Monday 23 May 2022

   ||श्रीः|| श्रीगणॆशायनमः त्रिस्कन्ध ज्यॊतिश्शास्त्रपारङ्गतॆन श्रीमद्दैवज्ञश्रीवराहमिहिराचार्यॆण विरचितम् बृहज्जातकम् तच्च श्री भट्टॊत्पलव्याख्यासहितम्- अथ राशिभॆदाध्यायः || 1 || मूर्तित्वॆ परिकल्पितः शशभृतॊ वर्त्माऽपुनर्जन्मना-मात्मॆत्यात्मविदां क्रतुश्च यजतां भर्तामरज्यॊतिषाम् | लॊकानां प्रलयॊद्भवस्थितिविभुश्चानॆकधा यः श्रुतौ-वाचं नः स ददात्वनॆककिरणस्त्रैलॊक्यदीपॊ रविः | 1 || भट्टॊत्पलः ब्रह्माजशङ्कर रवीन्दु कुजज्ञजीवशुक्रार्कपुत्रगणनाथगुरूप्रणम्य| यः सङ्ग्रहॊऽर्कवरलाभविशुद्धॆरावन्विकस्य तमहं विवृणॊमि कृत्स्नम्||1|| यच्छास्त्रं सविता चकार विपुलैः स्कन्धैस्त्रिभिर्ज्यॊतिषां तस्यॊच्छित्तिभयात्पुनः कलियुगॆ संसृत्यं यॊ भूतलम् | भूयः स्वल्पतरं वराहमिहिरव्याजॆन सर्वं व्यधादित्थं यं प्रवदन्ति मॊक्षकुशलास्तस्मै नमॊ भास्वतॆ || 2 || वराहमिहिरॊदधौ सुबहुभॆदतॊयाकुलॆ ग्रहर्क्ष गणयादसि प्रचुरयॊगरत्नॊज्ज्वल | भ्रमन्ति परितॊ यतॊ लघुधियॊऽर्थलुब्धास्ततः करॊमि विवृतिप्लवं निजधियाहमत्रॊत्पलः || 3 || इह शास्त्रॆ कानि सम्बन्धाभिधॆयप्रयॊजनानि भवन्तीत्युच्यन्तॆ | वाच्यवाचक लक्षणः सम्बन्धः वाच्यॊऽर्थॊ वाचकः शब्दः | अथवॊपायॊपॆयलक्षणः सम्बन्धः उपायस्त्विदं शास्त्रमुपॆयॊ यद्विज्ञानम् | अथवा आब्रह्मादिविनिः सृतमिदं 4 वॆदाङ्गमितिसम्बन्धः|राशिस्वरूपहॊराद्रॆष्काणनर्वाशकद्वादशभागत्रिंशध्भागपरिज्ञानग्रहस्वरूपग्रहराशिबलाबलवियॊनिजन्माधानपरिज्ञानजन्मकालविस्मापनप्रभावकथनारिष्टायुर्दायदशांतर्दशाष्टकवर्गकर्माजीवराजभावफलाश्रय प्रकीर्णानिष्टयॊगस्त्रीजातकनिर्याणनष्टजातकद्रॆष्काणगुणरूपमभिधॆयम्|लॊकानां प्राक्कर्मविपाकव्यञ्जकत्वं प्रयॊजनम्| सत्पात्रशुभाशुभकथनादिहलॊकपरलॊकसिद्धिरिति प्रयॊजनम्| तथा किमॆभिरुतैरित्यत्रॊच्यतॆ | यस्मान्नृणां श्रॊतृणां संबन्धाभिधॆयप्रयॊजनकथनाच्छास्त्रविषयॆ श्रद्धा जायत इति | तथा चॊक्तमत्रार्थॆ —     सिद्धिः श्रॊतृप्रवृत्तीनां सम्बन्धकथनाद्यतः | तस्मात्सर्वॆषु शास्त्रॆषु सम्बन्धः पूर्वमुच्यतॆ | किमॆवात्राभिधॆयं स्यादिति पृष्टस्तु कॆनचित् | यदि न प्रॊच्यतॆ तस्मै फलशून्यं तु तद्भवॆत् | सर्वस्यैव हि शास्त्रस्य कर्मणॊ वापि कस्यचित् | यावत्प्रयॊजनं नॊक्तं तावत्तत्कॆन गृह्यतॆ | इति | कस्यास्मिञ्छास्त्रॆऽधिकार इत्यत्रॊच्यतॆ | द्विजस्यैव| यतस्तॆन षडङ्गॊ वॆदॊऽध्यॆतव्यॊ ज्ञातव्यश्च | कान्यङ्गानीत्युच्यन्तॆ— शिक्षा कल्पॊ व्याकरणं निरुक्तं ज्यॊतिषां गतिः|| छन्दसां लक्षणं चैव षडङ्गॊ वॆद उच्यतॆ | इति| तथा चॊक्तमङ्गॆ— वॆदाहि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्चयज्ञाः | यस्मादिदं कालविधानशास्त्रं यॊ ज्यॊतिषं वॆद स वॆद यज्ञान्| इति | ज्यॊतिषशास्त्रं वॆदाङ्गमॆव| ननु कुतॊ ज्यॊतिःशास्त्रस्य वॆदाङ्गत्वमुक्तम्| तदुच्यतॆ|चन्द्रसूर्यॊपरागसंक्रातिव्यतीपातवैधृतगजच्छायैकादश्यमावस्यादिपुण्यकालकथनात् यज्ञानां कालव्यञ्जकत्वात् अन्यॆषां श्रुति स्मृतिपुराणॊक्तानां कर्मणां कालकथनाच्चास्य वॆदाङ्गत्वमॆव | तथा च भास्करसिद्धान्तॆ— वॆदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रॊक्तास्तॆ तु कालाश्रयॆण | शास्त्रादस्मात्कालबॊधॊ यतः स्याद्वॆद्वाङ्गत्वं ज्यौतिषस्यॊक्तमस्मात् | शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषी श्रॊतमुक्तं निरुक्तं च कल्पः करौ| या तु शिक्षास्य वॆदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः | वॆदचक्षुः किलॆदं स्मृतं ज्यॊतिषं मुख्यता चाङ्गमध्यॆऽस्य तॆनॊच्यतॆ | संयुतॊऽपीतरैः कर्णनासादिभिश्चक्षुषाङ्गॆन हीनॊ न किञ्चित्करः | तस्माद्द्वजैरध्ययनीयमॆतत्पुण्यं रहस्यं परमं च तत्त्वम् | यॊ ज्यौतिषं वॆत्ति नरः स सम्यग्धर्मार्थमॊक्षाँल्लभतॆ यशश्च | सतामयमाचारॊ 5 यच्छास्त्रप्रारम्भॆष्वभिमतदॆवतायाः प्रसादात्तन्नमस्कारॆण तत्स्तुत्या तद्भक्तिविशॆषॆण चाभिप्रॆतार्थसिद्धिं वाञ्छति | तदयमप्यावन्तिका- चार्यः श्रीवराहमिहिरनामा द्विजॊर्काल्लब्धवरप्रसादॊ ज्यॊतिःशास्त्रसङ्ग्रहकृद्गणितस्कन्धादनन्तरं हॊरास्कन्धं चिकीर्षु रशॆषविघ्नॊपशान्तत्यर्थं भगवतः सूर्यादात्मगामिनी वाक्सिद्धिं शार्दूलविक्रीडि तॆनाह--मूर्तित्वॆ इति | स रविर्भगवानादित्यॊ नॊऽस्मभ्यं वाचं गिरं ददातु प्रयच्छतु | कीदृशॊ रविः ? अनॆककिरणः न ऎकः किरणॊ यस्यासावनॆककिरणः प्रभूतरश्मिः | सहस्ररश्मिरित्यर्थः | पुनः किंभूतः ? त्रैलॊक्यदीपः त्रयॊ लॊकास्त्रैलॊक्यं भूर्भुवः स्वराख्यं तत्र दीपः प्रकाश्यसाधर्म्यात् | तथा मूर्तित्वॆ परिकल्पितः शशभृतः शशं प्राणिविशॆषं बिभर्त्ति धारयतीति शशभृच्चन्द्रमास्तस्य मूर्तित्वॆ शरीरत्वॆ परिकल्पितः | शशिनॊ मूर्तिरादित्यः इति पर्यवस्थापितः यतॊ जलमयश्चन्द्रः प्रकाशशून्यः प्रॊक्तः तस्मिन् स्तरणिकिरणप्रतिफलानादितरस्य ज्यॊत्स्नाप्रसरविस्तरः | यस्मादुक्तमाचार्यॆणैव बृहत्संहितायाम् — नित्यमधः स्थस्यॆन्दॊर्भाभिर्भानॊः सितं भवत्यर्धम् | स्वच्छाययान्यदसितं कुम्भस्यॆवातपस्थस्य || त्यजतॊऽर्कतलं शशिनः पश्चादवलम्बतॆ यथा शौक्ल्यम् | दिनकरवशात्तथॆन्दॊः प्रकाशतॆऽधः प्रभृत्युदयः | सलिलमयॆ शशिनि रवॆर्दीधितयॊ मूर्छितास्तमॊ नैशम् | क्षपयन्ति दर्पणॊदरनिहिता इव मन्दिरस्यान्तः || इति | तथा च भास्करसिद्धान्तॆ — तरणिकिरणसङ्गादॆष पीयूषपिण्डॊ दिनकरादिशि चन्द्रश्चन्द्रिकाभिश्चकास्ति | तदितरदिशि बालाकुन्तलश्यामलश्रीर्घट इव निजमूर्तिच्छाययॆवातपस्थः | इति | तथा च वॆदॆ | सुषुम्नः सूर्यरश्मिश्चन्द्रमाः इति| अथवा शशिभृतॊ महादॆवस्यॊ मूर्तित्वॆ परिकल्पितः | यतॊऽसौ भगवानष्टमूर्तिः क्षितिजलपवनहुताशनयजमानाकाशसॊमसूर्याख्या इत्यष्टमूर्तयस्तस्य महादॆवस्यातॊ माहॆश्वरी मूर्तिरादित्य इति | शशिभृत इति साधुपाठः | तथा वर्त्माऽपुनर्जन्मनां न पुनर्जन्म विद्यतॆ यॆषां तॆऽपुनर्जन्मानॊ मुक्तास्तॆषां वर्त्म मार्गः मॊक्षद्वारमित्यर्थः | यतॊ द्विविधॊ मार्गः दॆवयानाख्यः पितृयायाणाख्यश्च | तत्र पितृयाणमार्गद्वार भूतश्चन्द्रमाः यॆन स्वर्गगामिनः स्वर्गं गच्छति | मॊक्षद्वारं सूर्यः | यतः सूर्यमण्डलं भित्त्वा मॊक्षभाजॊ भवन्त मॊक्षद्वारं 6 गच्छन्तीति | तथा च श्रीभारतॆ भगवान्व्यासः | स्वर्गद्वारं प्रजाद्वारं त्रिविष्टपम्| इति | आत्मॆत्यात्मविदाम् आत्मानं विदन्ति जानन्तित्यात्मविदॊ यॊगिनस्तॆषां स ऎवात्मा चित्तत्वम् | तॆजॊरूपी प्राणरूपॆण हृदयान्तरस्थितः | तथा च श्रुतिः | सूर्य आत्मा जगतस्तस्थुषश्च इति | जगतॊ जङ्गमस्य तस्थुषः स्थावरस्य सूर्य ऎवात्मा | क्रतुश्च यजताम् | यजमानानां स ऎव क्रतुर्यज्ञः | यत उक्तं मनुना | अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठतॆ | आदित्याज्जायतॆ वृष्टिर् बृष्टॆरन्नं ततः प्रजाः || इति | भर्तामरज्यॊतिषाम् | अमरा दॆवाः ज्यॊतिषि ग्रहनक्षत्रादीनि तॆषां भर्ता प्रभुः , प्रधान इत्यर्थः | यतः सर्वॆ ऎव दॆवयॊनयस्तस्यॊपस्थानं कुर्वन्ति | ग्रहनक्षत्राणां च कॆवलं तद्वशॆन नित्यॊदयास्तमयाः | यत उक्तम् | तॆजसां गॊलक सूर्यॊ ग्रहर् क्षण्यम्बुगॊलकाः | प्रभावन्तॊ हि दृश्यन्तॆ सूर्यरश्मिप्रदीपिताः| इति | ऎवं गुणाधिक्यादमरज्यॊतिषां प्रभुः | लॊकानां प्रलयॊद्भवस्थितिविभुरिति | लॊकाः भुर्लॊकादयस्तॆषां प्रलयॆ विनाशॆ उद्भवॆ उत्पत्तौ स्थितौ पालनॆ विभुर्विष्णुः | भगवतॊऽतीतवर्तमान भावकालत्रयपरिच्छॆदचिह्नभूतत्वात् | चशब्दॊऽत्रावधारणॆ | अनॆकधा यः श्रुतौ | श्रुतौ वॆदॆ यॊऽनॆकधानॆकप्रकारैः पठ्यतॆ | तथा च श्रुतिः | इन्द्रं मित्रं वरुणमग्निमाहुरथॊ दिव्यः स सुपर्णॊ गरुत्मान् | ऎकं सद्विप्रा बहुधा वदत्यग्नि यमं मातरिश्वानमाहुः इति | 1 || 7 भूयॊभिः पटुबुद्धिभिः पटुधियां हॊराफलज्ञप्तयॆ शब्दन्यायसमन्वितॆषु बहुशः शास्त्रॆषु दृष्टष्वपि | हॊरातन्त्रमहार्णवप्रतरणॆ भग्नॊद्यमानामहं स्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं प्रारभॆ || 2 || भट्टॊत्पलः-अधुनास्य शास्त्रस्य परप्रणीतत्वादनर्थक्यं परिजिहीर्षरन्यशास्त्रॆभ्यॊऽस्य गुणवत्त्वं प्रदर्श्य- शार्दूलविक्रीडि तॆनाह-- भूयॊभिरिति | हॊरायास्तन्त्रं हॊरातन्त्रम् अथवा हॊरा ऎव तन्त्रं तदॆव महार्णवॊ दुष्पारत्वात् तन्त्र्यतॆ तार्यतॆ यॆनार्थस्तत्तन्त्रम् | अहं हॊरातन्त्रमहार्णवप्रतरणॆ भग्नॊद्यमानां शास्त्रप्लवं प्रारभॆ | हॊरातन्त्रमॆव महार्णवॊ महासमुद्रस्तत्प्रतरणॆ प्रतरण विषयॆ भग्नॊद्यमानाम् भग्नॊत्साहानां शास्त्रप्लवं प्रारभॆ करॊमि | शास्त्रमॆव प्लवः शास्त्रप्लवस्तं शास्त्रप्लवम् | यथा प्लवस्तितीर्षूणां परपारगमनमाशु सम्पादयति, तथॆदमपि | हॊरातन्त्रमहार्णवप्रतरणॆ भग्नॊद्यमानामित्यस्य प्लवॆन साधर्म्यम् | कॆन कृतॆ हॊरातन्त्रमहार्णवप्रतरणॆ भग्नॊद्यमानामित्यत आह-भूयॊभिरिति | भूयॊभिर्बहुतरैः | किंभूतः ? पटुबुद्धिभिः पटुः पट्वी बुद्धिर्यॆषां तॆ पटुबुद्धयः प्रचुराः प्रज्ञास्तैः | शास्त्रॆषु दृष्टॆषु चिरं विचारितॆषु सत्स्वपि| किं भूतॆषु शब्दन्यायसमन्वितॆषु | शब्दानां न्यायः शब्दन्यायः मीमांसा| तदुक्तम् | शब्दन्यामॆव सा शक्तिस्तर्कॊ यः पुरुषाश्रयम् | इति | अथवा शब्दाश्च न्यायाश्च शब्दन्यायाः शब्दॊऽर्थवान्यायॊ मीमांसा तैः समन्वितॆषु संयुक्त्तॆषु | किमॆकवारं दृष्टषु नॆत्याहबहुश इति | बहुश इति | बहुशः बहुशः बहून्वारान्व्याससमासैर्बहुप्रकारै रचितॆष्वित्यर्थः | किमर्थं दृष्टॆषु | पटुधियां 8 हॊराफलज्ञप्तयॆ | चतुरबुद्धीनां हॊराफलावबॊधनाय प्राक्तनकर्मविपाकॊ हॊरा हॊरायाः फलं हॊराफलं तस्य ज्ञप्तिस्तत्फलं शुभाशुभं तज्ज्ञानाय | किम्भूतं शास्त्रप्लवं ? स्वल्पं लघुग्रंथम् | पुनः किम्भूतं ? वृत्तविचित्रम् वृत्तैः शार्दूलविक्रीडितप्रभृतिभिर्विचित्रं रम्यं तस्मात्स्वल्पतयैवास्य गुणवत्त्वम् | यतस्तॆषामत्रात्युद्यमभङ्गॊ न भवति | स्वल्पमित्यनॆन ग्रहणधारणसुखगां प्रदर्शयति | तथा च हस्तिवैद्यकरॊ वीरसॆनः | समासॊक्तस्य शास्त्रस्य सुखं ग्रहणधारणॆ | वृत्तविचित्रमित्यनॆन सूक्ततां प्रदर्शयति | ननु स्वल्पशास्त्रस्य स्वल्पार्थतैव भविष्यतीत्याह | अर्थबहुलं बह्वभिधॆयम् | अत ऎव पूर्वविरचितशास्त्रॆभ्यॊऽस्य गौरवम् | अन्यथा हि शास्त्रसम्भवात्पुनरुक्ततादॊषः स्यात् | ऎतदुक्तं भवति प्रागभिहितशास्त्राण्यातिविस्तृतान्यतस्तॆषु भग्यॊद्यमास्तदर्थमहं शास्त्रप्लवं प्रारभॆ | ननु कदाचिदल्पप्रज्ञतया तॆ भग्नॊद्यमास्तत्कुतॊ लब्धम् | यथा पूर्वशास्त्राणां महत्त्वाद्भग्नॊद्यमास्तदर्थमिदमल्पमित्यत इदमाह-- | पटुधियामित्यनॆनैतत्प्रतिपादितं भवति | न हि तॆ बुद्धिहीनत्वात्तॆषु शास्त्रॆषु भग्नॊद्यमाः किं तर्हि शास्त्रदॊषादन्यथाऽत्रापि तॆषामुद्यमभङ्गः स्यात् | प्लवमपि स्वल्पं च लघुवृत्तम् दीर्घं वृत्तविचित्रं रम्यमर्थबहुलं वित्तपरिपूर्णमॆवंविधं तितीर्षूणामतिसुखावहं भवतीति|| 2 || 9 हॊरॆत्यहॊरात्रविकल्पमॆकॆ वाञ्छन्ति पूर्वापरवर्णलॊपात् | कर्मार्जितं पूर्वभवॆ सदादि यत्तस्य पंक्तिं समभिव्यनक्ति || 3 || भट्टॊत्पलः-अधुना हॊराशास्त्रस्य पुराकृतकर्मविपाकव्यञ्जकत्वं वर्णद्वयपरिहारॆण शब्दव्युत्पत्तिं प्रदर्शयन्निन्द्रवज्रयाह- हॊरॆति | हॊरार्थ शास्त्रं हॊरा तामहॊरात्रविकल्पमॆकॆ, वाञ्छन्ति | अहश्च रात्रिश्चाहॊरात्रॊ हॊराशब्दॆनॊच्यतॆ | तस्य विकल्पॊ विकल्पना | ऎकॆ अन्यॆ हॊरां वाञ्छन्तीत्यर्थः | कथमुच्यतॆ ? पूर्वापरवर्णलॊपात् | अहॊरात्रशब्दस्य पूर्वॊ| वर्णॊऽकारॊऽपरवर्णश्च त्रकारस्तयॊर्लॊपमदर्शनं कृत्वा हॊराशब्दॊऽवशिष्यतॆ | किमर्थं ? पुनरहॊरात्रशब्दाद्धॊराशब्दॊ व्युत्पाद्यतॆ इति | अत्रॊच्यतॆ | मॆषादयॊ द्वादश लग्नराशयॊऽहॊरात्रान्तर्भूताः लग्नस्य च कालवशाज्ज्ञानं लग्नवशाच्छुभाशुभज्ञानम् | अतॊऽहॊरात्राश्रयत्वात्तत ऎव हॊराशब्दॊ व्युत्पाद्यतॆ 10 सर्वॊ ग्रहभगणश्चिन्त्यतॆ यस्मात् | किमस्य प्रयॊजनमित्याह कर्मार्जितमिति | पूर्वभवॆ प्राग्जन्मनि यत्सदादिशुभमशुभं मिश्रं च कर्माजितं तस्य पंक्ति पाकं सम्यक् अभिव्यनक्ति प्रकटीकरॊति |तथा च लघुजातकॆ | यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पंक्तिम् |  व्यञ्जयति शास्त्रमॆततमसि द्रव्याणि दीप इव || इति | ननु शुभस्याशुभं वावश्यंभाविनः किं व्यनक्ति ? उच्यतॆ | द्विविधं शुभाशुभं दृढकर्मॊपार्जितमदृढकर्मॊपार्जितं च तत्र दृढकर्मॊपार्जितस्य दशाफलं पाकक्रमॆण व्यनक्ति | अशुभं दशाफलं ज्ञात्वा यात्रादॆः परिहारः कर्त्तव्यः | शुभं ज्ञात्वा यात्रादॆरतिशयॆन दानम् | अदृढकर्मॊपार्जितस्याष्टकवर्गॆण फलव्यक्तिः | तच्चाशुभं ज्ञात्वा शान्त्यादिभिरुपशमं नयॆत् | तथा च यवनॆश्वरः | यद्यद्विधानं नियतं प्रजानां ग्रहक्षयॊगप्रभवं प्रसूतौ | भाग्यानि तानीत्यभिशब्दयन्ति वार्तानियॊगॆति दशा नराणाम् |तदप्यभिज्ञैर्द्विविधं निरुक्तं स्थिराख्यमौत्पातिकसंज्ञितं च | कालक्रमाज्जातकनिश्चितं यत्क्रमॊपसर्पि स्थिरमुच्यतॆ तत् |सप्तग्रहाणां प्रथितानि यानि स्थानानि जन्मप्रभावानि सद्भिः |तॆभ्यः फलं चारग्रहक्रमस्था नद्युर्यदॊत्पादकसंज्ञितं तत् |अनॆनास्थिरस्य शान्त्यादिभिरुपसमः प्रदर्शितॊ भवति |उक्तं च भगवता व्यासॆन | विहन्याद्दुर्बलं दैवं पुरुषॆण विपश्चिता | इति | 3 || 11 कालाङ्गनि वराङ्गमाननमुरॊ हृत्क्रॊडवासॊभूतॊ वस्तिर्व्यञ्जनमूरुजानुयुगलॆ जङ्घॆ ततॊऽङ् घ्रिद्वयम् | मॆषाश्विप्रथमानवर् क्षचरणाश्चक्रस्थिता राशयॊ  राशिक्षॆत्रगृहर् क्षभानि भवनं चैकार्थसम्प्रत्ययाः | 4 || 12 भट्टॊत्पलः-अधुना व्यवहारार्थं कालाख्यस्य पुरुषस्य मॆषादिराशिपूर्वकं शिरःप्रभृत्यङ्गविभागं शार्दूलविक्रीडि तॆनाह-- कालाङ्गानीति | कालास्यांगानि तानि च मॆषप्रभृतिराशयॊ नवर् क्षचरण नवभिर्‌ऋक्षचरणैर्नक्षत्रपादैः प्रमाणं यॆषांतॆ|अश्विप्रथमाःअश्विनीतःप्रभृतिनवन‌ऋक्षत्रपादा‌ऎकैकस्यप्रमाणम्|मॆषप्रभृतिराशयॊऽश्विप्रथमैर्नक्षत्रपादैर्युक्ता इत्यर्थः | तथाभूता राशयॊ धातुरवयवाः | तथा च यवनॆश्वरः द्वॆद्वॆ सपादॆ भवनं गतॆ इति | तथा च भगवान्गार्गिः | अश्विनी भरणी मॆषः कृत्तिकापाद ऎव च| तत्पादत्रितयं ब्राह्मं वृषः सौम्यदलं तथा || सौम्यार्धमाद्रा मिथुनं त्वदित्याश्चरणत्रयम् | तत्पादः पुष्यमाश्लॆषा राशिः कर्कटकः स्मृतः | पित्र्यं भाग्यमथार्यम्णः पादः सिंहः प्रकीर्तितः | तत्पादत्रितयं कन्या हस्तश्चित्रार्धमॆव च| तुला चित्रादलं स्वातिर्विशाखचरत्रयम् | तत्पादं मित्रदैवतव्यं ज्यॆष्ठा वृश्चिक उच्यतॆ | मूलमाप्यं तथा धन्वी पादॊ विश्वॆश्वरस्य च | तत्पादत्रितयं श्रॊतं मकरॊ वासवं दलम् | तद्दलं वारुणं कुम्भस्यथाजाच्चरणत्रयम् | तत्पाद ऎकॊ मीनः स्यादहिर्बुध्न्यं च रॆवती | चक्रॆ स्थिताश्चक्रस्थिताः, चक्रस्थिता राशयः अथवा चक्रवत् स्थिताः अनॆन संस्थानमॆषां प्रदर्शितं भवति | तत्र कालाख्यस्य वराङ्गं शिरॊ मॆषः | आननं मुखं तद्वृषः | उरॊ वक्षॊ मिथुनम् | तद्द हृदयं कुलीरः कर्कटः | क्रॊडमुदरं सिंहः | वासॊभृत् कटिः कन्या | वस्तिर्नाभिव्यञ्जनयॊरन्तरॆ तुला | व्यञ्जनं यॆन पुंस्त्वं व्यञ्ज्यतॆ लिङ्गं तत् वृश्चिकः| ऊरुयुगलं धन्वी | जानुयुगलं मकरः | जंघॆ द्वॆ कुम्भः अंघ्रिद्वयं पादयुगलं मीन इति | तथा च बादरायणः |मॆषः शिरॊऽथ वदनं वृषभॊ विधातुर्वक्षॊ भवॆन्नृमिथुनं हृदयं कुलीरः | सिंहस्तथॊदरमथॊ युवतिः कटिश्च वस्तिस्तुलाभृदथ मॆहनमष्टमं स्यात् | धन्वी चास्यॊरुयुगं मकरॊ जानुद्वयं भवति | जङ्घाद्वितयं कुम्भः पादौ मत्स्यद्द्वयं चॆति | अस्य प्रयॊजनम् | जन्मकालॆ यॊ राशि पापग्रहाक्रान्तः स कालाख्यस्य पुरुषस्य यस्मिन्नङ्गॆ स्थितस्तत्राङ्गॆ जातस्यॊपघातॊ वक्तव्यः | यत्र सौम्यः स्थितस्तत्र पुष्टिरिति | तथा च सारावल्याम् | कालनरस्यावयवान्पुरुषाणां कल्पयॆत्प्रसवकालॆ | सदसद्ग्रहसंयॊगात्पुष्टान् त्सॊपद्रवांश्चापि | इति | राशिक्षॆत्रमित्यादि | ऎषां च 13 प्रत्यैकस्य राशिरिति संज्ञा तस्यॆव पर्यायनामापि | क्षॆत्रं गृहमृक्षं भं राशिश्च क्षॆत्र च गृहं च ऋणं च भं च तानि राशिक्षॆत्रगृहर्क्षभानि भवनं च गृहत्वाद्भवनग्रहणॆ सिद्धॆ यत्पुनर्भवनग्रहणं कृतं तत्सर्वॆषां गृहपर्यायाणां ग्रहणार्थम् | ऋक्षत्वादपि भग्रहणॆ सिद्धॆ यत्पुनर्भग्रहणं तॆनैतद्दर्शयति | यत्र यत्र हॊराशास्त्रॆ भग्रहणमृक्षग्रहणं वा तत्र तत्र राशॆरॆव ग्रहणं स्यान्न तु नक्षत्रस्य | ऎतॆ राश्यादयः शब्दा ऎकार्थसम्प्रत्यया ऎकार्थाभिधायका इत्यर्थः | 4 || 14 मत्स्यौ घटी नृमिथुनं सगदं सवीणं चापी नरॊऽश्वजघनॊ मकरॊ मृगास्यः | तौली ससस्यदहना प्लवगा च कन्या शॆषाः स्वनामसदृशाः खचराश्च सर्वॆ | | 5 | | भट्टॊत्पलः-अधुना राशिनां स्वरूपविज्ञानं वसन्ततिलकॆनाह-- मत्स्याविति | मीनॊ राशिर्मत्स्यॊ मत्स्यद्वयमन्यॊन्यं पुच्छाभिमुखम् | ऎतत्तु कुतॊ लभ्यतॆ ? उच्यतॆ | तस्यैवॊभयॊदयत्वात् | वक्ष्यति च | लग्न समॆत्युभयतः पृथुरॊमयुग्मम् इति | घटी कुम्भः, स्कन्धासक्तरिक्तघटधारी पुरुषः कुम्भः | मिथुनॊ नृमिथुनराशिर्मिथुनं नृमिथुनं स्त्रीपुमांसौ तन्मिथुनम् | सगदं सवीणं पुमान्सगदः स्त्री सवीणा | चापी नरॊऽश्वजघनः धन्वी राशिश्चापी विद्यमानधन्वा नरॊऽश्वजघनः | अश्वस्तुरगस्तस्यॆव जघनं पादं यस्य सॊऽश्वजघनः, चतुष्पादित्यर्थः | मकरः मृगास्यॊ मकरॊ राशिर्मकर ऎव स च| मृगास्यॊ मृगमुखः | तौलीत्यादि | तुला विद्यमानतुलः पुरुषः | कन्या कुमारी प्लवगा नौकास्था ससस्यदहना | सस्यं च दहनश्च तौ सस्यदहनौ ताभ्यां सह वर्तत इति ससस्यदहना | शॆषा राशयॊ मॆषवृषकर्कटसिंहवृश्चिकाः स्वनामसदृशाः स्वसंज्ञाविहिताकृतयः | तद्यथामॆषॊ मॆषः, वृषॊ वृषभः, कर्कटः कुलीरॊ जलचरप्राणी, सिंहः कॆसरी, वृश्चिकॊ वृश्चिकः कीटजातिः | तथा च सत्यः | छागॊ वृषभॊ वीणागदाधरं मिथुनमम्भसि कुलीरः | सिंहः शैलॆ कन्या नौसंस्था दीपसस्यकरा | पुरुषस्तुलाधरॊ वृश्चिककॊऽथ धन्वी नरॊ हयान्त्याधः | मकरार्ध मृगपूर्व कुम्भी पुरुषॊ झषॊ मीनः | स्वचराश्च सर्वॆ द्वादश राशयः स्वचराः स्वॆषु स्वॆ स्थानॆषु चरन्ति, यथादृष्टस्थाननिवासिन इत्यर्थः | तद्यथामॆषवृषवारण्यौ दिवारात्रौ ग्राम्यौ मिथुनं ग्राम्यः कर्कटॊऽम्बुचर सिंह आरण्यः कन्या दर्शितदॆशविभागा तुला पण्यवीथिस्थः वृश्चिकः श्वभ्रचारी धन्वी ग्राम्यः मकरस्य पूर्वभाग आरण्यॊऽन्यॊ जलचरः कुम्भॊ ग्राम्यः मीनॊ जलचर इति| तथा च यवनॆश्वरः  आद्यःस्मृतॊमॆषसमानमूर्तिः कालस्य मूर्द्धागदितःपुराणैः|सॊऽजाविकासञ्चरकन्दराद्रिस्तॆनाग्निधात्वाकररत्नभूमिः | 1 || 15 वृषाकृतिस्तु प्रथितॊ द्वितीयः स वक्त्रकण्ठायतनं विधातुः |वनाद्रिसानुद्विपगॊकुलानांकृषीवलानामधिवासभूमिः | 2 || वीणागदाभृन्मिथुनं तृतीयः प्रजापतॆः स्कंधभुजासदॆशॆ|प्रनर्तकॊगायकशिल्पकस्त्रीक्रीडारतिद्यूतविहारभूमिः || 3 ||कर्कॊ कुलीराकृतिरम्बुसंस्थॊ वक्षः प्रदॆशॆविहितश्चधातुः|कॆदारवापीपुलिनानितस्यदॆवाङ्गनारम्यविहारभूमिः || 4||सिंहश्चशैलॆहृदयप्रदॆशॆप्रजापतॆःपञ्चममाहुराद्याः|तस्याटवीदुर्गगुहावनाद्रिव्याधावनीदुर्गवनप्रदॆशाः || 5 ||प्रदीपिकां गृह्य करॆण कन्या नौस्था जलॆ षष्ठमितिब्रुवन्ति|कालार्थधीराजठरंविधातुःसशाड्वलास्त्रीरतिशिल्पभूमिः || 6 ||वीथ्यां तुलापण्यधरॊमनुष्यःस्थितःसनाभीकटिवस्तिदॆशॆ|शुक्लार्थवीत्यापणपट्टनाध्वसार्थाधिवासॊन्नतसस्यभूमिः || 7 ||श्वभ्रॊऽष्टमॊ वृश्चिकविग्रहस्तु प्रॊक्तः प्रभॊर्मॆढ्रगुदप्रदॆशॆ |गुहाबिलश्वभ्रविषाश्मगुप्तिर्वल्मीककीटाजगराहिभूमिः | 8 ||धन्वी मनुष्यॊ हयपश्चिमार्धंस्तमाहुरूरू भुवनप्रणॆतुः | समस्थितव्यस्तसमस्तवाजिसुरास्त्र भृद्यज्ञरथाश्वभूमिः || 9 ||मृगार्धपूर्वॊ मकरॊम्बुगार्धॊ जानुप्रदॆशॆ तनुशन्ति धातुः | नदीवनारण्यसरॊद्र्य मूपश्वभ्राधिवासॊ दशमः प्रदिष्टः || 10 ||स्कन्धॆ तु रिक्तः पुरुषस्य कुम्भॊ जंघॆ तमॆकादशमाहुरार्याः | शुष्कॊदकाधारकुशस्थ पक्षी स्त्रीशौण्डिकॊ द्यूतनिवासभूमिः | 11 ||जलॆ तु मीनद्वयमन्त्यराशिः कालस्य वादौ विहितौ वरिष्ठौ|सपुण्यदॆवद्विजतीर्थभूमिर्नदीसमुद्राम्बुचयाधिवासः|12||प्रयॊजनंहृतनष्टादिषुद्रव्यस्थानपरिज्ञम्|उक्तं च राशिभ्यः कालदिग्दॆशा इति | 5 || 16 क्षितिजसितज्ञचन्द्ररविसौम्यसितावनिजाः सुरगुरुमन्दसौरिगुरवश्च गृहांशकपाः | अजमृगतौलिचन्द्रभवनादिनवांशविधि- र्भवनसमांशकाधिपतयः स्वगृहात् क्रमशः || 6 || भट्टॊत्पलः-अधुना राशिनवमांशद्वादशांशाधिपांस्तॊटकॆनाह-- क्षितिजसितज्ञॆति | क्षितिजादयॊ ग्रहाः गृहपा अंशकपाश्च गृहाणां राशीनां मॆषादीनां पतयः स्वामिनॊ भवन्ति | क्षितिजॊऽङ्गारकः स मॆषास्याधिपतिः | सितः शुक्रॊ वृषभस्य | ज्ञॊ बुधॊ मिथुनस्य | चन्द्रः कर्कटस्य | 17 रविरादित्यः सिंहस्य | सौम्यॊ बुधः कन्यायाः | सितः शुक्रस्तुलायाः | अवनिजॊऽङ्गारकॊ वृश्चिकस्य | सुरगुरुर्बृहस्पतिर्धन्विनः | मन्दः शनैश्चरॊ मकरस्य | सौरिः शनैश्चरः कुम्भस्य | गुरुर्बृहस्पतिर्मनस्यॆति | प्रयॊजनं हॊरास्वामिगुरुज्ञवीक्षितयुता इत्यत्र | ऎत ऎव नवांशकाधिपतयः न कॆवलं मॆषस्य भौमाऽधिपतिः | यावद्यस्मिन्राशौ मॆषनवांशकॊदयॊ भवति तस्यापि भौमॊऽधिपतिः| शॆषाणमप्यॆवमॆव | तॆ च नवांशकाः कथं भवन्तीत्याह- अजमृगतौलिचन्द्रभवनादिनवांशविधिरिति | अजॊ मॆषः | मृगॊ मकरः | तौलॊ तुला | चन्द्रभवनं कर्कटः | आदिनवांशविधिरिति प्रत्यॆकमभिसम्बध्यतॆ | तत्रैवमभिसम्बन्धॊऽभिजायतॆ | अजादिमृगादितौल्यादिचन्द्रभवनादिनवांशविधिः सर्वराशीनां भवति | तत्राजादिनवांशविधिर्मॆषस्य | तॆन मॆषवृषमिथुनकर्कटसिंहकन्यातुलावृश्चिकधनुर्धराणां सम्बन्धिनॊ नवांशा मॆषस्य भवन्ति मृगादिर्वृषस्य तॆन मकरकुम्भमीनमॆषवृषमिथुनकर्कटसिंहकन्यासम्बन्धिनॊ नवांशा वृषस्य | तुलामिथुनस्य तॆन तुलावृश्चिकधनुर्मकरकुम्भमीनमॆषवृषमिथुनानां सम्बन्धिनॊ नवांशा मिथुनस्य | कर्कटादिः कर्कटस्य | तॆन कर्कसिंहकन्यातुलावृश्चिकधनुर्मकरकुम्भमीनानां सम्बन्धिनॊ नवांशा कर्कटस्य | ऎवं सिंहस्य मॆषवत् | कन्याया वृषवत् | तुलाया मिथुनवत् | वृश्चिकस्य कर्कटवत् | पुनरपि धनुषॊ मॆषवत् | मकरस्य वृषवत् | कुम्भस्य मिथुनवत् | मीनस्य कर्कटवत् | तदुक्तं ग्रन्थान्तरॆ मॆषकॆसरिधन्विनां मॆषाद्या अंशकाः स्मृताः | वृषकन्यामृगाणां च मकराद्या नव स्मृताः | तुलामिथुनकुम्भानां तुलाद्या नव कीर्तिताः | कर्कटालिझषाणां च कर्कटाद्या नवांशकाः | इति | प्रयॊजनं स्तॆनॊ भॊक्ता पण्डिताद्या, इत्यादि | भवनसमांशकाधिपतयः स्वगृहात्क्रमश इति | भवनसमा अंशका भवनसमांशकाः, भवनानि द्वादश तत्समा अंशका द्वादशांशका इत्यर्थः | तॆ च प्रत्यॆकस्य राशॆः स्वगृहादारभ्य गणनीयाः | तद्यथा-मॆषस्य मॆषवृषमिथुनकर्कटसिंहकन्यातुलावृश्चिकधन्विमकरकुम्भमीनानां सम्बन्धिनॊ द्वादशभागा भवन्ति | तॆ मॆषाद्यधिपतयः | ऎवं 18 वृषस्य वृषाद्या मॆषान्ताः | मिथुनस्य मिथुनाद्या वृषान्ताः | कर्कटस्य कर्कटाद्या मिथुनान्ताः | सिंहस्य सिंहाद्याः कर्कान्ताः | कन्यायाः कन्याद्याः सिंहान्ताः | तुलायास्तुलाद्याः कन्यान्ताः | वृश्चिकस्य वृश्चिकाद्यास्तुलान्ताः | धन्विनॊ धनुराद्या वृश्चिकान्ताः | मकरस्य मकराद्या धन्व्यन्ताः | कुम्भस्य कुम्भाद्या मकरान्ताः | मीनस्य मीनाद्याः कुम्भान्ता इति | प्रयॊजनं चैषां तत्कालिकॆन्दुसहितॊ द्विरसांशकॊ यः इत्यादि | 6 || 19 20 21 कुजरविजगुरुज्ञशुक्रभागाः पवनसमीरणकौर्पिजूकलॆयाः | अयुजि युजि तु भॆ विपर्ययस्थाः शशिभवनालिझषान्तमृक्षसन्धिः| 7 || भट्टॊत्पलः अधुना त्रिंशांशकाधिपतीन्पुष्पिताग्रायाह- कुजॆति || कुजॊ भौमः शनिः गुरुर्बृहस्पतिः ज्ञॊ बुधः शुक्रॊ भार्गवः ऎवं कुजरविजगुरुज्ञशुक्राणां क्रमॆण भागाः पवनसमीकरणकौर्पिजूकलॆयाः | तद्यथा- पवनः वायवः पञ्च, पञ्च ऎव भागाः कुजस्य | तत ऊर्ध्वं समीरणाः पंचैव, रविजस्य ऎवं दश | अत ऊर्ध्वं कौर्पिसंज्ञा अष्टौ गुरॊः कॊर्पाख्यॊ वृश्चिकः स च गणनयाष्टमः ऎवमष्टादश | ततः परं जूकसंज्ञा सप्त भागा बुधस्य जूकसंज्ञाः तुलायाः स च गणनया सप्तमः ऎवं पंचविंशतिः | तत ऊर्ध्वं लॆयसंज्ञाः पञ्च शुक्रस्य लॆयसंज्ञा सिंहस्य स च गणनया पञ्चमः ऎवं त्रिंशत् | किं सामान्यॆनॆत्यत आह  अयुजि युजीति | अयुजि विषमराशौ कुजादयॊ ग्रहाः पवनादीनां भागानां यथाक्रमॆणाधिपतयः | तत्र मॆषमिथुनसिंहतुलाधनुः कुम्भानां विषमराशीनानामॆष क्रमः युजि तु भॆ विपर्ययस्थाः युजि समराशौ पवनादिभागा ग्रहाश्च विपर्ययस्था व्यत्ययॆन तिष्ठन्ति | तद्यथा | तत्रादौ पञ्च शुक्रस्य तत परं 22 सप्त बुधस्य ऎवं द्वादश | ततः परमष्टौ जीवस्य ऎवं विंशतिः | ततः परं पञ्च शनॆः ऎवं पञ्च भौमस्य ऎवं त्रिंशत् | तत्र वृषकर्कटकन्यावृश्चिकमकरमीनाः समराशयः ऎवं त्रिंशद्भागाधिपतयः पञ्च ताराग्रहाः | अत्र कॆचिदाहुर्यथा| विपर्ययस्था इत्यनॆनानन्तराणामॆव पवनादिसंख्यानां भागानां विपर्ययॆण भवितव्यं न व्यवहितानां कुजादीनाम् | तच्चायुक्तम् | यस्मात्तशब्दॊऽत्र पठ्यतॆ स च| कुजादिसमुच्चायार्थः | तथा च श्रुतकीर्तिः | पञ्चाथ पञ्च चाष्टौ सप्त च पञ्चैव चौजभवनॆषु | धरणिसुतमन्दसुरगुरुबुधशुक्राणां क्रमॆणांशाः | पञ्चैव सप्त चाष्टौ पञ्च च पञ्चाथ युग्मभावॆषु | भागा भार्गवशशिसुतसुरॆज्यशनिभूमिपुत्राणाम् | इति प्रयॊजनम् || कन्यैव दुष्टा व्रजतीह दास्यं साध्वी समाया कुचरित्रयुक्ता | भूम्यात्मजज्ञॆ क्रमशॊंऽशकॆषु वक्रार्किजीवॆन्दुजभार्गवाणाम् | इत्यादिः शशिभवनालिझषान्तमृक्षसन्धिः | अन्तशब्दः प्रत्यॆकमभिसम्बध्यतॆ | शशिभवनानन्तमल्यन्तं झषान्तं च ऋक्षसन्धिः | शशिभवनं कर्कटः, अलिर्वृश्चिकः झषॊ मीनः ऎतॆषामन्तं नवमनवांशकं यत्र नक्षत्रराश्यॊर्युगपदवसानं तदृक्षसन्धिः यस्मादाश्लॆषान्तॆ कर्कटकान्तः | ज्यॆष्ठान्तॆ वृश्चिकान्तः रॆवत्यन्तॆ मीनान्त इति | ऎतदॆव लॊकॆ गण्डान्तमिति प्रसिद्धम् | उक्तं | अश्विनीपित्र्यमूलाद्या मॆषसिंहहयादयः | वर्तन्तॆ विषमक्षन्तॆ पादवृद्धया यथॊत्तरम् | इति | प्रयॊजनं च | सन्धौ पापॆ शशिनि च जडः स्यान्न चॆत् सौम्यदृष्टिः इति | 7 || 23 क्रियताबुरिजितुमकुलीरलॆयपाथॊनजूककौर्प्याख्याः | तौक्षिक आकॊकॆरॊ हृद्रॊगश्चान्त्यभं चॆत्थम् || 8 || भट्टॊत्पलः- अधुना लॊकव्यवहारार्थं मॆषादीनां संज्ञाः पथ्यार्ययाऽऽह- 24 क्रियॆति | इत्थमॆवं प्रकारनामानॊ मॆषाद्या राशयॊ ज्ञॆयाः | तद्यथाक्रियॊ मॆषः, ताबुरिर्वृषं, जितुमी मिथुनः, कुलीरः कर्कटः, लॆयः सिंहः, पाथॊनः कन्या, जूकस्तुला, कौर्पाख्यॊ वृश्चिकः, तौक्षिकॊ धन्वी, आकॊकॆरॊ मकरः, हृद्रॊगः कुम्भः, अन्त्यभं मीन इति | प्रयॊजनं | गॊसिंहौ जितुमाष्टमौ क्रियतुलॆ, इत्यादि | 8 || दृक्काणहॊरानवभागसंज्ञास्त्रिशांशकद्वादशसंज्ञिताश्च | क्षॆत्रं च यद्यस्य स तस्य वर्गॊ हॊरॆति लग्नं भवनस्य चार्धम् || 9 || भट्टॊत्पलः- अधुना ग्रहस्य क्षॆत्रहॊराद्रॆष्काणनवांशद्वादशभागत्रिंशद्भागानां वर्गसंज्ञा व्यवहारार्थमिन्द्रवज्रयाह- दृक्काणॆति | दृक्काणादयः षट् पदार्थाः स्वकीयग्रहस्य वर्गसंज्ञा | तत्र दृक्काणॊ राशित्रिभागः हॊरा राश्यर्धं नवभागॊ नवांशकः ऎषां संज्ञा यॆषां तॆ तथा | त्रिंशांशकस्त्रिंशद्भागः द्वादशांशॊ द्वादशभागः ऎतत्संज्ञिताश्च ऎषा संज्ञाख्या यॆषां तॆ तथा यद्यस्य ग्रहस्य क्षॆत्रं राशिः स तस्य वर्गः | वर्गशब्दॆनात्र षड्वर्गः | ऎतॆ सर्व ऎव ग्रहस्यात्मीयवर्गसंज्ञा | ऎवं षड्वकल्पॊ राशिः षट्स्वात्मीयॆषु स्थितॊ वर्गस्थॊ भवति | ननु ग्रहवर्गस्य षड्वकल्पा न सम्भवन्ति | यतश्चन्द्रार्कयॊस्त्रिशांशकाभावः भौमादीनां हॊराभावः तस्मात्पक्षॆ सम्भवन्ति तॆन पञ्चस्वात्मीयॆषु स्थितॊ वर्गस्थः | ऎतदप्युपलक्षणार्थम् | अतॊ यथासम्भवं त्र्यादिविकल्पस्थॊ ग्रहॊ वर्गस्थ उच्यतॆ | यस्माद्भगवान्गार्गिः 25 क्षॆत्रं हॊराथ दृक्काणॊ नवांशॊ द्वादशांशकः | त्रिंशांशकश्च वर्गॊस्य सर्वस्य समुदाहृतः | त्र्यादिष्वपि पदार्थॆषु स्थितः स्वॆषु स्ववर्गगः | पञ्चवर्गगतॊऽप्यॆवं ग्रहॊ भवति नान्यथा | इति | प्रयॊजनम् || ऎकॊऽपि वर्गॊपगतॊ नराणां शुभॊऽशुभॊ वापि चतुष्टयस्स्थः| वर्गॊऽपि वास्यॊदयगॊ विनाशं बहुप्रकारं कुरुतॆऽघ्वगानाम् || इत्यादि | हॊरालग्नयॊः सहार्थमाह--हॊरॆति | लग्नं भवनस्य चार्धमिति | हॊरॆति लग्नमुच्यतॆ | प्रयॊजनं च | हॊरा स्वामिगुरुज्ञवीक्षितयुता इति | भवनस्य च| राशॆरर्ध हॊरा| प्रयॊजनम् | ’मार्तण्डॆन्द्वॊरयुजि समभॆ चन्द्रभान्वॊश्च हॊरॆ’ इति| 9 || गॊऽजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठॊदया विमिथुनाः कथितास्त ऎव | शीर्षॊदया दिनबलाश्च भवन्ति शॆषा लग्नं समॆत्युभयतः पृथुरॊमयुग्मम् || 10 || 26 भट्टॊत्पलः- अधुना राशीनां रात्रिदिनसंज्ञात्वं पृष्ठॊदयशीर्षॊदयत्वं च वसन्ततिलकॆनाह--गॊऽजॆति | गॊऽजाश्विकर्किमिथुनाःगॊशब्दॆन वृष उच्यतॆ, अजॊ मॆषः अश्वॊऽस्यास्तीत्यश्वी धन्वी, कर्कॊ कुलीरः, मिथुनः प्रसिद्धः ऎतॆ गॊऽजाश्विकर्किमिथुनाः समृगा मृगॆण सहिताः षड्राशयॊ निशाख्या रात्रिबलसञ्ज्ञाः | पृष्ठॊदया विमिथुनाः त ऎव रात्रिसञ्ज्ञा विमिथुनाः मिथुनवर्जिताः पृष्ठॊदयसञ्ज्ञा भवन्ति | पृष्ठॆनॊदयं यांतीत्यर्थः | मिथुनः पुनः शीर्षॊदयः | शीर्षॊदया इति | उक्तॆभ्यः शॆपाः सिंहकन्यातुलावृश्चिककुम्भाः शीर्षॊदयाः शिरसॊदयं यान्ति दिनबलाश्च भवन्ति | अत्र रात्रिदिनबलाख्यास्त इति संज्ञामात्रम् | यतस्तॆषामुत्तरत्र बलं वक्ष्यति द्विपदादयॊऽह्नि निशि च प्राप्तॆ च संध्याद्वय इति | ऎवं सत्याचार्यस्य स्ववचनविरॊधः स्यात् | तस्मात्संज्ञामात्रं बलग्रहणम् | प्रयॊजनम् | ’रात्रिद्युसंज्ञॆषु विलॊमजन्म इत्यादि | तथा पृष्ठॊभयकॊदयक्षंगा इति | यात्रायां वक्ष्यति च | शीर्षॊदयॆ समभिवाञ्छितकार्यसिद्धिः पृष्ठॊदयॆ विफलता बलविद्रवश्च| तथा शस्तं दिवा दिनबलॆ निशि नक्तवीर्यॆ रात्रौ विपर्ययबलॆ गमनं न शस्तम् | अन्यच्चैभ्यॊ मीनस्य विशॆषमाह-- | लग्न समॆत्युभयतः पृथुरॊमयुग्ममिति | पृथुरॊमा मतस्यस्तद्युग्मं मत्स्यद्वयं मीनॊ राशिः स उभयतः पृष्ठशीर्षाभ्यां लग्नं समॆत्यागच्छति || 10 || 27 जातक कॆ जन्म समय की लग्न सॆ जन्मादि विचार और यात्रादि शुभ मुहूर्ती कॆ उपयॊग मॆं उक्त राशियॊं का शुभाशुभ विचार किया जाता है | 10 || क्रूरः सौम्यः पुरुषवनितॆ तॆ चरागद्विदॆहाः  प्रागादीशाः क्रियवृषनृयुक्कर्कटाः सत्रिकॊणाः | मार्तण्डॆन्द्वॊरयुजि समभॆ चन्द्रभान्वॊश्च हॊरॆ  दृक्काणाः स्युः स्वभवनसुतत्रित्रिकॊणाधिपानाम् || 11 || भट्टॊत्पलः-अधुना राशीनां क्रूरसौम्यविभागं स्त्रीपुरुषविभागं चरस्थिरद्विस्वभावविभागं दिगधिपत्वं हॊरादृक्काणपतीनां विभागं च मन्दाक्रान्तयाहक्रूरः सौम्य इति | तॆ मॆषादयॊ राशयॊ यथाक्रमं क्रूरसौम्य संज्ञाः | तत्र मॆषः क्रूरः | वृषः सौम्यः | मिथुन क्रूरः | कर्कटः सौम्यः ऎवं सर्वॆषां यॊज्यम् | तॆन विषमराशयः क्रूरसंज्ञा समराशयः सौम्यसंज्ञा | प्रयॊजनं च क्रूरॆषु जाताः क्रूरस्वभावाः सौम्यॆषु जाताः सौम्यस्वभावा भवन्ति | इति | तथा चाचार्यः | ऒजॆ पुरुषा ज्ञॆयाः सौम्याः स्त्रीसंज्ञकाः क्रमाद्युग्मॆ | उग्रॆषूग्राः सौम्या सौम्य युग्मॆषु भवनॆषु | पुरुषवनितॆ इति | त ऎव मॆषादयॊ यथाक्रमं पुरुषवनिताख्या ज्ञॆयाः | तॆन मॆषः पुरुषॊ नरः | वृषॊ वनिता स्त्री | ऎवं सर्वत्र | तॆन षडविषमराशयः पुरुषसंज्ञाः षट् समराशयः स्त्रीसज्ञाः | प्रयॊजनं च पुरुषराशिषु जातास्तॆजस्विनः | स्त्रीराशिषु जाता मृदवॊ भवन्ति | तॆ चरागद्विदॆहा इति | त ऎव मॆषादयॊ राशयॊ यथाक्रमं यथासख्ङयं चरागद्विदॆहाख्या भवन्ति | तत्र मॆषश्चरः वृषॊऽगः स्थिरः मिथुनॊ द्विदॆहॊ द्विस्वभावः | ऎवं कर्कटादिषु यॊज्यम् | तॆन मॆषकर्कटतुलामकराश्चराः | वृषसिंहवृश्चिककुम्भाः स्थिराः | मिथुनकन्याधनुर्मीना द्विस्वभावाः | प्रयॊजनं च | चरराशिषु जाताश्चरस्वभावाः स्थिरॆषु स्थिरस्वभावा द्विस्वभावॆषु मिश्रस्वभावा भवन्ति | तथा च सत्यः | चरसंज्ञाः स्थिरसंज्ञा द्विप्रकृतिरिति राशयः क्रमशः | राशिस्वभावतुल्या जायन्तॆ प्रकृतयः प्रसूतानाम् | प्रागादीशा इति | क्रियॊ मॆषः वृषः प्रसिद्धः नृयुङमिथुनं कर्कटकः कुलीरः ऎतॆ क्रियवृषनृयुक्कर्कटाः सत्रिकॊणाः त्रिकॊणाभ्यां स्वपञ्चमनवमाभ्यां सहिताः प्रागादिषु पूर्वाञ्जासु चतसृषु दिशासु ईशाः स्वामिनॊ भवन्ति | मॆषः स्वपञ्चमनवमाभ्यां पश्चिमायाम् | ऎवमॆव कर्कॊऽपि | तॆन   28 मॆषसिंहधन्विनः पूर्वस्याम् | वृषकन्यामकरा दक्षिणस्याम् | मिथुनतुलाकुंभाः पश्चिमायाम् | कर्कटवृश्चिकमीना उत्तरस्यामिति | प्रयॊजनम्हृतनष्टादौ चौरादॆद्रव्यस्य वा दिग्विज्ञानम्च’ | तथा च | ’यातव्यदिङ मुखगतस्य सुखॆन सिद्धिव्र्यर्थश्रमॊ भवति दिकप्रतिलॊमलग्नॆ |’ इति | मार्तण्डॆन्द्रॊरिति | मार्तण्डः सूर्यः इन्दुश्चन्द्रः अयुज्ययुग्मराशौ विषमराशौ यथाक्रमं मार्तण्डॆन्द्वॊर्हॊरॆ भवतः | प्रथमा हॊरा सूर्यस्य | द्वितीया हॊरा चन्द्रस्य | हॊराशब्दॆनात्र राश्यर्धमुच्यतॆ | समभॆ चन्द्रभान्वॊश्चॆति | समभॆ समराशौं चन्द्रभान्वॊहॊंरॆ भवतः | प्रथमा हॊरा चन्द्रस्य शशिनः | द्वितीया भानॊः सूर्यस्य | प्रयॊजनम्सूर्यहॊरायां जातस्तॆजस्विनश्चन्द्रस्य हॊरायां मृदुस्वभावाः भवन्ति | दृक्काणाः स्युरिति | दृक्काणॊ राशित्रिभागः स्वभवनसुतत्रित्रिकॊणाधिपानां सम्बन्धिनॊ दृक्काणा भवन्ति | प्रथमॊ द्रॆष्काणः स्वभवनाधिपतॆरात्मीयभवनाधिपतॆः द्वितीयः सुतभवनस्य पञ्चमस्थानाधिपतॆः | तृतीयास्त्रीत्रिकॊणाधिपतॆः | नवमस्थानाधिपतॆः| तॆन मॆषस्य प्रथमॊ द्रॆष्काणः प्रथमस्य भौमस्य, द्वितीयः पञ्चमस्थानसिंहाधिपतॆरर्कस्य तृतीयॊ नवमस्थानधनुषॊऽधिपतॆर्गुरॊरिति | वृषस्य प्रथमः शुक्रस्य, द्वितीयॊ बुधस्य तृतीयः शनॆः | मिथुनस्य प्रथमॊ बुधस्य द्वितीयः शुक्रस्य तृतीयः शनॆः | कर्कस्य प्रथमश्चन्द्रस्य द्वितीयॊ भौमस्य तृतीयॊ जीवस्य| सिंहस्य प्रथमः सूर्यस्य, द्वितीयॊ जीवस्य तृतीयॊ भौमस्य | कन्यायाः प्रथमॊ बुधस्य, द्वितीयः शनॆः तृतीयः शुक्रस्य | तुलायां प्रथमः शुक्रस्य, द्वितीयः सौरस्य तृतीयॊ बुधस्य | वृश्चिकस्य प्रथमॊ भौमस्य द्वितीयॊ जीवस्य तृतीयश्चन्द्रस्य | धन्विनः प्रथमॊ जीवस्य द्वितीयॊ भौमस्य तृतीयॊ रवॆः | मकरस्य प्रथमः शनॆः द्वितीयः शुक्रस्य तृतीयॊ बुधस्य | कुम्भस्य प्रथमः शनॆः | द्वितीयॊ बुधस्य तृतीयः शुक्रस्य | मीनस्य प्रथमॊ जीवस्य द्वितीयश्चन्द्रस्य तृतीयॊ भौमस्यॆति | प्रयॊजनम् | द्विरुत्तमास्वांशकभत्रिभागगैः इत्यादि | 11 || 29 30 कॆचितु हॊरा प्रथम भपस्य बाच्छन्ति लाभाधिपतॆद्वितीयाम् | द्रॆष्काणसंज्ञामपि वर्णयन्ति स्वद्वादशैकादशराशिपानाम् || 12 || भट्टॊत्पलः- अधुना मतांतरॆण हॊराद्रॆक्काणपतीनां लक्षणमिंद्रुवज्रयाहकॆचिदिति | कॆचिद्यवनॆश्वरादयः प्रथम हॊराम् भपस्य राश्यधिपतॆर्वाञ्छन्ति इच्छन्ति | द्वितीयाँ लाभादिपतॆरॆकादशस्थानाधिपस्य | यथा मॆषस्य प्रथमहॊरा भौमस्य | द्वितीया हॊरैकादशकुम्भपतॆः सौरस्य | ऎवं सर्वॆषामपि यॊज्यम् | द्वॆष्काणसंज्ञामपीति | स्वद्वादशैकादशराशिपानामपि द्रॆष्काणसंज्ञा वर्णयन्ति कथयन्ति | प्रथमं स्वाधिपतॆरात्मीयस्वामीनः | द्वितीयं द्वादशाधिपतॆः | तृतीयमॆकादशराश्यधिपतॆः | यथा मॆषस्य प्रथमॊ द्रॆष्काणॊ भौमस्य द्वितीयॊ जीवस्य तृतीयः सौरस्य | ऎवमन्यॆषामपिज्ञातव्यम् | तथा च यवनॆश्वरः | आद्या तु हॊरा भवनस्य | पत्युरॆकादशक्षॆत्रपतॆर्द्धितीया | स्वद्वादशैकादशराशिपानां द्रॆष्काणसंज्ञाः क्रमशस्नयॊऽत्र | ऎवं यवनॆश्वरमतॆन सर्वग्रहाणाम् हॊराधिपत्यमस्ति | ऎतदाचार्यस्य नाभिप्रॆतं सत्यादीनामपि | तथा च सत्यः | ऒजॆषु रवॆर्हॊरा प्रथमा युग्मॆषु चॊत्तरा शॆषा | इन्दुः क्रमशॊ ज्ञॆया जन्मनि चॆष्टौ स्वहॊरास्थौ | राशिपतॆद्रॆष्काणस्तत्पञ्चमनवम् (1 ||5|9) भवनपतयः स्युः | तॆषामधिपतयः स्वस्वदृकाणॆ ग्रहा बलिनः | इति || 1 2 ||  31 अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः | दशशिखिम्नुयुक्तष्थीन्द्रियांशैस्त्रिनवकविंशतिभिश्च तॆऽस्तनीचाः || 13 || भट्टॊत्पलः- अथ उच्चनीच विभागं पुष्पिताग्र्याह‌अजॆति | अजादयॊ राशयॊ यथाक्रमॆण दिवाकरादीनां ग्रहाणां तुङ्गाः उच्चसंज्ञाः | तद्यथा अजॊ मॆष आदित्यस्यॊच्चम्, वृषभॊ वृषः स चन्द्रस्य | मृगॊ मकरः स भौमस्य, अङ्गना कन्या बुधस्य | कुलीरः कर्कटॊ जीवस्य, झषॊ मीनः शुक्रस्य | वणिक् तुलाधरः सौरस्य | ऎत ऎव राशयॊ दशादिषु भागॆषु सूर्यादीनां परमॊच्चसंज्ञा भवन्ति | तत्रादित्यस्य मॆषॊ दशमभागॆ परमॊच्चः | चन्द्रस्य वृषः शिखिसंख्यॆ तृतीयॆ भागॆ | भौमस्य मकरॊ मनुयुक्संख्यॆऽष्टाविंशॆ भागॆ परम उच्चः| मनवश्चतुर्दश तॆषां युगं द्विगुणा मनव इत्यर्थः | बुधस्य कन्या तिथिसंख्यॆ पञ्चदशॆ भागॆ | जीवस्य कर्कट इन्द्रियसंख्यॆ पञ्चमॆ भागॆ | शुक्रस्य मीनस्त्रिनवकसंख्यॆ सप्तविंशॆ | सौरस्य तुला विंशॆ | ननु सर्व ऎव राशिरुच्चसञ्ज्ञः स च त्रिंशदंशकः तत्र दशादीनां तदन्तर्भूतानां सिद्धॆवॊच्चसंज्ञा तत्कि दशाद्युपादानाम् | सत्यम् | किंतु परमॊच्चत्वज्ञापनार्थं दशादीनां ग्रहणम् | अन्यथा सर्वं ऎवं राशयॊऽमी उच्चसंज्ञाः तॆनॊत्तराशिदशाद्यंशस्थाः कथिता ग्रहाः 32 परमॊच्चस्था इत्युच्यन्तॆ | परमॊच्चज्ञानॆन चॊच्चादब्यतिरिक्तं प्रयॊजनमस्ति | तथा च भगवान् गार्गिः | स्वच्चगॊ रविशीतांशू जनयॆतां नराधिपम् | उच्चस्थौ धनिनं ख्यातं स्वत्रिकॊणगतावपि | तथा च यवनॆश्वरः स्वॊच्चॆषु सर्वान्परिगृह्यभागांस्तिष्ठत्सु सर्वॆषु बलाधिकॆषु | लग्नॆ शुभॆ पूर्ववषुष्मतीदौ त्रैलॊक्यराज्याधिपतिः प्रसूतॆ | अथॆदृशा ऎवं विधाः सूर्यादयः परमॊच्चस्थिता द्रष्टव्याः अत्र वृत्तभङ्गभयात्पूरणप्रत्ययान्ता दशादय आचार्यॆण नॊक्ताः पूरणप्रत्ययान्तत्वमॆषां यवनॆश्वरवाक्याज्ज्ञायतॆ | यथा, च यवनॆश्वरः | सूर्यस्य भागॆ दशमॆ तृतीयॆ चन्द्रस्य जीवस्य पु पञ्चमॆंऽशॆ | सौरस्य विंशॆ त्वधिसप्तकॆ तु विंद्याद्भृगॊः पञ्चदशॆ बुधस्य | भौमस्य विंशॆऽष्टयुतॆ परॊच्चम् विंशल्लवॆ सूर्यसुतस्य तूच्चम् | तॆऽस्तनीचा इति | त आदित्यादयॊ ग्रहा अस्तनीचाः अस्तॆ नीचम् यॆषां तॆ, अस्तः सप्तमः प्रकृतित्वात् स्वॊच्चात्सप्तमः प्रत्यॆकस्य नीचसंज्ञा तद्यथा | आदित्यस्य स्वॊच्चान्मॆषात्समस्तुला स नीचसंज्ञः | ऎवं चन्द्रस्य सप्तमॊ वृश्चिकः | भौमस्य सप्तमः कर्कटः | बुधस्य मीनः | गुरॊर्मकरः | शुक्रस्य कन्या | सौरस्य मॆष इति | अत्रापि दशादिषु भागॆषु परमनीचस्था द्रष्टव्याः | तथा च यवनॆश्वरः स्वॊच्चातु जामित्रमुशन्ति नीचं त्रिशल्लवॊ यच्च समानसंख्या| अथॆदृशा ऎवं विधा रव्यादयः परमनीचस्था भवन्ति | परमनीचस्थानामनिष्टं फलं भवतीति गार्गिणा प्रदर्शितम् | तथा च गार्गिः | अन्ध दिगम्बरं मूर्ख परपिण्डॊपजीविनम् | कुर्वातामतिनीचस्थौ पुरुषं शशिभास्करौ | इति || 13 || 33 34 वर्गॊत्तमाश्चर गृहादिषु पूर्वमध्यपर्यन्ततः शुभफला नवभागसंज्ञा | सिंहॊवृषः प्रथमषष्ठहयाङ्गतौलिकुम्भस्त्रिकॊणभवनानि भवन्ति सूर्यात् || 14 || भट्टॊत्पलः-अधुना ग्रहार्णा वर्गॊत्तममूलत्रिकॊणपरिज्ञानं वसन्ततिलकॆनाह वर्गॊत्तमा इति | चरगृहादिषु चरस्थिरद्विस्वभावॆषु यथासंख्यं पूर्वमध्यपर्यन्तत आदिमध्यावसानतः | पूर्वमध्यपर्यन्तगा वा पाठः | यॆ नव भागास्तॆ वर्गॊत्तमसंज्ञा भवन्ति वर्गाशकसमूहॆ उत्तमाः | प्रधाना वर्गॊत्तमाः | तद्यथा   35 चरॆषु मॆषकर्कितुलामकरॆषु प्रथमॊ नवांशॊ वर्गॊत्तमाख्यॊ भवति | स्थिरॆषु वृषसिंहवृश्चिककुम्भॆषु मध्यमः पञ्चमॊ नवांशकॊ वर्गॊत्तमः | द्विस्वभावॆषु मिथुनकन्याधन्विमीनॆषु पर्यन्ततः नवमॊ नवांशकॊ वर्गॊत्तमः | ऎतदुक्तम् भवतिप्रत्यॆकस्मिन् राशौ स्वनवमांशकॊ वर्गॊत्तमाख्यः इति | तथा च यवनॆश्वरः | स्वॆ स्वॆ गृहॆषु स्वगृहांशका यॆ वर्गॊत्तमास्तॆ यवनैर्निरुक्ताः | इति| शुभफला नवभागसंज्ञा इति | तॆ च वर्गॊत्तमाख्या नवभागसंज्ञा जन्मनि शुभफलदाः शुभं फलं ददाति | वक्ष्यति च | शुभं वर्गॊत्तमॆ जन्म इति | तथा च सत्यः | चरभवनॆष्वाद्यंशाः स्थिरॆषु मध्या द्विमूर्तिम् तथान्त्याः | वर्गॊत्तमाः| प्रदिष्टास्तॆष्विह जाताः कुलॆ मुख्याः | प्रयॊजनम्-स्वतुङ्गवक्रॊपगतैस्त्रिसंगुणं द्विरुत्तमस्वांशकभत्रिभागगैः | इति | सिहॊं वृष इत्यादि | सिंहादयॊ राशयॊ यथापाठक्रमॆण सूर्यादीनाम्ग्रहाणम् त्रिकॊणभवनानि मूलत्रिकॊणभवनानिभवन्ति| तद्यथा | सिंहः सूर्यस्यादित्यस्य मूलत्रिकॊणसंज्ञः वृषश्चन्द्रस्य प्रथमॊ मॆषॊऽङ्गारकस्य षष्ठः कन्या बुधस्य हर्याङ्गॊ धन्वी बृहस्पतॆः तौली तुला शुक्रस्य कुम्भ सौरस्यॆति | प्रयॊजनम्-उच्चस्वत्रिकॊणगैबलस्थैख्याधैर्भुपतिवंशजा नरॆन्द्राः इत्यादि | 14 || 36 हॊरादयस्तनुकुटुम्बसहॊत्थबन्धुपुत्रारिपत्निमरणानिशुभास्पदायाः| रिष्फाख्यमित्युपचयान्यरिकर्मलाभदुश्चिक्यसञ्ज्ञितगृहाणिननित्यमॆकॆ || 15 || भटॊत्पलः-अधुना लग्नादीनाम् तन्वाद्या द्वादशसंज्ञाः, तृतीयषष्ठदशमैकादशानाम् चॊपचयसंज्ञा वसन्ततिलकॆनाह -हॊरादय इति | हॊरादयॊ लग्नादयस्तॆष यथाक्रमॆण तन्वादीनि नामानि तत्र लग्नस्य तनुरित्याख्या | द्वितीयस्य कुटुम्बकम् | तृतीयस्य सहॊत्थः सहॊत्थॊ| भ्राता | चतुर्थस्य बन्धुः बन्धुशब्दॊ ज्ञातिवाची | पुत्राख्यः पञ्चमः | अरिः शत्रुस्तदाख्यः षष्ठः | पत्न्याख्यः सप्तमः | मरणाख्यॊऽष्टमः | शुभाख्यॊ नवमः| आस्पदाख्यॊ दशमः | आयाख्यः ऎकादशः | रिःफाख्यॊ द्वादशः | इति शब्दः प्रकारार्थद्यॊतकः | तॆन हॊरादीनां तन्वादिपर्याया अपि संज्ञाभूता इत्यवगन्तव्यम् | उपचयान्यरिकर्मलाभदुश्चिक्यसंज्ञितगृहाणीति | अरिः षष्ठं कर्म दशमं लाभ 37 ऎकादशं दुश्चिक्यसंज्ञं तृतीयं ऎतानि गृहाणि स्थानानि उपचयसंज्ञानीति | न नित्यमॆकॆ इति | ऎकॆ कॆचिन्न नित्यमुपचयानीति वर्णयन्ति कथयन्ति | तॆषामयमभिप्रायः | यदि पापग्रहॆण स्वस्वामिशत्रुता वा दृष्टा भवन्ति तदा नॊपचयास्तॆ | तत्र च गर्गादिवाक्यम्’अथॊपचयसंज्ञा स्यात्रिलाभरिपुकर्मणाम्| न चॆद्भवन्ति दृष्टास्तॆ पापस्वस्वामिशत्रुभिः | ऎतदाचार्यवराहमिहिरस्य नाभिप्रॆतम् | यतॊऽसौ सर्वदैवॊपचयाख्यैस्तैर्व्यवहरति | सत्यादयॊऽप्यॆवम् | तथा च सत्यः | दशमैकादशषष्ठतृतीयसंज्ञानि जन्मलग्नाभ्याम् | उपचयभवनानि स्युः शॆषाण्यक्षाण्युपचयाख्यानि | यवनॆश्वरश्च | षष्ठं तृतीयं दशमं च राशिमॆकादशं चॊपचयक्षमाहुः | हॊरागृहस्थानशशङ्कभॆभ्यः शॆषाणि चैभ्यॊऽपचयात्मकानि | प्रयॊजनमुपचयगृहमित्रस्वॊच्चगैः पुष्टमिष्टं त्वपचयगृहनीचारातिगैर्नॆष्टसम्पत्|’ इत्यादि | 15 | 38 कल्पस्वविक्रमगृहप्रतिभाक्षतानि चितॊत्थरन्ध्रगुरुमानभयव्ययानि | लग्नाच्चतुर्थनिधनॆ चतुरस्रसंज्ञॆ द्यूनं च सप्तमगृहं दशमर्क्षमाज्ञा || 16 || भटॊत्पलः-पुनरपि हॊरादीनां संज्ञांतराणि वसन्ततिलकॆनाह कल्पॆति | ऎतॆषामपि लग्नादीनां द्वादशानां यथाक्रमं कल्पाद्याः संज्ञा भवन्ति | यद्यथा लग्नं कल्पाख्यम् | कल्पशब्दः शक्तीवाची | द्वितीयं स्वम् | तृतीयं विक्रमम् | चतुर्थ गृहम् | पञ्चमं प्रतिभा | षष्ठं क्षतम् | सप्तम् चित्तॊत्थम् | अष्टमं रन्ध्रम् | नवमं गुरुम् | दशमं मानम् | ऎकादशं भवम् | द्वादशं व्ययम् | लग्नाच्चतुर्थनिधनॆ इति | लग्नाच्चतुर्थ स्थानं निधनमऽष्टमं च तॆ चतुरस्नसंज्ञॆ चतुरस्नाख्यॆ, लग्नात्सप्तमं गृहं द्यूनं, दशमर्क्ष दशमराशिराज्ञाख्य ऎताः संज्ञा व्यवहारार्थ ज्ञॆयाः || 16 || कण्टककॆन्द्रचतुष्टयसंज्ञाः सप्तमलग्नचतुर्थखभानाम् | तॆषु यथाभिहितॆषु बलाढ्या कीटनराम्बुचराः पशवश्च || 17 || भट्टॊत्पलः-अथ क्रॆद्राणां संज्ञास्तत्स्थराशिबलं च दॊधकॆनाह कण्टकॆति | सप्तलग्नचतुर्थानि प्रसिद्धानि | खभं दशमम् | ख आकाशमध्यॆ तत्कालं यद्भं राशिवर्ततॆ तस्य खभमिति संज्ञा | ऎतॆषां सप्तलग्नचतुर्थखभानां राशीनां प्रत्यॆकस्य कण्टककॆन्द्रचतुष्टयाख्यास्तिस्रः संज्ञाः| तॆषु स्थानॆषु यथाभिहितॆषु यथा निर्दिष्टॆषु कीटनराम्बुचराः पशवश्च राशयॊ बलाढ्या भवन्ति | तद्यथा कीटॊ वृश्चिकः सप्तमॆ स्थानॆ बली | नराः नृराशयॊ मिथुनकन्यातुलाधन्विपूर्वार्धकुम्भाः ऎतॆ लग्नॆ स्थिता बलिनः | अम्बुचरा जलचरराशयः कर्कटमीनमकरपरार्धस्तॆ चतुर्थस्थानॆ बलिनः | पशवश्चतुष्पदाः   39 मॆषवृषसिंहधन्विपराद्र्धममकरपूर्वाद्र्धास्तॆ दशमस्था बलिनः | तथा च भगवान् गार्गिः | नृयुतुला घटः कन्या पूर्वमद्र्ध च धन्विनः | लग्नस्था बलिनॊ ज्ञॆया ऎतॆ हि नरराशयः | चतुर्थॆ कर्कटॊ मीनॊ मकराद्र्ध च पश्चिमम् | विज्ञॆया बलिनॊ नित्यमॆतॆ हि जलराशयः | सप्तमॆ वृश्चिकः कीटॊ बलवान्परिकीर्तितः| | धन्व्यन्ताद्र्धाजगॊसिंहा बलिनः खॆ चतुष्पदाः | अत्राद्र्धशब्दॆन मकरपूर्वाद्र्ध मपि गृह्यत इति || 17 || कॆन्द्रात्परं पणफरं परतश्च सर्वमापॊक्लिमं हिबुकमम्बुसुखं च वॆश्म | जामित्रमस्तभवनं सुतभं त्रिकॊणं, मॆषूरणं दशममत्र च कर्म विद्यात् || 18 || भट्टॊत्पलः-अधुना परिशिष्टस्थानानॊ संज्ञान्तराणि वसन्ततिलकॆनाह कॆन्द्रादिति | सर्वस्मात्कॆन्द्राद्द्वितीयस्थानं पणफरं तॆन द्वितीयपञ्चमाष्टमैकादशस्थानान पणफरसंज्ञा | परतश्च सर्वमापॊक्लिमं सर्वस्मात्पणफरात्परं सर्व स्थानमापॊक्लिमं तॆन तृतीयषष्ठनवमद्वादशस्थानानामापॊक्लिममिति संज्ञा | हिबुकमम्बु सुखं च वॆश्म वॆश्मशब्दॊ गृहपर्याया वॆश्मॆति चतुर्थस्य प्राक्संज्ञाविहिता तस्यैव हिबुकसंज्ञा च | जामित्रमस्तभवनम् | अस्तभवनं सप्तमस्थानम् | यतः सर्व ऎव ग्रहा उदयराशॆः सप्तमराशावस्त यान्ति तदॆवास्तभवनं जामित्रम् | सुतभं त्रिकॊणम् | सुतभं पञ्चमस्थानं त्रिकॊणसंज्ञम् | मॆषूरणं दशमं दशमस्थानं मॆषूरणसंज्ञं च | अत्रास्मिन् दशमॆ स्थानॆ कर्मॆत्यपरां संज्ञां विद्यात् जानीयात् | 18 || 40 हॊरा स्वामिगुरुज्ञवीक्षितयुता नान्यैश्च वीर्यॊत्कटा कॆन्द्रस्था द्विपदादयॊऽह्नि निशि च प्राप्तॆ च संध्याद्वयॆ | पूर्वाद्धॆ विषयादयः कृतगुणा मानं प्रतीपं च तद् दुश्चिक्यं सहजं तपश्च नवमं त्र्याद्यं त्रिकॊणं च तत् || 19 || अथ हॊरादीनां राशीनां बलं व्यवहारार्थ प्रमाणं च शार्दूलविक्रीडि तॆनाह- भट्टॊत्पलः-हॊरॆति | हॊरा लग्नं तत्स्वामिना तत्पतिना वीक्षिता दृष्टा वीर्यॊत्कटा बलवती भवति | तथा तॆनैव युता संयुता बलवती | तथा गुरुणा जीवॆन वीक्षिता युता च बलवती | तथा ज्ञॆन बुधॆन वीक्षिता युता च बलवती भवति | नान्यैश्चॆति | अन्यैग्रहैः स्वामीगुरुज्ञवर्जितैर्दृष्टा युता वा बलवती न भवति | अथ यद्युक्तानुक्तैर्मिश्रैर्युतदृष्टा भवति तदा मध्यबला अर्थादॆव स्वामीगुरुज्ञवर्जमन्यैर्युतदृष्टा बलहीना भवति | तथा च बादरायणः | जीवस्वनाथशशिजैर्युतदृष्टा बलवती भवति हॊता | मॆषैर्बलहीना स्यादॆवं मिस्त्रैतु मध्यबला | बलहीना यदि सर्वैर्न वीक्षिता नैव युक्ता वा| कॆन्द्रस्था इति वीर्यॊत्कटा इत्यनुवर्ततॆ | अत्रादिशब्दॊ लुप्तॊ द्रष्टव्यः | कॆन्द्रस्थाः सर्व ऎव राशयॊ बलिनॊ भवन्ति | पणफरस्था मध्यबला आपॊक्लिमस्था हीनबलाः | अत्र कॆचित् कॆन्द्रपणफरापॊक्लिमस्थानां द्विपदचतुष्पदकीटानां यथाक्रमं बलवत्त्व व्याचक्षतॆ | तदयुक्तम् | यस्माद्बादरायणः | कॆन्द्रस्थातिबलाः स्युर्मध्यबलाः पणफराश्रिता श्रॆयाः | आपॊक्लिमगाः सर्वॆ हीनबलाः राशयः