कृतमिति
नाशङ्कनीयम् । यतः फलवासनात्र विचित्रा । तदाह भास्कराचार्यः ।
"नाशङ्कनीयं न चले किमित्थं यतो विचित्रा फलवासनात्र । इति
एवं तत्तत्काले स्फुटग्रहं विधाय तद्वशात् फलमादिशेत् । तदैव
दैवज्ञस्य भारती अवन्ध्या भवति ।
10 सिद्धान्तशिरोमणिः ग्रहच्छायाधिकारः १६ " सिद्धान्तशिरोमणिः
गोलाध्यायः १७
वास्तुशास्त्रपरिचयः
विद्वान् गुण्डिबैल सुब्रह्मण्य भट्टः अवधानी, स्थपतिः,
वास्तुशास्त्रज्ञश्च,
उडुपी, कर्णाटकम् IM CLILD DILDLD INDI] इह खलु जगति
भारतभूमौ समेषां शास्त्राणां वेदा एव मूलमिति निर्विवादमभ्युपगतं सर्वैः । तस्य
कारणं तु सुस्पष्टम् । यतः सर्वेषां शास्त्राणां मूलानि वेदे एव दरीदृश्यन्ते ।
वेदास्तावत् ऋग्यजुस्सामाथर्वभेदेन चत्वारः । तथा आयुर्वेद धनुर्वेद गान्धर्ववेद
स्थापत्यवेदाः उपवेदत्वेन परिगृहीताः । उपवेदेष्वन्यतमं स्थापत्यं किञ्चिदत्र
विचारयामः । स्थापत्यं हि शिल्पशास्त्रमिति वास्तुशास्त्रमिति च लोके व्यवह्रियते
। वेदेष्वेव कश्यप ऋभु नासत्य अगस्त्य त्वष्ट्रादयः पूर्वशिल्पिनः श्रूयन्ते ।
मत्स्यपुराणे च ||
भृगुरत्रिर्वसिष्ठश्च विश्वकर्मा मयस्तथा । नारदो नग्नजिच्चैव
विशालाक्षः पुरन्दरः॥ ब्रह्मा कुमारो नन्दीशः शौनको भर्ग एव च ।
वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती।
अष्टादशैते विख्याताः शिल्पशास्त्रोपदेशकाः ॥ एवमेव पराशर गर्ग
बृहद्रथ मार्कण्डेयादयः अपि अन्यत्र स्मृताः । तैः प्रोक्ताः ग्रन्थाः संहितारूपेण
समुपलभ्यन्ते । प्रायः वेदाङ्गत्वेन निर्दिष्टानि शुल्बसू त्राण्येव
स्थापत्यशास्त्रस्य मूलमिति दृश्यते । यतः तत्रैव यज्ञशालायाः यज्ञवेद्याः
कुण्डानां च निर्माणविधिः उच्यते । तदर्थं मानसाधनानि च निरूपितानि । अद्य
उपलभ्यमानेषु स्थापत्यग्रन्थेषु प्राचीनतमाः शुल्बसूत्राण्येव । पुराणेष्वपि शिल्प
.
वास्तु
111 शास्त्रसम्बन्धिनः विषयाः तत्र तत्र निरूपिताः दृश्यन्ते ।
काश्यपसंहिता, भृगुसंहिता, मयमतम्, विश्वकर्मीयम्,
मार्कण्डेयसंहिता,
विष्णुसंहिता,
पाद्मसंहिता
इत्यादयः संहिताग्रन्थाः सम्प्रति मूलग्रन्थत्वेन स्वीक्रियन्ते । सर्वेष्वपि
आगमग्रन्थेषु शिल्पशास्त्रविषयाः प्रासङ्गिकतया निरूपिताः । समराङ्गणसूत्रधारः,
ईशानशिवगुरुदेवपद्धतिः,
सोमशम्भुपद्धतिः,
क्रियासारः,
प्रयोगमञ्जरी,
वास्तुरत्नावली,
वास्तुविद्या,
राजवल्लभमण्डनम्,
तन्त्रसमुच्चयम्,
शिल्परत्नम्,
मनुष्यालयचन्द्रिका
इत्यादयः स्वतन्त्रतया कुत्रचित् सङ्ग्रहरूपेण च वास्तुशास्त्रविषये पथदर्शकाः
भवन्ति । भरतमुनिकृतनाट्यशास्त्रेऽपि तृतीय चतुर्थध्याययोः नाट्यमण्डपनिर्माणावसरे
वास्तुविचाराः प्रस्तुताः । एवं च वास्तु शास्त्रस्य सर्वजनोपजीव्यत्वं
सर्वशास्त्रोपकारकत्वं च अनेन विज्ञायते । ग्राम पुर पत्तनादीनां वापी कूप सटाक
यज्ञशालानां, गेहमान शयनादीनां च मानवोपयोगिवस्तूनां निर्माणाय ऋषिभिः प्रणीतमिदं
वास्तुशास्त्रम् । वास्तु शब्दस्य निर्वचनम् मयमते एवं प्रदर्शितम् |
भूरेव मुख्यवस्तु स्यात् तत्र जातानि यानि हि । प्रासादादीनि
वास्तूनि वस्तुत्वात् वस्तुसंश्रयात् ॥
अतः भूमौ यानि अस्माभिः निर्मितानि तानि सर्वाणि वास्तुपदवेद्यानि
भवन्ति । किं तेन प्रयोजनमित्यत्र समराङ्गणसूत्रधारकृता भोजेन एवमुक्तम् ||
'सुखं धनानि ऋद्धिश्च सन्ततिः सर्वदा नृणाम् । प्रियाण्येषां तु
संसियै सर्वं स्याच्छुभलक्षणम् ॥
यच्च निन्दितलक्ष्मा च तदेतेषां निघातकृत् ।।।
1 प्रथमोऽध्यायः २ प्रथमोऽध्यायः ३
112
षडङ्गं ज्यौतिषम् वास्तुशास्त्राइते तस्य न स्याल्लक्षणनिश्चयः।
तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ॥
वास्तुशास्त्रस्य मूलं बेदे एव दृश्यते । ऋग्वेदे गृहस्य प्रस्तावः
दृश्यते । यजुर्वेद यज्ञशालायाः विषयाः निरूपिताः वर्तन्ते । बोधायनश्रौतसूत्रेषु
अथेमे अग्निचयाः तेषां भूमेः परिमाणविहारान् व्याख्यास्यामः] इति यागशालायाः
परिमाणाः निर्दिष्टाः । मानप्रमाणान्यपि बोधायनगृह्यसूत्रेषु अथाङ्गुलप्रमाणम्
चतुर्दशाणवः चतुस्त्रिंशत्तिलाः पृथुसंश्लिष्टा इत्यपरम्] इत्यादि स्थलेषु
द्रष्टव्याः । एतान्येव प्रमाणानि गच्छता कालेन परिष्कृताः दृश्यन्ते ।
मानसाधनान्येव शास्त्रस्यास्य मूलभूतानि । आश्रमेषु चतुर्पु गृहस्थस्य
सर्वोपजीव्यत्वं वर्तते । उक्तञ्च |
वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजाः। गृहस्थस्य प्रसादेन
जीवन्त्येते यथाविधि ।
गृहस्थस्य क्रियास्सर्वाः न सिध्यन्ति गृहं विना ॥ तस्मात् गृहस्य
आवश्यकत्वं विज्ञायते । अपि च |
'परगेहे कृतास्सर्वाः श्रौतस्मार्तक्रियाः शुभाः । निष्फलाः
स्युर्यतस्तासां भूमीशः फलमश्नुते ॥
इत्यादीनि वचनानि अन्यगृहे क्रियमाणानि कर्माणि निष्फलान्याहुः।
तस्मात् गृहस्थेन गृहवता अवश्यं भाव्यम् । तादृशगृहाणां निर्माणाय प्रवृत्तमिदं
शास्त्रं वास्तुशास्त्रमिति विश्रुतम् । वास्तुग्रन्थेषु गृहनिर्माणविधिः विस्तरेण
प्रतिपादिताः । अत्र एते अंशाः द्रष्टव्याः ।
प्रथमोऽध्यायः ५ 'बृहद्वास्तुमाला ४
वास्तु
113
अत्र क्रमेण बहुधा धरणीपरीक्षा दिनिर्णयादिशुभवीथिपरिग्रहश्च ।
धाम्नां प्रमाणविधिरङ्कणकुट्टिमादीन्यङ्गानि बाह्यविधयश्च तथा विधेयाः ॥
अतः भूपरीक्षा, दिक्परीक्षणम् तन्निर्णयश्च, वीथीनां
निर्णयः, धाम्नां प्रमाणानिश्चयः, उपाङ्गानां नियमाः इत्यादीनि अत्र
विस्तरेण प्रतिपाद्यन्ते।
अनेकविधाः भूपरीक्षाप्रकाराः, सूर्यस्य
रश्मिभिः छायया च दिक्साधनं, मानप्रमाणकथनं, एकशालाद्विशालाभेदात्
गृहस्य बहूनां प्रकाराणां कथनम्, अधिष्ठानं, भित्तिः,
उत्तरं,
लुपाः,
भारतुलाः,
स्तम्भाः,
सारेष्टकाः
इत्यादीनां विस्तरेण निरूपणं शास्त्रेऽस्मिन् भवति । गोशाला, वापी,
कूपम्,
इत्यादि
उपाङ्गानां च निर्माणविधिः विस्तरेण अत्र प्रतिपाद्यते । आयादिगणितं, तद्वशात्
फलनिरूपणं च प्रदर्शितम् । एतान् सर्वान् ये जानन्ति तान् शिल्पिनः इति कथयन्ति ।
लक्षणं |
गणनं स्थानभेदं च तथा भूम्याश्च लक्षणम् । स्थपतिर्यो न जानाति स
निन्द्यो मूढ एव हि ॥
वराहमिहिराचार्यैः स्वकीयायां बृहत्संहितायां दकार्गलाध्याये
जलशोधप्रकारोऽपि दर्शितः । अर्वाचीनाः मनुष्यालयचन्द्रिका बास्तुविद्या | प्रभृतयः
ग्रन्थाः मनुष्यालयनिर्माणविधानं विस्तरेण बोधयन्ति । वास्तुशास्त्रस्य
देवालयनिर्माणभागः शिल्पशास्त्रत्वेन निर्दिश्यते । आगमग्रन्थाः तन्त्रग्रन्थाश्च
शिल्पविषयानपि वदन्ति । काश्यपीयम्, विश्वकर्मीयम्, मयमतम् इत्यादयो
ग्रन्थाः शिल्पविषयप्रतिपादकाः वर्तन्ते । एवं सर्वजनोपजीव्यत्वात् शास्त्रमेतत्
समेषां
उपकारकं सत् तिष्ठति।
4
मनुष्यालयचन्द्रिका || आ3, १६
वास्तुशास्त्र केरलीयं योगदानम्
आचार्या इन्दिरा. पि साहित्यविभागाध्यक्षा राजीवगान्धीपरिसरः
शृङ्गेरी, कर्णाटकम्
IIIIIIIIIIIIIIIIIIII वास्तुशास्त्रपरम्परायां
प्राचीनकालादारभ्यैव ग्रन्थानामेका विशाला शृङ्खला प्रसारिता वर्तते ।
वैदिकसाहित्ये, रामायणमहाभारतादिषु, अष्टाध्यायी
अर्थशास्त्रजैनबौद्धागमतन्त्रपुराणबृहत्संहितादिषु च वास्तुशास्त्रविचिन्तनं कृतं
वर्तते। मानसारः, समराङ्गणसूत्रधारः, मानसोल्लासः, कश्यपशिल्पम्,
वास्तुरत्नावली,
कोदण्डमण्डनम्,
विश्वकर्मीयम्,
प्रासादमण्डनम्,
इत्यादयः
प्रसिद्धाः स्वतन्त्रप्रमाणग्रन्थाः सन्ति ।
केरलीयैः मनीषिभिरपि वास्तुशास्त्रविचिन्तनं स्वस्वग्रन्थेषु कृतं
वर्तते । केरलीयवास्तुविद्यायाः आधारभूतग्रन्थाः इमे सन्ति । वास्तुविद्या,
ईशान
गुरुदेवपद्धतिः , शिल्परत्नम्, तन्त्रसमुच्चयम्, मनुष्यालयचन्द्रिकाः
च ।
वास्तुविद्या || केरलीयस्थापत्यकलामाश्रित्य विरचितोऽयं
ग्रन्थः । अस्य कर्ता कः] केन विरचितः कदा विरचितः । इत्यादि न इदानीं ज्ञायते ।
ग्रन्थेऽस्मिन् षट् अध्यायाः सन्ति । गृहनिर्माणार्थम् उपयुक्तवस्तूनां, तथा
उचितभूमिसम्बन्धिनां च विचारः अत्र वर्तते । ग्रन्थस्यास्य प्रकाशनं एस् . टि.
रेड्डियार् सन्स् द्वारा प्रथमं कृतम् । करुवा नीलकण्ठ आशरिणा अस्य ग्रन्थस्य
भावबोधिका इति नाम्नि एका टीका व्यरचि । अनन्तरं टि.गणपतिशास्त्रिणा तथा
महादेवशास्त्रिणा च वास्तुविद्या ग्रन्थस्य प्रकाशनं १९१३ तमवर्षे एवं १९४०
तमवर्षे च कृतम् । पुनः वि. चन्द्रशेखरपिल्लैः तथा एस्.बालकृष्ण आश्शरिवर्यैः च
वास्तु
115 चेरुवल्लीनारायणन् नम्पूतिरि भागानां व्याख्यासहितं अस्य ग्रन्थस्य
प्रकाशनं २००७ तमे वर्षे पुनरपि कृतम् ।
ग्रन्थारम्भे गणेशसरस्वतीविश्वकर्मणां स्तुतिञ्चकार । शिल्पिनां
गुणाः के] भूलक्षणानि कानि इत्यादिविषयाणां विचिन्तनं प्रथमाध्यायस्य विषयः ।
उचितभूमिस्वीकरणे प्रमाणं किम् इति द्वितीयाध्याये, भूदेवताविषयकचिन्तनं
कथं करणीयमिति तृतीये वास्तुपुरुषस्य उद्भवः, स्थानञ्च कुत्र
इति चतुर्थे च निरूपितम् । गृहनिर्माणोचितस्थाननिर्णयादिकं, शालाविधा नादिकं,
आच्छादनविधानादिकं,
धूलीनिरोधनादिविधिविचिन्तनं,
योनिसङ्कल्पा
दिकं, वातायनस्थापनचिन्तनादिविषयाणां विस्तरेण प्रतिपादनं चात्र विहितम् ।
ईशानगुरुदेवपद्धतिः | तन्त्रग्रन्थेष्वन्तर्भवत्ययं ग्रन्थः
। ईशानगुरुदेवः उत्तरभारतीयः इति केषाञ्चनमतम् । अपरे गवेषकाः तं केरलीयत्वेन
गण्यन्ते । ग्रन्थोऽयं ऊनविंशत्युत्तरैकशतपटलयुक्तं अष्टादशसहस्रश्लोकयुक्तञ्च ।
देवस्थानस्थापत्यकलाधारेण निर्मितेऽस्मिन् ग्रन्थे नगरद्राविड, वेशररूपनिर्माणप्रक्रिया
वर्णिताः सन्ति ।
शिल्परत्नम् |स्थापत्यकलामश्रित्य विरचितोऽयं
ग्रन्थः मयमतानुसारी इति विदुषां मतम् । भागद्वययुक्तं भवति शिल्परत्नम् ।
षट्दत्वारिंशत् अध्याययुक्ते प्रथमभागे गृहनिर्माणमधिकृत्य विचिन्तनं कृतम् ।
अन्तिमाध्याये चित्रलक्षणादि]] विचाराः DIDITIOLI प्रस्तुतः ।
द्वितीये भागे पञ्चत्रिंशत् अध्यायाः सन्ति । तिरुवनन्तपुरात्
टि.गणपतिशास्त्रिवर्येण तथा साम्बशिवशास्त्रिवर्येण च ग्रन्थस्यास्य प्रकाशनं
कृतम्।
भार्गवगोत्रोत्पन्नः श्रीकुमारब्राह्मणः अस्य कर्ता भवति ।
देवनारायणराज्ञः सभायां विराजितः अयं पण्डितः । शिल्पग्रन्थानाम् आगमग्रन्थानां
चाधारेणैव ग्रन्थस्यास्य रचना कृता वर्तते । आचार्यलक्षणम्, अनुक्रमणिका च
प्रथमाध्यायस्य
116
षडङ्गं ज्यौतिषम् विषयः । वास्तुपुरुषस्य तथा वास्तुपूजायाः च वर्णनं,
ग्रामसंविधानं,
निर्माणसामग्रीविचिन्तनं,
प्रासादलक्षणं,
विविधप्रासादानां
प्रमाणादिकमित्यादि
वास्तुसम्बद्धविज्ञानानि अत्र सङ्कलितानि सन्ति ।
तन्त्रसमुच्चयम् | श्री.नारायणनम्पूतिरिमहोदयः अस्य
ग्रन्थस्य कर्ता । अनेन देवालयचन्द्रिका, मानववास्तुलक्षणमिति ग्रन्थद्वयमपि