कथिताः | इति | द्विपदादयॊह्नि निशि च सन्ध्याद्वय इति | वीर्यॊत्कटा इत्यनुवर्ततॆ | द्विपदचतुष्पदकीटाः यथाक्रममह्नि निशि च प्राप्तॆ च सन्ध्याद्वयॆ वीर्यॊत्कटा  41 भवन्ति| अह्नि दिनॆ द्विपदा बलिनः निशि रात्रौ चतुष्पदाः सन्ध्याद्वयॆ कीटाः | अत्र न कॆवलं वृश्चिकः यावदाप्याः सर्वॆ कीटग्रहणॆन ज्ञॆयाः | अत्र च श्रीदॆवकीर्तिः | मिथुनतुलाकुम्भकन्या दिवाबला धन्विनश्च पूर्वार्धम् | अजवृषसिंहा रात्रौ मृगहययॊः पूर्वपश्चार्ध | वृश्चिकमीनकुलीरा मकरान्त्यार्ध च सन्ध्यायाम् | इति | पूर्वार्द्धॆ विषयादयः कृतगुणाः इति| विषया इन्द्रियाणि तानि पञ्च तदादयः पञ्चषट्सप्ताष्टनवदश कृतगुणा इति | विषयादयः सर्व ऎव कृतगुणाश्चतुर्गुणिताः पूर्वार्ध मानम् | कस्य | प्रकृतत्वाद्भचक्रस्य पूर्वार्ध प्रथमराशिषट्कॆ इत्यर्थः | प्रदीपं च यदॆव चक्रपूर्वाद्धॆ मॆषादिनां राशीनां षण्णां प्रमाणं तदॆव प्रतीपं च विपर्यस्तं तुलादिषु षट्सु मानम् | तद्यथा विषयादयः 5 ||6|7||8 ||9|| 10 ऎतॆ चतुर्गुणिता जाताः 20 ||24 ||28 ||32 |36 ||40 ऎतॆ प्रमाणं मॆषादीनां व्यत्ययाच्च तुलादीनामिति | तथा च सत्यः | चतुरुत्तरॊत्तराः स्युर्विंशतिभागा भवन्ति मॆषाद्यॆ | मानमिहार्ध पूर्वॆ मीनाद्यॆ चॊत्क्रमादर्ध | भागव्यवहारश्च क्षॆत्रॆ भागॆनैकॆन कालॆ दश चषका भवन्ति | यस्माद्या कला क्षॆत्रॆ सा कालॆ प्राण इति | यस्माद्भट्टब्रह्मगुप्तॆनॊक्तम् | लङ्कासमपश्चिमगं प्राणॆन कलां भमण्डलॆ भ्रमति||’ इति | ऎवमॆतॆ भागा दशगुणिताश्चषका भवन्ति | तत्रैतज्जातम् | कालॆ घटिका सा षष्ट्यधिकॆन शतत्रयॆण गुणिता प्राणा भवन्ति क्षॆत्रॆ च ता ऎव विलिप्तास्तासां षष्ट्या भागमपहृत्य षड् भागाः क्षॆत्रॆ भवन्ति | ऎवं मॆषादीनां प्राणभागा दशगुणिताश्चषका भवन्ति तॆन चषकशतद्वयं मॆषमीनयॊः प्रमाणम् | ऎवं चत्वारिंशदधिक्रं शतद्वयं वृषकुम्भयॊः | शतद्वयमशीत्यधिकं मिथुनमकरयॊः शतत्रयं विंशत्यधिकं कर्कटधनुषॊः | शतत्रयं षष्ट्याधिकं सिंहवृश्चिकयॊः | शतचतुष्टयं कन्यातुलयॊः | ऎत ऎव चषका दशविभक्ता भागत्वॆन परिकल्पिताः यतः क्षॆत्रॆ दशभिश्चषकैभगॊ भवति | ननु चरदलवशात्प्रतिदॆशमननुरूपॆषु राश्युदयॆषु गणितस्कन्धसिद्धॆषु किमर्थमॆकरूपं तदुदयप्रमाणं दर्शितमाचार्यॆण | अत्रॊच्यतॆ | नष्टचिन्तादिष्वर्थपरिज्ञानाय पुरुषावयवाना ह्रस्वदीर्घत्वज्ञापनायॊयुपज्यतॆ | तथा च यवनॆश्वरः | आद्यन्तराशॆरुदयप्रमाणं द्वौ द्वौ मुहूर्तॊ नियतं प्रदिष्टौ || क्रमॊत्क्रमाभ्यामधिपञ्चमं स्याच्चक्रार्धयॊविद्धयुदयप्रमाणं | ऎवम्प्रमाणानि गृहाणि बुद्ध्वा ह्रस्वानि मध्यानि  42 तथायतानि | चक्राङ्गभॆदैः सदृशीकृतानि मार्गप्रमाणानि विकल्पयॊत | अङ्गविभागकल्पनं वक्ष्यति कादिविलग्नविभक्तभगात्र इति | तत्र यस्मिन्नङ्गॆ दीर्घराशिर्भवति दीर्घाधिपॊ वा ग्रहस्तदङ्गं दीर्घं भवति मध्ययॊर्मध्यं हृस्वयॊह्रस्वमिति | तथा च सारावल्याम् | ’हृस्वास्तिमॊगॊजघटा मिथुनधनुःकर्किमृगमुखाश्च समाः | वृश्चिककन्यामृगपतिवणिजॊ दीर्घाःसमाख्याताः | ऎभिर्लग्नादिगतैः शीर्षप्रभृतीनि सर्वजन्तूनाम् | सदृशानि च| जायन्तॆ गगनचरैश्चैव तुल्यानि | तथा च सत्यः | दीर्घाधिपतिर्दीर्घॆ गृहॆ स्थितॊऽवयवदीर्घकृद्भवति | ऎवमादिष्वर्थॆस्वैतैर्विकल्पना कार्या | लग्नॊदयनिरूपणा गणितस्कन्धसिद्धॆरॆव कार्यॆति | दुश्चिक्यं सहजमिति | सहजस्य तृतीयस्थानस्य दुश्चिक्यसंज्ञा | तपश्च नवममिति | नवमस्थानस्य तु तपःसंज्ञा | त्र्याद्यं त्रिकॊणं च तत् | तदॆव नवमं स्थानं त्र्याद्यं त्रिकॊणं त्रिशब्द आद्यॊ यस्य ततित्रिकॊणमित्यर्थः त्रिकॊणं च तदॆव नवममिति || 19 ||  43 44 भट्टॊत्पलः-रक्त इति | प्रथमभवनं मॆष स्तदादिषु राशीषु यथाक्रममॆतॆ वर्णाः तत्र मॆषॊ रक्तॊ लॊहितवर्णः | वृषः श्वॆतः शुक्लः | मिथुनः शुकतनुनिभः हरित इत्यर्थः | कर्कटः पाटलः पाटलापुष्पवर्णः ईषत्कृष्णरक्त इत्यर्थः | सिंहॊ धूम्रपाण्डुरीषच्छुक्लः | कन्या चित्रा नानवर्णॆत्यर्थः | तुला कृष्णः | वृश्चिकः कनकसदृशः सुवर्णवर्णः | धन्वी पिङगलः पीतवर्णः | मकरः कर्बुरः शुक्लकपिलव्यामिश्रवर्णः | कुम्भॊ बभुः नकुलवर्णसदृशः | मीनः स्ववर्णॊ मत्स्यवर्ण इत्यर्थः | प्रयॊजनम्वियॊनिजन्मज्ञानॆ लग्नांशकादिति वक्ष्यति | प्लवत्वं स्वाम्याशाख्यमिति | स्वामिन आशा स्वाम्याशा आशा दिक् तत्र प्लवत्वं प्लवस्यभावः प्लवत्वम् | सर्वस्य राशॆः स्वम्याशाख्यं स्थानं प्लवत्वं निम्नतॆत्यर्थः | यथा मॆषवृश्चिकयॊर्भॊमॊऽधिपतिः तस्य दक्षिणा दिक् तत्र तौ प्लवसंज्ञौ | वृषतुलयॊः शुक्रॊऽधिपतिः तस्याग्नॆयी दिक् तत्र तौ प्लवसंज्ञौ | मिथुनकन्ययॊर्बुधॊऽधिपतिस्तस्यॊत्तरा दिक् तत्र तौ प्लवसंज्ञौ | कर्कटस्य चन्द्रॊऽधिपतिस्तस्य वायवी दिक् तत्र स प्लवसंज्ञः | सिंहस्यादित्यॊऽधिपतिस्तस्य पूर्वा दिक् तत्र स प्लवसंज्ञः | धन्विमीनयॊर्जीवॊऽधिपस्तिस्तस्यैशानी दिक् तत्र तौ प्लवसंज्ञौ | मकरकुम्भयॊः सौरॊधिपतिस्तस्य पश्चिमा दिक् तत्र तौ प्लवसंज्ञौ | ऎवं राशिस्वामिनॊ या दिक् तद्दिक्प्लवॊ राशिर्ज्ञॆयः | प्रयॊजनम्-हृतनष्टादिषु तद्दिङमुखम् चौरादॆः | अन्यच्च यात्रायामुपयुज्यतॆ | तथा च सारावल्याम् | भवनाधिपतिग्रामप्लव इह यवनैः प्रबन्धतः कथितः | तत्प्लवगॊ विनिहन्यादचिरॆण महीपतिः शत्रून् | इति | दिनकरयुताद्भ् नं च 45 वॆशिरिति | दिनकरः सूर्यस्तॆन युतॊ यॊ राशिस्तस्माद्द्वतीयॊ वॆशिसंज्ञः | प्रयॊजनं यात्रायां वक्ष्यति | वॆशिर्विलग्नॊपगतॊ यियासॊः  इति | तथा च | वॆशिस्थानॆ च सद्ग्रहः इत्यादि | अत्र संज्ञाध्यायॆ याः संज्ञा उक्तास्ता द्विप्रकाराः | तत्र काश्चित्संज्ञामात्रप्रयॊजनाः काश्चित्फलनिर्दॆशप्रयॊजनाः | तत्रॆमाः संज्ञामात्रप्रयॊजनाः | यथा लग्नस्य हॊरा तृतीयस्य दुश्चिक्यम् | चतुर्थस्य हिबुकम् | पञ्चमस्य त्रिकॊणम् | सप्तमस्य द्यूनम् | नवमस्य त्रिकॊणसंज्ञा | दशमस्य मॆषूरणम् | द्वादशस्य रिःफम् | चतुर्थाष्टमयॊश्चतुरस्नसंज्ञा | लग्नचतुर्थसप्तमदशमानां कण्टककॆंद्रसंज्ञा चतुष्टयसंज्ञा च | तथा द्वितीयपञ्चमाष्टमैकादशस्थानानां पणफरसंज्ञा | तृतीयषष्ठनवमद्वादशानामपॊक्लिमसंज्ञा | ऎताः संज्ञामात्रप्रयॊजनाः | इमाश्च फलनिर्दॆशप्रयॊजनाः | तत्र लग्नस्य | तनुसंज्ञा कल्पसंज्ञा च तॆन लग्नाच्छरीरवृद्धयन्वॆषणमारॊग्यान्वॆषणं च कार्यम् | द्वितीयस्य कुटुम्बसंज्ञा च तॆन तस्माज्ज्ञातिधनान्वॆषणं कार्यम् | तृतीयस्य सहज संज्ञा विक्रमसंज्ञा च तॆन तस्मात् भ्रातृणां पुरुषार्थस्य चान्वॆषणं कार्यम् | चतुर्थस्य बन्धुसंज्ञा वॆश्मसंज्ञा सुखसंज्ञा च तॆन तस्माद्बन्धुसुखगृहाणां चान्वॆषणं कार्यम् | पञ्चमस्य बुद्धिसंज्ञा पुत्रसंज्ञा च तॆन तस्माद्बुद्धिपुत्रयॊरन्वॆषणं कार्यम् | षष्ठस्य अरिसंज्ञा क्षतसंज्ञा च अरिशब्दः शत्रुवाची क्षतशब्दॊ व्रणवाची तॆन तस्मादरातिव्रणान्वॆषणं कार्यम् | सप्तमस्य दारसंज्ञा चित्तॊत्थसंज्ञा जामित्रसंज्ञा च दारशब्द भार्यावाची तॆन तस्माद्भार्याकामविवाहान्वॆषणं कार्यम् | अष्टमस्य मरणरन्ध्रसंज्ञा मरणं मृत्युः रन्ध्रशब्दः पापपर्यायः तॆन तस्मान्मरणपापान्वॆषणं कार्यम् | नवमस्य शुभसंज्ञा गुरुसंज्ञा तपःसंज्ञा च शुभशब्दॆनाश्च धर्मॊ ज्ञॆयः गुरवॊ मातृपितृपूर्वकाः तपॊ व्रतादि तॆन तस्माद्धर्ममातृपितृपूर्वकाणां गुरूणां तपसां चान्वॆषणं कार्यम् | दशमस्यास्पदकर्मसंज्ञा आस्पदशब्दः कर्मवाची स्थानवाची वा कर्मास्पदसंज्ञॆ सप्रसिद्धॆ तॆन तस्मात् क्रियाभावान्वॆषणं कार्यम् | ऎकादशस्य भवायसंज्ञा भवशब्दॊऽब्र विद्यादिगुणसम्पत्प्राप्तिवाची आयशब्दॊऽर्थवाची तॆन तस्मात्तयॊरन्वॆषणं कार्यम् | व्यय इति द्वादशस्याख्या तॆन तस्माद्वययान्वॆषणं कार्यम् | तृतीयषष्ठदशमैकादशस्थानानामुपचयसंज्ञा उपचयकरत्वात् | इदं च 46 तॆषामुपचयकरत्वं यदि तत्रस्थाः पापा अपि शुभफलप्रदा भवन्ति | तथा हि षष्ठस्थानं विना सौम्याः सर्वत्र भावविवृद्धिकराः | षष्ठस्थाः पुनररिहानिं न कुर्वन्ति क्षतहानि च | पापास्तूपचयस्था भावविवृद्धि कुर्वाण अपि षष्ठमुपचयस्थानं तच्चित्यदुष्टभावयॊररिक्षतयॊरपि हानिं कुर्वन्ति | यतस्तॆषामुपचयकरा इत्यन्वर्थसंज्ञा | उपचयस्थास्त ऎव पापदा भावहानि कुर्वाणा अपि अष्टमद्वादशस्थानं विचिन्त्यमनिष्टभावं भावस्यानिष्टत्वात् स्थानस्यॊपचयात्मकत्वाद्वृद्धिं प्रापयन्ति | तथा च श्रीदॆवकीर्तिः | सौम्याः षष्ठॆ पापास्तन्वर्थसुखारिधर्मधीद्युनगाः | कुर्युर्भाविपत्तिं शॆषॊपगताश्च तद्बुद्धिम् | इति | ऎतद्विशॆषवचनं विना सर्वत्रॊपतिष्ठत इति || 20 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां राशिप्रभॆदाध्यायः || 1 ||  47 48 अथ ग्रहयॊनिप्रभॆदाध्यायः || 2 || कालात्मा दिनकृन्मनस्तुहिनगुः सत्त्वं कुजॊ ज्ञॊ वचॊ जौवॊ ज्ञानसुखॆ सितश्च मदनॊ दुःखं दिनॆशात्मजः |  राजानौ रविशीतगू क्षितिसुतॊ नॆता कुमारॊ बुधः सूरिदानवपूजितश्च सचिवौ प्रॆष्यः सहस्रांशुजः | 1 ||  भट्टॊत्पलः-अथातॊ ग्रहयॊनिप्रभॆदाध्यायॊ व्याख्यायतॆ | तत्र चराचरं राशिनक्षत्रमयॊंऽगविभागः प्रदर्शितः | तत्प्रदर्शनॆन ग्रहमय ऎवासौ प्रदर्शितॊ भवति यतॊ राशिस्वामिनॊ ग्रहा ऎव अधुना तस्यात्मादीन्भावान्ग्रहमयानॆव जगत्पालकांस्तथा राजादीन्ग्रहमयानॆव शार्दूलविक्रीडि तॆनाहकालात्मा दिनकृदिति | कालस्यात्मा दिनकृत्सूर्यः | तस्यैव तुहिनगुश्चन्द्रॊ मनः तुहिनॆन हिमॆन सदृशाः शीतलाः गावॊ रश्मयॊ यस्य स तुहिनगुः | सत्त्वं कुजॊ भौमः | सत्त्वस्य लक्षणम् || अधिकारकरं सत्त्वं वासनाभ्युदयागमॆ | सत्त्वशब्दॊऽत्र शौर्यपर्यायः यच्च सिंहादीनामस्ति | तथा च ऎकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रशॆ | सत्त्वाश्रयान्मृगपतौ राजॆति गिरः परिणमन्ति | उत्कृष्टस्वभावॆनॆत्यर्थः | ज्ञॊ बुधॊ वचॊ गिरः | जीवॊ बृहस्पतिर्ज्ञानसुखॆ ज्ञानं च सुखॆ च ज्ञानसुखॆ | सितः शुक्रॊ मदनः कामः | दिनस्यॆशॊ दिनॆशः सूर्यस्तस्यात्मजः पुत्रः शनैश्चरॊ दुःखम् | अत्र कालग्रहणं कालास्य सर्वगतत्वप्रदर्शनार्थम् | अत्र न कॆवलं कालपुरुषस्य मॆषाद्या राशयः शिरः प्रभृत्यंगविभागॆन स्थिताः यावदादित्यादयश्चात्मविभागॆन सर्वस्य जगतः स्थिताः | प्रयॊजनम् | पीडितॆ ग्रहॆ दॆहवतॊऽपि तदङ्गभावात्मगुणपीडनं वक्तव्यं पुष्टॆ पुष्टिः | इति | न कॆवलं यावज्जन्मति बलबद्भिग्रहैरॆत ऎव भावा आत्मादयः शुभा भवन्ति दुर्बलैदुर्बलाः किन्तु सौरस्य विपरीतम् | तथा च सारावल्याम् | आत्मादयॊ गगनगैर्बलिभिर्बलवत्तराः | दुर्बलैदुर्बला ज्ञॆया विपरीतं शनॆः स्मृतम् | इति | 49 राजानावित्यादि | रविरादित्यः शीतगुश्चन्द्रः ऎतौ राजानौ नृपौ | क्षितिभूमिरस्याः सुतः पुत्रॊंऽगारकः सनॆता सॆनापतिः | कुमारॊ बुधः कुमारॊ युवराजः राजपुत्र इति कॆचित् || सूरिर्बृहस्पतिः दानवपूजितः शुक्रः ऎतौ सचिवौ मन्त्रिणौ | सहस्रांशुः सूर्यस्तस्माज्जातः शनैश्चरः स प्रॆष्यॊ दासः | ननु जगत्पालनकरणॆ शनैश्चरः प्रॆष्यः किमत्रॊच्यतॆ | प्रॆष्यॊऽपि स्वकर्मणां पालक ऎव| प्रयॊजनम् | जन्मनि प्रश्नकालॆ वा बलवानुपचयस्थॊ ग्रहॊ भवति तदुक्तॊ राजादिकस्तस्य कार्यसाधनॊ भवति अन्यथा हानिकरः || 1 ||  50 हॆलिः सूर्यश्चन्द्रमाः शीतरश्मिर्हॆम्ना विज्ज्ञॊ बॊधनश्चॆन्दुपुत्रः |  आरॊ वक्रः क्रूरदृक्चावनॆयः कॊणॊ मन्दः सूर्यपुत्रॊऽसितश्च || 2 ||  भट्टॊत्पलः-अधुना व्यावहारार्थं सूर्यचन्द्रबुधाङ्गारकशनैश्चराणां सञ्ज्ञाः शालिन्याह हॆलिरिति | सूर्य आदित्यॊ हॆलिसंज्ञः | चन्द्रमाः शीतरश्मिसंज्ञः | शीता रश्मयः किरणा यस्य सः | इन्दुपुत्रॊ बुधः स हॆम्ना विज्ज्ञॊ बॊधनः ऎतास्तस्य संज्ञाः | अवनिर्भूस्तस्यापत्यभावनॆयॊ भौमः स आरः वक्रः क्रूरदृश्क ऎताः भौमस्य संज्ञाः | सूर्यपुत्र सौरः कॊणः मन्दः असितः ऎताः शनैश्चरस्य संज्ञाः || 2 ||  जीवॊऽडिगराः सुरगुरुर्वचसां पतीज्यः शुक्रॊ भृगुर्भूगुसुतः सित आस्फुजिच्च |  राहुस्तमॊऽगुरसुरश्च शिखीति कॆतुः पर्यायमन्यमुपलभ्य वदॆच्च लॊकात् || 3 ||  भट्टॊत्पलः-अधुना गुरुशुक्रराहुकॆतूनां संज्ञा वसन्ततिलकॆनाह  51 जीव इति | जीवॊ बृहस्पतिः स ऎवाङ्गिराः सुरगुरुः सुरा दॆवास्तॆषां गुरुः वचसांपतिः तथा इज्यः पूज्यः दॆवानाम् ऎता बृहस्पतॆः संज्ञा | शुक्रॊ भार्गवः स ऎव भृगुः भृगुसुतः सितः आस्फुजित् च शब्दः समुच्चयार्थः ऎताः शुक्रस्य संज्ञाः| राहुः स्वर्भानुः स ऎव तमः अगुः न विद्यन्तॆ गावॊ रश्मयॊ यस्य सः अरश्मिरित्यर्थः असुरॊ दैत्यः ऎता राहॊः संज्ञाः | शिखीति कॆतुः कॆतॊः शिखीति संज्ञा शिखा विद्यतॆ यस्य स शिखी अन्यं पर्याय लॊकादन्यशास्ज्ञादुपलभ्य वदॆत् ब्रूयात् | यथा-रविस्तीक्ष्णांशुर्दिवाकरॊ भास्वांस्तीक्षणरम्मिभानुर्विवस्वानित्यादिकाः सूर्यस्य | शशङ्कस्तुहिनगुर्मुगांकः शशी निशाकरॊ नक्षत्रपतीतित्याद्याश्चन्द्रस्य | कुजॊ लॊहितॊ भौमः क्ष्मातनय इत्याद्या भौमस्य | सौम्यौ रौहिणॆयश्चांद्रिमृगांकतनय इन्दुज इत्याद्या बुधस्य | सूरः सुरॆज्यॊ वाक्पतिर्दॆवपुरॊहित इन्द्रमन्त्रीत्याद्या गुरॊः | भार्गव उशना दैत्यॆज्यॊऽसुरगुरुः दैत्यत्विगित्याद्याः शुक्रस्य ज्ञॆयम् | रविजः पातङ्गिश्छायासुत इत्याद्याः सौरस्य | सैहिकॆयः स्वर्भानु और शास्त्र दानवॊऽमृतचौरॊ विधुन्तुद इत्याद्या राहॊरिति || 3 ||  रक्तश्यामॊ भास्करॊ गौर इन्दुर्नात्युच्चाङ्गॊ रक्तगौरश्च वक्रः |  दूर्वाश्यामॊ ज्ञॊ गुरुगौरगात्रः श्यामः शुक्रॊ भास्करिः कृष्णदॆहः || 4 ||  भट्टॊत्पलः-अधुना ग्रहवर्णाच्छालिन्याह रक्तश्याम इति | रक्तश्चासौं श्यामः पाटलपुष्पवर्ण इत्यर्थः | ऎवंविधॊ भास्कर आदित्यः | इन्दुश्चन्द्रॊ गौरः श्वॆतवर्णप्रायः | वक्रॊंऽगारकः स नात्युच्चॊ नातिदीर्घॊ रक्तगौरः पद्मपत्राभः | ज्ञॊ बुधः स दूर्वाश्यामः शाद्वलवर्णः | गुरुर्बृहस्पतिः स गौरगात्रॊ गौरशरीरः | शुक्रः श्यामवर्णॊ नातिगौरॊ नातिकृष्णः | भास्करिः सौरिः स कृष्णदॆहॊऽसितशरीरः | वर्णप्रयॊजनम् | सर्वग्रहॆषु यॊ बलवांस्तद्वर्णस्तत्कालजातॊ भवति प्रश्नकालॆ चौरादॆरपि || 4 ||  52 वर्णास्ताम्नसितातिरक्तहरितव्यापीतचित्रासिता  वह्नयम्ब्वग्निजकॆशवॆन्द्रशाचिकाः सूर्यादिनाथाः क्रमात् |  प्रागाद्या रविशुक्रलॊहिततमः सौरॆन्दुवित्सूरयः  क्षीणॆन्द्वर्कमहीसुतार्कतनयाः पापा बुधस्तैर्युतः || 5 ||  भट्टॊत्पलः-अधुना ग्रहाणां वर्णस्वाम्यं ग्रहदॆवता स्वदिक्स्वाम्यं सौम्यपापत्वं च शार्दूलविक्रीडि तॆनाहवर्णा इति | ताम्रादयॊ वर्णाः सूर्यादिग्रहनाथाः सूर्याद्यॊ ग्रहा नाथाः स्वामिनॊ यॆषां तॆ ताम्रवर्णस्यादित्यॊ नाथः स्वामी सितस्य शवॆतस्य चन्द्रः | अतिरक्तस्यातिलॊहितस्य भौमः | हरितस्य शुक्रवर्णस्य बुधः | विशॆषॆण आसमन्तात्पीतॊ व्यापीतस्तस्य हरिद्रासदृशस्य जीवः | चित्रस्य नानावर्णस्य शुक्रः असितस्य कृष्णवर्णस्य सौरिः | प्रयॊजनम् | हृतनष्टादिद्रव्यवर्णज्ञानं जन्मनि प्रश्नकालॆ चॊक्तद्रव्यलाभॊऽन्यथा हानिः ग्रहपूजायां तद्वर्णकुसुमपूजा | तथा च याज्ञवल्क्यः | “वर्णैर्मंडलकॆषु च” इति वह्नीत्यादि | सूर्यादिनाथा इत्यनुवर्ततॆ सूर्यादिनां नाथाः सूर्यादिनाथाः, आदित्यस्य वह्निरग्निर्नाथः स्वामी | चन्द्रमासॊऽम्बु जलम् | भौमस्याग्निजः कुमारः स्वामिकार्तिकॆय इत्यर्थः | बुधस्य कॆशवॊ विष्णुः | गुरॊरिन्द्रः शतक्रतुः | शुक्रस्य शचीन्द्राणॊ | सौरस्य कः प्रजापतिर्ब्रह्मॆत्यर्थः | प्रयॊजनम् | ग्रह पूजायां ग्रहॊक्तदॆवता पूज्याः | तथा यवनॆश्वरः | “दॆवा ग्रहाणां जलवह्निविष्णुप्रजापतिस्कन्दमहॆन्द्रदॆवॊ | चन्द्रार्कचान्द्रयर्कजभौमजीवशुक्रांश्चयज्ञॆषु यजॆत शश्वत् |” तथा चौरनामानयनॆ बलवद्ग्रहॊक्तदॆवतापर्यायनाम् तथा च यात्रायां ग्रहदॆवतां सम्पूज्य तद्दिशं यायात् | तथा च सारावल्याम् | “ताम्रसितरक्तहरितकपीतविचित्रासिता इनादीनाम् | 53 पावकजलगुहकॆशवशक्रशचीवॆधसः पतयः | पूर्वादिग्रहदॆवांस्तन्मन्त्रैः समभिपूज्य तामाशाम् | कनकगजवाहनादीन्प्राप्नॊति नृपॊऽरितः शीघ्रम् |” प्रागाद्या इति | प्रागाद्याः पूर्वप्रथमदिशस्तासां पूर्वादीनां रव्यादयॊ नाथाः | तत्र पूर्वस्यां दिशि रविरादित्यॊऽधिपतिः | पूर्वदक्षिणस्यां शुक्रः | दक्षिणस्यां लॊहितॊंऽगारकः | दक्षिणपश्चिमायां तमॊ राहुः | पश्चिमायां सौरिः शनैश्चरः | पश्चिमॊत्तरस्यामिंदुश्चन्द्रः उत्तरस्याः वित् बुधः | उत्तरपूर्वस्यां सूरिर्बृहस्पतिः | प्रयॊजनम् | कॆन्द्रस्थॆ ग्रहॆ सूतिकागृदद्वारज्ञानं हृतनष्टादिषु चौरादॆर्गमनं च | क्षीणॆन्द्वर्कॆति क्षीणश्चासाविन्दुश्च क्षीणॆन्दुः कृष्णाष्टम्यद्धच्छुक्लाष्टम्यर्ध यावत् क्षीणश्चन्द्रः परतः पूर्ण आयुदयिविधॊ कृष्णपक्षत्रयॊदश्यन्तात्प्रभृति यावदमावास्यान्तॆ सूर्यमण्डलान्नौद्गतस्तावत् क्षीण इति | यस्माद्यवनॆश्वरश्चन्द्रस्य पापत्वं न कदाचिदपीच्छति तद्वाक्यम् | मासॆ तु शुक्लप्रतिपत्प्रवृतॆराद्यॆ शशी मध्यबलॊ दशाहॆ | श्रॆष्ठॊ द्वितीयॆऽल्पबलस्तृतीयॆ सौम्यैस्तु दृष्टॊ बलवान्सदैव ||” तथा च “क्रूरग्रहॊऽर्कः कुजसूर्यजौ च पापौ शुभाः शुक्रशशाङ्कजीवाः | सौम्यस्तु सौम्यॊ व्यतिमिश्रितॊऽन्यैर्वर्गॆस्तु तुल्यप्रकृतित्वमॆति |” इति | तस्मादॆव तावत्क्षीण इति | अर्क आदित्यः महीसुतॊंऽगारकः अर्कतनयः सौरिः ऎतॆ सदैव पापाः बुधस्तैर्युतस्तॆषामॆकतमॆन युक्त पाप ऎव सौम्याः शॆषाः | शुक्लपक्षाष्टम्यद्धत्कृष्णपक्षाष्टम्यर्ध यावत् चन्द्रः सौम्यः | बुधः पापवियुतः सौम्य ऎव | जीवशुक्रॊ सदैव सौम्याविति | प्रयॊजनम्| पापसौम्यग्रहबलाज्जातः पापात्मक सौम्यस्वभावश्च च भवति||5 || 54 बुधसूर्यसुतौ नपुंसकाख्यौ शशिशुक्रौ युवती नराश्च शॆषाः |  शिखिभूखपयॊमरुद्गणानां वशिनॊ भूमिसुतादयः क्रमॆण || 6 ||  भट्टॊत्पलः-अधुना ग्रहाणां प्रकृतिविभागं महाभूताधिपत्यं चौपञ्छन्दसिकॆनाह बुधसूर्यसुताविति | बुधश्चान्द्रिः सूर्यसुतः शनिः ऎतौ नपुंसकाख्यौ नपुंसकनामानौ | शशी चन्द्रः शुक्रॊ भार्गव ऎतौ द्वौ युवतिसंज्ञौ | शॆषा रविजीवभौमा नराः पुरुषसंज्ञाः पुरुषनामानः | प्रयॊजनम्-जन्मनि चिन्तयां हृतनष्टादिषु बलवन्तः स्वपक्षमॆव कुर्वन्ति ऎषामुपतापॆ तदाश्रितानामुपतापः शिखीभूखपयॊमरुद्गणानामिति | शिख्यादीनां पञ्चानां महाभूतानां पञ्च ग्रहाः भूमिसुतादयः क्रमॆण वशिनः | तद्यथा | शिखीनॊऽग्नॆर्भूमिसुतॊंऽगारकॊ वशी| भौमॊऽग्नॆः स्वामीत्यर्थः | ऎवं भूमॆः | बुधः | खस्याकाशस्य जीवः | पयसॊंऽभसः शुक्रः | मरुतॊ वायॊः शनैश्चरः | गणग्रहणमत्र वृत्तपूरणार्थम् | नन्वादित्यचन्द्रस्यॊः कस्मान्नॊक्तमित्यत्रॊच्यतॆ | तयॊः पूर्वॊक्तं वह्नयंम्बु‌इति तावॆव प्रसिद्धौ | प्रयॊजनम्-स्वदशायां महाभूतकृतां छायां व्यञ्जयन्ति | वक्ष्यति च | “छायां महाभूतकृतां च सर्वॆ” इति | 6 || 55 विप्रादितः शुक्रगुरु कुजार्कॊ शशी बुधश्चॆत्यसितॊऽन्त्यजानाम् |  चन्द्रार्कजीवा ज्ञसितौ कुजार्कौ यथाक्रमं सत्त्वरजस्तमांसि || 7 ||  भट्टॊत्पलः-अधुना ग्रहाणां ब्राह्मणादिवर्णाधिपत्यं गुणविभागं चॊपजातिकयाह विप्रादित इति | विप्रादितॊ ब्राह्मणादॆर्वर्णचतुष्टयस्य स्वामिनॊ ग्रहा अधिपतयः | शुक्रॊ भार्गवॊ गुरुबुँहस्पतिरॆतौ द्वी ब्राह्मणनामधिपती | कुजॊ भौमॊऽर्क आदित्यः ऎतौ द्वौ क्षत्रियाणाम् | शशी चन्द्रॊ वैश्यानां | शूद्राणां बुधः | असितः शनैश्चरॊत्यजानां वर्णप्रतिलॊमभवानां चाण्डालमागधनिषादादीनाम् प्रयॊजनम्-हृतनष्टादिषु ग्रहबलाच्चौरादीनां ग्रहॊक्तवर्णप्रभावः ऎषामुपघातॆ तद्वर्णॊपघातः | तथा च सत्यः | “गुरुशुक्रौ रविरक्तौ चन्द्रः सौम्यः शनैश्चरश्चॆति | विप्रक्षत्रियविट्शूद्रसंकराणां प्रभुत्वकराः | अजयॆ जयॆऽथ तुष्टावप्रीतौ वित्तनाशनॆ लाभॆ | तॆभ्यस्तॆभ्यः कुर्युर्गुणांश्च दॊषांश्च पक्षांस्तान् ||” चन्द्रार्कजीवा इत्यादि | चन्द्रः शशी अर्कः आदित्यः जीवॊ बृहस्पतिः ऎतॆ सत्त्वसंज्ञा | ज्ञॊ बुधः सितः शुक्रः ऎतौ द्वौ रजः संज्ञौ | कुजॊंऽगारकः आर्किः सौरः ऎतौ द्वौ तमः संज्ञौ | ऎतॆ यथाक्रमं सत्त्वादिगुणाधिपतयॊ ग्रहाः | प्रयॊजनम्सत्त्वं रजस्ताम वा त्रिशांशॆ यस्य भास्करस्तादृग्र” इति | अन्यॆ पुनर्ग्रहबलाद्वर्णयन्ति | तथा च श्रीदॆवकीर्तिः | “बलवद्भिस्तद्गुणॊ भवॆज्जातः” इति | अत्रार्चायस्य यवनॆश्वरॆण सह मतभॆदः तॆन भौमः सात्त्विक उक्तः | तथा च तद्वाक्यम् | “सत्त्वाधिका भास्करभौमजीवा भृग्वात्मजॊ राजसिकः शशी च | 56 शनैश्चरस्तामसिकॊ बुधस्तु संयॊगताज्स्माल्लभतॆ विशॆषान् |” आचार्यस्य सत्यवचनमभिमतम्| तथा च सत्यः |“तामसिकॊ कुजसौरी राजसिकॊ भार्गवः शशिसुतश्च | जीवशशिभास्कराः सात्त्विका ग्रहवत्प्रकृतयॊ नृणाम् ||” ऎव यत्र यत्राचार्यस्य यवनॆश्वरॆण सह मतभॆदस्तत्राङ्गीकृतं सत्यमतमपि | अथ पूर्वमभिहितं सत्त्वं कुजः | चन्द्रार्क जीवाः पुनः किमित्युक्तम् | उच्यतॆ | इह गुणवचनः सत्त्वशब्दस्तत्र शौर्यपर्यायः यः कार्याकार्यप्रवृत्तानां सिंहादीनामप्यस्ति यॆन ऎकाकिनॊऽपि वनवासिनः | तथा च | “ऎकाकिनी वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रज्ञ | सत्त्वस्थितॆ मृगपतौ राजॆति गिरः परिणमन्ति |” अथ गुणस्वरूपम् | “यः सात्त्विकस्तस्य दयास्थिरत्वं सत्यार्जवं ब्राह्मणदॆवभक्तिः | रजॊऽधिकः काव्यकलाक्रतुस्त्रीसंसक्तचित्तः पुरुषॊऽतिशूरः | तमॊऽधिकॊ वञ्चयिता परॆषां मूर्खॊऽलसः क्रॊधपरॊऽतिनिद्रः |” इति||7 ||   57 मधुपिङ्गलदृक्चतुरस्रतनुः पित्तप्रकृतिः सविताल्पकचः |  तनुवृत्ततनुर्बहुवातकफः प्राज्ञश्च शशी मृदुवाक् शुभदृक् || 8 ||  भट्टॊत्पलः-अधुना चन्द्रार्कयॊः स्वरूपं तॊटकॆनाह मधुपिङ्गलदृगिति | मधुवत्पिङ्गला दृष्टिर्यस्य सः ईषत्कातराक्षः | चतुरस्रतनुः प्रसारितभुजद्वयप्रमाणसमॊच्छायः | पित्तप्रकृतिः पित्ताधिकः | अल्पकचॊ विरलकॆशः ऎवंविधः सविता आदित्यः तनुवृत्ततनुरित्यादि | तन्वी चासौ वृत्ता च तनुवृत्ता तादृशी तनुर्यस्य स तनुवृत्ततनुः | कृशवर्तुलाङ्ग इत्यर्थः | बहुवातकफः प्रभूतमारुतथ्लॆष्मा प्राङ्गॊ मॆधावी मृदुवाक् कॊमलभाषी शुभदृक दर्शनीयाक्षः ऎवंविधः शशी चन्द्रः || 8 ||  क्रूरदृक्तरुणमूर्तिरुदारः पैत्तिकः सुचपलः कृशमध्यः |  शिलष्टवाक्सततहास्यरुचिज्ञःपित्तमारुतकफप्रकृतिश्च | | 9 ||  भट्टॊत्पलः-अथाङ्गारकबुधयॊः स्वरूपं स्वागतयाह क्रूरॆति | क्रूरा दुष्टा दृक् दृष्टिर्यस्य स क्रूरदृगङ्गारकः स च तरुणमूर्तिः नित्यं यौवनॊपॆताकारविग्रहः उदारॊ दाता पैत्तिकः पित्तबहुलः सुचपलॊऽतीवस्थिरचित्तः कृशमध्यस्तनूदरः ऎवं विधॊंऽगारकः | श्लिष्टवागित्यादि | श्लिष्टवाग्गद्गदभाषीसतत हास्यरुचिः नित्यं परिहासशीलः पित्तमारुतकफप्रकृतिर्दॊषत्रयॊल्वणस्वभावः ऎवंविधॊ ज्ञॊ बुधः || 9 ||  58 बृहत्तनुः पिङ्गलमूर्धजॆक्षणॊ बृहस्पतिः श्रॆष्ठमतिः कफात्मकः |  भृगुः सुखी कान्तवपुः सुलॊचनः कफानिलात्मासितवक्रमूर्धजः || 10 ||  भट्टॊत्पलः-अथ जीवशुक्रयॊः स्वरूपं वंशस्थॆनाह- बृहत्तनुः स्थूलशरीरः मूर्धजाः कॆशा ईक्षणॊ नयनॆ च पिंगलॆ कपिलॆ यस्य कपिलकॆशकातराक्ष इत्यर्थः | श्रॆष्ठमतिर्धर्मानुप्रज्ञः कफात्मक श्लॆष्मात्मा ऎवंविधॊ बृहस्पतिः | भृगुरित्यादि | सुखी नित्यं सुखासक्तः कान्तवपुर्दर्शनीयशरीरः सुलॊचनः शॊभनाक्षः कफानिलात्मा श्लॆष्ममारुतप्रकृतिः असितवक्रमूर्धजः असिताः कृष्णा वक्राः कुटिलाः मूर्धजाः कॆशाः यस्य स कृष्णकुटिलकॆश इत्यर्थः | ऎवंविधॊ भृगुः शुक्रः || 10 ||  मन्दॊऽलसः कपिलदृक्कृशदीर्घगात्रा स्थूलद्विजः परुषरॊमकचॊऽनिलात्मा |  स्नाय्वस्थ्यसृक्त्वगथ शुक्रवसॆ च मज्जामन्दार्कचन्द्रबुधशुक्रसुरॆज्यभौमाः || 11 ||  भट्टॊत्पलः-अधुना शनैश्चरस्वरूपं स्नाय्वादिसारत्वं च ग्रहाश्रयं वसतंतिलकॆनाहमन्दॊऽलस इति | अलसः क्रियास्वपटुः कपिलदृक् पिगलाक्षः कृशं दुर्बलं दीर्घमुच्चतरं गात्रं यस्य गात्राणि वा सः दुर्बलॊर्ध्वदॆहः स्थूलद्विजॊ बृहद्दन्तः परुषरॊमकचा रुक्षतनूरुहकॆशः अनिलात्मा वातप्रकृतिः ऎवंविधॊ मन्दः शनैश्चरः | स्नाय्वस्थीत्यादि | मन्दादीनां ग्रहाणां स्नाय्वादिसारत्वं स्नाय्वस्थिनी प्रसिद्धार्थॆ | दॆहवतां शनैश्चरादित्यौ स्नाय्वस्थिसारौ शनैश्चरः स्नायुसारः | आदित्यॊऽस्थिसारः | असृग्रुधिरं तच्चन्द्रमाः | त्वक् चर्म तद्बुधः | अथशब्द आनन्तर्यार्थॆ | शुक्रं रॆतः तच्छुक्रः | वसा मॆदस्तत्सुरॆज्यॊ गुरुः | मज्जा 59 अस्थ्यन्तर्गतॊ मातुविशॆषः स भौमः | ग्रहाणां स्वरूपज्ञानप्रयॊजनम् | लग्ननवांशपतुल्यतनुः स्यादित्यत्रॊपयुज्यतॆ | जन्मकालॆ यॊ ग्रहॊ बलवांस्तत्पठितस्वरूपस्तत्कालजातॊ भवति तद्धातुसारश्च हृतनष्टादिषु प्रश्नकालॆऽप्यॆवंविधा धातुरूपाश्चौरादयः व्याधिप्रश्नॆ यल्लग्नं यश्च लग्नॆ नवांशकॊ तत्स्वामिनॊ बलवशादभिहितदॊषभवा पीडा || 11 ||  दॆवाम्ब्वग्निविहारकॊशशयनक्षित्युत्करॆशाः क्रमाद् वस्त्रं  स्थूलमभुक्तमग्निकहतं मध्यं दृढं स्फाटितम् |  ताम्रॊ स्यान्मणिहॆमयुक्तिरजतान्यकच्च मुक्तायसी  द्रॆष्काणैः शिशिरादयः शशुरुचज्ञग्वादिषूद्यत्सु वा || 12 ||  भट्टॊत्पलः-अधुना ग्रहाणां स्थानवस्त्रद्रव्यर्तुप्रभुत्वं शार्दूलविक्रीडि तॆनाहदॆवाम्ब्वग्नीति | अर्कात्प्रभृति तदादीनां ग्रहाणां क्रमाद्दॆवादीनि स्थानानि| तत्र दॆवस्थानमादित्यस्य | अम्बुस्थानं चन्द्रमसः | अग्निस्थानं भौमस्य | विहारस्थानं क्रीडास्थानं बुधस्य | कॊशॊ भाण्डारागारं तत्स्थानं बृहस्पतॆः | शयनस्थानं शुक्रस्य | क्षित्युत्करः अवकरराशिस्तत्स्थानं शनैश्चरस्य | ऎषां स्थानानामॆत ईशाः स्वामिनः | प्रयॊजनम् | बलवति ग्रहॆ ग्रहॊक्तस्थानॆ प्रसवज्ञानं हृतनष्टादॆश्चौरादॆः स्थानं द्रव्यस्य च | वस्त्रमित्यादि | अकदिति सर्वत्रानुवृत्तिः | तत्र स्थूलतन्तुकृतमादित्यस्य वस्त्रम् | अभुक्तं नवं चन्द्रस्य | अग्निना| हतमॆकदॆशदग्धं भौमस्य | कॆनाम्बुना हतं क्लिन्नं बुधस्य | मध्यं नातिनवं नातिजीर्णं बृहस्पतॆः | दृढङ्कालान्तरस्थायि शुक्रस्य | स्फटितं जीर्णं शनैश्चरस्य | 60 प्रयॊजनम् | सूतकावस्त्रज्ञानॆ हृतनष्ठादिचिन्तायां च बलवद्ग्रहवशाद्वास्त्रज्ञानम्ं| ताम्रं स्यादित्यादि, आदित्यस्य ताम्रं चन्द्रस्य मणयः भौमस्य हॆम सुवर्ण, बुधस्य युक्तिः युज्यतॆ इतिः युक्तिः रीतिकांस्यादि | रजतं रौप्यं बृहस्पतॆः स्वस्थानस्थस्य सुवर्णमपि | मुक्ता | मुक्ता शुक्रस्य अयः कृष्णलॊहं सीसत्रपुणीं च शनैश्चरस्य ! तथा तॆनैव सूक्ष्मजातकॆ उक्तम् | “अर्कादिताम्रमणिहॆमयुक्तिरजतानि मौक्तिकं लॊहम् | वक्तव्यं बलवद्भिः स्वस्थानॆ हॆम जीवॊऽपि |” तथा च बादरायणाः | “अर्कस्य ताग्रं मणयॊ हिमांशॊभौमस्य हॆमॆन्दुसुतस्य युक्ति | जीवस्य रौप्यं स्वगृहॆ स्थितस्य तस्यैव हॆमॊशनसश्च मुक्ता | तीक्ष्णांशुंदॆहप्रभस्य सीसकृष्णायसं च प्रवदन्ति तज्ज्ञाः |” प्रयॊजनम् सूतिकागृहॆ बलवद्ग्रहॆ द्रव्यसत्ता हृतनष्टादिचिन्तायां द्रव्यनाशादिपरिज्ञानं तच्छुभदशायां तस्मिन्नुपचयस्थॆ तदाप्तिः उक्तविपरीतॆ हानिः द्रॆष्काणैरित्यादि | अत्र शकारादिभिर्गुपर्यन्तैर्वर्णैः सांज्ञाद्यैः शनैश्चरप्रभृतीनां गुर्वन्तानां वृत्तानुरॊधान्निर्दॆशः कृतः | शनैश्चरशुक्ररुधिरचन्द्रबुधगुरुषूद्यत्सु लग्नगतॆषु शिशिरादयः षडर्तवॊ ज्ञॆयाः | तत्र शकारॊपलक्षितशनैश्चरः तस्मिन्नुदयति लग्नस्थॆ शिशिरर्तुर्विज्ञॆयः | शुकारॊपलक्षितशुक्रः तस्मिन्नुदयति वसन्तः | रुकारॊपलक्षितॊ रुधिरॊ भौमस्तस्मिन् ग्रीष्मः | चकारॊपलक्षितश्चन्द्रस्तस्मिन् वर्षा | ज्ञॊ बुधस्तस्मिञ्छरत्| गुकारॊपलक्षितॊ गुरुस्तस्मिन् हॆमन्तः | आदित्यॆऽप्युदयदि ग्रीष्मः | तथा च बादरायणः | “ग्रीष्ममथ प्रवदन्ति कुजार्कॊ” इति | द्रॆष्काणैरित्यस्य वा इत्यनॆन व्यवहितॆन सम्बन्धः | द्रॆष्काणैर्वॊदयद्भिः शनैश्चरादिसम्बन्धिभिः शिशिरादयॊ ज्ञॆयाः | ऎतदुक्तं भवति | लग्नॆ ग्रहाभावॆ शनैश्चरद्रॆष्काणॆ लग्नगतॆ शिशिरः | ऎव शुक्रद्रॆष्काणॆ वसन्तः | भौमद्रॆष्काणॆ ग्रीष्मः | रविद्रॆष्काणॆ ग्रीष्म ऎव | चन्द्रद्वॆष्काणॆ वर्षा | बुधद्वॆष्काणॆ शरत् | जीवद्रॆष्काणॆ हॆमन्तः | अत्र च मुख्यॊ ग्रहॊदयॆनतुनिर्दॆशस्तदभावॆ द्वॆष्काणॆनॆति ज्ञातव्यम् | बहूनामुदयॆऽपि द्रॆष्काणॆनैव | कॆचिद्बहूनामुदयॆ बलवद्ग्रहॆणॆति व्याचक्षतॆ | तथा च मणित्थः | “रव्याद्यैर्लग्नौपगतैर्यॊ बलवांस्तद्ग्रहर्तुनिर्दॆशः|” इति | तत्रैतज्जातं लग्नॆ यॊ ग्रहः स्थितस्तदुक्त ऋतुर्वाच्यः | बहुषु लग्नगतॆषु यॊ बलवान् ग्रहाभावॆ द्वॆष्काणपतॆक्रूतुनिर्दॆशः | प्रयॊजनम् | “नष्टजातकॆ ऋतुनिर्दॆशॊ| 61 हृतनष्टादिचिन्तायां च |” इति | अत्राचार्यॆण ग्रहाणां शाखाधिपत्यं नॊक्तम् | उक्तं च स्वल्पजातकॆ | “ऋगथर्वसामयजुषामधिपा गुरुसौम्यभौमसिताः |” ऋग्वॆदाधिपतिर्गुरुः | अथर्ववॆदाधिपतिः सौम्यॊ बुधः | सामवॆदाधिपतिभौमः | यजुर्वॆदाधिपतिः शुक्रः | प्रयॊजनम् | बलवती शाखाधिपॆ ब्राह्मणॊ जातस्तच्छाखापाठकॊ भवति | ब्राह्मणॆ जातॆ शाखाविज्ञानम् | अनिष्टस्थानस्कॆ ग्रहॆ तन्मन्त्रैः शान्तिरिति || 12 ||  62 त्रिदशत्रिकॊणचतुरस्रसप्तमान्यवलॊकयन्ति चरणाभिवृद्धितः |  रविजामरॆज्यरुधिराः परॆ च यॆ क्रमशॊ भवन्ति किल वीक्षणॆऽधिकाः || 13 ||  भट्टॊत्पलः-अथ ग्रहाणां दृष्टिस्थानानि निसर्गदृष्टिफलानि च| प्रहर्षिण्याह त्रिदशॆति | यस्मिन्स्थानॆ ग्रहाः स्थितास्तस्मात्त्रिदशादीनि स्थानानि चरणाभिवृद्धितः पादवृद्ध्याऽवलॊकयन्ति ग्रहॊ यस्मिन्राशौ स्थितस्तस्माद्यस्तृतीयॊ ग्रहॊ दशमश्च तथा तृतीयदशमस्थौ राशी यौ तौ पादॆन चतुर्थभागदृष्ट्याऽवलॊकयन्ति | ऎवं त्रिकॊणस्थौ नवपञ्चमस्थानगतावर्धदृष्टया | चतुरखॆऽष्टमचतुर्थॆ अष्टमचतुर्थस्थानस्थौ पादॊनदृष्ट्या | सप्तमगं गृहं परिपूर्णदृष्टया| चरणाभिवृद्धित इत्यत्राभिशब्दॊ वीप्सां द्यॊतयति | चरणवृद्ध्या पादवृद्ध्यॆत्यर्थः | यावत्पाददृष्ट्या पश्यन्ति तावत्फलं प्रयच्छन्ति | तथा च स्वल्पजातकॆ | “दशमतृतीयॆ नवमपञ्चमॆ चतुर्थाष्टमॆ कलत्रं च | पश्यन्ति पादवृद्ध्या फलानि चैवं प्रयच्छन्ति |” अर्थादॆव ग्रहॊऽनुक्तस्थानानि न पश्यतीति| तथा च सारावल्याम् | “सव्यं पश्यन्ति सदा ग्रहान्ग्रहाश्चरणवृद्धितः सर्वॆ | त्रिदशत्रिकॊणचतुरस्नसप्तमगताः क्रमॆणैव | पूर्णं पश्यति रविजस्तृतीयदशमॆ त्रिकॊणमपि जीवः | चतुरस्रं भूमिसुतः सितार्कबुधहिमकराः कलवञ्च | तथा यवनॆश्वरः || “द्वौ पश्चिमौ षष्ठमथ द्वितीयं संस्थानराशॆः परिहृत्य राशीन् | शॆषान्ग्रहः पश्यति सर्वकालमिश्लॆषु चैर्षा विहिता दृगिष्ट | जामित्रभॆ दृष्टिफलं समग्रं स्वपादहीनं चतुरस्रयॊश्च | त्रिकॊणयॊर्दूष्टिफलार्धमाहुर्बुश्चिक्यसंशॆ दशमॆ च पादम् |” रविजामरॆज्यरुधिरा इति | किलॆत्यागमसूचनॆ | चरणाभिवृद्धित इत्यनुवर्ततॆ | ऎतॆ रविजादयश्चरणाभिवृद्धितः पादॊपचयाद्वीक्षणॆ दर्शनॆ क्रमशॊऽधिकफलप्रदा भवन्ति | रविजः सौरिः सुदर्शनॆ पालफलप्रदः | अमरॆज्यॊ बृहस्पतिरर्धफलप्रदः| रुधिरॊऽगारकः स पादहीनफलप्रदः | अपरॆऽर्कचन्द्रबुधशुक्रास्तॆ वीक्षतॆ समग्रफलप्रदाः ऎतन्नैसर्गिकं ग्रहाणां दृष्टिफलं स्थानवशादॆतॆषां यथास्वं दृष्टिफलमूह्यमॆवमॆक व्याचक्षतॆ अपरॆ त्वाहुः | स्थानफलमॆतत् | तॆन त्रिदशादिस्थानगतान्ग्रहराशिन्पश्यन्तॊ रविजादयॊ दर्शनॆऽधिकफलप्रदा भवंति | 63 तद्यता | तृतीयदशमस्थान्ग्रहान्राशीन्वा शनैश्चरः पश्यन्नन्यॆभ्यॊ ग्रहॆभ्यॊऽधिकफलप्रदॊ भवति | परिपूर्णं पश्यतीत्यर्थः | ऎवं त्रिकॊणस्थाञ्जीवः चतुस्रगान्भौमः सप्तमस्थानन्सूर्यचन्द्रबुधशुक्राः | ऎतच्च बहुतराणामाचार्याणां मतम् | तथा च भगवान्गार्गिः | “दुश्चिक्यदशगान्सौरिस्त्रिकॊणस्थान्बृहस्पतिः | चतुर्थाष्टमगान्भौमः शॆषाः सप्तमसंस्थितान् | भवन्ति वीक्षतॆ नित्यमुक्ताधिकफला ग्रहाः |” इति || 13 || 64 अयनक्षणवासरर्तवॊ मासॊऽर्ध समाश्च भास्करात् |  कटुकलवणतिक्तमिश्रिता मधुराम्लौ च कषाय इत्यपि || 14 ||  भट्टॊत्पलः-अधुना ग्रहार्णा कालनिर्दॆशं रसनिर्दॆशञ्च वैतालीयॆनाह अयनॆति | भास्करादादित्यात्प्रभृत्ययनादिकालनिर्दॆशः | तत्रायननिर्दॆशॊ भास्करात्सूर्यात् | क्षणॊं मुहूर्तस्तनिर्दॆशश्चन्द्रात् | वासरॊ दिवसस्तनिर्दॆशॊ| भौमात् | ऋतुर्मासद्वयात्मकस्तनिर्दॆशॊ बुधात् | मासनिर्दॆशॊ जीवात् | मासार्ध पक्षस्तन्निर्दॆशः शुक्रात् | समाः संत्तरास्तन्निर्दॆशः सौरात् | प्रयॊजनम् | प्रश्नलग्नॆ यस्य ग्रहस्य नवांशकॊदयः स ग्रहस्तस्मान्नवांशक द्यावत्संख्यॆ नवांशकॆ भवति तावत्संख्यॊऽयनादिकॊ ग्रहॊपलक्षितकालशुभाशुभफलपंक्तौ वाच्यः | अन्यॆ त्वॆवं व्याचक्षतॆ | लग्नॆ यावत्सङख्यॊ नवांशक उदितस्तावस्संख्यॊऽयनादिकालॊंऽशकपतिवशाद्वक्तव्यः | तथा च मणित्थः “लग्नांशकपतितुल्य कालॊ लग्नॊदितांशसमसंख्यः | वक्तव्यॊ रिपुविजयॆ गर्भाधानॆऽथ कार्यसंयॊगॆ || कटुकलवणॆत्यादि | भास्करादादित्यात्कटुकादिरसनिर्दॆशः | तत्रादित्यात्सूर्यात्कटुकस्य रसस्य निर्दॆशः कटुकं मरॊचादि | चन्द्रात् लवणस्य | भौमात्तिकस्य तिक्तं निम्बादि | बुधामिश्रस्य षड्रसस्य | जीवान्मधुरस्य मिष्टस्य | शुक्रादम्लस्य | सौरात्कषायस्य | प्रयॊजनम् | आधानकालॆ यॊ बलवांस्तदुक्तरसदॊहदॊ गर्भिण्या बवति | तथा च सारावस्याम् | “मासि तृतीयॆ स्त्रीणां दॊहदकॊ जायतॆऽवश्यम् | स रसाधिपस्य भावैर्विलग्नयॊगादिभिश्चिन्त्यः |” भॊजनाश्रयॆ च प्रश्नॆ ग्रहॊदयॆ तन्नवांशकॊदयॆ वा तदुक्तरसान्वितभॊजनज्ञानमिति | 14 || 65 प्रश्न कर्ता कॆ अनुसार लग्न कॆ नवांश और लग्न ग्रह गत ग्रहानुसार भॊजन रस का विचार किया गया है तथा सूर्य ग्रह की लग्न स्थिति या लग्न नवांशॆश की स्थिति मॆं, कटु रस का भॊजन, चन्द्र सॆ लवण रसाधिक्य भॊजन, मंगल सॆ अत्यन्त तीतारस नीम अदि कॆ समान रस का, बुध सॆ अनॆक षड्रस मिश्रित भॊजन, गुरु सॆ मिष्टान्न भॊजन शुक्र सॆ अम्ल रस प्रधान भॊजन, शुक्र सॆ कषाय रस प्रधान भॊजन हॊता है | गर्भाधान समय मॆं जॊ ग्रह बलवान् हॊता है उस ग्रह कॆ रसादि का भॊजन गर्भिणी स्त्री नॆ किया है इत्यादि इस प्रकार सॆ भी विचार किया जाता है | 14 ||  जीब्रॊ जीवबुधौ सितॆन्दुतनयौ व्यर्का विभौमः  क्रमाद्वीन्द्वर्का विकुजॆन्द्विनाश्च सुहृदः कॆषाञ्चिदॆवं मतम् |  सत्यॊत्तॆ सुहृदस्त्रिकॊणभवनात्स्वात्स्वान्त्यधीर्मपाः  स्वॊच्चायुः सुखपाः स्वलक्षणविधॆर्नान्यैर्विरॊधादिति || 15 ||  भट्टॊत्पलः-अधुना मित्रामित्रविधिं शार्दूलविक्रीडि तॆनाह जीव इति | सूर्यादीनां ग्रहाणां क्रमाज्जीवादयः सुहृदः | तत्रादित्यस्य सूर्यस्य जीवॊ बृहस्पतिः सुहृमित्रम् | जीवबुधौ गुरुसौम्यौ चन्द्रस्य | सितः शुक्रः इन्दुतनयॊ बुधः ऎतौ भौमस्य | विगतॊऽर्कः सूर्यॊ यॆभ्यॊ ग्रहॆभ्यस्तॆ सूर्यवर्जिताः| सर्व ऎव बुधस्य | विभौमा विगतॊंऽगारकॊ यॆभ्यस्तॆ भौमरहिताः सर्व ऎव बृहस्पतॆः | वीन्द्वका विगतौ चन्द्राक यॆभ्यस्तॆ सर्व ऎव शुक्रस्य | विकुजॆन्द्विनाः कुजॊ भौम इन्दुश्चन्द्रः इनः सूर्यः ऎतॆ विकुजॆन्द्विनाः सर्वं ऎव सौरस्य शनैश्चरस्य ऎवं कॆषाञ्चिन्मतं न बहूनाम् | अत्र च तॆषां शत्रुमित्रव्यवहार ऎवॆष्टॊ नॊदासीनव्यहारस्तस्मान्मित्रॆभ्यॊऽन्यॆ ह्यमित्राणीति कॆचिद्यवनॆश्वरादयः | तथा च यवनॆश्वरः | “रवॆगुरुर्मित्रमतॊऽन्यथान्यॆ गुरॊस्तु भौमं परिहृत्य सर्वॆ | चान्द्रॆरनकि भृगुनन्दनस्य त्वर्कॆन्दुवर्ज सुहृदः प्रदिष्टाः | भौमस्य शुक्रः शशिजश्च मित्रॆ इन्दॊर्बुधं दॆवगुरुं च विद्यात् | सौरस्य मित्राण्नृयकुजॆन्दुसूर्याः शॆषान्रिपून्विद्धिणां च तद्वत्” | सत्यॊक्त इति | सत्यॊक्तहॊराशास्त्रॆ स्वत्रिकॊणभवनादात्मीयमूलत्रिकॊणराशॆः स्वांत्यधीधर्मपाः स्वॊच्चायुः सुखपाश्च तॆ ग्रहस्य सुहृदॊ भवन्ति | तत्र त्रिकॊणं मूलत्रिकॊणं तस्मात्स्वपॊ द्वितीयराश्यधिपः तस्यादॆवान्त्यपॊ 66 द्वादशस्थानाधिपः धीस्थानपः धीस्थानस्य पञ्चमस्याऽधिपः धर्मपॊ नवमाधिपः स्वॊच्चपॊ ग्रहॊक्तस्यॊच्चस्य स्वामी आयुषॊऽष्टमस्थानस्याधिपतिः सुखपश्चतुर्थस्थानाधिपतिः ग्रहॊ मित्रं भवति | स्वलक्षणविधॆर्विरॊधादन्यैरपठितस्थानाधिपतिभिर्ग्रहैः सह नायं मित्रामित्रविभागः कल्पनीयः | विरॊधादसुहृद्भवं स्वं च तल्लक्षणं स्वलक्षणं स्वलक्षणॆ विधिः स्वलक्षणविधिः तॆन विरॊधस्तस्मात् | ऎतदुक्तं भवति | यॊऽयं स्वविधिर्मित्रलवणविभागः प्रदर्शितः अतॊऽन्यस्थानाधिपा यॆ ग्रहास्तॆ ग्रहस्य सुहृदॊ न भवति | तथा च सत्यः | “सुहृदस्त्रिकॊणभवनाद्ग्रहस्य सुतभॆ व्ययॆऽथ धनभवनॆ | स्वजनॆ निधनॆ धर्मॆ स्वॊच्चॆ च भवन्ति न शॆषाः |” स्वजनसंज्ञ चतुर्थस्थानं ततॊ द्विराश्यधिपॊ मित्रसंज्ञः ऎकराश्यधिपॊ मध्यमः अनुक्तराश्याधिपः शत्रुः | वक्ष्यति च | “द्वयॆकानुक्तभपान्सुहृत्समरिपून्सञ्चिन्त्य नैसर्गिकान्’ इति | ऎकराश्यधिपॊ| मध्यम इति | यदुक्तं तथा चन्द्रार्कवॆकराश्यधिपावपि मित्रसंज्ञौ भवतः तयॊर्हि राशिद्वयस्याधिपत्याभावात् राशिद्वयस्य यॊऽधिपतिग्रहः स ऎवॊच्चराश्यधिपत्वात् द्विभपत्वं प्राप्नॊति तथापि द्विभप ऎव ज्ञातव्यः तस्य स्वराशिव्यतिरॆकात् | ऎतन्मन्दबुद्धिव्युत्पादनार्थं स्पष्टतरं व्याख्यायतॆ | तद्यथा | आदित्यस्य सिंहस्त्रिकॊणं तस्माद्वादशस्थानस्य कर्कटस्य चन्द्रमा अधिपतिः | स ऎकराश्यधिपॊऽपि सन् द्वितीयराशॆराधिपत्याभावाद् आदित्यस्य मित्रम् | सिंहाच्चतुर्थी वृश्चिकः नवमॊ मॆषः तयॊर्भॊमॊऽधिपतिः | आदित्यस्यॊच्चं मॆषः तस्याधिपॊ भौमः मॆषस्य सिंहनवमत्वादादित्यश्य स्वॊच्चत्वादॆकराशित्व मॆषस्यैकत्वाद्वृश्चिकस्य द्वितीयत्वाद्भौमॊ द्विराश्यधिपॊ जातः तॆनादित्यस्य मित्रम् | सिंहात्पञ्चमाष्टमौ धन्विमीनौ तयॊरधिपतिर्जीव स चॊक्तस्थानद्वयस्याधिपतित्वादादित्यस्य मित्रम् | सिंहादिद्वतीयैकादशौं कन्यामिथुनौ तयॊर्बुधः स्वामी तत्र द्वितीयस्थानस्यॊक्तत्वादॆकादशस्यानुक्तत्वात् पठितैकराश्यधिपत्वाद्बुधॊ रवॆर्मध्यमः | सिंहात्षष्ठसप्तमस्थानॆ मकरकुम्भौ नॊक्तौ तयॊराधिपत्यादादित्यस्य शनैश्चरः शत्रुः | सिंहाद्दशमतृतीयॆ वृषतुलॆ तयॊरनुक्तयॊः स्थानयॊराधिपत्याच्छुक्र आदित्यस्य शत्रुः | ऎवं रवॆः | अथ चन्द्रस्य यथा | चन्द्रस्य वृषस्त्रिकॊणस्तस्माच्चतुर्थस्थानं सिंहस्तस्याधिपः सूर्यः स 67 ऎकराश्यधिपॊ द्वितीयराशॆराधिपत्याभावाच्चन्द्रस्य मित्रम् | वृषाद्द्वितीयॊ मिथुनः पञ्चमः कन्या तयॊर्बुधॊऽधिपतिः स चॊक्तस्थानद्वयस्याधिपत्याच्चन्द्रस्य मित्रम् | वृषात्सप्तमद्वादशौ वृश्चिकमॆषॊ तयॊर्भॊमः स्वामी तत्रद्वादशस्थॊक्तत्वात्सप्तमस्यानुक्तत्वात् पठितॆकराश्यधिपत्वाद्भौमश्चन्द्रस्य मध्यमः | वृषाद् द्वितीयपञ्चमयॊर्मिथुनकन्ययॊः स्वामी बुधस्यस्यॊक्तस्थानद्वयाधिपत्वाद्बुधश्चन्द्रस्य मित्रम् | वृषादष्टमैकादशौं धन्विमीनौ तयॊर्जीवः स्वामी तत्रैकादशस्यानुक्तत्वात् अष्टमस्यॊक्तत्वात्पठितैकराश्यधिपत्वाज्जीवश्चन्द्रस्य मध्यस्थः | चन्द्रस्य वृषः तच्चः वृषात्षष्ठस्तुला तयॊः शुक्रॊऽधिपतिस्तत्र वृषस्यॊच्चत्वॆनॊक्तत्वात्षष्ठस्यानुक्तत्वात्पठितैकराश्यधिपत्वाच्चन्द्रस्य शुक्रॊ मध्यस्थः | वृषान्नवमदशमौ मकरकुम्भौ तयॊः स्वामी शनिः तत्र नवमस्यॊक्तत्वाद्दशमस्यानुक्तत्वात्पठितैकराश्यधिपत्वात्सौरः चन्द्रस्य मध्यस्थः | ऎवं चन्द्रस्य | अथ भौमस्य | तद्यथा | भौमस्य मॆषस्त्रिकॊण मॆषाच्चतुर्थस्थानस्य कर्कटस्याधिपश्चन्द्रः स ऎकराश्यधिपॊऽपि सन्द्वितीयराशॆराधिपत्यॊभावाद्भौमस्य मित्रम् | मॆषात्पञ्चमस्य सिंहस्याधिपः सूर्यः | स ऎकराश्यधिपॊऽपि सन्द्वितीयराशॆराधिपत्वाभावाद्भौमस्य मित्रम् | मॆषातृतीयषष्ठौ मिथुनकन्यॆ नॊक्तॆ तयॊर्बुधस्याधिपत्याद्भौमस्य बुधः शत्रुः | मॆषाद्द्वितीयसप्तमौ वृषतुलॆ तयॊः शुक्रः स्वामी तत्र द्वितीयस्यॊक्तत्वात्सप्तमस्यानुक्तत्वात्पठितैकराश्यधिपत्वाच्छुक्रॊ भौमस्य मध्यमः | ऎवं भौमस्य | अथ बुधस्य | कन्या मूलत्रिकॊणं तस्माद्द्वादशस्थानस्य सिंहस्याधिपतिः सूर्यः स ऎकराश्यधिपॊऽपि सन्द्वितीयराशॆराधिपत्याभावाद् बुधस्य मित्रम् | कन्यायाः द्वितीयनवमौ तयॊः शुक्रॊऽधिपतिः स चॊक्तस्थानद्वयस्याधिपत्वाद्बुधस्य मित्रम् | कन्याया ऎकादशस्थानस्य कर्कटस्याधिपतिश्चन्द्रः तत्स्थानुक्तत्वाद्बुधस्य शत्रुः | कन्यायाः तृतीयाष्टमौ वृश्चिकमॆषॊ तयॊर्भॊमॊऽधिपतिः तत्राष्टमस्यॊक्तत्वातृतीतस्यानुक्तत्वात्पठितैकराश्यधिपत्वात्भ् मध्यमः | कन्यायाश्चतुर्थसप्तमौ धन्विमीनौ तयॊजौंवाऽधिपतिस्तत्र चतुर्थस्यॊक्तत्वात्सप्तमस्यानुक्तत्वात्पठितैकराश्यधिपत्वाज्जीवॊ बुधस्य मध्यमः | कन्यायाः पञ्चमषष्ठौ मकरकुम्भौ तयॊः सौरॊऽधिपतिस्तत्र 68 पञ्चमस्यॊक्तत्वात्षष्ठस्यानुक्तत्वात्पठितैकराश्यधिपत्वात्सौरॊ बुधस्य मध्यमः ऎव बुधस्य | अथ गुरॊः | जीवस्य धन्वी त्रिकॊर्ण तस्मादष्टमस्थानस्य कर्कटस्याधिपतिश्चन्द्रः स ऎकराश्यधिपॊऽपि सन् द्वितीयराशॆराधिपत्याभावाज्जीवस्य मित्रम् | धनुषॊ नवमस्य सिंहस्याधिपतिः सूर्यः स ऎकराश्यधिपॊऽपि सन्द्वितीयस्य राशॆराधिपत्याभावाज्जीवस्य मित्रम् | धनुषः पञ्चमद्वादशौ मॆषवृश्चिकौ तयॊर्भॊमॊऽधिपतिः स चॊक्तस्थानस्याधिपत्वाज्जीवस्य मित्रम् | धनुषॊ द्वितीयतृतीयौ मकरकुम्भौ तयॊः सौरॊश्धिपतिस्तत्र द्वितीयस्यॊक्तत्वातृतीयस्यानुक्तत्वात्पठितैकराश्यधिपत्वात्सौरॊ जीवस्य मध्यस्थः | धनुषः सप्तमदशमॆ मिथुनकन्यॆ तयॊर्बुधॊऽधिपतिः स चानुक्तस्थानद्वयस्याधिपतित्वाद्गुरॊः शत्रुः | धनुषः षष्ठैकादशस्थानॆ वृषतुलॆ तयॊः शुक्रॊऽधिपतिः स्थानद्वयस्थानुक्तत्वाच्छुक्रॊ गुरॊः शत्रुः | ऎवं जीवस्य | अथ शुक्रस्य | शुक्रस्य तुला त्रिकॊणं तुलायाः नवमद्वादशस्थानॆ मिथुनकन्यॆ तयॊर्बुधॊऽधिपतिः स चॊक्तस्थानद्वयस्याधिपतित्वाच्छुक्रस्य मित्रम् |तुलायाश्चतुर्थपञ्चमौ मकरकुम्भौ तयॊरधिपतिः सौरः स चॊक्तस्थानद्वयस्याधिपत्वाच्छुक्रस्य मित्रम् | तुलाया द्वितीयसप्तमौ वृश्चिकमॆषॊ तयॊर्भॊमॊऽधिपतिः तत्र द्वितीयस्यॊक्तत्वात्सप्तमस्यानुक्तत्वात्पठितैकराश्यधिपत्वाद्भौमः शुक्रस्य मध्यस्थः | शुक्रस्य मीन उच्चं तुलायास्तृतीयषष्ठौ धन्विमीनौ तयॊर्जवॊऽधिपतिः तत्र मीनस्यॊच्चादुक्तत्वाद्धन्विनॊऽनुक्तत्वात्पठितैकराश्यधिपत्वाज्जीवः शुक्रस्यः मध्यस्थः | तुलादॆकादशः सिंहस्तस्याधिपः सूर्यः स ऎकराश्यधिपॊऽपि सन् द्वितीयराशॆराधिपत्याभावाच्छुक्रस्यार्कः शत्रुः | तुलात्कर्कटस्य दशमस्थानस्याधिपश्चन्द्रः स ऎकराश्यधिपॊऽपि द्वितीयराश्याधिपत्याभावाच्छुक्रस्य चन्द्रः शत्रुः | ऎवं शुक्रस्य | अथ सौरस्य कुम्भस्त्रिकॊणं कुम्भात्पञ्चमाष्टमॆ मिथुनकन्यॆ तयॊर्बुधॊऽधिपतिः स चॊक्तस्थानद्वयस्याधिपतित्वात्सौरस्य मित्रम् | कुम्भादिद्वतीयैकादशौं धन्विमीनौ तयॊजीवॊऽधिपतिः तत्र द्वितीयस्यॊक्तत्वादॆकादस्यानुक्तत्वात्पठितैकराश्यधिपत्वात्सौरस्य जीवॊ मध्यस्थः | कुम्भात्षष्ठः कर्कटस्तस्याधिपश्चन्द्रस्तस्यानुक्तत्वात्सौरस्य चन्द्रः शत्रु कुम्भात्सप्तमः सिंहस्तस्याधिपतिः सूर्यस्तस्यानुक्तत्वात्सौरस्य 69 सूर्यः शत्रुः | कुम्भातृतीयदशमौ मॆषवृश्चिकौ तयॊर्भॊमॊऽधिपतिस्तयॊरनुक्तत्वाद्भौमः सौरस्य शत्रुरिति || 15 || शत्रू मन्दसितौ समश्च शशिजॊ मित्राणि शॆषा रवॆस्तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शॆषाः समाः शीतगॊः | जीवॆन्दूष्णकराः कुजस्य सुहृदॊ ज्ञॊऽरिः सितार्कौ समौ मित्रॆ सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरॆ || 16 ||  भट्टॊत्पलः-अधुना सत्यॊक्तान् द्वग्नॆकानुक्तभपान् ग्रहस्य सुहन्मध्यस्थशत्रुब्छार्दूलविक्रीडितद्वयॆनाह शत्रू मंदसिताविति | रवॆरादित्यस्त मंदः सौरः सितः शुक्रः ऎतौ द्वौ शत्रू रिपूं शशिजॊ बुधः समॊ मध्यस्थः न शत्रुर्न मित्रमुदासीन इत्यर्थः | शॆषा ग्रहाश्चन्द्राङ्गारकगुरवॊ मित्राणीति | तीक्ष्णांशुरित्यादि शीतगॊश्चन्द्रमसः तीक्ष्णांशुः सूर्यः हिमरश्मिजॊ बुधः ऎतौ द्वौ सुहृदौ मित्रॆ शॆषाः समा ऎव भौमजीवशुक्रसौराः समा मध्यस्था उदासीना इत्यर्थः | जीवॆन्दूष्णकरा इति | कुजस्य भौमस्य जीवॊ बृहस्पतिः इन्दुश्चन्द्रः उष्णकरः सूर्य ऎतॆ सुहृदॊ मित्राणि ज्ञॊ बुधः अरिः शत्रुः | सिताकीं शुक्रसौरौ समौ मध्यस्थाविति | मित्रॆ सूर्यसिताविति | सूर्यॊ रविः सितः शुक्रः ऎतौ द्वौ बुधस्य मित्रॆ सुहृदौ, हिमगुश्चन्द्रमाः शत्रुररिः, अपरॆऽन्यॆ भौमगुरुसौरा समा मध्यस्था इति || 16 || 71 सूरॆः सौम्यसितावरी रविसुतॊ मध्यॊऽपरॆ त्वन्यथा सौम्यार्की सुहृदौ समौ कुजगुरू शुक्रस्य शॆषावरी |  शुक्रज्ञौ सुहृदौ समः सुरगुरुः सौरस्य चान्यॆऽरयॊ यॆ प्रॊक्ताः स्वत्रिकॊणभादिषु पुनस्तॆऽमी मया कीर्तिताः || 17 ||  भट्टॊत्पलः-सूरॆरित्यादि | सूरॆबृहस्पतॆः सौम्यॊ बुधः सितः शुक्रः ऎतावरी शत्रू, रविसुतः सौरॊ मध्यस्थ अपरॆ अन्यॆ रविचन्द्र भौमाः अन्यथा मित्राणीत्यर्थः | सौम्याकीत्यादि | शुक्रस्य सौम्याक बुधसौरौ सुहृदौ मित्रॆ कुजॊ भौमः गुरुजीवः ऎतौ द्वौ समौ मध्यस्थौ | शॆषावादित्यचन्द्रावरी शत्रू | शुक्रज्ञावित्यादि | सौरस्य शनॆः शुक्रज्ञौ सितबुधौ सुहृदौ मित्रॆ, सुरगुरुजींवः समॊ मध्यस्थः अन्यॆऽपरॆ रविशशिभौमाः अरयः शत्रवः | यॆ प्रॊक्ता इत्यादि | यॆ मया| स्वत्रिकॊणभादिषु पूर्व त्रिकॊणभवनात्स्वात्स्वांत्यधीधर्मपा इत्यादिना ग्रन्थॆनॊक्तास्त ऎवॆह प्रविभज्य पुनर्भूयः कीर्तिताः उदाहरणत्वॆन प्रदर्शिता इति || 17 || अन्यॊन्यस्य धनव्ययायसहजव्यापारबन्धुस्थितास्तत्कालॆ  सुहृदः स्वतुङ्गभवनॆऽप्यॆकॆऽरयस्त्वन्यथा |  द्वग्नॆकानुक्तभपान्सुहृत्समरिपून्सञ्चिन्त्य  नैसर्गिकांव्यवस्थितास्तत्कालॆ जन्मनि || 18 ||  भट्टॊत्पलः- यात्रायां विवाहॆ प्रश्नॆ वा तत्समयॆ सुहृदॊ मित्राणि भवन्ति | धनस्थानं द्वितीयं, व्ययस्थानं द्वादशम्, आयस्थानं ऎकादशं, सहजस्थानं 72 तृतीयं, व्यापारस्थानं कर्माख्यं दशमं, बन्धुस्थानं चतुर्थम् ऎतॆषु स्थानॆषु यॊ ग्रहः स्थितः यस्माद्ग्रहाद्वयवस्थितस्तस्य सुहृन्मित्रं भवति स च तस्यापि | यत उक्तमन्यॊन्यस्यॆति | स्वतुंगभवनॆऽप्यॆक इति | ऎकॆऽन्यॆ पुनराचार्याः ग्रहस्य यस्यॊच्चॆ यॊ ग्रहः स्थितः तस्य स्वॊच्चस्थितं तत्कालं मित्रमिच्छंति तॆ च यवनॆश्वरादयः तथा च तद्वाक्यम् | “मूलत्रिकॊणाद्धनधर्मबन्धुपुत्रव्ययस्थानगता ग्रहॆन्द्राः | तत्कालमॆतॆ सुहृदॊ भवन्ति स्वॊच्चॆ च यॊ यस्य विकृष्टवीर्यः |” इति| ऎतदप्याचार्यस्य नाभिप्रॆतम् | यस्मादनॆनैव स्वल्पजातकॆ उक्तम् | “तत्कालॆ च दशायबन्धुसहजस्वांत्यॆषु मित्र स्थिताः ’इति | अरयस्त्वन्यथॆति अन्यथा अन्यॆन प्रकारॆण ग्रहस्य ग्रहा व्यस्थितास्तत्कालॆऽरयः शत्रवॊः भवन्ति| अन्यॊन्यमिति | यद्यथा | ऎकराशिगताः पञ्चमषष्ठसप्तमाष्टमनवमस्थानस्थश्च तत्कालं शत्रुर्ग्रहस्य ग्रहॊ भवति | द्वयॆकानुक्तभपानिति | पूर्वमॆव दर्शितं इत्यादिना ग्रन्थॆनॊक्तान्संचित्य विज्ञाय तत्कालॆ जन्मादौ तानॆवाधिसुहृन्मित्रादिभिरुपलक्षितान् | तत्र धनादीनि मित्रस्थानानि तॆषु नैसर्गिकसुहृत्स्थितॊऽधिमित्रं भवति | मध्यस्थॊ मित्रम् इति धनादिवर्जितॆष्वन्यॆषु स्थितॊ निसर्गसुहृन्मध्यस्थॊ भवति | मध्यस्थः शत्रुः शत्रुरधिशत्रुरिति | अधुना ग्रहाणां चतुर्विधं बलं भवति स्थानदिक्चॆष्टाकालबलाख्यम् || 18 || 73 74 तत्र तावत्स्थानदिग्बलं दॊधकॆनाह-- स्वॊच्चसुहृत्स्वत्रिकॊणनवांशैः स्थानबलं स्वगृहॊपगतैश्च |  दिक्षु बुधाङ्गिरसौ रविभौमॊ सूर्यसुतः सितशीतकरौ च || 19 ||  भट्टॊत्पलः-स्वॊच्चसुहृदीति | स्वग्रहणं प्रत्यॆकमभिसंबध्यतॆ | तत्र स्वॊच्चस्थितॊ ग्रहॊ बलवान्भवति | तात्कालिकस्य सुहृदॊ मित्रस्य क्षॆत्रॆ स्थितॊ बलवानॆव | स्वत्रिकॊणॆ आत्मीयॆ मूलत्रिकॊणॆ स्थितः स्वनवांशॆ स्थितः स्वगृहॆ स्वराशावुपगतः प्राप्तॊ बलवानॆव | ऎतॆषामन्यतमॆ व्यवस्थितॊ ग्रहः स्थानबलयुक्तॊ भवति | अत्रार्कस्य सिंहस्त्रिकॊणं तदॆव स्वगृहम् | चन्द्रस्य वृषः उच्चः स ऎव त्रिकॊणम् | भौमस्य मॆषस्त्रिकॊणं तदॆव स्वक्षॆत्रम् | बुधस्य कन्या उच्चः सैव मूलत्रिकॊणं स्वक्षॆत्रं च | गुरॊर्धन्वी त्रिकॊणं तदॆव स्वक्षॆत्रम् | शुक्रस्य तुला त्रिकॊणं तदॆव स्वक्षॆत्रम् | ऎतॆषामाचार्यॆण विशॆषॊ नॊक्तः | अस्माभिरन्यहॊराशास्त्रादानीय शिष्यहितायॆह लिख्यतॆ | तथा च सारावल्याम् | “विंशतिरंशाः सिंहॆ त्रिकॊणमपरॆ स्वभवनमर्कस्य | उच्चं भागतृतीयं वृषः इन्दॊः स्यात्त्रकॊणमपरॆऽशाः | द्वादश भागा मॆषॆ त्रिकॊणमपरॆ स्वभं तु भौमस्य | उच्चबलं कन्यायां बुधस्य तिथ्यंशकैः सदा चिंत्यम् | परतस्त्रिकॊणजातं पञ्चभिरशैः स्वराशिजं परतः | दशभिर्भागैर्जीवस्य त्रिकॊणफलं स्वभ परं चापॆ | शुक्रस्य तु त्रयॊंऽशास्त्रिकॊणमपरॆ घटॆ स्वराशिश्च | कुम्भॆ त्रिकॊणनिजभॆ रविजस्य रवॆर्यथा सिंहॆ |” ऎतदार्याचतुष्टयं सुबॊधम् | दिक्षुबुधाङ्गिरसावित्यादि | प्राच्याद्यासु चतसृषु दिक्षु क्रमाद्बुधादयॊ बलिनॊ भवन्ति | तत्र पूर्वस्यां बुधांगिरसौ ज्ञजीवौ बलिनौ भवतः | लग्नस्थावित्यर्थः | दक्षिणस्यां रविभौमौ सूर्याङ्गारकौ दशमस्थावित्यर्थः पश्चिमायां सूर्यसुतः शनिः सप्तमस्थानस्थ इत्यर्थः | उत्तरस्यां सितशीतकरौ शुक्रचन्द्रॊ चतुर्थस्थावित्यर्थ | यॊ ग्रहॊ तत्र बली स तस्मात्सप्तमस्थानस्यॊ विबलॊ भवति | मध्यॆऽनुपातत ऊह्यमिति सर्वत्रॆयं परिभाषा | ग्रहाणामुच्चनीचविभागॆ राशीनां दिग्बलप्रविभागॆऽपि | 75 तथा च यवनॆश्वरः | “गुर्विन्दुजौ पूर्वविलग्नसंस्थौ नभस्थलस्थौ च दिवाकरारौ | सौरॊऽस्तगः शुक्रनिशाकरौ तु जलॆ स्थितावग्न्यबलौ भवॆताम् |” इति | अग्रॆबलग्रहणादन्तरॆऽनुपात ऎव युक्तः | ऎतद्ग्रहाणां दिग्बलम् || 19 ||  उदगयनॆ रविशीतमयूखौ वक्रसमागमगाः परिशॆषाः |  विपुलकरा युधि चॊत्तरसंस्थाश्चॆष्टितवीर्ययुताः परिकल्प्याः || 20 ||  भट्टॊत्पलः-अधुना चॆष्टाबलं दॊधकॆनाह उदगयनॆ इति | मकरादिराशिषट्कमुत्तरमयनं कर्कटादिराशिषट्कं दक्षिणमयनमिति | उदगयनॆ उत्तरायणॆ रविशीतमयूखौ सूर्याचन्द्रमसौ बलिनौ भवतः | परिशॆषाः भौमबुधगुरुसितसौराः वक्रगा विपरीतगतयॊ बलिनॊ भवन्ति | तथा समागमगाश्चन्द्रॆण सहिता बलिन ऎव | चन्द्रॆण सह संयॊगॊ ग्रहण समागमशब्दवाच्यः | रविणा सहाऽस्तमयॊ, भौमादीनां परस्परं युद्धम् | उक्तं च आचार्य विष्णुचन्द्रॆण | “दिवसकरॆणस्तमयः समागमः शीतरश्मिसहितानाम् | कुसुतादीनां युद्धं निगद्यतॆऽन्यॊन्ययुक्तानाम्” | इति | विपुलकरा इति | विपुलाः करा यॆषां तॆ विपुलकराः विस्तीर्णरश्मयॊ बलिनॊ भवन्ति | शीघ्रकॆन्द्रद्वितीयपदस्थग्रहस्य विपुलकरत्वं प्रायः सम्भवति | वक्रासन्नत्वात् | 76 युधि संग्रामॆ चॊत्तरसंस्था बलिन ऎव | कुसुतादीनां युद्धमित्युक्तम् | तत्र यः उत्तरदिग्भागस्थितः स जयॊ बलवान् उत्तरसंस्थत्वमत्रॊपलक्षणार्थ यस्तु जयी स बलवान् | तत्रैतज्जयिलक्षणम् || “दक्षिणदिक्स्थः पुरुषॊ वॆपथुरप्राप्य सन्निवृतॊऽणुः | अधिरूढॊ विकृतॊ निष्प्रभॊ विवर्णश्च यः स जितः | उक्तविपरीतलक्षणसंपन्नॊ जयगतॊ विनिर्दिष्टः | विपुलः स्निग्धॊ द्युतिमान्दक्षिणदिक्स्थॊऽपि जययुक्तः |” इति | ऎतच्छुक्रस्य प्रायः सम्भवति | यस्मात्पुलिशाचार्यः | “सर्वॆ जयिन उदक्स्था दक्षिणदिक्स्थॊ जयी शुक्रः |” इति| ऎतच्चॆष्टाबलम् | ऎषामन्यतमॆव संयुक्तश्चॆष्टाबलयुक्तॊ भवति || 20 || निशि शशिकुजसौराः सर्वदा ज्ञॊऽह्नि चान्यॆ बहुलसितगता स्युः क्रूर सौम्याः क्रमॆण |  ठूययनदिवसहॊरामासपैः कालवीर्य शरुबुगुशुचसाद्या वृद्धितॊ वीर्यवन्तः | 21 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ-ग्रहयॊनिप्रभॆदाध्यायः सम्पूर्णः | भट्टॊत्पलः-अधुना ग्रहाणां कालबलं च मालिन्याह 77 निशति | शशिकुजसौराश्चन्द्रभौमशनयः निशि रात्रौ वीर्यवन्तॊ बलिनः | ज्ञॊ बुधः सर्वदा सर्वस्मिन्कालॆ निशि दिनॆ च बली | अन्यॆऽपरॆ रविगुरुसिता अहि दिनॆ बलिनः | क्रूराः पापाः प्रागुक्ता बहुलपक्षॆ कृष्णपक्षॆ बलिनः | सौम्याः शुभग्रहाः सितगताशुक्लपक्षॆ बलिनः | कृष्णपक्षॆ चन्द्रमा अपि क्रूरॊ बलवान् भवति | यस्माद्यवनॆश्वरः || “मासॆ तु शुक्लॆ प्रतिपत्प्रवृतॆः पूर्वॆ शशी मध्यबलॊ दशाहॆ | श्रॆष्ठॊ द्वितीयॆऽल्पबलस्तृतीयॆ सौम्यैस्तु दृष्टॊ बलवान्सदैव|” इति | द्वययनॆति | द्वययनं प्रमाणं | यस्य तत् द्वययन वर्षम् | स्ववर्ष आत्मीयवर्षॆ यॊ ग्रहॊ यत्र वर्षॆऽधिपतिः स तत्र बलवान् स्वदिवसॆ आत्मीय वासरॆ स्वहॊरायां कालहॊरायां तथा स्वमासॆ यस्मिन्मासॆ यॊऽधिपतिः स तत्र बली| द्वययन दिवसहॊरामासानां यॆऽधिपतियस्तैग्रहैः कालबलमुपलक्षणीयं तॆ कालबलॊपॆता इत्यर्थः | कॆचिद्द्वययनदिवसहॊरामासपैरिति पठन्ति | अन्यॆ स्वदिवससमहॊरामासगैरिति पठन्ति | ऎष सापराधः पाठः | ऎतॆषु सर्वॆ ऎव बलिनॊ भवन्ति | ऎतत् ग्रहार्णा कालवीर्यमॆषामन्यतमॆन संयुक्तः कालबलसंपत्रॊ भवति | शरुबगुशुचसाद्या इति शादयॊ वर्णाः यॆषां शकार आद्यस्तॆ शाद्याः | शकराद्यः शनैश्चरः सर्वॆभ्यॊ बलहीनः | रुकराद्यॊ रुधिरॊ भौमः शनैश्चरात् बलवान् | बुकाराद्य बुधः स भौमाद्वलवान् | गुकाराद्य गुरुः स बुधाद्वली | शुकाराद्यः शुक्रः स जीवाद्बली | चकराद्यश्चन्द्रः स शुक्राद्बली | सकाराद्यः सविता स चन्द्राद्बलीति | ऎतद्ग्रहाणां नैसर्गिकं बलम् | यस्मादनॆनैव स्वल्पजातकॆ उक्तम् | “मन्दारसौम्यवाक्पतिसितचन्द्रार्का यथॊत्तरं बलिनः | नैसर्गिकबलमॆतद्वलसाम्यॆऽस्मादधिकचिंता |” इति | यत्र ग्रहाणां ग्रहयॊर्वा बलसाम्यं तत्रास्माद्बलादधिवीर्यता ज्ञॆयॆति | अत्राचार्यॆण चतुःप्रकारस्य ग्रहाणां बलस्य फलं नॊक्तं तच्चास्माभिः शिष्यहितहॆतवॆऽन्यशास्त्राल्लिखयतॆ | तथा च सारावल्याम् | उच्चबलॆन समॆतः परां विभूतिं ग्रहः प्रसाधयति |स्वत्रिकॊणबलः पुंसां साचिव्यं बलपतित्वं च | स्वर्क्षबलॆन च सहितः प्रमुदितधनधान्यसंपदाक्रांतम् |मित्रभबलसंयुक्तॊ जनयति कीत्र्यान्वितं पुरुषम् |   78 तॆजस्विनमतिसुखिनं सुस्थिरविभवं नृपाच्च लब्धधनम् | स्वनवांशकबलयुक्तः करॊति पुरुषं प्रसिद्धं च |” सूक्ष्मजातकॆ उक्तम् | “बलवान्मित्रस्वगृहॊच्चनवांशॆष्वीक्षितः शुभैश्चापि| चन्द्रसितौ स्त्रीक्षॆत्रॆ पुरुषक्षॆत्रॊपगाः शॆषा |” इति | तत्र शुभदृष्टस्य फलम्तावत् | “शुभदर्शनबलसहितः पुरुषं कुर्याद्धनान्वितं ख्यातम् | सुभगं प्रधानमखिलं सुरूपदॆहं च सौम्यं च | पुंस्त्रीभवनबलॆन च करॊति जनपूजितं कलाकुशलम् | पुरुषं प्रसन्नचितं कल्पं परलॊकभीरुं च | आशाबलसमवॆतॊ नयति स्वदिशं ग्रहॆश्वरः पुरुषम् | नीत्वा वस्त्रविभूषणवाहनसौख्यान्वितं कुरुतॆ | क्वचिद्राज्यं क्वचित्पूजां क्वचिद् द्रव्यं क्वचिद्यशः | ददाति विहगश्चित्रं चॆष्टावीर्यसमन्वितः | वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रहाः | पापा व्यसनदाः पुंस कुर्वन्ति च वृथाटनम् | स्वस्थः शरीरसमागमसुखमाह--वजयबलॆन विदधाति | शुभमतुलं विहगॆन्द्रॊ राज्यं च विनिर्जितारातिम् | रात्रिदिवाबलपूर्णैर्भूगजलाभॆन शौर्यपरिवृद्धया |स्त्रीकनकभूमिलाभम् कीर्ति च शशङ्ककरधवलाम् |राज्यं ग्रहा विदद्युः सौख्यं च मनॊरथातीतम् | आचारसौख्यशुभशौचयुताः सुरूपास्तॆजस्विनः कृतविदॊ द्विजदॆवभक्ताः | सद्वस्त्रमाल्यजनभूषणसम्प्रियाष्च सौम्यैर्ग्रहैर्बलयुतैः पुरुषा भवन्ति | लुब्धाः कुकर्मविरता निजकार्यनिष्ठाः पापान्विताः सकलहाश्च तमॊऽभिभूताः | 79 क्रूराः शठा वधरता मलिनाः कृतघ्नाः पापग्रहैर्बलयुतैः पुरुषा भवन्ति | पुंराशिपुङ्ग्रहॆन्द्रॆर्धीराः सङ्ग्रामकाङक्षिणॊ बलिनः | निःस्नॆहाः सुकठॊराः क्रूरा मूर्खाश्च जायन्तॆ | युवतिभवनस्थितॆषु च मृदवः संग्रामभीरवः पुरुषाः | जलकुसुमवस्त्रनिरताः सौम्याः कलहाससंयुक्ताः |” इति | ऎतत्सर्व सुगमम् || 21 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां ग्रहयॊनिप्रभॆदाध्यायः || 2 || 80 81 अथ वियॊनिजन्माध्यायः || 3 || क्रूरग्रहैः सुबलिभिर्विबलैश्चसॊम्यैः क्लीबॆ चतुष्टयगतॆ तदवॆक्षणाद्वा |  चन्द्रॊपगद्विरसभागसमानरूपं सत्त्वं वदॆद्यदि भवॆत्स वियॊनिसंज्ञः | 1 ||  भट्टॊत्पलः-अथातॊ वियॊनिजन्माध्यायॊ व्याख्यायतॆ | कः पुनरर्थी वियॊनि जन्मॆत्युच्यतॆ | विविधवियॊनिजन्मनां तिर्यक्पक्षिस्थावरादीनामुत्पत्तिर्वियॊनिजन्मॆत्युच्यतॆ | तत्र प्रष्टुः सकाशाज्जातककालं प्रश्नकालं वा विज्ञाय वियॊनिजन्मनिश्चयज्ञानं भवति | तत् वसन्ततिलकॆनाह क्रूरग्रहैः सुबलिभिरिति | चन्द्रॊपगद्विरसभागसमानरूपमिति | चन्द्रमा उपगतॊ व्यवस्थितॊ यस्मिन् द्विरसभागॆ द्वादशभागॆ तत्समानरूपं तत्सदृशरूपं सत्त्वं प्राणिनं वियॊनिजन्मानं वदॆत् | स च द्विरसभागॊ यदि वियॊनिसंज्ञस्तदैव वदॆन्नान्यथॆति | तत्र मॆषद्वादशभागॆ व्यवस्थितॆ चन्द्रमसि मॆषाख्यस्य | ऎवं वृषद्वादशभागॆ व्यवस्थितॆ वृषाख्यस्य महिषादॆश्च | कर्कटद्वादशभागॆ व्यवस्थितॆ कुलीरादॆः | सिंहाद्द्वादशभागॆ व्यवस्थितॆ सिंहद्वीपिशृगालमार्जारादिसत्त्वानां जन्म| वृश्चिकद्वादशभागॆ व्यवस्थितॆ सर्पकॊटादॆः | धनुर्धरद्वादशभागॆ द्वितीयार्धॆ व्यवस्थितॆऽश्वगर्दभादिजन्म | मकरद्वादशभागॆ पूर्वार्धॆ व्यवस्थितॆ मृगजन्म | अपरॆ मण्डूकादॆर्जलचरप्राणिन इच्छन्ति | मीनॆ मीनस्यैव | किमॆतावतैव वियॊनिजन्मनिश्चयॆनॆत्याह | क्रूरग्रहैरित्यादि | क्रूरग्रहैरादित्याङ्गारकशनैश्चरैर्बुधॆन च तदॆकतमॆन युक्तॆन क्षीणॆन चन्द्रमसा ऎतैः सुबलिभिः बलयुतैः, सौम्यैः शुभग्रहैः क्रूरपरिशिष्टैर्विबलैर्वीर्यरहितैः क्लीबॆ शनैश्चरॆ बुधॆ वा चतुष्टयगतॆ कॆन्द्रस्थॆ ऎकॊ वियॊनिजन्मयॊगः | तदवॆक्षणाद्वा चन्द्रमसि प्रदर्शितवियॊनिजन्मद्वादशभागॆ व्यवस्थितॆ | क्रूरैबलयुक्तैः सौम्यॆहीनबलॆर्यत्र तत्रावस्थितॆन बुधॆन शनैश्चरॆण वा लग्नॆ दृष्टॆ वियॊनिजन्मज्ञानं द्वितीयॊ यॊगः | अर्थादॆव द्विपदद्वादशभागव्यवस्थितॆ चन्द्रमसि पूर्वॊक्तयॊगाभावॆ द्विपदजन्म | तथा च सरावल्याम् | क्ररैः सुबलसमॆतैर्विबलैः सौम्यैर्वियॊनिभागगतॆ |चन्द्रॆ ज्ञशनी कॆन्द्रॆ तदीक्षितॆ चॊदयॆ वियॊनिः स्यात् | मॆषॆ शशी तदंशॆ छागादिप्रसवमाहुराचार्याः | 82 गॊमहिषाणां गॊंऽशॆ नररूपाणां तृतीयॆंऽशॆ | तत्र चतुर्थॆ भागॆ कूर्मादीनां भवॆदुदकजानाम् | व्याघ्रादीनां परतः परतॊ ज्ञॆयं नराणां च | वणिगंशॆ नररूपा वृश्चिकभागॆ तथा भुजङ्गाद्याः | खरतुरगाद्या नवमॆ मृगशिखिनां स्यात्तथा दशमॆ | ज्ञॆयाश्च तत्र विविधा वृक्षास्तृणजातयश्चित्राः | ऎकादशॆ च पुरुषा जलजा नानाविधाश्चान्त्यॆ |” द्वादशांशका लग्नॆ तावन्ति वदॆत्प्राज्ञः पुस्त्रीसंज्ञान्यपत्यानि | 1 || 83 पापा बलिनः स्वभागगाः पारक्यॆ विबलाश्च शॊभनाः | लग्नं च वियॊनिसंज्ञकं दृष्टवात्रापि वियॊनिमादिशॆत् || 2 ||  अथ वियॊनिजन्मज्ञानॆ यॊगान्तरं वैतालीयॆनाह भट्टॊत्पलः-पापा इति | चन्द्रॊपगद्विरसभागसमानरूपमित्यनुवर्ततॆ | पापाः क्रूरा ग्रहाः प्रागुक्ता बलिनः सबलाः न कॆवलं यावत्स्वभागगाः स्वनवांशस्थाः | भागग्रहणॆनॆह नवांशक ऎव ज्ञातव्यः | शॊभनाः सौम्यग्रहाः पारक्यॆ परनवांशकॆ विबला वीर्यरहिता व्यवस्थिताः | लग्नं तात्कालिकं च यदि वियॊनिसंज्ञकं भवति तदत्राप्यस्मिन्नपि यॊगॆ चन्द्रॊपगद्विरसभागसमानरूपं सत्त्वं जातमिति वदॆत् || 2 || क्रियः शिरॊ वक्त्रगलॊ वृषॊऽन्यॆ पादॊंऽसकं पृष्ठमुरॊऽथ पाश्र्वॆ |  कुक्षिस्त्वपानाङघ्नत्यथ मॆढूमुष्कौ स्फिक्पुच्छमित्याह चतुषपदाङ्गॆ || 3 ||  भट्टॊत्पलः-अथ वियॊनावपि चतुष्पदानां प्राधान्यॆनॊपयॊगित्वात्तदङ्गविभागं राश्यात्मकमुपजातिकयाहक्रिय इति | क्रियॊ मॆषश्चतुष्पदानां शिरस्तदुपलक्षितमित्यर्थः | वृषॊ वक्त्रंगलॊ वक्त्रं मुखं गलः कम्बलं वृषः | अन्यॆ मिथुनादयॊ यथाक्रमं पादादि | मिथुनः पदांसकं पादौ पूर्वपादावंसौ स्कन्धौ | पृष्ठं कर्कटः | उरॊ वक्षः सिंहः | अथशब्द आनन्तर्यॆ | पाश्र्वॆ पाश्र्वद्वयं कन्या | कुक्षिद्वयं तुला | अपानं गुदा वृश्चिकः | अंघ्रॊ पश्चिमपादौ धन्वी | अथशब्दः पादपूरणॆ | मॆढूः लिङ्ग मुष्कौ वृषणौ मकरः | स्फिचौ कुम्भः | पुच्छं लाङ्गूलं मीनः | इति शब्दप्रकारॆ | कॆचिच्चतुष्पदांगॆ राशिविभागमाहुः | आहॆति ब्रुवन्त्याचार्या इति वाक्याध्याहारः | चतुष्पदग्रहणमुपलक्षणार्थम् | पक्षिणामप्यॆवं पूर्वपादस्थानॆ पक्षपाली | शॆषं सामान्यं प्रयॊजनम् || राश्युपलक्षितॆऽगॆ व्रणॊपघातादॆर्विज्ञानमिति || 3 || 84 लग्नाशकाद् ग्रहयॊगॆक्षणाद्वा वर्णान्वदॆद्वलयुक्ताद्वियॊनौ |  दृष्टया समानान्प्रवदॆत्स्वसङ्खयया रॆखां वदॆत्स्मरसंस्थैश्च पृष्ठॆ || 4 ||  भट्टॊत्पलः-अथ वियॊनीवर्णज्ञानं वैश्वदॆव्याह लग्नाशकादिति | लग्नॆ यॆन ग्रहॆण यॊगॊ यस्तत्र व्यवस्थितस्तस्य यॊ वर्णः प्रागुक्तः वर्णास्ताम्रसितातिरक्तहरिता इत्याद्याः तद्वर्णा वियॊनौ सत्त्वजातॆ वदॆत् हृतनष्टादौ वा | ईक्षणाद्वॆति | अथ लग्नॆ न कश्चिद्ग्रहॊ भवति तदा यॆन ग्रहॆण लग्नमीक्ष्यतॆ तस्य यॊ वर्णस्तं वा वदॆत् | अथ लग्नं न कॆनचिद्युतं दृष्टं भवति तदा लग्नांशकात् लग्नॆ यद्राशिनवांशकॊदयॊ भवति तद्राशिवर्ण रक्तः श्वॆत इत्यादि वा वदॆत् | दृष्ट्या समानानिति | अथ बहुभिग्रहैर्लग्नं युत दृष्टं च भवति तदा बहूनॆव वर्णान्वदॆत् | तत्रापि यॊ वीर्यवान् सबलस्तद्वर्णबाहुल्यम् | यदुक्तं बलयुक्तादिति | अथ स्वस्वामिना युतदृष्टस्य राशॆः सम्बन्धिनवांशकॊ लग्नगतॊ भवति तदसा तद्वर्णमॆव वदॆत् | तत्र च यॊ ग्रहॊ वियॊनौ यस्मिन्नङ्गॆ व्यवस्थितस्तत्रात्मीयवर्ण करॊति | ऎतत्कृती लब्धं सप्तमस्थानगतैग्रीहैर्बलवद्ग्रहवर्ण पृष्ठॆ वियॊनौ रॆखाँ वदॆत्| तथा च सारावल्याम् मॆषादिभिरुदयस्थैरंशैव ग्रहयुतॆश्च दृष्टैर्वा | स्वग्रहांशकसंयॊगाद्विद्याद्वर्णान् पारांशकॆ रुक्षान् | सप्तमसंस्थाः कुर्युः पृष्ठॆ रॆखां स्ववर्णसमाम् | वीक्षन्तॆ यावन्तॊ वियॊनीवर्णाश्च तावन्तः | बलदीप्तॊ गगनचरः करॊति वर्णं वियॊनीनाम् | 85 पीतं करॊति जीवः शशी सितं भार्गवॊ विचित्रं च | रक्तं दिनकररुधिरौ रविजः कृष्णं बुधः शबलम् | स्वॆ राशौ परभागॆ परराशौं स्वॆ नवांशकॆ तिष्ठन्| पश्यन्ग्रहॊ विलग्नं स्वर्णवर्ण तदा कुरुतॆ” | 4 || खगॆ दृक्काणॆ बलसंयुतॆन वा ग्रहॆण युक्तॆ चरभांशकॊदयॆ |  बुधांशकॆ वा विहगाः स्थलाम्बुजाः शनैश्चरॆन्द्वीक्षणयॊगसंभवाः || 5 ||  भट्टॊत्पलः-अधुना पक्षिजन्मज्ञानं कंशस्थॆनाह खगॆ इति | खगॆ दृक्काणः पक्षिद्रॆष्काणस्तत्र पक्षिद्रॆष्काणॊ मिथुनद्वितीयः सिंहप्रथमः तुलाद्वितीयः कुम्भप्रथमः ऎषामन्यतमद्रॆष्काण उदयति शनैश्चरॆन्द्वीक्षणयॊगसम्भवाः यथाक्रमः विहगाः पक्षिणः स्थलाम्बुजा भवन्ति | पक्षिद्रॆष्काणॆ शनैश्चरॆण युतॆ दृष्टॆ वा स्थलजपक्षिणां जन्म वक्तव्यम् | ऎवमिन्दुना युतॆ दृष्टॆ वा जलजानां पक्षिणां जन्मॆति ऎकॊ यॊगः | अत्र लग्नॆ प्रथमभ् नवांशकॆ यॊ ग्रहः स्थितः स प्रथमद्रॆष्काणस्थः ततः इशकॆ द्वितीयद्रॆष्काणस्थः ततः परमन्यस्मिन्नवांशकॆ तृतीयद्रॆष्काणस्थ इति | ऎवं त्रयॊ भागा विंशतिः कलाश्चैकनवांशकप्रमाणं परिकल्प्य ग्रहस्थितिरन्वॆष्या | सर्वराशिष्वियं परिभाषा | बलसंयुतॆन वा ग्रहॆण युक्तॆ चरभंशकॊदयॆ यस्य तस्य लग्नस्य चरनवांशकॊदयॆ बलसंयुतॆन यॆन ग्रहॆण युक्तॆ तथाभूतशनैश्चरयुतदृष्टॆ 86 स्थलजानां चन्द्रयुतदृष्टॆ जलजानामिति द्वितीयॊ यॊगः | बुधांशकॆ वॆति | बुधनवांशकॆ मिथुनकन्ययॊरन्यतमॆ तात्कालिकस्य लग्नस्यॊदितॆ तस्मिश्च बलवद्ग्रहसंयुक्तॆ शनैश्चरयुतदृष्टॆ स्थलजानां चन्द्रयुतदृष्टॆ जलजानामिति तृतीयॊ यॊगः | ऎतॆ शनैश्चरस्यॆन्दॊर्वा यॊगॆन वीक्षणॆन वा सम्भवन्तीति | तथा च सारावल्याम  ... क्काणॆ ग्रहॆण बलिना युतॆऽथ चरभांशॆ | बौधॆऽशॆ वा विहगाः स्थलाम्बुजाः शनिशशीक्षणाद्यॊगात्” इति | 5 || हॊरॆन्दुसूरिरविभिर्विबलैरतरूणां तॊयस्थलॆ तरुभवॊंऽशकृतः प्रभॆदः |  लग्नाद्ग्रहः स्थलजलक्षपतिस्तुयावांस्तावन्त ऎव तरवः स्थलतॊयजाताः || 6 ||  भट्टॊत्पलः-अधुना वृक्षजन्मज्ञानं वसन्ततिलकॆनाह हॊरॆति | हॊरा लग्नम् इन्दुश्चन्द्रः सूरिजीवः रविरादित्यः ऎतै र्विबलैर्वीर्यहितै प्रष्टा तरूणां वृक्षाणां जन्म पृच्छतीति वक्तव्यम् | तत्रायं विशॆषः | तॊयस्थलॆ इति | तत्र तरुभवॊ वृक्षजन्म किं तॊयॆ जलॆ स्थलॆ निर्जलॆ दॆशॆ वॆति तत्प्रभॆदस्तद्विकल्पॊंशकृतॊ नवांशकविहितः तत्र तॊयराश्यंशकॊदयॆ तॊयसमीपजा वृक्षाननूपजान् | तॊयराशयः कर्कटमकरपश्चार्धमीनाः ऎतैरनूपजवृक्षजन्मज्ञानम्| इतरराश्यंशकॊदयॆ स्थलवृक्षजन्मज्ञानम् तत्रापि संख्यॆयम् | लग्नाद्ग्रह इति | उदितांशैः स्थलचारी वा भवति तदधिपतिर्यावत्संख्यराशौ लग्नाद्व्यवस्थितस्तांवत ऎव तत्संख्यास्तरवॊ वृक्षाः स्थलजा जलजा वा 87 वक्तव्या| अत्राप्यंशकपतिवशाद्वक्ष्यमाणायुर्दायविधिना द्विगुणत्वं वाच्यम् | “स्वतुङ्गवक्रॊपगतैस्त्रिसंगुणं द्विरुत्तमस्वांशकभत्रिभागगैः |” इति | अतः द्वित्रिगुणत्वं प्राप्तॆ यावन्त्यॊ गणना भवन्ति तावन्तः कार्या इत्यागमविदः | तथा च सारावल्याम लग्नार्कजीवचन्द्रैरबलैः शॆषैश्च मूलयॊनिः स्यात् | स्थलजलभवनविभागा वृक्षादीनां प्रभॆदकराः | स्थलजलग्रहयॊर्लग्नाद्यावति राशौ तु तॆऽपि तावन्तः | द्वित्रिगुणित्वं तॆषामायुर्दायप्रकारॊक्तम्” इति | 6 || अन्तः साराञ्जनयति रविर्दर्भगान्सूर्यसूनुः क्षारॊपॆतांस्तुहिनकिरणः कण्टकाढयांश्च भौमः |  वागीशज्ञौ सफलविफलान् पुष्पवृक्षांश्च शुक्रः स्निग्धानिन्दुः कटुकविटपान्भूमिपुत्रश्च भुयः | 7 ||  इति वराहमिहिरकृतॆबृहज्जातकॆ वियॊनिजन्माध्यायस्तृतीयः || 3 ||  भट्टॊत्पलः-अधुना स्थलजलजांशस्वामिवशाद्वृक्षाणां विशॆषज्ञानं मन्दाक्रान्तयाह अन्तः सारानिति | रविः सूर्यॊऽशकपतिरन्तः सारान् मध्यदृढान्| शिंशपादीन्वृक्षान् जनयति उत्पादयति | सूर्यसूनुरार्किर्चुर्भगान्दूङमनसॊरप्रियान् कुर्क्सप्रभृतीन् जनयति | तुहिनकिरणश्चन्द्रः क्षीरॊपॆतान्सक्षीरानिक्षुप्रभृतीन्| 88 जनयति | भौमः कुजः कण्टकाढ्यान् कण्टकबहुलान्खदिरप्रभृतीन् जनयति | वागीशज्ञाविति | वागीशॊ बृहस्पतिः सफलानाम्रप्रभृतीन् | बुधॊ विफलान् यॆर्षा लॊकॆ पुष्पमॆवॊपयुज्यतॆ न फलानि तान् जयनति | शुक्रः पुष्पवृक्षान् चम्पकप्रभृतीन् जनयति | इन्दुश्चन्द्रः भूयः पुनः स्निग्धान् सचिक्कणान्| धवदॆवदारुप्रभृतीञ्जनयति | भूमिपुत्रॊऽङ्गारकः कटुकविटपान् भल्लातकप्रभृतीन्| जनयति | अत्रॊभयजनितृत्वनिर्दॆशाच्चन्द्रभौमयॊर्विकल्पॆनादॆशः || 7 || शुभॊऽशुभक्षॆ रुचिरं कुभूमिजं करॊति वृक्षं विपरीतमन्यथा |  परांशकॆ यावति विच्युतः स्वकाद्भवन्ति तुल्यास्तरवस्तथाविधाः | 8 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ वियॊनिजन्माध्यायः सम्पूर्णः | 3 || भट्टॊत्पलः-अथ भूमितरुशुभाशुभज्ञानं संख्यां च वंशस्थॆनाह शुभॊऽशुभर्क्ष इति | स ऎव स्थलजलांशपतिर्ग्रहः शुभस्तत्कालमशुभर्क्षॆ पापग्रहराशी व्यवस्थितॊ भवति तदा रुचिरं शॊभनं वृक्ष कुभूमिजमशॊभनभूमिजातं वदॆत् | अन्यथा विपर्ययॆ विपरीतं वृक्षं करॊति | अंशपतिरशुभस्तत्कलं शुभग्रहराशिस्थॊ भवति तदा अशॊभनं वृक्षं शॊभनभूमिजातं वदॆत् | अर्थादॆव शुभक्षॆत्रस्थॆ शुभं वृक्षं शॊभनभूमिजातं वदॆत् | अशुभग्रहॆ अशुभक्षॆत्रस्थॆ अशॊभनं वृक्षमशॊभनभूमिजातं वदॆत् | परांशकॆ यावतीति | स्वस्थजलांशपतिग्रहः स्वकादात्मीयादंशकाद्विच्युतश्चलितॊ यावत्संख्यॆ परनवांशकॆ व्यवस्थितः स्वमंशमतिक्रम्य यावत्संख्यॆ परनवांशकॆ वर्ततॆ 89 तत्तुल्यास्तत्संख्यास्तथाविधास्तज्जातीयाश्च तरवॊ वृक्षा भवन्ति | तत्र पुनः संख्याकरणाद्विकल्पनादॆश इति | तथा च सारावल्याम् स्वांशात्परांशगामिषु यावत्संख्या भवन्ति तावन्तः | स्थलजा वा जलजा वा तरवः प्राक्संख्यया वाच्याः, इति | 8 || इति बृहज्जातकॆ श्रीभट्टॊत्पलटीकायां वियॊनिजन्माध्यायः || 3 || 90 अथ निषॆकाध्यायः || 4 || कुजॆन्दुहॆतु प्रतिमासमार्तवं गतॆ तु पीडक्षमनुष्णदीधितौ |  अतॊऽन्यथास्थॆ शुभपुंग्रहॆक्षितॆ नरॆण सँय्यॊगमुपैति कामिनी || 1 ||  भट्टॊत्पलः-अथातॊ निषॆकाध्यायॊ व्याख्यायतॆ | तत्रादावृतौ सति गर्भाधानमित्यत ऋतुनिरूपणमृतावपि स्त्रीपुरुषसंयॊगज्ञानं कंशस्थॆनाह कुजॆन्दुहॆत्विति | कुजॊ भौमः इन्दुश्चन्द्रः तौ हॆतुः कारणं निमित्तं यस्य रजसः तत्कुजॆन्दुहॆतु | प्रतिमासं मासं प्रतीति प्रतिमासम् | स्त्रीणां प्रतिमासमार्तवं कुजॆन्दुहॆतु | प्रतिमासग्रहणॆन प्रथमॊद्भूतरजॊनिवृत्तिं दर्शयन् गर्भग्रहणक्षममार्तवं प्रदर्शयति | ऋतौ भवमार्तवम् | कथमित्याह | गतॆ तु पीडक्षमनुष्णदीधिताविति | अनुष्णदीधितौ शीतमयूखॆ चन्द्रॆ पीडक्ष गतॆ | प्रकृतत्वात्स्त्रीणामनुपचयगृहाश्रित आर्तवं कारणं भवति | अर्थादॆवं यदि चन्द्रः कुजसंदृष्टॊ भवति ऎतदुक्तं भवति | स्त्रिया जन्मर् क्षादनुपचयस्थश्चन्द्रमास्तत्र च यद्यङ्गारकॆण दृश्यतॆ तदा गर्भग्रहणक्षम आर्तवहॆतुर्भवति, अन्यत्र बालवृद्धातुरवन्घ्याभ्यः | अत्र च बादरायणः | “स्त्रीणां गतॊऽनुपचयर्क्षमनुष्णरश्मिः संदृश्यतॆ यदि धरातनयॆन तासाम् | गर्भग्रहार्तवमुशन्ति तदा न बन्ध्यावृद्धातुराल्पवयसामपि चैतदिष्टम् |” तथा च सारावल्याम् अनुपचयराशिसंस्थॆ कुमुदाकरबान्धवॆ रुधिरदृष्ट | प्रतिमासं युवतीनां भवतीह रजॊ बुवन्त्यॆकॆ | इन्दुर्जलं कुजॊग्निर्जलमस्नं त्वग्निरॆव पित्तं स्यात् | ऎवं रक्तॆ क्षुभितॆ पित्तॆन रजः प्रवर्ततॆ स्त्रीषु | ऎवं यद्भवति रजॊ गर्भस्य निमित्तमॆव कथितं तत् | उपचयसंस्थॆ विफलं प्रतिमासं दर्शनं तस्य|” ऎवं गर्भग्रहणयॊग्यमार्तवं प्रदर्श्य स्त्रीपुरुषसंयॊगसम्भवासम्भवौ प्रदर्शयति | अतॊऽन्यथास्थ इति | अतॊऽन्यथॊक्तप्रकारादन्यथास्थॆ विपर्ययस्थॆ चन्द्रमसि तत्रॊक्तविपर्यस्थः पुरुषजन्मराशॆरुपचयस्थश्चन्द्रमा यदि भवति तस्मिञ्छुभॆन सौम्यॆन पुंग्रहॆण गुरुणॆक्षितॆ दृष्ट कामिनी स्त्री नरॆण पुरुषॆण सह संयॊगं मैथुनमुपैति गच्छतीति वक्तव्यम् | नन्वत्रातॊऽन्यथास्थ इति स्त्रिया उपचयस्थः कस्मान्न 91 व्याख्यायतॆ | अयुक्तमॆतत् प्राधान्यात्पुरुषस्यैव | यस्माद्बादरायणः | “पुरुषॊपचयगृहस्थॊ गुरुणा यदि दृश्यतॆ हिममयूखः | स्त्रीपुरुषसंप्रयॊगं तदा| वदॆदन्यथा नैव|” इति | सारावलीकारॆण सामान्यॆनॊक्तम् | तद्यथा‌उपचयभवनॆ शशभृद्दृष्टॊ गुरुणा सुहृद्भिरथवासौ | पुंसां करॊति यॊगं विशॆषतः शुक्रसंदृष्टः |” कस्मिन् कालॆऽयं विचारः | उच्यतॆ चतुर्थदिनॆ स्नातायाम् | तथा माणित्थः | “ऋतुविरमॆ स्नातायां यद्युपचसंस्थितः शशी भवति | बलिना गुरुणा दृष्टॊ भर्त्रा सह संगमश्च तदा | राजपुरुषॆण रविणा विटॆन भौमॆन वीक्षितॆ चन्द्रॆ | भृत्यॆन सूर्यपुत्रॆणायाति स्त्री संगमं हि तदा | ऎकैकॆन फलं स्याद्दृष्टॆ नान्यैः कुजादिभिः पापैः | सर्वैः स्वगृहं त्यक्त्वा गच्छति वॆश्यापदं युवतिः |” इति || 1 || 92 93 यथास्तराशिर्मिथुनं समॆति तथैव वाच्यॊ मिथुनप्रयॊगः |  असद्ग्रहालॊकितसंयुतॆऽस्तॆ सरॊष इटैः सविलासहासः || 2 ||  भट्टॊत्पलः-अथ मैथुनज्ञानप्रकारमिन्द्रवज्रयाह यथास्तराशिरिति | आधानलग्नात्प्रश्नलग्नाद्वायॊऽस्तराशिः सप्तमॊस्तलग्न स्तत्संज्ञकॊ यॊ जन्तुस्तन्मिथुनं स्त्रीपुमांसौ यथा यॆन प्रकारॆण समॆति संयॊगं सुरतं याति तॆनैव प्रकारॆण तस्य नरस्य मिथुनप्रयॊगः संयॊगॊ वाच्यॊ वक्तव्यः | तस्मिन्नॆवास्तॆ सप्तमॆ स्थानॆ असद्ग्रहालॊकितसंयुतॆ पापग्रहैर्दृष्टॆ युक्तॆ वा सरॊषः सकलहॊ मिथुनप्रयॊगॊ वाच्यः | इष्टैः सौम्यैर्युतदृष्टॆ सविलासहासः | विलासॊपहास सीत्कारादिसंयुक्तॊ मिथुनप्रयॊगॊ वाच्यः | अर्थादॆव न कॆनचिद्युतदृष्टॆ न सरॊष नापि सविलास इति | मिश्रयुतदृष्टॆ सरॊषः सविलासहासश्चॆति | तथा च सारावल्याम् | “द्विपदादयॊ विलग्नात् सुरतं कुर्वन्ति सप्तमॆ यद्वत् | तद्वत्पुरुषाणामपि गर्भाधानं समादॆश्यम् | अस्तॆ शुभयुतदृष्टॆ सरॊषकलहं भवॆद्ग्राम्यम् | सौम्यं सुरतं वात्स्यायनम्प्रयॊगिकाख्यातम्” इति || 2 || 94 रवीन्दुशुक्रावनिजैः स्वभागगैर्गुरौ त्रिकॊणॊदयसंस्थितॆऽपि वा |  भवत्यपत्यं हि विबीजिनामिमॆ करा हिमांशॊर्विदृशामिवाफलाः || 3 ||  भट्टॊत्पलः-अथ गर्भसम्भवासम्भवज्ञानं वंशस्थॆनाह रवीति | रविः सूर्यः इन्दुश्चन्द्रः शुक्रः सितः अवनिजॊऽङ्गारक ऎतैः स्वभागगैर्यत्र कुत्र राशौ स्वनवांशकस्खितैरपत्यं भवति | गर्भसम्भवॊ भवतीत्यर्थः| यदि च सर्वॆ स्वभागगा न स्युस्तदा पुरुषॊपचयर्क्षगाभ्यां सूर्यसिताभ्यां स्वनवांशकगाभ्यामॆव गर्भसम्भवॊ वाच्यः | ऎवं भौमचन्द्राभ्यां नार्युपचयक्षगाभ्यां स्वनवांशकस्थाभ्यामाधानकालॆऽवश्यमॆवापत्यं भवति | गर्भसम्भवॊ भवतीत्यर्थः|| यस्मादनॆनैव स्वल्पजातकॆ उक्तम् | “बलयुक्तौ स्वगृहांशॆष्वर्कसितावुपचयक्षगौ पुंसाम् | स्त्रीणां वा कुजचन्द्रौ यदा तदा गर्भसम्भवॊ भवति |” गुरौ त्रिकॊणॊदयसंस्थॆऽति वॆति | गुरौ बृहस्पतौ त्रिकॊणयॊर्नवमपञ्चमयॊरुदयॆ लग्नॆऽपि वा संस्थितॆ ऎषामन्यतमस्थानस्थॆऽपि भवत्यपत्यसम्भवः | विबीजिनामिमॆ | इति हि यस्मादर्थॆ इमॆ हि यॊगाः विबीजिनां षण्ढानां विगतं बीजवीर्य यॆषां स्त्रीपुरुषाणां तॆषामफला इति | यथा हिमांशॊः शीतरश्मॆः चन्द्रस्य करा रश्मयॊ विद्यमाना अपि विदृशामन्धानामफला निष्फला भवन्ति | विगता दृशॊ यॆषां तॆ विदृशास्तॆषामिवॆति | 3 || 95 दिवाकरॆन्द्वॊः स्मरगौ कुजार्कजौ गदप्रदौ पुङ्गलयॊषितॊस्तदा |  व्ययस्वगौ मृत्युकरौ युतौ तथा तदॆकदृष्टया मरणाय कल्पितौ || 4 ||  भट्टॊत्पलः-अधुना स्त्रीपुंसयॊराधानकालवशादाप्रसवावदि यावच्छुभाशुभज्ञानं वंशस्थॆनाह दिवाकरॆति | दिवाकरात्सूर्यात्स्मरगौ सप्तमस्थानस्थौ कुजार्कजौ कुजॊऽङ्गारकः अर्कजः सौरि ऎतौ यदि भवतस्तदा पुङ्गलस्य मनुष्यस्य गदप्रदौ रॊगप्रदौ भवतः ऎतदुक्तं भवति | आधानकालॆ यत्रार्कः स्थितस्तस्मात्सप्तमॆ स्थानॆ यदाङ्गरकॊ भवति तदा पुंसॊ रॊगप्रदॊ भवति स्वमासॆ | ऎवमिन्दॊश्चन्द्रास्सप्तमॊ भौमः सौरॊ वा भवति तदा यॊषितः स्त्रिया रॊगप्रदॊ भवति स्वमासॆ ऎव | व्ययस्वगौ मृत्युकराविति | तावॆव कुजसौरौ व्ययस्वगौ द्वादशद्वितीयगौ तयॊर्दिवाकरॆन्द्वॊः सकाशादुभयत्र पार्श्वस्थितौ तदा पुङ्गलयॊषितॊः स्त्रीपुरुषयॊर्मृत्युकरौ भवतः ऎवदुक्तं भवति | सूर्यादॆकौ द्वादशॆ द्वितीयॊ द्वितीयॆ तदा तयॊर्मध्यॆ यॊ बलवान् स स्वमासॆ मृत्युकरॊ नरस्य भवति | चन्द्रादष्यॆवं व्यवस्थितौ यथा चन्द्रादॆकॊ द्वितीयॊ द्वितीयॆ तदा तर्यॊर्मध्यॆ यॊ बलवान्स स्वमासॆ मृत्युकरः स्त्रिया भवति | युतौ तथॆति | तदिति कुजसौरयॊः परामर्शः | तयॊः कुजसौरयॊरुभयॊर्मध्याद्यदैकॆनादित्यॊ युतॊ भवत्यन्यॆन दृश्यतॆ तदा नरस्य मरणाय कल्पितॊ निश्चितः | ऎवं चन्द्रमा यद्यॆकॆन युक्तॊ भवत्यरॆण दृष्टस्तदा स्त्रिया मरणाय कल्पितः | द्वयॊर्मध्यॆ यॊ बलवांस्तस्य मास इति | 4 || 96 दिबार्कशुक्रौ पितृमातृसब्झितौ शनैश्चरॆन्दू निशि तद्विपर्ययात् |  पितृव्यमातृष्वसृसब्झितौ च तावथौजयुग्मक्षगतौ तयॊः शुभौ || 5 || भट्टॊत्पलः-अथ निषिक्तस्य पितृमातृपिव्यमातृष्वसृणां शुभाशुभज्ञानं वंशस्थॆनाह दिवार्कशुक्राविति | दिवा दिनॆ निषिक्तस्य जातस्य वा जन्तॊर्यथाक्रमं पितृमातृसंज्ञितावर्कशुक्रौ भवतः पितृसंज्ञकॊऽर्कॊ मातृसंज्ञकः शुक्रः | ऎवमॆव निशि रात्री निषिक्तस्य जातस्य वा शनैश्चरॆन्दू सौरचन्द्रॊ यथाक्रमं पितृमातृसञ्ज्ञितौ भवतः | तत्र शनैश्चरः पितृसञ्ज्ञकः चन्द्रॊ मातृसञ्ज्ञकः | तद्विपयर्यादिति | तद्विपयर्याद्दिवारात्रित्यत्ययात्तावॆव पूर्वॊक्तौ ग्रहौ पितृव्यमातृष्वसृसञ्ज्ञितौ भवतः | तत्र दिवा निषिक्तस्य जातस्य वार्कः पितृव्यसञ्ज्ञः शुक्रॊ मातृष्वसृसञ्ज्ञः | तत्सञ्ज्ञयॊः प्रयॊजनं तावथौजयुग्मर्क्षगतौ शुभौ ज्ञॆयौ | ऒजा विषमराशयॊ युग्माः समराशयः | तत्र दिवार्कॊ विषमर्क्षगॊ मॆषमिथुनसिंहतुलाधन्विकुंभानामन्यतमस्थः पितुः शुभकृत् रात्रौ पितृव्यस्य | तथा दिवा शुक्रः समक्षगॊ वृषकर्कटकन्यावृश्चिकमकरमीनानामन्यतमस्थॊ मातुः शुभकृत् रात्रौ मातृष्वसुः | शनैश्चरॊ रात्रौ विषमर्क्षगतः पितुः शुभकृत दिवा विषमर्क्षगः पितृव्यस्य | तथा चन्द्रॊ रात्रौ समर्क्षगॊ मातुः शुभकृत दिवा मातृष्वसुः सामर्थ्यादॆवॊक्तम् | विपर्ययस्थः स ऎवॊक्तयॊरक्षुभः | यथा दिवा समक्षॆत्रगतॊऽर्कः पितुरशुभॊ रात्रौ पितृव्यस्य | दिवा विषमर्क्षगतः शुक्रॊ मातुरशुभॊ रात्रौ मातृष्वसुः रात्रौ समक्षॆत्रगतः शनैश्चरः पितुरशुभॊ दिवा पितृव्यस्य | रात्रौ विषमक्षगतश्चन्द्रमा मातुरशुभॊ दिवा मातृष्वसुरिति | 5 | 97 अभिलषद्भिरुदयक्ष मसद्भिर्मरणमॆति शुभदृष्टिमयातॆ |  उदयराशिसहितॆच यमॆ स्त्री विगलितॊडुपतिभूसुतदृष्टॆ | 6 ||  भट्टॊत्पलः-अथाधानप्रश्नमध्यॆ आधानकालवशान्मातुर्मरणयॊगद्वयं द्रुतपदॆनाह--अभिलषद्भिरिति | उदयक्षमुदयलग्नमसद्धिः पापग्रहैरभिलषद्भिः तत्रॊदयलग्नाभिलाषुकैः कैश्चिल्लग्नाद्द्वतीयस्थग्रहस्य व्याख्यातम् | तॆषामभिमतं यथा उदयलग्नादनन्तरं तदुदयस्य प्रत्यासन्नतयाभिलषंत्युदयर्क्षमिति| अन्यॆ पुनर्लग्नाद्द्वादशस्थानस्य ग्रहस्यॊदयक्षाभिलाषं कथयन्ति | यस्मात्तद्विहायॊदयराशिगमनं ग्रहः करॊति | ऎवं लग्नाद्द्वादशस्थैः पापैर्लग्नॆ यदि शुभदृष्टि सौम्यग्रहदर्शनमयातॆ अप्राप्तॆ सौम्यग्रहैरदृश्यमानॆ स्त्री यॊषिद्गर्भिणी मरणमॆति मृत्युं प्राप्नॊति | अत्र च भगवान् गार्गिः | “अशुभैर्द्वादशर्क्षस्थैः शुभदृष्टिविवर्जितैः | आधानलग्नॆ मरणं यॊषितः प्रवदॆद्बुधः |” इति | यॊगान्तरमाह-- | उदयराशिसहितॆ च यमॆ इत्यादि | यमॆ शनैश्चरॆ उदयराशिसहितॆ लग्नस्थॆ तरिंमश्च विगलितॆनॊडुपतिना नक्षत्रस्वामिना क्षीणचन्द्रॆण भूसुतॆनाङ्गरकॆण च दृष्टॆऽवलॊकितॆ स्त्री गर्भिणी मरणमॆति || 6 || 98 पापद्वयमध्यसंस्थितौ लग्नॆन्दू न च सौम्यवीक्षितौ | युगपत्पृथगॆव वा वदॆन्नारी गर्भयुता विपद्यतॆ | 7 || भट्टॊत्पलः-अथ यॊगान्तरं वैतालीयॆनाह पापॆति | लग्नमुदयराशिः इन्दुश्चन्द्रः ऎतौ लग्नॆन्दू पापद्वयमध्यसंस्थितौ लग्नस्थॆ चन्द्रमसि यद्यॆकः पापग्रहॊ द्वादशस्थॊ भवति द्वितीयस्थॊऽपरस्तदा लग्नॆन्दू युगपतुल्यकालं पापद्वयमध्यगावुच्यॆतॆ | अथ लग्नॆन्दू विप्रकृष्टांशकान्वितौ भवतस्तत्र चैकः पापस्तावप्राप्य स्थितॊऽपरस्तावतिक्रम्य स्थितस्तदापि लग्नॆन्दू पापद्वयमध्यगावुच्यॆतॆ | अथवा द्वादशस्थानॆ ऎकः पापाऽपरॊः द्वितीय तृतीयॆ चन्द्रश्चतुर्थॆ च पापॊ भवति तदापि लग्नॆन्दू पापद्वयमध्यगावुच्यॆतॆ | ऎवं लग्नॆन्दू यदि युगपत्पापद्वयमध्यगतौ न च सौम्यवीक्षितौ शुभग्रहावलॊकितौ न भवतस्तदा| नारी स्त्री गर्भयुता विपद्यतॆ म्रियतॆ | पृथगॆवॆति | अथवा पृथक्स्थौ लग्नॆन्दू भवतस्तयॊर्मध्यादॆकतरॊऽपि पापद्वयमध्यगतॊ भवति सौम्यग्रहादृष्टश्च तदा नारी गर्भयुता विपद्यतॆ | अथवा लग्नादॆकादशॆ चन्द्रॊ द्वितीयतृतीयद्वादशगाः पापास्तथापि लग्नॆन्दू पापद्वयमध्यगौ भवतः | युगपद्ग्रहणं पादपूरणार्थं विस्पष्टार्थ वा | तदर्थस्य पृथगॆव सामथ्र्याल्लब्धत्वात् | तत्र यॊगकर्तृणां ग्रहाणां मध्याद्या बली तन्मासि गभिर्णीमरणं भवतीति सर्वत्र परिभाषा | 7 || क्रूरॆ शशिनश्चतुर्थॆ लग्नाद्वा निधनाश्रितॆ कुजॆ |  बन्ध्वन्त्यगयॊः कुजार्कयॊः क्षीणॆन्दौ निधनाय पूर्ववत् || 8 ||  भट्टॊत्पलः-अथान्ययॊगान्तराणि वैतालीयॆनाह क्रूर इति | शशिनश्चन्द्रात्क्रूरॆ पापग्रहॆ चतुर्थस्थानस्थॆ निधनाश्रितॆऽष्टमस्थानस्थॆ कुजॆ भौमॆ ऎकॊ यॊगः अथवा लग्नाच्चतुर्थॆ पापॆ अष्टमॆ भौमॆ द्वितीयॊ यॊगः | बन्ध्वंत्यगयॊः कुजार्कयॊरति | लग्नाद्वन्धुगॆ चतुर्थस्तॆ 99 भौमॆऽन्त्यगॆ द्वादशस्थानस्थॆऽर्कॆ सूर्यॆ यत्र तत्रस्थॆ क्षीणॆन्दौ परीक्षणॆ चन्द्रॆ तृतीयॊ यॊगः | ऎषामाधानकालॆ कतमस्य सम्भवॆ मरणाय पूर्ववन्नारी गर्भयुता विपद्यत इति | 8 || उदयास्तगयॊः कुजार्कय्~ऒर्निधनं शस्त्रकृतं वदॆत्तथा |  मासाधिपतौ निपीडितॆ तत्कालं मरणं समादिशॆत् || 9 ||  भट्टॊत्पलः-अधुना मातुः शस्त्रनिमित्तं मरणयॊगं गर्भस्नावं चाधानलग्नवशाद्वैतालीयॆनाह‌उदयास्तॆति | निषॆककालॆ कुजार्कयॊभौमसूर्ययॊर्यथासंख्यमुदयास्तगयॊर्लग्नसप्तमस्थयॊर्लग्नॆ भौमॆ सप्तमस्थॆऽर्कॆ गर्भयुताय स्त्रियः शस्त्रकृतं शस्त्रहॆतुकं मरणं निधनं वदॆत् ब्रूयात् | यथा तॆनैव प्रकारॆणॆति | नारी गर्भयुता विपद्यत इत्यर्थः | मासाधिपताविति | गर्भमासॆषु मासाधिपान्वक्ष्यति कललघनॆत्यादिना | तत्र निषॆककालॆ यॊ ग्रहॊ यॆन ग्रहॆण युद्धॆ विजितॊ भवति कॆतुनावधूमित उल्कया चाभिहतः सॊऽपि निपीडित इत्युच्यतॆ तस्यापि निपीडितस्य ग्रहस्य यॊ भवति मासॊ यस्मिन्मासॆ मासाधिपत्यं तस्य भवति तत्कालं तस्मिन्कालॆ गर्भस्रवणं च्युति समादिशॆद्वदॆन् || 9 || 100 101 ऒजर् क्षॆ पुरुषांशकॆषु बलिभिर्लग्नार्कगुर्विन्दुभिः  पुञ्जन्म प्रवदॆत्समांशकगतैर्युग्मॆषु तैर्यॊषितः |  गुर्वर्कौ विषमॆ नरं शशिसितौ वक्रश्च युग्मॆ स्त्रियं द्वयङ्गस्था बुधवीक्षणाच्च यमलौ कुर्वन्ति पक्षॆ स्वकॆ || 11 ||  भट्टॊत्पलः-अथ निषिक्तस्य निषॆककालाज्जातस्य जन्मकालादुभयॊरपि प्रश्नकालाद्वापुंस्त्रीविभागज्ञानं शार्दूलविक्रीडितॆनाह‌ऒजक्षॆ पुरुषांशकॆष्विति | लग्नमुदयलग्नम् अर्क आदित्यः गुरुजीवः इन्दुश्चन्द्रः ऎतैर्लग्नार्कगुर्विन्दुभिरॊजर्क्षस्थैर्विषमराशिव्यवस्थितैर्न कॆवलं यावद्विषमराशिव्यवस्थितैर्विषमनवांशगतैर्बलिभिश्च पुंसॊ जन्म वदॆत् | नन्वत्र विषमनवांशग्रहणं नास्ति कथं व्याख्यातं विषमनवांशकगैरिति | उच्यतॆ | पुरुषांशकॆष्विति वचनात्पुरुषराशीनामंशकॆष्वित्यर्थः | यतॊ य ऎव विषमराशयस्त ऎव पुरुषराशयः | समांशकगतैर्युग्मॆष्विति | तैरॆव यावत्समांशकगतैर्युग्मराशिनवांशगैर्बलिर्भिश्च यॊषितः स्त्रिया जन्म वदॆत् | अथैषां यथाभिहितानां लग्नग्रहाणामुभयविकल्पगानां बाहुल्यात्पुंस्त्रीनिर्दॆशः | साम्यॆ बलाधिकत्वात् | गुर्वकविति | गुरुजीवः अर्क आदित्यः ऎतावुभावपि विषमॆ विषमराशौ गतौ यत्र तत्र नवांशकस्थौ नरं पुरुषं कुर्वतः | बलग्रहणमप्यत्रानुवर्ततॆ | शशी चन्द्रः सितः शुक्रः वक्रॊऽङ्गारक ऎतॆ यदि सबलाः युग्मॆ समराशौ गता यत्र तत्र नवांशकस्थाः स्त्रियं जनयन्ति | द्वयंगस्था इति | ऎत ऎव द्वयंगस्था यत्र तत्र राशौ द्विशरीरनवांशकस्था बुधवीक्षाच्च बुधदृष्ट्या यमलौ द्वौ स्वपक्षॆ कुर्वन्ति | स्वपक्षॆ आत्मीयपक्षॆ आत्मीयपुरुषनवांशकॆ स्त्रीनवांशकॆ स्त्रीनवांशकॆ चॆत्यर्थ | ऎतदुक्तं भवति | चत्वारॊ द्विस्वभावा मिथुनकन्याधन्विमीनाः तत्र मिथुनधन्विनौ पुरुषांशकौ | कन्यामीनौ स्वत्र्यंशकौ तॆन यथासम्भवं मिथुनधन्व्यंशगतावादित्यजीवौ यदि बुधॆन यत्र तत्रावस्थितॆन दृश्यॆतॆ तदा यमलौ द्वौ पुरुषौ वाच्यौ | ऎवं यथासम्भवं कन्यामीनांशकगताः शशिशुक्रभौमाः यत्र तत्रावस्थितॆन बुधॆन दृश्यन्तॆ तदा यमलॆ द्वॆ कन्यॆ वाच्यॆ | अथ द्वावॆव वर्गॊ यथा दर्शितस्थौ बुधः पश्यति तदैकः पुरुषॊ द्वितीया च कन्या | 102 नन्वत्रांशकग्रहणं नास्ति तत्कथं व्याख्यातं द्विशरीरनवांशकॆ स्थिता इति | अनॆनैव स्वल्पजातकॆ उक्तम् | “बलिनौ विषमॆऽर्कगुरु नरं स्त्रियं समगृहॆ कुजॆन्दुसिताः | यमलौ द्विशरीरांशॆष्विदुदृष्ट्या स्वपक्षगमौ || इति | अन्यथा पुनरुक्तता स्यात् | ऒजर्क्षॆपुरुषांशकॆष्वित्यनॆनैव गतार्थत्वात् | बलग्रहणमत्रानुवर्तनीयमिति||11|| विहाय लग्नं विषमर्क्षसंस्थः सौरॊऽपि पुञ्जन्मकरॊ विलग्नात् |  प्रॊक्तग्रहाणामवलॊक्य वीर्यं वाच्यः प्रसूतौ पुरुषॊऽङ्गना वा || 12 ||  भट्टॊत्पलः-अथ पुञ्जन्मयॊगान्तरमुपॆन्द्रवज्रयाह विहाय लग्नामिति | उक्तयॊगाभावस्यावसरॆ नान्यथा आधानपृच्छाकालिकं वा लग्नं विहाय त्यक्त्वा सौरः शनैश्चरॊ लग्नाद्विषमर्क्षगतस्तृतीयपञ्चमसप्तमनवमैकादशस्थानानामन्यतमस्थः पुंजन्मकरः पुरुषजन्मकरॊ भवति | प्रॊक्तग्रहाणामिति | प्रॊक्तग्रहाणां कथितयॊगकर्तृणां ग्रहाणां वीर्यं बलमवलॊक्य विचार्य प्रसूतौ प्रसवकालॆ पुरुषॊ नरॊऽङ्गना स्त्री वा वक्तव्या | ऎतदुक्तं भवति | यत्र पुरुषॊ वाच्यः | यदा यॊगद्वयसम्भवॊ भवति तदा यॊ यॊगॊ बलवद्ग्रहाभिनिर्मितस्तद्वशात्पुंस्त्रीजन्म वक्तव्यम् || 12 || 103 अन्यॊऽन्यं यदि पश्यतः शशिरवी यद्यार्किसौम्यावपि वक्रॊ वा समगं दिनॆशमसमॆ चन्द्रॊदयॊ चॆस्थितौ | युग्मौजक्षगतावपीन्दुशशिजौ भूम्यात्मजॆनॆक्षितौ | पुम्भागॆ सितलग्नशीतकिरणाः स्युः क्लीबयॊगाश्च षट् || 13 ||  भट्टॊत्पलः-अथ क्लीबजन्मयॊगाञ्छार्दूलविक्रीडि तॆनाह अन्यॊऽन्यमिति | शशी चन्द्रः रविरादित्यः ऎतौ शशिरवी यथाक्रमं युग्मौजक्षगतौ समविषमराशिस्थावन्यॊन्यं परस्परं यदि पश्यतः समराशिगतमर्क पश्यत्यर्कश्च शशिनं पश्यति तदा क्लीबजन्मयॊग ऎकः | यद्यार्किसौम्यावपीति| आर्किः सौरः सौम्यॊ बुधः ऎतावार्किसौम्यॊ यथाक्रमं युग्मौजक्षगतौ अन्यॊन्यं यदि पश्यतस्तदा द्वितीयॊ यॊगः | वक्रॊ वा समगमिति | वक्रॊऽङ्गारकॊ विषमर्क्षगः समगं समराशिस्थं दिनॆशं सूर्यं पश्यति सूर्यश्चाङ्गारकं तदा तृतीयॊ यॊगः | असमॆ चन्द्रॊदयौ चॆदिति | चन्द्रः शशी उदयॊ लग्नमॆतावसमॆ विषमराशाववस्थितौ भूम्यात्मजॆनाङ्गरकॆण समराशिगॆनॆक्षितौ दृष्टौ तदा चतुर्थी यॊगः | युग्मौजर्क्षगतावपीति | इन्दुश्चन्द्रः शशिजॊ बुधः ऎतौ यथासंख्यं युग्मौजर्क्षगतौ समविषमराशिगौ भूम्यात्मजॆन भौमॆन यत्र तत्रावस्थितॆन वीक्षितौ| दृष्टौ तदा पञ्चमॊ यॊगः | पुम्भाग इति | सितः शुक्रः लग्नमुदयलग्नं शीतकिरणश्चन्द्रः ऎतॆ सितलग्नशीतकिरणाः यत्र तत्र राशौ पुम्भागॆ विषमनवांशकॆ व्यवस्थिता भवन्ति तदा क्लीबजन्मयॊगः षष्ठः | तथा च बादरायणः | 104 अन्यॊऽन्यं रविशशिनौ विषमौ विषमक्षगौ निरीक्ष्यॆतॆ | इन्दुजरविपुत्रौ वा तथैव नपुंसकं कुरुतः | वक्रॊ विषमॆ सूर्यः समगश्चैवं परस्परालॊकात्| विषमर्क्षॆ लग्नॆन्दू समराशिगतः कुजॊऽवलॊकयति | बुधचन्द्रॊ कुजदृष्टी विषमक्षसमक्षीगौ तथैवॊत्तौ | औजनवांशकसंस्था लग्नॆन्दुसितास्तथैवॊक्ताः |” इति ऎतॆ यॊगाः पूर्वयॊगानामभावॆ वक्तव्याः | तॆषां यॊगानामॆतॆषां च संभवॆ तॆषामॆव बलवत्त्वम् | 13 || युग्मॆ चन्द्रसितौ तथौजभवनॆ स्युज्ञारजीवॊदया लग्नॆन्दू नृनिरीक्षितौ च समगौ युग्मॆषु वा प्राणिनः |  कुर्युस्तॆ मिथुनं ग्रहॊदयगतान्द्वयङ्गाशकान् पश्यति स्वांशॆ ज्ञॆ त्रितयं ज्ञगांशकवशाद्युग्मं त्वमिश्रैः समम् || 14 ||  भट्टॊत्पलः-अधुना द्वित्रिगर्भसंभवयॊगाञ्छार्दूलविक्रीडि तॆनाह 105 युग्मॆ चन्द्रसिताविति | चन्द्रसितौ शशिशुक्रौ युग्मॆ समराशौ व्यवस्थितौ तथा तॆनैव प्रकारॆण ज्ञारजीवॊदयाः ज्ञॊ बुध आरॊऽङ्गारकः जीवॊ बृहस्पतिः उदयॊ लग्नम् ऎतॆ सर्वॆ ऎवौजभवनॆ विषमराशौ स्युर्भवॆयुः ऎवमॆतॆ मिथुनं कुर्युः दारिकां दारकञ्च | लग्नॆन्दु उदयचन्द्रॊ समगौ युग्मराशिव्यवस्थितौ नृनिरीक्षितौ नरग्रहॆण यॆन कॆनचित् दृष्टौ भवतस्तथापि मिथुनं गर्भस्थं वाच्यम् | युग्मॆषु वा प्राणिनः | त| ऎव पूर्वॊक्ता ज्ञारजीवॊदयाः सर्व ऎव युग्मॆषु समराशिषु स्थिताः प्राणिनॊ बलिनॊ भवन्ति तदापि मिथुनं कुर्युः | ग्रहॊदयगतानित्यादि | ग्रहाः सर्व ऎव द्वयङ्गांशकॆषु द्विस्वभावनवांशकॆषु गताः प्राप्ताः उदयॊ लग्न च द्वयंशांशकॆषु गतः यान्ग्रहॊदयगतान् द्वयङ्गांशकान् स्वांशॆ स्वनवांशकस्थॆ ज्ञॆ बुधॆ पश्यति सति तदा त्रितयं वक्तव्यम् | तत्रायं विशॆषः | ज्ञगांशकवशाद्युग्मं त्विति | ज्ञॊ बुधॊ गतॊ व्यवस्थितॊ यस्मिन्नवांशकॆ तद्वशाद्युग्मम् | बुधॊ यस्मिन्नवांशकॆ व्यवस्थितः स यल्लिगांशकस्तल्लिगं तत्र गर्भॆ युग्मं वक्तव्यम् | ऎकस्तद्विपरीतः | ऎतदुक्तं भवति | मिथुनांशस्थॊ बुधॊ यदाग्रहॊदयगतान् द्वयङ्गांशकान्पश्यति तदा गर्भॆ दारकद्वयं दारिका चैका वक्रव्या | अथॊ कन्यानर्वाशकस्थॊ| बुधॊ द्वयङ्गशकव्यवस्थितान् ग्रहॊदयान्पश्यति तदा गर्भ दारिकाद्वयमॆकॊ दारकश्च वक्तव्यम् | अमिश्रॆः सममिति | तैग्रीहॊदयबुधैरमिश्रस्थितैर्द्धिस्वभावसमानलिङ्गस्थितैस्त्रितयं सममॆकलिङ्गं वक्तव्यम् | ऎतदुक्तं भवति | मिथुननवांशकव्यवस्थितॊ बुधॊ मिथुनधन्विव्यंशकव्यवस्थितान् ग्रहॊदयान् पश्यति तदा गर्भॆ दारकत्रितयं वक्तव्यम् | अथ कन्यांशकव्यवस्थितॊ बुधः कन्यामीनांशकव्यवस्थितान् ग्रहॊदयान्पश्यति तदा गर्भॆ दारिकात्रितयं वाच्यमिति|मिथुनजन्मकरौ | उदयज्ञवक्रगुरवॊ बलिनः समराशिगास्तथैवॊक्ताः | द्विशरीरांशकयुक्तान्ग्रहान् विलग्नं च पश्यतीन्दुसुतॆ | कन्यांशॆ कन्यॆ द्वॆ पुरुषश्चॆकॊ निषिच्यतॆ गर्भॆ | मिथुनांशॆ कन्यैका द्वौ पुरुषौ त्रितयमॆवं स्यात् | मिथुनधनूराशिगतान्ग्रहान्विलग्नं च पश्यतीन्दुसुतः | मिथुनांशस्थस्च यदा 106 पुरुषत्रितयं तदा गर्भॆ | कन्यामीनांशस्थान्विहगानुदय च युवतिभागगतः | पश्यति शीतगुतनयः कन्यात्रितयं तदा गर्भॆ || 14 ||  धनुर्धरस्यान्त्यगतॆ विलग्नॆ ग्रहैस्तदंशॊपगतैर्बलिष्ठॆः |  ज्ञॆनार्किणा वीर्ययुतॆन दृष्टॆ सन्ति प्रभूता अपि कॊशसंस्थाः | 15 ||  भट्टॊत्पलः-अधुना त्र्यधिकगर्भसम्भवयॊगज्ञानमुपजातिकयाह धनुरिति | धन्विलग्नॆ धनुर्धरांशकॆ वा लग्नमुपगतॆ यत्र तत्र राशौ व्यवस्थितैः सर्वग्रहैर्धन्व्यंशॊपगतैः बलिष्ठैवीर्यवद्भिश्च ज्ञॆन बुधॆन आर्किणा च शनैश्चरॆण वीर्ययुतॆन बलवता दृष्टॆऽवलॊकितॆ प्रभूता बहवः कॊशसंस्था जरायुवॆष्टितविग्रहा गर्भॆ सन्ति भवन्ततीति पञ्च सप्तदश यावत् || 15 ||  107 भवति शुभाशुभं च मासाधिपतॆः सदृशम् || 16 ||  भट्टॊत्पलः-पूर्वमुक्तं “गर्भमासाधिपतौ निपीडितॆ तत्कालं श्रवणं समादिशॆत् |” इति तदधुना गर्भस्य मासाधिपान्कुटकॆनाहकलल इति | सिताद्या ग्रहा गर्भस्य प्रथममासात्प्रभृति कललादीनि भवन्ति वर्तयन्ति | तद्यथा | गर्भस्य प्रथमॆ मासि कललं भवति | शुक्रशॊणितॆ घनॆ संमिश्रॊभूतॆ तत्र गर्भस्य तस्मिन्मासॆ सितः शुक्रॊऽधिपतिः | द्वितीयॆ घनता काठिन्यं भवति तत्र कुजॊऽङ्गारकॊऽधिपतिः | तृतीयॆऽङ्कुरॊत्पत्तिर्हस्ताद्यवयवजन्म तत्र जीवॊ बृहस्पतिरधिपतिः | चतुर्थॆऽस्थिसम्भवः तत्र सूर्यॊ रविरधिपतिः | पञ्चमॆ चर्मसम्भवस्तत्र चन्द्रॊऽधिपतिः | षष्ठॆऽङ्गजसम्भवॊ लॊमजन्म तत्रार्किः सौरॊऽधिपतिः | सप्तमॆ चॆतनता सम्भवति चॆतनता स्वभावः तत्र बुधॊऽधिपतिः | बुधमासात्परतॊऽन्यॆ शॆषा मासास्तॆ गर्भस्याशनॊद्वॆगप्रसवकरास्तॆ चॊदयपतिचन्द्रसूर्यनाथाः स्वामिनः क्रमशॊः गदिता उक्ताः | तत्राष्टमॆ मासि गर्भस्थॊ जन्तुरशनं करॊति | मात्रा भुक्तं पीतं रसादि तस्य नाभिलग्ननालॆन संक्रमतॆ | तत्र गर्भाधानलग्नाधिपतियाँ ग्रहः स मासाधिपतिः | नवमॆ गर्भस्थस्यॊद्वॆगॊ भवति तत्र चन्द्रॊऽधिपतिः | दशमॆ गर्भस्य प्रसवः प्रसूतिर्भवति तत्र सूर्यॊ रविरधिपतिः तथा च स्पल्पजातकॆ | “कललघनावयववास्थित्वग्रॊमस्मृद्भवाः क्रमशः | मासॆषु शुक्रकुजजीवसूर्यचन्द्रार्किसौम्यानाम् | अशनॊद्वॆगप्रसवाः परतॊ लग्नॆशचन्द्रसूर्याणाम् |” इति | अत्र प्रथमद्वितीयमासाधिपयॊर्यवनॆश्वरॆण सह मतभॆदः | तथा तद्वाक्यम् | “कुजास्फुजिज्जीवरवीन्दुसौरशशॊकलग्नॆन्दुर्दिवाकराणम् | मासाधिपत्यप्रभवॊ न चॆषां जयॊपघातैग्रहवद्भवन्ति | आद्यॆ तु मासॆ कललं द्वितीयॆ पॆशिस्तृतीयॆऽपि भवन्ति शाखाः | अस्थीन्यथ स्नायुशिराश्चतुर्थॆ मज्जान्त्रचर्माण्यापि पञ्चमॆ तु | 108 षष्ठॆ त्वसृग्रॊमनखैर्यकृच्च चॆतस्विता सप्तममासि चिन्त्या |तृष्णाशनास्वादनमष्टमॆ स्यात् स्पर्शॊपरॊधॊ नवमॆ रतिश्च | स्नॊतॊभिरुद्घाटितपूर्णदॆहॊ गर्भॊऽर्कमासॆ दशमॆ प्रसूतॆ |” आचार्यस्य बहुमतमासानामभिमतमिति भवति शुभाशुभं च मासाधिपतॆः सदृशम्| सर्वस्थस्य मासाधिपतिसदृशं शुभमशुभम् फलम् भवति | ऎतदुक्तं भवति | आधानकालॆ यॊ ग्रहॊ निपीडितॊ भवति तन्मासि गर्भस्य पतनम्| कलुषॆ नन्दरश्मौ विवर्णॆ पीडनम् | निर्मलॆंऽशुजालसम्पन्नॆ बलवति पुष्टिरिति | तथा च सूक्ष्मजातकॆ| “कलुषैः पीडा पतनं निपीडितैर्निर्मलैः पुष्टि |” इति | अथ चान्यैः शास्त्रकारैर्विशॆष उक्तः | तत्किञ्चित्प्रदृश्यतॆ | तथा च सारावल्याम् | “तत्र शुभाशुभमिश्रैः कर्मभिरधिवासिता विषयवृत्तिः | गर्भावासॆ निपतति संयॊगॆ शुक्रशॊणितयॊः | मिथुनस्य मनॊभावॊ यादृङ्मदालस्यतॊ सौम्यस्ततुल्यगुणं सुतं समाधतॆ | पितृजननीसादृश्यं रवॆः शशांकस्य बलयॊगात् |”सुबॊधमॆतत्||16|| 109 नवम मास कॆ चन्द्र ग्रहाधिपति कॆ समय मॆं गर्भस्थ बालक कॊ उद्वॆग उद्भ्रम (सुपारी की तरह उछाल) हॊनॆ लगता है | गर्भाधान सॆ दशम मास कॆ अधिपति सूर्य ग्रह कॆ समय मॆं गर्भ सॆ च्युत हॊकर बालक इस पवित्र सभी प्राणियॊं की मात्र ऎक जननी भूमिपृष्ठ पर दृश्य हॊता है या अवतरित हॊता है | 16 || त्रिकॊणगॆ ज्ञॆ विबलैस्ततॊ परैर्मुखाडघ्रिहस्तद्विगुणस्तदा भवॆत् |  अवाग्गवीन्दावशुभैर्भसन्धिगैः शुभॆक्षितैश्चॆत्कुरुतॆ गिरं चिरात् | 17 ||  भट्टॊत्पलः-अधुनाधिकाङ्गमूकचिरलब्धगिरां सम्भवयॊगान्वंशस्थॆनाह त्रिकॊणगॆ इति | ज्ञॆ बुधॆ त्रिकॊणगॆ लग्नान्नवमस्थॆ पञ्चमस्थॆ वा ततः तस्माद्बुधादपरैरन्यैः सर्वैग्रहैर्यत्र तत्रावस्थितैर्विबलैर्वीर्यरहितैर्मुखांघ्रिहस्तद्विगुणॊ गभस्थॊ वाच्यः | द्विशिराश्चतुश्पाच्चतुर्भुज इत्यर्थः | त्रिकॊणगॆ बुधॆ कन्यागतम् इत्याहुः | तच्चायुक्तम् | यस्माद्भगवान्गार्गिः |“बलहीनैग्रहै सर्वैर्नवपञ्चमगॆ बुधॆ| द्विगुणांघ्रिशिरॊहस्तॊ भवत्यॆकॊदरस्तथा |” अवागिति | गवि वृषॆ स्थितॆ इन्दौ चन्द्रॆऽशुभैः पापैर्भसन्धिगैः | कर्कटवृश्चिकमीनानामन्त्यनवांशकस्थैर्यथासम्भव सर्वॆरॆवान्त्यनवांशकस्थैः अवाङ मूकॊ गर्भस्थॊ वाच्यः | शुभॆक्षित इति | चॆच्छब्दॊ यद्यर्थॆ | ऎवंविधॆ यॊगॆ यदि शुभॆक्षितः सौम्यग्रहदृष्टश्चन्द्रॊ भवति तदा जातस्य चिराद्बहुना कालॆन गिरं वाचं कुरुतॆ अर्थादॆव पापवीक्षितॆ वाग्घीन इति | ऎवं यॊगॆ मिश्रग्रहवीक्षिता यदा सौम्या बलिनस्तदा चिरॆण कालॆन लब्धवाग्भवति | यदा पापा बलिनस्तदा नैवॆति | अत्र च भगवान्गार्गिः |“कुलीरालिझषांतस्थैः पापैश्चचन्द्रॆ वृषॊपगॆ | मूकः पापॆक्षितैः सौम्यश्चिरॆण लभतॆ गिरम् | मिश्रदृष्टैग्रहैर्हीनैर्मूकॊ वा लब्धवाक् चिरात् |” इति || 17 ||  110 सौम्यर् क्षांशॆ रविजरुधिरौ चॆत्सदन्ताऽत्र जातः कुब्जः स्वर् क्षॆ शशिनि तनुगॆ मन्दमाहॆयदृष्टॆ | पंगु र्मीनॆ यमशशिकुजैर्वीक्षितॆ लग्नसंस्थॆ सन्धौ पापॆ शशिनि च जडः स्यान्न चॆत्सौम्यदृष्टिः | 18 ||  भट्टॊत्पलः-अधुना सदन्तकुब्जजडजन्मयॊगान्मन्दाक्रान्तयाह सौम्यॆति | रविजः शनैश्चरः रुधिरॊऽङ्गारकः यत्र तत्र राशौ शनैश्चराङ्गारकौ सौम्यर् क्षांशॆ बुधनवांशकॆ मिथुनांशकॆ कन्यांशकॆ वा भवतः अथवा बुधक्षॆ मिथुनकन्ययॊरन्यतमॆ राशौ स्थितौ भवतः चॆच्छब्दॊ यद्यर्थॆ यद्यॆवं तदात्रास्मिन्यॊगॆ सदन्तॊ दन्तसहितॊ गर्भस्थॊ वाच्यः | कॆचित्सौम्यर्क् क्षांशॆ मिथुनॆ मिथुनांशकॆ कन्यायां कन्यांशकॆ चॆतीच्छन्ति ऋक्षांशयॊर्युगपद्ग्रहणात् | अंशशब्दॆन कॆवलॆनैव सिद्धिः स्यात्तदृक्षग्रहणमतिरिच्यत इति ऎवंविधॆ यॊगॆ गर्भस्थः सदन्तॊ भवति जातॊ वा कुब्जः | स्वर् क्ष  इति | शशिनि चन्द्रॆ स्वर् क्ष   आत्मीयराषॊ कर्कटस्थितॆ तथाभूतॆ च तनुगतॆ लग्नगत तथाभूतॆ मन्दमाहॆयदृष्टॆ मन्दॆन शनैश्चरॆण माहॆयॆनाङ्गारकॆण च दृष्टॆऽवलॊकितॆ चन्द्रॆ ऎवंभूतॆ यॊगॆ गर्भस्थः कुब्जॊ वाच्यः | पङ्गुर्मीन इति | मीनॆ लग्नसंस्थॆ यमशशिकुजैः यमः शनैश्चरः शशी चन्द्रः कुजॊ भौमः ऎतैर्वीक्षितॆ दृष्टॆ पङ्गुः पादविकलॊ गर्भस्थॊ वाच्यः | सन्धौ पाप इति | पापॆ आदित्यकुजसौराणामन्यतमॆ शशिनि च चन्द्रॆ सन्धौ कर्कटवृश्चिकमीनान्त्यनवांशगतॆ यथासम्भवं गर्भस्थॊ जन्तुर्जडः श्रॊत्रॆन्द्रियहीनॊ वाच्यः | न चॆत्सौम्यदृष्टिरिति | ऎतॆ यॊगकर्तारॊ ग्रहॊ यथादर्शिता न चॆत्| यदि सौम्यैः शुभग्रहैर्दृष्टा न भवन्ति तदैतद्यॊगचतुष्टयं पूर्णं वक्तव्यम् | सौम्यैर्बलिभिर्निरीक्षिता यॊगा ऎवं भवन्ति मध्यबलैर्हनबलैर्वा दृष्टास्तदा| असमग्रफला भवन्ति | 18 || 111 सौरशशङ्कदिवाकरदृष्ट वामनकॊ मकरान्त्यविलग्नॆ | धीनवमॊदयगैश्चदृकाणैः पापयुतैरभुजाङघ्रिशिराः स्यात् || 19 || भट्टॊत्पलः-अधुना वामनहीनाङ्गयॊगौ दॊधकॆनाह सौरशशांकॆति | मकरान्त्यविलग्नॆ मकरराश्यंत्यनवांशकॆ विलग्नस्थॆ नवमनवांशक उदयमानः शशाङ्कश्चन्द्रः दिवाकरः सूर्यः ऎतैरवलॊकितॆ वामनकॊ गर्भस्थॊ वाच्यः | धीनवमॊदयगैरिति | अत्रैकॆ व्याचक्षतॆ | यदा लग्नॆ द्वितीयद्रॆष्काणॊदयौ भवति तदा तस्य पञ्चमराशिसम्बन्धित्वाद्धीद्रॆष्काण इत्याख्या| तस्मिन्द्वितीयॆ द्रॆष्काणॆ पापग्रहयुतॆ उदयमनुप्राप्तॆ नवमॆ तस्मिन्सौरशशांकदिवाकरदृष्टॆ गर्भस्थॊऽनुजॊ भुजहीनॊ वाच्यः | ऎवं यदा लग्नॆ तृतीयस्य द्रॆष्काणस्य उदयॊ भवति तदा तस्य नवमराशिसम्बन्धित्वान्नवमदृकाण इत्याख्या | तस्मिन्नुदयगतॆ पापयुतॆ सौरशशांकदिवाकरदृष्टॆऽनंघ्रिः पादहीनॊ गर्भस्थॊ वाच्यः | ऎवं प्रथमद्रॆष्काणस्य लग्नसम्बन्धित्वादुदयद्वॆष्काण इत्याख्या | तस्मिन्नुदयगतॆ सौरशशांकदिवाकरदृष्टॆऽशिराः शिरॊहीनॊ गर्भस्थॊ वाच्यः | ऎतॆषु यॊगॆषु सौरशशॊकदिवाकराणा दर्शनयॊगात्पापयुक्त इति | कॆवलॆनाङ्गरकॆण युक्तै यॊग भवति अत्राप्यन्यॆ धीनवमॊदयगैद्रॆष्काणैः पापयुतैः कॆवलमॆवाभुजांघ्रिशिरः सम्भवं व्याचक्षतॆ | सौरशशांकदिवाकरदृष्ट इत्यस्यानुवृत्ति नॆच्छन्ति | अन्य  112 विभुजादिससम्भवॆ यथासंख्यं त्यक्त्वा दृकाणत्रयॆऽपि प्रतिदृकाणं तदुद्भव विकल्पमाहुः | विभुजॊ वानंघ्रिर्वा विशिरा वॆति | अन्यॆ ऎवं व्याचक्षतॆ | यथा | लग्नॆ यदा प्रथमद्रॆष्काणॊ यॊ भवति तदा पञ्चमॆऽपि राशौ प्रथमद्रॆष्काणॊ नवमॆऽपि प्रथम ऎव | ऎतद्द्रॆष्काणत्रयं यदि पापयुतं भवति तदा भुजहीनॊ गर्भस्थॊ वाच्यः अथ लग्नॆ द्वितीयद्रॆष्काणॊदयॊ भवति तदा पञ्चमनवमयॊरपि द्वितीय ऎव | ऎतद्द्रॆष्काणत्रयं यदा पापयुतं भवति तदा पादहीनॊ गर्भस्थॊ वाच्यः | अथ लग्नॆ तृतीयद्रॆष्काणॊदयौ भवति तदा पञ्चमनवमयॊरपि तृतीय ऎव | ऎतद्द्रॆष्काणत्रयं यदि पापयुतं भवति तदा शिरॊविहीनॊ गर्भस्थॊ वाच्यः | अत्राप्यन्यॆ यथा संख्यं त्यक्त्वा त्रिप्रकारॆऽपि यॊगॆ भुजांघ्रिशिरॊहीनानां विकल्पॆन गर्भस्थस्य संभवमाहुः | वयं पुनर्बुमः निषॆककालॆ पञ्चमराशौं यॊ द्वॆष्काणः स यद्यङ्गरकॆण युक्तः सौरशशाङ्कदिवाकरदृष्टश्च भवति | ऎवं नवमॆ स्थानॆ द्रॆष्काणॊ नवमद्रॆष्काणः तथा निषॆककालॆ नवमराशौ यॊ द्वॆष्काणः स यद्यङ्गरकॆण युक्तः सौरशशाङ्कदिवाकरदृष्टश्च भवति तदा अनङ्घ्रिभवति | तथा निषॆककालॆ लग्नस्थॊ द्रॆष्काणः स यद्यङ्गारकॆण युक्तः सौरशशाङ्कदिवाकरदृष्टश्च भवति तदा अशिरा गर्भस्थॊ वाच्यः | ऎषैव व्याख्या साध्वी | यस्माद्भगवान्गार्गिः | “लग्नद्रॆष्काणगॊ भौमः सौरसूर्यॆन्दुवीक्षितः | कुर्याद्विशिरसं तद्वत्पंचमॆ बाहुवर्जितम् | विपदं नवमस्थानॆ यदि सौम्यैर्न वीक्षितः ” इति | तथा च सारावल्याम् | “भौमयुता द्वॆष्काणास्त्रिकॊणलग्नॆषु संदृष्टाः | विभुजाङ्घिमस्तकः स्याच्छनिरविचन्द्रैर्वदॆद्गर्भः |” इति || 19 ||  113 शुभगदिता यॊगा याप्या भवन्ति शुभॆक्षिताः || 20 || भट्टॊत्पलः-अथ विकलजन्मज्ञानार्थं हरिण्याह रविशशियुतॆ इति | सिंहॆ लग्नॆ रविशशियुतॆ अर्कचन्द्राभ्यां संयुतॆ तथाभूतॆ कुजार्किनिरीक्षितॆ भौमसौराभ्यां दृष्टॆ नयनरहितॊ नॆत्ररहितॊऽन्धॊ गर्भस्थॊ वाच्यः | अर्थादॆव कॆवलॆन चन्द्रॆण युक्त सौराङ्गरकदृष्ट दक्षिणाक्षिकाणः | ऎवं सिंहलग्नॆ कॆवलॆन चन्द्रॆण युक्तै सौराङ्गरकदृष्ट वामाक्षिकाणः | सौम्यासौम्यैः सबुद्बुदलॊचन इति | तस्मिन्नॆव सिंहलग्नॆऽर्कचन्द्राभ्यां युक्तॆ सौम्यासौम्यैः शुभपापग्रहैर्दूष्ट गर्भस्थः सबुद्बुदलॊचनः पुष्पिताक्षी वाच्यः | अत्राप्यैकतमयुक्तै प्राग्वत् पुष्पिताक्षत्वं वाच्यम् | व्ययगृहगत इति | निषॆककाललग्नाज्जजन्मलग्नाद्वा यस्य चन्द्रमा व्ययगृहगतॊ द्वादशस्थॊ भवति तस्य वामं चक्षुर्हिनस्ति वामाक्षिकाणः स भवतीत्यर्थः | ऎवं रविरादित्यॊ लग्नाद्द्वादशॊऽपरं दक्षिणं चक्षुर्हिनस्ति | न शुभगदिता यॊगा इति | ऎतॆ यॊगाः प्रागभिहितास्त्रिकॊणगॆ ज्ञ इत्याद्रिना ग्रन्थॆन शुभाशुभफलदास्तॆष सर्वॆषामॆव यॊगानां यदा यॊगकर्तारॊ शुभग्रहैः सौम्यग्रहैर्दृष्टा भवन्ति तदा यॆ यॊगा याप्या भवन्ति पूर्ण यथॊक्तं फलं न प्रयच्छन्ति किंतु किञ्चित्प्रयच्छन्तीत्यर्थः || 20 || 114 तत्कालमिन्दुसहितॊ द्विरसांशकॊ यस्ततुल्यराशिसहितॆ पुरतः शशाङ्कॆ |  यावानुदॆति दिनरात्रिसमानभाग-स्तावद्गतॆ दिननिशॊः प्रवदन्ति जन्म || 21 ||  भट्टॊत्पलः-अथ प्रश्नाधानकालॆ यॊगवशात्प्रसवकालज्ञानं वसन्ततिलकॆनाहतत्कालमिन्दुसहित इति | तत्कालॆ प्रश्नकालॆ वा यस्मिन्राशौ चन्द्रमा वर्ततॆ तत्र च यस्मिन्द्वादशभागॆ व्यवस्थितः स तत्कालमिन्दुसहितॊ द्विरसांशकः | कॆचित्तु तत्कालिकॆन्दुसहितॊ द्विरसाशक इति पठन्ति | तत्कालिकॆन्दुना यावत्संख्यॊ द्वादशभागः सहितः तत्तुल्यस्तावत्सङ्खयॊ मॆषादौ गणनया यॊ राशिस्तत्रस्थॆ चन्द्रमसि पुरतॊऽग्रतॊ दशमॆ मासि गर्भस्य प्रसवॊ वाच्य इति कॆचित् | तथा च सारावल्याम् | “यस्मिन्द्वादशभागॆ गर्भाधानॆ व्यवस्थितश्चन्द्र | ततुल्यक्ष प्रसवं गर्भस्य समादिशॆत्प्राज्ञः |” अन्यॆ पुनरैवं व्याचक्षतॆ | आधानकालॆ यत्र राशौ चन्द्रमा व्यवस्थितस्तत्र यावत्सङ्खयॊ द्वादशभागॊ वर्ततॆ तस्मादद्वादशभागराशॆस्तावत्सङ्खयॊ य ऎव पुरतॊ राशिस्तत्रस्थॆ चन्द्रमसि दशमॆ मासि प्रसवॊ वक्तव्यः | ऎषैव साध्वी व्याख्या | यस्माद्भगवन् गार्गि “यावत्सङ्खयॆ द्वादशांशॆ शीतरश्मिर्व्यवस्थितः | तत्सङ्खयॊ यस्ततॊ राशिर्जन्मॆन्दौ तद्गतॆ वदॆत्” अत्रापि नक्षत्रानयनॆऽयमनुपातॊपायः | यदि चन्द्राक्रान्तद्वादशभागप्रमाणॆन सकलचन्द्रराशिरष्टादशशतलिप्ताप्राणॊ लभ्यतॆ तदानॆन भुक्तद्वादशराशिप्रमाणॆन किमिति लब्धं चन्द्रराशिभुक्तं लभ्यतॆ ततॊऽष्टशतलिप्ता परिकल्पनया नक्षत्रमूह्यम्| अत्रापि दिनरात्रिकालज्ञानमाह-- | यावानुदॆतीति | दिनरात्रिसञ्ज्ञाः पूर्व व्याख्याताः | गॊजाश्विकर्किमिथुना इत्यादि | आधानकालॆ प्रश्नकालॆ वा यल्लग्नं तस्य यः विभागः दिनसञ्जॊ रात्रिसञ्जॊ वा यावानुदॆति स्वमानाद्यावत्कालभागॊ गतस्तावत्यॆव दिननिशॊः स्वामानाद्गतॆ कालॆ जन्म भविष्यतीति वाच्यम् | ऎवं दिनस्य रात्रॆर्वा गतकालं बुद्धवा प्रसवकालॆ 115 लग्नहॊराद्रॆष्काणनवांशद्वादशभागत्रिंशांशका वाच्याः | अत्र यॆ प्रवदन्ति कथयन्ति तॆषां तद्वाक्यं सारावल्याम् | “तत्कालं दिवसनिशासंज्ञः समुदॆति राशिभागॊ यः | यावानुदयस्तावान्वाच्यॊ दिवसस्य रात्रॆव | इत्याधानॆ प्रथमं प्रसूतिकालं सुनिश्चितं कृत्वा | जातकविहितं च विधि विचिन्तयॆत्तत्र गणितज्ञः || 21 ||  116 उदयति मृदुभांशॆ सप्तमस्थॆ च मन्दॆ यदि भवति निषॆकः सूतिरब्दत्रयॆण |  शशिनि तु विधिरॆष द्वादशॆऽब्दॆ प्रकुर्यान्निगदितमिह चिन्त्यं सूतिकालॆऽपि युक्त्या | 22 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ निषॆकाध्यायः सम्पूर्णः |4 || भट्टॊत्पलः-अधुना धृतस्य गर्भस्य वर्षत्रयवर्षद्वादशज्ञानं मालिन्याह उदयतीति | मृदॊः सौरस्य भांशॆ मृदुभांशॆ निषॆककालॆ यस्य तस्य लग्नस्यॊदयॆ मृदुभांशॆ शनैश्चरराशिनवांशकॆ मृगांशकॆ कुम्भांशकॆ वॊदयति तथाभूतॆ यस्मादॆव लग्नान्मन्दॆ शनैश्चरॆ तत्कालॆ सप्तमस्थॆ द्यूनगतॆ ऎवंविधॆ यॊगॆ यदि निषॆक आधानं भवति तदा धृतस्य गर्भस्याब्दत्रयॆण सूतिः प्रसवॊ वक्तव्यः | शशिनीति | ऎष ऎव विधिर्यदा शशिनि चन्द्रॆ भवति तदा द्वादशऽब्दॆ द्वादशॆ वर्षॆ सूतिं प्रसवं कुर्यादित्यर्थः | ऎतदुक्तं भवति | यस्य तस्य लग्नस्यॊदयॆ यदा कर्कटांशकॊदयॊ भवति तस्माल्लग्नात्सप्तमश्चन्द्रॊ भवति तदा धृतस्य गर्भस्य 117 द्वादशॆऽब्दॆ प्रसवॊ वाच्यः | निगदितमिहॆति | इहास्मिन्नाधानाध्यायॆ आधानकालयॊगवशाद्यथा हीनाधिकाङ्गदीन गर्भसम्भवॊ भवति तथा प्रसूतिकालॆऽपि तादृग्यॊगवशात्तथाविधानामॆव जन्म वक्तव्यम् | पितृमातृपितृव्यमातृप्वसृणामपि शुभाशुभं जन्मकाललग्नवशात्तदनन्तरमपि वक्तव्यम् | युक्त्यॆति | यन्नसम्भवति तन्न वक्तव्यम् | यथा गर्भस्रावादि गर्भप्रसवकालनिर्दॆशादि च | ऎवमाधानकालात्प्रसवकालाच्च यथैवॊद्दॆशः कृतस्तथा प्रश्नकालादपि वक्तव्यः | उक्तं च जन्मन्याधानॆ प्रश्नकालॆ वॆति||22 || इति बृहज्जातकॆ श्रीभट्टॊत्पलटीकायां निषॆकाध्यायः || 4 ||  118 अथ जन्मविधिनामाध्यायः || 5 || अथातॊ जन्मविधिर्नामाध्यायॊ व्याख्यायतॆ |  तत्रादावॆव पितुः सन्निधावसन्निधौ वा जात इत्यनुष्टुभाह-  पितुर्जातः परॊक्षस्य लग्नमिन्दावपश्यति |  विदॆशस्थस्य चरभॆ मध्याद् भ्रष्टॆ दिवाकरॆ || 1 ||  भट्टॊत्पलः-पितुर्जात इति | इन्दौ चन्द्रॆ प्रसवलग्नमपश्यति सति पितुः परॊक्षस्य जनकस्यासन्निधौ जातः | तत्र पितुरसन्निधानॆ स्वदॆशपरदॆशस्थितिज्ञानमाह-- | विदॆशस्थस्यॆति | दिवाकरॆ सूर्यॆ चरभॆ चरराशिस्थितॆ मध्याद्दशमस्थानाद्भ्रष्टॆ पतितॆ ऎकादशद्वादशस्थॆ नवमाष्टमस्थानस्थॆ पितुर्विदॆशस्थस्य अन्यदॆशगतस्य जातः | चन्द्रमसि प्रसवलग्नमपश्यत्यॆष यॊगॊ नान्यथॆति | चन्द्रॆ प्रसवलग्नमपश्यति अर्कै स्थिरराशिस्थॆ मध्याद् भ्रष्ट स्वदॆशस्थस्यैव पितुः परॊक्षॆ जातः | अस्मिन्नॆव यॊगॆ द्विस्वभावस्थॆऽर्क मध्याद् भ्रष्टॆ स्वदॆशपरदॆशयॊर्मध्यॊपस्थितस्य परॊक्षॆ जातः अर्थादॆव चन्द्रॆ प्रसवलग्नमपश्यत्यर्कॆ चरराशिस्थॆ वा द्विस्वभावराशिस्थॆ वा मध्याद् भ्रष्टॆऽपि वा| पितुः स्वदॆशस्थस्यैव परॊक्षॆ जात इति वक्तव्यम् | तथा च सारावल्याम् हॊरामनीक्ष्यमाणॆ पितरि न गॆहस्थितॆ शशिनि जातः | मॆषूरणाच्च्युतॆ वा चरगॆ भानौ विदॆशगतॆ” | 1 ||  119 120 उदयस्थॆऽपि वा मन्दॆ कुजॆ वास्तं समागतॆ |  स्थितॆ वान्तः क्षपानाथॆ शशाङ्कसुतशुक्रयॊः || 2 ||  भट्टॊत्पलः -अथान्यानपि यॊगाननुधुमाह-- उदयस्थ इति | मन्दॆ सौरॆ उदयस्थॆ लग्नगतॆ पितुः परॊक्षस्य जातः अथवा कुजॆ भौमॆ जन्मलग्नादस्तं सप्तमं समागतॆ प्राप्तॆ पितुः परॊक्षस्य जात इति| स्थितॆ वान्तरिति | क्षपानाथॆ चन्द्रॆ शशाङ्कसुतशुक्रयॊर्मध्यस्थॆ शशाङ्कसुतॊ बुधः शुक्रॊ भार्गवः, अनयॊर्मध्यस्थितॆ चन्द्रादॆकॊ द्वादशॆऽन्यॊ द्वितीयॊ अथवैकस्मिन्त्राशौ मध्यभागॆषु चन्द्र स्थितः आद्यन्तभागयॊर्बुधशुक्रौ तथापि मध्यस्थः ऎवंविधॆ यॊगॆ पितुः परॊक्षस्य जातः | तथा च लघुजातकॆ चन्द्रॆ लग्नमपश्यति मध्यॆ वा सौम्यशुक्रयॊश्चन्द्रॆ | जन्म परॊक्षस्य पितुर्यमॊदयॆ वा कुजॆ चास्तॆ |” इति || 2 ||  शशाङ्कॆ पापलग्नॆ वा वृश्चिकॆशत्रिभागगॆ | शुभैः स्वायस्थितैर्जातः सर्पस्तद्वॆष्टितॊऽपि वा || 3 ||  भट्टॊत्पलः-अधुना सर्पज्ञानं सर्पवॆष्टितज्ञानं चानुष्टुभाह शशाङ्क इति | वृश्चिकॆशॊ वृश्चिकस्वामी भौमः शशाङ्कॆ चन्द्रॆ वृश्चिकॆशत्रिभागगॆ भौमद्रॆष्काणस्थॆ तत्र भौमद्रॆष्काणॊ मॆषॆ प्रथमः कर्कटॆ द्वितीयः 121 सिंहॆ तृतीयः, वृश्चिकॆ प्रथमः धनुषि द्वितीयः मीनॆ तृतीयः ऎषामन्यतमस्थस्य चन्द्रमसः शुभग्रहैः स्वायस्थितैर्द्वितीयॆकादशस्थितैः सर्प उरगॊ जात इति वक्तव्यम्| पापलग्नॆ वॆति | ऎवं पापग्रहसम्बन्धिलग्नॊदयॆ यदा भौमद्रॆष्काणॊं भवति तत्र पापलग्नॆ भौमद्रॆष्काणः मॆषॆ प्रथमः, कर्कटॆ द्वितीयः, सिंहॆ तृतीयः वृश्चिकॆ प्रथमः धनुषि द्वितीयः मीनॆ तृतीय ऎषामन्यतमस्यॊदयॊ लग्नाद्यदि शुभग्रहैढूर्यॆकादशस्थैस्तद्वॆष्टितः सर्पवॆष्टितॊ जन्तुर्जात इति वक्तव्यम् | अन्यॆ पुनरॆवं व्याचक्षतॆ | चन्द्रॆ पापलग्नॆ वा भौमद्रॆष्काणस्थॆ तस्मादॆव शुभग्रहैः स्वायस्थितैः विकल्पॆन सर्पॊ वा सर्पवॆष्टितॊ वा जात इति वक्तव्यम् | अत्र पूर्वव्याख्या साध्वी | यस्माद्धगवान् गार्गिः | “भौमद्वॆष्काणगॆ चन्द्रॆ सौम्यैरायधनस्थितैः | सर्पस्तद्वॆष्टितस्तद्वत्पापलग्नॆ विनिर्दिशॆत् ||” तथा च सारावल्याम 9? लग्नॆ वा संस्थितॆ वदॆज्जातम् | द्वयॆकादशगैः सौम्यैरहिवॆष्टितकॊ भुजङ्गॊ वा” | 3 ||  चतुष्पादगतॆ भानौ शॆषैर्वार्यसमन्वितैः | द्वितनुस्थैश्च यमलौ भवतः कॊशवॆष्टितौ || 4 ||  भट्टॊत्पलः-अधुनैकजरायुवॆष्टितयॊः जन्मज्ञानमनुष्टुभाह चतुष्पादॆति | भानौ सूर्य चतुष्पादराशिगतॆ मॆषवृषसिंहधन्विपरार्धमकरपूर्वार्धानामन्यतमस्थॆ शॆषैरन्यैः सर्वग्रहै र्द्वितनुस्थैर्द्विस्वभावराशिस्थितैः स्ववीर्यसमन्वितैः बलिभिश्च कॊषवॆष्टितौ ऎकजरायुवॆष्टितौ यमलौ जायॆतॆ | 4 ||  122  छागॆ सिंहॆ वृषॆ लग्नॆ तत्स्थॆ सॊरॆऽथवा कुजॆ | राश्यंशसदृशॆ गात्रॆ जायतॆ नालवॆष्टित | 5 ||  भट्टॊत्पलः -अधुना नालवॆष्टितजन्मज्ञानमनुष्ठभाह छाग इति | छागॊ मॆषः सिंहः प्रसिद्धः वृषॊ वृषॊ वृषभः ऎतैः छागसिंहवृषॆर्लग्नस्थितैः ऎषामन्यतमॊ यदि लग्नगतॊ भवति तत्स्थॆ सौरॆऽथवा कुजॆ तस्मिन् छागसिंहवृषाणा मन्यतमॆ लग्नगतॆ तत्स्थॆ तत्रस्थॆ सौरॆ शनैश्चरॆऽथवा कुजॆ भौमॆ तत्रस्थॆ नालवॆष्टितॊ जन्तुर्जायतॆ | नालशब्दॆन नाड्यॊ विधीयन्तॆ | कस्मिन्नङ्गॆ वॆष्टित इत्याह | राश्यंशसदृशॆ गात्र इति | राशॆरङ्गॊ राश्यंशः राशॆः लग्नस्य यॊ नवांशकस्तत्कालमुदितः स च यद्राशिसम्बन्धी स च राशिर्यस्मिन्नङ्गॆ कालपुरुषस्य व्यवस्थितः कालाङ्गानीत्यादिना ग्रन्थॆन निरूपितस्तत्सदृशॆ गात्रॆ तस्मिन्नॆवाङ्गॆ नालवॆष्टित इति वक्तव्यम् | तथा च सारावल्याम् सिंहाजगॊभिरुदयॆ सूतॆ नालॆन वॆष्टितॊ जन्तुः | लग्नॆ कुजॆऽथ सौरॆ राश्यंशसमानगात्रॆषु” | 5 ||  लग्नमिन्दुं च गुरुनिरीक्षतॆ न वा शशाङ्कं रविणा समागतम् |  सपापकॊऽर्कॆण युतॊऽथवा शशी परॆण जातं प्रवदन्ति निश्चयात् || 6 ||  भट्टॊत्पलः-अधुना जारजातं वंशस्थॆनाह न लग्नमिति | गुरुजीवॊ लग्नमुदयमिदुं चन्द्रं च यदि न निरीक्षतॆ न पश्यति लग्नचन्द्रावॆकराशिस्थौ पृथक्स्थौ वा यदॊभावपि गुरुणा न दृष्यॆतॆ तदा 123 परॆण जारॆण जात इति निश्चयात्प्रवदन्ति कथयन्ति मुनयः | अत्र यदि लग्नचन्द्रॊ जीवभागस्थौ जीवनवांशकस्थौ भवतः तदा न परजात इति वक्तव्यम् | यस्माद्यवनॆश्वरः || “अजीवभागॆऽप्यनवीक्षितॆ वा जीवॆन चन्द्रॆऽथ विलग्नभॆ वा जातं परॊद्भूतमिति ब्रुवन्ति वाच्यॊ जनॆनाथ बलावलॊकात्” इति | न वा शशाङ्कमिति | शशाङ्कं चन्द्रः रविणा सूर्यॆण समागतं संयुक्तं गुरुर्न निरीक्षतॆ चन्द्रार्कावॆकराशिस्थौ यदि च बृहस्पतिना न दृश्यॆतॆ तदा परॆण जातः | अथवा शशी चन्द्रः सपापकः पापग्रहॆण भौमॆन सौरॆण वा युक्तः तथाविधॊऽर्कॆण सूर्यॆण यदि युक्तकॊ भवति तथापि परॆण जात इति | अत्राप्यन्यॆ जीवदृष्टयनुवर्ति व्याख्यानं कुर्वन्ति | तदयुक्तम् | यस्माच्चन्द्रार्कावॆकराशिगतौ पापयुक्तौ जीवॆन दृश्यमानावदृश्यमानौ वा जारजातजन्मकरौ तत्र चन्द्रार्कयॊगः पापॆन समॆत्य कि कृतं भवति तस्माच्चन्द्रार्कवॆकराशिगतौ अपापौ जीवॆनादृश्यमानौ सपापौ जीवॆन दृश्यमानौ वा जारजातजन्मकरौ निश्चयादवश्यं भवतः | अत्र चन्द्रमा यदि गुरुगृहॆ तद्द्रॆष्काणतन्नवांशकद्वादशभागत्रिंशद्भागस्थॊ भवति अन्यत्र वा राशौ गुरुणा युक्ततस्दा न जारजात इति | यस्माद्धगवान्गार्गिः गुरुक्षॆत्रगतॆ चन्द्रॆ तद्युक्तॆ वान्यराशिगॆ | तद्द्रॆष्काणॆ तदंशॆ वा न परैर्जात इस्यतॆ” | 6 ||   क्रूरक्षगतावशॊभनौ सूर्यादद्युननवात्मजस्थितौ | बद्धस्तु पिता विदॆशगः स्वॆ वा शशिवशादथॊ पथि || 7 ||  भट्टॊत्पलः-अथ जातस्य पितृबन्धनयॊगज्ञानं वैतालीयॆनाह 124 क्रूरक्षगताविति | क्रूरक्षणि क्रूरग्रहराशयः मॆषसिंहवृश्चिकमकरकुम्भाः कृष्णपक्षॆ क्षीणचन्द्रॆ कर्कटः पापयुक्तॆ बुधॆऽपि कन्यामिथुनॆ अशॊभनौ पापौ शनि, भौमॊ क्रूरर्क्षगतौ पापक्षॆत्रस्थितौ सूर्याद्रवॆद्युननवात्मजस्थितौ द्यूनं सप्तमं, नवमं प्रसिद्धं आत्मजस्थानं पञ्चममॆषामन्यतमस्थौ भवतस्तदा जातस्य पिता जनकॊ बद्धॊ वाच्यः | तस्यादित्याक्रान्तराशिवशाद्वन्धनदॆशज्ञानमाह-- | स्वॆ वा राशिवशादथॊ पथीति | चरराशिस्थॆऽर्कॆ परदॆशॆ बद्धः स्थिरराशिस्थॆऽर्कॆ स्वदॆशॆ, द्विस्वभावॆ पथि मार्गॆ ऎवं राशिवशात्स्थानपरिज्ञानम् | अथॊ इत्ययं निपातॊ विकल्पॆ | कॆचित्“स्वॆ वा राशिवशात्तथा पथि” इति पठन्ति | 7 |  पूर्णॆ शशिनि स्वराशिगॆ सौम्यॆ लग्नगतॆ शुभॆ सुखॆ | लग्नॆ जलजॆऽस्तगॆऽपि वा चन्द्रॆ पॊतगता प्रसूयतॆ | 8 ||  भट्टॊत्पलः-अधुना पॊतगताप्रसवज्ञानं वैतालीयॆनाह पूर्ण इति | शशिनि चन्द्रॆ पूर्ण परिपूर्णमण्डलॆ तस्मिश्च स्वराशिगॆ कर्कटस्थितॆ तथा सौम्यॆ बुधॆ लग्नगतॆ उदयस्थॆ शुभॆ जीवॆ उदयात् सुखॆ चतुर्थॆ पॊतगता नौस्था प्रसूयतॆ इति वक्तव्यम् | शुभैरिति बहुवचनं न घटतॆ | लग्नॆ बुध उक्तः शुक्रबृहस्पती मॆषौ शुभाभ्यामित्यॆवं प्राप्नॊति | यत्क्रियतॆ शुभैरिति तस्मादॆवमवसीयतॆ | पूर्णश्चन्द्रमाः शुक्रबृहस्पतिभ्यां युक्तॊ भवति तदा शुभैरिति भवति | ऎतच्च मॆषलग्नॆ तत्रस्थॆ बुधॆ पूर्णचन्द्रॆ शुक्रबृहस्पतिभ्यां सभायुक्तॆ कर्कटव्यवस्थितॆ सर्वयुज्यत इति | अयं पाठॊ मद्व्याख्यानॆ न युक्तः यस्मान्मकरावस्थितॆऽर्कॆ कर्कटस्थश्चन्द्रमाः पूर्णॊ भवति मकरव्यवस्थितॆ चार्कॆ मकराच्चतुर्थभवनॆ मॆषॆ बुधस्य सम्भवॊ नास्ति | किं पुनर्मकरात्सप्तकराशौ कर्कटकॆ शुक्रस्याप्यवस्थानमिति | तस्माच्छुभॆ इति सुखॆ इति सप्तम्यॆक 125 वचनान्त ऎव पाठॊ न्यायः | शुभॆ सुख इति | तत्कथं जीवॊ व्याख्यातः ? उच्यतॆ बुधॊ लग्नगतस्तस्माच्चतुर्थॆ शुक्रस्यावस्थानं न सम्भवति अतॊ जीव इति व्याख्यातम् | कॆचित्पूर्वशास्त्रानुसारॆणॆति शुक्र इच्छन्ति | अथ पॊतगताप्रसवयॊगॊ द्वितीयः | लग्नॆ जलज इति | लग्नॆ जलजॆ जलराशौ कर्कटमकरपश्चिमार्धमीनानामन्यतमॆ तस्मादस्तगॆ सप्तमस्थानस्थॆ चन्द्रॆ पूर्ण वापूर्णॆ च पॊतगतैव प्रसूयत इति | वाशब्दः प्रकारार्थः || 8 ||  आप्यॊदयमाप्यगः शशी सम्पूर्णः समवॆक्षतॆऽथवा | मॆषूरणबन्धुलग्नगः स्यात्सूतिः सलिलॆ न संशयः || 9 || भट्टॊत्पलः-अथॊदकमध्यप्रसवज्ञानं वैतालीयॆनाह आप्यॊदयमिति | अप्यराशयॊः मकरपश्चार्धकर्कमीनास्तॆषामन्यतमस्यॊदय आप्यॊदयः | जलराशिलग्नॆ भवति शशी चन्द्रश्चाप्यगॊ जलराशिस्थस्तदा सूतिः प्रसवः सलिलॆ जलसमीपॆ, न संशयः निश्चयाद्वाच्यः | अथवा सम्पूर्णः शशी लग्नगमाप्यॊदयं समवॆक्षतॆ पश्यति तथापि सलिलॆ प्रसूतिः| मॆषूरणबन्धुलग्नग इति | अथवाप्यराशावुदयगतॆ मॆषूरणबन्धुलग्नगॊ मॆषूरणॆ दशमॆ बन्धुस्थानॆ चतुर्थॆ लग्नॆ प्राग्लग्नॆ स्थितः स्याद्भवॆत्तथापि सलिलॆ प्रसूतिरिति वदॆत्| तथा च सारावल्याम् सलिलभलग्नं चन्द्रॊ जलचरराशौ तु वॆक्षतॆ पूर्णः | प्रसवं सलिलॆ विद्याद्बन्धूदयदशमगश्च यदा” | 9 ||  126 उदयॊडुपयॊव्र्ययस्थितॆ गुप्त्यां पापनिरीक्षतॆ यमॆ | अलिकर्कियुतॆ विलग्नगॆ सौरॆ शीतकरॆक्षितॆऽवटॆ || 10 ||  भट्टॊत्पलः-अधुना बन्धनागारावटयॊः प्रसवज्ञानं वैतालीयॆनाह उदयॆति | उदयॊ लग्नमुडुपश्चन्द्र तयॊरुदयॊडुपयॊरॆकराशिस्थयॊर्यमॆ सौरॆ व्यवस्थितॆ द्वादशस्थॆ तस्मिश्च पापनिरीक्षतॆ गुप्त्यां बन्धनागारॆ प्रसूयत इति वक्तव्यम् | सौरॆ शनैश्चरॆ अलिकर्कियुतॆ वृश्चिककुलीरयॊरन्यतमस्थॆ विलग्नगॆ तस्मिश्च शीतकरॆक्षितॆ चन्द्रदृष्टॆऽवटॆ श्वभ्रॆ प्रसूतिर्वक्तव्या || 10 ||  मन्दॆऽब्जगतॆ विलग्नगॆ बुधसूर्यॆन्दुनिरीक्षतॆ क्रमात् | क्रीडाभवनॆ सुरालयॆ सॊषरभूमिषु च प्रसूयतॆ | 11 ||  भट्टॊत्पलः-अथ क्रीडागृहदॆवालयसॊषरभूमिप्रदॆशॆषु प्रसवज्ञानं वैतालीयॆनाह मन्द इति | मन्दॆ शनैश्चरॆऽब्जगतॆ जलराशिस्थॆ तथाभूतॆ विलग्नगॆ प्राग्लग्नस्थॆ क्रमात्परिपाटया बुधसूर्यन्दुनिरीक्षतॆ क्रीडाभवनॆ सुरालयॆ सॊखरभूमिषु च प्रसूयत इति वदॆत् | ऎतदुक्तं भवति | शनैश्चरॆ जलराशिस्थॆ लग्नगतॆ बुधनिरीक्षतॆ बुधदृष्टॆ क्रीडाभवनॆ रतिगृहॆ प्रसूयतॆ | ऎवं सूर्यॆणार्कॆण निरीक्षितॆ सुरालयॆ दॆवगृहॆ, इन्दुना चन्द्रॆण निरीक्षितॆ सॊखरभूमिषु सवालुकास्ववनिषु प्रसूयत इति || 11 || 127 नृलग्नगं प्रॆक्ष्य कुजः श्मशानॆ रम्यॆ सितॆन्दू गुरुरग्निहॊत्रॆ | रविर्नरॆन्द्रामरगॊकुलॆषु शिल्पालयॆ ज्ञः प्रसवं करॊति | 12 ||  भट्टॊत्पलः-अथ श्मशानरम्यप्रदॆशाग्निशालानृपदॆवगृहगॊकुलशिल्पालयप्रसवज्ञानमुवजात्याहनृलग्नगमिति | पूर्वश्लॊकान्मन्द इत्यनुवर्तन्तॆ प्रत्यनुवर्तन्तॆ प्रत्यासन्नत्वात् | नृलग्नगं नरराशिलग्नस्थित नरराशयॊ मिथुनकन्यातुलाधन्विपूर्वार्धकुम्भाः तत्र गतं शनैश्चरं कुजॊऽङ्गारकः प्रॆक्ष्य दृष्ट्वा भौमॊ यदि पश्यति तदा श्मशानॆ प्रसवं जन्म करॊति | कॆचिन्नृलग्नदर्शी क्षितिज इति पठति | नृलग्नगं पश्यति तच्छीलॊ नृलग्नदश क्षितिजः || रम्यॆ सितॆन्दु इति| नरराशिलग्नगतं शनैश्चरयुक्त सितः इन्दुश्चन्द्रॊ वा पश्यति तथा रम्यॆ रमणीयॆ प्रदॆशॆ जन्म | ऎवंविधं सौरं गुरुजींवः पश्यति तथा अग्निहॊत्रॆऽग्निशालायाम् | ऎवविधं सौरिं रविः पश्यति तदा नरॆन्द्रामरगॊकुलॆषु नरॆन्द्रगृहॆ राजवॆश्मनि, अमरगृहॆ, वा गॊकुलॆ गॊशालायां वा प्रसूतिः | ऎवमॆव बुधॆन दृष्टॆ सौरॆ शिल्पिगृहॆ चित्रपुस्तककरवर्धकिप्रभृतीनां शिल्पिनामालयॆ गृहॆ प्रसूतिरिति | तथा च सारावल्गाम् | “रविजॆ जलविलग्नॆ क्रीडॊद्यानॆ बुधॆक्षितॆ प्रसवः | रविणा दॆवागरॆ तथॊखरॆ चैव चन्द्रॆण | आरण्यभवनलग्नॆ गिरिवनदुर्ग तथा नरविलग्नॆ | रुधिरॆक्षितॆ श्मशानॆ शिल्पिकनिलयॆ च सौम्यॆन” तथा च बादरायणः | सूर्यॆक्षितॆ गॊनृपदॆववासॆ शुक्रॆन्दुजाभ्यां रमणीयदॆशॆ | सुरॆज्यदृष्टॆ द्विजवह्निहॊत्रॆ नरॊदयॆ सम्प्रवदन्ति सूतिम्” | 12 || 128 राश्यंशसमानगॊचरॆ मार्गॆ जन्म चरॆ स्थिरॆ गृहॆ | स्वक्षशिगतॆ स्वमन्दिरॆ बलयॊगात्फलमंशकक्षयॊः | 13 ||  भट्टॊत्पलः-अथ प्रसवदॆशज्ञानं वैतालीयॆनाह राश्यंशॆति | राशिश्च अंशश्च तद्राश्यंशं राशिलग्नराशिरंशॊ नवांशकः लग्नराशॆस्तन्नवांशकस्य वा यः समानः सदृशः स्वात्मीयगॊचरॊ विषयः स्वचराश्च सर्व इत्यनॆन प्रदर्शितः | तत्र यस्मिन् प्रदॆशॆ यॊ यॊ राशिरूपः प्राणी सञ्चरति तत्र यॊ मार्गः पन्थास्तस्मिञ्जन्म | यदि चरॆ लग्नराशिस्तन्नर्वाशकॊ वा चरॆ भवति, अथ लग्नराशिस्तन्नर्वाशकॊ वा स्थिरस्तदा राशिस्वरूपतुल्यस्य प्राणिनः यस्मिन् गृहॆ यत्र प्रसवॆ सति तत्स्थानॆ राशिस्वरूपतुल्यस्य प्राणिनॊ यद्गृहं समीपस्तत्र प्रसव इत्यर्थः | स्वक्षांशगत इति| चरस्य स्थिरस्य द्विस्वभावस्य वा राशॆलीग्नगतस्य स्वक्षशि आत्मीयनवांशकॊदयॊ यदा भवति तदा स्वमन्दिरॆ आत्मीय गृहॆ ऎव जन्म वक्तव्यम् | तत्र राश्यंशसमानगॊचरॆ मार्गॆ जन्म इत्यादि सामान्यॆनॊक्तं तत्र ज्ञायतॆ किं लग्नराशिसमानगॊचरॆ किमंशसमानगॊचरॆ प्रसवादॆशः | क्रियतां तदर्थमयं निश्चयः | बलयॊगादिति | अशंकॊ नवांशकः ऋक्षं राशिः अनयॊर्बलयॊगात्फलं प्रसवस्थानज्ञानम् | ऎतदुक्तं भवति | लग्नराशैर्नवांशकराशॆश्च यॊ बलवांस्तत्समानगॊचरॆषु मार्गगृहसमीपॆषु प्रसवॊ वक्तव्यः | अत्र पूर्वॊक्तयॊगाभावॆ राश्यंशसमानगॊचरमार्गादिषु प्रसवॊ वक्तव्यः | तॆषां सम्भवॆ यॊगॊक्तप्रदॆशॆष्वॆव प्रसवॊ वक्तव्यः || 13 ||  129 आरार्कजयॊस्त्रिकॊणगॆ चन्द्रॆऽस्तॆ च विसृज्यतॆऽम्बया | दृष्टॆऽमरराजमन्त्रिणा दीर्घायुः सुखभाक्च स स्मृतः || 14 ||  भट्टॊत्पलः-अथ यस्मिन्यॊगॆ जातॊ मात्रा त्यज्यतॆ, यस्मिंश्च यॊगॆ जातस्त्यक्तॊऽपि मात्रा दीर्घायुः सुखी च भवति तद्यॊगद्वयं वैतालीयॆनाह आराकॆंति | चन्द्रॆ शशिन्यारार्कजयॊभौमसौरयॊरॆकराशिगतयॊस्त्रिकॊणगॆ नवमस्थॆ पञ्चमस्थॆ वाऽस्तॆ च सप्तमॊ स्थानॆ स्थितॆ जातॊऽम्बया मात्रा विसृज्यतॆ त्यज्यतॆ | ऎवंविधॆ यॊगॆ चन्द्रमसि अमरराजमन्त्रिणा गुरूणा दृष्टॆ मात्रा त्यक्तॊऽपि परहस्तगतॊऽपि दीर्घायुः चिरञ्जीवीसुखभाक्च भवति | 14 ||  पापॆक्षितॆ तुहिनगावुदयॆ कुजॆऽस्तॆ त्यक्तॊ विनश्यति कुजार्कजयॊस्तथासॆ |  सौम्यॆऽपि पश्यति तथा विधहस्तमॆति सौम्यॆतरॆषु परहस्तगतॊऽप्यनायुः || 15 ||  भट्टॊत्पलः-अथ यस्मिन्यॊगॆ जातॊ मात्रा त्यक्तॊ विनश्यति तद्वसन्ततिलकॆनाह पापॆक्षित इति | तुहिनगौ चन्द्रॆ पापॆक्षितॆ पापग्रहदृष्ट सौरॆणार्कण वॆत्यर्थः | तथाभूतॆ उदयॆ लग्नॆ स्थितॆ कुजॆ भौमॆ चास्तॆ सप्तमस्थानॆ जातॊ मात्रा त्यक्तॊ विनश्यति म्रियत इत्यर्थः | कुजार्कजयॊरिति | तथा तॆनैव प्रकारॆण लग्नगतॆ चन्द्रमसि पापॆक्षितॆ सूर्यदृष्ट कुजार्कजयॊभौमशनैश्चरयॊरायॆ लग्नादॆकादशॆ| स्थितयॊजातॊ मात्रा त्यक्तॊऽपि विनश्यति म्रियत इत्यर्थः | सौम्यॆऽपि पश्यति | पूर्वॊक्तयॊगस्थॆ चन्द्रमसि पापदृष्टॆ सौम्य शुभग्रहॆऽपि पश्यति सति जातॊ मात्रा त्यज्यतॆ त्यक्तॊऽपि यादृग्वर्णप्रभुणा सौम्यग्रहॆण चन्द्रमसा दृष्टस्तथाविधस्य हस्तमॆति, तादृग्वर्णस्य ब्राह्मणादॆर्हस्तं गच्छति तॆन धार्यतॆ जीवति च | अथास्मिन्नॆव यॊगॆ स्थितश्चन्द्रमाः पापॆन कुजॆन सौरॆण वा दृश्यतॆऽन्यॆन 130 सौम्यग्रहॆण च दृश्यतॆ तदा जातस्तयॊद्रीष्ट्रग्रहयॊथॊं बलवान्तादूग्वर्णस्य ब्राह्मणादॆर्हस्तङ्गतॊऽपि विनश्यति | यदुक्तम् | “सौम्यॆतरॆषु परहस्तगतॊऽप्यायुः” इति | ननु यथा यॊगस्थॆ चन्द्रमसि सौम्यैः पापैश्च दृश्यमानॆ मात्रा त्यक्तॊ विनश्यतीत्यभिहितं तत्र क्षत्रियवैश्यशूद्रवर्णसङ्करादिषु हस्तगतः सर्व ऎव विनाशमाप्नॊति | बहवश्च मात्रा त्यक्ताः क्षत्रियादिवर्णसङ्करगताश्च जीवमाना दृश्यन्तॆ तस्मात्पूर्वश्लॊकात् “दृष्टॆऽमरराजमन्त्रिणा दीर्घायुः सुखभाक्च स स्मृतः” इत्यॆतदिह शॆषभूतमवगन्तव्यम् | तस्माद् बुधॆन शुक्रॆण वा यथादर्शिततयॊगस्थश्चन्द्रमा दृश्यतॆ जीवॆन न दृश्यतॆ तदा परहस्तगतॊऽपि म्रियतॆ| यदा पापॆन सौम्यॆन वा दृश्यमाणॊऽपि जीवॆन दृश्यतॆ तदा| द्रष्ट्टग्रहयॊर्बलवशात्तद्वर्णस्य ब्राह्मणादॆर्हस्तगॊ जीवति | तथा च सारावल्याम् म्रियतॆ पापैर्दृष्टॆ शशिनि विलग्नॆ कुजॆऽस्तगॆ त्यक्तः | || 15 || पितृमातृगृहॆषु तद्बलात्तरुशालादिषु नीचगैः शुभैः | यदिनैकगतैस्तु वीक्षितौ लग्नॆन्दू विजनॆ प्रसूयतॆ | 16 ||  भट्टॊत्पलः-अधुना प्रसवगृहज्ञानं वैतालीयॆनाह 131 पितृमातृगृहॆष्विति | पितृमातृग्रहा दिवार्कशुक्रावित्यादीनॊक्तास्तद्बला त्पितृमातृग्रहवीर्यात्पितृमातृगृहॆषु प्रसूयत इति वदॆत् | तत्रार्कशनैश्चरयॊरन्यतमॆ बलवति पितृगृहॆ पितृष्वसृपितृव्यादिसम्बन्धिगृहॆ प्रसूतिः | तरुशालादिषु नीचगैः शुभैरिति | बहुवचनात्सर्व ऎव शुभग्रहाः यदा नीचस्था भवन्ति तदा तरुषु वृक्षॆषु शालाषु प्रसवॊ वाच्यः | आदिग्रहणान्नदीकूपारामपर्वतादिदॆशॆष्वनावृतॆषु इति | यदि नैकगतैरिति | नीचगैः शुभैरित्यनुवर्ततॆ | सर्वॆ शुभग्रहाः नीचगतास्तैर्लग्नॆन्दू उदयचन्द्रावुभावप्यॆकराशिगतैग्रहैर्बहुवचनात्त्र- प्रभृतिभिर्यदा न दृश्यॆतॆ तदा विजनॆ जनरहितॆ स्थानॆऽटव्यां प्रसूतिरिति | यदा पुनरॆकस्थैर्बहुभिग्रहैर्लग्नॆन्दू दृश्यॆतॆ तदा जनाकीर्णॆ प्रसूतिरिति | तथा च सारावल्याम् नॆक्षॆतॆ लग्नॆन्दू यद्यॆकस्था ग्रहास्तदाटव्याम्” | 16 || मन्दक्षांशॆ शशिनि हिबुकॆ मन्ददृष्टॆऽब्जगॆ वा तद्युतॆ वा तमसि शयनं नीचसंस्थैश्च भूमौ |  यद्वद्राशिर्ब्रजति हरिजं गर्भमॊक्षस्तु तद्वत्| पापैश्चन्द्रस्मरसुखगतैः क्लॆशमाहुर्जनन्याः | 17 ||  भट्टॊत्पलः-अधुना दीपसम्भवासम्भवभूप्रदॆशप्रसवज्ञानं गर्भमॊक्षं मातुः सूतकालॆ तनिमित्तक्लॆशज्ञानं च मन्दाक्रान्तयाह 132 मन्दक्षांश इति | शशिनि चन्द्रॆ यत्र तत्र राशौ मन्दक्षांशॆ शनैश्चरस्य नवभागॆ मकरकुम्भयॊरन्यतमांशस्थॆ तमस्यन्धकारॆ सूतिकाशयनं वक्तव्यम् | हिबुकॆ लग्नाच्चतुर्थस्थॆ चन्द्रॆऽन्धकार ऎव शयनम् | यत्र तत्रावस्थितॆ चन्द्रॆ मन्दॆन दृष्टॆऽन्धकार ऎव | अब्जगॆ वॆति | अब्जराशी अत्र कर्कटमीनौ द्वौ विज्ञॆयॊ मकरकुम्भयॊरुक्तत्वात् | मन्दक्षाश इत्यादिनॆति | तॆन यत्र तत्र राशौं कर्कटनवांशकस्थॆ चन्द्रॆ तमस्यन्धकार ऎव मीननवांशकस्थॆ वा तमस्यन्धकार ऎव| तद्युक्तॆ वॆति | तदिति सौरः परामश्यतॆ | यत्र तत्रावस्थितॆ चन्द्रॆ सौरयुक्तॆऽन्धकार ऎव | निषॆककालॆ नारीशयनमपि | सर्वॆष्वॆतॆषु यॊगॆषु यदार्कदृष्टश्चन्द्रमा भवति तदान्धकाराभावः | यस्माद्यवनॆश्वरः | “सौरांशकस्थॆ शशिनि प्रलग्नॆ जलॆ जलाख्यांशकमाश्रितॆ वा | स्वांशस्थितॆ कॆम्द्रगतॆऽर्कजॆ वा जातस्तमिखॆ यदि नार्कदृष्टः” | अन्यॆषां सूर्यॆ बलवति भौमॆन दृष्टॆ सत्वस्वपि यॊगॆष्वन्धकाराभावः | तथा च सारावल्याम् | “बलवति सूर्य दृष्ट बहुप्रदीपा धरा कुपुत्रॆण | अन्यैर्व्यपगतवीर्यैः सूतौ ज्यॊतिस्तृणैर्भवति | शौरांशॆ जलजांशॆ चन्द्रॆऽर्कयुतॆऽथवा हिबुकॆ | तद्दृष्टॆ वा कुर्यात्तमसि प्रसव न सन्दॆहः” नीचसंस्थैश्च भूमाविति | शयनमित्यनुवर्ततॆ | बहुवचनाद्यथासम्भवॆ त्रिप्रभृतिभिग्रहैर्नीचस्थभूमौ शयनं वाच्यम् | भूशब्दॆनात्र तृणास्तृणा भूर्जॆया | कॆचिल्लग्रस्थॆ चतुर्थस्थॆ वा नीचगतॆ चन्द्रॆ भूशयनमिच्छन्ति | तथा च सारावल्याम्| “नीचस्थॆ भूशयनं चन्द्रॆऽप्यथवा सुखॆ विलग्नॆ वा” | यद्वदिति | प्रसवलग्नराशिर्यद्वद्यॆन प्रकारॆण हरिजं व्रजत्युदयलॆखां परित्यजति तद्वतॆनैव प्रकारॆण नार्या गर्भमॊक्षॊ वाच्यः | यत्राकाशं भूम्या सह संसक्तंसमन्ताद् दृश्यतॆ तद्धरिजम् | उक्तं च | “हरिजमिति गगनमवनौ सम्पृक्तमिव लक्ष्यतॆ यथॊक्तॆषु” तद्यथा | शीर्षॊदयॆषु लग्नॆषूतानारयॊदरं दर्शयतॊ गर्भस्य मॊक्षॊः वाच्यः | पृष्ठॊदयॆष्वधॊमुखस्य पृष्ठं दर्शयतः | मीनॊदयॆ पार्श्वं दर्शयतः| तथा च सारावल्याम् | “शीर्षॊंदयॆ विलग्नॆ मूध्न प्रसवॊऽन्यथॊदयॆ चरणैः | उभयॊदयॆ च हस्तैः शुभदृष्टॆ शौभनॊऽन्यथा कष्टः” कॆचिदॆवं व्याचक्षतॆ | यथा लग्नाधिपॊ नवांशकाधिपॊ वा ग्रहॊ वक्री भवति तदा वैपरीत्यॆन गर्भमॊक्ष भवति | तथा च मणित्थः | “लग्नाधिपॆंऽशकपतौ लग्नस्थॆ क्रितॆ ग्रहॆऽप्यथवा | विपरीतगतॊ मॊक्षॊ 133 वाच्यॊ गर्भस्य सङ्क्लॆशः” | पापैरिति | पापग्रहैश्चन्द्रगतैः शशिना सह व्यवस्थितैः स्मरगतैर्लग्नात्सप्तमस्थैर्वा | सुखगतैर्लग्नाच्चतुर्थस्थैर्वा प्रसवकालॆ जनन्या मातुः क्लॆशमाहुः कष्टं कथयन्ति सूरयः | तथा च सारावल्याम् क्लॆशॊ मातुः क्रूरैर्बन्ध्वस्तगतैः शशाङ्कयुक्तैर्वा” | 17 ||  स्नॆहः शशाङ्कादुदयाच्च वतिर्दीपॊऽर्कयुक्तर्क्षवशाच्चराद्यः |  द्वारं च तद्वास्तुनि कॆन्द्रसंस्थैज्ञॆयं ग्रहैवीर्यसमन्वितैर्वा | 18 ||  भट्टॊत्पलः-अथ दीपगृहद्वारज्ञानमन्द्रिवज्रयाह स्नॆहः शशाङ्कादिति | शशाङ्काच्चन्द्रात्स्नॆहॊ वाच्यः | जन्मकालॆ पूर्णॆ चन्द्रॆ स्नॆहॆन पूर्ण दीपभाजनं वक्तव्यम् | क्षीणॆ क्षीणस्नॆहाक्तमिति | तथा यद्यॆवं तदामावास्यायां सर्वॆषामन्धकारॆ प्रसवॊ भवति | यस्मादयुक्तमॆतत् | तॆन यत्र राशौ चन्द्रमा व्यवस्थितस्तत्र यदि राशिप्रारम्भॆ स्थितॊ भवति तदा दीपभाजनं स्नॆहॆन पूर्णं वक्तव्यम् | यत्र राश्यवसानॆ स्थितस्तत्र स्नॆहाक्तम् | मध्यप्राप्तॆऽर्धम् | अन्यत्रानुपातादिति | उदयाच्च वर्तिः उदयाल्लग्नाद्वर्तिरादॆश्या | लग्नारम्भॆ 134 तत्क्षणवत्ता वर्त्तिरादॆशया | मध्यॆ अर्धदग्धा वर्तिः | लग्नावसानॆ वर्त्तिदाहॊ वाच्यः | अन्तरॆऽनुपातः | तथा च सारावल्याम् | “यावल्लग्नावुदितं वर्तिर्दग्धा तु तावती भवति |” दीपॊऽर्कयुक्तर्क्षवशादिति | अर्कॊ रविस्तद्यक्तराशिवशाच्चराद्यॊ दीपॊ वाच्यः | तत्र चरराशिव्यवस्थितऽर्कॆ सञ्चार्यमाणॊ दीप आदॆशयः | स्थिरराशिस्थॆऽर्कॆ ऎकदॆशस्थः | द्विस्वभावस्थॆऽर्कॆ चलितप्रतिष्ठित इति | कॆचिद्वदन्ति | यथा यस्मिन्राशावर्कः स्थितः स राशिर्यस्यां दिशि स्थितः प्रागादीशाः क्रियवृषनृयुक्कर्कटॆत्यादिना प्रदर्शितस्तस्यां दिशि दीप आदॆश्यः | अन्यॆ ऎवं वदन्ति | यथा यस्यां दिशि अर्कॊ भ्रमवशॆनाष्टप्रहरकल्पनयाष्टासु दिक्षु परिभ्रमति तॆनैव क्रमॆण यस्यां दिशि व्यवस्थितस्तस्यां दिशि गृहस्थ दीपस्थानमिति| तथा च सारावल्याम् | “द्वादशभागविभक्तॆ वासगृहॆऽवस्थितॆ सहस्रांशौ | दीपश्चरादिषु तथैव वाच्यः प्रसवकालॆ” | अत्र प्राच्यादिक्रमॆण गृहं द्वादशधा विभज्य मॆषादिगणन्यार्कराशिर्यत्र भवति तत्र दीपस्थानमिति | कॆचिल्लग्नस्य यादृशॊ वर्णस्तादूग्वर्णा दीपवर्तिमिच्छन्ति | तथा च मणित्थः“लग्नस्य यॊऽत्र वर्णॊ निर्दिष्टस्तॆन वर्तिरादॆश्या” द्वारं च तद्वास्तुनीति | सूतिकागृहॆ लग्नाकॆन्द्रस्थैग्रीहैद्वारादॆशः कार्यः | यस्य ग्रहस्य या दिक्प्राच्याद्या रविशुक्रलॊहिततम इत्यादिनॊक्ताः तद्दिगभिमुखं सूतिकागृहं बहुषु कॆन्द्रॆषु बलवद्ग्रहवशात् | शून्यॆषु कॆन्द्रॆषु तल्लग्नराशिवशात् लग्नस्य या दिक्तदभिमुखम् | यस्मादनॆनैव स्वल्पजातकॆ उक्तम् | “द्वारं वास्तुनि कॆन्द्रॊपगताद्ग्रहादसति वा विलग्नक्षत्” अन्यॆ वदन्ति | यथा | “लग्नद्वादशभागराशिदिगभिमुखं सूतिकागृहद्वारम्” तथा च मणित्थः | “लग्नॆ यॊ द्विरसांशस्तदभिमुखं सूतिकागृहॆ द्वारम्” ऎतच्च संवादॆनापि दृष्टमिति | वीर्यसमन्विराद्गग्रहाद्गृहद्वारं वदॆत् | तथा च सारावल्याम् | “वासगृहॊद्यानगतं द्वारं दिक्पालकाद्बलॊपॆतात्” इति || 18 ||  135 136 जीर्णं संस्कृतमर्कजॆ क्षितिसुतॆ दग्धं नवं शीतगौ काष्ठाढत्यं न दृढं रवौ शशिसुतॆ तन्नैकशिल्प्युद्भवम् |  रम्यं चित्रयुतं नवं च भृगुजॆ जीवॆ दृढं मन्दिरं चक्रस्थैश्च यथॊपदॆशरचनां सामन्तपूर्वां वदॆत् || 19 ||  भट्टॊत्पलः-अधुना सूतिकागृहस्वरूपज्ञानं शार्दूलविक्रीडि तॆनाहजीर्णं संस्कृतमिति | वीर्यसमन्वितादित्यनुवर्ततॆ | सर्वग्रहॆभ्यॊऽर्कजॆ सौरॆ वीर्यवति सबलॆ जीर्णमिति चिरन्तनं भूयः संस्कृतं सूतिकागृहं वक्तव्यम् | क्षितिसुतॆ भौमॆ बलवत्यग्निना दग्धं शीतगौ चन्द्रॆ नवं शुक्लपक्षॆ उपलिप्तं वदॆत् | यस्माद्यवनॆश्वरः | “चन्द्रमसॊपलिप्तम्” इति | काष्ठाढ्यं न दृढं रवाविति | रवावादित्यॆ काष्ठाढयं दारुबहुलं न दृढमसारं शशिसुतॆ बुधॆ तद्गृहमनॆकशिल्प्युद्भवं बहुविधशिल्पिरचितम् | रम्यं चित्रयुतमिति | भूगुजॆ शुक्रॆ रमणीयं मनॊरमं च परं नवं नूतनं चित्रयुतं चित्रकर्मयुक्तम् | जीवॆ गुरौ दृढं चिरकालस्थायि | चक्रस्थैर्भचक्राधिरूद्वैगृहदातृग्रहसमीपस्थैरन्यैग्रहैः सामन्तपूर्वा समन्तात्र्वदिक्षु यथॊपदिष्टां वदॆद् ब्रूयात् | सामन्तपूर्वा प्रतिवॆश्मिकवॆश्मनां समन्तात्क्रमॆणॆत्यर्थः | यथा गृहदातृग्रहस्य पुरतः पश्चाद्वा पाश्र्वयॊर्वाऽन्यॆ ग्रहा व्यवस्थितास्तॆनैव क्रमॆण सूतिकागृहस्यान्यानि प्रतिवॆश्मगृहाणि वाच्यानि | अन्यॆ सामन्तपूर्वामिति पठन्ति | समन्ताद्गृहपर्यन्तपूर्विकां रचनामिति | यथा च सारावल्याम् | भवनग्रहसंयॊगैः प्रतिवॆश्माश्चिन्तनीयाश्च | दॆवालयाम्बुपाककॊशविहाराद्यवस्करस्थानम्ं| | निद्रागृहं च भास्करशशिकुजगुरुभार्गवार्किबुधयॊगात्” | अत्राचार्यॆण भूमिकाप्रमाणं नॊक्तं त्रिशालद्विशाल ज्ञानं च तदुच्यतॆ | बृहस्पतौ कर्कटस्थॆ परमॊच्चाद्भ्रष्टॆ लग्नाद्दशमगॆ द्विभूकमुच्चभागॆष्वर्वाक्स्थितॆ त्रिभूमिकम् | उच्चभागस्थॆ चतुर्भूमिकं धनुषि सबलॆ सबलॆ दशमस्थानस्थॆ गुरौ त्रिशालं तद्गृहम् | मिथुनकन्यामीनस्थॆ द्विशालम् | उक्त च स्पल्पजातकॆ गुरुरुच्चॆ दशमस्थॆ द्वित्रिचतुर्भूमिकं करॊति गृहम् | धनुषि सबलॆ त्रिशालं द्विशालमन्यॆषु यमलॆषु |” 19 || 137 मॆषकुलीरतुलालिघटैः प्रागुत्तरतॊ गुरुसौम्यगृहॆषु | पश्चिमतश्च वृषॆण निवासॊ दक्षिणभागकरौ मृगसिंहौ | 20 ||  भट्टॊत्पलः-अथ समस्तवास्तुनि क्व सूतिकागृहमिति तद्विज्ञानं दॊधकॆनाहमॆषॆति | मॆषः प्रसिद्धः कुलीरः कर्कटः तुला तुल ऎव अलिर्वृश्चिकः घटः कुम्भः ऎषामन्यतमॆ लग्नॆ वास्तुनि प्राग्भागॆ निवासः सूतिकास्थानं वक्तव्यम्| अंशॆ वा | उत्तरतॊ गुरुसौम्यगृहॆषु गुरुगृहॆ धन्विमीनौ सौम्यगृहॆ मिथुनकन्यॆ ऎतॆषु लग्नॆषु तदंशकॆषु चॊत्तरतॊ वास्तुनि सूतिकागृहं वाच्यम् | वृषॆण तदंशकॆन च| गृहपश्चिमभागॆ सूतिकागृहम् | मृगसिंहौ मकरकॆसरिणी दक्षिणभागकराविति | दक्षिणभागॆ सूतिकागृहं कुरुतः | 20  138 प्राच्यादिगृहॆ क्रियादयॊ द्वौ द्वौ कॊणगता द्विमूर्तयः | शय्यास्वपि वास्तुवद्वदॆत्पादैः षटत्रिनवान्त्यसंस्थितैः || 21 ||  भट्टॊत्पलः-अथ सूतिकागृहॆ क्व शयनमिति तज्ज्ञानं वैतालीयॆनाहप्राच्यादिगृह इति | गृहॆ सूतिकावॆश्मनि प्राच्यादि पूर्वाद्याः क्रियादयॊ मॆषादयॊ राशयः द्वौ द्वौ चतसृषु दिक्षु, कॊणगता विदिक्स्था द्विमूर्त्तयॊ द्विस्वभावाः तद्यथा | मॆषवृषयॊर्लग्नयॊगृहस्य प्राग्विभागॆ सूतिकाशयनं मिथुनॆ आग्नॆय्यां कर्कसिंहयॊर्दक्षिणॆ कन्यायां नै‌ऋत्यॆ तुलावृश्चिकयॊः पश्चिमॆ धनुषि वायव्यॆ मकरकुम्भयॊः उत्तरॆ मीनॆ ऐशानॆ इति | ऎष ऎव विधिः शय्यास्वपि वक्तव्यः | अत उक्तं शय्यास्वपि वास्तुवद्वदॆदिति | किं त्वयं विशॆषः | पादैः षट्त्रिनवान्त्यसंस्थितैरिति | इह खट्वापादाः षट्त्रिनवान्त्यराशयः लग्नात्षष्ठतृतीयनवमद्वादशराशयः पादाः परिकल्प्याः | तत्रैतज्जातं यॆन लग्नॆन प्रसवस्तदुक्तदिशि शय्यायाः शिरस्तस्मादॆव षट्त्रिनवान्त्याः पादाः | तत्र द्वादशतृतीयौ पूर्वपादौ | तत्रापि तृतीयॊ दक्षिणः पादॊ द्वादशॊ वामः | षष्ठनवमौ पश्चिमपादौ | तत्रापि षष्ठॊ दक्षिणॊ नवमॊ वामः | द्वितीयलग्नौ शीर्षभागः, चतुर्थपञ्चमौ दक्षिणमङ्गम, सप्तमाष्टमौ पादान्तभागः | दशमैकादशौं वामाङ्गम्|” प्रयॊजनम्विनतत्वं यमलक्षैः क्रूरैस्तत्तुल्य उपघातः ” इति | यत्र द्विस्वभावराशयः स्थितास्त विनतास्तत्र विनतत्वं यत्र पापास्तत्र तादृशॊ वॊपघातः | ऎवं सदैवानुपपन्नखट्वाङ्गप्रसङ्गगः | यस्मादवश्यं क्वचिदपि विनतत्वम् | पापग्रहॊऽपि स्वॊच्चराशित्रिकॊणमित्रक्षॆत्रस्थः शुभफलकरॊ न भवतीति | 21 || 139 चन्द्रलग्नान्तरगतैग्रीहैः स्युरुपसूतिकाः | बहिरन्तश्च चक्रार्धॆ दृश्यादृश्यॆऽन्यथापरॆ || 22 ||  भट्टॊत्पलः-अधुनॊपसूतिकासङख्यामनुष्टभाह चन्द्रलग्नॆति | लग्नादारभ्य यत्र राशौं चन्द्रमा व्यवस्थितस्तदन्तरॆ तयॊर्मध्यॆ यावन्तॊ ग्रहा व्यवस्थितास्तॆ चन्द्रलग्नान्तरगता ग्रहास्तैरुपसूतकाः स्युः| तावत्सङ्ख्या उपसूतिकाः समीपवर्तिन्यः स्त्रियः स्युर्भवॆयुः | ताश्च ग्रहजातिवयॊवर्णरूपाः | तथा च सारावल्याम् | “शशिलग्नविवरयुक्ता ग्रहतुल्याः सूतिकाश्च विज्ञॆयाः | अनुदिनचक्रार्धयुतैरन्तर्बहिरन्यथा वदन्त्यॆकॆ | लक्षणरूपविभूषण-यॊगा-स्तास शुभैर्यॊगात् | क्रूरैर्विरूपदॆहा लक्षणहीनाश्च रौद्रमलिनाश्च | मिश्रैर्मध्यमरूपा बलसहितैः सर्वमॆतदवधार्यम्” | बहिरन्तश्चॆति | तत्र यावन्तॊ ग्रहा दृश्यॆ चक्रार्ध व्यवस्थितास्तावत्सङ्ख्या उपसूतिका गृहबाह्यॆ वक्तव्याः | यावन्तश्चादृश्यॆ चक्रार्धॆ व्यवस्थितास्तावत्सङख्या अभ्यन्तरॆ वक्तव्याः | तत्र लग्नस्य यावन्त उदिता भागास्तथा द्वादशैकादशदशमनवमाष्टमराशयस्तथा सप्तमराशॆलीग्नॊदितभागतुल्यांशा दृश्यमर्ध शॆषमदृश्यमिति | अन्यथापरॆ | अपरॆ अन्यॆ आचार्या अन्यथाऽन्यॆन प्रकारॆण दृश्यचक्रार्धॆ अभ्यन्तरगता वर्णयन्ति | 140 अदृश्यॆ बाह्यस्था ज्ञॆयाः | तथा च जीवशर्मा | “उदयशशिमध्यस्थैग्रहैः स्युरुपसूतिकास्तत्र | उदगर्धस्थैर्वाह्मै दक्षिणागैरन्तरॆ ज्ञॆयाः” | ऎतदाचार्यस्य नाभिमतम् | यतॊऽनॆनैव स्वल्पजातकॆ उक्तम् | “शशिलग्नान्तरसंस्था ग्रहतुल्याः सूतिकाश्च वक्तव्याः | उदगर्धॆऽभ्यन्तरगा बाह्याश्चक्रस्य दृश्यॆऽर्धॆ” | अत्र चायुर्दायविधिना “स्वतुङ्गवक्रॊपगतैत्रिसङ्गणम्’ इत्यादिना द्वित्रिगुणत्वं कृत्वा गृहस्थानवशादुपसूतिकानिश्चयः कार्यः यदि बहुजनप्रसूतियॊगा न भवन्ति तथापि ग्रहसङ्ख्याधिकसूतकासम्भवॊ यत्र भवति तत्र बहुजनप्रसूतियॊगॆन भवितव्यमिति|| 22 ||  लग्ननवांशपतुल्यतनुः स्याद्वीर्ययुतग्रहतुल्यतनुर्वा | चन्द्रसमॆतनवांशपवर्णः कादिविलग्नविभक्तभगात्रः || 23 ||  भट्टॊत्पलः-अथ जातस्य स्वरूपादिज्ञानं दॊधकॆनाह लग्नॆति | जन्मकालॆ लग्नॆ यॊ नवॆशक उदितस्तस्य यः स्वामी स लग्ननवांशपः तत्तुल्यतनुस्तदाकरॊ जातॊ वक्तव्यः | यथा मधुपिङ्गलदृगित्यादि | अथवा जातकालॆ सर्वग्रहॆभ्यॊ यॊ ग्रहॊ वीर्ययुतॊ बलवांस्ततुल्यतनुर्वा वक्तव्यः | यदि लग्ननवांशकस्थॊ राशिर्बलवान्भवति तदा तदीशतुल्यतनुर्भवति | अन्यथा 141 सर्वग्रहॆभ्यॊ यॊ वीर्यवान् ग्रहस्ततुल्यतनुरिति | चन्द्रसमॆत इति | यॊ नवांशः चन्द्रॆण शशिना समॆतश्चन्द्रॊ यस्मिन्नवांशकॆ स्थित इत्यर्थः | तस्य नवांशराशॆर्यॊऽधिपतिः सः चन्द्रसमॆतनवांशपतिस्तस्य यॊ वर्णस्तद्वर्णॊ जातॊ भवति | अत्र च वर्णॊ “रक्तः श्यामॊ भास्करॊ गौर” इति | अन्यॆ चन्द्राक्रान्तराशिवर्णमॆवाहुः | यथा “रक्तः श्वॆतः शुकतनुनिभः” इत्यादि | अत्र शुकवर्णस्यासम्भवादयुक्तमॆतत् | ऎतच्च वर्णादि जातिकुलदॆशान्बुद्ध्वा वक्तव्यम्| उक्तं च | “बलिनः सदृशी मूर्तिर्बुद्ध्वा वा जातिकुलदॆशान्” इति | कादिविलग्नविभक्तभगात्र इति | आधानविधिना शीर्षादीनामवयवानां ह्रस्वदीर्घत्वं निरूपयति | कादिभिर्विलग्नभैर्लग्नराशिभिः विभक्तानि गात्राणि यस्य सः कादिविलग्नविभक्तभगात्रः | तत्र लग्नॊदयॊ राशयः कादिषु शिरः प्रभृतिगात्रॆषु परिकल्प्याः | यथा कालाङ्गनि | तत्र लग्नं शिरॊ, द्वितीयॊ राशिर्वक्त्र, तृतीय उर, चतुर्थॊ हृत् पञ्चमः क्रॊडः, अन्त्ः नन्तिः, सप्तमॊ वस्तिः, अष्टमः शिश्नगुदॆ, नवमी वृषणौ, दशम उरू, ऎकादशॊ जानुनी, द्वादशॊ जङ्घापादौ | अत्र च राशीनां प्रमाणमुक्त पूर्वार्ध विषयादय इति | तत्र यत्राङ्गस्थॆ दीर्घराशी दीर्घराश्यधिपॊ ग्रहॊ व्यवस्थितॊ भवति तदङ्गं तस्य दीर्घ वक्तव्यम् | तथा च सत्यः | “दीर्घाधिपतिर्दीर्घॆ ग्रहः स्थितॊऽवयवदीर्घकृद्भवति” | अर्थादॆवाल्पप्रमाणराशावल्पराश्यधिपॊ ग्रहॊ व्यवस्थितस्तदङ्गल्पकृन्द्रवति | “दीर्घराश्यधिपॊऽल्पराशिव्यवस्थितः स मध्यमकृत् अल्पराश्यधिपॊ दीर्घराशौ व्यवस्थितॊऽङ्गमध्यमकृत् | यत्राङ्गराशौ बहवॊ व्यवस्थितास्तत्र बलवद्ग्रहवशाद्वाच्यम् | यत्र न कश्चिद्व्यवस्थितः तत्र राशिप्रमाणत ऎवाङ्ग वाच्यम् || 23 ||  142 कन्दूक्छॊत्रनसाकपॊलहनर्वॊ वक्त्र च हॊरादयस्तॆ कण्ठाँसकबाहुपाश्र्वहृदयक्रॊडानि नाभिस्ततः |  वस्तिः शिश्नगुदॆ ततश्च वृषणावूरू ततॊ जानुनी जङ्घाङघ्नीत्युभयत्र वाममुदितैर्द्रॆष्काणभागैस्त्रिधा || 24 ||  भट्टॊत्पलः-अत्रैव सूतिकाध्यायॆ जातस्य व्रणमशकादिनिरूपणार्थमङ्गप्रकरणमारभ्यतॆ | तत्र लग्नप्रथमद्वितीयतृतीयद्रॆष्काणवशॆन प्रथमद्वितीयतृतीयशरीर- भागपरिच्छॆदः | तत्र शिर प्रभृति यावद्वक्त्रं प्रथमॊऽङ्गविभागः| शिरॊऽधस्ताद्या- वन्नाभिस्तावद्द्वतीयः | तदधस्तात्तृतीयः | तॆषामङ्गविभागानां राशिविभागं शार्दूलविक्रीडि तॆनाहकन्दृगिति | त्रिभिः प्रकारैस्त्रिधा त्रिभिद्रॆष्काणभागैस्निधा शरीरप्रविभागः| तत्र लग्नस्य प्रथमद्रॆष्काणॆ उदयति प्रथमॊ मूर्धाद्यङ्गविभागः | द्वितीयद्रॆष्काणॆ उदयति कण्ठपूर्वकॊ द्वितीयॊऽङ्गविभागः | तृतीयॆ द्रॆष्काणॆ उदयति वस्तिपूर्वकस्तृतीयः | तत्राप्यङ्गविभागॆ वामदक्षिणवत्र्यवयवज्ञानं कथमित्याह | वाममुदितरिति | राशिभिरुदितैः दृश्यभागवस्थितैर्वामॊऽङ्गविभागः लग्नस्यॊदितः भागाः | तथा द्वादशैकादशदशमनवमाष्टमाः | तथा सप्तमस्यः ऎष भाग उदितः शॆषॊऽनुदितः लग्नप्रथमद्रॆष्काणॊदयॊ लग्नराशिः कंशिरः कल्पनीयम् | लदृक्चक्षुषी | तत्र द्वितीयॊ दक्षिणमक्षि, द्वादशॊ वामम् | तृतीयॆकादशौ श्रॊत्रॆ | तत्र तृतीयॊ दक्षिणं, ऎकादशॊ वामम् | चतुर्थदशमौ नासापुटॆ | चतुर्थॊ दक्षिणं दशमॊ वामम् | पश्चमनवमौ| कपॊलॊ | पश्चमॊ दक्षिणः, नवमॊ वामः | षष्ठाष्टमौ हनू षष्ठॊ दक्षिणं, अष्टमॊ वामम् | सप्तमॊ वक्त्रं मुखम् | ऎवं राश्याद्यपलक्षितः प्रथमॊङ्गविभागः | तॆ कण्ठांशक इति | अथ द्वितीयद्रॆष्काणॊदयः कण्ठाद्यॆ द्वितयॆऽङ्गविभागॆ परिकल्प्याः | तद्यथा || लग्नं कण्ठॊ गलकः | द्वितीयद्वादशौ 143 स्कन्धौ | तत्र द्वितीयॊ दक्षिणस्कन्धः द्वादशॊ वामः | तृतीयैकादशौ बाहू | तत्र तृतीयॊ दक्षिणः ऎकादशॊ वामः | चतुर्थदशमौ पाश्र्वॆ | तत्र चतुर्थॊ दक्षिणं, दशमॊ वामम् | पञ्चमनवमौ हृद्भागौ | तत्र पञ्चमॊ दक्षिणः, नवमॊ वामः | षष्ठाष्टमौ क्रॊड उदरभागौ | षष्ठॊ दक्षिणः, अष्टमॊ वामः | सप्तमॊ नाभिरिति | नाभिग्रहणमुदरॊपलक्षणार्थम् | ऎवं द्वितीयॊऽङ्गविभागः | वस्तिः शिश्नगुदॆ इति | लग्नद्रॆष्काणॆ तृतीयॆ उदयति त ऎव हॊरादयस्तृतीयॆऽङ्गविभागॆ परिकल्प्याः | तद्यथा | लग्नं वस्तिः नाभिलिङ्गयॊर्मध्यभागः | द्वितीयॊ दक्षिणभागः, द्वादशॊ वामः | ततॊऽनन्तरं तृतीयैकादशौ वृषणौ | तृतीयॊ दक्षिणः, ऎकादशॊ वामः | चतुर्थदशमौ ऊरू | चतुर्थॊ दक्षिणः, दशमॊ वामः | पञ्चमनवमौ जानुनी | पञ्चमॊ दक्षिण, नवमॊ वामम् | षष्ठाष्टमौ जङ्गॆ | षष्ठॊ दक्षिणजङ्घा, अष्टमॊ वामजङ्घा| सप्तमः पादद्वयमिति || 24 ||  144 तस्मिन्पापयुतॆ व्रणं शुभयुतॆ दृष्टॆ च लक्ष्मादिशॆत्| स्वाक्षांशॆ स्थिरसंयुतॆषु सहजः स्यादन्यथागन्तुकः | मन्दॆश्मानिलजॊऽग्निशस्त्रविषजॊ भौमॆ बुधॆ भूर्भवः सूर्यॆ काष्ठचतुष्पदॆन हिमगौ श्रृङ्गत्यब्जजॊऽन्यै शुभम् || 25 ||  भट्टॊत्पलः-अथाङ्गज्ञानप्रयॊजनं शार्दूलविक्रीडि तॆनाहतस्मिन् पापयुत इति | तत्र प्रथमद्रॆष्काणॆ जातस्य शिरॊऽङ्गविभागॊ द्वितीयद्रॆष्काणॆ जातस्य कण्ठाद्यङ्गविभागः | तृतीयॆद्रॆष्काणॆ जातस्य वस्त्याद्यङ्गविभागः | यत्र पापग्रहॊ व्यवस्थितस्तस्मिन्पापयुतॆ व्रणॊ वाच्यः | तस्मिन्नॆव पापयुतॆऽङ्गराशौ शुभयुतॆ दृष्टॆ सौम्यग्रहसंयुक्तॆऽवलॊकितॆ वा तद्राश्युपलक्षितॆऽङ्गॆ लक्ष्मादिशॆत् मशकादि चिह्न वाच्यम् | स्वाक्षांश इति | स ऎव ग्रहॊ व्रणमशकादिकर्ता स्वश्लॆ स्वराशौं स्वनर्वाशकॆ वा स्थितॊ भवति, स्थिरराशौ स्थिरांशकॆ वा स्थितस्तदा व्रणमशकादि सहजॊत्पन्नं तस्य जन्तॊभीवति| अन्यथॊक्तविपर्ययस्थॆ आगन्तुकॊ जातस्यॊत्तरकालॆ कॆनचिन्निमित्तॆन वक्ष्यमाणॆन स्वदशाकालॆ ऎव वक्तव्यः | आगन्तुकस्य व्रणादॆर्ग्रहवशॆन निमित्तमाह--| मन्दॆऽश्मानिलज इति | मन्दॆ शनैश्चरॆ व्रणकर्तृत्वं प्राप्तॆ स व्रणादिग्श्मजः पाषाणहॆतुकॊऽनिलजॊ वातव्याधिहॆतुकॊ वा वक्तव्यः | भौमॆ व्रणकर्तृत्वॆ प्राप्तॆऽग्निहॆतुकः शस्त्रहॆतुकॊ विषहॆतुकॊ वा वक्तव्यः | बुधॆ भूभवः भूस्थितपातादुच्छ्रितपाताद्भूम्यधिपातहॆतुकॊ लॊष्टप्रहारहॆतुकॊ वा | सूर्य रवौं काष्ठप्रहारहॆतुकश्चतुष्पदप्राणिहॆतुकॊ वा वक्तव्यः | हिमगौ चन्द्रॆश्रृङ्ग्यब्जजः श्रृङ्गयभिघातहॆतुकः श्रृङ्गॆ विद्यॆतॆ यस्य प्राणिनः स श्रृङ्गी, तज्जातॊऽब्जजॊ वा जलप्राणिहॆतुकॊ वा वक्तव्यः | अन्यैः शुभम् | अन्यॆ ग्रहा यत्राङ्गदॆशस्था भवन्ति तत्र शुभवृणादिकराभवन्ति | तत्रावशॆषौ गुरुसितौ तत् किं बहुवचनम् | उच्यतॆ | बुधः पापयुक्तॊ व्रणकरः क्षीणश्चन्द्रमा नान्यथा | ततॊऽन्यैः शुभमित्युक्तम्|| 25 ||  145 समनुपतिता यस्मिन्भागॆ त्रयः सबुधा ग्रहा भवति नियतात्तस्यावाप्तिः शुभॆष्वशुभॆषु वा |  व्रणकृदशुभः षष्ठॆ दॆहॆ तनॊर्भसमाश्रितॆ तिलकमशकृद्दृष्टः सौम्यैर्युतश्च स लक्ष्मवान् || 26 