विलिख्य वास्तुशा स्त्रस्य प्रवर्धनं कृतम् । तान्त्रिकग्रन्थेषु
वास्तुविद्याविज्ञानस्यापि सुन्दरं विवरणं द्रष्टुं शक्यते । देवालयनिर्माणादिव्यवस्था
शिल्पभागे विचारितम् । ग्रन्थस्यास्य तृतीयभागे देवालयशिल्पकलामधिकृत्य विचारः
कृतः । काणिप्पय्यूर नारायणनम्पूतिरि महाभागेन मलयालभाषायामस्य व्याख्यानं कृतम्।।
द्वादशाध्याययुक्तेऽस्मिन् ग्रन्थे भूपरिग्रहः, अधिष्ठानविधिः,
एकशालाविधिः,
द्विशालाविधिः,
बिम्बलक्षणम्,
लिङ्गलक्षणम्,
ध्यानश्लोकाः,
दीपमाला,
ध्वजलक्षणम्,
गोपुरविधिः,
नवीकरणञ्च
सुष्ठुरीत्या प्रतिपादितम् ।
मनुष्यालयचन्द्रिका || तिरुमङ्गलत् नीलकण्ठमूस्सद् महाभागेन
विरचिते अस्मिन्ग्रन्थे सप्ताध्यायाः सन्ति । मातङ्गलीलाकाव्योल्लासादिग्रन्थतल्लजादीनां
कर्तारः एते महानुभावाः । अस्य ग्रन्थस्य द्वादशव्याख्यानानि मलयालभाषायां सन्ति
इति अस्य ग्रन्थस्य वैशिष्ट्यस्य प्रमाणं भवति । स्थपतिलक्षणं, भूपरिग्रहः,
वृक्षस्थितिः,
सूत्रविन्यासः,
वास्तुपुरुषमण्डलं,
योनिविचारः,
विविधगृहपरिचयः,
वापीकूपादिनिर्माणविधिः
इत्यादिविषयाणां विचिन्तनमस्मिन् दरीदृश्यते । केरलराज्ये
मनुष्यालयचन्द्रिकामधिकृत्यैव प्रासादनिर्माणं सामान्येन प्रचलितम्, ।
एवं भाषायां प्रमुखग्रन्थानां परिचयः अत्र विहितः । एतैस्सह अन्येऽपि
बहवः वास्तुशास्त्रोपदेष्टारः आचार्याः शास्त्रस्यास्य सम्पुष्ट्यर्थं प्रचारार्थं
च स्वकीयं योगदानं दत्तवन्तः इति प्रस्ताव्यमेव । परम्परया प्राप्तमिदं
वास्तुशास्त्रम्
अविच्छिन्नगत्या इदानीमपि प्रसरति इति प्रमोदाय प्रभवति ।
+
पुराणेतिहासेषु वास्तुशास्त्रम्
श्रीमती कीर्तिसुधा
शोधच्छात्रा, गुरुवायूरुपरिसरः
त्रिशूरू, केरळराज्यम् IIIIIIIIIIIIIIIIIIIIII वस् धातोः
निष्पन्नोऽयं शब्दः वास्तु इति निवासस्थानार्थकः । वसन्ति प्राणिनो यत्र तद्वास्तु
इति व्युत्पत्तिः । वेश्म भूर्वास्तुरस्त्रियाम्' इत्यमरकोशोक्ति
मनुसृत्य निवासयोग्याभूमिः उत गृहकरणयोग्याभूमिः वास्तु इति वक्तुमर्हामहः ।
विश्वकर्मणा गृहादिनिर्माणार्थं प्रयुक्तानां वस्तूनामपि वास्तु संज्ञा उक्ता,
यथा
इष्टिका च शिला दारुरसः कीलादयोऽप्यमी।
वास्तुकर्मणि चान्यत्र वास्तुसंज्ञमुदीरितम्॥2 अतः विश्वकर्म
विश्वकर्मवास्तुशास्त्रम् मय मानसारः|भोज समरङ्गण सूत्रम् आदीनां पण्डितानां
मते वास्तु इति पदात् गृह राजभवन प्रासाद माम] नगर मार्ग मन्दिर मण्डप
तडागादीनामपि ग्रहणं भवति । पुराणेषु वास्तुशास्त्रम् ||
अष्टादशपुराणेषु वास्तुशास्त्रप्रस्वावः अत्यधिकतया मत्स्यपुराणे,
विष्णुधर्मोत्तरपुराणे
च वर्तते।
मत्स्यपुराणे प्रायः दशसु अध्यायेषु अतिविस्तृततया चारितास्सन्ति ।
वास्तुभूतोद्भवनामके अध्याये वास्तुपुरुषस्योत्पत्तिः, भूपरीक्षणम्,
वास्तुपदविन्या]
सः इत्यादयः वर्णिताः। इतराध्यायेषु रुचक बज्र द्विवज्र प्रलीनक
वृत्तेतिपञ्चानां
'अमरकोशे द्वितीयकाण्डे पुरवर्गे श्लोकसंख्या 19 2
विश्वकर्मवास्तुशास्त्रम् 3 मत्स्यपुराणे अध्यायानां संख्या 252255,
257/259,270, 273, 293
118
षडझं ज्यौतिषम् महास्तम्भानां वर्णनम्, मन्दिरस्थापत्यवर्णनम्,
वर्धमानादिभवनानामुल्लेखः
वर्तते।
गरुडपुराणे अध्यायद्वये विस्तरेण वास्तुशास्त्रस्योल्लेखः वर्तते ।
अत्र त्रिविधानाम् आवासीय सैन्य देवालयानां महती चर्चा दृश्यते । एवमेव
पञ्चविधानां प्रासादानां वाराज पुष्पक कैलाश मालिका त्रिविष्टपम् विवरणञ्च
अदार्शिषत ।
विष्णुधर्मोत्तरपुराणे विस्तृततया, सर्वाधिकतया
वास्तुशास्त्रस्य वर्णनञ्च कार व्यासेन । अत्र प्रायः चत्वारिंशदध्यायेषु वास्तु
प्रतिमा चित्रकलानां विषयाः विशदीकृताः । विष्णुधर्मोत्तरपुराणस्य द्वितीयखण्डे
एकोनविंशतितमेऽध्याये एवं तृतीयखण्डे त्रिनवतितमेऽध्याये भूचयनादितः भवनानां
विभागान्तं वर्णितानि । द्वितीयखण्डे त्रिंशतितमेऽध्याये उद्यानसम्बन्धिविषयाः,
तृतीयखण्डे
नवसु अध्यायेषु चित्रकलायाः वर्णनं तासां कलानां संरक्षणञ्च वर्तते । तृतीयखण्डे
मन्दिरप्रासादादीनां, शतविधानां देवप्रासादानां लक्षणानि, तेषां रचनाविधिः
तदर्थं शिलाचयनविधिः इत्यादयः विषयाः वर्णिताः । एवं सर्वेषु पुराणेषु
वास्तुशास्त्रस्य वर्णनमस्त्येव विस्तरेण उत परिचयमात्रेण। इतिहासेषु
वास्तुशास्त्रप्रसङ्गः]
वाल्मीकिरामायणे अयोध्याकाण्डे
वास्तुशास्त्रपारिभाषिकशब्दानामुल्लेखो वर्तते अथ भूमिप्रदेषज्ञाः' इत्यादिरीत्या
। एवमेव अयोध्या किष्किन्धा लङ्का नगरादिषु भवन प्राकार गोपुर चन्द्रशालादीनां
वर्णनं वास्तुशास्त्रीयकलायाः अतीवमनोहरं चित्रणं प्रस्तौति । महाभारतकाले
इन्द्रप्रस्थाननगरस्य वा तत्रस्थायाः राजसभाया वा वास्तुकला औन्नती प्रदर्शयति ।
वास्तुशास्त्रपण्डिताः निपुणाश्च मयः पाण्डवानामन्तःपुरे मयभवनं नाम्ना
निर्मितमेकं भवनं वास्तुशास्त्रस्य अत्युन्नतस्य अत्युत्तमस्य च स्वरूपस्य
निदर्शनम् । एवमस्माकं पुराणेतिहासेषु वास्तुकलायाः सामग्री अत्यधिकतया समुपलभ्यते
।।
4 बाल्मीकिरामायणे अयोध्याकाण्डे 33सर्गे
वज्रलेपनिर्माणविधिः गुणाश्च
कुमारी. रोषिणी वेङ्कटेश्वरन् अनुसन्धात्री, ज्योतिषविभागः
राष्ट्रियसंस्कृतविद्यापीठम्,
तिरुपतिः, आ.प्र
II-IIIIIIIIILD IND वज्रलेप इत्यस्य आङ्ग्लं पदमस्ति II
II DI] इति । वज्रवत् बलयुक्तः यः लेपः सः वज्रलेपः।
प्रासादहऱ्यावलभीलिङ्गप्रतिमासु कुड्यकूपेषु ।
सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ॥' इति । सन्तप्तः
वज्रलेपः यदि प्रासादेषु, हर्येषु, वातायनेषु,
शिवलिङ्गेषु,
प्रतिमासु,
भित्तिषु,
कूपेषु
लिप्तः तर्हि ते सहस्रायुतं वर्षकोटि तिष्ठति ।
आधुनिके काले यः लेपः उपयुज्यते तस्मिन् प्रकृतिघातकानि रासवस्तूनि
वर्तन्ते । प्राचीनकाले वज्रलेपः प्राकृतिकवस्तुभिः निर्ममे । वराहमिहिराचार्येण
विरचिते बृहत्संहिताग्रन्थे त्रिविधः वज्रलेपनिर्माणविधिः उल्लिखितः ।
मिश्रधातुभ्यः, पशूनां शृङ्गादिभ्यः, वृक्षाणां फलपत्रादिभ्यश्चेति ।
वज्रलेपनिर्माणविधिः
आम तिन्दुकमाम कपित्थक पुष्पमपि च शाल्मल्याः। बीजानि शल्लकीनां
धन्वनवल्को वचा चेति ॥ एतैः सलिलद्रोणः क्वाथयितव्यो ष्टभागशेषश्च । अवतार्योऽस्य
च कल्को द्रव्यैरेतैः समनुयोज्यः ॥ श्रीवासकरगुग्गुलुभल्लातककुन्दुरूकसर्जरसैः ।
अ.चि.५७.वज्रलेपलक्षणाध्यायः २.श्लोक०
120
षडङ्गं ज्यौतिषम् अतसीबिल्वैश्च युतः कल्कोऽयं वज्रलेपाख्यः ॥ इति ।
अपक्वं तिन्दुकफलम्, अपक्वं कपित्थकफलं, शाल्मलीवृक्षस्य पुष्पं, शल्लकीवृक्षाणां
बीजानि, धन्वनवृक्षस्य त्वक् च एकद्रोणजलेन सह क्वाथयितव्यः । एकद्रोणः
षञ्चाशदधिकं पलशतद्वयं भवति । एतस्य यदा अष्टभागावशेषः तदा अवतार्यः, तदनन्तरं
कल्कनिर्माण कार्यम् । तदर्थं श्रीवासकनामवृक्षस्य निर्यासः, बोलः,
गुग्गुलुः,
भल्लातकः,
कुन्दुरूकाख्यः
देवदारुवृक्षस्य निर्यासः, सर्जरसकवृक्ष|| निर्यासश्च
अतसीबिल्वफलैः सह समनुयोज्यः। अस्य कल्कस्य वज्रलेप इति नाम।
अन्यद्वज्रलेपमप्यत्र उच्यते |
लाक्षाकुन्दुरुगुग्गुलुगृहधूमकपित्थबिल्वमध्यानि ।
नागफलनिम्बतिन्दुकमदनफलमधूकमञ्जिष्ठाः ॥
सर्जरससामलकानि चेति कल्कः कृतो द्वितीयोऽयम् । इति ।
लाक्षावृक्षनिर्यासः, कुन्दुरूकः, गुग्गुलुः, श्यामाख्यः
गृहधूमः, कपित्थफलं, बिल्वफलस्य मध्यं, नागफलं,
निम्बफलं,
तिन्दुकफलं,
मदनफलं,
मधूकफलं,
मञ्जिष्ठा,
सर्जवृक्षनिर्यासः,
बोलः,
आमलकं
च इत्येतानि पूर्वोक्ते क्वथिते सम्मिथ्य क्वाथयितव्यानि । एवं प्रकारः द्वितीयः
कल्कः क्रियते यस्यापि वज्रलेपसंज्ञा भवति तथा प्रागुक्तस्य वज्रलेपस्य समगुणः
भवति । वज्रतलो नाम कल्कः।
गोमहिषाजविषाणैः खररोम्णा महिषचर्मगव्यैश्च ।
निम्बकपित्थरसैः सह वज्रतलो नाम कल्कोऽन्यः ॥ इति । गो महिष अजानां
शृङ्गः, गर्दभस्य रोमभिः, महिषचर्मणा, गव्यैः, निम्बकपित्थरसैः
2 अ.चि.५७.वज्रलेपलक्षणाध्यायः ॥ श्लोक०
अ.चि.५७.वज्रलेपलक्षणाध्यायः.५.६,श्लोक. 4
अ.चि.५७.वज्रलेपलक्षणाध्यायः .७.श्लोक०
वास्तु
121 सह, बालैश्च युतः पूर्वोक्तरीत्या अष्टभागशेषं यावत् क्वाथयितव्यः । अयं
वज्रतलो नाम कल्कः भवति यस्मिन् प्रथमवज्रलेप इव गुणाः भवन्ति । वज्रसङ्घाताख्यः
कल्कः [
अष्टौ सीसकभागाः कांसस्य द्वौ तु रीतिकाभागः।
मयकथितो योगोऽयं विज्ञेयो वज्रसङ्घातः ॥ इति । एवं मयकथितः योगोऽयं
वज्रसङ्घातः । सीसस्य अष्टौ भागाः, कांसस्य द्वौ भागौ, एकः
भागः रीतिकायाश्च इत्येते सन्तप्ताः तर्हि वज्रसङ्घाताख्यः लेपः भवति। मयः ||
सह्याष्टौ सीसभागान् कांसस्य द्वौ तथाशकम् ।।
रीतिकायास्तु सन्तप्तो वज्राख्यः परिकीर्तितः ॥ इति । वज्रलेपेन न
केवलं बलं अपितु भित्तिः समतला श्लेक्ष्णा च भवति । चित्रनिर्मा] णात्पूर्वं
वज्रलेपनिर्माणं भित्तिषु तस्य लेपनं च कार्यं ततः परमेव चित्राणि विलि[] ख्यन्ते
स्म । वर्णाः वज्रलेपेन सह मिश्रिताः भित्तिकासु लिम्पन्ते स्म येन श्लक्ष्णतां
प्राप्यन्ते स्म । एवं शिल्पशास्त्रे चित्रकलासु च वज्रलेपस्य उपयोगाः प्राप्यन्ते
। सोमेश्वरस्य अभिलषितार्थचिन्तामणौ चित्रकर्मार्थे लेपद्रव्यं प्रचक्ष्यते ।
तद्यथा || माहिषं त्वचमादाय नवं तोयेन मेलयेत् । नवनीतमिवायाति यावच्चक्कणतां
भृशम् ॥ तत्कल्कं चिकणीभूतं शलाकाः परिकल्पयेत् । यत्नेन
शोषयेत्पश्चाद्यावत्काठिन्यमानुयुः । वज्रलेपो मयाख्यातः चित्रे सर्वत्र शस्यते ।
तं कृत्वा मृत्तिकापात्रे तोयं क्षिप्त्वा प्रतापयेत् ॥ स तप्तो द्रवतां याति
सर्ववर्णेषु तद्रवः । मिश्रणीयप्रमाणेन यथा वर्णो न नश्यति ॥
आदाय मृत्तिका श्वेता वज्रलेपेन मिश्रयेत् । तया लेपं प्रकुर्वीत
शुष्कभित्तौ त्रिवारतः ॥ शङ्खचूर्णसितापिष्टं वज्रलेपसमन्वितम् । आदाय भित्तिका
लिम्पेद्यावत्सा श्लक्ष्णतां व्रजेत् ॥
एवम् उक्तविधिषु वज्रलेपाः संसिध्य प्रयुक्ताः । एतेषु
वृक्षनिर्यासस्य
अ.चि.५७.वज्रलेपलक्षणाध्यायः ८.लोक० 6
अ.चि.३.आलेख्यकर्म,सं.पृ.१९५,१४२४७ श्लोक०
122
षडङ्गं ज्यौतिषम् अनुपातः यदा वर्धितः तदा वज्रलेपः अधिकबलभद्रः
सञ्जातः । निर्यासेषु अधिकः प्रभावी लाक्षा इति वृक्षनिर्यासोऽस्तीति ज्ञातम् ।
एवं प्राचीनकालस्य अस्य पर्यावर णानुकूलस्य वज्रलेपस्य प्रयोगः आधुनिके कालेऽपि
कर्तुं शक्यते इति निरूपितः ।
केषाञ्चन द्रव्याणां शास्त्रीयनामानि १. तिन्दुक :: DIMIMDITILIM
२.
कपित्थ STMAIMIMILIIIIIIIIIIIII ३. शल्लकी ४. बचा ५. द्रोणः
: 256 III ६. रक्तबोल :0MDIOMOTIO ७. श्रीवासक
: III MillTINO : Hill, Torino 100 nini : IIIIIIIIIIIIIII
९. नाग १०. भल्लातक ११. कुन्दुरूक १२. अतसी १३. बिल्व १४. लाक्ष १५.