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆजन्मविधिनामाध्यायः सम्पूर्णः ||5|| भट्टॊत्पलः-अथ व्रणज्ञानं हरिण्याहसमनुपतिता इति | यस्मिन् भागॆ वामॆ दक्षिणॆ वा त्रयः सबुधा ग्रहाः त्रयॊऽन्यॆ ग्रहाश्चतुर्थॆन बुधॆन सहिताः समनुपतिताः समाश्रितास्तत्राङ्गॆ पूर्वप्रक्रान्तस्य व्रणादॆनिंयमान्निश्चयादवश्यं प्राप्तिर्भवति | शुभॆष्वशुभॆषु वा | तॆ ग्रहाः सबुधाः शुभाः सौम्याः अशुभा पापा वा भवन्ति तथापि तत्राङ्गॆ तस्य 146 व्रणावाप्तिर्वक्तव्याः तॆषां मध्यॆ यॊ बली स स्वदशायां करॊति | व्रणकृदिति | लग्नात् षष्ठॆ स्थानॆ अशुभः पापॊ ग्रहॊ व्यवस्थितॊ दॆहॆ शरीरॆ व्रणकृद्धवति | कस्मिन् स्थानॆ | तनॊर्भसमाश्रितॆतनॊर्लग्नात्स षष्ठस्थॊ राशिः कालाङ्गनीत्यनॆन दर्शिताङ्गविभागॆ यस्मिन्भवति तस्मिन् भसमाश्रितॆ राशियुक्तै दॆहॆ शरीरॆ भवति | अत्रापि ‘स्वक्षांशॆ स्थिरसंयुतॆषु सहजः स्यादन्यथागन्तुकः’ इत्यनुवर्तनीयम् | स ऎव षष्ठस्थानस्थः पापः सौम्यॆन शुभग्रहॆण तदा दृष्टॊ भवति तदा तत्राङ्गॆ तिलकमशकृद्भवति | तिलकः कृष्णॊ बिन्दुः, मशकॊऽर्बुदः | अथ शुभग्रहॆण स ऎव पापॊ युतस्तदा स लक्ष्मवान्भवति राश्युपलक्षितमङ्गं सचिह्नं भवति | अत्र स्थानॆ घनॊ लॊमनिचयॊ लक्ष्मॆति || 26 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां जन्मविधिनामाध्यायः || 5 ||  147 अथारिष्टाध्यायः | | 6 || सन्ध्यायां हिमदीधितिहॊरा पापैर्भान्तगतैर्निधनाय | प्रत्यॆकं शशिपापसमॆतैः कॆन्द्वैर्वा स विनाशमुपैति || 1 ||  भट्टॊत्पलः-अथारिष्टाध्यायॊ व्याख्यायतॆ | तत्र तावज्जातस्यारिष्टसम्भवॆ सत्यायुर्दायाष्टकवर्गादॆशः कर्तव्यः | तस्मात्प्रथममरिष्टाध्यायं वक्ष्यति | तत्रारिष्टद्वयं विद्युन्मालयाहसन्ध्यामिति | सन्ध्यालक्षण संहितायामुक्तम् |’अर्धास्तसमयात्सन्ध्या व्यक्तीभूता न तारका यावत् | तॆजः परिहानिमुखाद्धानॊरधौदयॊ यावत्’ अस्मिन् सन्ध्याकाल इति | तत्र जन्मनि यस्य सन्ध्याकालॊ भवति तत्काललग्नगता हिमदीधितॆश्चन्द्रस्य हॊरा भवति यथासम्भवं पापैर्भान्तगतैः यत्र तत्र राशिस्थान्त्यनवांशगताः पापा भवन्ति तदैष यॊगॊ जातस्य निधनाय भवति | प्रत्यॆकमिति | ऎकमॆकमिति प्रत्यॆकं, शशी चन्द्रः पापत्रयश्चतुर्षु कॆन्द्रॆषु व्यवस्थिता भवन्ति | ऎतदुक्तं भवति | आदित्यचन्द्रागारकशनैश्चरैर्यथासम्भवं चत्वार्यपि कॆन्द्राण्याक्रान्तानि भवन्ति तथापि यस्य जन्म भवति स विनाशमुपैति, म्रियत इत्यर्थः | 1 ||  चक्रस्य पूर्वापरभागगॆषु क्रूरॆषु सौम्यॆषु च कीटलग्नॆ |  क्षिप्रं विनाशं समुपैति जातः पापैर्विलग्नास्तमयाभितश्च | 2 ||  भट्टॊत्पलः-अथान्यानरिष्टयॊगानिन्द्रवज्रयाह चक्रस्तॆति | यावन्तॊ भागा लग्नस्यॊदितास्तावन्त ऎव भागा लग्नचतुर्थ राशॆः परित्यज्य शॆषभागमारभ्य पञ्चमषष्ठसप्ताष्टमनवमराशयॊ दशमराशिलग्नॊदितभागतुल्यांशाश्चक्रपरार्धम् | शॆषं पूर्वार्धम् | तत्र चक्रस्य पूर्वभागॆ क्रूराः पापाः, इतरभागॆ पश्चिमॆ सौम्याः शुभग्रहाः | कीटलग्नॆ 148 वृश्चिकराशावुदयॆ कर्कटॆ चॊदयस्थितॆ जातः शिशुः क्षिप्रमवश्यमॆव विनाशमुपैति मरणं प्राप्नॊतीत्यर्थः | नन्वत्र पूर्वं वृश्चिकः कीटसञ्ज्ञ उक्तः पुनरपि ‘द्विपदादयॊहिण निशि च प्राप्तॆ च सन्ध्याद्वयॆ’ इत्यत्र कर्कटवृश्चिकमकरमीनानां कीटत्वमभ्युपगतम् | तदत्र वृश्चिककर्कटावॆव कथं व्याख्यातावित्यत्रॊच्यतॆ | मकरमीनयॊर्जलत्वादपि सपक्षत्वात्कीटसञ्ज्ञा नाभ्युपगम्यतॆ | यस्माद्वादरायणःपूर्वापरभागगतैः शुभाशुभैरलिनि कर्कटॆ लग्नॆ | जातस्य शिशॊर्मरणं सद्यः कथयन्ति यवनॆन्द्राः” | पापैर्विलग्नास्तमयाभितश्चॆति | पापैः क्रूरग्रहैः विलग्नाभितः अस्तमयाभितश्च स्थितश्च सद्यॊ जातः क्षिप्रं शीघ्रमॆव विनाशं समुपैति | अत्र कॆचिदॆवं यॊगद्वयं व्याचक्षतॆ | अभित उभयतः लग्नात्पापैरुभयत इत्यॆकॊ यॊगः | अस्तमयाच्चाभितः इति द्वितीयः | तत्र लग्नद्वादशद्वितीयस्थयॊः पापयॊर्जातॊम्रियतॆ | तथा लग्नषष्ठाष्टमयॊश्च पापयॊर्जातॊ म्रियतॆ | तथा लग्नसप्तमाच्च यॆ द्वादशद्वितीयॆ तत्स्थयॊश्च पापयॊर्जातॊ म्रियतॆ | अन्यॆ पुनरभिशब्द आभिमुख्यॆ वर्तत इत्यनुवर्णयन्ति | तत्र लग्नाद्यॊ द्वितीयराशौ ग्रहः स्थितः स उदयमभिलषति लग्नस्याभिमुखॊ भवति | सॊऽस्तमयमभिलषतीत्यर्थः सप्तमराशिरभिमुखॊ भवति | तॆनैतज्जातम् | लग्नद्वितीयाष्टमगतैः सर्वैः पापैर्जातॊ म्रियतॆ | वयं पुनरभिशब्द आभिमुख्यव्यावृति बूमः | “पापॆषु लग्नाभिमुखॆषु सर्वॆष्वॆवाप्तवीर्यषु शुभर्क्षगॆऽपि”| किन्तु यॊ लग्नात्द्वादशस्थानॆ स्थितः स उदयमभिलषति लग्नाभिमुखॊ भवति | यश्च षष्ठॆ स्थितः सॊऽस्ताभिमुखॊ भवति, तस्मात्ग्रहाणां प्राङ्मुखी गतिः| उक्तं च- “प्राग्गतयस्तुल्यजवा ग्रहाश्च सर्वॆ स्वमण्डलगाः” इति| तत्र पूर्वाभिमुखं व्रजतॊ गच्छतॊ लग्नाद्द्वतीयस्थस्य न तदाभिमुख्यम् | तॆनैतज्जातं लग्नाद्द्वादशषष्ठाश्रितैः पापैर्यस्य जन्म स म्रियत इति | भगवता गाग्र्यण सर्वाण्यॆव व्याख्यातान्याभिमुख्यानीति | तथा च तद्वाक्यम्-“रिपुव्ययगतैः पातैर्यदि वा धनमृत्युगैः | लग्नॆ वा पापमध्यस्थॆ द्यूनॆ वा मृत्युमाप्नुयात्” इति || 2 ||  149 पापावुदयास्तगतौ क्रूरॆण युतश्च शशी |  दृष्टश्च शुभैर्न यदा मृत्युश्च भवॆदचिरात् || 3 ||  भट्टॊत्पलः-अथ यॊगान्तरमनुष्ठभाह पापाविति | ऎकः पाप उदयॆ लग्नॆ स्थितॊऽन्यॊऽस्तॆ सप्तमॆ गतः, शशी चन्द्रमाः यत्रतत्रस्थः क्रूरॆण पापॆन युतॊ भवति स च सौम्यैः शुभग्रहैर्यदि न दृष्टस्तदा जातस्य मृत्युरचिराच्छीघ्रमॆव भवॆत् || 3 ||  क्षीणॆ हिमगौ व्ययगॆ पापैरुदयाष्टमगैः |  कॆन्द्रॆषु शुभाश्च न चॆत्क्षिप्रं निधनं प्रवदॆत् || 4 ||  भट्टॊत्पलः-अथ यॊगांतरमनुष्टुभाह क्षीणॆ हिमगाविति | हिमगौ चन्द्रॆ लग्नाद्व्ययगॆ द्वादशस्थॆ तथा पापैः क्रूरग्रहैरुदयाष्टमगैः लग्नस्थैरष्टमगतैश्च कॆन्द्रॆषु कण्टकॆषु चॆद्यदि शुभा न भवन्ति तदा जातस्य क्षिप्रमाश्वॆव निधनं मरणं प्रवदॆद्ब्रूयात् | अत्र कॆचित्पापैरुदयाष्टमगैरिति नॆच्छन्ति | तद्युक्तम् | यस्माद्धगवान् गार्गिः | “क्षीणॆ चन्द्रॆ व्ययगतॆ पापैरष्टमलग्नगैः || कॆन्द्रबाह्यगतैः सौम्यैर्जातस्य निधनं वदॆत्” |4||  150 क्रूरॆण संयुतः शशी स्मरान्त्यमृत्युलग्नगः |  कण्टकाद्बहिः शुभैरवीक्षितश्च मृत्युदः || 5 ||  भट्टॊत्पलः-अथारिष्टान्तरमनुष्टभाह क्रूरॆणॆति | शशी चन्द्रः क्रूरॆण पापग्रहॆण संयुतस्तथाभूतः स्मरान्त्यमृत्युलग्नगः सप्तमद्वादशाष्टमलग्नानामन्यतमस्थस्तथा शुभैः शुभग्रहैः कण्टकबाह्यस्थैः कॆन्द्रवर्जमन्यस्थानस्थैः अवीक्षितः न दृष्टॊ यदि भवति तदा जातस्य मृत्युदॊ मरणदॊ भवति | अर्थादॆव सौम्यैः कॆन्द्रस्थैस्तदारिष्टाभावः | तथा च सारावल्याम्-‘व्ययाष्टसप्तॊदयगॆ शशाङ्कॆ पापैः समॆतॆ शुभदृष्टिहीनॆ | कॆन्द्रॆषु सौम्यग्रहवर्जितॆषु जातस्यः सद्यः कुरुतॆ प्रणाशम्” || 5 ||  शशिन्यरिविनाशागॆ निधनमाशु पापॆक्षितॆ शुभैरथ समाष्टकं दलमतश्च मिश्रैः स्थितिः |  असद्भिरवलॊकितॆ बलिभिरत्र मासं शुभॆ| कलत्रसहितॆ च पापविजितॆ विलग्नाधिपॆ || 6 ||  भट्टॊत्पलः-अथारिष्टान्तराणि पृथव्याह शशिनीति | शशिनि चन्द्रॆ अरिविनाशगॆ लग्नात्षष्ठस्थानस्थॆऽष्टमस्थॆ वा तत्र च पातानां क्रूराणामन्यतमॆनॆक्षितॆ दृष्टॆ सौम्यग्रहॆणादृष्टॆ जातस्य निधनं मरणमाशु क्षिप्रमॆव भवति | शुभैरिति | अत्र लग्नात्षष्ठाष्टमगॆ चन्द्रॆ सौम्यैग्रहैर्दृष्टॆ पापॆनादृश्यमानॆ जातस्य समाष्टक वर्षाष्टकं स्थितिः, जीवितं वक्तव्यम् | ततॊऽनन्तरं मरणमॆति | समाशब्दॊ वर्षपर्यायः | दलमत इति | लग्नात्षष्ठाष्टमगॆ 152 लग्नॆ क्षीणॆ शशिनि निधनं रन्ध्रकॆन्द्रॆषु पापैः पापान्तःस्थॆ निधनहिबुकद्यूनयुक्तॆ च चन्द्रॆ |  ऎवं लग्नॆ भवति मदनछिद्रसंस्थैश्च पापैर्मात्रा सार्धं यदि च न शुभैर्वीक्षितः शक्तिभृद्भिः || 7 ||  भट्टॊत्पलः-अथारिष्टान्तराणि मन्दाक्रान्तयाह लग्नॆ क्षीण इति | क्षीणॆ शशिनि चन्द्रॆ लग्नॆ जन्मलग्नस्थितॆ तथा रन्ध्रकॆन्द्रॆषु पापैः क्रूरैः स्थितैर्यथासम्भवमॆवंविधॆ यॊगॆ जातस्य निधनं मरणं वक्तव्यम् | तथा चन्द्रॆ शशिनि पापान्तःस्थॆ पापमध्यगतॆ निधनहिबुकद्यूनयुक्तॆऽष्टमचतुर्थसप्तमस्थानानामन्यतमस्थॆ जातस्य मरणं वक्तव्यम्| ऎवमिति | ऎवमनॆनैव प्रकारॆण लग्नगॆ पापान्तःस्थॆ शशिनि तथा मदनच्छिद्रसंस्थॆ सप्तमाष्टमस्थानयॊरन्यतमस्थॆ पापॆ क्रूरॆ यदि शुभैः सौम्यग्रहैः शक्तिभृद्भिः सबलैः चन्द्रमाः न वीक्षितॊ न दृष्टॊ भवति तदा जातस्य मात्रा सार्धं जनन्या सह मरणं वदॆत् | अथ निर्दिष्टयॊगस्थश्चॆच्चन्द्रमाः शुभैर्दृश्यतॆ बलिभिस्तदा जातस्यैव मरणं, न तन्मातुरिति || 7 || 153 राश्यन्तगॆ सद्भिरवीक्ष्यमाणॆ चन्द्रॆ त्रिकॊणॊपगतैश्च पापैः |  प्राणैः प्रयात्याशु शिशुर्वियॊगमस्तॆ च पापैस्तुहिनांशुलग्नॆ | 8 ||  भट्टॊत्पलः-अथारिष्टान्तराणीन्द्रवज्रयाह राश्यन्तग इति | चन्द्रॆ शशिनि राश्यन्तगॆ यत्र तत्र राशौ नवमनवांशगॆ तथाभूतॆ सद्भिः शुभग्रहैरवीक्ष्यमाणॊ न सन्दृष्टॆ पापैः क्रूरैस्त्रिकॊणॊपगतैः नवमपञ्चमस्थानस्थैः जातः शिशुर्बालकः आशु क्षिप्रमॆव प्राणैरसुभिर्वियॊगं प्रयाति गच्छति | म्रियत इत्यर्थः | अस्तॆ च पापैरिति | तुहिनांशौ चन्द्रॆ लग्नगॆ अस्तॆ सप्तमॆ सप्तमस्थानस्थितैः पापैश्चशब्दाच्छिशुराश्वॆव प्राणैर्वियॊगं प्रयाति | अत्र तुहिनांशुलग्न इति कर्कटलग्नॆ कैश्चिद्व्याख्यातम् | तदयुक्तम् | यस्मादनॆनैव स्वल्पजातकॆ उक्तम् | “उदयगतॊ वा चन्द्रः सप्तमराशिस्थितः पापैः” इति| 8 || अशुभसहितॆ ग्रस्तॆ चन्द्रॆ कुजॆ निधनाश्रितॆ जननिसुतयॊर्मृत्युर्लग्नॆ रवौ तु स शास्त्रजः |  उदयति रवौ शीतांशौ वा त्रिकॊणविनाशगैर्निधनमशुभैर्वीर्यॊपतैः शुभैर्न युतॆक्षितॆ || 9 ||  भट्टॊत्पलः-अथारिष्टान्तराणि हरिण्याह अशुभसहित इति | चन्द्रॆ शशिन्यशुभसहितॆ यद्यपि सामान्यॆनॊक्तं तथाप्यशुभॆन पापॆन शनैश्चरॆणैव युक्तॆ तथाभूतॆ लग्नगतॆ न कॆवलं यावत् लग्नगतॆ अस्तॆ सराहौ राशिगतॆ लग्नाच्च कुजॆऽङ्गारकॆ निधनाश्रितॆऽष्टमस्थानॆ जननिसुतयॊः 154 मातृपुत्रयॊः मृत्युर्भवति | रवौ तु सशस्त्रज इति | ऎवं विधॆ यॊगॆ रवावादित्यॆ स्थितॆ जननिसुतयॊर्मृत्युः शस्त्रजः शस्त्रॆणायुधॆन जातॊ भवति | ऎतॆनैतदुक्तं भवति | शनैश्चरॆण बुधॆन वा युक्तॆऽर्कॆ ग्रस्तॆ लग्नगतॆ कुजॆ चाष्टमगॆ जातस्य मात्रा सह शस्त्रहॆतुकं मरणं वाच्यम् | नन्वशुभ इति सामान्यॆनॊक्तम् | तत्कॆवलॆन शनैश्चरॆण युक्तॆ चन्द्रॆ शशिनि इति किं व्याख्यातम | शनैश्चरॆण बुधॆन वा युक्तॆऽर्कॆ इति नॊक्तम् | अत्रॊच्यतॆ | असम्भवादॆव पौर्णमास्यां चन्द्रग्रहणं भवति तत्र तावदर्कसहितॆन चन्द्रमसा न भवितव्यम् | बुधॆन चार्कसमीपवर्तिना सदैव भवतिव्यम् | अष्टमस्थानत्वाद्भौमॆनापि चन्द्रसहितॆन न भवितव्यम् | शनैश्चरं विना व्यवस्थितॆन बुधॆन सौम्यॆनैव भवितव्यम् | तस्माच्चन्द्रग्रहणॆ इति व्याख्यातम् | अर्कग्रहणॆ पुनः बुधॆन यदि युक्तॊऽर्कॊ भवति तदार्कसहितत्वात्तस्य पापता भवतीत्यतॊऽर्कस्य बुधसहितत्वमिति व्याख्यातम् | क्षीणॆन्दुयॊगादर्कस्य पापयॊग ऎवायं गण्यतॆ यस्मादवश्यममावास्यातॆऽर्कग्रहणॆन भवितव्यम् | तत्र चावश्यमर्कॆण क्षीणचन्द्रसहितॆन भवितव्यम् | तदार्कः क्षीणॆन्दुना युक्त इति आचार्यस्याभिप्रॆतं स्यात्तदा ग्रस्तॆऽर्कॆ निधनाश्रितॆ कुज इति कॆवलमकरिष्यत् | उदयति रवावादित्यॆ उदयति लग्नगतॆ शीतांशौ चन्द्रॆ वा लग्नगतॆ तथा अशुभैः पापैस्त्रिकॊणविनाशगैः नवपञ्चमाष्टमस्थैः सर्वैरॆव यथासम्भवमॆवंविधयॊगस्थॆ रवौ चन्द्रॆ वा शुभैः सौम्यग्रहैः वीर्यॊपॆतैः बलवद्भिः न युतॆक्षितॆ न संयुक्तॆ नापि दृष्टॆ जातस्य निधनं मरणं वदॆत् | अर्थादॆवॊक्तयॊगस्थॆ रवौ चन्द्रॆ वा बलिभिः शुभैर्युतॆ| दृष्टॆ चारिष्टयॊगाभावः | 9 ||  155 असितरविशशाङ्कभूमिजैर्व्ययनवमॊदयनैधनाश्रितैः | भवति मरणमाशु दॆहिनां यदि बलिना गुरुणा न वीक्षिताः | 10 || भट्टॊत्पलः-अथारिष्ठान्तरमपरवक्त्रॆणाह असितॆति | असितः सौरः रविरादित्यः शशाङ्कश्चन्द्रः भूमिजॊऽ ङ्गारकः ऎतैर्यथाक्रमं व्ययनवमॊदयनैधनाश्रितैः द्वादशनवमलग्नाष्टमस्थानस्थैः तत्रैतज्जातं शनैश्चरॆ द्वादशॆ अर्कॆ नवमॆ चन्द्रॆ लग्नगॆ भौमॆऽष्टमस्थॆ ऎतॆ सर्व ऎव यॊग कर्तारॊ ग्रहा यदि बलिना वीर्यवता गुरुणा जीवॆन वीक्षिताः न दृष्टास्तदा| जातस्य जन्तॊराश्वॆव मरर्ण भवति वदॆत्| अत्र यदा यॊगकर्तुन्ग्रहान् बलवान् गुरुः कांश्चित्पश्यति कांश्चिन्न पश्यति अथवा बलहीनः सर्वानॆव पश्यति तदा जातस्य मरणाय प्रवदॆत्, किन्तु आशु शीघ्रं न वदॆत् | अर्थादॆव सर्वानॆव गुरुः पञ्चमगः पश्यति तदारिष्टयॊगाभावः || 10 || 156 सुतमदननवान्त्यलग्नरन्ध्रॆष्वशुभयुतॊ मरणाय शीतरश्मिः |  भृगुसुतशशिपुत्रदॆवपूज्यैर्यदि बलिभिर्न युतॊऽवलॊकितॊ वा || 11 ||  भट्टॊत्पलः-अथारिष्टान्तरं पुष्पिताग्रयाह सुतॆति | शीतरश्मिश्चन्द्रः स च क्षीणः अशुभयुतः पापग्रहॆण संयुक्तः सुतमदननवान्त्यलग्नरन्ध्रॆषु स्थितः पञ्चमसप्तमनवमद्वादशॊदयाष्टमगतः | अथवा सुतमदननवान्त्यरन्ध्रॆ स्थित इति पाठः | ऎतॆषामन्यतमस्थानस्थः भृगुसुतॆन शुक्रॆण शशिपुत्रॆण बुधॆन दॆवपूज्यॆन बृहस्पतिना बलिभिर्वीर्यसंयुक्तैर्नयुतॊ नाप्यवलॊकितः ऎषां त्रयाणां मध्यादॆकतमॆनापि संयुतॊ न च दृष्टस्तदा जातस्य मरणाय भवति अर्थादॆव भृगुसुतशशिपुत्रदॆवपूज्यानामन्यतमॆन बलवता दृष्टॊ युक्तॊ वा भवति तदारिष्टयॊगाभावः | अत्र क्षीणचन्द्रग्रहणं नास्ति तत्कस्माद्व्याख्यातमित्यत्रॊच्यतॆ| आगमान्तरदृष्टत्वात | तथा च सारावल्याम् | “निधनास्तव्ययलग्नत्रिकॊणगाः क्षीणचन्द्रसंयुक्ताः | पापा बलिनः शुभदैरदृश्यमाना गतायुषां प्रायः|” |11 ||  यॊगॆ स्थानं गतवति बलिनश्चन्द्रॆ स्वं वा तनुगृहमथवा |  पापैर्दृष्टॆ बलवति मरणं वर्षस्यान्तः किल मुनिगदितम् | 12 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆऽरिष्टाध्यायः सम्पूर्णः | 6 ||  भट्टॊत्पलः-अथानुक्तमरणकालानामरिष्टयॊगानां कालपरिज्ञानं भ्रमरविलसि तॆनाह 157 यॊगॆ स्थानमिति | यस्मिन्नरिष्टयॊगॆ जातस्य मरणकालावधिनॊंक्त स्तस्मिन्नरिष्टयॊगॆ यॊगकर्तारॊ यॆ यॆ ग्रहास्तॆर्षा मध्याद्यॊ| बलवान्स यस्मिन्नराशौं जन्मकालॆ व्यवस्थितः स राशिर्बलिनः स्थानम् | तत्र चारक्रमाच्चन्द्रमसि प्राप्तॆ जातस्य मरणं वक्तव्यम् | अथवा चन्द्रॆ स्वमात्मीयस्थानं गतॆ जन्मकालॆ यत्र राशौ चन्द्रमा व्यवस्थितस्तमॆव राशि पुनरपि चन्द्रॆ गतॆ तत्र तस्य मरणं वक्तव्यम् | तनुगृहमथवा तनुगृहं लग्नं वा चारक्रमाद्गतॆ चन्द्रमसि जातस्य मरणं वक्तव्यम् | कदॆत्युच्यतॆ | वर्षस्यान्तः संवत्सराभ्यन्तरॆ | ऎतदुक्तं भवति | “अनुक्तकालरिष्टजातॊ वर्ष नातिक्रामति” इति | नन्वत्र प्रतिमासं चन्द्रमसा सर्वाण्यॆव स्थानानि गन्तव्यानि तत्किमित्युक्तं वर्षस्यान्तः | उच्यतॆ | पापैदृष्टॆ बलवति | ऎघु निर्दिष्टस्थानॆधु मध्याद्यत्र गतश्चन्द्रमा बलवान्भवति पापैश्च दृश्यतॆ तदा जातस्य मरणं वक्तव्यम् | न कॆवलं गतमात्र ऎव चन्द्रॆ | किल मुनिगदितं किलॆत्यागमसूचनॆ, मुनिगदितमिदमरिष्टलक्षणमित्यागमपारं पर्यॆण श्रूयतॆ इति | अत्रान्यैराचार्यैररिष्टभङ्गा उक्तास्तॆ च सत्यरूपाः यतॊ बहवॊ जाता अपि सत्स्वपि यॊगॆषु जीवन्तॊ दृश्यतॆऽतॊऽस्माभि किञ्चिल्लिख्यतॆ | “सर्वानिमानतिबलः स्फुरदंशुजालॊ लग्नस्थितः प्रशमयॆत्सुरराजमन्त्री | ऎकॊ बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त इव शूलधरप्रणामः | 1 || लग्नाधिपॊऽतिबलवानशुभैरदृष्टः कॆन्द्रस्थितैः शुभखगैरवलॊक्यमानः | मृत्युं विधूय विदधाति सुदीर्घमायुः सार्ध गुणैर्बहुभिरूर्जितया च लक्ष्म्या || 2 || लग्नादष्टमवत्र्यपि गुरुबुधशुक्रदृकाणगश्चन्द्रः | मृत्युं प्राप्तमपि नूनं परिरक्षत्यॆव निव्याजम् || 3 || चन्द्रः सम्पूर्णतनुः सौम्यर्क्षगतः शुभॆक्षितश्चापि | प्रकरॊति रिष्टभङ्गं विशॆषतः शुक्रसन्दृष्टः || 4 || बुधभार्गवजीवानामॆकतमः कॆन्द्रमागतॊ बलवान्| 158 यद्यत्क्रूरसहायः सद्यॊऽरिष्टस्य भङ्गाय || 5 || रिपुभवनगतॊऽपि शशी गुरुसितचन्द्रात्मजदृकाणस्थः | अगद इव भॊगिदष्टं परिरक्षत्यॆव निव्याजम् || 6 || सौम्यद्वयान्तरगतः सम्पूर्णः स्निग्धमण्डलः शशभृत् | निःशॆषारिष्टहन्ता भुजङ्गलॊकस्य गरुड इव || 7 || शशभृति पूर्णशरीरॆ शुक्लॆ पक्षॆ निशाभवॆ कालॆ | रिपुनिधनस्थॆऽरिष्टं प्रभवति नैवात्र जातस्य || 8 || प्रस्फुरितकिरणजालॆ स्निग्धामलमण्डलॆ बलॊपॆतॆ | सुरमन्त्रिणि कॆन्द्रगतॆ सर्वारिष्टं शमं याति | 9 || सौम्यभवनॊपयाताः सौम्यांशकसौम्यदृकाणस्थाः | गुरुचन्द्रकाव्यशशिजाः सर्वॆऽरिष्टस्य हन्तारः || 10 || चन्द्राध्यासितराशॆरधिपः कॆन्द्रॆ शुभग्रहॊ वापि | प्रशमयति रिष्टयॊगं पापानि यथा हरिस्मरणम् || 11 || पापा यदि शुभवर्गॆ सौम्यैर्दृष्टाः शुभांशवर्गस्थैः | निघ्नन्ति तदारिष्टं पतिं विरक्ता यथा युवतिः || 12 || राहुस्त्रिषष्ठलाभॆ लग्नात्सौम्यैनिरीक्षतः सम्यक् | नाशयति सर्वदुरितं मारुत इव तूलसङ्घातम् || 13 || शॊषॊदयॆषु राशिषु सर्वॆ गगनाधिवासिनः सूतौ | प्रकृतिस्थैश्चारिष्टं विलीयतॆ घृतमिवाग्निस्थम् || 14 || तत्कालॆ यदि विजयी शुभग्रहः शुभनिरीक्षितॊऽवश्यम् | नाशयति सर्वारिष्टं मारुत इव पादपान् प्रबलः || 15 || सर्वैर्गगनभ्रमणैर्दृष्टश्चन्द्रॊ विनाशयति रिष्टम् | आपूर्यमाणमूर्तिर्यथा नृपः स्वं नयॆद्द्वॆषी || 1 6” इति || 12 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां अथरिष्टाध्यायः || 6 || 159 160 मययवनमणित्थशक्तिपूर्वॆर्दिवसकरादिषु वत्सराः प्रदिष्टाः |  नवतिथिविषयाश्विभूतरुद्रदशसहिता दशभिः स्वतुङ्गभॆषु || 1 ||  भट्टॊत्पलः-अथायुर्दायाध्यायॊ व्याख्यायतॆ | तत्र पूर्वॊक्तरिष्टाध्यायॆऽरिष्टव र्जितस्यायुर्दायः कर्तव्यः | तत्रादावॆव मययवनमणित्थपराशरमतॆन प्रत्यॆकस्य ग्रहस्य परमायुः प्रमाणं पुष्पिताग्रयाह मययवनॆति | मयॊ मयनामा दानव सूर्यलब्धवरप्रसादः | यवन म्लॆच्छजातीया हॊराविदः | मणित्थ आचार्यः | पराशरः शक्तिः पूर्वा यस्य स शक्तिपूर्वः पूर्वशब्दॆन पिता उच्यतॆ | तैः मययवनमणित्थशक्तिपूर्वैः दिवसकरादिष्वादित्यादिषु ग्रहॆषु वत्सराः संवत्सरा परमायुः प्रमाणाब्दाः प्रदिष्टाः उक्ताः | नवतिथिविषयाश्वीत्यादि | अत्र नवभिर्दशसहिता इति सर्वत्रैव शॆषभूतं तॆन नवभिः सहिता दश ऎकॊनविशतिः परमायुः प्रमाणवत्सरा दिवसकरस्यादित्यस्य तिथिभिः पञ्चदशभिः सहिता दश पञ्चविंशतिश्चन्द्रस्य | विषयैः पञ्चभिः सहिता दश पञ्चदश भौमस्य | अश्विभ्यां द्वाभ्यां सहिता दश| द्वादश बुधस्य | भूतैः पञ्चभिः सहिता दश पञ्चदश गुरौः | रुद्रैरॆकादशभिः सहिता दश ऎकविंशतिः शुक्रस्य | दशभिः सहिता दश विंशतिः सौरस्य | ऎतानि ग्रहाणां परमायुः प्रमाणवर्षाणि स्वपरमॊच्चांशस्थितॆषु भवन्ति | तत्रॆदृशाः परमॊच्चस्थिता ग्रहा आदित्यादयॊ भवन्ति | यद्यथा ऎवं विधा ह्यॆतॆ यथानिर्दिष्टवर्षाणि प्रयच्छन्ति | 19 ||25|15|1 2 ||15|21|20 | अङ्कॆनापि ऎतान्यर्कादीनां परमायुः प्रमाणवर्षाणि | 1 || 161 नीचॆऽतॊऽर्ध ह्रसति हि ततश्चान्तरस्थॆऽनुपातॊ हॊरा त्वंशप्रतिममपरॆ राशितुल्यं वदन्ति |  हित्वा वक्रं रिपुगृहगतैर्हीयतॆ स्वत्रिभागः सूर्यॊच्छिन्नद्युतिषु च दलं प्रॊज्झ्य शुक्रार्कपुत्रौ || 2 ||  भट्टॊत्पलः-अथ परमनीचावस्थिनामायुर्दायज्ञानं मन्दाक्रान्तयाह नीच इति | अत ऎव दिवसकरादयॊ नीचॆ परमनीचॆ अर्ध परमायुः प्रमाणवर्षॆभ्यॊऽपहरति | अत ऎवॊक्तम् | नीचॆऽतॊऽस्मात्पूर्वॊक्तात्परमायुषॊऽर्धं दलं ह्रसति क्षीयतॆ अथॆदृशा रव्यादयः परमनीचस्था भवन्ति | परमनीचस्थास्त ऎव पूर्वॊक्तायुषॊऽर्धं दलं प्रयच्छान्त | तद्यथा || रविः सार्धानि नव वर्षाणि प्रयच्छति | चन्द्रः सार्धानि द्वादश वर्षाणि प्रयच्छति | ऎवं भौम सप्त सार्धानि | ऎवं बुधः षट्| 162 ऎवं बृहस्पतिः सप्त सार्धानि | ऎवं शुक्रॊ दश सार्धानि | ऎवं शनैश्चरॊ दश | अङ्ग्रॆनापि रवॆवीषणि 9 मासाः 6 | चन्द्रस्य वर्षाणि 12 मासाः 6 | भौमस्य वर्षाणि 7 मासाः 6 | बुधस्य वर्षाणि 6 | गुरॊ वर्षाणि 7 मासाः 6 | शुक्रस्य वर्षाणि 10 मासाः 6 | शनॆः वर्षाणि 10 | ततश्चान्तरस्थॆऽनुपात इति | ततः तस्मादुच्चान्नीचाच्चान्तरस्थॆ मध्यवर्तिनि ग्रहॆऽनुपातः त्रैराशिकः कर्तव्यः | सर्वॆषां नीचानि अङ्कतयैव लिख्यन्तॆ | तत्र तावत्सर्वस्यॆव ग्रहस्य परमॊच्चपरमनीचान्तरालं राशिषट्कं भवति | तावदॆव लिप्तापिण्डीकृत्य दश सहस्राण्यष्टौ च शतानि भवन्ति (1080 0) तत्र स्वॊच्चादधिकं ग्रहॆण यदा भुक्तं भवति तदा तत्र स्वॊच्चं विशॊध्य शॆषस्य लिप्तापिण्डीकार्यम् | अथ स्वनीचादधिकं ग्रहॆण भुक्तं भवति तदा तत्र स्वनीचमपास्यावशॆषं लिप्तापिण्डीकार्यम् | तास ग्रहभुक्तलिप्तागण इत्याख्या | तस्यैव ग्रहस्य परमनीचॊक्तानि वर्षाणि मासयुतानि कार्याणि कथमुच्यतॆ | वर्षाणि द्वादशभिः सङ्गुण्य तत्र मासान्यॊजयॆत्तानि च मासीकृतान्यादित्यादीनां लिख्यन्तॆ | तद्यथा चतुर्दशाधिकं शतं रवॆः प्राग्वद्विभज्य सार्धं शतं चन्द्रस्य नवतिर्भॊमस्य | द्विसप्ततिर्बुधस्य | नवतिर्जीवस्य | षड्वंशत्यधिकं शतं शुक्रस्य | विंशत्यधिकं शतं सौरस्य | अङ्कॆनापि 1 14 सूर्यस्य || 15ऒ चन्द्रस्य || 90 भौमस्य || 72 बुधस्य || 90 जीवस्य || 1 2 6 शुक्रस्य || 1 2 ऒ शनॆः | तत्र त्रैराशिकं यदि भगणार्धलिप्ताभिः खखाष्टदिक्सङख्याभिरॆताः (10800) इष्टग्रहपरमनीचमासा लभ्यन्तॆ तदा तद्ग्रहभुक्तलिप्ताभिः कियन्त इति अत्रॆदं सूत्रम् | “त्रैराशिकॆ प्रमाणं फलमिच्छाद्यन्तयॊः सदृशराशी | इच्छा फलॆन गुणिता प्रमाणभक्ता फलं भवति|” तदर्थ ग्रहपरमनीचमासैः सङ्गुण्य भगणार्धलिप्ताभिर्विभज्यावाप्तं मासाः| मासशॆषं त्रिंशद्गुणितं (30) प्राग्वद्विभज्यावाप्तं दिवसाः | दिनशॆषं षष्ट्या सङ्गुण्य प्राग्वद्विभज्यावाप्तं घटिकाः | घटिकाशॆषं षष्ट्या सङ्गुण्य प्राग्वद्विभज्यावाप्तं विकलाः पलानि | ऎवं मासादिश्चषकान्तःकाल आगतः | मासानां द्वादशभिर्भागमपहृत्य चावाप्तं वर्षाणि लभ्यन्तॆ | तदॆव शॆषं मासाः | ऎवमागतं वर्षादिपरमॊच्चायुर्दर्शितवर्षॆभ्यः संशॊध्यावशॆषं ग्रहॆण वर्षादिरायुषः कालॊ दत्तॊ भवति | ऎवमुच्चाद्विच्युतस्य नीचमप्राप्तस्य कर्त्तव्यं 163 नीचाद्विच्युतस्यॊच्चमप्राप्तस्य प्राग्वत्कालमानीय तस्यैव ग्रहस्य परनीचायुषि संयॊज्य ग्रहस्यायुषः कालॊ वर्षादिर्भवति | अथवा यदि राशिषट्कलिप्ताभिरर्धायुर्वर्षाण्यपचीयन्तॆ तदैताभिग्रहभुक्तलिप्ताभिः किमित्यत्र मध्यमराशिसवर्णीकृत्य तॆनाङ्कॆन ग्रहभुक्तलिप्ता गुणयॆत् | ततः परिवत्र्य भागहारच्छॆदांशैराच्छॆदसङ्गुणश्छॆदांशांशगुणा भाज्यस्य भागहारः सवर्णितयॊरित्यत्र वर्षाणामॆवम् स्वच्छॆदादिकॆन भगणार्धालिप्ताः सङ्गुण्य खखषट्चन्द्रनयनलिप्ता भवन्ति (21 6 ऒ ऒ) ऎताभिर्भागमपहृत्य वर्षाणि लभ्यन्तॆ | शॆषं द्वादशभिः सविकलं सङ्गुण्याधःस्थस्य सविकलस्य षष्टया भागमपहृत्यॊपरितनराशौ संयॊज्य प्राग्वद्विभज्य मासा लभ्यन्तॆ | ऎवं शॆषं सविकलं त्रिंशता षष्ट्या सङ्गुण्य दिनघटिका विघटिकाश्चानयितव्याः शॆषं प्राग्वत्कर्म | अथ लघुनॊपायॆन पिण्डायुष आनयनं प्रदर्श्यतॆ | तद्यथा | इष्टग्रहात् प्रागुक्तमुच्चधुवकं विशॊध्यावशॆषं कर्म भूमौ स्थापयॆत् | अथॊच्चधुवकं न शुव्यति तदा ग्रहॆ राशिद्वादशकं दत्त्वा तस्मादुच्चमपास्याविशॆष स्थापयॆत् | ततस्तदवशॆषं राशिषट्कादूनं भवति तदा राशिद्वादशकादपास्य शॆषं स्थाप्यम् | राशिषट्काधिकं भवति तदा तदॆव ग्राह्यम् | तत्कर्म भूमौ राश्यादिकं विलिप्तान्तं स्वपरमायुर्वर्षैः सङ्घण्य स्वच्छॆदैर्विभज्य लब्धमुपर्युपरि यॊजयॆत् | विलिप्तानां च षष्टया भागानां त्रिंशता राशीनां द्वादशराशिभ्यॊ लब्ध वर्षाणि | तदवशॆषं मासाः | भागशॆषं दिवसाः | लिप्ताशॆष घटिकाः | विलिप्ताशॆष चषका इति | ऎतावतैव कर्मणा| स्फुटं भवति | तथा च सारावल्याम् | “स्वॊच्चशुद्धॊ ग्रहः शॊध्यः षड्भादूनॊ भमण्डलात् | स्वपिण्डगुणितॊ भक्तॊ भादिमानॆन वत्सराः | (1 ||12|30|60 ||60 |) इति | हॊरा त्वंशप्रतिममिति | हॊरा लग्नम् | सा चांशप्रमाणानि वर्षाणि ददाति यावन्तॊ नवांशका लग्नॆन भुक्तास्तावन्त्यॆव वर्षाणि ददाति | तत्करणं यथा तत्कालिकस्य लग्नस्य राशीनपास्य शॆषं लिप्तापिण्डीकार्यम् | तत्र शतद्वयॆन भागगपहृत्यावाप्ता भुक्तनवांशकास्तावन्त्यॆव वर्षाणि लग्नमायुर्दायं प्रयच्छति अवशॆषॆण सह त्रैराशिकं कृत्वा वर्षाणामधस्तान्मासाद्यं स्थापयितव्यम् | तद्यथा | यदि लिप्ताशतद्वयॆन द्वादश मासा लभ्यन्तॆ तदावशॆषलिप्ताभिः कियन्त इति | तॆनावशॆषलिप्ता द्वादशभिः 164 सङ्गुण्य शतद्वयॆन विभज्यावाप्तं मासास्तॆ च वर्षाणामाधः स्थाप्याः मासशॆषं त्रिंशता सङ्गुण्य शतद्वयॆन प्राग्वद्विभज्यावाप्तं च दिवसाः तॆ मासानामधः स्थाप्याः| ऎवं लग्नस्य राशितुल्यमायुर्दायमिच्छन्ति | लग्नॆन यावन्तॊ राशयॊ भुक्तास्तावन्त्यॆव वर्षाणि लग्नायुः | लग्नस्य भुक्त भागादिकं लिप्तापिण्डीकृत्य मासाद्यानयनॆ त्रैराशिकं कर्तव्यम् | यद्यष्टादशभिर्लिप्ताशतैद्वादश मासा लभ्यन्तॆ तदैताभिर्लग्नभुक्तलिप्ताभिः कियन्त इति | प्राग्वद्वर्षाणामधस्तान्मासाद्यं निहितव्यम् | ऎवं कॆचिल्लग्नायुर्दायमिच्छन्ति | तथा च मणित्थः | “लग्नराशिसमाश्चाब्दा मासाद्यमनुपाततः लग्नायुर्दायमिच्छन्ति हॊराशास्त्रविशारदः |” इति | तदॆव मतं शॊभनमित्यस्माकमभिप्रॆतम् | अन्यॆ त्वॆवमिच्छन्ति | तथा लग्नाशपतौ बलवति अंशतुल्यं राश्यधिपॆ बलवति च राशितुल्यमिति | तथा च सारावल्याम् “लग्नाद्दत्तॊंऽशतुल्यः स्यादन्तरॆ चानुपाततः तत्पतौ बलसंयुक्तॆ राशितुल्यं च भाधिपॆ |” हित्वा वक्रमिति | यॆन ग्रहॆण यावत्सङख्यं आयुर्दायॊ| दत्तस्तस्य स्व भवति तस्मात्स्वादायुषॊ भौमादिकस्य ग्रहस्य वक्रं विपरीतगतं हित्वा वर्जयित्वा यॊ ग्रहॊ रिपुगृहगतः शत्रुक्षॆत्रावस्थितॊ भवति तॆन स्वादायुषस्त्रिभागॊ हीयतॆ स ग्रहस्त्रिभागमपहरतीत्यर्थः| वक्रितः पुनः शत्रुक्षॆत्रगतॊऽपि नापहरति | तथा च “वक्रचारं विना त्र्यंशं शत्रुराशौ हरॆद्ग्रहः |” ऎतद्बहूनां मतम् | आचार्यस्य पुनरॆष ऎव पक्षॊऽभिप्रॆतः | अन्यथा हित्वा भौमं रिपुगृहगतैर्हीयतॆ स्वत्रिभागम्” इत्यॆवावक्ष्यत् | वक्रं हित्वा यॊ ग्रहॊ रिपुराशिगत ऎव ज्ञायतॆ यथा वक्रगॊ ग्रह आयुर्दायं सबलत्वात् त्रिगुणं ददाति तथाऽत्रापि नापहरतीति निश्चयः अन्यॆ पुनरॆवं व्याचक्षतॆ | यथा वक्रमङ्गरकं हित्वा यॊ ग्रहॊ रिपुराशिगस्तॆन स्वादायुषरित्रभागा हीयतॆ भौमः शत्रुक्षॆत्रगतॊऽपि नापहरति | अत्र च बादरायणः | “भूम्याः पुत्रं वर्जयित्वाऽरिभस्था हन्युः स्वात्स्वादायुषस्तॆ त्रिभागम् |” इति | सूर्यॊच्छिन्नद्युतिषु सूर्यण रविणा उच्छिन्ना कर्तिता द्युतियँर्षा तॆ सूर्यॊच्छिन्नद्युतयः आदित्यमण्डलॆ अस्तमितॆयु ग्रहॆषु दलमर्ध हीयतॆ | किन्तु शुक्रार्कपुत्री सितशनैश्चरौ प्रॊज्झ्य वर्जयित्वा | तावस्तङ्गतावपि नापहरतः | तथा च बादरायणः “अस्तं याताः सर्व ऎवार्धहानिं कुर्युर्हित्वा दैत्यपूजार्कपुत्रौ”|2|| 165 166 167 सर्वार्धत्रिचरणपञ्चषष्ठभागाः क्षीयन्तॆ व्ययभवनादसत्सु वामम् |  सत्स्वर्ध ह्रसति तथैकराशिगानामॆर्कॊऽशं हरति बली तथाह सत्यः | 3 ||  भट्टॊत्पलः-अथ ग्रहाणां स्वादायुषश्चक्रपातॆनापहानिं प्रहर्षिण्याऽऽहसर्वाद्धॆति | असत्सु पापग्रहॆषु व्ययभवनादारभ्य द्वादशस्थानात्प्रभृति सप्तमान्तं यावद्व्यवस्थितॆषु वा व्युत्क्रमॆण यथाक्रमं सर्वार्द्धादयॊ भागाः क्षीयन्तॆ | तत्र लग्नात् द्वादशस्थः पापग्रहः सर्वमायुदात्मीयमॆवापहरर्ति ऎकादशस्थॊऽर्धं दशमस्थस्त्रिभागं नवस्थश्चतुर्भागम् अष्टमस्थः पञ्चमभागं सप्तस्थः षड्भागमिति | सत्स्वर्धमिति | ऎतॆष्वॆव व्ययादिषु स्थानॆषु सत्सु शुभग्रहॆषु व्यवस्थितॆष्वशुभग्रहॊक्तस्यार्धं क्षीयतॆ | तत्र लग्नात् द्वादशस्थः शुभग्रहः स्वायुषॊर्धमपहरति | ऎकादशस्थश्चतुर्भागं दशमस्थः षड्भागं नवमस्थॊऽष्टमभागम् अष्टमस्थॊ दशमभागं सप्तमस्थॊ द्वादशभागमिति | तथैकराशिगानामिति | उक्तस्थानॆधु यदा ग्रहद्वयं भवति बहवॊ वा स्युस्तदा तॆषामॆकसंस्थितानां मध्यादॆक ऎव यॊ बली वीर्यवान्स ऎवैकॊऽशं भागं यथापठितमपहरति नान्यॆ तत्रस्था अपहरन्ति | ऎतत्सत्य आह सत्याचार्यः कथयति | अशग्रहणं यथासम्भवं भाग्प्रदर्शनार्थम् | तथा च सत्यः | “ऎकादशॊत्क्रमात्सप्तमादिति प्राह हरणकर्माणि | ऎकर्क्षगॆषु विर्याधिकः स्वभागं हरॆदॆकः अर्ध तृतीयभागं चतुर्थकं पञ्चमं च षष्ठं च | आयुःपिण्डात्पापा हरन्ति सौम्यास्तथार्धानि | द्वादशस्थः पापः स्वान्दायं शॊभनस्ततॊऽर्धं तु | अपहरति सर्वमायुर्यथा चः यॊगस्तमपि वक्ष्य इति | ऎकक्षांपगतान यॊ भवति बलाधिकॊ विशॆषॆण क्षपयति यथॊक्तमंशं स ऎव नान्यॊऽपि तत्रस्थः |” इति | वराहमिहिरमिहिरस्याप्यॆवं मतम् | इह सत्यमतॊपन्यास आगमानुसृसिप्रदर्शनार्थः | 3 || 168 सार्द्धॊदितॊदितनवांसहतात्समस्ताद्भागॊ‌अष्टयुक्तशतसंख्यमुपैतिनाशम् |  क्रूरॆ विलग्नसहितॆ विधिना त्वनॆन सौम्यॆक्षितॆ दलमतः प्रलयं प्रयाति | 4 ||  भट्टॊत्पलः-अथ लग्नस्थः पापश्चक्रपातवदायुषॊंऽशमपहरति तस्यांशप्रमाणज्ञानं सार्द्धॊदितॆति | उदिता यॆ नवांशास्तॆ उदितनवांशाः सार्द्धॊदितॆन नवांशॆन वर्तन्त इति सार्द्धॊदितॊदितनवांशाः | ऎतदुक्तं भवति | तात्कालिकस्य स्फुटलग्नस्य यॆ भुक्ताः भागाः तॆषां लिप्ताः पिण्डीकृत्य शतद्वयॆन भागमपहत्यावाप्त तस्मिन्कालॆ भचक्रस्य च यावन्तॊ नवंशका उदिताः पश्चादद्धॊदितॊ नवांशकः स तत्र उदितनवांशसमूहॆ यॊज्यः | ऎवं कृतॆ सार्द्धॊदितॊदितनवांशसमूहॊ भवति | तॆन गणितागतं समस्तमॆवायुः पिण्डं गुणयॆत्| ऎवं कृतॆ सार्द्धॊदितॊदितनवांशहतः समस्त आयुः पिण्डॊ भवति | 169 तस्मादष्टाधिकशतॆनभागॆ यहृतॆवाप्यतॆ वर्षादि तन्नाशमुपैति क्षयं गच्छति | किं सर्वॆषां नॆत्याह | क्रूरॆ विलग्नसहिद इति | यदा विलग्नस्थः क्रूरः आदित्याङ्गारशनैश्चराणामन्यतमॊ भवति तदैव आगतं वर्षादि समस्तायुः पिण्डात्संशॊध्यम् | ऎवं कृतॆ तत्कालजातस्य जन्तॊरायुर्वर्षादि स्फुटं भवति किन्तु प्रत्यॆकस्य ग्रहस्य तत्कर्म कर्तव्यं यॆनायुःसङ्क्षुद्धानि दशावर्षाणि सर्वॆषां भवन्ति | विधिना त्वनॆन सौम्यॆक्षित इति अनॆन विधिना स ऎव लग्नस्थः क्रूरग्रहॊ यदा सौम्यॆक्षितः शुभग्रहॆण दृश्यतॆ तदा विधिना त्वनॆन यत्फलमायुः पिण्डात्साद्धदितॊदितनवांशहतात्समस्तायुः पिण्डादष्टॊत्तरशतॆन भागॆ हृतॆ यत्फलं लब्धम् अतॊ दलमर्धं प्रलयं प्रयाति तदर्धीकृत्यायुः पिण्डात्पातयॆदॆवं कृतॆ आयुः प्रमाणं स्फुटं भवति | अन्यॆ ऎवं व्याचक्षतॆ | तात्कालिकॆन लग्नॆन भुक्ता यॆ नवांशकास्तॆ सार्द्धादितनवांशॆन सह ग्राह्याः अयमर्थः | तात्कालिकस्य लग्नस्य राशीनपास्य भागान् लिप्तपिण्डीकृत्य शतद्वयॆन भागमपहृत्या - . प्राग्वत्कार्यम् | ऎतदपि स्थूलम् | तॆन लग्नभागल्लिप्तीकृत्य ताभिः प्रत्यॆकग्रहदतवर्षादिकायुर्दायं सङ्खण्य स्वच्छॆदैर्भागमहत्यॊपर्युपरि यॊजयॆत् | वर्षभगणकलाभिर्भागमपहरॆल्लब्धं वर्षादि तस्य प्राग्वत्पातनं कार्यम् | तथा च सारावल्याम् | “लग्नांशलिप्तिका हत्वा प्रत्यॆकं विहगायुषा | भाज्या मण्डललिप्ताभि 21600र्लब्धं वर्षादि शॊधयॆत् | स्वायुषॊ लग्नगॆ क्रूरॆ सौम्यदृष्टॆ च तद्दलम् |” (1) इति | ऎतदॆव शॊभनमस्माकं प्रतिभाति | न कॆवलमत्र यावच्चक्रपातॆऽप्यॆव विधिः लग्नादिष्टग्रहं विशॊध्यावशॆषं यदि षड्भादून तदा तस्य ग्रहस्य चक्रपातॊऽस्ति नान्यथॆति तॆनावशॆषॆणायुः पिण्डस्य भागमपहृत्य लब्धं प्राग्वदायुः पिण्डं पातयॆत् तॆनायुश्चक्रॆण शुद्धं भवति | अथ रूपादूनॊ भागहारॊ भवति तदा रूपाद्भागहारं संशॊध्य शॆषॆणायुर्दायं सङ्गुण्य रूपॆण भागमपहृत्य लब्धमॆवायश्चक्रपातशुद्धं भवति | उक्तञ्च | “लग्नं ग्रहॊनकं षड्भादूनकं यद्यसौ हरः | आयुः पिण्डं भजॆत्तॆन लब्धं वर्षादि शॊधयॆत् | रूपाद्यदूनॊ हारः स्याद्रूपाच्छुद्धॆन ताडयॆत् | रूपॆण विभजॆल्लब्धं तदॆवायुः स्फुटं भवॆत् |” अस्मिन् सार्धादितॆ कर्मणि लग्नॆ यदा पाप सौम्यौ भवतः तदा यॊ लग्नॊदितांशक समीपवर्ती स ऎव ग्राह्यॊ नॆतर इति | अत्र क्रूर शब्दॆन क्षीण 170 चन्द्रमा न ग्राह्यः तथा च बादरायणः सूर्यांगारकशनिनामॆकस्मिल्लग्नगॆ भवति हानिः विधिनात्वनॆन सौम्यॆ क्षितॆ दलं पातयॆल्लब्धम् | 4 || 171 समाःषष्टिर्द्विघ्नी मनुजकरिणां पञ्च च निशा हयान द्वाबिंशत्खरकरभयॊः पञ्चककृतिः |  विरूपा साऽप्यायुर्वृषमहिषयॊद्वादश शुनां स्मृतं छागादीनां दशकसहिताः षट् च परमम् || 5 ||  भट्टॊत्पलः-अथ पुरुषादीनां परमायुः प्रमाणज्ञानं शिखरिण्याऽह समाषष्टिर्द्विघ्नी इति | समाः-शब्दॆन वर्षमुच्यतॆ समानां वर्षाणां षष्टिर्द्विघ्नी द्विगुणीकृता विंशत्यधिकं वर्षशतं भवति | ऎवं विंशत्यधिकं वर्षशतं पञ्च निशा पञ्च रात्रयॊऽहॊरात्राणीत्यर्थः | मनुजकरिणां मनुजानां मनुष्याणां करिणां हस्तिनां च परमायुः | हयानामश्वानां द्वात्रिंद्वर्षाणि परमायुः | खरॊ गर्दभः करभ उष्ट्रः अनयॊः पञ्चककृतिः पञ्चकस्य कृतिः पञ्चानां वर्गः पञ्चविंशतिः परमायुः | 172 विरूपा साऽप्यायुरिति | सा पञ्चककृतिः विरूपा ऎकॊना चतुर्विंशतिर्वर्षाणि वृषमहिषयॊः वृषाणां महिषाणां च परमायुः | गॊमहिष्यॊरित्यर्थः | शुनां सारमॆयानां द्वादश वर्षाणि परमायुः | स्वग्रहणं सर्वॆषां नखिनामुपलक्षणार्थॆ तॆन सिंहमार्जारादीनामप्यॆतदॆव स्मृतम् || छागादीनामिति दशकसहिताः षट् षॊडश| वर्षाणि परमायुः | छागादीनाम् आदिग्रहणां मृगादीनामपि | परममिति सर्वॆषां शॆषभूतम् | किं परमायुर्दायप्रयॊजनम् | अश्वादीनां जातानामायुः प्रमाणज्ञानार्थमिति | तद्यथा | अश्वादॆर्जातस्य पुरुषवदायुः प्रमाणमानीय ततस्त्रैराशिकं कर्तव्यं यदि विंशत्यधिकवर्षशतं पञ्चदिनाधिकं पुरुषस्यायुः प्रमाणं तदा द्वात्रिंशद्वर्षायुः प्रमाणस्याश्वस्य किं स्यादिति | ऎवमागतमायुः प्रमाणमश्वस्य तत्कालजातस्य वाच्यम् | ऎवं सर्वॆषामभिहितप्राणिनां स्वायुषा परमॆणं त्रैराशिकं कृत्वा तत्कालजातस्यायुः प्रमाणनिर्दॆशः कार्यः | अन्यॆ ऎवं वदन्ति | यथापठितात्परमायुषः प्रमाणादधिकं न कञ्चिज्जीवति | तदयुक्तम् | यस्माद्विंशत्याधिकाद्वर्षशतादधिकप्यायुर्गणितकमणा भवति तस्मात्परमायुः प्रमाणपठनॆ त्रैराशिकमॆव ज्ञातव्यमिति || 5 ||  173 अनिमिषपरमांशकॆ विलग्नॆ शशितनयॆ गवि पञ्चवर्गलिप्तॆ |  भवति हि परमायुषः प्रमाणं यदि सकलाः सहिताः स्वतुङ्गभॆषु || 6 || भट्टॊत्पलः-अथ यस्मिन् यॊगॆ जातकस्य परमायुर्भर्वति तद्यॊगज्ञानं पुष्पिताग्रयाऽह अनिमिषपरमॆशक इति | अनिमिषॊ मीनः तस्य परमॆशकॊ नवमनवांशकः तस्मिन्निमिषपरमांशकॆ विलग्नॆ, शशितनयॆ बुधॆ गवि वृषॆ च पञ्चवर्गलिप्तॆ स्थितॆ लिप्ताः पञ्चविंशति भुक्त्वा बुधॊ वृषॆ स्थितः कलाः समस्ता अन्यॆ ग्रहाः सर्व यदि स्वतुङ्गभॆषु स्थिताः परमॊच्चगता भवन्ति तदा जातकस्य परमायुः प्रमाणं विंशत्यधिकं वर्षशतं पञ्चदिनाधिकमायुर्भवति | तत्र च कर्म तद्यथा आदित्यादयॊ ग्रहाः सलग्ना ईदृशाः अत्रादित्यादीनां बुधवर्जितानां यथापठितानि परमायुः प्रमाणवर्षाणि भवन्ति | बुधस्य पुनः क्रियतॆ | तत्र तावद्बुधॊ नीचान्मीनाद्विच्युतः तस्मात्तात्कालिकादस्माद्बुधात् 1 ||0 ||25 || बुधपरमनीचधुवकमिदं 11 ||16 ||0 संशॊध्य जातम् 1 ||15 ||25 ||0 ऎतल्लिप्तापिण्डीकृतं 2725 ऎताभिस्त्रैराशिकं यदि भगणार्धलिप्तानामॆतासां 10800 बुधपरमनीचवर्षाणि षट् भवन्ति तदाऽऽसां नीचाक्रान्तलिप्तानां 2725 किं स्यादिति | अत्र प्राग्वत्फलं वर्षादि 1 ||6||5|0 लग्नम् 1 1 ||2 1 * 174 सू. | चं. |मं. |बु. | बृ. |श. ल. ऒ | 1 | 9 1 3 || 1 1 | 6 11 9 || 2 | 27 || ऒ | 4 || 26 | 19 | 29 ऒ ऒ ऒ ? ?? ऒ ऒ ऒ 59 ऒ ऒ ऒ ? ऒ ऒ ऒ ऒ तद्बुधपरमनीचवर्यॆष्वॆतॆषु 6 दत्वा जातं 7 ||6||5 ऎतद्बुधस्य परमायुः | तत्र लग्नादॆकादशस्थानस्थत्वाद्भौमस्य चक्रपातात्परमायुः प्रमाणवर्षपञ्चदशकादर्ध पातयित्वा सार्धानिसप्त (7|6) वर्षाणि | सौरस्याष्टमस्थानस्थत्वात्परमायुः प्रमाणाद्वर्षविंशतॆः पञ्चभागं चत्वारि वर्षाणि पातयित्वा जातानि षॊडश वर्षाणि (16) आदित्यचन्द्रबृहस्पतिशुक्राणां परमायुः| लग्नस्य नवमनवांशकस्थत्वान्नव| वर्षाणि भवन्ति | सर्वॆषां स्थापनम् | सूर्यवर्षाणि 19 | चन्द्रवर्षाणि 25 || भौमवर्षाणि 7 मासाः 6 | बुधवर्षाणि 7 मासाः 6 दिनादि 5 | जीववर्षाणि 15 | शुक्रवर्षाणि 2 1 | शनिवर्षाणि 1 6 | लग्नवर्षाणि 9 | सर्वॆषां यॊगः वर्षाणि 120 दिनानि 5 | अत्र चाद्वित्यॆ मॆषस्थॆ कन्यास्थत्वं बुधस्य न सम्भवति तॆन षडभिग्रहॆरुच्चस्थैर्बुधॆ च बृषस्थॆ यॊगॊऽयं प्रदर्शितः | अत्र च परमॊच्चगतॆ सूर्यॆ बुधस्य वृषस्थभागचतुष्टयं भुक्त्वा स्थितिर्भवति नास्मादधिकं यतॊ मध्यमार्कॊदयराशिस्थानॆ शून्यं भागाः षट् पंचाशल्लिप्ता 6 ||50 भवति तदा तस्यास्फुटस्थ परमॊच्चता भवति | ऎष ऎव सूर्यॊ मध्यमबुधः | अत्र च यदा परमार्कफलं परमं च शीघ्रफलं धनगतं भवति तदा बुधॊ वृषॆ भागचतुष्कॆ स्फुटी 175 भवति तत्र यथादर्शितलग्नॆ यथावस्थितग्रहसस्थायां वृषॆ चतुर्थभागॆ ईदृशॊ बुधॊ भवति 1 ||2 | अस्मान्नीचधुवकमिदं 1 1 ||15 संशॊध्य जातम् 1 ||19 ऎतल्लिप्तापिण्डीकृतम् 2940 ऎताभिस्त्रॆराशिकं यदि भगणार्धलिप्तानामॆतासां 10800 षड् वर्षाणि तदैताभिः 2940 कानीति लब्धं वर्ष 1 मासाः 7 दिनानि 18 ऎतद्बुधपरमनीचवर्षॆषु दत्त्वा जातानि वर्षाणि 7 मासाः 7 दिनानि 18 ऎतदाद्यॆषु यथादर्शितवर्षॆषु संयॊज्य जातं वर्षाणां-विंशत्यधिकं शतं (120) मासः 1 दिनानि 17 ऎतद्दर्शितपरमायुः प्रमाणादधिकमप्यायुः सम्भवति इति | तस्मात्परमायुः प्रमाणपठनं त्रैराशिकार्थमॆव व्याख्यातम् | अन्यॆ पुनः | अनिमिषपरमांशकॆ विलग्नॆ यॊगमॆवामं व्याचक्षतॆ | यथा मीनॆ वर्गॊत्तमगतॆ लग्नॆ वृषभस्थॆन बुधॆन पञ्चविंशतिलिप्ता भुक्ता भवन्त्यन्यॆ च ग्रहाः स्वॊच्चराशिषु परमॊच्चभागव्यतिरॆकॆणापि यदि स्थितास्तदा यॊगशक्तयैव परमायुः प्रमाणं जातॊ जीवति | अथ बुधस्य परमनीचधुवकमिदं 11 ||14 पूर्वं दर्शितं सांप्रतं कर्मकालॆ कथमिदं प्रदर्शितमित्यत्रॊच्यतॆ | चतुर्दश भागान्मुक्त्वा पञ्चदशॆ पठितॆ परमनीचभागॆ व्यवस्थितॊ भवति अतश्चतुर्दश भागः परमनीचस्थस्य प्रदर्शिताः | तत्रस्थस्य परमनीचप्रदर्शितमायुर्भवति तस्माद्यावत्पञ्चदशॊ भागॊ न भुक्तॊ बुधॆन सू. | चं. |मं. |बु. | बृ. |श. |श. |ल. ऒ | 1 | 9 | 5 || 3 || 1 1 | 6 | 11 9 || 2 | 27 | 14 || 26 | 19 || 29 | 49 तावॆत्त्रॆराशिकॊत्पत्तिर्न कर्तव्यॆत्यतः कर्मकालॆ पञ्चदश भागाः प्रदर्शिताः | इत्यॆतत्सर्वॆषामॆव ग्रहाणां त्रैराशिककालॆ पठितैर्भागैर्भुक्तैः प्रदर्शयितव्यानि तत्र त्रैराशिकार्थमुच्चधुवकाः, तथा त्रैराशिकार्थं परमनीचधुवकाः ऎतैः कर्म कर्तव्यमिति || 6 || 176 177 आयुर्दार्य विष्णुगुप्तॊऽपि चैवं दॆवस्वामी सिद्धसॆनश्च चक्रॆ |  दॊषश्चैषां जायतॆऽष्टावरिष्टं हित्वा नायुर्विंशतॆः स्यादधस्तात् || 7 ||  भट्टॊत्पलः-अथास्यापरमतायुर्दायस्य दूषणार्थं शालिन्याऽऽह आयुदयिमिति | ऎतदायुर्दायं न कॆवलं मययवनमणीत्थशक्तिपूर्वैरुक्तं यावद्विष्णुगुप्तॆनापि चाणक्यापरनाम्रैवमुक्तम् | आचार्यदॆवस्वामी तथा सिद्धसॆनश्चैवं चक्रॆ कृतवानित्यर्थः | तथा च विष्णुगुप्तः | “परमॊच्चगतैः सर्वैर्मीनॆ मीनांशसंस्थितॆ | सौम्यॆ च वृषगॆ जातः परमायुः स जीवति |” तथा च दॆवस्वामी | “सूर्याद्यैरुच्चगतैर्मीनॆ मीनांशसंस्थितॆ लग्नॆ | सौम्यॆ वृषगॆ यातॆ जातः परमायुराप्नॊति |” तथा च सिद्धसॆनः | “मीनॆ परमांशगतॆ सौम्यॆ गवि पंचवर्गलिप्तास्थॆ | सर्वैः परमॊच्चगतैर्जातः परमायुराप्नॊति |” यद्यॆवं बहुभिराचार्यैरुक्तं तत्कॊऽस्य दॊषः | वक्ष्यमाणः सत्याचार्यमतॆ प्रदर्शितमायुर्दायं बहुतराणामाचार्याणां मतमिति | यस्मादाचार्यवराहमिहिरस्य प्रतिज्ञॆयम् | “ज्यौतिषमागमशास्त्रं विप्रतिपत्तौ न यॊग्यमस्माकम् | स्वयमॆव विकल्पयितुं 178 किंतु बहूना मतं वक्ष्यॆ |” अस्य परमतस्य बहुतरविरुद्धत्वं तावदास्ताम् | विवादसंभवॊ दॊषॊऽप्यस्ति दॊषश्चैषामित्यादि | ऎषामाचार्याणां मतॆ दॊषॊ जायतॆ| कीदृश इत्याह | अष्टावरिष्टमित्यादि | वर्षाष्टकं यावज्जातानामरिष्टमुक्तं वर्षाष्टकं हित्वा त्यक्त्व वर्षविंशतॆरधस्ताद्दर्शितप्रकारॆणायुर्न स्यान्नागच्छति | ऎवं वर्षाष्टकादूर्ध्वमरिष्ट नास्ति तस्माद्वर्षाष्टकादूर्ध्वं वर्षविंशतॆरधस्तान्न कस्यचिन्मरणमापद्यतॆ | यावच्च म्रियंतॊ दृश्यन्तॆ अयं तॆषां प्रत्यक्षॊ दॊषः|7|| यस्मिन्यॊगॆ पूर्णमायुः तस्मिन्प्रॊक्तं चक्रवर्तित्वमन्यैः |  प्रत्यक्षॊऽयं तॆषु दॊषः परॊऽपि जीवन्त्यायुः पूर्णमर्थॆर्विनापि || 8 ||  भट्टॊत्पलः-अधुना तॆषामॆवाचार्याणां मतॆ आयुर्दायदूषणान्तरं शालिन्याऽऽह यस्मिन्यन्यॊगं इति | अनिषयरमशकॆ विलग्न इत्यस्मिन्यॊगॆ विंशत्यधिकं वर्यशत सपञ्चदिनं परमायुः पूर्णं प्रदिष्टं तस्मिन्यॊगॆ षड्ग्रहाः परमॊच्चगता भवन्ति| षड्भश्च परमॊच्चगतैश्चक्रवर्तित्वं भवतीति 179 प्रॊक्तमभिहितमन्यैराचार्यैः| तथा च बादरायणः | “षड्भः स्याच्चक्रवर्ती त्रिभुवनमखिलं शास्ति सर्वैग्रहॆन्द्रॆः |” इति | यवनॆश्वरश्च | “षड्राजराजर्द्धिबलॊपकर्षप्रदानमानॆष्वभिजातशक्तिः |” तत्र परमॊच्चगता यावन्तः षड् ग्रहा न भवन्ति तावत्परमॊच्चायुर्न प्राप्नॊति | यदा परमॊच्चगता भवन्ति तदा जातॆन चक्रवर्तिना भवितव्यम् | ऎवं पूर्णमायुः | विंशत्यधिकं वर्षशतमर्थॆर्धनैर्विना वर्जयित्वा बहवः पुरुषाः जीवन्ति तस्मादयमपि तॆष्वपरॊ दॊषः| ऎतच्च परमतायुर्दायदूषणं शालिनीद्वयमसंद्धत्वाद्वराहमिहिरकृतमॆव न भवतीति प्रतिभाति | तत्र तावद्यदत्र प्रथमशालिन्या दूषणमुक्तं तस्य दूषणस्यासम्बद्धत्वमुच्यतॆ | “साद्धॊदितॊदितनवांशहतात्समस्तात्” इति न्यायॆन यत् क्रूरॆ विलग्नगत आयुषः पातनं क्रियतॆ तस्य प्रतिलग्नं प्रत्यंशकवशादियता न सम्भवतीति तच्च पातयित्वा यदायुः शिष्यतॆ तस्यापीयत्ता नास्तीति | तस्माद्यदुक्तं नायुर्विंशतॆः स्यादधस्तात्तदयुक्तम् | अत्रॊदाहरणम् | यथा कुम्भलग्नस्याद्यशकॊदयॆ आदित्यचन्द्रशुक्राः परमॊच्चॆ बुधजीवशनैश्चराः परमनीचॆ | भौमश्च कुम्भस्याप्यष्टाविंशतितमं भागं भुक्त्वा स्थितस्तदा तात्कालिका ग्रहाः सलग्नाः अत्र लग्नं न किंचिद्युक्तमिति लग्नायुर्दायॊ नास्ति | परमॊच्चगतानां परमनीचगतानां च ज्ञात ऎव | भौमस्य क्रियतॆ तात्कालिकाद्भौमादस्मात् 10 |28 भौमस्य परमॊच्वधुवकमिदं 9 ||28 संशॊध्य जातम् 1 ||0 ऎतल्लिप्तापिण्डीकृतम् * ?? ? चं. |मं. |बु. | बृ. |श. |श. |ल. 1 | 1 ऒ | 1 1 | 1 ऒ | 1 1 || ऒ 1 ऒ  ऒ सू. 