निम्ब १६. मदन १७. मधूक
१८. आमलक
:ILINDIIIIIIIII
:
१९. सीसक २०. कांस: २१. रीतिका
संवत्सरनामसुभ्रान्तयः तत्परिहृतयश्च
डा. रामकृष्णपेजत्तायः
सहायकाचार्यः, चिन्मयविश्वविद्यापीठम्
एर्नाकुलम् , केरळराज्यम् do III: 0.00 n ano
di TTI प्रभवादयः षष्टिः संवत्सराः सर्वेषां विदिता एव विपश्चिताम् । किञ्च
तेषां नामसु वर्तते महती भ्रान्तिः । तस्याः परिहतिः मूलग्रन्थानां सावधानेन
परिशील नेनैव सिध्यति । परन्तु प्रायः सर्वेऽपि ज्योतिर्विद्याविचक्षणाः
पञ्चाङ्गलेखितारो वा स्वोपलब्धं किञ्चन प्रमाणम् आधृत्य व्यवहारं प्रकुर्वते,
येन
तेषां स्वावलम्बितस्य प्रमाणस्य साधुत्वजिज्ञासा तत्रात्यानां मतान्तराणां समीक्षा
वा न जातु सञ्जाता । तस्माद् सुबहूनि सदोषाणि संवत्सरनामानि साम्प्रतं व्यवहारे
सन्ति यानि च चिरात् प्रयुज्यमानानि साधूनीत्येव धीरस्ति नः । एकः शब्दः सम्यग्
ज्ञातः सुष्ठ प्रयुक्तः स्वर्गे लोके कामधुग्भवति इति प्रत्ययवान् शिष्टलोको न
मनागपि सहतेऽपशब्दप्रयोगम् । वाग्व्यवहारे स्थितेष्वेव शब्देष्वेषा धीरस्ति चेत्
का कथा पुनर्नित्यनैमित्तिकादिकर्मोपयुक्तानां संवत्सरनाम्नाम् | तस्मात्
तेषु केषाञ्चिन्नाम्नां साध्वसाधुत्वविचाराय प्रवृत्तोऽस्ति प्रकृतो लेखः ।
दुर्मुखः दुर्मुखी
___ अस्य संवत्सरस्य नाम केचन दुर्मुख इत्युच्चारयन्ति, केचित्तु
दुर्मुखी इति । पञ्चाङ्गेष्वपि इयमेव स्थितिः । अतोऽत्र साधुरूपं किमिति विचार्यम्
। तत्र व्याकरणदृष्ट्या तु उभौ शब्दौ साधू । यतः |
> दुष्टं मुखम् अस्यास्तीति दुर्मुखः ।
124
षडङ्गं ज्यौतिषम् » दुष्टं मुखं दुर्मुखम्, तदस्यास्तीति
दुर्मुखी।'
किन्तु, एतावतैव साधुत्वनिर्णयो न समुचितः । प्राचीनैः अस्य संवत्सरस्य का
संज्ञा निर्दिष्टा इत्येतदेवात्र प्रमुखं प्रमाणं भवति । तत्र षष्टेः संवत्सराणाम्
उल्लेखावसरे गरुडपुराणम्, वीरमित्रोदयः, नारदसंहिता ||
इत्यादिषु
दुर्मुखशब्द एव दृश्यते ।यथा गरुडपुराणे नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ।'
तथा
च संवत्सरफलकथनप्रसङ्गे ।
अवृष्टिरादौ धनधान्यहीनाः प्रजा नृपा व्याधिभयेन तप्ताः ।
तोयं समा व्यवहारहानिः स्याद् दुर्मुखे चोग्रनृपास्तु भूपाः ॥ अत्र
प्रयुक्तं दुर्मुखे इति रूपं दुर्मुखशब्दस्यैव भवतीति निश्चप्रचमेव । इत्थं
सर्वत्र दुर्मुखशब्दस्य प्रयोगो दृश्यते । तथा च, न क्वापि
दुर्मुखीति प्रयुक्तम् । अतो दुर्मुखी इति यत् पञ्चाङ्गेषु लिख्यते, यच्च
कैश्चिद् उच्चार्यते तद् भ्रममूलमेवेति निश्चप्रचं वक्तव्यं भवति । हेमलम्बः ||
हेमलम्बी
|| हेविळम्बी
अत्र तावन्महान् विसंवादो विद्यते । अयं संवत्सरः कैश्चित् हेमलम्ब
इति उच्चार्यते, कैश्चित्तु हेमलम्बी इति । हेविलम्बीत्यपि व्यवहारो चिराद्
रूढमूलोऽस्ति, विशिष्य दाक्षिणात्येषु । अत्रापि प्रामाणिकाः प्रयोगाः एव शरणम् ।
अतः तान् प्रयोगान् किञ्चिद् विलोकयेम।
संवत्सरनामप्रकरणे गरुडपुराणे यथा । हेमलम्बो विलम्बश्च विकारः
शार्वरी प्लवः। एवम् एव वीरमित्रोदयस्य समयप्रकाशे अपि उपलभ्यते । बृहत्संहितायां
यथा || हेमलम्ब इति सप्तमे युगे स्याद् विलम्बि परतो विकारि च ।'
' यद्यपि कर्मधारयान्मत्वर्थीयः प्रत्ययो न शिष्टैराद्रियते। तथापि
शिष्टप्रयुक्तानां शब्दानां साधुत्वोपपादने
अयमपि कश्चन मार्गः।
गरुडपुराणे आचारकाण्डे ६६१ । 3 गरुडपुराणे
आचारकाण्डे ६६१२ ।
शाशीयलेखाः
125 इति । एवम् एतेषु ग्रन्थेषु हेमलम्ब इति अकारान्तः शब्दः
प्रयुक्तोऽस्ति ।
तथा चास्य संवत्सरस्य फलकथनप्रसङ्गे हिमलम्बे इति रूपं बहुत्र
दृश्यते । यथा अग्निपुराणे
दुर्मुखे दुर्मुखो लोकोहेमलम्बे न सम्पदः । यथा च भविष्यपुराणे ।
पीड्यन्ते सर्वसस्यानि देशे देशे शुचिस्मिते ।
हेमलम्बे प्रजाः सर्वाः क्षीयन्ते नात्र संशयः ॥ यथा च मानसागर्याम् |
अदाता
कृपणः पूज्यो हेमलम्बे नरो भवेत् । तथा च ग्रन्थान्तरे | हेमलम्बे
त्वीतिभीतिर्मध्यसस्यार्घवृद्धयः ।
भाति भूर्भूपतिक्षोभात् खड्गविद्युल्लतादिभिः ॥ किञ्च हेमलम्बीत्यपि
रूपं क्वचिद् विलोक्यते । यथा दैवज्ञविलासनामके अप्रकाशिते
संग्रहग्रन्थे । हेमलम्बिनि भूपालाः परस्परविरोधिनः ।
प्रजापीडा त्वनर्घत्वं तथापि सुखिनो जनाः ॥4 इति
हेमलम्बिशब्दः प्रयुक्तः। बृहत्पञ्चाङ्गफलादर्शनामके अर्वाचीनग्रन्थे तु उभे अपि
रूपे उपलभ्यते ।
रणक्षुब्धभूपालबाणाग्रशल्या हतारिव्रजासृक्प्रवाहोरुकुल्या ।
धरा मध्यसस्याऽर्धकीलालवृष्टिस्तथापि श्रिया हेमलम्बे नृपुष्टिः ॥
परस्परं क्षितीश्वरा विरोधिनः सुखी जनः । सृजन्ति वारि चाम्बुदास्त्वतीव
हेमलम्बिनि ॥
अनयोः ग्रन्थयोः संवत्सरनामोल्लेखनप्रसङ्गेऽपि हेमलम्बी विलम्बी च
इति प्रयुक्तमस्ति । एतेषाम् अवलोकनेन एते अंशाः दृढीभवन्ति |
* दैवज्ञैः प्रमाणमिति परिगण्यमानेषु ग्रन्थेषु उभयोरपि रूपयोः
दर्शनात्
बृहत्संहितायाम् ३९ 2 अग्निपुराणे १३९५९ 3
मानसागर्याम् ॥ 'तत्सम्पादयित्रा मत्सुहृदा ईश्वरचन्द्रजोयिसवर्येण प्रदर्शितमिदम् ।
126
षडङ्गं ज्यौतिषम् उभौ अपि शब्दौ साधू इति वक्तव्यम् । * तत्रापि
हेमलम्बीति प्रयोगः अर्वाचीनेष्वेव ग्रन्थेषु लभ्यः । प्राचीनेषु
ग्रन्थेषु तावत् हेमलम्ब इत्येव रूपं दृश्यते । तस्मात् हेमलम्ब
इत्यस्यैव
प्रशस्ततरत्वम् अभ्युपेयम्। * हेविलम्बी, हेविळम्बी |
इत्येते
रूपे क्वापि ग्रन्थे नोपलभ्येते इति कृत्वा
तयोरसाधुत्वं स्फुटमेव ।
हेम सम्पत्तिः लम्बते अवस्रंसते अस्मिन् इति व्युत्पत्त्या
निष्पद्यमानस्य हेमलम्बशब्दस्य यस्मिन् सम्पत्तेः क्षयः भवति स वत्सर इत्यर्थः
युज्यते । हेमलम्बी इत्यस्य तु हेम लम्बयति इति व्युत्पत्तिः द्रष्टव्या।
एतद्वत्सरारम्भे नामविषये बढ्यः जिज्ञासाः प्रादुर्भूताः सर्वैरपि
स्मर्येरन् । अतो विस्तरेणात्र विचारं प्रदर्य निर्णयः प्रोक्तः । विलम्बः ||
विलम्बी
हेमलम्बस्यानन्तरः संवत्सरो भवति विलम्बः । तत्रापि विद्यते इयं
नामसमस्या । स तावत् क्वचिद् विलम्बः इति कीर्त्यते, क्वचित्तु
विलम्बी इति । तत्रापि उभयोः प्रयोगयोः प्रमाणम् उपलभ्यते । यथा, विलम्ब
इति प्रयोगः अग्निपुराणे । संवत्सरो महादेवि विलम्बस्तु सुभिक्षदः ।। मानसागर्याम्
। अलसः सततं जातो व्याधिदुःखसमन्वितः ।
कुटुम्बधारको वापि विलम्बे जायते नरः ॥2
श्रीवेङ्कटाचलमाहात्म्ये | वैशाख शुक्लसप्तम्यां विलम्बे चैव
वत्सरे । विलम्बीति प्रयोगो बृहत्संहितायां यथा स्याद् विलम्बि परतो विकारि च ।
अग्निपुराणे १३९ मानसागम् ११ बृहत्संहितायाम् [३९
शाखीयलेखाः दैवज्ञविलासे च |
विलम्बिवत्सरे राजविग्रहा भूरिवृष्टयः ।
आतङ्कपीडितो लोकः प्रभूतं चापरं फलम् ॥ इत्थमुभयोः अपि शब्दयोः
प्रयोगो दृश्यते इत्यतः उभौ अपि साधू इति निश्चयः । अत्र कश्चिद् ऊहः।
केषुचिद् ग्रन्थेषु हेमलम्बो विलम्बश्च इति केषुचित्तावत् हेमलम्बी
विलम्बी इति चेति द्विविधः पाठो विलोकितोऽस्माभिः । अत्र पाठस्य छन्दआधारितः
शुद्धाशुद्धत्वविचारो दुःशकः । परन्त्वाचार्यो वराहमिहिरः हेमलम्बम् अकारान्तं
पपाठ विलम्बिनं तु नकारान्तम् । द्रष्टव्यः पूर्वप्रदर्शितः श्लोकः | हेमलम्ब
इति सप्तमे युगे स्याद् विलम्बि परतो विकारि च । इति । अत्र पाठभेदो नास्ति ।
अतस्तत्रापि मूलतो हमलम्बो विलम्बी च इति स्थितः पाठो गच्छता कालेन द्वेधा सञ्जातः
स्यात् । पर्याप्तसामग्र्यभावान्नाधिकं वक्तुं शक्यमत्र । उपसंहारः
___ इत्थमत्र दुर्मुख हेमलम्ब विलम्बेषु विषयेषु साधुरूपं साधारं
दृष्टमस्माभिः । अन्येष्वपि भ्रान्तिस्थानेष्वेवमेव मूलग्रन्थानां परिशीलनं विधाय
परिहृतिर्द्रष्टव्या ।
यथा
= प्रमोदः || प्रमोदूतः । → सुभानुः ] स्वभानुः । = वृषः [] विषुः । = विरोधकृत् |] विरोधिकृत् ।
इह दर्शितेषु रूपयुगलेषु सर्वत्र प्रथमं साधु द्वितीयं च असाधु इति
विज्ञेयम् । इत्थं सर्वत्र विवेचनां विधाय साधुरूपं निर्णीय च नित्यनैमित्तिकादिषु
कर्मसु प्रयोक्तव्यमस्माभिरिति शम्।
संस्कृतकाव्येषु ज्योतिश्शास्त्रविषयाः
डा. कोम्पेल्लि विनयकुमारः संविदाध्यापकः, साहित्यविभागः
राजीवगान्धीपरिसरः,
__ शृङ्गेरी, कर्नाटकम् DDITIITD DILITILILDILD TRILD आकाशे यान्यपि
ज्योतिःपिण्डानि सन्ति तानि सर्वाण्येव ज्योतिष्पदवाच्यानि सन्ति । अतः ज्यौतिषं
सूर्यचन्द्रग्रहनक्षत्रादीनां गत्यादिबोधक शास्त्रम् । अत्र
सूर्यचन्द्रग्रहनक्षत्रादीनां गतिर्निरीक्ष्यते परीक्ष्यते विविच्यते च । न केवलं
गतिमान् ग्रह एव स्वकीयं प्रभाव भूमौ ददाति, अपि तु
नक्षत्राणां विविधोल्कादीनां प्रभावोऽपि भूमौ दृश्यते । वेदेभ्यः निःसृतमिदं
शास्त्र वैदिककालादारभ्य इदानीं यावत् स्वकीयं वैज्ञानिकत्वं विशिष्टत्वं च पदे
पदे स्फुटयति । अतः कथ्यते यत् वेदाङ्गेषु | ज्योतिषामयनं
चक्षुः इति । ज्योतिषस्य महत्त्वं चोच्यते |
अप्रत्यक्षाणि शास्त्राणि विवादस्तत्र केवलम् । प्रत्यक्ष ज्यौतिष
शास्त्रं चन्द्राकॊ यत्र साक्षिणौ ॥
संस्कृतकाव्येषु बहुत्र ज्योतिषविषयरत्नानामुल्लेखः दरीदृश्यते ।
तत्र भोजराजविरचिते चम्पूरामायणे एकः श्लोकः |
उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्कटके
पुनर्वसुयुते मेषङ्गते पूषणि । निर्दग्धुं निखिलाः पलाशसमिधः, मेध्यादयोऽध्यारणे]
राविर्भूतमभूतपूर्वमपरं यत्किञ्चिदेक महः ॥ इति ॥
'चम्पूरामायणम् मालकाण्डः [ो.55
शाखीयलेखाः
129 सूर्य अङ्गारक गुरु शुक्र शनिनामकेषु पञ्चसु ग्रहेषु उच्चस्थानेषु
सत्सु, चन्द्रेण युक्ते बृहस्पती, नवम्यां तिथौ, पुनर्वसुनामकनक्षत्रयुक्ते
चन्द्रे कर्कटके लग्ने, सूर्ये मेषराशिस्थिते, समस्तानि राक्षसरूपकाष्ठानि
भस्मसात्कर्तुं पवित्रात् अयोध्या नामकनगररूपमन्थनकाष्ठात् अद्वितीयम् अभूतपूर्वम्
एकं रामाभिधानं तेजः
आविर्भूतम्।
अत्र श्लोके ग्रहस्थित्यादिवर्णनं श्रीरामस्य प्रभावातिशयद्योतनाय ।
यस्य जन्मकाले पञ्चापि ग्रहाः उच्चस्थाः भवन्ति, सः दिव्यः
भविष्यति इत्युक्तं ज्योतिषशास्त्रे । कृष्णीये |
सुखिनः प्रकृष्टकार्याः राजप्रतिरूपकाश्च राजानः ।
एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः ॥ इति ॥
श्रीहर्षविरचितनैषधीयचरितमहाकाव्ये एकः श्लोकः ।
अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च । दधौ
पटीयान्समयन्नयन्नय दिनेश्वरश्रीरुदयं दिने दिने ॥ इति॥
अत्र श्लोके सूर्यकान्तिसदृशः नलमहाराजः कविना काव्यकर्ता] बुधेन
वैयाकरणेन, न्यायादिशास्त्रज्ञेन] च सह मुदा समयं यापयन्, सदा
काव्यकवनशास्त्रमननाभ्यासवान् सन् प्रतिदिनमुदेति अभिवृद्धिं प्राप्नोति इति । यथा
भगवान् सूर्यः स्वसमीपे सञ्चरयां शुक्रबुधाभ्यां सहितः प्रतिदिनमुदेति ।
ज्योतिश्शास्त्रानुसारं सूर्यस्य बुधशुक्रौ भृशं सन्निहितौ भवतः। भण्यते च
बुधशुक्रौ सदा पूर्वोत्तरराशिस्थौ इति ज्योतिर्विदः। तद्वत् अत्रापि
सूर्यप्रभातुल्यः नलमहाराजः कविबुधाभ्यां काव्यकर्ता, वैयाकरणेन च
सहितः सदा प्रतिदिनमभ्युदयं प्राप इति।
'नैषधीय.च. 117
कविना || शुक्रेण, शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः इत्यमरः, बुधेन
| चन्द्रपुत्रेण सह, रौहिणेयो बुधस्सौम्यः इत्यमरः
130
षडङ्गं ज्यौतिषम् कालिदासविरचितकुमारसम्भवमहाकाव्ये प्रतिपादिताः
केचन ज्योतिषविषयाः।
ज्यौतिषशास्त्रे सप्तमस्थानस्य जामित्रम् इति संज्ञा । विवाहविषये
सप्तमभावः प्रधानतया चिन्त्यः । अत एव हिमवान् सप्तर्षीणाम् आज्ञानुसारं
शुक्लपक्षे सुलग्ने प्रशस्ततिथौ युक्तबन्धुः सन् पार्वत्याः विवाहसंस्कारञ्चकार
इति विषयः अस्मिन्श्लोके यथा |
अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥इति॥
अत्र हिमवान् ओषधीनाम् अधिपस्य चन्द्रस्य वृद्धौ तिथौर
जामित्रगुणान्वितायाः3 समेतबन्धुः सन् सुताया पार्वत्याः विवाहदीक्षाविधिम् अन्वतिष्ठत् ।
किञ्च | उत्तराफल्गुणीनक्षत्रं शुभमिति मन्यते । अतः स्त्रियः पार्वत्याः
मैत्रे मुहूर्ते एव शृङ्गारप्रसाधनं चक्रुः इति कालिदासः संसूचयति यत् |
मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु।। तस्याः शरीरे
प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ इति॥
मित्रदैवत्ये मुहूर्ते उदयमुहूर्तात् तृतीयमुहूर्तः इत्यर्थः आर्द्रः
सार्द्रस्तथा मैत्रः शुभो वासव एव च इति बृहस्पतिस्मरणात् । उत्तरफल्गुनीषु
फल्गुनीनक्षत्रे फल्गुनीप्रोष्ठपदानां च नक्षत्रे इति एकस्मिन्नपि बहुवचनम् ।
चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे जीवद्भर्तृकाः पतिपुत्रवत्यः
बन्धुस्त्रियः प्रसाधनं कृतवत्यः इति । अयं मैत्रमुहूर्तः अत्यन्तं शुभफलप्रदः ।
तस्मिन् मैत्रमुहूर्ते यदि उत्तराफल्गुनीनक्षत्रेण सार्द्धं चन्द्रसंयोगः भवति
चेत् इतोऽपि शुभफलप्रदः । अतः
शुक्लपक्षे इत्यर्थः, शुभकर्मसु आपूर्यमाणपक्षस्य
प्राशस्त्यात् जामित्रं लग्नात् सप्तमं स्थानम्, तस्य गुणः
शुद्धिः सा च ग्रहराहित्यम्, तेन अन्वितायां सत्याम, 'कु.76
शाखीयलेखाः
131
नववधूशृङ्गाराय भृशं पवित्रतमोऽयं मुहूर्तः । प्रयाणे
शुक्रग्रहदर्शनम् अत्यन्तम् अशुभम् इत्यमुं विषयं कालिदासः एवं वर्णयति |
दृष्टिप्रपातं परिहृत्य तस्य कामः पुरः शुक्रमिव प्रयाणे। प्रान्तेषु
संसक्तनमेरुशाख ध्यानास्पदं भूतपतेविवेश ॥इति॥
कामः प्रयाणे पुरःशुक्रम् इव तस्य दृष्टिपातं परिहृत्य, प्रान्तेषु
संसक्तनमेरुशाखं भूतपतेः ध्यानास्पदं विवेश इत्यन्वयः । अत्र कामः यात्रायां
पुरोगतं शुक्रमिव तस्य दृष्टिप्रपातं परिहृतवान् । अत्रोच्यते ||
प्रतिशुक्रं प्रतिबुधं प्रत्यङ्गारकमेव च।।
अपि शक्रसमो राजा हतसैन्यो निवर्तते ॥इति॥
अर्थात् शुक्रबुधाङ्गारकग्रहाः सम्मुखे तिष्ठन्ति चेत् युद्धयात्रा न
करणीया, क्रियते चेत् शक्रसमो राजापि हतसैन्यो भवति इति ।
भारतीयज्यौतिषशास्त्रानुसारं धूमकेतुदर्शनम् अत्यन्तम् अशुभमिति
मन्यते । कालिदासः तारकासुरं धूमकेतुना प्रपञ्चयति ||
भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः । उपप्लवाय लोकानां
धूमकेतुरिवोत्थितः ॥ इति ॥
इन्द्रादिदेवाः ब्रह्माणं प्रति भणन्ति यत् । हे हिरण्यगर्भ !