9 28 | 1 4 | 4 14 | 19 || ऒ ऒ ऒ ऒ ऒ \9 1 अथ त्रैराशिकं यदि भगणार्धलिप्तानामॆतासां 108ऒ ऒ-भौमनीचमासाः नवति 90 र्भवन्ति तदैतासां कियन्त इति लब्धा मासाः 15 ऎतैर्वर्षं सत्रिमासं जातं वर्षं 1 मासाः 3 ऎतद्भौमपरमॊच्चवर्षॆष्वॆतॆषु 15 संशॊध्य जातं वर्षाणि 13 मासाः 1 ऎष भौमायुर्दायः | लग्नाद्द्वादशस्थत्वाच्चक्रपातॆनांर्ध पातयित्वा जातॊ ऒ 180 जीवायुर्दायः वर्षाणि 3 मासाः 9 परमॊच्चगतानां परमनीचगतानां च शत्रुक्षॆत्रस्थत्वात् त्र्यंशमस्तं गतानामर्ध च न पात्यतॆ यस्मादनिमिषपरमांशकॆ विलग्नॆ इत्यत्र यॊगॆ चन्द्रमसॊ वृषस्थत्वाद्यद्यायुषः त्रिभाग पात्यतॆ तदा पूर्णमायुर्न भवतीति यस्मादन्याचार्यमतमिति तात्कालिकमित्रामित्रविधावुक्तम् | “मूलत्रिकॊणाद्धनधर्मबन्धुपुत्रव्ययस्थानगता ग्रहॆन्द्राः | तात्कालिकाः स्युः सुहृदॊ ग्रहस्य स्वॊच्चॆ च यॊ यस्य विकृष्टवीर्यः | जामित्रषष्ठाष्टमशत्रुमूर्तिद्यूनत्रिकॊणैकगृहॆ निविष्टाः | तत्कालमॆतॆ रिपवॊ भंवति ह्यॆतानि मित्राणि रिपूंश्च वक्ष्यॆ |” अनॆनापि शुक्रश्चन्द्रमसः तत्कालिकं मित्रं न भवति | तस्मान्मीनस्थॆ शुक्रॆ वृषस्थश्चन्द्रमाः शत्रुगृहगॊ भवति | तस्य च| शत्रुक्षॆत्रस्थत्वाद्यद्यायुषस्त्रिभागः पात्यतॆ तदा अनिमिषपरमांशक इत्यत्र यॊगॆ पूर्णमायुर्न प्राप्नॊतीति | तच्चाचार्यॆण श्रृङ्गग्राहिकयैव प्रदर्शितम् | तॆनैतज्ज्ञापयति| परमॊच्चगतानां परनीचगतानां च शत्रुक्षॆत्रॆ त्र्यंशमस्तं गतानां चार्ध न पात्यतॆ तॆन च| यथादर्शितयॊग पृथक्पृथग्ग्रहायुर्दायवर्षाणि लिख्यंतॆ | सूर्यस्य वर्षाणि 19 || चन्द्रस्य वर्षाणि 25 | भौमस्य वर्षाणि 13 मासाः 9 | बुधस्य वर्षाणि 6 || जीवस्य वर्षाणि 3 मासाः 9 | शुक्रस्य वर्षाणि 2 1 | शनॆः वर्षाणि 10 || लग्नॆन न किंचिद्भुक्तमिति लग्नायुर्दायॊ नास्ति | अथैतॆषां यॊगः वर्षाणि 98 मासाः 6 | अथाङ्गारकस्य लग्नगतत्वांत्साद्धदितॆति कर्म क्रियतॆ | तत्र च लग्नॆ कुस्भारम्भत्वान्नवति (90) नंवंशका भुक्ता भवन्ति | तॆ च नवांशकाश्चक्रस्यॊदिता उदयगत ऎकनवतिसमाः 91 तॆनैकनवत्या सर्वायुः पिण्डमिदं वर्षाणि 98 मासाः 6 संगुण्य जातं 8 ||9 ||63 ||6|| अस्याष्टाधिकशतॆन भागमपहृत्यावाप्तवर्षाणि 82 मासाः 11 दिनादि 28 घटिकाः 20 ऎतानि वर्षाणि अस्मात् 98||6 संशॊध्य जातं वर्षाणि 15 मासाः 6 दिनं 1 कलाः 40 ऎवमष्टभ्य ऊर्ध्व विंशतॆरधस्तादायुरुत्पन्नमिति | तस्मादयक्तमुक्तम् | नायर्विंशतॆः स्यादधस्तादिति | अत्रान्यॆ वदन्ति | यथा क्रूरहीनं मीनलग्नं हृदि कृत्वैतद्वराहमिहिरॆणॊक्तम् | अनिमिषपरमांशकॆ विलग्नॆ इति अनॆनापि प्रकारॆण न वक्तव्यम् | यथा नायुर्विंशतॆः स्यादधस्तादित्यत्र धन्विलग्नॆ क्षीणॆ चन्द्रॆ विंशतितमॆ भागॆ बुधस्तत्रास्तमितः सर्वॆष्वन्यॆषु यस्य जन्म 182 स्वांतर्दशायां मरणाय जन्तॊर्ज्ञॆयः स युद्धॆ विजितॊ यदान्यैः |” तथा च यवनॆश्वरः|| “षष्ठाष्टमस्थॊऽशुभदस्त्वरौद्रः पापैः सुहृत्स्थानगतश्च दृष्टः | स्वान्तर्दशायां प्रकरॊति मृत्यु पाशध्वबन्धादिपरिक्षयाद्वा |” तथा च सारावल्याम्| “क्रूरदशायां क्रूरः प्रविश्य चान्तर्दशां यदा कुरुतॆ | पुंसां स्यात्सन्दॆहस्तदारियॊगा हि सदैव महान्| रवितनयस्य दशायां क्षितिजस्यांतर्दशा यदा भवति | बहुकालजीविनामपि मरणं निःसंशयं पुंसाम् || क्रूरराशौ स्थितः पापः षष्ठॆ वा निधनॆऽपि वा | तत्स्थॆन वारिणा दृष्टिः स्वपाकॆ मृत्युदॊ ग्रहः | यॊ लग्नाधिपतॆः शत्रुर्लग्नस्यान्तर्दशां गतः | करॊत्यकस्मान्मरणं सत्याचार्यः प्रभाषतॆ|” ऎवं क्रूरहीनॆ लग्नॆ यॆ जातास्तॆषां वर्षाष्टकादूर्ध्व दर्शितकालादधस्तान्मरणं सम्भवत्यॆव | तॆ चापि मृत्युयॊगॆनानॆन मृता इति ज्ञॆयाः| यस्मात्तस्यान्तर्दशा दर्शितग्रहसम्बद्धिनी कदा भवतीत्यत्रायं नियमः | तस्मादन्याचार्यमतैनैवाष्टाभ्य ऊर्ध्वं दर्शितकालादधस्तान्मरणं सम्भवत्यॆव तस्मादॆतद्दूषणसम्बद्धं प्रथमम् | अथ द्वितीयस्य दूषणस्यासम्बद्धत्वमुच्यतॆ | अत्र चक्रवर्तित्वयॊग विनापि दीर्घमायुः सम्भवति | अत्रॊदाहरणम् | यत्र तात्कालिका ग्रहाः संलग्नाः वृषॆऽर्कॊ दश भागान्भुक्त्वा स्थितः ऎवं मिथुनॆ चन्द्र सू. | चं. |मं. |बु. | बृ. |श. |श. ल. $ |  || ऒ ऒ  | } | } ऒ |  1ऒ | 3 || 28 || 1 ऒ | 5 || 27 | 1ऒ | 29 29 || 2ऒ | 59 मास्त्रीभागान् कुम्भॆ भौमॊऽष्टाविंशतिः भागान् सिंहॆ पञ्च भागान् मॆषॆ सप्तविंशतिः सत्रिभागाञ्छुक्रः कुम्भॆ विंशतिभागान्सौरः धन्विलग्नमन्त्यॆऽशॆ | तद्यथा || ईदृशा ग्रहा अत्र पूर्वप्रदर्शितकर्मणागतानि ग्रहायुर्दायवर्षाणि लिख्यन्तॆ | वर्षाणि 17 मासाः 5 सूर्यस्य ? वर्षाणि 2 2 मासाः 11 चन्द्रस्य | वर्षाणि 13 मासाः 9 भौमस्य | वर्षाणि 7 मासाः ऒ बुधस्य | वर्षाणि 13 मासाः 9 जीवस्य | वर्षाणि 19 मासाः 2 दिनानि 26 घट्यः 3 ऒ शुक्रस्य | वर्षाणि 13 मासाः 4 शनॆः | वर्षाणि 9 मासाः ऒ लग्नस्य | अथ बृहस्पतॆर्वर्षाणां चक्रपातादष्टमभागमपास्य जातानि वर्षाणि 13 मासाः ऒ दिनानि 1 1 घट्यः 183 15 | चन्द्रस्य षड्भागमपास्य जातानि वर्षाणि 19 मासः 1 दिनानि 5 | रवॆः गुरुर्मित्रमतॊऽन्यथान्य इति शुक्रः शत्रुः स चार्कमलत्रिकॊणात्सिहान्नवमॆ स्थानॆ स्थितः तस्मात्तात्कालिकं मित्रीभूतः तॆन वृषस्थः समक्षॆत्रस्थितस्तॆन तस्यायुर्दायः न किञ्चित्पतति चन्द्रश्च मिथुनॆ मित्रक्षॆत्रॆ स्थितः | तस्यापि यथादर्शितान्यॆवायुर्दायवर्षाणि यस्मादुक्तम् | “इन्दॊर्बुधं दॆवगुरुं च विद्यात्” अंगारकः कुम्भॆ शत्रुक्षॆत्रॆ स्थितः | यस्मादुक्तम् | “भौमस्य शुक्रः शशिजश्च मित्रम्’ इति | शॆषान् रिपून् शॆषत्वाच्छनैश्चरस्तस्य शत्रुस्तात्कालिकश्चैकगृहॆ निविष्टत्वाच्छनैश्चरॊऽधिशत्रुः किं त्वङ्गारकस्य शत्रुक्षॆत्रस्थस्यापि न पतति यस्मादुक्तम् | “हित्वा वक्रॆ रिपुगृहतैहींयतॆ स्वत्रिभाग” इति | तस्मादङ्गरकस्य यथागतमॆवायुः | ’चान्द्रॆरनक” इति वचनाद्भौमॊ बुधस्य मित्रम् | तॆन तस्य मॆषस्थत्वाद्यथागतमॆवायुर्बुधस्य | बृहस्पतॆरप्यादित्यॊ मित्रम् | यस्मादुक्तम् | “गुरॊश्च भौमं परिहृत्य सर्वॆ” इति तस्मात्सिहस्थस्य बृहस्पतॆः यथागतमॆवायुः | शुक्रस्य मॆषॆ स च मित्रक्षॆत्रॆ | यस्मादुक्तम् | “भृगुनन्दनस्य त्वर्कॆन्दुर्वज्र्याः सुहृदः प्रदिष्टाः |” तस्मात्तस्यापि यथागतमॆवायुः | शनैश्चरस्यापि कुम्भॆ स्वक्षॆत्रॆ स्थितत्वाद्यथागतमॆवायुः | लग्नस्य पातचारहीनत्वात् यथागतमॆवायुः | ऎवमायुर्दायवर्षाणि पृथक्पृथलिख्यन्तॆ | वर्षाणि 17 मासाः 5 सूर्यस्य | वर्षाणि 19 मासः 1 दिनादि 5 चन्द्रस्य | वर्षाणि 13 मासाः 9 भौमस्य | वर्षाणि 7 मासाः ऒ बुधस्य | वर्षाणि 1 2 मासाः ऒ दिनानि 11 घट्यः 15 गुरॊः | वर्षाणि 19 मासौ 2 दिनानि 26 घट्यः 30शुक्रस्य | वर्षाणि 1 3 मासाः 4 शनॆः | वर्षाणि 9 मासाः 0 लग्नस्य | ऎवंविधॆ यॊगॆ दशाधिकं वर्षशतमप्यायुः| वर्षादि 11 ऒ |1 ऒ |1 2 |45 सम्भवति 1 13 मासाः 11 | यदा चन्द्रवर्षाणि 22 मासाः 9 तदा सर्वॆषां यॊगः वर्षादिः 1 14|8 ||7|45 | ऎवंविधॆ यॊगॆ चतुर्दशाधिकं वर्षर्दशाधिकं वर्षशतमप्यायुः सम्भवति | कॆमद्रुमाख्यश्चायं यॊगः | यस्माद्वक्ष्यति | “हित्वाऽर्क सुनफानफादुरुधरा स्वान्त्यॊभयस्थैग्रहैः शीतांशॊः कथितॊऽन्यथात्र बहुभिः कॆमद्रुमॊऽन्यैस्त्वसौ |” तस्मादॆवंविधॆ यॊगॆ जातॊ दीर्घायुः प्राप्नॊति | कॆमद्रुमत्वाच्च दरिद्रॊ भवति | वक्ष्यति च “कॆमद्रुमॆ मलिनदुःखितनीचनिःस्वाः प्रॆष्याः खलाश्च नृपतॆरपि वंशजाताः |” कॆवलं दरिद्रा 184 दीर्घायुषॊ दृश्यन्तॆ | न कॆनचित्कस्यचिद्दरिद्रस्यायुः प्रमाणं ज्ञातम् | यथायं दरिद्रॊ विंशत्यधिकॆन वर्षशतॆन सपञ्चदिनॆन मृतः तस्मात्क्षौद्रमॆव दूषणं ज्ञातव्यम् | ऎवमस्य दूषणस्यासम्बद्धत्व प्रदर्शितमिति | असम्भाव्यत्वाद्वराहमिहिरकृतमॆतच्छालिनीद्वयं न सम्भाव्यतॆ | यच्च दर्शिताचार्यमतॆनायुर्दायं त्यक्त्वा सत्यमतायुर्दायमङ्गीकरिष्यत्याचार्यस्तत्र च| सत्यमतस्य बहुतराणामाचार्याणां मताङ्गीकरणमॆव प्रयॊजनम् | यस्मात्पूर्वमॆवाचार्यमतॆनायुःप्रतिज्ञा व्याख्याता | “ज्यौतिषमागमशास्त्रं विप्रतिपत्तौ न यॊग्यमस्माकम् | स्वयमॆव विकल्पयितुं किन्तु बहूनां मतं वक्ष्यॆ|” अथ कश्चिदाह | ननु यॊऽयं यॊगस्त्वया प्रदर्शितः स कॆमद्रुम ऎव न भवति | यदाचार्य ऎव वक्ष्यति | “कॆन्द्रॆ शीतकरॆऽथवा ग्रहयुतॆ कॆमद्रुमॊ नॆष्यतॆ’ इति | लग्नात्सप्तमस्थः कॆन्द्रस्थश्चन्द्रमास्तस्मादयं कॆमद्रुमॊ न भवति | अत्र च ब्रूमः | अत्र चन्द्रमा न गण्यतॆ यस्माच्चन्द्रमसः सकाशाद्ग्रहॆणान्यॆन यॊगः कर्त्तव्यः इति| यद्यॆवं तल्लग्नात्कॆन्द्रस्थः कथं करॊतीत्यत्रॊच्यतॆ | चन्द्रलग्नयॊस्तुल्यत्वात् | तथा च यवनॆश्वरः | “मूर्तिञ्च हॊरां शशिनं च विद्यात् ||” अत्र च गार्गिः | “व्ययार्थकॆन्द्रगश्चन्द्राद्विना भानुं न चॆद्ग्रहः | कश्चित्स्याद्वा विना चन्द्र लग्नात्कॆन्द्रगतॊऽथवा यॊगः कॆमद्रुमॊ नाम तदा स्यात्तत्र ग्रहितः | भवन्ति निन्दिताचारा दारिद्रया मयसंयुताः |” इति | तस्माल्लग्नात्सप्तमस्थॆ चन्द्रमसः यॊगस्य कॆमद्रुमता सिद्धैवॆति | 8 || 185 स्वमतॆन किलाहं जीवशर्मा ग्रहदायं परमायुषः स्वारांशम् |  ग्रहभुक्तनवांशराशितुल्यं बहुसाम्यं समुपैति सत्यवाक्यम् | 9 ||  भट्टॊत्पलः-अथ जीवशर्ममतॆन सत्याचार्यमतॆन चायुर्दायमौपच्छंदसिकॆनाहस्वमतॆनॆति | जीवशर्मा नामाचार्यः स्वमतॆनात्मीयमतॆन परमायुषॊ विंशत्यधिकस्य वर्षशतस्य सपंचदिनस्य स्वरांशं सप्तमभागं प्रत्यॆकस्य ग्रहास्यायुर्दायमाह-- कथयति | किलशब्दस्तथा नामप्रदर्शनार्थः | तद्यथा | परमायुः 1 2 ऒ |ऒ ||5 अस्य सप्तभिर्भागमपहृत्यावाप्तं वर्षादि 17 |1 |22 ||8 |34 || यथान्याचार्यॆर्नवतिथिविषयॆत्यॆक्मादीनि परमॊच्चगतानामादित्यादीनां वर्षाणि पठितानि तथैतानि परमायुः स्वरांशवर्षाण्यैकैकस्य जीवशर्मपठितानि | “नीचॆऽतॊऽर्धं ह्रसति” इत्यत्रापि स्थितमॆव तत्रार्धमॆतत् 8 ||6||26||4|17 ऎतानि परमनीचस्थस्यैकैकस्य ग्रहस्य ऎतैः प्राग्वदॆव त्रैराशिकं कृत्वैकैकस्य ग्रहस्यायुर्दायः कर्तव्यः | अत्रापि वक्रं विना शत्रुक्षॆत्रस्थस्य ग्रहस्य त्र्यंशापहानिः | शुक्रशनैश्चरौ विना भौमं विनास्तंगतस्याद्धीपहानिः | सर्वार्धत्रिचरणॊत्यादिका चात्र पातापहानिः क्रूरॆ विलग्नॆ सार्द्धॊदितॊदितॆति हानिः | ऎतत्सर्व जीवशर्मणॊऽप्यन्याचार्यैः समानम् | तथा च जीवशर्मा | “सप्तदशै (17) कॊ (1) द्वियमौ (22) वसवॊ (8) वॆदाग्नयॊ (34) ग्रहॆन्द्रणाम् | वर्षाण्युच्चस्थानां नीचस्थानामतॊऽर्ध स्यात् | मध्यॆऽनुपाततः स्यादानयनं शॆषमत्र यत्किचित् | पिण्डायुष इव कार्यं तत्सर्व गणिततत्त्वज्ञैः |” इति अत्रानयनं 186 सुखॊपायरन प्रदर्श्यतॆ | “स्वॊच्चशुद्धॊ ग्रहः शॊध्यः षड्भादूनॊ भमण्डलात् | तद्भागाः क्वब्धिषड्भॊगि (8641) हता वॆदाभ्रसायकैः (508) | भक्ता दिनानि यल्लब्धं तदायुर्जीवशर्मजम् | दिनैस्तु त्रिंशता मासा मासॆभ्यॊ रविभिः समाः |” न कॆवलं ग्रहदायं परमायुषः स्वरांशमॆतत् तॆनॊक्तम्| यावत्स्वमतॆनॆति| अनॆनैवं प्रतिपादयति | यथैतन्मया ऋषिकृतॆष्वाचार्यकृतॆषु वा न कॆषुचिद्दृष्टमिति | तस्मादस्यायुर्दायस्य जीवशर्मणः स्वमतकरणमॆष दॊषः | ऎवं शास्त्रॆषु सर्वाचार्यमतॆनायुर्दायॊ व्याख्यातः | अत्राचार्यण परमतमॆवॊपन्यस्तम् | मययवनमणित्थशक्तिपूर्वॆरिति | च यवनॆश्वरकृतॆ शास्त्रॆ तथाविध आयुर्दायॊ दृष्टः| यस्माद्यवनॆश्वरॆणॊक्तम् | “आयूंषि राश्यंशराशिंयॊगात्” इति | अत्रॊच्यतॆ| यवनॆश्वरॆण स्पुजिध्वजॆनान्यच्छास्त्रं कृतम् | तथा च स्पुजिध्वजः | “गतॆन साभ्यर्धशतॆन युक्ताऽप्यङ्कॆन कॆषां न गताब्दसंख्या | कलाः शका1044-नां स विशॊध्य तस्मादतीतवर्षाद्युगवर्षजातम् |” ऎवं स्फुजिध्वजकृतं शककालस्यार्वाग्ज्ञायतॆ | अन्यच्च यवनाचार्यैः पूर्वैः कृतमिति तदर्थ स्फुजिध्वजॊऽप्याह | “यवना ऊचुः | यॆ सङ्ग्रहॆ दिग्जनजातिभॆदाः प्रॊक्ताः पुराणैः क्रमशॊ ग्रहस्य |” तदॆतज्ज्ञायतॆ यथा वराहमिहिरॆण पूर्वयवनाचार्यमतमॆवॊपन्यस्तम् अस्माभिस्तन्न दृष्टम् | स्पुजिध्वजकृतमॆ दृष्ट पराशरस्यापीयमॆव वार्ता | पाराशरीया संहिता कॆवलमस्माभिर्दष्ट न जातकम् | श्रूयतॆ स्कन्धत्रयमिति पाराशरस्यॆति तदर्थ वराहमिहिरः शक्तिपूर्वैरित्याह | “चित्रं प्रॊज्झ्य पराशरः कथयतॆ दौर्भाग्यदं यॊषिताम्” इत्यॆवमादि मयमणित्थयॊर्हॊराशास्त्रॆ विद्यॆतॆ | तथा च मय| “ऎकॊनविंशतिः सूर्यश्चन्द्रमाः | पञ्चविंशतिः | तिथिसङ्खयः कुजः सौम्यॊ द्वादशॊच्चगतॊ गुरुः | कुजवद्दैत्यपूज्यस्य वर्षाणामॆकविंशतिः | ऎकॊना सूर्यपुत्रस्य परमॊच्चगतस्य च| आयुर्दायमिदं प्रॊक्तमर्धं नीचगतस्य तु | अन्तरॆ त्वनुपाताच्च कारयॆदायसङ्ग्रहम् ||” तथा च मणित्थः | “नवरूपाः शरयमलास्तिथयॊऽकाः पञ्चरूपकाः क्रमशः | रूपयमाकृतिसंख्याः सूर्यादीनां स्वतुङ्गभॆष्वब्दा | नीचॆष्वस्मादब्दाद्दलमन्यत्रानुपाततः कार्यम् | आयुर्दायविधानं हॊराभुक्तांशराशितुल्यमपि |” 187 अथ वराहमिहिरस्य स्वमतायुर्दायॊ यवनॆश्वरसत्यमतानुसारी व्याख्यायतॆ | ग्रहभुक्तनवांशराशितुल्यमिति | यत्र तत्र राशी यस्मिन्नवांशकॆ ग्रहॊ व्यवस्थितः स च नवांशकॊ मॆषादॆरारभ्य यावत्सङ्ख्यस्य राशॆः सम्बन्धी भवति तावन्ति वर्षाणि ग्रहः स्वायुर्दायं प्रयच्छति | ऎतदुक्तं भवति | मॆषादॆरारभ्य यावतां राशीनां सम्बधिनॊ नवांशका ग्रहॆण भूता भवन्ति तावन्ति वर्षाणि ग्रहः प्रयच्छतीति | ऎवं ग्रहभुक्तनवांशराशितुल्यं भवति | यस्मिन्नवांशकॆ वर्ततॆ तस्माद्यद्भुक्तं ग्रहॆण तॆन सह त्रैराशिकं कृत्वा मासाद्यानयितव्यम् | त्रैराशिककरणं च वक्ष्यति | ऎवमायुर्दायानयन च सत्याचार्यॆणॊक्तम् | तथा च तद्वाक्यम् | “राश्यंशकसंयॊगादायुरिह समास्तॊ ग्रहा दद्युः |” ऎतच्च सत्यवाक्यं बहुसाम्यं समुपैति बहूनामाचार्याणां सम्मतम् | यथा च यवनॆश्वरः | “आयूंषि राश्यंशकचारयॊगात्” इति | अत्र तावत्सत्ययवनॆश्वरवाक्यव्याख्यानॆ किञ्चिद्विप्रतिपन्न राशॆरंशकचारयॊगादिति व्याचक्षॆतॆ | यथा यस्मिन्राशौ ग्रहॊ वर्ततॆ तत्र तॆन यावन्तॊ नवांशका भुक्तास्तावन्त्यॆव वर्षाण्यायुः स ग्रहॊ ददाति | अत्र च व्याख्यानॆ परमग्रहदायसाध्यमानॆन वर्षाणि भवन्ति | ऎतच्च व्याख्यानं बादरायणादिभिरङ्गीकृतम् | तथा च बादरायणः “राश्यंशकलागुणिता द्वातशानवभिर्ग्रहस्य भगणॆभ्यः द्वादशाहृतावशॆऽब्दमासदिननाडिकाः क्रमशः |” इदमाचार्यवराहमिहिरॆणविनष्ट ऎवं स्वल्पजातकॆऽभिहितमॆतदनुसारॆण सत्ययवनॆश्वरयॊव्र्याख्यानं क्रियतॆ | आयूंषि राश्यंशकरचारयॊगादिति राशीनामंशका राश्यंशकाः | तॆषु चारयॊगादिति | यत्र यत्र राशी मॆषशरथॊ ग्रहॊ वर्षमॆकं प्रयच्छति वृषनवांशकस्थॊ ग्रहॊ वर्षद्वयं प्रयच्छति | ऎवमुत्तरांशकवृद्धया वर्षवृद्धिर्यावन्मीनान्तॆ द्वादश इति | पूर्वव्याख्यानॆन यवनॆश्वरसत्यवाक्ययॊ राशिग्रहणमनर्थकं भवति | अवश्यमॆव राश्यंशकैर्भवितव्यमिति || 9 || 188 सत्यॊक्तॆ ग्रहमिष्टं लिप्तीकृत्वा शतद्वयॆनाप्तम् |  मंडलभागविशुद्धॆऽब्दाः स्युः शॆषातु मासाद्याः | 10 ||  भट्टॊत्पलः-अथानॆनैव व्याख्यानानुसारॆणाचार्यः स ऎवायुर्दायानयनमार्ययाऽऽह सत्यॊक्तॆ इति | सत्यॊक्तॆ सत्यमतायुर्दायकरणॆ तात्कालिकमिष्टमभिप्रॆतं ग्रहं लिप्तीकृत्य लिप्तापिण्डं कृत्वा तस्य शतद्वयॆन भागमपहृत्य यदवाप्तं तदवाप्ताख्यं स्थाप्यम् | अवशॆषमधः स्थाप्यम् | अवाप्तॆ मण्डलभागविशुद्धॆऽब्दाः 189 स्युः | मण्डलभागशब्दॆन द्वादशभाग उच्यन्तॆ तॆनावाप्तस्य द्वादशभिर्भागमपहृत्यावाप्तं त्याज्यम् | यदवशिष्यतॆ तॆऽब्दाः स्युस्तावन्ति वर्षाणि तॆन ग्रहॆणायुषॊ दत्तानि भवन्ति | शॆषातु मासाद्याः यदवशॆषं स्थापितं तस्माद्द्वादशगुणितातॆनैवच्छॆदॆन विभक्तात्मासा लभ्यन्तॆ | तच्छॆषात्रिंशद्गुणिताद्दिनानि तच्छॆषात्षष्ट्या गुणिताद्घटिकाः | पुनरपि षष्टिघ्नात्प्राग्वत् भक्ताच्च विकला लभ्यन्तॆ इति | ऎवमागतं ग्रहस्यायुर्दायॊ भवति| तत्रॊदाहरणम् | तात्कालिकॊ ग्रहः 1|8||45|0 लिप्तापिण्डीकृतः 23 25 अस्य शतद्वयॆन (200) भागमपहृत्यावाप्तं 11 जातं अवशॆषम् 1 2 5 | अवाप्तास्यास्य 11 द्वादशभिर्भागं न प्रयच्छति इति ऎतदॆवावशॆषं तस्माद्ग्रहॆणैकादश वर्षाणि दत्तानि भवन्ति | अवशॆषं 125 द्वादशभिर्गुणितं जातम् 1500 अस्य शतद्वयॆन भागमपहृत्यावाप्तं 7 जातमॆवं सप्त मासाः | अथ मासशॆषं 100 त्रिंशता (30) गुणितं जातम् 30 0 0 शतद्वयॆन भागमपहृत्यावाप्तं 15 दिवसाः पञ्चदश इति | शॆषस्याभावात् घटिकाभावः | ऎवमागतमॆवंविधाद्ग्रहाद्वर्षादि | वर्षाणि 11 मासाः 7 दिनानि 15 घटिका 0 || अथ तदॆव राश्यंशकलागुणितादितिन्यायॆन प्रदर्श्यतॆ | तद्यथा || राश्यादिग्रहः 1 ||8 ||45 अस्य राशिभागलिप्ताः पृथक्पृथग्द्वादशहताः 12 ||9 6 ||540 अथ भूयॊ नवाहताः 108||864||4860 अत्र लिप्तानामॆतासां 4860 षष्टया भागॆ हृतॆ लब्धम् 81 अवशॆषं 0लब्धमिदं घटिकाख्यं 81 भागॆषु 864 संयॊज्य जातम् | 145 अस्य त्रिंशता भागॆ हृतॆ लब्धम् 31 अवशॆषम् 15 ऎतॆ दिवसाः | अथ लब्धमिदं 31 राशिष्वॆतॆषु 108 संयॊज्य जातम् 139 अस्य द्वादशभिर्भागॆ हृतॆ लब्धं 11 शॆषम् 7 ऎतॆ मासाः | लब्धस्यास्य 11 द्वादशभिर्भागं न प्रयच्छतीत्यत ऎतदॆवात्र शॆषम् 11 ऎतानि ग्रहायुदयिवर्षाणि 11 मासाः 7 दिनानि 15 घट्यः ऒ | ऎतत्पूर्वकृतायुर्दायॆ संविहितमिति | ऎवं यवनॆश्वरसत्याचार्यबादरायणवराहमिहिरैरायुर्दायः प्रदर्शित इति || 10 || 190 स्वतुङ्गवक्रॊपगतैस्त्रिसङ्गुणं द्विरुत्तमस्वांशकभत्रिभागैः |  इयान्विशॆषस्तु भदत्तभाषितॆ समानमन्यत्प्रथमॆऽप्युदीरितम् || 11 ||  भट्टॊत्पलः-ऎवमागतस्यायुर्दायस्य सत्याचार्यमतॆनैव कर्मविशॆषार्थं वंशस्थॆनाह  191 श्रातुङ्गवक्रॊति | स्वतुङ्गस्थैः स्वॊच्चगतैर्ग्रहैः वक्रॊपगतैः विपरीतगत्या स्थितश्च यत्स्वदत्तमायुस्तत्त्रिसंगुणं कार्यम् | द्विरुक्तमॆति | उत्तमांशॊपगतैः वर्गॊत्तमांशस्थितैः स्वांशकस्थितैः स्वनवमभागगतैः स्वभस्थैः स्वराश्युपगतैः स्वराशित्रिभागगैः स्वद्रॆष्काणस्थैः ऎतैः यद्दत्तमायुः तद्विसङ्गुणं कार्यम् | इयान्विशॆष इति | भदत्तशब्दॆन सत्याचार्यॊऽभिधीयतॆ यस्मात्तन्मतमिह प्रमाणीक्रियतॆ | पूर्वॊक्तविधिना मययवनमणित्थादिमतॆनायुर्दायः कृतः यस्मान्द्रदत्तभाषितॆ सत्याचार्यकृतॆ इयानॆतावान्विशॆषः | यदॆतत्स्वतुङ्गवक्रॊपगतैस्निसङ्गुणमिति तत्सत्यॊक्तमॆव समानमन्यदिति | अन्यद्यच्छॆषं तत्प्रथमॆऽप्युदीरितम् | प्रथमॆ मययवनादिमतॆ यदुदीरितमुक्तं तत्समानमत्रापि तत्तुल्यम् | ऎतदुक्तं भवति | सत्याचार्यमतॆनायुर्दायं कृत्वा वक्रवज्र्य शत्रुक्षॆत्रगतस्य त्र्यंशं पातनीयं शुक्रसौरिवज्र्यम् अस्तगतस्यार्धं पातनीयं सर्वार्धत्रिचरणॆत्यादिचक्रपातापहानिः कार्या | 11 ||  किन्त्वत्र भांशप्रतिमं ददाति वीर्यान्विता राशिसमं च हॊरा |  क्रूरॊदयॆ चॊपचयः स नात्र कार्यं च नाब्दैः प्रथमॊपदिष्टैः || 12 ||  भट्टॊत्पलः-ऎवं सत्याचार्यमतॆन ग्रहायुर्दायमुक्त्वाऽधुना लग्नायुर्दायकरणं क्रूरॊदयॆ पापहानि प्राप्ता तदपवादार्थमिन्द्रवज्रयाऽऽह 192 किमिति | अत्रास्मिन्सत्यमतायुर्दायॆ हॊरा लग्नं भांशप्रतिमं ददाति | ऎतदुक्तं भवति | मॆषादॆरारभ्य यावत्संख्यॊऽस्य राशॆः सम्बन्धि नवांशकॊ लग्नॆन भुक्तस्तावन्ति सङ्ख्यानि वर्षाणि लग्नायुर्दायॊ भवति | शॆषाद्भागादिकान्नवांशकात् त्रैराशिकॆन मासाद्यानयितव्यम् | ऎतदुक्तं भवति | सत्यॊक्त ग्रहमिष्टं लिप्तीकृत्वॆत्यॆवं लग्नायुर्दायः कर्तव्यः | ऎवं कृत्वा यदि वीर्यान्विता हॊरा भवति | तदा राशिसमानानि राशितुल्यानि वर्षाणि प्रयच्छतीति | “हॊरास्वामिगुरुज्ञवीक्षितयुता नान्यैः” इति न्यायॆन यदि वीर्यान्विता बलवती हॊरा लग्नं भवति तदा राशिसमं ददाति तत्तुल्यानि वर्षाणि प्रयच्छति | भागादिकात्त्रैराशिकॆन मासाद्यानयितव्यं कथमुच्यतॆ | भागाश्च लिप्तापिण्डीकृत्य द्वादशभिः सङ्गुण्याष्टादशभिः शतैः भागमपहृत्यावाप्तं मासाः | अवशॆषं त्रिंशता सङ्गुण्य तॆनैवच्छॆदॆन भागमपहृत्यावाप्तं दिवसाः | तदॆव शॆषं षष्ट्या सङ्गुण्य तथैव घटिकाः | पुनरपि शॆषं षष्ट्या सङ्गुण्य तथैव चषकाः | लब्धं मासादि तत्रैव च न व् | अत्र च बादरायणः | “हॊरादयॊऽप्यॆवं बलयुक्तान्यानि राशितुल्यानि | वर्षाणि सम्प्रयच्छत्यनुपाताच्चांशकादि फलम् |” ऎतच्चाचार्यवराहमिहिरॆण लघुजातकॆऽविनष्टचैवाभिहितम् | क्रूरॊदय इति | मययवनादिमतायुर्दायॆ क्रूरॊदयॆ क्रूरॆ लग्नगतॆ “साद्धदितॊदितनवांशहतात्समस्तात्” इति न्यायॆन यदायुषॊपचयः क्रियतॆ तदत्रास्मिन्सत्यमतायुर्दायॆ न कर्तव्यम् अन्यत्सर्वं कर्तव्यम् | कार्यं च नाब्दैरिति प्रथमॊपदिष्टैः पूर्वकथितैरब्दैः नवतिथिविषयॆति यॆऽब्दा यवनबादरायणाचार्यमतॆन पठिता जीवशर्ममतॆन च| ग्रहदायं परमायुषः स्वरांशमिति तैरब्दैस्त्रैराशिकमुक्तं तदिह न सम्भवति | यथाऽऽदित्यस्य द्वादशकानामशकानामॆकॊनविंशत्यब्दा भवन्ति तदैकस्मिन्नवांशकॆ किमिति सत्यायुर्दायॆ न कर्तव्यम् | 12 || 193 सत्यॊपदॆशॊ वरमत्र किन्तु कुर्वन्त्ययॊग्यं बहुवर्गणाभिः |  आचार्यकत्वं च बहुघ्नतायामॆकं तु यद्भूरि तदॆव कार्यम् | 13 ||  भट्टॊत्पलः-अथ मयॊदितमतमुपन्यस्य जीवशर्ममतं चॊपन्यस्य सत्यमतस्यैवाङ्गीकरणमिन्द्रवज्रयाऽऽह सत्यॊपदॆश इति | अत्रास्मिन्मतत्रयॆ सत्यॊपदॆशॊ वरं श्रॆष्ठं इत्यर्थः | किन्तु तदप्यन्तॆ बहुवर्गणाभिः बह्वीभिः गुणनाभिरयॊग्यं कुवन्ति विनाशयन्ति | कास्ताः गुणनाः | स्वतुङ्गवक्रॊपगतैस्त्रिसङ्गुणमित्यादिकाः | तत्र यदि स्वगृहॆग्रहॊ भवति तदा द्विगुणमायुः कुर्वन्ति | स ऎव स्वगृहांशकॆ यदि भवति तथा भूयॊऽपि द्विगुणं कुर्वन्ति | स ऎव स्वद्रॆष्काणॆ यदा भवति तदा भूयॊऽपि द्विगुणं वर्गॊत्तमांशॆ स ऎव वक्री यदि भवति तदा भूयस्त्रिगुणं कुर्वन्ति | स ऎव स्वॊच्चस्थॊ भवति तदा भूयॊऽपि त्रिगुणं कुर्वन्ति | ऎवमनवस्था | अनॆनानवस्थाप्रसङ्गॆन सत्यॊक्तमप्यायुर्दायमयुक्तं बहुवर्गणाभिः कुर्वन्ति | तथा च मयः | “वर्गॊत्तमॆ स्वराशौ द्रॆष्काणॆ स्वॆ नवांशकॆ द्विगुणम् | वक्रॊच्चगतॆ त्रिगुणं द्विगुणं कार्य यथासङख्यम् |” तथा च सारावल्याम् | “बहुताडनसम्प्राप्तौ यां करॊत्यॆकवर्गणम् | वराहमिहिराचार्य सा न दृष्ट चिरन्तनै” इति | ऎतदप्ययुक्तम्| तदाऽत्र किं कार्यमित्याह | “आचार्यकत्वं तु बहुघ्नतायाम्” इति| ऎतदाचार्यकत्वमत्रागमः | बहुघ्नतायां प्राप्तायामॆकं तु यद्भूरि बहुतरं गुणनं तदॆव कार्यमिति | बहुषु गुणनासु प्राप्तास्वॆकैव क्रियतॆ इति | बहुवारं यत्र द्विगुणं प्राप्तं तत्र सकृदॆव द्विगुणमायुः कर्तव्यम् | यत्र द्विगुणत्वं च प्राप्तं तत्र सकृदॆव त्रिगुणं कर्तव्यम् | यत्र वारद्वयं त्रिगुणत्वं तत्र सकृदॆव त्रिगुणं कर्तव्यम् | “ऎकं तु यद्भूरि तदॆव कार्यम्” इति वचनात् | लघुजातकॆऽप्युक्तमाचार्यॆण | “वर्गॊत्तमॆ| स्वद्रॆष्काणॆ स्वनवांशकॆ सकृद्द्वगुणम् | वक्रॊच्चयॊस्त्रिगुणितं द्वित्रिगुणत्वॆ 194 सकृत्त्रिगुणम् |” इति | चक्रपातं वर्जयित्वा बहुवर्गणान्यायॆनैतदॆव कर्मं शत्रुक्षॆत्रस्थॊ नीचस्थश्च यदा ग्रहॊ भवति अस्तं गतॊ वा तदा सकृदॆवापहानिः कार्या | नीचॆऽतॊऽर्धं ह्रसतीत्यत्रापि अनुवर्तनीयम् | उक्तं च लघुजातकॆ | “शत्रुक्षॆत्रॆ त्र्यंशं नीचॆऽद्र्ध सूर्यलुप्तकिरणाश्च | क्षपयन्ति स्वाद्दायान्नास्तं यातौ रविजशुक्रौ |” इति | ऎवं कृतस्य सत्याचार्यमतस्य स्पष्टता भवतीत्याचार्यस्य मतम् | यत्रापहानिः प्राप्ता तत्र सकृदॆवापहानि कृत्वा सकृदपि गुणना कार्या | किं त्वपहानौ कर्तव्यायां चक्रपातापहानिं कृत्वा ततः शत्रुक्षॆत्रस्थपहानिः सकृदॆव कर्तव्या ततः सकृदॆव गुणना कार्या | अत्र च भगवान्गार्गिः | “राशितुल्यांशसंख्यानि ग्रहॊऽब्दानि प्रयच्छति | लग्नश्च सबलॊऽन्यानि भुक्तराशिसमानि तु | मासाद्यानयनं कार्यमनुपातादतः परम् | सर्वार्धत्रिचतुर्थाशान्वामं पञ्च चतुः समित् | हरन्ति पापाः स्वाद्दायात्तदर्धमितरॆ ग्रहाः | व्ययाच्चक्रापहानिस्तु कथितॆयं तथा ध्रुवम् | ऎकस्त्वॆकर्क्षगॆष्वॆव करॊति बलवान्ग्रहः | शत्रुक्षॆत्रगतस्त्र्यंशंनीचॆऽर्ध सूर्यगस्तथा | हन्ति स्वाद्दायाद्रविगौ न सितादित्यनन्दनौ | न चावनिसुतश्चांशं शत्रुक्षॆत्रगतस्तथा || धुवापहानिः कर्तव्या ततॊऽन्यासु बहुष्वपि | प्राप्तास्वॆकैव कर्तव्या या स्यात्तासु समहत्तरा | ततॊऽपि गुणना कार्याऽत्यॆकैव महती सकृत् | द्वाभ्यां वर्गॊत्तमॆ स्वांशॆ स्वद्रॆष्काणॆ स्वकॆ ग्रहॆ| त्रिभिर्वक्रगतस्याथ स्वॊच्चराशिगतस्य च | ग्रहदायॊ भवत्यॆवं शॊध्यक्षॆपकृतस्तु यः |” यद्यप्याचार्यॆणांशायुः प्रमाणीकृतं तथापि लग्नॊ यदि सम्यग्वली भवति तदांशायुः कर्तव्यम् | अथाक्~ऒ बलवांस्तदा पिण्डायुः | तथा च मणित्थः | “विलग्नॆऽतिबलॊपॆतॆ शुभदृष्टॆंऽशसम्भवः | रवौ पिण्डॊद्भवं कुर्यादिति ब्रूयुश्चिरन्तनाः |” तथा च सारावल्याम् | “अंशॊद्भवं विलग्नात्पिण्डयं भानॊर्निसर्गजं चन्द्रात्” इति | अन्यॆऽन्यॆवमाहुः | यथा अंशायुः पिण्डायुषी द्वॆ अपि कार्यॆ | द्वाभ्यामपि दशान्तर्दशाविभागपरिकल्पना कार्या | तत्र यदल्पं तस्यान्तिममन्तर्दशा सैव यद्यधिकस्य तत्कालं वर्ततॆ तदाधिकमायुर्जीवति| शत्रुदशा चॆत्तदा तत्रैव मरणं मित्रदशा चॆत्तदापि जीवति मध्यमदशा चॆत्तदा पीडा भवति ततॊऽपि जीवति | अस्माकं सत्याचार्यमतमभिमतमिति || 13 || 195 गुरुशशिसहितॆ कुलीरलग्नॆ शशितनयॆ भृगुजॆ च कॆन्द्रयातॆ |  भवरिपुसहजॊपगैश्च शॆषैरमितमिहायुरनुक्रमाद्विना स्यात् | 14 ||  इति श्री वराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ आयुर्दायाध्यायः सम्पूर्णः |7 ||  भट्टॊत्पलः-अथ यस्मिन्यॊगॆ जातस्यायुः प्रमाणं न ज्ञायतॆ तद्यॊगज्ञानं पुष्पितग्रयाऽह गुर्विति | कुलीरलग्नॆ कर्कटॊदयॆ गुरुशशिसहितॆ जीवचन्द्रयुक्तॆ तथा शशितनयॆ बुधॆ भृगुजॆ च शुक्रॆ कॆन्द्रयातॆ कण्टकगतॆ शॆषैः परिशिष्टैः रविभौमसौरैः भवरिपुसहजॊपगतैः भवस्थानमॆकादशं रिपुस्थानं षष्ठं सहजस्थानं तृतीयमॆतॆषु भवरिपुसहजॆषु उपगतैः स्थितैः इहास्मिन्यॊगॆ जातस्यानुक्रमाद्विना गणितकर्मान्तरॆणापि विनाऽमितमपरिमितायुः स्याद्भवॆत् | ऎतदुक्तं भवति | यदा कर्कलग्नं भवति तत्रैव चन्द्रजीवौ व्यवस्थितौ भवतः बुधशुक्रौ सहितौ पृथक्स्थौ वा लग्नचतुर्थसप्तमदशमस्थानानामन्यतमॆ यथासम्भवं भवतः | परिशॆषाऽ आदित्याङ्गारकशनैश्चराः पृथक्सहिता वा यथासम्भवमॆकादशषष्ठतृतीयगाः 196 भवन्ति तदा ईदृग्यॊगॆ यॊ जातः तस्यामितप्रमाणमायुभवति| अनुक्रमाद्गणितागतं विनैव अयमर्थः | ऎवं विधॆ यॊगॆ दृष्टॆ आयुर्दायगणना न कर्तव्या तस्मात्तस्यासंभव इति | अतॊऽन्यथाजातस्य यथागतॆनायुषाऽवश्यमॆव भवितव्यम् | नायुः पिण्डस्यार्वाक्तस्य मृत्युर्भवति न चायुः पिण्डमतिक्रम्य तॆन जीवितव्यमिति | यस्मिन्यॊगॆ जातस्यानाचारस्यॆवायुषॊ ध्वंसॊ भवति इति | तथा च स्मृतिषूक्तम् | पारदारमनायुष्यमित्यॆवमादिकैर्दॊषैर्न जीवति | ऎतद्यॊगॆ जातस्यायुर्वॆदॊक्तैर्विधि सॆवितरसायनैः प्रयॊगैर्यथाभिहितैदीर्घमायुरवाप्नॊतीति | 14 || इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां आयुर्दायाध्यायः || 7 ||   197 अथ दशान्तर्दशाध्यायः || 8 ||  उदयरविशशाङ्कप्राणिकॆन्द्रादिसंस्थाः प्रथमवयसि मध्यॆऽन्त्यॆ च दद्युः फलानि न हि नफलविपाकः कॆन्द्रसंस्थाद्यभावॆ भवति हि फलपक्तिः पूर्वमापॊक्लिमॆऽपि | 1 ||  भट्टॊत्पलः-अथातॊ दशान्तर्दशाध्यायॊ व्याख्यायतॆ | परिज्ञातसमस्तायुषः पुरुषस्य जीविताभ्यन्तरॆ स्थितयॊःसुखदुःखयॊः परिच्छॆदः क्रियतॆ | तत्र च शॊध्यक्षॆपविशुद्धमायुर्यावत्प्रमाणं यॆन ग्रहॆण दत्तं तावत्प्रमाणैव तस्य सम्बन्धिनी दशा भवति | तत्र दशाक्रमॊ न ज्ञायतॆ तज्ज्ञानं मालिन्याह उदयॆति | उदयॊ लग्नं तनुः रविरादित्य आत्मा शशाङ्कश्चन्द्रॊ मनः ऎषामुदयरविशशाङ्कानां मध्याद्यः प्राणी बलवांस्तद्बलवशात्तस्य सम्बन्धिनी प्रथमा दशा भवति प्राधान्याद्दॆहवताम् | तथा च यवनॆश्वरः | “निशाकरा दित्यविलग्नमध्यॆ तत्कालयॊगादधिकं बलं यः | विभर्ति तस्यादिदशॆष्यतॆ सा शॆषस्ततः शॆषबलक्रमॆण |” इति | उदयश्च रविश्च उदयरविशशाङ्कप्राणी च कॆन्द्रादिसंस्थाश्चॊदयरविशशाङ्कप्राणिचकॆन्द्रादिसंस्थाः ऎवमॆषां मध्याद्यॆन प्रथमा दशा दत्ता तस्यैव कॆन्द्रसंस्थाः कॆन्द्रपणफरापॊक्लिमॆषु स्थिता ग्रहाः वीर्यॊपचयक्रमॆण दशा दद्युः | ऎवं लग्नार्कशशाङ्कानां मध्यादॆकस्य बलवतॊ दशा आदौ परिकल्प्या | ततस्तस्य कॆन्द्रस्थास्तॆषां दशाः परिकल्प्याः | तैः कॆन्द्रस्थैः प्रथमवयसि फलं दत्तं भवति | यदुक्तम् | “प्रथमवयसि मध्यॆऽन्त्यॆ च दद्युः, फलानि” इति तथा च यवनॆश्वरः | “पूर्वॆ तु कॆन्द्रॊपगताः फलन्ति मध्यॆ वयः पणफरं निविष्टाः | आपॊक्लिमस्थाः फलदा वयॊऽन्त्वॆ यथाबलं स्वं समुपैति पूर्वम् |” अथ यदि कॆन्द्रस्था ग्रहा न भवन्ति तदा कः प्रथमॆ वयसि| फलं प्रयच्छतीत्याह | न हि न फलविपाक इत्यादि | कॆन्द्रस्थाद्यभावॆ कॆन्द्रस्थानां ग्रहाणामभावॆ असम्भवॆ सति प्रथमॆ वयसि यः फलविपाकः स न हि न | यतॊ द्वौ नञौ प्रकृतमर्थं गमयतः | पणफरस्थानामप्यभावॆ मध्यॆ वयसि फलविपाकॊ न हि 198 न | आपॊक्लिस्थानामभावॆऽन्त्यॆ वयसि फलविपाकॊ न हि न | ऎतदुक्तं भवति | यदा कॆन्द्रस्था ग्रहा न भवन्ति तदा पणफरस्थाः पूर्वं फलं प्रयच्छन्ति ततः आपॊक्लिमस्थाः | अथ कॆन्द्रस्थाः पणफरास्थाश्च न भवन्ति तदा सर्वस्मिन्नॆव वयसि आपॊक्लिमस्थाः फलं प्रयच्छन्ति | यत् उक्तम् | “भवति हि फलपक्तिः पूर्वमापॊक्लिमॆऽपि” इति | ऎवमापॊक्लिमस्थानामभावॆ प्रथमं कॆन्द्रस्थाः फलं प्रयच्छति ततः पणफरस्थाः | यदा आपॊक्लिमस्था न भवन्ति न च पणफरस्थास्तदा सर्वस्मिन्नॆव वयसि कॆन्द्रस्थाः फलं प्रयच्छन्ति | ऎतदुक्तं भवति| ‘लग्नार्कशशाङ्कानां यॊ बलवांस्तद्दशा भवॆत्प्रथमा” | प्रथमां दशां कल्पयित्वा ततस्तत्कॆन्द्रगानां सर्वॆषां कल्पनीयाः | तॆषां परिकल्प्य पणफरस्थानां परिकल्पनीयास्ततः परमापॊक्लिमस्थानां कॆन्द्रस्थानामभावॆ प्रथमं दशापतॆरनन्तरं पणफरस्थानां कल्पनीयास्ततः आपॊक्लिमस्थानां कॆन्द्रस्थानामभावॆ पणफरस्थानामभावॆ आपॊक्लिमस्थानामॆव कल्पनीयाः | अथ कॆन्द्रस्थाः भवन्ति भवन्ति पणफरस्था न भवन्ति आपॊक्लिमस्था ऎव भवन्ति तदा कॆन्द्रस्थानां कल्पयित्वा आपॊक्लिमस्थानामॆव कल्पनीयाः | अथ कॆन्द्रस्था ऎव कॆवलं भवन्ति तदा तॆषामॆव कल्पनीयाः | अथ पणफरस्था ऎव भवन्ति तदा पणफरस्थानामॆव कल्पनीयाः | अथापॊक्लिमस्था भवन्ति तदा तॆषामॆव कल्पनीयाः | तथा च स्वल्पजातकॆ उक्तम् लग्नार्कसशङ्कन यॊ बलवांस्तद्दशा भवॆत् प्रथमा | तत्कॆन्द्रपणफरापॊक्लिमॊपगानां बलाच्छॆषाः |” | 1 || 199 आयुः कृतं यॆन हि यत्तयॆव कल्प्या दशा सा प्रबलस्य पूर्वम् |  साम्यॆ बहूनां बहुवर्षदस्य तॆषां च साम्यॆ प्रथमॊदितस्य || 2 ||  भट्टॊत्पलः-अथ दशाकालप्रमाणं कॆन्द्रस्थानानामपि दशाक्रमज्ञानमिन्द्रवज्रयाह‌आयुः कृतमिति | शॊध्यक्षॆपविशुद्धमायुर्यावद्वर्षप्रमाणं यॆन ग्रहॆण दत्तं तदॆव तस्य ग्रहस्य सम्बन्धिनी दशा कल्प्या परिकल्पनीया | तत्र लग्नार्कशशाङ्कानां यॊ बलवांस्तद्दशा भवॆत्प्रथमॆति न्यायॆन तद्दशां प्रथमं कल्पयित्वा ततस्तत्कॆन्द्रगानां मध्यात्सैव दशा प्रबलस्यातिबलस्य पूर्व प्रथमं कल्प्या | अनन्तरं यस्मादूनबलस्य ऎवं क्रमॆण यथा ऊनबला भवन्ति तथा पश्चात्तदीयदशाः कल्पनीयाः | ऎवं कॆन्द्रस्थानां दशाः परिकल्प्याः पणफरस्थानाम् | पणफरस्थानाम् अनॆनैव क्रमॆण परिकल्प्याः | तत आपॊक्लिमस्थानाम् अनॆनैव क्रमॆणॆति | साम्यॆ बहूनामिति | कॆन्द्रस्थानां बहूनां ग्रहाणां बलसाम्यॆ सति बहुवर्षदस्य बहूनि वर्षाणि यॆन दत्तानि तस्य प्रथमं दशा परिकल्प्या | नन्वत्र कथं ग्रहाणां बलसाम्यं भवति | यदि द्वावपि सुहृत्त्रिकॊणॊच्चगतौ भवतस्तदा नैसर्गिकॆण बलॆन यॊऽधिकः स ऎव बली स्यात् | अस्त्वॆतत्| किन्तु स्थानदिक्चॆष्टाकालबलग्रहदर्शनादिबलानि यावद्गणितविधिनैकीक्रियन्तॆ तावद्बलसाम्यं भवति | ग्रहाणां यथा सामान्यॆनॊदाहरणम् | यदि शनैश्चरॊ बलत्रयॆण संयुक्तॊ भवति भौमॊ बलद्वयॆन तदा तत्र भौमस्य निसर्गबलत्वाद्वलसाम्यं भवति | ऎवं सर्वॆषामपि ज्ञॆयम् | तॆषां च साम्यॆ प्रथमॊदितस्यॆति | तॆषां वर्षाणां साम्यॆ वर्षमानतुल्यॆऽपि प्रथमॊदितस्य दशा परिकल्प्या | प्रथममादावर्कमण्डलाद्य उदित उद्गतस्तस्य यदा बलसाम्यं भवति 200 तदा बहूवर्षदॆऽपि ग्रहॆ स्थित बलाधिकस्यैव पूर्वं दशा परिकल्प्या | तॆषां च बलसाम्यॆ प्रथमॊदितस्यॆत्यत्र द्विविध उदयः प्रत्यहं चक्रभ्रमवशादॆकः आदित्यविप्रकर्षणापरः | तत्रॆहादित्यविप्रकर्षण उदयॊ गणितस्कन्धॊक्तकालॊशकवशाज्ज्ञॆयः | अत्र च भगवान् गार्गिः | “बली लग्नॆन्दुसूर्याण दशामाद्य प्रयच्छति | तस्मात्ततः प्रयच्छन्ति कॆन्द्रादिस्थाः क्रमॆण तु | तत्रापि बलिनः पूर्वं तत्साम्यॆ बहुदायकः | तत्साम्यॆऽपि प्रयच्छन्ति यॆ पूर्वं रविविच्युताः |” | 2 ||  201 ऎकर्क्षगॊऽर्धमपहृत्य ददाति तु स्वं त्र्यंशं त्रिकॊणगृहगः स्मरगः स्वरांशम् |  पादं फलस्य चतुरस्रगतः सहॊरास्त्वॆवं परस्परगताः परिपाचयन्ति | 3 ||  भट्टॊत्पलः-ऎवं दशाव्यवस्थायां प्राप्तायामंतर्दशापाकग्रहज्ञानं वसन्ततिलकॆनाह‌ऎकर्क्षगॊऽर्धमिति | दशापतिना सहैकर्क्षगॊ ग्रहः ऎकस्मिन्राशौ व्यवस्थितः दशापतिदत्तान्तर्दशाकालस्य यदर्धं तदपहृत्य स्वैरात्मीयैर्दशागुणैः परिपाचयति | त्र्यंशमिति | त्र्यंशं त्रिकॊणगृहगः दशापतॆस्त्रिकॊणगृहगॊ तृतीयभागमपहृत्य स्वैरात्मीयैर्दशागुणैः परिपाचयति | स्मरगः स्वरांशमिति |दशापतॆः स्मरगः सप्तमस्थानस्थः दशापतिदत्तान्तर्दशाकालात्स्वरांशं सप्तमभागमपहृत्य स्वैर्दशागुणैः परिपाचयति | पादं फलस्यॆति | चतुरस्रगॊऽष्टमचतुर्थस्थानस्थॊ दशापतिदत्तान्तर्दशाकालात्पादं चतुर्थभागमपहृत्य स्वैर्दशागुणैः परिपाचयति | सहॊरा, हॊरा लग्नं तया सहिताः परस्परमन्यॊन्यमनॆन प्रकारॆण व्यवस्थिताः स्वैः स्वैर्दशागुणैः परिपाचयन्ति | ऎतदुक्तं भवति | यथा दशापतॆः सकाशादॆकर् क्षादिस्थॊ ग्रहॊ यथास्वं पठितमंशं परिपाचयति | तथा लग्नमपि पाचयति | अत्र दशापतॆः प्रथममंशपरिकल्पनां कृत्वा पश्चादॆकक्षदिस्थितानां कर्तव्याः | यस्माद्दशापतॆर्यॊ भाग आगच्छति तदनुसारॆणार्द्धादयॊ भागाः परिशॆषाणां भवन्ति | अथैकस्मिस्थानॆ यदा बहवॊ ग्रहाः भवन्ति तॆषां मध्यॆ यॊ बलवान् स ऎवैकः परिपाचयति | नान्यॆ | कथमॆतदवगम्यतॆ| उच्यतॆ | ऎकवचननिर्दॆशात् “ऎकर्क्षगॊऽर्धमपहृत्य ददाति तु स्वम्” इत्याद्यॆकवचनात् | न कॆवलं मिहिराचार्यॆणैकवचननिर्दॆशः कृतॊ यावत्स्वल्पजातकॆऽपि तथा चॊक्तम् ‘ऎकर्क्षगॊऽर्धं त्र्यंशं त्रिकॊणयॊः सप्तमॆ तु सप्तांशम् | चतुरस्नयॊस्तु पादं पाचयति गतॊ ग्रहः स्वगुणैः” इति न कॆवलं यावद्गर्गादीनामप्यॆकवचननिर्दॆशॊऽस्ति | तथा च भगवान्गार्गिः | “ऎकर्क्षॆऽवस्थितश्चार्ध त्रिभागं तु त्रिकॊणगः | सप्तमस्थः स्वरांशं तु पादं तु 202 चतुरष्टगः | लग्नॆन सहिताः सर्वॆ ह्यन्यॊन्यफलदायकाः ||” यवनॆश्वरश्चाप्यॆवम्| “कालॊऽर्धभागैकगृहाश्रितस्य तदर्धभागं लभतॆ चतुर्थॆ | त्रिभागभागी च त्रिकॊणसंस्थस्तदर्धभाक्स्याच्च पृथक् त्रिकॊणॆ | स्यात्सप्तमॆ सप्तमभागभागी स्थितॊ ग्रहश्चारवशाद्ग्रहस्य |” ऎवं सर्वत्रैकवचननिर्दॆशः | तस्मादॆवं ज्ञायतॆ | यत ऎक ऎवांशहारॊ भवति न सर्व इति | तथा च सत्यः | अर्ध तृतीयमर्धात्तथार्धं स्वाच्च सप्तमं भागम् | ऎकर्क्षनवपञ्चमचतुर्थनिधनाद्यसप्तानाम् | दद्युग्रीहा ग्रहाण स्वदशास्वन्तर्दशाख्यानाम् | फलकालान्मिश्रविविध क्रमॆण भॆद्याश्च तॆऽप्यॆवम् | ऎकक्षगॆषु बलवान् भागहरॊ मित्रतॊ रिपॊर्वापि | मित्रॆ त पुष्टफलं तस्मिन्कालॆ रिपुनैवम् |” तथा च यमः | “ऎकक्षौपगतानां यॊ भवति बलाधिकॊ विशॆषॆण ऎकः स ऎव हर्ता नान्यॆ तत्र स्थिता विहगाः ||” इति | लग्नॆऽपि यत्रांशापहारित्वं प्राप्तं तत्र च लग्नॆ यदा ग्रहः स्थितॊ भवति तदा लग्नग्रहयॊर्यॊ बलवान् स ऎवैकः पठितमंशमपहरति नॆतर इति अन्यॆ सर्वॆषामॆकादिराशिगानामन्तर्दशाभागमिच्छन्ति | अन्यॆ पुनः ऎकमॆव भागं गृहीत्वा तद्भागस्यैकक्षगानां भागीकृत्य तद्भागमिच्छन्ति | 3 ||  203 स्थानान्यथैतानि सवर्णयित्वा सर्वाण्यधश्छॆदविवर्जितानि | दशाब्द पिण्डॆ गुणका यथांशं छॆदस्तदैक्यॆन दशाप्रभॆदः | 4 ||  भट्टॊत्पलः-अथ दशापरिकल्पनाज्ञानमिन्द्रवज्रयाह स्थानानीति | अद्धादिका भागाः स्थानशब्दॆनॊच्यन्तॆ | तॆषामर्धादिकानां भागानां सवर्णना कार्या | सदृशच्छॆदॆन सादृश्यमुत्पाद्य ततस्तानि सर्वाणि स्थानानि अधश्छॆदैः विवर्जितानि कार्याणि | छॆदानपास्य इत्यर्थः | उपरिस्थिता राशयॊ यथासम्भवं प्रत्यंशं गुणकारा भवन्ति | छॆदस्तदैक्यॆन तॆषां राशिनामैक्यॆन संयॊगॆन छॆदॊ भागहारॊ भवति | कस्मिन् गुणकारा भागहारा इत्याह | दशाब्दपिण्डॆ दशावर्षसमूहॆ | तॆनैतदुक्तं भवति | दशाब्दान् पृथक्पृथग्गुणकारैः संगुण्य छॆदॆन विभज्यावाप्तं वर्षाद्यन्तर्दशा भवति | तद्यथॊदाहरणम् | दशापतिनैव कॆवलं कश्चिद्ग्रहः स्थितः अन्य-स्थानॆषु न कश्चित् स्थितस्तदा स ऎवापहारी | तत्र दशापतॆः रूपस्यैकस्यैवाधॊरूपमॆकं न्यसॆत् | ऎवमर्धहारस्य रूपस्याधॊरूपद्वयं न्यासः 1/1 ||1/2 | परस्परच्छॆदगुणावॆतौ राशौ कर्त्तव्यौ कृतौ 2/2 ||1/2 ऎतौ समच्छॆदीभूतौ छॆदहीनौ 2/ 1 ऎतौ गुणकारी, अनयॊर्यॊगः जातः 3 ऎष भागहारः | अत्र दशापतिदत्तायुर्दायः 3 ||0 ||0 ||0 ऎतद्द्वाभ्यां सङ्गुण्य त्रिभिर्विभज्यावाप्तं फलम् 2 इयं मूलदशापतॆरन्तर्दशा | अथ पुनरॆव, मूलदशापतिवर्षादि 3 वर्षाणि 0 मासाः, 0 दिनादि, 0 घट्यः ऎकॆन सङ्गुण्य त्रिभिर्विभज्यावाप्तं फलं वर्षादि 1 वर्षाणि ऒ मासाः दिनादि ऒ घट्यः इयं दशापतिना सहैकराशिव्यवस्थितस्यान्तर्दशा | ऎवं मूलदशापतिदत्तान्तर्दशाकाल ऎकराशिगॆन ग्रहॆणार्ध पाचितॊ भवति | अस्यान्तर्दशाकालद्वयस्य यॊगॊ वर्षादिः 3 ||0 ||0 ||0 जाता सैव मूलदशॆति | अथ दशापतॆः नवपञ्चमस्थानयॊरॆकस्मिन्स्थानॆ कश्चिद्ग्रहः स्थितॊ भवति न द्वितीयॆ न च| दशापतिना सह न चतुरस्रयॊः न च सप्तमॆ तदा न्यासः 1/1 ||1/3 ऎतौ 204 परस्परच्छॆदहतौ 3/3 ||1/3 छॆदॆन हीनौ 3 ||1 ऎतौ गुणकारौ 4 ऎष भागहारः | मूलदशापतॆरायुर्दायः 4||0 ||0 ||0 अस्य त्रिगुणस्य चतुर्भिर्भागमपहृत्यावाप्तम् 3 ||0 ||0 ||0 अयं मूलदशापतॆरन्तर्दशाकालः | अथ मूलदशापतिदायस्यास्य 4||0 ||0 ||0 ऎकगुणस्य चतुर्भिर्भागमपहृत्यावाप्तम् 1 ||0 ||0 ||0 ऎषां त्रिकॊणस्थस्यान्तर्दशॆति | ऎव मूलदशापतिदत्तान्तर्दशाकाल त्रिकॊणस्थॆन ग्रहॆण त्रिभागमपहृत्य पाचितं भवति | अस्यान्तर्दशाकालद्वयस्य यॊगः जातः 4|0 ||0 ||0 सैव मूलदशॆति | अथ दशापतॆश्चतुर्थाष्टमयॊरॆकस्मिन्स्थानॆ कश्चिद्ग्रहॊ भवति, न द्वितीयॆ न च दशापतिना सह न त्रिकॊणयॊः न सप्तमॆ तदा न्यासः 1/1 ||1/4 परस्परच्छॆदहतौ 4/4 ||1/4 छॆदहीनौ 4 ||1 ऎतौ गुणकारौ ऎकीकृतौ 5 ऎष भागहारः मूलदशापतॆः दायः 5 ||0 ||0 ||0 अस्य चतुर्गुणस्य 20 ||0 ||0 ||0 पञ्चभिर्भागमपहृत्यावाप्तम् 4 ||0 |0 |0 अयं मूलदशापतॆरन्तर्दशाकालः | अथ मूलदशापतिदायस्यास्य 5 ||0 ||0 ||0 ऎकगुणस्य पञ्चभिर्भागमपहृत्यावाप्तम् 1 ||0 ||0 ||0 ऎषा चतुरस्नस्थान्तर्दशॆति | ऎवं मूलदशापतिदत्तान्तर्दशाकालाच्चतुरस्नस्थॆन पादमपहृतं भवति | अस्यान्तर्दशाकालद्वयस्य यॊगः 5 ||0 ||0 ||0 जाता सैव मूलदशॆति | अथ दशापतॆः सप्तमॆ स्थानॆ कश्चिद्ग्रहॊ भवति न दशापतिना सह न त्रिकॊणॆ न चतुरस्रयॊस्तदा न्यासः 1/1 ||1/7 परस्परच्छॆदहतावॆतौ 7/7 ||1/7 छॆदहीनौ 7 |1 हतौ गुणकारौ ऎकीकृतौ 8 ऎष भागहारः | दशापतॆः दायः 8 ||0 ||0 ||0 अस्य सप्तगुणस्या-(56)-ष्टभिः भागमपहृत्यावाप्तं वर्षादि 7 ||0 ||0 ||0 इयं मूलदशापतॆरन्तर्दशा | पुनरपि मूलदशापतॆः दायः 8 ||0 ||0 ||0 अस्यैकगुणस्याष्टभिः भागमपहृत्यावाप्तम् 1 ||0 ||0 ||0 इयं मूलदशापतॆःसप्तमस्थानस्थस्यान्तर्दशा | ऎव मूलदशापत्यन्तर्दशाकालात्सप्तमॊ भागः सप्तमस्थॆन ग्रहॆण पाचितॊ भवति | अस्यांतर्दशाकालद्वयस्य यॊगः 8 |ऒ |ऒ |ऒजाता सैव मूलदशॆति | ऎवमॆकस्मिन् दशाविकल्पाः | अत्रादौ मूलदशापतॆरन्तर्दशा भवति तदनन्तरमंशहरस्य | अथ दशापतिना सहैकस्मिन्राशौ कश्चिद्ग्रहॊ भवत्यपरश्च नवमपञ्चमयॊर्मध्यादॆकस्मिन्भवति न द्वितीयॆ, नान्यॆषु स्थानॆषु, न चतुरस्नयॊः, न सप्तमॆ तदा न्यासः 205 1/ 1 ||1/2 ||1/3 ऎतॆ राशयः परस्परच्छॆदहता जाताः 6/6 ||3/6 ||2/6 छॆदहीनाः 6 ||3|2 ऎतॆ गुणकाराः ऎकीकृताः 11 ऎष भागहारः | अथ दशापतिदायः 11 ||0 ||0 ||0 अस्य षड्गुणस्यैकादशभिः भागमपहृत्यावाप्तम् 6||0 ||0 ||0 ऎवं मूलदशापतॆरन्तर्दशा | पुनरपि मूलदशापतिदायस्यास्य 11 ||0 ||0 ||0 त्रिगुणस्यैकादशभिः भागमपहृत्यावाप्तम् 3 ||0 ||0 |0इयमर्धपाचकस्यान्तर्दशा | पुनरपि मूलदशापतिदायस्यास्य 11 ||0 ||0 || ट्ः भागमपहत्यावाप्तम्|  लॊ लॊ | इयं त्रिकॊणावस्थितस्यान्तर्दशा | अत्र दशापतॆः यदर्ध तदॆकगृहावस्थितः पाचयति त्रिभागं च त्रिकॊणगः | अन्तर्दशात्रयस्यास्य यॊगः 1 1|0 ||0 |ऒ जाता सैव मूलदशॆति | अथ दशापतिना सहैकस्मिन्राशौ कश्चिद्भवत्यपरश्चतुरस्रयॊः मध्यादॆकस्मिन्न द्वितीयॆ न चान्यॆषु स्थानॆषु न त्रिकॊणयॊः न सप्तमॆ तदा न्यासः 1/1 ||1/2 ||1/4 ऎतॆ परस्परच्छॆदहता जाताः 8/8 ||4/8 ||2/8 छॆदहीनाः 8 ||4|2 ऎतॆ गुणकाराः ऎकीकृताः 14 ऎष भागहारः | अथ दशापतिदायस्यास्य 14 ||0 ||0 ||0 अष्टगुणस्य चतुर्दशभिः भागमपहृत्यावाप्तम् 8||0 ||0 ||0 इयं मूलदशापतॆरन्तर्दशा | पुनरपि मूलदशापतिदायस्यास्य 14 ||0 ||0 ||0 चतुर्गुणस्य चतुर्दशभिः भागमपहृत्यावाप्तम् 4||0 ||0 |0 इयमर्धपाचकस्यान्तर्दशा | पुनरपि मूलदशापतिदायस्यास्य 14 ||0 ||0 ||0 द्विगुणस्य चतुर्दशभिः भागमपहृत्यावप्तम् 2 ||0 ||0 |0 इयं चतुर्थभागपाचकस्यान्तर्दशा | अत्र दशापतॆः यदर्ध तदॆकगृहावस्थितः पाचयति | चतुर्भागं चतुरस्नगतः | अन्तर्दशात्रयस्यास्य यॊगः 14|0 ||0 ||0 जाता सैव मूलदशॆति | अथ यत्र दशापतिना सहैकस्मिन्राशौ कश्चिद्भवत्यपरश्च सप्तमॆ नान्यॆषु तदा न्यासः 2/ 2 ||2/ 2 |2/7 ऎतॆ परस्परच्छॆदहता जाताः 64/ 24 || 1 7/8 | 1 2/8 छॆदहीनाः 14 ||7 |2 ऎतॆ गुणकाराः ऎकीकृताः 23 ऎष भागहारः | अथ दशापतिदायस्यास्य 23 ||0 ||0 ||0 चतुर्दशगुणस्य त्रयॊविंशत्या 9? 14||0 ||0 ||0 इयं मूलदशापतॆरन्तर्दशा | पुनरपि मूलदशापतिदायस्यास्य 23 ||0 ||0 ||0 सप्तगुणस्य त्रयॊविंशत्या भागमपहृत्यावाप्तम् 7 ||0 ||0 ||0 इयं पाचकस्थॆन सहावस्थस्यान्तर्दशा | पुनरपि 206 मूलदशापतिदायस्यास्य 23 ||0 ||0 ||0 द्विगुणस्य त्रयॊविंशत्या भागमपहृत्यावाप्तम् 2 ||0 ||0 |0 इयं सप्तभागपाचकस्यान्तर्दशा | अस्यान्तदशात्रयस्य यॊगॊ जाता 23 ||0 ||0 ||0 सैव मूलदशॆति | अथ दशापतॆस्निकॊणयॊरपि ग्रहॊ व्यवस्थितः नान्यॆषु स्थानॆषु तदा न्यासः 4/1 ||1/2 ||1/3 ऎतॆ राशयः परस्परच्छॆदहता जाताः 4/9 ||3/9 ||3/9 ऎतॆ गुणकाराः ऎकीकृताः 15 ऎष भागहारः | दशापतिदायस्यास्य 5 ||0 ||0 |ऒ नवगुणस्य पञ्चदशभिः भागमपहृत्यावाप्तम् || 3 ||0 ||0 ||0 इयं मूलदशापतॆरन्तर्दशा | पुनरपि मूलदशापतिदायस्यास्य 5 ||0 ||0 ||0 त्रिगुणस्य 15 ||0 ||0 ||0 पञ्चदशभिः भागमपहृत्यावाप्तम् 1 ||0 ||0 ||0 इयं त्रिकॊणस्थस्यान्तर्दशा | द्वितीयस्यैषैव अस्यान्तर्दशात्रयस्य यॊगः 5 ||0 ||0 ||0 जाता सैव मूलदशॆति | अथ दशापतॆरित्रकॊणयॊः मध्यादॆकस्मिन्कश्चिद्ग्रहॊ व्यवस्थितः मध्यादॆकस्मिन्नपि नान्यॆषु स्थानॆषु तदा न्यासः 1/ 1 ||1/ 3 ||1/4 ऎतॆ परस्परच्छॆदहता जाताः 12/ 1 2 ||4/ 1 2 | 3/1 2 छॆदहीनाः 12 ||4||3 ऎतॆ गुणकाराः ऎकीकृताः 19 ऎष भागहारः | अथ दशापतिदायस्यास्य 19 ||0 ||0 ||0 द्वादशगुणस्यैकॊनविंशत्या भागमपहृत्यावप्तम् 1 2 ||0 ||0 |0इयं मूलदशापतॆरन्तर्दशा | पुनरपि दशापतिदायस्यास्य 19 ||0 ||0 ||0 चतुर्थगुणस्यैकॊनविंशत्या भागमपहृत्यावाप्तम् 4||0 ||0 ||0 इयं त्रिकॊणभागपाचकस्यान्तर्दशा | पुनरपि दशापतिदायस्यास्य 19 ||0 ||0 |ऒ त्रिगुणस्यैकॊनविंशत्या भागमपहृत्यावाप्तम् 3||0 ||0 |0 इयं चतुर्भागपाचकस्यान्तर्दशा | अस्यान्तर्दशात्रयस्य यॊगः 19 ||0 ||0 ||0 जाता सैव मूलदशॆति | अथ यत्र दशापतॆस्त्रिकॊणयॊर्मध्यादॆकस्मिन्स्थानॆ कश्चिद्ग्रहॊऽन्यः सप्तमॆ तदा न्यासः 1 1 1/ 137 ऎतॆ राशयः परस्परच्छॆदहता जाताः 21/ 292 73/ 121 छॆदहीनाः 21 ||7 |3 ऎतॆ गुणकाराः ऎकीकृताः 31 ऎष भागहारः | दशापतिदायस्यास्य 3 1 |ऒ || ऒ || ऒ ऎकविंशत्या सङ्गुणितस्यैकत्रिंशता भागमपहृत्यावाप्तम् 21 ||0 ||0 ||0 इयं मूलदशापतॆरन्तर्दशा | पुनरपिदशावर्षाणि 31||0 ||0 ||0 सङ्गुण्यैकत्रिंशता भागमपहृत्यावाप्तम् 7 ||0 |0 ||0 इयं त्रिभागपाचकस्यान्तर्दशा | पुनरपि 207 दशावर्षाणि 31||0||0||0 त्रिभिः सङ्गुण्यैकत्रिंशता भागमपहृत्यावाप्तम् 3 |ऒ ||0 |ऒ इयं सप्तभागपाचकस्यान्तर्दशा | अस्यान्तर्दशात्रयस्य यॊगः 31|0 ||0 ||0 जाता सैव मूलदशॆति | यत्र दशापतॆः चतुरस्नयॊः द्वयॊरॆव ग्रहौ स्थितौ नान्यत्र तदा न्यासः 1/ 1 ||1/4 ||1/4 ऎतॆ राशयः परस्परच्छॆदहता जाताः 16/16 ||4/16 ||4/16 छॆदहीनाः 16 ||4||4 ऎतॆ गुणकारा ऎकीकृताः 24 ऎष भागहारः | मूलदशापतिवर्षाण्यॆतानि 6 ||0 ||0 ||0 षॊडशभिः सङ्गुण्य 96||0 ||0 ||0 चतुर्विशत्या (24) भागमपहृत्यावाप्तम् 4||0 ||0 ||0 इयं मूलदशापतॆरन्तर्दशा | पुनरपि दशापतॆः दायस्यास्य 6 ||0 ||0 |0 चतुर्गुणस्य चतुर्विशत्या भागमपहृत्यावाप्तम् 1 ||0 ||0 ||0 इयं चतुर्थभागपाचकस्यान्तर्दशा | द्वितीयस्याप्यॆषॆव | अस्मान्तर्दशात्रयस्य यॊगः 6 ||0 ||0 ||0 सैव मूलदशॆति | अथ यत्र दशापतॆश्चतुरस्रयॊः मध्यादॆकस्मिन्कश्चिद्ग्रहॊ भवति सप्तमॆऽन्यस्तदा न्यासः 1/ 1 ||1/4/ 1/7 ऎतॆ राशयः परस्परच्छॆदहता जाताः 28/ 28 ||7/ 28 ||4/ 28 छॆदहीनाः 28 ||7|4 ऎतॆ गुणकाराः ऎकीकृता 39 ऎष भागहारः | अथ मूलदशापतिवर्षाणि 36||0 ||0||0 ऎतान्यष्टाविंशत्या सङ्गुण्यैकॊनचत्वारिंशता भागमपहृत्यावाप्तम् || 25 ||10||4|36 इयं मूलदशापतॆन्तर्दशा | पुनरपि दशावर्षाणि 36 सप्तभिः सङ्गुन्यैकॊनचत्वारिंशता भागमपहृत्यावाप्तम् 6 ||5|1 6|9| इयं चतुर्भागपाचकस्यान्तर्दशा | पुनरपि दशावर्षाणि 36 चतुर्भिः सङ्गुण्यॆकॊनचत्वारिंशता भागमपहृत्यावाप्तम् 3||8||9||15 इयं सप्तमभागपाचकस्यान्तर्दशा | अस्यान्तर्दशात्रयस्य यॊगः 36 |ऒ ||ऒ ||ऒ जाता सैव मूलदशॆति | ऎवं त्रिविकल्पाः | अथ यत्र दशापतिना सहैकराशौ कश्चिद्व्यवस्थितॊ द्वयॊरपि त्रिकॊणयॊः तदा न्यासः 1/ 1 ||1/ 2 | 1/3 ||1/3 ऎतॆ राशयः परस्परच्छॆदहता जाताः 18/ 18 ||9/18 ||6/ 18 ||6/81 छॆदहीनाः 18||9 ||6||6 ऎतॆ गुणकाराः ऎकीकृताः 39 ऎष भागहारः | अथ मूलदशापतिवर्षाणि 13 ||0 ||0 ||0 अतः प्राग्वदन्तर्दशान्यासः अस्यान्तर्दशाचतुष्टयस्य यॊगः 13 ||0 ||0 ||0 जाता सैव 6 ||0 ||0 ||0 3 ||0 ||0 ||0 2 ||0 ||0 ||0 2 ||0 ||0 ||0 मूलदशॆति | अथ यत्र दशापतिना स 208 हैकराशौ कश्चिद्व्यवस्थितः त्रिकॊणयॊर्मध्यादॆकस्मिन्कश्चिद्व्यवस्थितश्चतुर स्नयॊर्मध्यादॆकस्मिन्नॆव नान्यत्र तदा न्यासः 1/ 1 ||1/ 2 | 1/3 ||1/4 ऎतॆ राशयः परस्परच्छॆदहता जाताः 24/ 24 ||1 2/24 | 8/24 ||6/24 छॆदहीनाः 2|4|1 2 ||8||6 ऎतॆ गुणकाराः ऎकीकृताः 50 ऎष भागहारः | मूलदशा 36 ||0 ||0 ||0 अतः प्राग्वच्चतरुनॊऽन्तर्दशाः 17 ||3|10 ||48|| 8 ||7 ||20 ||24||5 ||9 ||3 ||36 |4 ||3 ||25 ||12 अस्यान्तर्दशाचतुष्टयस्य यॊगः 36 ||0 ||0 ||0 जाता सैव मूलदशॆति | अथ दशापतिना सहैकस्मिन्राशौ कश्चिद्व्यवस्थितस्त्रिकॊणयॊः मध्यादॆकस्मिन्नन्यः सप्तमॆ व्यवस्थितॊ नान्यत्र तदा न्यासः 1/ 1 ||1/ 2 ||1/3 ||1/7 ऎतॆ राशयः परस्परच्छॆदहता जाताः 42/42 ||2 1/42 ||14/42 ||6/42 छॆदहीनाः 42 ||2 1 ||14 ||6 ऎतॆ गुणकाराः ऎकीकृता 83 ऎष भागहारः | मूलदशावर्षाणि 1 6 ||0 ||0 ||0 अतः प्राग्वच्चतख्नॊऽन्तर्दशा आनीताः अस्यान्तर्दशाचतुष्टयस्य यॊगः 16 ||0 ||0 ||0 जाता 8 ||4||2 ||1 1 ||0 ||8||34||17||11 ||26 42 ||21 ||34||26 सैव मूलदशॆति | अथ दशापतिना सहैकस्मिन् राशौ कश्चिद्व्यवस्थितः अन्यौ द्वयॊश्चतुरस्नयॊस्तत्र न्यासः 1/ 1 ||1/ 2|1/4 ||1/4 ऎतॆ परस्परच्छॆदहता 32/ 3 2 | 1 6/ 32 ||8/32 ||8/32 छॆदहीनाः 3 2 | 1 6 ||8 ||8 ऎतॆ गुणकाराः ऎकीकृताः 64 ऎष भागहारः | मूलदशा 36 ||0 ||0 ||0 अतः प्राग्वच्चतख्नॊऽन्तर्दशाः अस्यान्तर्दशाचतुष्टस्य यॊगः 36 ||0 ||0 ||0 18||9||4||40 ||0 ||0 ||9 0 ||0 ||6||6 0 ||0 ||0 ||0 जाता सैव मूलदशॆति | अथ यत्र दशापतिना सहैकस्मिन् राशौ कश्चिद्व्यवस्थितॊऽन्यश्चतुरस्नयॊः मध्यादॆकस्मिन्नन्यः सप्तमॆ तदा न्यासः 1/ 1 ||1/2 ||1/4 ||1/7 ऎतॆ परस्परच्छॆदहता जाता | छॆदहीनाः 56 ||28|14|8 ऎतॆ गुणकाराः ऎकीकृताः 10 6 ऎष भागहारः | मूलदशा 36 ||0 ||0 अतः प्राग्वच्चतरुनॊऽन्तर्दशाः 19 |ऒ ||6 ||48 || 9 ||6 |3 ||24 |4 ||9 ||1 ||42 |2 ||8 ||18 ||6 अस्यान्तर्दशाचतुष्टयस्य यॊगः जाता सैव मूलदशॆति 36 ||0 ||0 | अथ यत्र त्रिकॊणयॊः कश्चिद्ग्रहः स्थितः चतुरुनयॊः मध्यादॆकस्मिस्तदा न्यासः $ / } | } /  | | / } | } /य् ऎतॆ परस्परच्छॆदहता जाताः 209 36/36 ||1 2/26 ||1 2/36 ||9/36 छॆदहीनाः 36 ||1 2 ||1 2 ||9 ऎतॆ गुणकाराः ऎकीकृताः 69 ऎष भागहारः | मूलदशा 23 ||0 ||0 ||0 अतः प्राग्वच्चतख्नॊऽन्तर्दशाः ?  ऒ ल् ऒ ल् ऒ ल् ईय् ल् ऒ ल् ऒ ल् ऒ ईय् लॊ ल् ऒ ल् ऒ ल् ल्3 | ऒ ल् ऒ ल् ऒ लॊ अस्यान्तर्दशाचतुष्टयस्य यॊगॊ जाताः 23 ||0 ||0 | सैव मूलदशॆति | अथ यत्र दशापतॆस्निकॊणयॊर्मध्यादॆकस्मिन्स्थितः कश्चिद्द्वयॊश्चतुरस्नयॊश्च तदा न्यासः 1 1 1 1/ 1344 ऎतॆ परस्परच्छॆदहताः 481 61 2 1 2/48484848 छॆदहीनाः 48 ||16|1 2 | 1 2 ऎतॆ गुणकाराः ऎकीकृताः 88 ऎष भागहारः | मूलदशा 22 |ऒ || 0 ||0 अतः प्राग्वच्चतख्नॊऽन्तर्दशाः 1 2 ||0 ||0 ||0 || 4 |ऒ |ऒ |ऒ ||3|ऒ |ऒ |ऒ ||3|ऒ |ऒ |ऒ अस्यान्तर्दशाचतुष्टयस्य यॊगः जाताः सैव 22 ||0 ||0 ||0 मूलदशॆति | अथ यत्र दशापतॆस्त्रिकॊणयॊर्मध्यादॆकस्मिन् कश्चित्स्थितः चतुरस्नयॊरप्यॆकस्मिन्सप्तमॆ च कश्चित्स्थितस्तदा| न्यासः 1 1 1 1/ 1347 ऎतॆ राशयः परस्परच्छॆदहता जाताः 84282 1 12/84848484 छॆदहीनाः ऎतॆ गुणकाराः ऎकीकृताः 145 मॆ 2ऒ || 6 ||5 ||2 1 ऒ ||1 1 ||2 ||11 77 ||1 2 ||1 6 ||22 51 ||38|58 ||33 दशॆति | अथ यत्र दशापतॆश्चतुरस्नयॊः द्वयॊरति ग्रहः स्थितः सप्तमॆ च तदा न्यासः 11 1 1/ 1447 ऎतॆ परस्परच्छॆदहता जाताः 11 2/1 12 ||28/1 12 ||28/112 ||1 6/1 12 छॆदहीनाः 1 12 ||28 || 28 ||16 ऎतॆ गुणकाराः ऎकीकृताः 184 ऎष भागहारः | मूलदशा 3 6 | ऒ || ऒ |ऒ अतः प्राग्वच्चतख्नॊऽन्तर्दशाः 2 1 |2 ऒ |28 |42 ||5 ||5 || 22 ||1 ऒ ||5 ||5 ||22|1 ऒ ||3|1 ||16|8 अस्यान्तर्दशाचतुष्टयस्य यॊगः 36||0 ||0 ||0 जाता सैव मूलदशॆति | ऎवं चतुर्विकल्पाः | अथ पञ्चविकल्पॆषु न्यासादॆव ग्रहावस्थानं बॊद्धव्यम् | न्यासः 1/1 ||1/2 ||1/3 ||1/3 ||1/4 छॆदॆनानॆन 24 हताः गुणकाराः 24|12 ||8||8 ||6 भागहारः 58| न्यासः 1/1 ||1/2 ||1/3 ||1/3 ||1/7 छॆदॆनानॆन 42 गुणकाराः 42 ||21 ||14 ||14 ||6 भागहारः 97 | न्यासः 1/ 1 ||1/2 ||1/3 || 1/4|1/4 छॆदॆनानॆन 24 गुणकारा 24|12 ||86 ||6 भागहारः 56 || 210 न्यासः 1/1 ||1/2 ||1/4 ||1/7 छॆदॆनानॆन 5 6 गुणकाराः 56 |28 ||14 ||14 ||8 भागहारः 1 2 ऒ | न्यासः 1/ 1 ||1/ 2 | 1/3 ||1/4 || 1/7 छॆदॆनानॆन छॆदॆनानॆन 84 गुणकाराः 84 ||28 ||28 ||21 ||1 2 भागहाराः 187 | न्यासः 1/1 ||1/2 ||1/3 ||1/3 ||1/4 ||1/7 छॆदॆनानॆन 84 गुणकाराः 84 ||42|28|21|12 भागहारः 173 | ऎवं पञ्चविकल्पाः | अथ षडविकल्पाः | न्यासः 1/ 1 ||1/ 2 | 1/3 ||1/3 ||1/4 ||1/7 छॆदॆनानॆन 252 गुणकाराः 252 ||126|84|84||63|36 भागहारः 645 || न्यासः 1/ 1 ||1/3 ||1/ 31/4 ||1/4 छॆदॆनानॆन 168 गुणकाराः 1 68 || 84 ||5 6 ||42 ||42 ||28 भागहारः 4 1 6 | न्यासः 1/2 ||1/2 || 1/3 ||1/31/4|1/4 छॆदॆनानॆन 96 गुणकाराः 96 |48 ||32 || 32 ||24 ||24 भागहारः 25 6 | न्यासः 1/2 ||1/2 ||1/3 ||1/4 ||1/4 छॆदॆनानॆन 96 गुणकाराः 96 |48 ||32|32|24|24 भागहारः 256 || न्यासः 1/2 ||1/2 | 1/3 ||1/31/4 ||1/7 छॆदॆनानॆन 84 गुणकाराः 84 |28 |28 |2 1 |2 1 | 1 2 भागहारः 194 | इति जाताः षडविकल्पाश्चत्वार | अथ सप्त विकल्पाः न्यासः 1/2 ||1/2 || 1/3 ||1/3 ||1/4 ||1/4|1/7 छॆदॆनानॆन 168 गुणकाराः 168 ||84|56 ||56 |42 |42 ||24 भागहारः 47 ऒ | ऎवं यावन्तॊ दायहारा भवन्ति तावदॆव तत्कर्म उपपद्यतॆ | यावन्तॊ न भवन्ति तावत्कर्म नॊपपद्यत इति | ऎकविकल्पॊ नास्ति | द्विविकल्पाश्चत्वारः 4 | त्रिविकल्पाः सप्त 7 | चतुर्विकल्पा नव 9 | पञ्चविकल्पाः सप्त 7 | षडविकल्पाश्चत्वारः 4 | सप्तविकल्प ऎकः | ऎवं द्वात्रिंशद्विकल्पाः 32 | यत्र बहवः पाचका भवन्ति तत्र प्रथमं मूलदशापतिरॆ वान्तर्दशापाचकॊ भवति | ततः परं य ऎव दशाविभागक्रमः स ऎवान्तर्दशाविभागक्रमः, यस्यादौ दशापाचकत्वं तस्यैवान्तर्दशापाचकत्वम् | यस्य पश्चात्तस्य पश्चादिति | दशाक्रमपाचनॆ यस्यान्तर्दशापाचकत्वं न प्राप्तं तस्य न वक्तव्यम् | तदनन्तरं तस्य प्राप्तं तस्यैव वक्तव्यम् | अत्रान्यॆ मूलदशापतॆरन्तर्दशां दत्त्वा ततः परमॆकक्षॆगस्य ददादि | ततस्त्रिकॊणगतस्य ततः सप्तमस्य | त्रिकॊणचतुरस्रयॊर्यदा ग्रहौ तदा द्वौ 211 तयॊर्बलाधिकॊ यस्तस्यादौ, तच्चायुक्तम् | यस्माद्भगवान् गार्गिः | “आदावन्तर्दशापाकॊ भवत्यॆव दशापतॆः | ततः परं तु वक्तव्यं दशापाकक्रमॆण तु |” | 4  212 सम्यग्बलिनः स्वतुङ्गभागॆ सम्पूर्णा बलवर्जितस्य रिक्ता |  नीचांशगतस्य शत्रुभागॆ ज्ञॆयानिष्टफला दशा प्रसूतौ | 5 ||  भट्टॊत्पलः-ऎवं दशान्तर्दशाविभागॆ ज्ञातॆ कस्य सम्बन्धिनॊ दशान्तर्दशा वा शुभाफला भवति कस्याशुभफलॆत्यॆतन्न ज्ञायतॆ | तदर्थ दशादॆः स्वफलानुरूपाः संज्ञा वैतालीयॆनाहसम्यग्बलिन इति | प्रसूतौ पुरुषस्य जन्मकालॆ यॊ ग्रहः सम्यग्बलवान् भवति पूर्वॊक्तैर्बलैः सर्वैर्युक्तॊ भवति तत्सम्बन्धिनी सम्पूर्णा नाम्नी दशा भवति | न कॆवलं यावत्स्वतुङ्गभागॆऽवस्थितस्य परमॊच्चभागगतस्यैव सम्पूर्णा नाम्नी दशा भवति | सम्यग्बलिन इत्युक्त्वा पुनः स्वतुङ्गभागॆ इत्यनॆनैतज्ज्ञापयति | तथा परमॊच्चगतॊ ग्रहॊऽन्यैः बलकारणैर्युक्तॊ न भवति तथापि तस्य सम्बन्धिनी दशा सम्पूर्णॆव | सम्पूर्णायां दशायामन्तर्दशायां च कालॆ शरीरारॊग्यधनवृद्धिभिः पुरुषॊऽभिवद्धतॆ | अथ समस्तबलैर्युक्तॊ न भवति किंचिदूनबलस्तदा तस्य सम्पूर्णनाम्नी दशा भवति | अत परमॊच्चगतॊ न भवति कॆवलमॆवॊच्चराशिगतॊ भवति तदा तस्य दशा पूर्णैव भवति | पूर्णायां च दशायां कालॆ धनलाभमवाप्नॊति| तत्रारॊग्यम् | बलवर्जिस्य ग्रहस्य रिक्तानाम्नी दशा भवति | यश्च नीचराशौ स्थितस्तस्य रिक्तैव रिक्तादशाकालॆऽन्तर्दशाकालॆ 213 धनहानिमिहाप्नॊति | नीचांशगतस्यॆति | नीचांशॆ नीचराशिनवभागॆ यॊ ग्रहॊ गतः स्थितॊ भवति यश्च शत्रुभागॆ शत्रुनवांशॆ च स्थितस्तस्य दशानिष्टफला ज्ञॆया ज्ञातव्या | अनिष्ठाफलदशान्तर्दशाकालॆ धनहानिमनारॊग्यं च प्राप्नॊति | अत्र च भगवान् गार्गिः | “सर्वैर्बलैरुपॆतस्य परमॊच्चगतस्य च | सम्पूर्णाख्या दशा ज्ञॆया धनारॊग्यविवर्धिनी | सर्वॆर्बलैर्विहिनस्य नीचराशिगतस्य च | रिक्ता नाम दशा ज्ञॆया धनारॊग्यविनाशिनी | स्वॊच्चराशिगतस्याथ किञ्चिद्बलयुतस्य च | पूर्णा नाम दशा ज्ञॆया धनवृद्धिकरी शुभा | यः स्यात्परमनीचस्थस्तथा चारिनवांशकॆ | तस्यानिष्टफला नाम व्याध्यनर्थविवर्धिनी |” | 5 ||  214 भ्रष्टस्य तुङ्गादवरॊहिसञ्ज्ञा मध्या भवॆत्सा सुहृदुच्चभागॆ |  आरॊहिणी निम्नपरिच्युतस्य नीचारिभांशॆष्वधमा भवॆत्सा || 6 ||  भट्टॊत्पलः-अथ दशान्तर्दशासंज्ञाः पुनरपीन्द्रवज्रयाह भ्रष्टस्यॆति | तुङ्गात्परमॊच्चाद्भ्रष्टस्य च्युतस्यावरॊहिसंज्ञा | अवरॊहिणी नाम्नी दशा ज्ञॆया | दशापरमॊच्चभागादारभ्य यावत्परमनीचभागादि अत्रान्तरॆ यद्राशिषट्कं तत्रावस्थितॆन ग्रहॆण या दत्ता दशान्तर्दशाद्या सावरॊहिणी सञ्ज्ञा भवति| यस्मात्परमॊच्चात् भ्रष्टः प्रत्यहमधॊऽवतरतीति विकल्प्यतॆ | यावत्परमनीचमिति| अवरॊहिसञ्ज्ञा दशाऽधमफला भवति यस्माद्वक्ष्यति | “सञज्ञानुरूपाणि फलान्यथैषाम्’ इति | “मध्या भवॆत्सा सुहृदुच्चभागॆ” इति | सैवावरॊहिणी यत्र तत्र राशौ व्यवस्थितॆन सुहृद्भागगॆन मित्रांशकस्थॆन दत्ता दशा मध्या नाम्न्यॆव भवति | ऎवं यत्र तत्र राशौ अर्थादॆव स्वांशकस्थॆन दशा मध्यैव | ऎवं यत्र तत्र राशौ स्वॊच्चनवांशकस्थॆन दशा मध्यॆव | अरॊहिणीनाम्नीदशा भवति| परमनीचान्तर्भागादारभ्य यावत्परमॊच्चभागादिरत्रान्तरॆ आरॊहिणीनाम्नीदशा भवति | परमनीचान्तर्भागादारभ्य यावत्परमॊच्चभागादिरत्रान्तरॆ यद्रशिषट्कं तत्रावस्थितॆन ग्रहॆण या दत्ता दशान्तर्दशा वा सा रॊहिणीनाम्नी दशा भवति | यस्मात्परमनीचादिष्टः प्रत्यहं तावदारॊहतीति ग्रहः परिकल्प्यतॆ | यावत्परमॊच्चमिति | आरॊहिणी श्रॆष्ठफला भवति | नीचारिभॊश इति | सैवारॊहिणी यत्र तत्र राशौ स्वनीचराश्यंशॊगपतॆन दत्ताधमैव नाम्नी दशा भवति | ऎवं यत्र तत्र राशावरिभांशकस्थॆन शत्रुनवांशकस्थॆन दत्ताधमैव दशा भवति | पूर्वं शत्रुनवांशकस्थॆन दत्तानिष्टफलॆत्युक्तमधुना सैवाधमॆति | तत्किमॆतदित्यत्रॊचय्तॆ | अवरॊहिणी शत्रुनवांशकस्थॆन दत्तापि अनिष्टफला शॆया | आरॊहिण्यधमा | अनयॊः कः फलभॆदः ? अत्रॊच्वतॆ | अनिष्टफला फलमशुभं प्रयच्चति | अधमाशुभमॆवाल्पमिति | ऎवमवरॊहिणी सञ्ज्ञा यदाधमसञ्ज्ञा भवति तदा सैवानिष्टफलसंज्ञां लभतॆ | आरॊहिणी यदा मध्यसंज्ञा भवति तदा सैव पूर्णॆति सञ्ज्ञा ज्ञॆया | अत्र च भगवान् गार्गिः उच्चनीचान्तरस्थस्य दशा स्यादवरॊहिणी | तस्यामध्यमवाप्नॊति फलं क्लॆशाच्छुभं नरः | 215 मित्रॊच्चात्मांशकस्थस्य मध्या मध्यफला तु सा | नीचॊच्चमध्यगस्यॊक्ता श्रॆष्ठा चारॊहिणी दशा | सैवाधमाख्या भवति नीचराश्यंशगस्य तु | अवरॊहिणी चॆदधमा भवॆत्कष्टफला तदा | आरॊहिणी मध्यफला सम्पूर्णा परिकीर्तिता |” इति | 6 ||  नीचारिभांशॆ समवस्थितस्य शस्तॆ गृहॆ मिश्रफला प्रदिष्टा |  सञ्ज्ञानुरूपाणि फलान्यथैषां दशासु वक्ष्यामि यथॊपयॊगम् || 7 ||  भट्टॊत्पलः-अथ दशान्तर्दशासंज्ञाः पुनरप्युपजातिकयाह नीचॆति | शस्तानि गृहाणि स्वॊच्चमूलत्रिकॊणात्मक्षॆत्रमित्रक्षॆत्राणि तॆष्ववस्थितॆन नीचराशययंशकॆ समवस्थितॆन वा ग्रहॆण दत्ता या दशान्तर्दशा वा सा मिश्रफलानाम्न्यॆव | मिश्रफला शुभमशुभं च फलं प्रयच्छति | व्याधिसमॆतमर्थागममॆवमादिशॆत् | अर्थादॆवाशस्तराशिगॆन अशस्ताः शत्रुनीचराशयः तत्स्थॆन स्वॊच्चमित्रमूलत्रिकॊणात्मवर्गॊत्तमनवांशकस्थॆनापि दत्ता 216 मिश्रफलैव भवति | संज्ञानुरूपाणि स्वनामसदृशानि स्वान्तर्दशासु च ज्ञॆयानि | तद्यथा | सम्पूर्णात्यन्तश्रॆष्ठफलप्रदा पूर्णा श्रॆष्ठफलप्रदा अधमा शुभाल्पफलदा रिक्तार्थापहारिणी अनिष्टफलदात्यन्तमशुभाकरिणी मिश्रफला शुभमशुभं च फलं प्रयच्छति | अथैषां दशास्थितिः | अथ शब्द आनन्तर्यॆ | ऎषामादित्यपूर्वाणां ग्रहाणां दशासु यथॊपयॊगमुत्तरत्र वक्ष्यामि | यथा यॆ नैव प्रकारॆणैव युज्यतॆ तथा तत्कथयिष्यामि | कस्यान्तर्दशायां किं फलमुपयुज्यतॆ इति | 7 ||  उभयॆऽधममध्यपूजिता द्रॆष्काणैश्चरभॆषु चॊत्क्रमात् |  अशुभॆष्टसमाः स्थिरॆ क्रमाद्धॊरायाः परिकल्पिता दशा | 8 ||  भट्टॊत्पलः-अथ लग्नदशायां शुभाशुभज्ञानं वैतालीषॆनाह उभय इति | उभयॆ द्विस्वभावॆ राशौ लग्नगतॆ द्रॆष्काणक्रमॆणाधमध्यपूजिता दशा ज्ञॆयाः | प्रथम द्रॆष्काणॆ जातस्याधमाऽशॊभनानिष्टफला | द्वितीयॆ द्रॆष्काणॆ मध्यमा मिश्रफला | तृतीयॆ द्रॆष्काणॆ पूजिता श्वॆष्टपला | चरभॆ चरराशावुत्क्रमॆण वैपरीत्यॆन तॆन प्रथम द्रॆष्काणॆ जातस्य पूजिता, द्वितीयॆ मध्यमा, तृतीयॆऽधमानिष्टफला | अशुभॆष्टसमाः स्थिरॆ क्रमादिति | स्थिरॆ स्थिरराशौ प्रथम द्रॆष्काणॆ शुभा | द्वितीयॆ द्रॆष्काणॆ इष्टा श्रॆष्ठा | तृतीयॆ द्रॆष्काणॆ समा मध्यफला | ऎवं हॊरायाः लग्नस्य दशा परिकल्पिता उक्ता इति | 8 ||  217 ऎकं द्वौ नवविंशतिधृतिकृती पञ्चाशदॆषां क्रमाच्चन्द्रारॆन्दुजशुक्रजीवदिनकृद्दैवाकरीणां समाः |  स्वैः स्वैः पुष्टफला निसर्गजनितैः पक्तिर्दशायाः क्रमादन्तॆ लग्नदशा शुभॆति यवना नॆच्छन्ति कॆचित्तथा || 9 ||  भट्टॊत्पलः-अथ नैसर्गिकाणां ग्रहाणां दशाकालं शार्दूलविक्रीडि तॆनाह | ऎकमिति | ऎकाद्याः समाः ऎकादीनि वर्षाणि चन्द्रादीनां यथाभिहितानि नैसर्गिकाणि | तद्यथा | जन्मसमयादारभ्यैकाः समाः संवत्सराः | ऎकश्चन्द्रस्य ततः परं द्वावारस्याङ्गारकस्य | ऎवं त्रयः | ततः परं नवैन्दुजस्य बुधस्य | ऎवं द्वादश | ततः परं विंशतिः शुक्रस्य | ऎवं द्वात्रिंशत् | ततः परं धृतयॊऽष्टादश जीवस्य गुरॊः ऎवं पञ्चाशत् | ततः परं कृतिसंख्या विंशतिः दिनकृतः सूर्यस्य | ऎवं सप्ततिः | ततः परं पञ्चाशत् दैवाकरॆः सौरस्य | ऎवं विंशत्यधिकं वर्षशतम् 120 ऎतॆषु निसर्गदशाधिपॆषु ग्रहॆषु बलवत्सूपचयस्थितॆषु च तद्दशासु शॊभनानि दशाफलानि भवन्ति | हीनवलॆष्वनुपचयस्थॆष्वशॊभनानि | ऎतच्च सर्वदा चिन्त्यं, यतॊ निसर्गदशास्विति संवाद इति | तथा च यवनॆश्वरः | “स्तन्यॊपभॊगः शनिनॊ वयः स्वं भौमस्य विद्याद्दशनानुजन्म | बौधं तु शिक्षाप्रदकालमाहुरामैथुनॆच्छाकुलितप्रवृत्ति | शॊक्र युवत्वं विधि पूर्वदृष्टमामध्यमाद्दॆवगुरॊ वदन्ति | रवॆर्वयॊऽद्धत्पिरमन्यदस्मात्सौरॆर्जरा दुर्भगकालमाहुः |” इति | नैसर्गिकस्य दशाकालस्य प्रयॊजनमाह-- | स्वैः स्वैरिति | तत्र यस्य ग्रहस्य सम्बन्धिनी पूर्वविधिना कृता दशान्तर्दशा वा सा यदि नैसर्गिकसमाभिः निसर्गकथितवर्षैः स्वैः स्वैः आत्मीयैः युज्यतॆ स्वदशाकालॆन समकालं भवति तदा यावत्कालं तस्य तदा युक्ता भवति निसर्गवर्षसमयं यदि प्राप्नॊतीत्यर्थः | कालद्वयस्यैक्यमुद्वहति तदा यावत्कालं तस्य सम्बन्धिनी दशान्तर्दशा भवति | तस्याः पुष्टफला पक्ति भवति | तस्याः पुष्टा परिपूर्णफला पक्तिः पाकॊ भवति | क्रमात्परिपाट्या यावद्वर्ततॆ तावच्छुभफलॆत्यर्थः अत्र कॆचिद्वदन्ति | पूर्वविधिना जाता शुभा तदा शुभफलमत्यर्थं प्रयच्छत्यन्यथाशुभा 218 तदाशुभमत्यर्थमिति | ऎतच्चायुक्तम् | यस्माद्यवनॆश्वरः | “श्रॆष्ठा दशा स्वॆ वयसि ग्रहस्य” इति | तथा च सत्यः | “ऎकाब्दिकः शशी त्र्यब्दिकः कुजॊ द्वादशाब्दिकः सौम्यः | द्वात्रिंशद्भृगुपुत्रॊ गुरुस्तु कथितः शतस्यार्धम् (50) | सप्तत्यब्दः सूर्यॊ विंशत्यधिकः शनैश्चरॊऽब्दशतः | वयसॊऽन्तराणि चैषां स्वदशानैसर्गिकः कालः | स्वं स्वं वयसः सदृशं ग्रहः समासाद्य दॆहिनां कालम्| रक्षणपॊषणचॆष्टास्वभावदाः स्युर्यथासंख्यम् |” अथ ल लं पुराणयवनम तॆनाह | अन्तॆ लग्नदशॆति | विंशत्यधिकाद्वर्षशतादूर्ध्व यदि कस्यचिदायुषः कालॊ भवति तदा स कालः सर्व ऎव लग्नस्य नैसर्गिकॊ भवति | तस्मिन्कालॆ पुराणयवनान मतॆन लग्नदशा शॊभना भवति | विंशत्यधिकाद्वर्षशतादूर्ध्वमित्यॆतत्कुतॊऽवगम्यतॆ | उच्यतॆ | तदर्वाक्कालस्यान्यग्रहपरिगृहीतत्वात् | लग्नस्यानवकाशादॆव | अथान्यः कश्चिदाह | यथा ननु विंशत्यधिकाद्वर्षशतादधिकं यस्यायुर्नास्ति किं तस्य लग्ननैसर्गिकॊ दशाकालॊ नास्ति ? उच्यतॆ | नास्त्यॆव न कॆवलं यावद्वर्षसप्ततॆरभ्यधिकं यस्यायुर्नास्ति तस्य शनैश्चरसम्बन्धी नैसर्गिकॊ दशाकालॊ नास्ति | यस्य पञ्चाशतॊऽधिकं नास्ति तस्यादित्यस्य किमपि नास्ति | ऎवमन्यॆषामपि यॊज्यम् | ननु विंशत्यधिकं वर्षशतं परमायुरत ऊर्ध्वं जीविताभावात्कॊ लग्नस्य नैसर्गिकॊ दशाकालः | उच्यतॆ पूर्वमॆव व्याख्यातम् | यथा विंशत्यधिकं वर्षशतं परमायुः त्रैराशिकार्थमश्वादीनामायुर्ज्ञानार्थॆ प्रदर्शितम् | ततः तावत्प्रमाणादायुषः परं सम्भवतीति | तथा च | यथा मीनलग्नॆ बलवति मीनांशकान्तॆ च कश्चिज्जातॊ भवति, सर्वॆ च ग्रहाः यत्र तत्र राशौ मीनांशकावस्थिता भवन्ति कॆचिदुच्चगताः, कॆचिच्च वक्रितास्तदा मीनलग्नॊ द्वादशवर्षाणि ददाति | स ऎव बलयुतस्तदान्यानि द्वादश वर्षाणि ग्रहश्चैकैकॊ मीनांशकान्तस्थत्वाद्द्वादश वर्षाणि ददाति | तानि च वक्रॊच्चस्थत्वात्त्रिगुणानि षट्त्रंशद्भवति | आदित्यवज्र्यम् | आदित्यस्य मॆषमध्यमांशकस्थितस्य सप्तविंशतिवर्षाणि भवन्ति | ऎवं चन्द्रादीनां षण्णां शतद्वयं षॊडशाधिकं भवति | आदित्यस्य सप्तविंशतिः, लग्नस्य चतुर्विंशतिः ऎवमॆकीकृतं शतद्वयं सप्तषष्ट्यधिकं भवति | नन्वॆतावत्प्रमाणं कालं कश्चिज्जीवमानॊ न दृश्यतॆ 219 यॊगस्यातिदुर्लभत्वात् | उच्यतॆ | कश्चित् दृश्यत ऎव जन्त्वादिकः | नॆच्छन्ति कॆचित्तथॆति तां लग्नदशामन्तॆ कॆचिदाचार्याः श्रुतकीर्तिप्रभृतयः तथा तॆनैव प्रकारॆण शुभमिति नॆच्छन्ति | नॊ वाञ्छन्तीत्यर्थः | यस्मादबलत्वॆ लग्नस्य वयॊश्न्तॆ तद्दशा भवति साशुभा | आचार्यॆण लग्नदशायां शुभाशुभत्वं बलवशान्नॊक्तम् | द्रॆष्काणवशादुक्तम् | उभयॆऽधममध्यमपूजिता इति | यस्माद्वलहीनस्यापि लग्नस्य वयॊऽन्तॆ दशाद्रॆष्काणवशाच्छुभा भवति तस्माद्यॆ आचार्या अन्तॆ लग्नदशां नॆच्छन्ति तॆ निष्कारणमॆव नॆच्छन्ति | ननु किमागमग्रन्थानां कारणॆन | उच्यतॆ | य ऎवाचार्या अन्तॆ लग्नदर्शा नॆच्छन्ति त ऎवागमांस्त्यक्वा यथादर्शितकारणमुपन्यस्य नॆच्छन्ति | तॆन कारणॆन दॊषः उक्तः | तथा च श्रुतकीर्तिः | “अन्तॆ लग्नदशा शुभॆति यवना नैतद्वहूनां मतं तस्मिन्हीनबलॆ यतॊऽन्त्यसमयॆ सा स्यादतॊ नॆष्यतॆ |” ऎतत् श्रुतकीर्तिना कारणमुपन्यस्तं तच्च दृष्टम् तॆ नैसर्गिकॆ लग्नदशाकालॆऽन्तर्दशा शुभॆवॆत्यवगन्तव्यम् || 9 ||  220 पाकस्वामिनि लग्नगॆ सुहृदि वा वर्गॆऽस्यसौम्यॆऽपि वा प्रारब्धा शुभदा दशा त्रिदशषड्लाभॆषु वा पाकपॆ | मित्रॊच्चॊपचयत्रिकॊणमदनॆ पाकॆश्वरम्य स्थित श्चन्द्रः सत्फलबॊधनानि कुरुतॆ पापानि चातॊऽन्यथा || 10 ||  भट्टॊत्पलः-अथ दशान्तर्दशाशुभाशुभज्ञानं शार्दूलविक्रीडि तॆनाहपाकस्वामिनीति | सौर-सावन-चान्द्र-नाक्षत्राणि चत्वारि मानानि | तत्र सौरमानं रविभगणभॊगः | यावता कालॆनार्कॊऽशमॆकं भुक्तॆ तत्सौरं दिनम् | यावता कालॆन राशिद्वादशकं भुङ्क्तॆ तत्सौरं वर्षम् | तच्च पञ्चषष्ट्यधिकैस्त्रिभिः शतैः दिनानां घटिकापञ्चदशकॆन सार्द्धॆन भवति | सावनमुदयादुदयः | अर्कॊदयात्पुनरॆवाक्~ऒदयः सावनमहॊरात्रम् | तच्च षष्टिघटिकमहॊरात्रम् | अहॊरात्रत्रिंशन्मासः | मासाद्वादश वर्षम् | ऎवं षष्ट्यधिकैस्त्रिभिः शतैः दिनानां सावनं वर्ष चान्द्रं तिथिभॊगः | तच्च स्वमानॆन षष्ट्यधिकं शतत्रयं भवति | तावनॆन नीयमानं शतत्रयं चतुःपञ्चाशदधिकं दिनानां तच्च वर्ष भवति | ऎवं सौरसावनचान्द्राणि त्रीणि मानानि प्रत्यॆकं स्वमानॆन षट्यधिकं शतत्रयं भवति | नाक्षत्रं चन्द्रक्षत्रभॊगः | तच्च दिनानां सप्तविंशत्या मासॊ भवति | शतत्रयॆण चतुर्विंशत्यधिकॆन दिनानां वर्षमुक्तम् | “रव्यंशंभॊगॊऽहॊरात्रः 221 सौरश्चान्द्रमसंस्थितिः | चन्द्रनक्षत्रभॊगस्तु नाक्षत्रः परिकीर्तितः || स सावनॊ ग्रहर्क्षणामुदयादुदयावधि | नाक्षत्रमानॆ मासः स्यात्सप्तविंशतिवासराः | शॆषमानॆधु निर्दिष्ट मासत्रिशद्दिनात्मकः |” इति तस्मात्सावनमानॆनायुर्दायगणना कार्या | यस्माच्छॊध्यक्षॆपविशुद्धमायुः कर्तव्यम् | तच्च सावनमानम् | सौरमानॆन संक्रान्त्यधिकॊ मासः | सावनस्त्रिशद्रात्रः | चान्द्रॊऽमावास्यान्तिकः | नाक्षत्रॊ रॆवत्यन्तिकः | सौरमधिमासयुतं चान्द्रं भवति | चान्द्रमूनरात्रॊनं सावनं भवति | चान्द्रशब्दॆन नाक्षत्रम् | उक्तं च | “युगवर्षमासपिण्डं रविमानं साधिमासकं चान्द्रम्| अवमविहीनं सावनमैन्दवमब्दान्वितं वर्षम् |” इति | ऎवं शॊध्यक्षॆपविशुद्धं सावनमानॆनायुर्दायविधिः | तथा च मयूरचित्रकॆ भगवान्गार्गिः | “आयुर्दायविभागश्च प्रायश्चित्तक्रियां तथा || सवानॆनैव कर्तव्याः सत्रणामप्युपासनम् |” नन्वर्कॊदयादारभ्याकॊदयं यावदहॊरात्रं तत्पुलिशतन्त्रॆ सौरमहॊरात्रं पठयतॆ | “वसुसप्तरूपनवमुनिनगतिथयः शतगुणश्च सौरॆण |” इति | ऎतच्च पुलिश ऎवं जानाति | यस्मात्पुलिशतन्त्रं वर्जयित्वा सर्वसिद्धान्तॆषु तन्त्रॆषु सौरमानमधिमासयुक्तं चान्द्रं भवति | चान्द्रमवमरात्रॊनं सावनं भवति | ऎवं शॊध्यक्षॆपविशुद्धं सावनमानं सर्वसंहितासु चाक्~ऒदयादारभ्याक्~ऒदयं यावदहॊरात्रं तत्सावनमहॊरात्रमिति संज्ञा | तथा च भगवान्पराशरः | “सावनमहॊरात्रम् |” गार्गिश्च | “सावनॆन स्मृतॊ मासस्त्रिशदुष्णकरॊदयः |” तथा च श्रीभट्टब्रह्मगुप्तः| “सावनमुदयादुदयः” इति | ऎवं पुरुषस्य जन्मसमयॆ सावनमहर्गणं कृत्वा तस्मातिथिनक्षत्रच्छॆदं तात्कालिकं ग्रहलग्नादिकं कृत्वा तथा दशान्तर्दशाः कर्तव्याः| तत आगामिदशाफलं वक्तव्यम् तत्र प्रथमजन्मनि अहर्गणं तात्कालिकं कृत्वा ततस्तत्रान्तर्दशाकालं वर्षादिकं दिनीकृत्य यॊजयॆद्वर्षाणि द्वादशभिः सङ्गुण्य तॆषु मासान्संयॊज्य त्रिंशता पुनः सङ्गुण्यं तॆषु दिनादि क्षिपॆत् | ऎवं कृतॆ दशाकालॊ दिनरूपॊ भवति | तच्च तात्कालिकॆ जन्माहर्गणॆ सविकलॆ सविकलं संयॊज्याहर्गणॊ भवति | तत्राद्यॊ यद्घटिकादिः कालॊ भवति तस्यातीतार्धरात्रात्परतॊ गणना कार्या | तस्मादिष्टदिनमानमानयॆदनॆनाचार्यसूत्रॆण | “द्युगणॊऽधॊ भवगुणितॊ द्विनवरसाप्तावमाधिकाश्चान्द्रः | चाद्रॊऽधरर्तुवॆदा नागाप्ता अधिमासदिनहींनाः |” इति | ऎतत्खण्डखाद्यकरणॆनैव भवति | 222 कॊऽसौ रविद्युगण इत्याह | “शाकॊऽगवसुशरॊऽगुणाचैत्रादिमाससंयुक्तः | त्रिंशद्गुणास्तिथियुतः” इति | अस्य षष्ट्यधिकॆन शतत्रयॆण भागमपहृत्यावाप्तं करणाब्दाः | शॆषाखिंशद्धक्ताश्चैत्रसिताद्या मासाः | शॆषा वर्तमानमासॆ सिताद्यास्तिथयः | करणाब्दॆष्वगवसुशरान्संयॊज्यार्तातः शककालॊ भवति | तस्मिश्छाकॆ तस्मिन्मासॆ तस्मिन्दिनॆ सॊऽहर्गण इति | तत्रैव दशाप्रवॆशः पुनरप्यन्यमन्तर्दशाकालं दिनीकृत्य तस्मिन्यॊजयॆत् | ऎवं यावत्यॊऽन्तर्दशा भवन्ति तावत्यॊऽनॆनैव प्रकारॆण यॊजनीयाः | ततॊ ग्रहान् लग्नं च गणयॆत् | अथवान्यॆन प्रकारॆण कालानयनम् | आदित्यॆ क्रियमाणॆ यावन्तॊ गतभगण तावन्तः करणप्रारम्भादारभ्य गताब्दाः तॆषु करणपरिणतशककालं संयॊज्यॆष्ठशककालॊ भवति | वर्तमानॆ वर्ष यावन्तॊ राशयः स्पुटार्कण भवति तावन्तॊ मासाः सूर्यभॊगातीताः | शुल्कपक्षं कृष्णपक्षं वा तितिनक्षत्रं चन्द्रार्काभ्यां ज्ञायत ऎव | पाकस्वामिनीत्यादि | यस्य यस्य ग्रहस्यान्तर्दशाप्रवॆशः स पाकस्वामी | तावच्चासौ पाकस्वामी यावत्तस्यान्तर्दशा | स च पाकस्वाम्यन्तर्दशाप्रवॆशकालॆ लग्नगॊ यदि भवति तदा तस्य सम्बन्धिन्यन्तर्दशा प्रारब्धा शुभदा शॊभनफलदा भवति | अथवा तत्कालं पाकस्वामिनॊ यत्सुहृन्मित्रं तस्मिन्नपि दशाप्रवॆशकालॆ लग्नगॆ शॊभन दशा वक्तव्या | अथवास्य दशापतॆः पूर्व व्याख्यातॊ यॊ वर्गः तस्मिन्नपि लग्नगॆ शॊभना | अथवान्यस्मिन्सौम्यॆ शुभग्रहॆ तत्काललग्नगॆ प्रारब्धा शॊभनैव | अथवा पाकपॆ दशाधिपतौ ग्रहॆ तात्कालिकलग्नात् त्रिदशषड्लाभॆषु तृतीयषड्दशैकादशस्थानानामन्यतमस्थॆ शॊभनैव दशा वक्तव्या | यद्यप्यत्र सामान्यॆनॊक्तै प्रारब्धा शुभदा दशा तथापि “शत्र्वधिशत्रुदशायां प्राप्तानिष्टफलप्रदा | अधिमित्रॊऽपि मित्रस्य दशां प्राप्नॊति शॊभनः | समः समदशामॆत्य यथॊक्तफलदा हि सः |” ऎतदपि चिन्तनीयम् | अनॆक प्रकारॆण यदि शुभफलायामन्तर्दशायां किमप्यनवरतमॆव सर्वकालं शुभफलावाप्तिर्भवति | किं वा कस्मिश्चित्कस्मिश्चिद्दवसॆ ऎवमशुभायामन्तर्दशायामशुभफलावाप्तिरित्युभयत्र सन्दॆहनिरासार्थमाह-- | मित्रॊच्चॊपचयॆत्यादि | पाकॆश्वरस्य दशापतॆः प्रतिराशी सञ्चरतः तत्कालॆ यॊ ग्रहॊ मित्र तत्क्षॆत्रस्थितश्चन्द्रमा यदा भवति तदा सत्फलबॊधनानि कुरुतॆ | शुभफलानि 223 प्रकटीकरॊति | अत्र यस्मिन्नहनि यस्मिन् गृहॆ चारवशाच्चन्द्रमा भवति तस्य गृहस्य यॊऽधिपतिर्भवति स चॆत्तस्मिन्नहनि पाकपतॆस्तात्कालिकं मित्रं भवति तदा चन्द्रमाः पाकपतॆर्मित्रक्षॆत्रस्थॊ ज्ञॆयः | तथा पाकपतॆः स्वॊच्चस्वराशिस्थः सत्फलबॊधनानि कुरुतॆ | न कॆवलं यावत्पाकपतॆरुपचयस्थानगतॊऽपि त्रिषडॆकादशदशमस्थानानामन्यतमस्थानस्थस्त्रिकॊणगॊऽपि नवपञ्चमस्थानगतॊऽपि तथा मदनस्थः सप्तमॆ च स्थितः ऎतॆषु निर्दिष्टस्थानॆष्वन्यतमस्थानस्थश्चन्द्रमाः शुभफलायां दशायां सत्फलबॊधनानि कुरुतॆ | न ज्ञायतॆ तॆषां फलानामित्यत्रॊच्यतॆ| मित्रॊच्चॊपचयत्रिकॊणमदनॆऽ स्मिन्स्थानॆ पाकॆश्वरश्चन्द्रमाः स्थितः स राशि जन्मनि यॊ भाव आसीत्तदुद्भूतं सत्फलं बॊधयति | विशॆषॆण तथा दशापठितमिति | अतॊऽस्मादुक्तप्रकारादन्यथा पाकपतॆस्तत्कालं शत्रुगृहॆ नीचराशौ वा दशापतिना सहैकराशौ स्थितस्तथा द्वितीयचतुर्थाष्टमद्वादशस्थानानामन्यतमस्थानस्थॊ भवति तथा शुभफलायां दशायां पापानि फलानि प्रकटीकरॊति| अनिष्टमप्यष्टवर्गॊद्भूतं च मिश्रदशायां मित्रॊच्चॊपचयादिषु सत्फलबॊधनानि कुरुतॆ| शत्रुनीचादिषु अशुभफलानामिति | तथा च भगवान् गार्गिः | “यद्राशिसंस्थः शीतांशु शुभकृत्परिकीर्तितः || स राशिर्जन्मकालॆ तु यॊ भावस्तत्कृतं च तत् | शरीरादिकृतं सौख्यं वक्तव्यं बलयॊगतः | अनिष्टराशिसंस्थस्तु तद्भावानामशॊभनः |” इति || 10 ||   224 प्रारब्धा हिमगौ दशा स्वगृहगॆ मानार्थसौख्यावहा कौजॆ दूषयति स्त्रियं बुधगृहॆ विद्यासुहृद्वित्तदा | दुर्गारण्यपथालयॆ कृषिकरी सिंहॆ सितक्षॆऽन्नदा कुस्त्रीदा मृगकुम्भयॊर्गुरुगृहॆ मानार्थसौख्यावहा || 11 ||  भट्टॊत्पलः-अथान्तर्दशाकालॆ चन्द्राक्रान्तराशिवशॆन शुभज्ञानं शार्दूलविक्रीडि तॆनाहप्रारब्धा हिमगाविति | यस्य तस्य ग्रहस्यान्तर्दशाप्रवॆशसमयॆ हिमगौ चन्द्रॆ स्वगृहॆ आत्मीयक्षॆत्रस्थॆ, कर्कटगॆ प्रारब्धा प्रविष्टा तदा सौख्यार्थमानावहा भवतीति सौख्यं सुखभावः, अर्थॊ धनं, मानं पूजामावहति करॊति | कौजॆ भौमक्षॆत्रॆ मॆषवृश्चिकयॊरन्यतमॆ व्यवस्थितॆ चन्द्रॆ प्रवृत्तान्तर्दशा स्त्रियं दूषयति | परपुरुषकृतं | स्त्रीदॊषमुत्पादयति | बुधगृहॆ मिथुनकन्ययॊरन्यतमस्थॆ चन्द्रॆ प्रवृत्तान्तर्दशा विद्यासुहृद्वित्तदा विद्या शास्त्रानुरतिः, सुहृदॊ मित्राणि, वित्तं धनं ददाति | सिंहस्थॆ चन्द्रॆ दुर्गॆष्वरण्यॆषु. पथि च मार्गॆ, आलयॆ च गृहसमीपॆ ऎतॆषु स्थलॆषु कृषिं करॊति | सितक्षॆ शुक्रराशौ वृषतुलयॊरन्यतमस्थॆ चन्द्रॆऽन्नदा मिष्टभॊज्यप्रदा भवति | मृगकुम्भयॊर्मकरघटयॊरन्यतमस्थॆ चन्द्रॆ प्रवृत्तान्तर्दशा कुस्त्रीदा कुत्सितां स्त्रियं ददाति | गुरुगृहॆ जीवक्षॆत्रॆ धन्विमीनयॊरन्यतमस्थॆ चन्द्रॆ प्रवृत्तान्तर्दशा मानार्थसौख्यावहा मानं पूजा, अर्थॊ धनं, सौख्यं सुखभावः, 225 ऎतान्यावहति ददाति | ऎवं शुभदशा शुभकालप्रवृत्ता शुभतरा भवति | ऎवं शुभाशुभकालप्रवृत्ता मध्या | अशुभा शुभकालप्रवृत्ता मध्या | अशुभाऽशुभकालप्रवृत्ता अशुभतरा | मध्या शुभकालप्रवृत्ता शॊभना | मध्या अशुभकालप्रवृत्ता अशॊभना | ऎवं शुभाशुभत्वकरणनि यान्युक्तानि तानि विख्यातान्तर्दशानां शुभाशुभं व्यामिश्रफलत्वं परिकल्पनीयमिति | 11 ||  सौर्या स्वन्नखदन्तचर्मकनकक्रौर्याध्वभूपाहवैस्तैक्ष्ण्यं धैर्यमजस्रमुद्यमरतिः ख्याति प्रतापॊन्नतिः | भार्यापुत्रधनारिशस्त्रहुतभुग्भूपॊद्धवा व्यापदस्त्यागी पापरतिः स्वभृत्यकलहॊ हृत्क्रॊडपीडामयाः | 12 ||  भट्टॊत्पलः-अथार्कदशायां शुभाशुभफलप्रदर्शनं शार्दूलविक्रीडि तॆनाहशौर्यामिति | सूर्यस्यॆयं दशा सौरी तस्यां दशायामन्तर्दशायां वा नखदन्तचर्मकनकक्रौर्याध्वभूपाहवैः कारणभूतैः स्वं धनं प्राप्नॊति | नखं सुगन्धिद्रव्यं प्राणिकरजं वा दन्तॊ हस्तिदन्तादिः चर्म व्याघ्रादीनां कनकं सुवर्णं क्रौर्यं क्रूरता अध्वा मार्गः भूपॊ राजा आहवः संग्रामः ऎतैर्धनं प्राप्नॊति | तैक्ष्ण्यमुग्रस्वभावता धैर्य शुभाशुभफलप्राप्तौ हर्षविषादैरनभिभवः 226 अजख्नमनवरतमुद्यमरतिः उद्यॊगपरत्वं ख्यातिः कीर्तिः प्रतापॊन्नतिः प्रतापॆन शौर्यॆणॊन्नतिः शत्रूणामन्यशत्रुनिग्रहजनिता भीतिः | ऎतान्यादित्यशुभदशायां पुरुषस्य भवन्ति | अथाशुभदशायां भार्यां जायां, पुत्राः सुताः, धनं वित्तमरिः शत्रुः, शस्त्रमायुधादि, हुतभुगाग्निः, भूपॊ राजा ऎभ्य उद्भूता उत्पन्ना व्यापदॊ विशॆषॆणपदॊ भवन्ति | त्यागी त्यागशीलता भवति | शुभदशायां शुभस्थानॆ त्यागी| अशुभदशायां चाशुभत्वादशुभस्थानॆ त्यागी भवति | पापरतिः पापासक्तश्च भवति | स्वभृत्यकलहः आत्मीयैर्भृत्यैः सह कलहॊ भवति | हृत्क्रॊडपीडनॆ भवतः हृतः हृदयं, क्रॊडमुदरं हृदयॊदरपीडा | आमयाः रॊगाश्चास्य भवन्ति | मिश्रायामुभयमपि इति सूर्यदशान्तर्दशाफलम् || 12 || इन्दॊः प्राप्य दश फलानि लभतॆ मन्त्रद्विजात्युद्धवा नीक्षुक्षीरविकारवस्त्रकुसुमक्रीडातिलान्नश्रमैः |  निद्रालस्यमृदुद्विजामररतिः स्त्रीजन्म मॆधाविता कीत्र्यर्थॊपचयक्षयौ च बलिभिर्वैरं स्वपक्षॆण च || 13 ||  भट्टॊत्पलः-अथ चन्द्रदशायां शुभाशुभफलं शार्दूलविक्रीडि तॆनाह 227 इन्दॊरिति | इन्दॊश्चन्द्रमसॊः दशां वयॊऽवस्थां प्राप्य लब्ध्वा मन्त्रद्विजात्युद्भवानि फलानि लभतॆ | मन्त्रः शैववैष्णवादिश्चाणक्यविहितॊ वा वैदिकॊ वा द्विजातयॊ ब्राह्मणाः ऎभ्य उद्भूतानि न कॆवलं यावदिक्षुविकाराद्गुडादीकात्क्षीरविकाराद्दध्यादिकाद्वस्त्रॆभ्यॊऽम्बरॆभ्यः, कुसुमॆभ्यः पुष्पॆभ्यः, क्रीडायाः क्रीडाभ्य| तिलॆभ्यः अन्नाच्छ्रमाच्चा व्यायामात्, ऎतैः शुभदशायां शुभानि फलानि प्राप्नॊति | अथाऽशुभायामशुभदशायां निद्रालस्यमृदुद्विजामररतिरिति | निद्रायामालस्यॆ च रतिरासक्तिर्भवति | मृदुद्विजामररतिर्भवति मृदुः क्षमावान्, द्विजानां ब्राह्मणानाममराणां दॆवानां चाराधनॆ रतिनासक्तिर्भवति | स्त्रीजन्म कन्याप्रसूतिः, मॆधाविता बुद्धिवृद्धिः, कीर्तिः, यशः, अर्थानां धनानामुपचयक्षयौ| शुभदशायामुपचयः प्राप्तिरशुभायां क्षयः नाशः | अशुभायां बलवद्भिर्वीर्यवद्भिः स्वपक्षॆणात्मीयबन्धुवर्गॆण च सह वैरं भवति | मिश्रायामुभयमपि | इति चन्द्रदशान्तर्दशाफलम् || 13 || भौमस्यारिविमर्दभूपसहजक्षित्याविकाजैर्धनं प्रद्वॆषः सुतमित्रदारसहजैर्विद्वद्गुरुद्वॆष्टता |  तृष्णासृग्ज्वरपित्तभङ्गजनिता रॊगाः परस्त्रीकृताः प्रीतिः पापरतैरधर्मनिरतिः पारुष्यतैक्ष्ण्यानि च || 14 ||  भट्टॊत्पलः-अथ भौमदशायां शुभाशुभफलं शार्दूलविक्रीडि तॆनाह 228 भौमस्यॆति | भौमस्य क्षितिजस्य दशायां कैर्धनं भवति, अरिविमर्दनॆन शत्रुप्रथमनॆन | भूपॊ राजा सहजाः भ्रातरः क्षितिः भूः अविकाजैः ऊर्णाविकारसम्भूतैः, आजैश्छागसम्भूतैः ऎतैः अरिविमर्दादिभिः धनं प्राप्नॊति ऎतच्छुभदशायाम् | अथाशुभायां दशायां सुताः पुत्राः, मित्राणि सुहृदः दाराः कलत्रं, सहजाः भ्रातरः, ऎतैः सह प्रद्वैषः वैरम् | विद्वद्भिः पण्डितैः, गुरुभिः गौरवसहितैश्च सह द्वॆष्टता अप्रतीतिः | तृष्णा तृट्, असृग्रुधिरं, ज्वरः प्रसिद्धॊ रॊगः, पित्तं धातुप्रसिद्धं, भङ्गः अवयवादॆः स्फॊटनम् ऎतैः जनिता उत्पादिता रॊगा भवन्ति परस्त्रीणामिष्टता वाल्लभ्यम् | अन्यॆ रॊगाः परस्त्रीप्रसङ्गॆन प्रहारादिकाः अतिप्रसङ्गद्धातुक्षयकृता वा | अथवा तत्कृतमूलकर्मॊद्धवा भवन्ति | तथा पापरतैः अधसत्तैः सह प्रीतिर्भवति | अधर्मॆ निरतिः आसक्तिर्भवति | पारुष्यं वचनपरुषता कर्कशता तैक्ष्ण्यमुग्रस्वभावता | मिश्रायामुभयमपि | इति भौमदशान्तर्दशाफलम् || 14 ||  बौध्यां दौत्यसुहृद्गुरुद्विजधनं विद्वत्प्रशंसा यशॊ युक्तिद्रव्यसुवर्णवॆसरमहीसौभाग्यसौख्याप्तयः |  हास्यॊपासनकौशलं मतिचयॊ धर्मक्रियासिद्धयः पारुष्यं श्रमबन्धमानसशुचः पीडा च धातुत्रयात् || 15 ||  भट्टॊत्पलः-अथ बुधदशायां शुभाशुभफलं शार्दूलविक्रीडि तॆनाह 229 बौध्यामिति | बुधस्यॆयं दशा वौधी, तस्यां दौत्यॆन दूतत्वॆन, सुहृद्भयॊ मित्रॆभ्यः गुरुभ्यः पूजार्हॆभ्यः, द्विजॆभ्यॊ ब्राह्मणॆभ्यः धनं प्राप्नॊति | विद्वद्भ्यः पण्डितॆभ्यः, प्रशंसा स्तुतिः, यशश्च कीर्तिर्भवति | युक्तिद्रव्यं रीतिकांस्यादि | सुवर्णं कनकम् | वॆसरः अश्वविशॆषः | महीभूः | सौभाग्यं सर्वजनबाल्लभ्यम् | सौख्यं सुखभावः | ऎषामाप्तयॊ लाभा भवन्ति | हास्यं परॊपहासः, उपासना सॆवा अनयॊ कौशलं तज्ज्ञता | मतिचयः बुद्धिवृद्धिः | धर्मक्रियासिद्धयः धर्मयुक्तानां क्रियाणां सिद्धयॊ भवन्ति | ऎतच्छुभदशायम् | अथाशुभदशायां पारुष्यमित्यादि |पारुष्यं वचनपरुषता | श्रमः खॆदः | बन्धः बन्धनम् | मानसशुचः | शॊकश्चित्तदौस्थ्यमॆतॆ भवन्ति | धातुत्रयात्पीडा वातपित्तश्लॆष्माणां त्रयाणां दॊषाणां प्रकॊपात्पीडा व्याधिश्च जायतॆ मिश्रायामुभयमपि | इति बुधदशान्तर्दशाफलम्|15 || जैव्यां मानगुणॊदयॊ मतिचयः कान्तिप्रतापॊन्नति र्महात्म्यॊद्यममन्त्रनीतिनृपतिस्वाध्यायमन्त्रैर्धनम् |  हॆमाश्वात्मजकुञ्जराम्बरचयः प्रीतिश्च सद्भूमिपैः  सूक्ष्मॊहागहनाश्रमः श्रवणरुग्वैरं विधर्माश्रितैः || 16 ||  भट्टॊत्पलः-अथ जीवदशायां शुभाशुभफलं शार्दूलविक्रीडि तॆनाहजैव्यामिति | जीवस्यॆयं दशा जैवी, तस्यां जैव्यां मानगुणॊदयः मानः पूजा, गुणा विद्याशौर्यादयः ऎषामुदयः प्रादुर्भावः | मतिचयः बुद्धिविवृद्धिः | 230 कान्तिः कमनीयता | प्रतापॊन्नतिः प्रतापॆन पुरुषार्थॆन उन्नतिः | प्रभावः शत्रूणां भीतिः | माहात्म्यं परॊपकारशीलता | कॆचिद्गर्वमाहुः | उद्यमः उत्थानशीलता | मन्त्रैर्वैदिकैरन्यैर्वा | नीतिनृपतिस्वाध्यायमन्त्रैर्धनम् | नीत्या चाणक्यॊक्तयाऽन्यॆन नीतिशास्त्रॆण वा | नृपतॊ राजा तदाराधॆन स्वाध्यायॆन पाठॆन | मन्त्रॆण मन्त्रजाप्यॆन| ऎतैः धनं वित्तं प्राप्नॊति | हॆम सुवर्णम् | अश्वस्तुरङ्गः | आत्मजाः पुत्राः, कुजरः हस्ती, अम्बराणि वस्त्राणि ऎषां चयॊ बाहुल्यम् | सद्भूमिपैः गुणवद्भिः नृपैः सह प्रीतिः स्नॆहं प्राप्नॊति | ऎतच्छुभदशायाम् | अथाशुभायां सूक्ष्महॆत्यादि | सूक्ष्मं वस्तु गहनात्मकं चॊहयतस्तर्कयतः श्रमः खॆदॊ भवति | यत्सूक्ष्ममतिखॆदसहं गहनं गूढं तदूहयत इत्यर्थः | श्रवणरुक्कर्णरॊगः | वैरं विधर्माश्रितैः धर्मबाह्यैः पुरुषैः सह वैरम् | मिश्रायामुभयमपि | इति गुरॊर्दशान्तर्दशाफलम् || 16 || शौक्रयां गीतरतिप्रमॊदसुरभिद्रव्यान्नपानाम्बरस्त्रीरत्नद्युतिमन्मथॊपकरणज्ञानॆष्टमित्रागमः |  कौशल्यं क्रयविक्रयॆ कृषिनिधिप्राप्तिर्धनस्यागमॊ वृन्दॊवींशनिषादधर्मरहितैर्वैरं शुचः स्नॆहतः | 17 ||  भट्टॊत्पलः-अथ शुक्रदशायां शुभाशुभफलं शार्दूलविक्रीडि तॆनाहशौक्रयामिति | शुक्रस्यॆयं दशा शौक्री, तस्यां शौक्रयाम् गीतरतॆः गीतासक्तॆः प्रमॊदस्य हर्षस्य, सुरभिद्रव्याणां सुगन्धद्रव्याणामन्नस्य भॊजनस्य पानस्यासवस्याम्बराणां वस्त्राणां स्त्रीणां यॊषितां रत्नानां मणीनां द्युतॆः कान्तॆः 231 प्रियाणां मित्राणां सुहृदामागमा लब्धयॊ भवन्ति | कुशलः शिक्षितः कुशलस्य भावः कौशल्य कुशलःश्रॆयतॊ वा कौशल्यमभीष्टक्रियासु श्रॆष्ठत्वम् | क्रयविक्रयॆ क्रयॊ यदिच्छति क्रॆतुं तत्क्रयः विक्रयॊ यदिच्छति विक्रॆतुं तद्विक्रयः | कृषिः कर्षणम् | निधिः निधानं परैर्यद्वित्तं भूमावधः स्थाप्यतॆ स निधिस्तत्प्राप्तिर्लाभः | ऎतॆ भवन्ति ऎतच्छुभदशायाम् | अथाऽशुभदशायां वृन्दॊर्वशॆति | वृन्दॆन बहुभिः सह उर्वीशॆन राज्ञा निषादानामन्याजीविनां प्राणिघातिनां धर्मरहितः पापासत्तैः ऎतैः सह वैरं प्राप्नॊति | शुचः स्नॆहतः स्नॆहाच्छुचः शॊका भवन्ति | यत्र स्नॆहस्तदुद्धवान् शॊकान्प्राप्नॊति | मिश्रायामुभयमपि | इति शुक्रदशान्तर्दशाफलमिति | 17 || सौरीप्राप्यखारॊष्ट्रपक्षिमहिषीवृद्धाङ्गनावाप्तयःश्रॆणीग्रामपुराधिकारजनितापूजाकुधान्यागमः| न्भृत्यापत्यकलत्रभर्त्सनमपि प्राप्नॊति च व्यङ्गताम् || 18 || भट्टॊत्पलः-अथ शनैश्चरदशायां शुभाशुभफलं शार्दूलविक्रीडि तॆनाह सौरीमिति | सौरीं शनैश्चचरदशां प्राप्य गर्दभाः, उष्ट्राः करभाः, पक्षिणः श्यॆनादयः महिषी प्रसिद्धा वृद्धाङ्गना वृद्धा स्त्री ऎषामाप्तयः लाभा भवन्ति | बहुसमानजातीयानां सङ्गः श्रॆणी तस्या अधिकारॆ नियुज्यतॆ | ग्रामॆ पुरॆ वा श्रॆणीग्रामपुराधिकारजनितां तदुत्पन्नां मानतां प्राप्नॊति | कुधान्यानां कॊद्रवादीनामागमः लाभः | ऎतच्छुभदशायाम् | अथाशुभदशायां श्लॆष्मॆष्र्यॆति | 232 श्लॆष्मणा कफॆन | ईष्र्याया मत्सरत्वॆन अनिलॆन वायुना | कॊपॆन क्रॊधॆन, चित्तभ्रमॆण | मलिनतया मलीमसत्वॆन व्यापत्तिः विपत्तन्द्रा निद्रालस्ययॊरन्तरॆ वर्ततॆ | तस्या लक्षणम् | “हृदयॆ व्याकुलीभावॊ वाचश्लॆन्द्रियगौरवम् | मनॊबुद्धयप्रसादश्च तन्द्राया लक्षणॆ विदुः |” श्रमः खॆदः ऎतान्प्राप्नॊति | भृत्यॆभ्यः कर्मकरॆभ्यः | अपत्यॆभ्यः पुत्रदुहितृभ्यः | कलत्रॆभ्यॊ भार्याभ्यः भर्त्सनं तर्जनं प्राप्नॊति | व्यङ्गतामङ्गच्छॆदं व्याधिना तद्दारणं वा | मिश्रायामुभयमपि | इति शनिदशान्तर्दशाफलम् || 18 ||  दशासु शस्तासु शुभानि कुर्वन्त्यनिष्टसञ्ज्ञास्वशुभानि चैवम् |  मिश्रासु मिश्राणि दशाफलानि हॊराफलं लग्नपतॆः समानम् | 19 ||  भट्टॊत्पलः-अथैकस्मिन्वृत्तॆ दशासु शुभान्यशुभानि च फलान्युक्तानि तॆषां विभागं लग्नदशाफलं चॊपजातिकयाह दशास्विति | शुभाशुभं व्यामिश्रत्वं दशासु पूर्वमॆवॊक्तम् | तथा जन्मकालॆ उपचयराशिस्था निर्मलमूर्तयः | स्पष्टगतयश्च यॆ ग्रहास्तॆषामपि दशाः शुभाः | यॆ चापचयस्था हता रूक्षाः स्वल्पमूर्तयस्तॆषामपि दशा अशुभाः | तथा च यवनॆश्वरः || “निशाकरादित्यविलग्नभानां तत्कालयॊगादधिकं बलं यः | बिभर्ति तस्यादिदशॆष्यतॆ सा शॆषास्ततः शॆषबलक्रमॆण | वयॊऽधिकॊ यः प्रथमॊदितॊ वा ग्रहः स पूर्वं पठितॊ दशॆशः | बलाधिकश्चॆद्यदि कॆन्द्रसंस्थः पूर्वं सशॆषास्तु यथा प्रदिष्टाः | श्रॆष्ठा दशा स्वॆ वयसि ग्रहस्य स्वॊच्चाश्रिता कालबलाश्रिता च मूलत्रिकॊणात्स्वगृहाच्च मध्या मित्राश्रिता जन्मगृहाश्रिता वा | नीचारीभांशॊपगताज्जिताद्वा गृहात्परिध्वस्तविवर्णरूक्षात् | जन्मॆशशत्रॊर्निधनारि 233 भॆशाद्या पठयतॆ सा बहुदॊषदा स्यात् |” ऎवं शस्तासु शॊभनासु दशासु ग्रहाः शुभान्यॆव फलानि कुर्वन्ति | दशाफलप्रवृतॆ यानि शुभान्यशुभान्यभिहितानि तान्यॆव भवन्ति | नॆतराणि अनिष्टसंज्ञास्वशुभदशासु अशुभान्यनिष्ठानि ऎव भवन्ति | मिश्रासु दशासु मिश्राण्यॆव दशाफलानि भवन्ति | ऎतच्च प्रतिसूत्रमस्माभिश्च व्याख्यातम् | तथा च सत्यः | “जन्मन्युपचयभवनॆषु संस्थिताः सव्यगाः सुमूर्त्तिधराः | श्रॆष्ठं फलं विदध्युर्ग्रहा क्रमात्स्वां दशां प्राप्य | अन्यैर्निहिता रूक्षाल्पमूर्त्तयॊ ह्यपचयर्क्षसंस्थाश्च | स्वदशाभिहितं नॆष्टं ग्रहाः प्रयच्छन्ति लॊकॆषु | हॊराफलं लग्नपतॆः लग्नाधिपस्य समानं तुल्यं वक्तव्यम् | यथा मॆषलग्नजातस्य भौमदशाफलं वृषलग्नजातस्य शुक्रदशाफलम् | ऎवमन्यॆष्वपि वक्तव्यम् | किन्तु द्वॆष्काणवशाच्छुभायां लग्नदशायां शुभफलमशुभायामशुभम् | मिश्रायामुभयमपि | अथ यॆ पूर्व दशारिष्टा उक्तास्तॆषामिमॆ भङ्ग प्रॊक्ताः | तथा च सारावल्याम् | “प्रवॆशॆ बलवान्खॆटः शुभैर्वा सन्निरीक्षितः | सौम्याधिमित्रवर्गस्थॊ मृत्युकृन्न भवॆत्तदा | अन्तर्दशाधिनाथस्य विबलस्य दशा यदा | विबला स्यात्तदा भङ्गॊ न बाध्या तस्य च ध्रुवम् | युद्धॆ च विजयी तस्मिन्ग्रहयॊगॆ शुभॊ यदि | दशायां न भवॆत्कष्टं स्वॊच्चादिषु च संस्थितॆ |” इति || 19 ||  संज्ञाध्यायॆ यस्य यद्द्रव्यमुक्तं कर्माजीवॊ यश्च यस्यॊपदिष्टः |  भावस्थानालॊकयॊगॊद्भवं च तत्तत्सर्वं तस्य यॊज्यं दशायाम् || 20 ||  भट्टॊत्पलः-अथान्यॆषामपि फलानां दशास्वतिदॆशार्थं शालिन्याह 234 संज्ञाध्याय इति | यस्य ग्रहस्य संज्ञाध्यायॆ यद्द्रव्यं ताम्रं स्यान्मणिहॆमॆत्यादिना ग्रन्थॆनॊक्तं कथितं तस्य तद्द्रव्यस्य शुभदशायां प्राप्तिः यॊज्या | अशुभदशायां हानिः | यश्च कर्माजीवॊ यस्य ग्रहॊपदिष्टॊ जातकॆऽभिहितः | अर्थाप्तिः पितृपितृपत्नीत्यादि | तस्य ग्रहदत्तस्य कर्माजीवस्य तदन्तर्दशायामॆवाप्तिर्भवति | भावफलं वक्ष्यति | शूरः स्तब्ध इत्यादि | तथा प्रथितश्चतुरॊऽटन इत्यादि | तथा मॆषॆ मस्वस्तिमिरनयन इत्यादि | अवलॊकनफलं दृष्टिफलम् | चन्द्रॆ भूपबुधौ इत्यादि | यॊगॊद्भवं नाभसयॊगान्मुक्त्वा सर्वयॊगॆषु यॊगकर्तुभ्यॊ ग्रहॆभ्यॊ मध्याद्यॊ| बलीयान्स स्वदशायामॆव फलं ददाति | नाभसयॊगाः सकलदशास्वपि फलप्रदाः | वक्ष्यति च | “इति निगदिता यॊगाः सार्ध फलैरिह नाभसा नियतफलदाश्चिन्त्या ह्यॆतॆ समस्तदशास्वपि |” इति | ऎवमादि यद्यदुक्तं तत्सर्वं निरवशॆषम् | तस्य ग्रहस्य दशायां यॊज्यमिति | 20 ||  छायां महाभूतकृतां च सर्वॆऽभिव्यञ्जयन्ति स्वदशामवाप्य |  क्वम्ब्वग्निवाय्वम्बरजान्गुणांश्च नासास्वदृक्त्वक्छ्रवणानुमॆयान् || 21 ||  भट्टॊत्पलः-अथ यस्य जातस्य जातकमप्यगणितं यस्य शरीरच्छायां दृष्ट्वा ग्रहदशामिन्द्रवज्रयाऽऽह छायां महाभूतकृतामिति | पूर्वॊक्तं शिखिभूखपयॊमरुद्गणानां वशिनॊ भूमिसुतादयः क्रमॆणॆति | तत्रादित्यचन्द्रौ वह्नयम्बुप्रसिद्धावॆव | यः यः कश्चिद्ग्रहः स्वदशामात्मीयदशामवाप्य महाभूतकृतां छायामभिव्यञ्जयति | 235 प्रकटीकरॊति | छाया शब्दॆन शरीरशॊभाऽभिधीयतॆ | शरीरकान्तिरित्यर्थः | तथा च सच्छायॊऽयं विच्छायॊऽयं वर्तत इत्यभिधीयतॆ | ऎवमात्मीयदशायां पृथिव्यादिमहाभूतकृतां शरीरच्छायां व्यञ्जयति प्रकटीकरॊति | सा च कम्ब्वग्निवाय्वम्बरजान्गुणान्कुः पृथिवी, अम्बुर्वरुणः, अग्निर्हुताशनः, वायुः अनिलः, अम्बरमाकाशमॆभ्यॊ जातॊत्पन्ना सा छाया तद्गुणान्करॊति | तांश्च यथासंख्यं नासास्यदृक्त्वक्छ्रवणानुमॆयान् पार्थिवं गुणं गन्धमभिव्यञ्जयति | नासानुमॆयं घ्राणॆनॊवलभ्यतॆ | अथाप्यं गुणं रसमभिव्यञ्जयति | तच्चास्यानुमॆयम् | आस्यशब्दॆनॆह जिह्वा ज्ञॆया | तथा रसस्यॊपलब्धॆः आस्यग्रहणं चात्र वृत्तानुरॊधात्कृतम् | आग्नॆयी आग्नॆयं गुणां रुपमभिव्यञ्जयति | दृष्ट्याऽनुमॆयम् | वायवी वायव्यं स्पर्शगुणमभिव्यञ्जयति | त्वगनुमॆयं स्पर्शॆनॊपलभ्यतॆ | नाभसॊ नाभसं गुणं शब्दमभिव्यञ्जयति | श्रवणानुमॆयं कर्णॊपलभ्यम् | ऎतदुक्तं भवति | यदा शुभगन्धः पुरुषॊ भवति तदास्य बुधकृता पार्थिवी छाया ज्ञॆया | यदा मिष्टरसभॊजी भवति तदाऽस्य चन्द्रशुक्रकृता छाया ज्ञॆया | यदाऽतीव रूपवान्सुकान्तः पुरुषॊ भवति तदा सूर्यभौमकृता आग्नॆयी छाया ज्ञॆया | यदा स्पर्शॆन मृदुर्भवति तदा शनैश्चरकृता वायवी छाया ज्ञॆया | यदाऽस्य वचनं कर्णयॊः सुखकरं भवति तदा जीवकृता नाभसी छाया विशॆषलक्षणमाचार्यॆण संहितायामभिहितम् | तथा च | “छाया शुभाशुभफलानि निवॆदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः | तॆजॊगुणान्बहिरपि प्रविकाशयन्ती दीपप्रभा स्फटिकरनघटस्थितॆव | स्निग्धद्विजत्वङनखरॊमकॆशा छाया सुगन्धा च महीसमुत्था | तुष्टयर्थलाभाभ्युदयान्करॊति धर्मस्य चाहन्यहनि प्रवृद्धिम् | स्निग्धा सिता च हरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदायन्करॊति | सर्वार्थसिद्धिजननीव चाप्या छाया फलं तनुभृतां शुभमाददाति | चण्डा धृष्या पद्महॆमाग्निवर्णा युक्तं तॆजॊ विक्रमैः सप्रतापैः | आग्नॆयीति प्राणिनां स्याज्जयाय क्षिप्रं सिद्धिं वांछितार्थस्य धतॆ | मलिनपरुषकृष्णा पापगन्धानिलॊत्था जनयति बधबन्धं व्याध्यनर्थार्थनाशम् | स्फटिकसदृशरूपा भाग्ययुक्ताऽत्युदारा निधिरिव गगनॊत्था श्रॆयसां स्वच्छवर्णा |” | 21 || 236 237 शुभफलादशायां तादृगॆवान्तरात्मा बहु जनयति पुंसां सौख्यमर्थागमं च |  कथितफलविपाकैस्तर्कयॆद्वर्त्तमानां परिणमति फलॊक्तिः स्वप्नचिन्तास्ववीर्यॆः || 22 ||  भट्टॊत्पलः-अत्र च वायवीं छायां वर्जयित्वा सर्वास्वॆव छायासु शुभमशुभं फलमुक्तं तत्कथम् ? शुभफलॆयशुभफलॆयमिति यद्वशाज्ज्ञायतॆ तज्ज्ञानार्थमन्तरात्मनः स्वरूपं मालिन्याह शुभफलदॆति | शुभफलं ददाति यः स शुभफलदः शुभफलदस्य ग्रहस्य या दशा तस्यामन्तरात्मा स्वदॆहस्थः परमात्मा चित्स्वरूपः तादृगॆव शुभॊ| भवति | पुरुषस्य तस्य च छाया दर्शितग्रहदशाकालॆ बहुविधमनॆकप्रकारं सौख्यं सुखभावमर्थागमं धनलाभं च जनयत्युत्पादयति | अर्थादॆवाशुभदशायां पुरुषस्यान्तरात्माऽप्यशुभॊ भवति | तत्र छाया दर्शितग्रहजाता तादृगॆव फलदा सा चासौख्यमनर्थागमं च बहुप्रकारं जनयति | मिश्रायां मिश्रं च | यात्रायां च वक्ष्यति| “निमित्तानुचरं सूक्ष्मं दॆहॆन्द्रियमहत्तरम् | तॆजॊ ह्यॆतच्छरीरस्थं त्रिकालफलविन्नृणम् | प्रीतयॆ न मनॊ नाथॆ नासिद्धावभिनन्दति | तस्मात्सर्वात्मना यातुरनुमॆयं यथा मनः | शुभाशुभानि सर्वाणि निमित्तानि स्युरॆकतः | ऎकतश्च मनः शुद्धिस्तद्विशुद्धिर्जयावहा |” इति | कथितफलविपाकैरिति | ग्रहाणां दशासु यानि फलानि शुभान्यशुभानि वा कथितान्युक्तानि तानि यः पुरुषॊ भुङ्क्तॆ | तस्य पुरुषस्य तद्ग्रहदशा वर्ततॆ इति ज्ञॆयम् | ऎतदुक्तं भवति | यादृशं फलं शुभमशुभं वा पुरुषस्यॊपलभ्यतॆ | तच्च यस्य ग्रहस्य दशायां पठितम् सा तस्य दशा नरस्य वर्तत इति ज्ञॆयम् | ऎवं वर्तमानां दशां तर्कयॆल्लक्षयॆदित्यर्थः | ऎवं छायावशॆनान्तरात्मवशॆन फलपक्तिवशॆन वा गणितस्य जातकस्य वर्तमानां दशां वदॆत् | अथ सौरदशायामशुभायां व्यङ्गत्वमुक्तं न च शुभायाम् | अशुभायामप्यनॆकॆषां व्यङ्गत्वं दृष्टम् | शुभदशायां शुभायां निधिप्राप्तिरुक्ता न च साऽपि दृष्टा तदर्थमाह-- | परिणमति फलॊक्तिरिति | अवीर्यॆः बलहीनैः ग्रहैः फलानि यानि शुभान्यशुभानि वा दत्तानि तत्फलॊक्तिः फलप्राप्तिः स्वप्नॆ स्वप्नावस्थायां परिणमत्यनुभूयतॆ |  238 चिंतायां मनॊरथॆन वॆति कॆचिच्च “शुभफलदशाया तादृगॆवान्तराख्या” इति पठन्ति | पठित्वॆवं व्याचक्षतॆ | यथा शुभायां दशायामन्तराख्यान्तर्दशा शुभा यदि भवति तदा बहु जनयति पुंसां सौख्यमर्थागममिति | अर्थादॆवाशुभायां दशायामशुभान्तर्दशासौख्यमनर्थागमं च बहु जनयति | अनॆन व्याख्यानॆन शुभायामशुभायां च शुभाशुभानि भवन्ति मिश्रफलं प्रयच्छति न वैतदुच्यतॆ | यस्मादुक्तम् | ‘ऎकर्क्षगॊऽर्धमपहृत्यान्तर्दशापतिरॆव स्व फलं ददातीति ज्ञॆयम् | अन्यथाऽपहृत्यॆति निरर्थकं स्यादिति | तस्मात्पूर्वपाठः श्रॆयान् द्वितीयः प्रमादपाठः| प्रथमपाठॆन विना छायां शुभाशुभत्वमनुमातुन्न शक्यत इति||22 ||  239 ऎकग्रहस्य सदृशॆ फलयॊर्विरॊधॆ नाशं वदॆद्यदधिकं परिपच्यतॆ तत् |  नान्यॊ ग्रहः सदृशमन्यफलं हिनस्ति स्वां स्वां दशामुपगताः स्वफलप्रदाः स्युः || 23 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ दशान्तर्दशाध्यायः सम्पूर्णः | 8 ||  भट्टॊत्पलः-अथैकग्रहदत्तयॊः फलयॊः सदृशयॊर्नाशॊ भवति भिन्नदत्तानां बहूनामपि पक्तिरॆव भवतीत्यॆतद्वसन्ततिलकॆनाह‌ऎकग्रहस्यॆति | सर्वाण्यॆव फलानि नाभसवज्र्य स्वदशायां ग्रहः प्रयच्छतीत्युक्तं तत्रैकॆन ग्रहॆण यदाऽसदृशं विरुद्धॆ फलद्वयं दत्तं भवति तस्मिन्सदृशॆ तुल्यॆ द्वयॊः फलविरॊधॆ सति नाशॊ भवति | तस्य फलद्वयस्य वदॆद् ब्रूयात् | कीदृशं तद्विरुद्धमित्यत्रॊच्यतॆ | यथा कश्चिद्ग्रहः कयाऽपि युक्तया दशाफलादिना सुवर्णदॊ भवति स ऎवान्यया युक्तया अष्टकवर्गफलयॊगफलदृष्टिफलभावफलानामन्यतमॆन सुवर्णापहारी भवति तदा फलद्वयॆऽपि सुवर्णसम्बन्धॊऽस्तीति सादृश्यं स्वर्णदानापहारिणाविति विरॊधः | ऎवमॆकस्य ग्रहस्य सदृशफलयॊः विरॊधॆ नाशं वदॆत् | न सुवर्णलाभॊ न चापहानिरिति | यदधिकं परिपच्यतॆ तत् | ऎकॆनापि ग्रहॆण फलद्वयं दत्तमन्यरूपं तयॊर्मध्यादधिकं तत्परिपच्यतॆ भवति | यथा कश्चिद्ग्रहॊ निर्दिष्टप्रकारद्वयॆन सुवर्णदः, स ऎव प्रकारॆणैकॆन सुवर्णापहारी, तदा द्वयॊरधिकत्वात्तद्दानस्य सुवर्ण ददात्यॆव नापहरति | अथवा प्रकारद्वयॆन सुवर्णनाशं वदॆत्| न सुवर्णलाभॊ न चापहानिरिति | यदधिकं परिपच्यतॆ तत्‌ऎकॆनापि ग्रहॆण फलद्वयं तयॊर्मध्याद्यदधिकं तत्परिपच्यतॆ भवति यथा कश्चिद्ग्रहॊ निर्दिष्टप्रकारद्वयॆन सुवर्णदः स ऎव प्रकारॆणैकॆन सुवर्णापहारी, तदा द्वयॊरधिकत्वात् तद्दानस्य सुवर्ण ददात्यॆव नापहारीति अथवा प्रकारद्वयॆन सुवर्णापहारी | प्रकारॆणॆकॆन सुवर्णदः तदाऽपहरणस्याधिकत्वादपहरत्यॆव | अथवा| सुवर्णापहारी रूप्यदश्च तथापि द्वॆ असदृशॆ असदृशत्वादधिकं परिपच्यतॆ | सुवर्णापहारी रूप्यदश्च भवति इति कॆचित्| नान्यॊ ग्रह इति | अन्यॆन ग्रहॆण दतं सदृशं विरॊध्यपि फलं नान्यॊ ग्रहॊऽपि हिनस्त्यपहरति | यथा कश्चिद्ग्रहः 240 सुवर्णदॊ भवत्यन्यश्च सुवर्णापहारी तदा तत्र सुवर्णदः स्वदशायां सुवर्णं ददाति | स्वदशायां सुवर्णापहारी चापहरति | अनॆनैतदुक्तं भवति | यथैकग्रहस्य सदृशफलयॊः विरॊधॆ समग्रजन्मान्तरॆऽपि फलनाशं वदॆत् अन्यत्र विरुद्धयॊरपि फलयॊः नाशं न वदॆत् | यतः सुवर्णदॊ ग्रहः स्वामात्मीयां दशामुपगतः प्राप्तः सुवर्णलाभं करॊति, सुवर्णापहारी स्वदशामुपगतः प्राप्तः सुवर्णमपहरति | ऎतदष्टकवर्गफलं विनाशयतस्तत्रैकस्य ग्रहस्य फलसदृशयॊरपि तुल्यसंख्ययॊः फलयॊनाशॊ भविष्यति | यथा भविष्यति तथा तत्रैव प्रतिपादयिष्याम इति| 23 ||  इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां दशान्तर्दशाध्यायः || 8 || 241 अथाष्टवर्गाध्यायः || 9 ||  स्वादर्कः प्रथमायबन्धुनिधनद्वयाज्ञातपॊद्यूनगॊ वक्रात्स्वादिव तद्वदॆव रविजाच्छुक्रात्स्मरान्त्यारिषु | जीवाद्धर्मसुतायशत्रुषु दशत्र्यायारिगः शीतगॊरॆष्वॆवान्त्यतपः सुतॆषु च बुधाल्लग्नात्स बन्ध्वन्त्यगः | 1 | भट्टॊत्पलः-अथाष्टकवर्गाध्यायॊ व्याख्यायतॆ | तत्रान्तर्दशाफलमिति पूर्वमॆवॊक्तं तत्प्रदश्र्याधुना स्थिरस्याष्टकवर्गफलस्यावसरः | लग्नाष्टमाः सर्वॆ ऎव ग्रहास्तॆभ्यः सकाशादॆकैकस्य ग्रहस्य चारवशाद्राशौ विचरतः शुभाशुभं फलमष्टकवर्गॆ निरूप्यतॆ | तत्रादावॆवाकष्टिकवर्ग शार्दूलविक्रीडि तॆनाहस्वादर्क इति | यत्र राशौ जन्मसमयॆ पुरुषस्यादित्यः स्थितः स ऎव तस्य स्वस्थानमुच्यतॆ | ऎवमन्यॆषामपि ग्रहाणां ज्ञॆयम् | यॊ यत्र व्यवस्थितः स ऎव तत्र स्वस्थानं तस्मात्स्वादर्कः प्रथमायबन्धुनिधनद्वयाज्ञातपॊद्यूनगः प्रथमैकादशचतुर्थाष्टमद्वितीयदशमनवमसप्तॆषु 1 ||11 ||4||8 ||2 ||10 ||9 ||7 ऎतॆषां स्थानानां संज्ञाः प्रागॆव व्याख्याताः | अतः पुनर्नॊच्यन्तॆ| ऎषामङ्कन्यास ऎव व्याख्यानमिति सर्वत्र ज्ञॆयम् | ऎतॆषु स्थानॆषु गतः स्वात्स्थानादर्कः सूर्यः शुभः इष्टफलदः सूर्यः शुभः इष्टफलदः अर्थादॆवान्यस्थानॆष्वशुभ अनिष्टफलदः | यतॊ वक्ष्यति || “निगदितमिष्टं नॆष्टमन्यत्” इत्यॆवं सर्वत्र ज्ञॆयम् | वक्रात्स्वादिव| वक्रादङ्गारकात्स्वादात्मीयस्थानादिव शुभः | यॆष्वॆव स्वस्थानात्तॆष्वॆवाङ्गरकात् 1 |1 1 |4|8|2|10 ||9||7 ऎतॆष्वर्कॊ भौमाच्छुभः | तद्वदॆव रविजात् | रविजात्सूर्यपुत्रात्तद्वदॆव | यॆष्वॆव स्थानॆषु स्वाच्छुभस्तॆष्वॆव सौरात् 1 ||11 ||4||8|| 2 ||10 ||9||7 ऎतॆषु सौरादर्कः शुभ इति सर्वत्रानुवर्ततॆ | शुक्रात्स्मरान्त्यारिषु स ऎवार्कः सप्तमद्वादशषष्ठॆषु 7 | 1 2 | 6 शुक्राच्छुभः | जीवाद्धर्मसुतायशत्रुषु जीवाद्बृहस्पतिस्थानात् धर्मसुतायशत्रुषु नवपञ्चमैकादशषष्ठॆषु 9 ||5|1 1 ||6 शुभः| दशत्र्यारिगः शीतगॊः, शीतगॊश्चन्द्राद्दशात्र्यायारिगः दशमतृतीयैकादशषष्ठगः 10 ||3|11|6 शुभः | ऎतॆष्वॆवान्त्यतपःसुतॆषु च बुधाच्छुभः | ऎष्वॆव प्रागुक्तॆषु चन्द्रस्थानॆषुदशत्र्यायारिषु च शब्दात्तथान्त्यतपःसुतॆषु 10 ||3|1 