त्वत्तः लब्धवरोदीर्णः तारकासुरः धूमकेतुः उत्पातविशेषः इव लोकानाम् उपद्रवाय
उत्पन्नः इति ।
इत्थं कालिदासश्रीहर्षभोजराजादीनां काव्येषु ज्यौतिषशास्त्रीयाः बहवः
विचाराः निरूपिताः सन्ति । परन्तु शोधपत्रेऽस्मिन् केचनांशा एव परामृष्टाः
विस्तरभयात् ।
'कु. 343 2 कु. 282
ज्योतिश्शब्दस्य व्युत्पत्तिः
डा.विजयानन्द अडिगः सहायकाचार्यः ज्यौतिषविभागः
गुरुवायूरुपरिसरः
त्रिशूर, केरळराज्यम्
JO ME THOITOLI TATII दीप्त्यर्थकात् द्युतधातोः' इसिन्
प्रत्यये धात्वादिदकारस्य जादेशे च सति षान्तः नपुंसकलिङ्गकः ज्योतिश्शब्दः
निष्पद्यते । द्योतते इति ज्योतिः | प्रकाशः इत्यर्थः। अस्य शब्दस्य
दीप्तिः, द्युतिः, कान्तिः, तेजः इत्यादयः अर्थाः विद्यन्ते । अत एव तेजोमयानि नक्षत्राणि
ग्रहाश्च ज्योतिश्शब्देन अभिधीयन्ते । प्रकारान्तरेणापि शब्दस्यास्य निष्पत्तिं
दर्शयति बृहद्धातुकुसुमाकरकारः । किचित्तु || अमरटीकायां
क्षीरस्वामिना ज्योतते ज्योतिः इत्युक्तम् । वस्तुतस्तु द्युतिरिव ज्योतिरपि
स्वतन्त्रो धातुः । तस्य कात्यायनश्रौतसूत्रे तृणेनावज्योत्यासिच्यापः
पुनरवज्योत्य निधाय त्रिरुद्वासयन्त्युदक् ] इति ल्यबन्तः प्रयोगोऽप्युपलभ्यते
इत्याहुः इति । तथैव अवज्योतनं च दृष्टार्थम् इति कर्कभाष्येऽपि ल्युडन्तः
प्रयोगोऽप्युपलभ्यते । अतः ज्योतते इति ज्योतिः इत्यपि वक्तुं शक्यते । एवमेव
शब्दकल्पद्रुमे अपि ज्युतृ दीप्तौ' | इसिः यद्वा द्युत दीप्तौ || द्युतेरिसिन्नादेश्च
जः उणा.२ १११ नक्षत्रमित्यर्थः इत्युक्तम् । अयं नपुंसकलिङ्गकः
1 द्युत दीप्तौ धा.सं. ७४३[] अक.सेट्.आत्म. [ द्योतते।
बृहद्धातुकुसुमाकरः | पृ.सं.१७३ 2 द्युतेरिसिन्नादेश्च जः उणादिसूत्रम् ||२|१०]
3 इसुसन्तः । सू. १३४ । सिद्धान्तकौमुदी भागः ४ ] पृ.सं. ६३२ ।
यच्कमसिसुसन्नन्तं यदनान्तमकर्तरि इत्यमरः। अमरकोशः || का.३, स.५
, श्लो. २४ , पृ.सं. ३६७ 4
बृहद्धातुकुसुमाकरः पृ.सं.१७५ . 5 कात्यायनश्रौतसूत्रम्
कर्कभाष्यान्वितम् | अ.४ सू. ३१९, पृ.सं. ३०१
शब्दकल्पद्रुमः भा. पृ.सं ५५० 7 परञ्च
बृहद्धातुरूपावल्यां बृहद्धातुकुसुमाकरे च अस्य धातोः उल्लेखः नास्ति। जुतृ भासने
अक.सेट्.आत्म. रोचतिवत् | जोतते इति अन्यस्य कस्यचित्धातोः
उल्लेखः बृहद्धातुरूपावल्यां दृश्यते। बृ.रू.ली पृ.सं ४३३ ।
शाखीयलेखाः
133 एव शब्दः। परन्तु तत्रैव शब्दकल्पद्रुमे || ज्योतते इति
ज्युत ] कर्तरि इसिः । अग्निरित्यर्थः इति उल्लेखात् पुंसि अपि ज्योतिश्शब्दः
विद्यते इति ज्ञायते । ज्योतिरग्नौ दिवाकरे इति मेदिनी' ।
ज्योतिस्ताराग्निभाज्वालाहक्पुत्रार्थाध्वरात्मसु इति वैजयन्ती एवं नक्षत्रवाचके
सति ज्योतिश्शब्दः नपुंसके, अन्यार्थवाचके सति तु पुंसि प्रयुज्यते
इति वक्तुमुचितम् । तथापि नपुंसकलिङ्गे एव प्रयोगबाहुल्यं वेदे लोके च दृश्यते।
शब्दान्तराणां प्रयोगः तेषां च साधुत्वम्
ज्योतिषम् | ज्योतिः सूर्यादिग्रहाणां गत्यादिकं
प्रतिपाद्यतया अस्ति अस्मिन् अस्य इति अच् । वेदाङ्गशास्त्रविशेषः । तत्
ग्रहणादिगणनशास्त्रम् इति अमरटीकायां भरतः इति शब्दकल्पद्रुमः । अतः ज्योतिषम्
ज्योतिष शास्त्रम्, ज्योतिषशास्त्रमा स्योतिषः ग्रन्थः ज्योतिषा व्याख्या इत्येते
प्रयोगाः साधुत्वं भजन्ते । ज्योतिषे त्वा", ज्योतिष
आदित्येभ्यस्त्वा' इति वैदिकः प्रयोगोऽपि विद्यते।
ज्यौतिषम् || ज्योतिषाम् इदं शास्त्रम् इत्यर्थे
शब्दोऽयं साधुः । ज्योतिः ग्रहनक्षत्रं तदधिकृत्य कृतो ग्रन्थः ज्यौतिषः' इति
शब्दार्थकौस्तुभः10 । एवं पूर्ववत्
1 मेदिनीकोशः | सान्तवर्गः , श्लो. २२ पृ.सं.
२३४ 2 बैजयन्तीकोशः | का.६ अ.३ श्लो.१० पृ.सं. १६८ 3
ज्योतिर्वैश्वानरं बृहत् | ऋग्वेदसंहिता मण्ड.९.सू.६१.मं.१६,
पृ.सं.५८]
। ज्योतीष्यपि यथाकालम् || महाभारतम् शान्तिपर्व अ.१७९ , श्लो.१७
पृ.सं. १६०३ ज्योतीष्यग्निञ्चामध्यमशस्तं नाभिवीक्षेत इति चरके सूत्रस्थाने
अष्टमेऽध्याये तस्यान्तरेण नाभेस्तु ज्योतिःस्थानं ध्रुवं स्मृतम् इति सुश्रुते
शरीरस्थाने चतुर्थं अध्याये इति प्रयोगौ शब्दकल्पद्रुमे दर्शितौ। शक [भा. पृ.सं.
५५० 4 अर्श आद्यच अष्टाध्यायी प|२७|| 5 शब्दकल्पद्रुमः
भा.९ पृ.सं ५५० 5 यजुर्वेदसंहिता || का.४.प्र.४.अनु.६.मं.२९ , पृ.सं.
१७३ 7 यजुर्वेदसंहिता का,४.प्र.४.अनु.६.मं.२४, पृ.सं.१७३
तस्यैदम् अष्टाध्यायी [M/१० ' अधिकृत्य कृते
ग्रन्थे अष्टाध्यायी 10 शब्दार्थकौस्तुभः | पृ.सं. ११६८
134
षडङ्गं ज्यौतिषम् ज्योतिष शास्त्रम् इत्यादयः प्रयोगाः साधवः भवन्ति
। ज्योतिषः पुनराचारात इति वैजयन्तीकोशे' प्रयोगः । अन्ये केचन |ज्योतिः
ग्रहनक्षत्रं तदधिकृत्य कृतं शास्त्रम् इति ज्यौतिषशब्दं व्युत्पादयन्ति । परन्तु
तत्र ग्रन्थार्थे एव प्रत्ययस्य विधानात् नामुं पक्षं साधुं मन्यन्ते वैयाकरणाः ।
अपरे केचित् | जुतृ धातुमाश्रित्य
द्योततिवत् जोतते इति जोतिः |जौतिषम् इति प्रयुञ्जते, अस्य
तु साधुत्वे साधवः एव प्रमाणम् । एवं च ज्योतींषि | ग्रहनक्षत्राणि,
तेषां
ज्योतिषां गतिस्थित्यवबोधक शास्त्रमेव ज्योतिश्शास्त्रम् इत्युच्यते । उक्तं च
ब्रह्मसिद्धान्ते ज्योतिषां च ग्रहाणां गतिस्थित्यवबोधकम् । शास्त्र तज्यौतिष
धर्मसाधनाय विनिर्मितम् ॥ इति । अपि च ज्योतिषामयनं ज्योतिश्शास्त्रम् इति
वैजयन्या प्रयोगो दृश्यते । अपि च ज्योतिष्काः इत्ययम् अपरः शब्दः
ग्रहह्मवाचकत्वेन निर्दिष्टः शब्दकल्पद्रुमे, यथा | ज्योतिर्भिः
कायतीति कै शब्दे कः चन्द्रार्कग्रहनक्षत्रतारकाः इति हेमचन्द्रः । बहुवचनान्तोऽयं
शब्दः' इति । तथा च ज्योतिषी इति अन्योऽपि शब्दः तारावाचकत्वेन प्रसिद्धः,
यथा
शब्दकल्पद्रुमे | ज्योतिरस्त्यस्याः इति अच् डीप च तारा इत्यर्थः इति । एवमेव
ज्योतिषिकः' ज्यौतिषिकः' ज्योतिषी10
ज्योतिषशास्त्रज्ञः11 इत्यादयः शब्दाः अधीतज्योतिश्शास्त्रस्य वाचकत्वेन साधुत्वं भजन्ते।
1 वैजयन्तीकोशः का.२ अ.१ श्लो.८१ पृ.सं. १५ 2 जुतृ भासने
अक.सेट्.आत्म. जोतते अप्रसिद्धोऽयं धातुः बृहद्धातुरूपावल्यामेव दृष्टः 3
बृहद्धातुरूपावलिः | पृ.सं. ४३३ 4 कल्पवल्ली पृ.सं. २ 5
वैजयन्तीकोशः का.२ अ.१ श्लो.५० पृ.सं. १४ 6 आतोऽनुपसर्गे कः | अष्टाध्यायी
३ 7 शब्दकल्पद्रुमः भा.१ पृ.सं ५५० 3 ज्योतिः
ज्योतिश्शास्त्रम् अधीते वेद वा क्रतूक्थादित्वात् अष्टाध्यायी ठक्।
संज्ञापूर्वकस्य विधेरनित्यत्वात् न वृद्धिः। यथा मार्कण्डेये | धर्मारण्या
ज्योतिषिकाः इति शब्दकल्पद्रुमः भा. पृ.सं ५५० । ' पूर्ववत् ठक्
वृद्धिश्च। सांवत्सरो ज्योतिषिक इत्यमरः | का.२, व.८, श्लो.
१४ । ज्योतिषिकः इत्यमरटीका इति शब्दकल्पद्रुमः भा. पू.सं ५५०। 10
ज्योतिष शास्त्रं तदस्यास्तीति अदन्तात् इनिः| अष्टाध्यायी .
"ज्योतिषशास्त्रस्य ज्ञः। हलायुधकोशः खण्डः पृ.सं. ३२१
ज्यौतिषशास्त्रस्य लोकोपकारित्वं महत्वञ्च
डा.पि अरविन्दकुमारसोमदत्तः अतिथि अध्यापकः, शिक्षाशास्त्रविभागः
राजीवगान्धीपरिसरः,
___शृङ्गेरी, कर्नाटकम्
DI TITI]69696] TI TI वेदाङ्गत्वेन ज्यौतिषशास्त्रस्य
प्रमुखोद्देश्यमस्ति समीचीनकालस्य निर्धारणम्। यतो हि सुष्टुकाले सम्पादितानि
यज्ञकर्माणि सफलानि भवन्ति ||
वेदास्तावत् यज्ञकर्मप्रवृत्ता: यज्ञा प्रोक्तास्ते तु कालाश्रयेण ।
शास्त्रादस्मात् कालबोधो यतः स्याद्वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात् ॥
वेदस्य मुख्योद्देश्योऽस्ति इष्टप्राप्तिः तथा चानिष्टपरिहार: ।
अनिष्टस्य निर्धारणं कथं भविष्यतीति मुख्यः प्रश्नोऽस्ति । अनिष्टस्य निर्धारणं तु
केवलं
ज्योतिषशास्त्रेणैव भवति । आत्मना जन्मजन्मान्तरेषु कृतानां
शुभाशुभकर्माणां परिणाम: ज्यौतिषशास्त्राधारेण चिन्तयितुं शक्यते ।
ज्यौतिषशास्त्रे जन्माङ्गस्य द्वादशराशिभावग्रहयोगदशाभिः तथा च
गोचरीयपरिभ्रमणे मानवानां सुखदु:खोन्नत्यवनत्यादीनां समस्तजीवनस्य घटना क्रमाणां
विवेचनव्यवस्था व्यवस्थिता वर्तते । जन्माङ्गस्य द्वादशराशिभावेषु ग्रहग्रह] योगैः
सञ्चितकर्मण: ग्रहदशाभिः प्रारब्धकर्मणः गोचरीयप्रभावैः क्रियमाणकर्मणश्च
व्याख्याऽस्मिन् होराशास्त्रे भवति । जन्मकुण्डल्यान्तु विविधराजयोगदरिद्रयोग]
मातृपितृभातृजायादिकानान्तथा च सुखदु:खप्राप्तियोगवियोगैश्वर्यादीनान्निरूपणं भवति
। परन्तु कस्य प्राप्ति: योगो वा कदा भविष्यतीति निर्धारणन्दशाभि: एव ज्ञातुं
शक्यते । अत: दशा एवं प्रारब्धकर्मेति ।
136
षडङ्गं ज्यौतिषम् अथा पिण्डे तथा ब्रह्माण्डे सिद्धान्तोऽयं
प्राचीनकालादेव प्रचलितोऽस्ति। सिद्धान्तोऽयं प्रतिपादयति यत्सौरजगति
सूर्यादिग्रहाणां गतिविधिषु ये नियमा; दरीदृश्यन्ते, ते वै
प्राणिमात्रस्य शरीरान्तर्गतस्य स्थिति सञ्चालयन्ति । सिद्धान्तमेनं विज्ञातुमस्माभिः
प्राणिनः पदार्थस्य वा आन्तरिकसंरचनाया आधारोपरि दृष्टि: पातनीया । तत्र
प्राणिमात्रस्य पदार्थस्य वा प्राथमिकसंरचनाया आधार: परमाणुवर्तते । यथा
इष्टिकानां योगेन भवन निर्मीयते तथैव परमाणूनां योगेन प्राणी पदार्थो वा निर्मितो
भवति । अस्य परमाणोवृत्तिर्विलक्षणाऽस्ति । अस्य मध्यैकघनविद्युत्बिन्दुवर्तते
यच्च केन्द्रमिति कथ्यते परमाणोर्जीवनस्य सारोऽस्मिन्नेव केन्द्रे निवसति ।
केन्द्रमिदं परितोऽनेके सूक्ष्मातिसूक्षविद्युत्कणा: परिभ्रमन्ति । एतादृशाणाम्
अनन्तपरमाणूनां समाहारस्यैक्यरूपम् अस्माकं शरीरमस्ति ।
अस्माकं शरीरस्य परमाणवः, ये च शरीरविज्ञानस्य कोशाणव इति
कथ्यन्ते, अनुरक्तिनियमानुसार प्रतिबद्धो भूत्वा शरीरस्य कलानां ताभिश्च
अङ्गानां निर्माणं कुर्वन्ति । अङ्गानां च निर्माणेऽस्माकं स्थूलशरीरं विनिर्मितं
भवति । अनेन प्रकारेणास्माकं शरीरं, तस्यावयवाश्च तै: कोशाणुभिः
विनिर्मीयन्ते ये च सौरजगतो गतिविधीन् अनुकुर्वन्ति । तर्हि अनेन
तथ्येनास्माभिर्ज्ञातुं शक्यते यत् कोशाणुभिः विनिर्मितम् अस्माकं शरीरं सौरजगतो
गतिविधीननुकरोति ।
इदं हि निर्विवादरूपेण सम्यगस्ति यत् ग्रहनक्षत्राणां मानवजीवनेन सह
सततसम्बन्धस्य आविष्कारोऽस्माकं प्राचीन भारतीयमहर्षिभिः कृतः । तैश्चेमं
सम्बन्धमङ्गीकृत्य ज्योतिषशास्त्रस्य सामान्यसिद्धान्ताः प्रतिपादिताः।
NCP राष्ट्रियसङ्गोष्ठ्याः छायाचित्राणि
दिनाङ्कः 18, 19 मार्च 2017
उद्घाटनसमारोहः
राष्ट्रियसंस्कृतसंस्था उम्
जीवनालीपनि
कृतस
वननिषदा
या
सत्रेषु विशेषज्ञानां प्रस्तुतिः
बीचमा पीपरिसर
षड ज्यौतिषम्
राजीवगायीपरिसरः
पत्रप्रस्तुतिः
पत्रप्रस्तुतिः
जिज्ञासवः श्रोतारः
राष्ट्रियसंस्कृतसंस्थानम् (भारतशासनमानवसंसाधनविकासमन्त्रालयाधीनः
मानितविश्वविद्यालय:) राष्ट्रियमूल्याङ्कनप्रत्यायनपरिषदा “A” श्रेण्याङ्कितः
राजीवगान्धीपरिसरः
मेणसे, शृङ्गेरी - 577139
No comments:
Post a Comment