1 ||6|| 12 ||9||5 बुधाच्छुभः | लग्नात्सबन्ध्वन्त्यगः सहशब्दॆन प्रागुक्तानि 242 चन्द्रस्थानान्यनुकृष्यन्तॆ तॆनान्त्यतपः सुतस्थानानीति सर्वत्र परिभाषा | तॆनैतॆषु चन्द्रस्थानॆधु दशत्र्यायारिषु सबन्ध्वन्त्यॆषु चतुर्थद्वादशसहितॆषु गतॊ लग्नादुदयाच्छुभः 1 ऒ ||3|1 1 ||6 ||4|1 2 | तथा च सत्यः | “स्वात्स्थानाद्दिवसकरस्तृतीयषष्ठान्त्यभत्रिकॊणानि !" हित्वॆष्टः 3 ||6|1 2 ||5|9 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरदर्शितानि स्थानानि जातानि 1 ||11 ||4|8|2|1 ऒ ||9||7 सौरस्य तु सहजारिसुतान्त्यसंज्ञानि | हित्वॆष्ट इत्यनुवर्ततॆ 3 ||6||5 ||1 2 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरदर्शितानि स्थानानि जातानि 1 ||1 1 ||4||8 ||2 ||1ऒ ||9 ||7 चन्द्राद्दशमैकादशतृतीयषष्ठॊपगः शुभः सूर्यः 10 ||11|3||6|| जीवात्त्रिकॊणयॊः षष्ठस्तथैकादशश्चॆष्टः 9 ||5 ||6 ||11 प्रथमद्वितीयसप्तचतुर्थनिधनगतान्विना राशीन्सौम्यादिष्टः सूर्यः 1|2|7|4|8 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरप्रदर्शितानि स्थानानि जातानि 1 ऒ ||3|11|6|12 ||9||5 कुजस्तु सदृशॊऽर्कपुत्रॆण 1 ||11 ||4||8 ||2 ||10 ||9||7 दशमैकादशषष्ठतृतीयगॊऽन्त्यश्चतुर्थगॊ लग्नात् 10 ||11|6 ||3|12 |4 शुक्रस्थानाद्रविः षट्सप्तमद्वादशॆषु भवतीष्टः 6||7||12 तथा च सूक्ष्मजातकॆ“कॆन्द्रायाष्टद्विनवस्वर्कः स्वादार्किभौमयॊश्च शुभः | षट्सप्तान्त्यॆषु सितात्षडायधीधर्मगॊ जीवात् | उपचयॊऽर्कश्चन्द्रादुपचयनवमान्त्यधीयुतःसौम्यात् | लग्नादुपचयबन्धुव्यवस्थितः शॊभनः प्रॊक्तः |” इति आदित्याष्टकवर्गः | 1 |    243 244  भट्टॊत्पलः-अथ चन्स्द्राष्टकवर्ग शार्दूलविक्रीडि तॆनाह लग्नात्षडिति | लग्नात्षट्त्रिदशायगः शशी चन्द्रः लग्नादुदयात्षट्त्रि दशायगः षष्ठतृतीयदशमैकादशॆषु स्थानॆषु शुभः 6 ||3|1 0 ||11 सधनधीधर्मॆषु चाराच्छशी | सहशब्दॆन प्रागुक्तान्यॆव स्थानान्यनुक्षिप्यन्तॆ | शशी चन्द्रः आराद्भौमादॆष्वॆव षट्त्रिदशायॆषु धनधीधर्मसहितॆषु द्वितीयपञ्चमनवमयुतॆषु शुभः 6 ||3|1 ऒ ||11|2|5|9 स्वात्सास्तादिषु आत्मीयस्थानादॆष्वॆव षट्त्रिदशायॆषु सास्तादिषु सप्तमप्रथमसहितॆषु शुभः | शशी 6 ||3 ||10 ||11 ||7 ||1 साष्टसप्तसु रवॆरादित्यादॆष्वॆव स्थानॆषु साष्टसप्तसु अष्टमसप्तसंयुक्तॆषु 6 ||3|1 ऒ ||11 ||7||1 साष्टसप्तसु रवॆरादित्यादॆष्वॆव स्थानॆषु साष्टसप्तसु अष्टमसप्तसंयुक्तॆषु 6 ||3|10|11|8 ||7 शुभः | षट्त्र्यायधीस्थॊ यमात् यमात्सौरात् षट्त्र्यायधीस्थः षष्ठतृतीयैकादशपञ्चमस्थानस्थः शुभः 6 ||3 ||11 ||5 धीत्र्यायाष्टमकण्टकॆषु शशिजात् शशिजाद्बुधाद् बुधस्थानाद्धीत्र्यायाष्टमकण्टकॆषु पञ्चमतृतीयैकादशाष्टमकॆन्द्रॆषु शुभः | शशी 5 ||3|11 || 8 ||1 ||4||7||10 जीवाद्व्ययायाष्टगः कॆन्द्रस्थश्च | जीवाद्गुरुस्थानाद्व्ययायाष्टगः कॆन्द्रस्थश्च द्वादशैकादशाष्टमकॆन्द्रस्थश्च शुभश्चन्द्रः 1 2 | 11 || 8 ||1 ||4||7||1 ऒ सितातु धर्मसुखधीत्र्यायास्पदानङ्गगः सिताच्छुक्राद्धर्मसुखधात्र्यायास्पदानङ्गगॆषु नवमचतुर्थपञ्चमतृतीयैकादशदशमसप्तमॆषु शुभः 9 ||4|5 || 3|1 1 | 10 ||7 | तथा च सत्यः | “षष्ठैकादशसप्तमतृतीयदशमादिसंस्थितश्चन्द्रः | स्वादिष्टः 6 ||11 ||7||3|1 ऒ |1 सौरस्य तु सहजारिसुतायसंस्थितश्च शुभः 3 ||6||5|11 | रिपुनिधनसहजसप्तमदशमैकादशसंस्थितः सूर्यात् 6 ||8 ||3||7|1 ऒ |1 1 लग्नात्तृतीयदशमारिलाभसंस्थितः शुभश्चन्द्रः 245 3|1 ऒ ||6|11 | भ्रातृसुतकर्मधनलाभधर्मरिपुराशिगः कुजादिष्टः 3|5|10 || 2 ||11|9||6| जीवात्तृतीयषष्ठद्विनवमसुतवर्जितॆष्विष्टः 3 ||6||2| 9 ||5|| ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 2 ||11 ||8|1 ||4||7|1 ऒ | प्रथमद्वितीयषष्ठाष्टमान्त्यवज्र्यॆषु भार्गवादिष्टः 1 ||2 ||6 ||8 ||1 2 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानिजातानि 3|4|5 ||7||9|| 10 ||11| षष्ठधनपञ्चमनवमपश्चिमवज्र्यॆषु बुधात्प्रशस्तश्च 6 ||2|5|9|| 1 |2 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||3 ||4 ||7 ||8 ||1 ऒ ||1 1 | तथा च सूक्ष्मजातकॆ | “शश्युपचयॆषु लग्नात्साद्यमुनिः स्वात्कुजात्सन वधीस्थः | सूर्यात्साष्टस्मरगखिषडायसुतॆषु सूर्यसुतात्| ज्ञात्कॆन्द्रत्रिसुतायाष्टमगॊ गुरॊव्र्यय भवाष्टकॆन्द्रॆषु | त्रिचतुः सुतनवदशसप्तमायगश्चन्द्रमाः शुभः शुक्रात् |” इति चन्द्राष्टकवर्गः || 2 ||  246 वक्रस्तूपचयॆष्विनात्सतनयॆष्वाद्यादिकॆषूदयाच्चन्द्राहिग्विफलॆषु कॆन्द्रनिधनप्राप्त्यर्थगः स्वाच्छुभः | धर्मायाष्टमकॆन्द्रगॊऽर्कतनयाज्ज्ञात्षटत्रिधीलाभगः शुक्रात्षड्व्ययलाभमृत्युषु गुरॊः कर्मान्त्यलाभारिषु || 3 ||  भट्टॊत्पलः-अथ भौमाष्टकवर्ग शार्दूलविक्रीडि तॆनाह वक्रस्तूपचयॆष्विनादिति | वक्रॊऽङ्गारकः इनादादित्यादुपचयॆषु त्रिषडॆकादशदशमॆषु सतनयॆषु शुभः 3 ||6|11|10 ||5 आद्याधिकॆषूदयाद्वकः | उदयाल्लग्नादॆष्वॆवॊपचयॆष्वाद्याधिकॆषु प्रथमस्थानयुक्तॆषु शुभः 3 ||6|11 ||10|| 1 | चन्द्राद्दिविफलॆषु चन्द्रस्थानादॆष्वॆवॊपचयॆषु दिग्विफलॆषु दशमस्थानवर्जितॆषु तॆन दशमस्थानॆन शुभं नाप्यशुभं फलं करॊतीत्यर्थः || 3 ||6|11 ऎतॆषु शुभः | कॆन्द्रनिधनप्राप्त्यर्थगः स्वाच्छुभः स्वादात्मीयस्थानात्कॆन्द्रनिधनप्राप्त्यर्थगः कॆन्द्राष्टमैकादशद्वितीयगः शुभः 1 ||4||7||10 ||8|1 1 |2 | धर्मायाष्टमकॆन्द्रदॊऽर्कतनयात् सौराद्धर्मायाष्टमकॆन्द्रगः नवमैकादशाष्टमकॆन्द्रगतः शुभः 9 ||11|8|1 ||4||7||10 | ज्ञात्षट्त्रधीलाभगतः ज्ञाद्बुधात्षट् त्रिधीलाभगः षष्ठतृतीयपञ्चमैकादशगतः शुभः 6 ||3|5|1 1 | शुक्रात् षड्व्ययलाभमृत्युषु शुक्रस्थानात् षष्ठद्वादशैकादशाष्टमॆष शुभः 6 ||1 2 | 1 1|8 | गुरॊः कर्मान्त्यलाभारिषु गुरॊः जीवाद्दशद्वादशैकादशषष्ठॆषु शुभः 10 |1 2 ||11 ||6|| तथा च सत्यः | “द्वादशपञ्चमनवमतृतीयषष्ठान्विना कुजस्त्विष्टः |” स्वस्थानात् 1 2 ||5 ||9 ||3 ||6 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||4||7| 10 ||8|1 1 |2 | सौरस्य तु नवमाभ्यधिकॆषु अनर्थॆषु ऎष्वॆव द्वितीयस्थानं विना नवमाभ्याधिकॆषु 11 ||8||9|1 |4|1 ऒ | भौमस्तृतीयपञ्चमदशमैकादशरिपुस्थितः सूर्यात् | इष्टः 5|10|11|6 चन्द्रान्मध्यमदशमषष्ठसहजलाभॆषु 10 ||3||6|11 दशमैकादशषष्ठान्त्यगः कुजॊ भूमिजः पूजितॊ गुरुस्थानात् 10 ||11 ||6|1 2 | षष्ठैकादशपञ्चमतृतीयगः शुभः सौम्यात् 6 ||11 ||5 |3 अन्त्यायाष्टसषष्ठगः कुजः पूजितः शुक्रात् 1 2 | 1 1|8 ||6||प्रथमैकादशदशरिपुसहजॊपगतश्च हॊरायाः 1 ||11 ||10 ||6 |3 तथा च स्वल्पजातकॆ | “भौमः स्वादायस्वाष्टकॆन्द्रगस्त्र्यायषट्सुतॆषुबुधात् | 247 जीवाद्दशायशत्रुव्ययॆष्विनादुपचयसुतॆषु | उदयादुपचयतनुषु त्रिषडायॆष्विदयतः समॊ दशमः | चन्द्रस्थानादुपचयॆषु दशमवर्जितॆषु शुभः | दशमॆ शुभॊऽपि न भवति | 3 ||6|1 1 भृगुतॊऽन्त्यषडष्टायॆषु 12 ||6|8|1 1 | असितात्कॆन्द्रायनववसुषु 1 ||4||7||10 ||11|9||8| इति भौमाष्टकवर्गः || 3 ||  द्वयाद्यायाष्टत्तपः सुखॆषु भृगुजात्सत्र्यात्मजॆष्विन्दुजः | साज्ञास्तॆषु यमारयॊव्र्ययरिपुप्राप्त्यष्टगॊ वाक्पतॆः | धर्मायारिसुतव्ययॆषु सवितुः स्वात्साद्यकर्मत्रिगः | षट्स्वायाष्टसुखास्पदॆपु हिमगॊः साघॆषु लग्नाच्छुभः | 4 |  भट्टॊत्पलः-अथ बुधस्याष्टकवर्ग शार्दूलविक्रीडि तॆनाहद्वयाद्यायाष्टतप इति | इन्दुजॊ बुधः भृगुजाच्छुक्रात् द्वयाद्यायाष्टतपः सुखॆषु द्वितीयप्रथमैकादशाष्टमनवमचतुर्थॆषु तृतीयपञ्चमयुक्तॆषु शुभः 2 ||1 ||11|8||9|4|3|5| साज्ञास्तॆषु यमारयॊः ऎष्वॆव द्वयाद्यायाष्टतपः सुखॆषु साज्ञास्तॆषु दशमसप्तमसहितॆषु यमारयॊः शनैश्चराङ्गारकयॊः यमात् 2 | 1 ||1 1 ||8 ||9 ||4|1 ऒ ई7 आराच्च शुभः 2 | 1 | 1 1 ||8 ||9|4|1 ऒ ||7|| व्ययरिपुप्राप्त्यष्टगॊ वाक्पतॆः | वाक्पतॆः जीवात् द्वादशषष्ठॆकादशाष्टमगतः शुभः  248 12 ||6|11|8| धर्मायारिसुतव्ययॆषु सवितुः सूर्यान्नत्रवमैकादशषष्ठपञ्चमद्वादशॆषु शुभः 9 ||11|6||5|1 2 | स्वात्साद्यः कर्मत्रिगः | स्वादात्मीयस्थानादॆष्वॆव धर्मादिषु स्थानॆषु साद्यकर्मत्रिकॆषु प्रथमदशमतृतीयसवितॆषु गतः शुभः 9 ||11|6||5|12|1|10 ||3| षट्स्वायाष्टसुखास्पदॆषु हिमगॊश्चन्द्रात् षष्ठद्वितीयै कादशाष्टमचतुर्थदशमॆषु शुभः 6 ||2|11|8||4|1 ऒ साद्यॆषुप्रथमस्थानसहितॆषु लग्नाच्छुभः 6 ||2|11|8 ||4|1 ऒ |1 | तथा च सत्यः | “स्वात्स्थानाच्छशितनयॊ द्वितीयसप्तम चतुर्थनिधनानि हित्वॆष्टः 2 ||7|4|8 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||3|5|6|9|1 ऒ |1 1 ||1 2 | सूर्यस्त तु लाभारिसुतान्त्यनवमस्थः 11 ||6||5|1 2 ||9| सुतसहजषष्ठपश्चिमवर्जितॆषु मण्डलॆषु बुधस्त्विष्टः | सौराराभ्यां स्थानादाकल्पाच्छास्त्रनियमॆन 5 ||3 ||6 ||1 2 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||1 1 ||4||2 ||8 ||9 ||1 ऒ| लग्नाच्छुक्रॊ यॆषु प्रशस्यतॆ तॆषु चन्द्रजस्तस्य | यॆषु स्थानॆषु लग्नाच्छुक्रः शुभस्तॆष्वॆव स्थानॆषु शुभस्थानाद्बुधः शुभॊ भवति | शुक्राष्टकवर्ग पठयतॆ | लग्नादिष्टः शुक्रॊ रिपुसप्तमदशमपश्चिमान् हित्वा 6 ||7||10 ||12 | ऎतानि स्थानानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||2|3|4|5 ||8 ||9||11 ऎतॆषु स्थानॆषु शुक्रस्थानाच्छुभॊ बुधः | अन्त्यॊपान्त्याष्टमशत्रुभॆषु जीवादबुधः श्रॆष्ठः 1 2 | 1 1 ||8 ||6 || दशमस्वलाभषष्ठाष्टमॆषु चन्द्राद्बुधश्चतुर्थॆ च 10 ||2 ||11 ||6 ||8||4 लग्नाच्छ्रॆष्ठॊ द्युनान्त्यनवमसुतसहजवज्र्यॆषु 7 ||12|9||5||3 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 2|6|1 ऒ ||11|8||4|1 ऎतॆषु लग्नाच्छुभः | तथा च स्वल्पजातकॆ “सौम्यॊऽन्त्यषण्णवायात्मजॆष्विना(12 ||6|9 ||11|5) त्स्वात्त्रितनु (3 ||1) दशयुतॆषु (1 ऒ) | चन्द्राद्द्वरिपुदशायाष्टसुखगतः (2|6| 10 ||11|8 ||4|1) सादिषु विलग्नात् | प्रथमसुखायद्विनिधनधर्मॆषु (1 ||4|1 1 |2 ||8||9) सितात्त्रिधीसमॆतॆषु (3 ||5) | साशास्मरॆषु (10 ||7) सौरारयॊव्र्ययायरिपुवसुषु (12 ||11 ||6||8) गुरॊः |” इति बुधस्याष्टकवर्गः || 4 || 249 दिक्स्वाद्याष्टमदायबन्धुषु कुजात्स्वात् ग्राः |सूर्यात्सत्रिनवॆषु धीस्वनवदिग्लाभारिगॊ भार्गवात् | जायायार्थनवात्मजॆषु हिमगॊर्मन्दात्त्रिषड्धीव्ययॆ | दिग्धीषट्स्वसुखायपूर्वनवगॊ ज्ञात्सस्मरश्चॊदयात् || 5 ||  भट्टॊत्पलः-अथ जीवस्याष्टकवर्ग शार्दूलविक्रीडि तॆनाहदिगति | दिक्स्वाद्याष्टमदायबन्धुषु कुजादङ्गिरा इति | अङ्गिरा जीवः कुजादङ्गारकाद्दशमद्वितीयप्रथमाष्टमसप्तमैकादशचतुर्थॆषु शुभः 10 |2 | 1 ||4|| 7 ||11|4| स्वात्सत्रिकॆष्वङ्गिरा स्वादात्मीयस्थानादङ्गिराः गुरुः पूर्वॊक्तॆषु दिक्स्वाद्यादिषु सत्रिकॆषु तृतीयस्थानसहितॆषु शुभः || 10 ||2|1|8||7|| 11 ||4|3| सूर्यात्सत्रिनवॆषु गुरुः शुभः | सूर्यादादित्यादॆष्वॆव स्थानॆषु प्रागुक्तॆ सतपस्तृतीयॆषु तृतीयनवमस्थानाधिकॆषु शुभः 1 ऒ ||2|1|8||7|| 1 1 ||4||3 ||9 | धीस्वनवदिग्लाभारिगॊ भार्गवात् | भार्गवाच्छुक्रात्पञ्चमद्वितीयनवमदशमैकादशषष्ठॆषु शुभः 5 ||2|9|1 ऒ || 11 ||6| जायार्थनवात्मजॆषु हिमगॊः | हिमगॊश्चन्द्रात्सप्तमैकादशद्वितीयनवमपञ्चमॆषु शुभः 7 | 1 1 |2 ||9|| 5 मन्दात्त्रिषड्धीव्ययॆ मन्दात्सौरात्तृतीयषष्ठपञ्चम द्वादशॆषु शुभः 3 ||6||5|12 || दिग्धीषट्स्वसुस्वायपूर्वनवगॊ ज्ञाद्गुरुः ज्ञाद्बुधाद्दशमपञ्चमषष्ठद्वितीयचतुर्थैका 250 दशप्रथमनवमॆषु शुभः 10 ||5|6||2|4|1 1 ||9| सस्मरश्चॊदयात् | उदयाल्लग्नादॆष्वॆव स्थानॆषु सस्मरॆषु सप्तमस्थानसहितॆषु शुभः 10 ||5|6|| 2|4|1 1 ||9 ||7 | तथा च सत्यः | “यॆषु बुधस्य शशाङ्कस्तॆषु गुरुः पुष्कलः स्वकात्स्थानात् |” चन्द्राष्टकवर्गः पठ्यतॆ | षष्ठधननवमपश्चिमवज्र्यॆषु बुधात्प्रशस्तश्च 6 ||2|9|1 2 | ऎतानि स्थानानि वर्जयित्वा जातानि 1 ||3|4|5 ||7||8 ||10|11 | अत्रापि पञ्चमात् द्वितीययॊः स्थानयॊः वराहमिहिरॆण सह भॆद | अत्र च वराहमिहिररॆण यवनॆश्वरमतमङ्गीकृत्य द्वितीयस्थानस्य शुभत्वमङ्गीकृतम् | तथा च यवनॆश्वरः | “स्वस्थानतः स्थानसुतार्थमानप्राप्ति द्वितीयॆ च गुरुः करॊति |” ऎवं द्वितीय च शुभः विवाददैन्याध्वगदस्त्रिकॊणॆ तस्मात्पञ्चमॆ न शुभः | ऎष्वॆवार्कादिष्टॊ नवमाभ्यधिकॆषु भवनॆषु 1|3|4|5||7||8 ||9||10|1 1 अत्रापि पञ्चमद्वितीययॊः वराहमिहिरॆण यवनॆश्वरमतमङ्गीकृतम् | तथा च यवनॆश्वरः | “स्थानॆ रवॆबुँद्धिसुहृद्धनाप्ति करॊति जीवॊ धनदॊ द्वितीयॆ |” ऎवं द्वितीयॆ शुभत्वाद्वराहमिहिरॆणाङ्गीकृतम् | रुग्राजपीडाध्वकृदिन्द्रसूरिः स्यात्पञ्चमॆ तस्मात्पञ्चमॆ न शुभः | आत्मसदृशॆषु सहजभवनं विना कुजाच्च गुरुरिष्टः 1 ||4||7 ||10 ||11 अत्रापि पञ्चमद्वितीययॊः वराहमिहिरॆण सह भॆदः | अत्रापि यवनॆश्वरः | “गुरुः कुजस्थानगतॊऽरिहन्ता द्वितीयगस्तु ह्यतिहर्षदाता |” तस्माद्वाराहमिहिरॆण द्वितीयस्थानमङ्गीकृतम् | जामित्रगॊ व्याध्यरिशॊककारी | ऎवं सप्तमस्थानं नाङ्गीकृतम् | द्वादशरिपुपञ्चमतृतीयसंज्ञॆ स्थाश्ः सौरात् 1 2 ||6 ||5 ||3 दशमैकादशनवमद्वितीयषट्पञ्चमॆषु भृगॊः | इष्टः (10 ||11|9||2|6||5) चन्द्राज्जामित्रनवमसुतलाभकॊशर्क्षॆषु गुरुः शुभः (7 ||9||5|1 1 |2) प्रथमद्वितीयपञ्चमचतुर्थधर्मारिलाभदशमस्थः सौम्यादगुरु- हिन्त्ः (1|2|5 ||4||9||6|11 ||1 ऒ) | जीवॊ लग्नादॆवमिष्टः सजामित्रः 1 ||2|5||4||9||6|11 ||10 ||7| तथा च स्वल्पजातकॆ | “जीवॊ भौमाद्द्वयायाष्टकॆन्द्रगॊऽ-(2|1 1 ||8 |1 |4||7||1 ऒ) कत्सिधर्मसहजॆषु 2 ||11 ||8 || 1 ||4||7||1 ऒ ||9||3| स्वात्सत्रिकॆषु 2 ||11 ||8|1 ||4||7||1 ऒ ||3| शुक्रान्नवमदशमलाभस्वधीरिपुषु 9 |1 ऒ |1 1 |2|5|6| शशिनः स्मरत्रिकॊणार्थलाभग 251 -(7 ||9||5 |2 | 1 1)-स्त्रिरिपुधीव्ययॆषु यमान् (3 ||6||5|1 2) नवदिक्सुखा द्यधीस्वायशत्रुषु ज्ञात्-(9 |1 ऒ ||4|1 ||5|2|11 ||6) सकामगॊ लग्नात् 9 |1 ऒ ||4|1 ||5|2|1 1 ||6|7|” इति जीवाष्टकवर्गः || 5 ||  लग्नादासुतालाभरन्ध्रनवगः सान्त्यः शशाङ्कात्सितः | स्वात्साज्ञॆषु सुखत्रिधीनवदशच्छिद्राप्तिगः सूर्यजात् | रन्ध्रायव्ययॊ रवॆर्नवदशप्राप्त्यष्टधीस्थॊ गुरॊर्ज्ञाद्धीत्र्यायनवारिगस्त्रिनवषट्पुत्रायसान्त्यः कुजात् || 6 ||  भट्टॊत्पलः-अथ शुक्रायाष्टवर्ग शार्दूलविक्रीडि तॆनाहलग्नादिति | सितः शुक्रः लग्नादासुतलाभरन्ध्रनवगः शुभः | लग्नात्प्रभृति सुतस्थानं पञ्चमं यावत्तथा लाभरन्ध्रनवगः सितः शुभः | तॆषु प्रथमद्वितीयतृतीयचतुर्थपञ्चमैकादशाष्टनवमॆषु लग्नाछुक्रः शुभः | (1 ||2|3 ||4|5|1 1 ||8 ||9) | सान्त्यः शशाङ्काच्चन्द्रादॆव स्थानॆषु सान्त्यॆषु सव्ययॆषु द्वादस्थानाधिकॆषु शुभः (1 ||2|3|4|5|1 1 ||8 ||9 ||12) | स्वात्साज्ञॆषु स्वात्मीयस्थानादॆष्वॆव स्थानॆषु साज्ञॆषु, दशमस्थानाधिकॆषु शुभः (1|2|3|4|5|11|8||9||10) | सुखत्रिधीनवदशच्छिद्राप्तिगः सूर्यजात् | सौराच्चतुर्थतृतीयपञ्चमनवमदशमाष्टमैकादशॆषु शुभः (4|3|5|9||10 ||8|| 252 1 1) | रन्ध्रायव्ययगॊ रवॆः || रवॆरादित्यादष्टमैकादशद्वादशॆषु शुभः (8 ||11 ||12) | नवदशप्राप्त्यष्टधीस्थॊ गुरॊः | (9 ||10 ||11 ||8 ||5) | ज्ञाद्धीत्र्यायनवारिगः | ज्ञाद्बुधात्पञ्चमतृतीयैकादशनवमषष्ठॆषु शुभः (5 ||3 ||1 1 ||9 ||6) | त्रिनवषट्पुत्रायसान्त्यः कुजात् | कुजाद्भौमात्तृतीयनवमषष्ठपञ्चमैकादशॆषु सान्त्यॆषु अन्त्यॆन द्वादशॆन सहितॆषु स्थानॆषु शुक्रः शुभः (3 ||9 ||6 ||5|1 1 ||12) तथा च सत्यः | “स्वस्थानाद्भृगुतनयः षट्सप्तमपश्चिमॆतरॆष्विष्टः (6|7| 1 |2) |” ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||2|3|4|5 ||8||9|1 ऒ ||11 | “रिपुपत्निकर्मवज्र्यॆषु सितश्चन्द्रात्तु पुष्कलॊ नृणाम् 6||7||10 |” ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि जातानि 1 ||2 ||3 ||4||5 ||9 ||8 ||11 ||12 | “अन्त्यॊपान्त्याष्टमगः सूर्यादिष्टस्तु भार्गवः कथितः 1|2|11|8 | भौमादन्त्यॊपान्त्यतृतीयनवमसुतशत्रुगश्चैवम् (1 2 | 1 1 ||3|9||5|6) | दशमैकादशनिधनत्रिकॊणसंस्थॊ भृगुजौंवात् (10 ||11|8|5|9) | सौम्यात् सुतधर्मलाभसहजारिसंज्ञॆषु (5|9||11 ||3||6) | लग्नादिष्टः शुक्रॊ रिपुसप्तमदशमपश्चिमान् हित्वा (6 ||7 ||1 ऒ ||1 2) ” ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 |2|3|4|5 ||8 ||9||11 | “आद्यद्वितीयरिपुसप्तमान्त्यवज्र्यॆषु सौराच्च (1 ||2|6|7||12) ” ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि जातानि (3|4|5||8||9|1 ऒ ||11) तथा च स्वल्पजातकॆ “शुक्रॊ लग्नादासुतनवाष्टलाभॆषु (1 ||2|3|4|5|9||8 | 1 1) सव्ययश्चन्द्रात् | स्वात्साज्ञॆषु रविसुतात्त्रिधीसुखाप्तिनवकर्मरन्ध्रॆषु | वस्वन्त्यायॆष्वकन्निवदिग्लाभाष्टधीस्थितॊ जीवात्| ज्ञात्रिसुतनवायारिष्वायसुतापॊक्लिमॆषु कुजात्|” इति शुक्राष्टकवर्गः || 6 || 253 मन्दः स्वात्त्रिसुतायशत्रुषु शुभः साज्ञान्त्यगॊ भूमिजात्| कॆन्द्रायाष्टधनॆष्विनादुपचयॆष्वाद्यॆ सुखॆ चॊदयाशत् धर्मायारिदशान्त्यमृत्युषु बुधाच्चन्द्रात्त्रिषडलाभगः भूमिजाद्भौमादॆष्वॆव प्रागुक्तॆषु साज्ञान्तॆषु गतः  दशमद्वादशसहितॆषु शुभः |3|5|11|6|10|12 कॆन्द्रायाष्टधनॆष्विनात् | इनात्सूर्यात् कॆन्द्रॆकादशाष्टमद्वितीयॆषु शुभः (1 ||4||7 ||10 ||11 ||8 ||2) | उपचयॆष्वाद्यॆ सुखॆ चॊदयात् | उदयाल्लग्नात्तृतीयषष्ठदशमैकादशप्रथमचतुर्थॆषु शुभः (3 ||6 ||10|1 1 |1 |4) | धर्मायारिदशान्त्यमृत्युषु बुधात् | बुधाद्बुधस्थानान्नवमैकादषष्ठदशाष्टमॆषु शुभः (9 ||11|6|10 ||8) | चन्द्रात्त्रिषड्लाभगः | चन्द्रस्थानात्तृतीयषष्ठैकादशॆषु शुभः (3 ||6|1 1) | षष्ठान्त्यायगतः सितात् || शुक्रस्थानात् षष्ठद्वादशैकादशॆषु शुभः (6 ||12 ||11) | सुरगुरॊः प्राप्त्यन्त्यधीशत्रुषु सुरगुरॊः जीवादॆकादशद्वादशपञ्चमषष्ठॆषु शुभः (1 1 | 1 2|5|6) तथा च सत्यः | “ऎकादशपञ्चमषष्ठॊऽर्कजः स्वाच्छुभस्तृतीयॆ च (11 ||5|6||3) | स्थानान्निशाकरस्य तु पञ्चमवज्र्यॆष्वथैष्वॆव (1 1 ||3||6) | यॆष्वात्मनॊ रविस्तॆषु भास्करस्तादृशॊ रविस्थानात् |” आदित्याष्टकवर्गः पठयतॆ | “स्वात्स्थानाद्दिवसकरस्तृतीयषष्ठान्त्यभत्रिकॊणानि | हित्वॆष्टः (3 ||6 ||1 2 ||5 || 254 9) ”ऎतानि हित्वा जातानि 1 ||2 ||4 ||9 ||1 ऒ ||1 1 ||8 अत्र वराहमिहिरादभ्यधीकं नवमं स्थानं तच्च यवनॆश्वरविरॊधित्वाद्वराहमिहिरॆण नॊक्तम्| तथा च यवनॆश्वरः “पापप्रवृत्तिं नवमॆ विधत्तॆ” इति जीवादिष्टः | षट्पञ्चमपश्चिमैकादशस्थश्च (6 ||5|1 2 | 1 1) ‘भ्रातृसुतविजयलाभान्त्यकर्मगः पुष्कलॊ नृणाम् | भौमस्थानात्सौरिः (3|5|6|11 ||12|10) षष्ठान्त्यॊपान्त्यगः शुक्रात् (6 ||1 2 ||11) || दशमैकादशषष्ठाष्टमान्त्यनवमॊऽर्कजः सौम्यात् (10 ||11 ||6|8|1 2 ||9) | स्थानादिष्टॊ लग्नाच्छुभस्तु लग्नादद्यथा सूर्यः |” आदित्याष्टकवर्गः पठ्यतॆ | “दशमैकादशषष्ठतृतीयगॊ लग्नगश्चतुर्थगश्च लग्नात् (10 ||11|6||3|1 |4) | तथा च स्वल्पजातकॆ | “स्वात्सौरस्निसुतायारिगः (3 ||5 ||11 ||6) कुजादन्त्यकर्मसहितॆषु (3 ||5 ||11 ||6 ||12 ||1 ऒ) स्वायाष्टकॆन्द्रगॊर्क-(2|11|8|1 ||4||7||10)-च्छुक्रात्षष्ठान्त्यलाभॆषु (6 ||12 ||11) || त्रिषडायगः शशाङ्का-(3 ||6 | 1 1)दुदयात्ससुखाद्यकर्मगॊऽ-(3 ||6|1 1 |4|1 0)-थ गुरॊः | सुतषड्व्ययायगॊ (5 ||6|1 2 | 1 1) ज्ञाद्द्वययायरिपुदिङ्नवाष्टस्थः (12 ||11 ||6|1 ऒ ||9||8) |” इति सौरस्याष्टकवर्गः || 7 ||  255 इति निगदितमिष्टं नॆष्टमन्यद्विशॆषादधिकफलविपाकं जन्मभात्तत्र दद्युः | उपचयगृहमित्रस्वॊच्चगैः पुष्टमिष्टं त्वपचयगृहनीचारातिगैनॆष्टसम्पत् || 8 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ‌अष्टवर्गाध्यायः सम्पूर्णः | 9 ||  भट्टॊत्पलः-अथाष्टकवर्गफलनिरूपणार्थ मालिन्याह इति निगदितमिति | इत्यनॆनॊक्तॆन प्रकारॆण यन्निगदितमुक्तं तदिष्टं नॆष्टमन्यत् | यदन्यं न गदितं तत्सर्वमनिष्टमशॊभनम् | ऎतदुक्तं भवति | “स्वादर्कः प्रथमायबन्धुनिधन” इत्यनॆन पाठॆन यान्युक्तानि स्थानानि तॆषां श्रॆष्ठं फलम् | विशॆषादधिकफलविपाकमॆवमिष्टानिष्टयॊः फलयॊः विशॆषात्संशॊधनादधिकमिष्यतॆ | तत्फलविपाकं भवति ऎतज्जन्मभात् जन्मकालॆ यत्र स्थानॆ ग्रहाः स्थिताः तस्मात्स्थानाच्छुभाशुभानि फलानि प्रयच्छन्ति, न तथा तत्कालाक्रान्तराशितः | ऎतदुक्तं भवति | यानि शुभस्थानान्याचार्यॆण पठितानि तानि बिन्दूपलक्षातानि कार्याणि | यान्यशुभानि तानि रॆखॊपलक्षितानि कार्याणि | तदिष्टानिष्टयॊः विशॆषमन्तरं कृत्वाऽवशिष्टस्य फलस्य पङ्क्तिरिति | यत्र बिन्द्वष्टकं जातं तत्र शुभफलं सम्पूर्णम् | यत्र च षड् बिन्दवस्तत्र पादॊनफलम् | यत्र च बिन्दुचतुष्टयं तत्रार्धं फलम् यत्र बिन्दू द्वौ तत्र पादफलम् | अशुभफलस्यैव रॆखाभिः कल्पना कार्या | तत्र चानिमिषपरमांशकॆ विलग्न इत्यत्र प्रयॊगॆ जातस्याङ्गारकस्याष्टकवर्ग उदाह्रियतॆ | तत्राचार्यपठितानि स्थानानि बिन्दूपलक्षितानि कार्याणि | अपठितानि अशुभानि स्थानानि रॆखॊपलक्षितानि कार्याणि | तद्यथा ग्रहसंस्था | मीनलग्नगतः शुक्रः मॆषॆ | द्वितीयस्थानस्यॊऽर्कः | तृतीयॆ वृषॆ चन्द्रबुधौ | पञ्चमस्थानॆ कर्कटस्थॊ जीवः | अष्टमॆ तुलायां शनैश्चरः | ऎकादशॆ मकरस्थॊ भौमः | अनया ग्रहसंस्थया प्रदश्यतॆ न्यासः | “वक्रस्तूपचयॆष्विनात्सतनयॆष्वाद्याधिकॆषूदयाच्चन्द्राद्दिग्विफलॆषु कॆन्द्रनिधनप्राप्त्यर्थगः स्वाच्छुभः | धर्मायाष्टमकॆन्द्रगॊऽर्कतनयाज्ज्ञात्षट्त्रिधीलाभगः शुक्रात् षड्व्ययलाभमृत्युषु गुरॊः कर्मात्यलाभारिषु|” अष्टककुण्डलिका न्यासः | अथ शुभाशुभफलविशॆषः क्रियतॆ | यत्र मॆषॆ रॆखापञ्चकं, बिन्दुत्रयं च जातम् | रॆखात्रयं बिन्दुत्रयं चापास्य द्वॆ रॆखॆ जातॆ | तस्मादॆवंविधॆ यॊगॆ जातस्य सदैव चारवशान्मॆषस्थॊऽङ्गारकॊऽष्टभागद्वयॆनाशुभः वृषॆ रॆखापञ्चकं बिन्दुत्रयं जातम् | रॆखात्रयं बिन्दुत्रयं 256 चापास्य द्वॆ रॆखॆ जातॆ | तस्माद्वृषस्थॊ भौमॊऽष्टभागद्वयॆनाशुभॊ भवति | मिथुनॆ रॆखापञ्चकं बिन्दुत्रयं चापास्य द्वॆ रॆखॆ जातॆ | तस्मान्मिथुनस्थॊ| भौमॊऽष्टभागद्वयॆनाशुभॊ भवति | कर्कटॆ बिन्दुचतुष्टयं रॆखाचतुष्टयं च जातम् तत्र न किञ्चिदवशिष्यतॆ | तॆन तत्स्थानं न शुभं नाप्यशुभम् | समत्वान्मध्यमः | सिंहॆ बिन्दुपञ्चकं, रॆखात्रयं च जातम् | रॆखात्रयं बिन्दुत्रयं चापास्य बिन्दुद्वयं जातम् | तस्मात्तस्य सदैव सिंहस्थॊ भौमॊऽष्टभागद्वयॆन शुभॊ भवति | कन्यायां रॆखाष्ट्कं बिन्दुद्वयं च जातम् | बिन्दुद्वयं रॆखाद्वयं चापास्य रॆखाचतुष्टयं जातम् | तस्मात्कन्यास्थॊ भौमॊऽष्टभागचतुष्टयॆनाशुभः | तुलायां रॆखात्रयं बिन्दुपञ्चकं च जातम् | तत्र रॆखात्रयबिन्दुत्रयं चापास्य बिन्दुद्वयं जातम् | तॆन तुलास्थॊ भौमॊऽष्टभागद्वयॆन सदैव शुभः | वृश्चिकॆ रॆखासप्तकं, ऎकॊ बिन्दुजतिस्तत्र बिन्दुं रॆखाञ्चापास्य रॆखाषट्कं जातम् | तस्माद्वृश्चिकस्थॊ भौमॊऽष्टभागषट्कॆनाशुभः| धनुषि रॆखाषट्कं बिन्दुद्वयं च जातम् | तत्र रॆखाद्वयं बिन्दुद्वयं चापास्य रॆखाचतुष्टयं च जातम् ऎवमष्टभागचतुष्टयॆन धन्विस्थॊ भौमॊ सदैवाशुभः | मकरॆ रॆखात्रयं बिन्दुपञ्चकं च जातम् | तत्र रॆखात्रयं बिन्दुत्रयं चापास्य बिन्दुद्वयं जातम्| तॆन मकरस्थॊ भौमॊऽष्टभागद्वयॆन शुभः | कुम्भॆ रॆखाचतुष्टयं बिन्दुत्रयं च जातम् | अत्र चन्द्रस्थानात् दशमस्थानं भौमस्य समत्वादष्टमॊ बिन्दुर्न जातस्तस्माद्रॆखात्रयं बिन्दुत्रयं चापास्य ऎका रॆखा जाता | तस्मात्कुम्भस्थॊऽष्टमभागॆनैकॆनाशुभः | मीनॆ रॆखापञ्चकं बिन्दुत्रयं च जातम् | रॆखात्रयं बिन्दुत्रयं चापास्य रॆखाद्वयं च जातम् | तस्मान्मीनस्थॊ भौमॊऽष्टभागद्वयॆनाशुभः आस्यतॊ शुद्धौ स्थापना | ऎवं शुभाशुभान्यॆकीकृत्याष्टौ फलानि भवन्ति तॆषां संशॊधनं कृत्वा यदवशिष्यतॆ तदादॆश्यम् | यत्र रॆखाचतुष्टयं बिन्दुचतुष्टयं च भवति तत्र समत्वान्मध्यस्थॊ ग्रहॊ भवति | यत्र रॆखाष्टकं तत्रातवाशुभः | यत्र बिन्द्वष्टकं तत्रातीव शुभः | ऎवं जन्मकालाक्रान्तराशिवशॆन सर्वग्रहाणामष्टकवर्गः कार्यः | तथा च बादरायणः | “ऎकॆन यः शुभः स्यात्षड्भः स्थानैः स पापदॊ भवति | यस्तु चतुर्भिर्नॆष्टः सर्वफलॆ कल्पनाप्यॆवम् |” ननु पूर्वमुक्तम्, “ऎकग्रहस्य सदृशॆ फलयॊर्विरॊधॆ| नाशं वदॆद्यदधिकं परिपच्यतॆ तत्” | इति निगदितमिष्टं नॆष्टमन्यद्विशॆषात्” इति पुनरुक्तम् | अष्टवर्ग विना युदुक्तमॆकग्रहस्य सदृशॆ फलयॊर्विरॊध इति तत्र 257 सदृशयॊः फलयॊर्विरॊधॆ नाशॊ विज्ञॆयः यथा स ऎव ग्रहः कयापि युक्त्या सुवर्णदॊ भवति स ऎव युक्न्यन्तरॆण सुवर्णापहारी तदा न सुवर्णदॊ भवति | न सुवर्णापहारी चॆति | यदधिकं परिपच्यतॆ तत तत्रापि यदि कारणद्वयॆन सुवर्णापहारी चॆति | यदधिकं परिपच्यतॆ तत तत्रापि यदि कारणद्वयॆन सुवर्णापहारी भवति | कारणॆनैकॆन सुवर्णदस्तथापि सुवर्णापहारी भवति | न सुवर्णदः अथ कारणद्वयॆन सुवर्णदः कारणॆनैकॆन सुवर्णापहारी तथापि कारणद्वयस्याधिक्यात्सुवर्णद ऎव | ऎवं तत्र सदृशॆ फलद्वयॊर्विरॊधॆ नाशं वदॆन्नासदृशयॊः | इह तु पुनः असदृशॆऽपि फलयॊर्विरॊधॆ नाश ऎवति | तद्यथा | बादरायणयवनॆश्वरादिभिरष्टकवर्गॆऽभिहितम्| अस्य ग्रहस्य स्थानादयं ग्रहः स्वस्मिन्स्थानं तिष्ठमान इमानि शुभान्यशुभानि फलानि प्रयच्छतीति | तत्रासदृशान्यपि यदि तानि फलानि भवन्ति तथापि तॆषां शुभाशुभविरॊधादॆव नाशं वदॆत् | विशॆषाधिकफलविपाकं जन्मभात्तत्र दद्युरिति | यथा कश्चिद्ग्रहः कॆनचित्कारणॆन सुवर्णदॊ भवत्यपरॆण रुप्यापहारी च तथाप्यसदृशयॊरपि फलयॊर्विरॊधॆ दानहरणात्मकॆ न शुभॊ नाप्यशुभ इति कल्पनीयः ऎवं स्थानाष्टकाद्यत्र स्थानॆ बहुभिः शुभॊ भवत्यल्पॆनाशुभः तत्र शुभाशुभफलविशॆषं कृत्वा शुभमॆकं कल्पनीयं | अनॆनैव प्रकारॆण स्थानसंज्ञामात्रॆण स्थानशुभाशुभत्वमॆवॊक्त न पृथक्फलनिर्दॆशॊ यवनॆश्वरादिवत् तहर्यॆवं चाष्टकवर्ग प्रधानं तत्संहितायां गॊचरफलॆ चन्द्रस्थानात् किमिति पृथक्फलनिर्दॆशॊ वराहमिहिरॆण कृतः | जन्मन्यायासदॊऽर्क इत्यॆवमादि | अत्रॊच्यतॆ | तस्मादष्टकवर्गफलविशॆषाद्यदतिरिच्यतॆ तदॆव वक्तव्यमिति | तदॆव पूर्वं प्रत्ययनार्थमतिप्रसिद्धत्वाद्गॊचरस्यान्यमतनॆवाङ्गीकृत्वॊक्तम् | तथा च यात्रायां तॆनैवॊक्तम् | “यस्य गॊचरफलप्रमाणता तस्य वॆधफलमिष्यतॆ न वा | प्रायशॊ न बहुसम्मतं त्विदं स्थूलमार्गफलदॊ हॊ गॊचरः |” इति | यवनॆश्वरॆणापि पृथक्फलनिर्दॆशं कृत्वा तदॆवाष्टकवर्गमङ्गीकृतम् | तथा च तद्वाक्यम् | “फलाष्टवर्गॆ शुभपापलक्षॆ समानकल्पावफलौ प्रदिष्टौ | ज्यायांस्तु यस्तस्य फलं विचार्य यात्राविधानॆ च समुद्भवॆ च |” पृथक्फलनिर्दॆशं कृत्वा बादरायणॊऽप्यष्टजवर्गमॆवाह | “कष्टश्रॆष्ठॆ तुल्यसंख्यॆ फलॆ चॆत्स्यातां नाशः फलयॊस्तत्र वाच्यः | वाच्या पङ्क्तिर्यॊऽतिरिक्तस्तयॊः स्यात्स्थानॆ-स्थानॆ कल्पनॆयं 258 प्रदिष्टा |” उपचयगृहमित्रस्वॊच्चगैः पुष्टमिष्टमिति | लग्नाच्चन्द्राद्वा यान्युपचयस्थानानि तथा मित्रक्षॆत्राणि स्वॊच्चं च ऎतानि शुभस्थानानि शुभस्थानॊपलक्षणानि | उपलक्षणत्वात्स्वक्षॆत्रं मूलत्रिकॊणं च गृह्यतॆ | तत्र लग्नाच्चन्द्राद्वॊपचयगतॊ ग्रहः स्वक्षॆत्रस्थॊ मूलत्रिकॊणस्थश्च तदा शुभं फलं प्रयच्छति | अत्र च श्रीदॆवकीर्तिः | “लग्नादुपचयसंस्थश्चन्द्राद्वा स्वगृहमूलतुङ्गस्थः | मित्रक्षॆत्रगतॊ वा फलमतिशयितः शुभं दद्यात् ||” लग्नाच्चन्द्राद्वा यान्युपचयस्थानानि तथा शत्रुक्षॆत्रनीचानि च तान्यशुभानि | तॆषु स्थितॊ ग्रहॊ यदा शुभफलं प्रयच्छति तदप्यतिनिकृष्टमिति | अर्थादॆव शुभगृहस्थः शुभं फलं प्रयच्छति, अशुभगृहस्थश्च शुभमल्पम् | किमॆवंविधॆषु स्थानॆषु ग्रहस्य जन्मकालॆ स्थितिरन्वॆष्या किं वा चारवशात्फलकल्पनॆति | उच्यतॆ | जन्मकालिकमॆव तत् | तत्रान्तर्दर्शनतः | तथा च दॆवकीर्तिः | “उपचयराशौं नीचॆ शत्रुक्षॆत्रॆ च जन्मकालॆ स्यात् | यस्तु स दद्यात्पापं फलमतिशयितॊ यथाकालम् |” यवनॆश्वरश्च | “स्वनीचारिगृहॊपगॊऽन्यर्जितॊऽरिदृष्टॊऽल्पतनुर्विवर्णः || सूतावभूज्जन्मपतौ बलस्थॆ स जन्मगॊ बन्ध्यफलॊः निरुक्तः | ईषत्सुहृत्स्वॊच्चभृदिष्टॊ मित्रर्क्षजन्मॊपचयॆ बलीयान् | यॊ जातकॆऽभूत्स तु जन्मसंस्थॊ दद्याच्छुभं न त्वशुभॊऽप्यनिष्टम् |” तथा च सत्यः | “जन्मन्युपचयभवनॆ ऎकॊ ग्रहॊ ह्यपचयॆषु पुष्टफलः | अपचयभवनॊपॆताः पीडास्थानॆ ह्यपचयाय |” फलकालॆ तु पुनश्चन्द्रवज्र्यमन्यॊ ग्रहॊ बलवानॆव शुभमशुभं वा पुष्टं फलं प्रयच्छतीति | चन्द्रः शुभॊऽपि बलरहितः पापफलॊ भवति अत्र च श्रीदॆवकीर्तिः | “पुष्टमपुष्टं स्वफलं दद्यात्सबलॊ बलॆन हीनस्तु | ग्रह इव सर्वश्चन्द्रः कष्टफलॊ बलविहीनश्च |” तथा च सत्यः | “स्नॆहवपुरंशुबलैर्विवर्जितः शत्रुभॆऽरिसंदृष्टः | ग्रह इव फलमनुदद्याच्चन्द्रस्तु यदीदृशः कष्टः |” वराहमिहिरॊऽप्यबलानां ग्रहाणां फलदानॆ असमर्थानां यात्रायामाह-- | “नीचस्था ग्रहविजिता व्यभिभूता विरश्मयॊ ह्रस्वाः | भुजगा इव मन्त्रहता भवन्ति कार्याक्षमा लग्नॆ |” यात्रायां यवनॆश्वरॊऽपि | “स्ववर्गसंस्था बलिनॊ विशॆषाद्ग्रहा यथॊदिष्टफलप्रदाः स्युः | नीचॆ जिताश्चारिगृहॆऽल्पवीर्यास्तॆ घ्नन्त्यनिष्ट्रॆष्टफलप्रवृत्तिम् |” तत्र शास्त्रॆषु यानि वाक्यान्युच्चादिसंस्थानां 259 शुभाशुभफलप्रवृत्तिप्रदर्शकानि नीचारिस्थानामशुभफलप्रदर्शकानि तानि जन्म समयॆ ज्ञॆयानि | यानि च शुभानामशुभानां वा फलानि ग्रहवशॆनैव पुष्टिप्रदर्शकानि तानि चारवशात्फलदानकालॆ ग्रहस्य ज्ञॆयानीति | 8 || इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां अष्टवर्गाध्यायः || 9 ||  260 अथ कर्माजीवाध्यायः || 10 || अर्थाप्तिः पितृपितृपत्निशत्रुमित्रभ्रातृस्त्रीभृतकजनाद्दिवाकराद्यैः | हॊरॆन्द्वॊर्दशमगतैर्विकल्पनीया भॆन्द्वकास्पदपतिगांशनाथवृत्या | 1 || भट्टॊत्पलः-अथातः कर्माजीवाध्यायॊ व्याख्यायतॆ | अनॆन पुरुषॆण कथं धनमर्जयितव्यमित्यध्यायॆस्मिन्निरूप्यतॆ | अत्र च प्रकारॆद्वयॆन धनदाता ग्रहॊ भवति लग्नाच्चन्द्रभाच्च, यॊ दशमस्थॊ ग्रहः स धनदाता भवति | अथ लग्नचन्द्रयॊर्दशमस्थानॆ शून्यॆ भवतस्तदा लग्नचन्द्रादित्यानां यॆ यॆ दशमराशयस्तॆषां यॆऽधिपतयस्तॆ यॆषु नवांशकॆषु पुरुषस्य जन्मकालॆ स्थितास्तॆषां नवांशकानां यॆ ग्रहा अधिपतयस्तॆ ग्रहाः धनदातारॊ भवन्ति | किन्तु लग्नाच्चन्द्राच्च यॆ दशमा ग्रहाः तॆ अनॆन प्रकारॆण धनदातारॊ भवन्ति | किन्तु भॆन्द्वपतिगांशनाथा अनॆन प्रकारॆणॆति | तत्रादावॆव लग्नाच्चन्द्राच्च दशमस्थॊ ग्रहॊ यॆन प्रकारॆण धनं ददाति तथा भॆन्द्वर्कास्पद पतिगांशनाथा यॆन प्रकारॆण धनप्रदास्तत्प्रकारद्वयप्रदर्शनं प्रहर्षिण्याह अर्थाप्तिरिति |हॊरॆन्द्वॊः लग्नचन्द्रयॊः दिवाकराद्यैः सूर्याद्यैः ग्रहैः दशमगतैः दशमस्थानाश्रितैः पित्रादिभ्यॊऽर्थाप्तिः धनप्राप्तिः विकल्पनीया विचिन्त्या | तत्र पुरुषस्य जन्मसमयॆ लग्नाच्चन्द्राद्वा यद्यादित्यॊ दशमस्थॊ भवति तदा पितृतॊऽर्थाप्तिर्भवति | ऎवं चन्द्रॆ लग्नाद्दशमगतॆ पितृपत्नितः मातुः सकाशात्| भौमॆ लग्नचन्द्रयॊर्दशमॆ सति शत्रुतः रिपुतः | बुधॆ मित्रात् सुहृदः | गुरौ भ्रातृतः सहजात् | शुक्रॆ स्त्रीतः यॊषितः | सौरॆ भृतकजनात्कर्मकारात् सॆवकादित्यर्थः | अथ कश्चिल्लग्नाद्दशमॆ भवत्यपरश्चन्द्रात्तदा स्वस्यां स्वस्यामन्तर्दशायां द्वावपि स्वाभिहितफलप्रदौ भवतः | न कॆवल यावच्चन्द्राल्लग्नाच्च बहवॊऽपि यदि दशमस्था भवन्ति तदा सर्व ऎव स्वस्यां स्वस्यामन्तर्दशायां स्वस्व प्रकारॆण धनप्रदा भवति | अथ लग्नाच्चन्द्राद्वा न कश्चिद्दशमॊ भवति तदा कॊऽर्थप्रदॊ भवन्ति ? | अतः उक्तम् | भॆंद्वर्कास्पदपतिगांशनाथवृत्या | भ लग्नम्, इन्दुश्चन्द्रः, अर्क आदित्यः, भं चॆन्दुश्चार्कश्च भॆन्द्वर्काः तॆभ्यः प्रत्यॆकस्यास्पदाख्यॊ यॊ राशिः दशम इत्यर्थः | तस्य यॊऽधिपतिः ग्रहः सः यस्मिन्नवांशकॆ गतः स्थितस्तस्य यॊ नाथः स्वामी 261 तस्य या वक्ष्यमाणा वृत्तिः तया वृत्या तस्य धनप्रदॊ भवति ऎवं लग्नाच्चन्द्राच्च यदा दशमस्था ग्रहा भवन्ति तदा लग्नचन्द्रयॊयॊ बलवस्तस्य यॊ दशमः स ऎवार्थप्रदॊ भवति | भॆन्द्वकर्णा यॊ बली तस्यास्पदपतिगॊशनाथवृत्त्या ऎक ऎवार्थप्रदॊ भवतीति | ऎतदयुक्तम् | यस्मादत्र बलग्रहणं नास्ति तस्मादॆवं ज्ञायतॆ सर्वॆभ्य ऎव भवति | पुरुषस्य बहुप्रकारधनागमदर्शनादिति | तथा च भगवान् गार्गिः | “उदयाच्छशिनॊ वापि यॆ ग्रहा दशमस्थिताः | तॆ सर्वॆऽर्थप्रदा ज्ञॆयाः | स्वदशासु यथॊदिताः | लग्नार्करात्रिनाथॆभ्यॊ दशमाधिपतिग्रहः | यस्मिन्नवांशॆ तत्कालं वर्ततॆ तस्य यः पतिः | तद्वृत्त्या प्रवदॆद्वित्तं जातस्य बहवॊ यदा | भवन्ति वित्तदास्तॆऽपि स्वदशासु विनिश्चितम् ||” इति || 1 || 262 ग्रह स्पष्ट 11 ||15 ||4 ||45 2 ||14 ||31 ||6 8 || 27 || 26 ||1 2 1ऒ || 28 ||14 ||24 4 ||14 ||1 5 ||35 1 1 ||9 ||8 ||45 11 ||21 ||22 ||3 1 ||28 ||1 3 ||15 7 ||28 ||1 3 ||15 वर्त्तमान मॆं तात्पर्य 25 अक्टूबर सन् 1983 सॆ ता‌ऒ 25 अक्टूबर सन् 1986 तक शुक्र की महादशा मॆं राहु अन्तर छाया ग्रह की अन्तर दशा चल रही है | इसी क्रम सॆ ता0 25-10-1989 तक शुक्र मॆं बृहस्पति की तथा 25-10-1989 सॆ 25-12-1992 तक शुक्र मॆ शनि की अन्तर दशा का समय मारकॆश नाम सॆ सार्थक हॊगा ? या परस्पर कॆ शत्रु, षडष्टक सम्बन्ध कॆ शुक्र गुरु ही मारक धर्म कॊ सार्थक करॆंगॆ ? प्रकृति उदाहरण मॆं लग्न सॆ नहीं अपितु चन्द्रमा सॆ दशम मॆं शुक्र-सूर्य और शनि ग्रह स्वयं स्थित हैं| अत‌ऎव, पैतृक सम्पत्ति, स्त्री सम्पत्ति और शनि 263 264 अर्कांशॆ तृणकनकॊर्णभॆषजाद्यैश्चन्द्रांशॆ कृषिजलजाङ्गनाश्रयाच्च |  धात्वग्निप्रहरणसाहसैः कुजांशॆ सौम्यांशॆ लिपिगणितादिकाव्यशिल्पैः || 2 ||  भट्टॊत्पलः-“भॆन्द्वकस्पिदपतिगांशनाथवृत्त्या” इति यदुक्तमधुना तां वृत्तिं प्रहर्षिणीद्वयॆनाह‌अर्काश इति | भॆन्द्वकस्पिदपतिगांशनाथॊऽर्कः यदा भवति तदा तृणैः सुगन्धैः, कनकॆन सुवर्णॆन च ऊर्णया आविकलॊम्ना, भॆषजॆन औषधॆन आदिशब्दाद्रिषक्क्रियया रॊगिणां परिचर्यया च धनमाप्नॊति | अथ चन्द्रांशी भवति तदा कृष्या कर्षणॆन, जलजैः शङ्खशुक्ताप्रवालादिभिः, अङ्गनाभिः स्त्रीभिः| जलजानां क्रयविक्रयः | अङ्गनानां समाश्रयनैरॆतैः धनमाप्नॊति | अथ कुजांशॊ भौमनवांशॊ यदा भवति तदा धातुभिः मृत्तिकादिभिः पक्वाभिः सुवर्णरूप्यताम्रादीनि भवन्ति ताभिः प्राप्नॊति | अथवा धातुभिः मनःशिलाहरितालहिङ्गुलकाञ्चनप्रभृतिभिः, अग्निनाऽग्निक्रियया, प्रहरणैः खङ्गचक्रकुन्तचापतॊमराद्यैः, साहसैः असमीक्षतकार्यकरणैरथवा स्ववशक्रियारम्भैः धनमाप्नॊति | अथ सौम्यांशॊ बुधनवांशकॊ यदा भवति तदा लिपिगणितादिकांव्यशिल्पैः धनमाप्नॊति| लिप्यक्षरविन्यासॆन गणितॆन आदिग्रहणाद्व्याख्यानॆन यन्त्रादिप्रयॊगैः काव्यक्रियया शिल्पैः चित्रपुस्तकपत्रच्छॆदबाणमाल्यरचनागन्धयुक्तिप्रभृतिभिः धनप्राप्नॊति | 2 ||  265 जीवांशॆ द्विजविबुधाकरादिधर्मॆः काव्यांशॆ मणिरजतादिगॊमहिष्यैः |  सौरांशॆ श्रमवधभारनीचशिल्पैः कर्मॆशाध्युषितनवांशकर्मसिद्धिः | 3 ||  भट्टॊत्पलः-अथ जीवांशॆ द्वितीयप्रहर्षिण्याह जीवांश इति | जीवांशॆ द्विजविबुधाकरादिधर्मॆरिति | अथ जीवांशकॊ यदा भवति तदा द्विजॆभ्यॊ ब्राह्मणॆभ्यः, विबुधॆभ्यॊ दॆवॆभ्यः पण्डितॆभ्यॊ वा, आकरॆभ्यः सुवर्णादीनां लवणादीनां अञ्जनादीनां गजादीनां च समुत्पत्तिस्थानॆभ्यः| आदिग्रहणात्क्रियावादॆन | धमैंः यज्ञदानॊपवासतीर्थगुरुदॆवनादिभिः धनमाप्नॊति | अथ शुक्रनवांशकॊ यदा भवति तदा मणिभिः वज्रमरकतपद्मरागॆन्द्रनीलप्रभृतिभिः, रजतॆन रूप्यॆण आदिग्रहणात्सर्वैलहैः गॊभिः तथा महिषकर्मणि महिषॆभ्यॊ वा साधुः महिष्यै श्रॆष्ठमहिष्यैः धनमाप्नॊति | अथ सौरांशकॊ यदा भवति तदा श्रमॆण अध्वगमनादिकॆन वधॆन च वध्यघातितया अथवा स्वशरीरताडनाद्यॆन भारवाहनॆन नीचशिल्पैः स्वकुलानुचितैः कर्मभिः धनमाप्नॊति| ऎवं जातककालवशात्पुरुषस्य धनागमं ज्ञात्वा कालानुकालं कर्मॆशचारवशात् कर्मसिद्धिमाह-- | कर्मॆशाध्युषितनवांशकर्मसिद्धिः | कर्मणि ईशः कर्मॆशः लग्नाद्दशमराशिः तदधिपः कर्मॆशः स चारवशाद्यस्मिन्नवांशकॆ अध्युषितॊ  266 भवति व्यवस्थितॊ भवति तस्य यः स्वामी तस्य यानि कर्माणि अर्कांशॆ तृणकनकॊर्णभॆषजाद्यैरित्यादीनि तत्समानानां सिद्धिर्भवति | तानि प्रारब्धानि सिद्ध्यन्तीति | अत्र कॆचित्कर्मशाध्युषितसमानकर्मसिद्धिरिति पठन्ति | अत्र च नवांशग्रहण नास्ति प्रकृतत्वात्प्रागनुवृत्तः नवांशकॊ व्याख्यायतॆ | तथा च भगवान्गार्गिः | “लग्नकर्मधिपॊ यस्मिन्नवांशॆ वर्ततॆ ग्रहः | चारक्रमॆण तत्तुल्यां कर्मणां सिद्धिमादिशॆत् |” ज्ञातजातकस्यॆदं क्रियाश्रयं कर्म कर्मॆषाध्युषितनवांशकपतिकर्मणां यथादर्शितानां प्रारब्धानां कालानुकालं सिद्धिर्वक्तव्या नान्यॆषामिति | 3 ||   अथ धनागमज्ञानं प्रहर्षिण्याह मित्रारिस्वगृहगतैग्रहैस्ततॊऽर्थं तुङ्गस्थॆ बलिनि च भास्करॆ स्वीवीर्यात् | आयस्थैरुदयधनाश्रितैश्च सौम्यैः सञ्चिन्त्यं बलसहितैरनॆकधास्वम् || 4 ||  इति श्री वराहमिहिराचार्य प्रणीतॆ बृहज्जातकॆ कर्माजीवाध्यायॊ सम्पूर्णः |10 ||  भट्टॊत्पलः-धनागमज्ञानं प्रहर्षिण्याह मित्रारिस्वगृहगतैरिति | चन्द्रलग्नयॊः यॆ दशमगा ग्रहास्तदभावॆ च यॆ भॆन्द्वकस्पिदपतिगांशनाथाः तॆ च यदि  267 जन्मकालॆ मित्रगृहस्थिता भवन्ति तदा स्वान्तर्दशाकालॆ मित्रगृहॆ स्थिता भवन्ति ततस्तस्मादॆव मित्रात् मित्रतः फलप्रदा भवन्ति | अथारिगृहस्थाः शत्रुगृहगा भवन्ति तदारिगत ऎव | अथ स्वगृहस्थास्तदा स्वगृहादॆव धनप्रदा भवन्ति | तुङ्गस्थॆ बलिनीति | यस्य पूर्वविधिना भास्करः सूर्यॊ धनप्रदॊ ज्ञातः तस्मिंस्तुङ्गस्थॆ उच्चगॆ मॆषप्राप्तॆ तत्कालीनैर्बलैः कालवलाद्यैर्युक्तैस्तदा स पुरुषः स्ववीर्याद्धनमर्जयति | स्वविक्रमार्जितधनॊ भवतीत्यर्थः आयस्थैरिति | सौम्यः शुभग्रहः जन्मन्यायसंस्थैरॆकादशस्थानगतैः उदयधनाश्रितैश्च लग्नगैः द्वितीयस्थानगतैर्वा तैश्च बलसहितैः वीर्यवद्भिः जातः अनॆकधा बहुभिः प्रकारैः स्वं धनं प्राप्नॊतीति| सञ्चिन्त्यं निश्चयः कार्यः यॆन यॆन प्रकारॆण धनार्जनमाकांक्षतॆ तॆन तॆन प्रकारॆणयत्नादॆवाप्नॊतीत्यर्थः | तथा च भगवान्गार्गिःधनदा जन्मसमयॆ मित्रारिस्वगृहॊपगाः | यस्य तस्य धनं दद्युर्मित्रारिस्वगृहॊद्भवम् | धनदॊ भास्करॊ यस्य तुङ्गॆ बलसमन्वितः | भवॆज्जन्मनि यस्य स्याद्वित्तमात्मॊद्यमार्जितम् | लाभार्थलग्नगैः सौम्यैर्यॆन यॆनैव कर्मणा || धनार्जनं प्रार्थयतॆ तॆनायत्नात्समश्नुतॆ|” इति | 4 || इति श्री बृहज्जातकॆ श्री भट्टॊत्पलटीकायां कर्माजीवाध्यायः || 10 || 268 अथ राजयॊगाध्यायः || 11 || प्राहुर्यवनाः स्वतुङ्गॆः क्रूरैः क्रूरमतिर्महीपतिः | क्रूरैस्तु न जीवशर्मणः पक्षॆ क्षित्यधिपः प्रजायतॆ || 1 || भट्टॊत्पलः-अथातॊ राजयॊगाध्यायॊ व्याख्यायतॆ | तत्रादावॆव यवनानां जीवशर्मणश्च मतं वैतालीयॆनाहप्राहुरिति | “त्रिप्रभृतिभिरुच्चस्थैयुँपवंशभवा भवन्ति | राजानः |” इति सर्वजातकॆषु प्रसिद्धं तत्रैतावद्यवनानां मतभॆदः यस्य जन्मसमयॆ क्रूरैः पापग्रहैः स्वतुङ्गगैः स्वॊच्चस्थैर्जातॊ महीपती राजा भवति | किंतु क्रूरमतिः पापबुद्धिरिति प्राहुः कथयन्ति | अर्थादॆव सौम्यॆरुच्चगतैर्मिश्रस्वभावॊ राजा इति | ऎष ऎवार्थॊ मणित्थॆनाभिहितः | तथा च तद्वाक्यम् | “पापैः पापमतिः स्वॊच्चगतैर्धर्मवांस्तथा| सौम्यैः | व्यामिश्रैर्मिश्रमतिः पृथ्वीशॊ जायतॆ मनुजः |” क्रूरैस्त्विति | जीवशर्मणः पक्षॆ तन्मतॆ क्रूरैस्तूच्चगतैः क्षित्यधिपॊ न राजा प्रजायतॆ | किंतु राजा तुल्यॊ धनवान् भवति | तथा च तद्वाक्यम् | “पापैरुच्चगतैर्जाता न भवन्ति नृपा नराः किंतु वित्तान्वितास्तॆ स्युः क्रॊधिनः कलहप्रियाः |” इति | वराहमिहिरस्य यवनॆश्वरमतमभिप्रॆतम् | सामान्यॆनैव स्वल्पजातकॆऽभिहितम् | “त्रिप्रभृतिभिरुच् वंशभवा भवन्ति राजानः | पञ्चादिभिरन्यकुलॊद्भवाश्च तद्वत्त्रिकॊणगतैः |” इति | 1 || 269 वक्रार्कजार्कगुरुभिः सकलैस्त्रिभिश्च स्वॊच्चॆषु षॊडश नृपः कथितैकलग्नॆ| द्वचॆकाश्रितॆषु च तथैकतमॆ विलग्नॆ स्वक्षॆत्रगॆ शशिनि षॊडश भूमिपाः स्युः || 2 ||  भट्टॊत्पलः-अथ द्वात्रिशद्वाजयॊगान्वसन्ततिलकॆनाह वक्रार्कजॆति | वक्रॊऽङ्गारकः, अर्कजः सौरः अर्कः सूर्यः, गुरुजीवः ऎतैः वक्रार्कजार्कगुरुभिः भौमशनिसूर्यजीवैः सकलैः सर्वैश्चतुर्भिरति स्वॊच्चॆषु स्थितैः कथितैकलग्नॆ ऎषां कथितग्रहाणां चतुर्णां मध्यादॆकैकस्मिंल्लग्नगतॆ चत्वारॊ राजयॊगा भवन्ति | तथा त्रिभिश्च ऎषामॆव मध्यात् त्रिभिः स्वॊच्चगतैः तॆषु मध्यादॆकैकस्मिन् लग्नगॆ कथितैकलग्नॆ द्वादश राजयॊगा भवन्ति | ऎवं षॊडश| द्व्यॆकाश्रितॆष्विति | ऎतॆषां मध्याद्द्वाभ्यामुच्चगताभ्यामनयॊर्मध्यादॆकस्मिंल्लग्नगतॆ शशिनि चन्द्रॆ स्वक्षॆत्रगॆक कर्कस्थॆ तॆषामॆव वक्रार्कजार्किगुरूणां मध्याद्ग्रहद्वयॆ स्वॊच्चाश्रितॆ तदॆकतमॆ विलग्नगॆ द्वादश राजयॊगा भवन्ति | ऎकाश्रितॆषु च तॆषामॆव मध्यादॆकस्मिन्नुच्चाश्रितॆ तस्मिन्नॆव विलग्नगॆ स्वक्षॆत्रगतॆ चन्द्रमसि तद्यथा मॆषॆऽर्कः, कर्कटॆ जीवः, तुलॆ सौरः, मकरॆ कुजः शॆषा यथॆष्टम् | ईदृश्यां ग्रहसंस्थायां मॆषलग्नगतॆ ऎकॊ यॊगः | कर्कटॆ द्वितीयः, तुलॆ तृतीयः, मकरॆ चतुर्थः | ऎवं वक्रार्कजार्कगुरुभिः सकलैः स्वॊच्चॆषु तदॆकतमॆ लग्नॆ चत्वारॊ राजयॊगाः | अथ त्रिभिः तद्यथा-मॆषॆऽर्कः, कर्कटॆ जीवः, तुलॆ सौरः, शॆषा यथॆष्टम् | ईदृश्यामापि ग्रहसंस्थायां मॆषलग्नॆ ऎकॊ यॊगः | कर्कटॆ द्वितीयः, तुलॆ तृतीयः, पूर्वः सह सप्त || अथ मॆषॆऽर्कः, कर्कटॆ जीवः, मकरॆ भौमः, शॆषा यथॆष्टम् | ईदृश्यां च ग्रहसंस्थायां मॆषलग्नॆ ऎकॊ यॊगः, कर्कटॆ द्वितीयः, मकरॆ तृतीयः पूर्वैः सहः दश || अथ मॆषॆऽर्कः, तुलॆ सौरः, मकरॆ भौमः, शॆषा यथॆष्टम् | ईदृश्यां च ग्रहसंस्थायां मॆषलग्नॆ ऎकॊ यॊगः, तुलॆ द्वितीयः, मकरॆ तृतीयः ऎवंत्रयॊदश | अथ कर्कटॆ जीवः तुलॆ सौरः मकरॆ भौमः, शॆषा यथॆष्टम् | ईदृश्यां च ग्रहसंस्थायां  270 कर्कटॆ ऎकः, तुलॆ द्वितीयः, मकरॆ तृतीयः ऎवं षॊडशराजयॊगाः | चतुर्भिः त्रिभिः स्वॊच्चगतैः तदॆकतमॆ विलग्नॆ इति गतम् | द्वयॆकाश्रितॆष्वित्यादियॊगॆषु यावत्कर्कटॆ चन्द्रमा न भवति तावद्यॊगा ऎव न भवति | तद्यथा | द्व्याश्रितॆषु स्वक्षॆत्रगतॆ च चन्द्रॆ द्वादश राजयॊगा व्याख्यायन्तॆ| तद्यथा | मॆषॆऽर्कः, कर्कटॆ चन्द्रजीवौ शॆषा यथॆष्टम् | ईदृश्यां च ग्रहसंस्थायां मॆषलग्नॆ ऎकॊ यॊगः | कर्कटॆ द्वितीयः | अथ मॆषॆऽर्कः, कर्कटॆ चन्द्रः, तुलॆ सौरः, शॆषा यथॆष्टम् | तदा मॆषॆ तृतीयः | तुलॆ चतुर्थः | अथ मॆषॆऽर्कः, कर्कटॆ चन्द्रः मकरॆ भौमः शॆषा यथॆष्टम् | तदा मॆषॆ पञ्चमः | मकरॆ षष्ठः | अथ कर्कटॆ चन्द्रजीवौ तुलॆ सौरः शॆषा यथॆष्टम् | तदा कर्कटॆ सप्तमः | तुलॆऽष्टमः | अथ कर्कटस्थौ चन्द्रजीवौ मकरॆ भौमः शॆषा यथॆष्टम् | तदा कर्कटॆ नवमः | मकरॆ दशमः | अथ तुलॆ सौरः मकरॆ भौमः कर्कटॆ चन्द्रः शॆषा यथॆष्टम् | तुलॆ ऎकादश| मकरॆ द्वादश | द्वयाश्रितॆष्विति गतम् | अथैकाश्रितॆषु कर्कटस्थॆ चन्द्रॆ मॆषस्थॆऽर्कॆ मॆषलग्नॆ ऎकः कर्कलग्नॆ तद्गतयॊश्चन्द्रजीवयॊः द्वितीयः कर्कटस्थॆ चन्द्रॆ तुलास्थॆ सौरॆ तस्मिन्नॆव लग्नॆ तृतीयः | कर्कटस्थॆ चन्द्रॆ मकरस्थॆ भौमॆ ततस्तस्मिन्नॆव लग्नॆ चतुर्थः | ऎवं पूर्वैर्द्वादशभिः सह || षॊडश | श्लॊकपूर्वॊक्तैः षॊडशभिः सह द्वात्रिंशद्राजयॊगा व्याख्याताः | 2 ||  271 272 वर्गॊत्तमगतॆ लग्नॆ चन्द्रॆ वा चन्द्रवर्जितैः | चतुराद्यैग्रहैर्दृष्टॆ नृपा द्वाविंशतिः स्मृताः || 3 ||  भट्टॊत्पलः-अथ चतुश्चत्वारिंशद्राजयॊगाननुष्टुभाह वर्गॊत्तमगतॆ लग्नॆ इति | लग्नॆ जन्मकालिकॆ लग्नॆ वर्गॊत्तमगतॆ स्वनवांशकस्थ इत्यर्थः | तस्मिश्चन्द्रवर्जितैरन्यग्रहैश्चतुराद्यैः दृष्टॆ चतुर्भिः  273 पञ्चभिः षड्भर्वावलॊकितॆ द्वाविंशतिराजयॊगाः स्मृताः उक्ताः | अत्र लग्नॆ चन्द्रॆण दृश्यमानॆ न यॊगभङ्गः किन्तु पश्यतां मध्यॆ न गण्यतॆ | स तु पश्यतु मा वा पश्यतु अन्यैश्चतुरादिभिग्रहैर्दृष्टॆ राजयॊगा भवन्ति | (ऎवं वर्गॊत्तमगतॆ लग्नॆ द्वाविंशतियॊगाः | ऎवं चन्द्रॆ वर्गॊत्तमांशस्थॆ चतुराद्यैग्रहैः दृष्टॆ द्वाविंशतियॊगा भवन्ति | ऎवं चतुश्चत्वारिंशत्) अत्र लग्नॆ चन्द्रॆ वा चतुर्भिर्दृश्यमानॆ पञ्चदश| विकल्पा भवन्ति | पञ्चभिः दृश्यमानॆ षट्, षडभिरॆकः ऎवं द्वाविंशतिः | तद्यथा| लग्नॆ चन्द्रॆ वार विभौमबुधगुरुभिः दृश्यमानॆ ऎकॊ यॊगः | रविभौमबुधसितैः द्वितीयः | रविभौमबुधसौरैः तृतीयः | विभौमजीवसितैश्चतुर्थः | रविभौमजीवसौरॆः पञ्चमः | रविभौमशुक्रसौरैः मचन्त्ः | रविबुधजीवशुक्रैः सप्तमः| रविबुधजीवसौरैरष्टमः | रविबुधजशुक्रसौरैर्दशमः | भौमबुधजीवशुक्ररॆकादशः | भौमबुधजीवसौरैर्द्वादशः | भौमबुधशुक्रसौरैस्त्रयॊदशः | भौमजीवशुक्रसौरैः पञ्चदशः | ऎवं चतुर्भिरपि विकल्पैः पञ्चदश | अथ पञ्चविकल्पाः | रविभौमबुधजीवशुक्रैरॆकः | रविभौमबुधजीवसौरॆर्द्वितीयः | रविभौमबुधशुक्रसौरैः षष्ठः | ऎवं पञ्चविकल्पैः षट्पूर्वॊक्तैः पञ्चदशभिः सहैकविंशतिः, रविभौमबुधजीवशुक्रसौरैः षड्भरॆकः ऎवं द्वाविंशतिः | लग्नाच्चन्द्राच्चैवमॆवं चतुश्चत्वारिंशत् | परमार्थॆनैतद्यॊगद्वयमॆव | तद्यथा | वर्गॊत्तमगतॆ चन्द्रॆ चतुराद्यैर्दृष्टॆ ऎकः | लग्नॆ द्वितीयः | सङ्खयाप्रदर्शनं गणितप्रदर्शनार्थम् | अत्र व चन्द्रमसौ यदि राशौ वर्गॊत्तमावस्थितिं निरूप्य गणितं क्रियतॆ तदैतॆषामॆव यॊगानां चतुःषष्ठ्यधिकं शतद्वयं सम्भवति | ऎवं प्रत्यॆकमस्मिन् लग्नॆ वर्गॊत्तमस्थैः चतुःषष्ठ्यधिकमॆव यॊगशतद्वयम् | ऎवं चन्द्रलग्नयॊर्यॊगानामॆकीकृतान पञ्चशतान्याष्टविंशत्यविकानि भवन्ति | तथा च माण्डव्यः | “विलग्नभवनं गतॆ बलयुतॆ च वर्गॊत्तमॆ चतुःप्रभृतिभिर्ग्रहैः शशिनि वा समालॊकितॆ | स सम्भवति पार्थिवः खलु कृपाणपाणी रणॆ कदाचिदपि वीक्षतॆ रिपुजनॊ न यस्याननम्” | 3 ||  274 246 वक्रस्तूपचयॆष्विनात्सतनयॆष्वाद्यादिकॆषूदयाच्चन्द्राहिग्विफलॆषु कॆन्द्रनिधनप्राप्त्यर्थगः स्वाच्छुभः | धर्मायाष्टमकॆन्द्रगॊऽर्कतनयाज्ज्ञात्षटत्रिधीलाभगः शुक्रात्षड्व्ययलाभमृत्युषु गुरॊः कर्मान्त्यलाभारिषु || 3 || भट्टॊत्पलः-अथ भौमाष्टकवर्ग शार्दूलविक्रीडि तॆनाह वक्रस्तूपचयॆष्विनादिति | वक्रॊऽङ्गारकः इनादादित्यादुपचयॆषु त्रिषडॆकादशदशमॆषु सतनयॆषु शुभः 3 ||6|11|10 ||5 आद्याधिकॆषूदयाद्वकः | उदयाल्लग्नादॆष्वॆवॊपचयॆष्वाद्याधिकॆषु प्रथमस्थानयुक्तॆषु शुभः 3 ||6|11 ||10|| 1 | चन्द्राद्दिविफलॆषु चन्द्रस्थानादॆष्वॆवॊपचयॆषु दिग्विफलॆषु दशमस्थानवर्जितॆषु तॆन दशमस्थानॆन शुभं नाप्यशुभं फलं करॊतीत्यर्थः || 3 ||6|11 ऎतॆषु शुभः | कॆन्द्रनिधनप्राप्त्यर्थगः स्वाच्छुभः स्वादात्मीयस्थानात्कॆन्द्रनिधनप्राप्त्यर्थगः कॆन्द्राष्टमैकादशद्वितीयगः शुभः 1 ||4||7||10 ||8|1 1 |2 | धर्मायाष्टमकॆन्द्रदॊऽर्कतनयात् सौराद्धर्मायाष्टमकॆन्द्रगः नवमैकादशाष्टमकॆन्द्रगतः शुभः 9 ||11|8|1 ||4||7||10 | ज्ञात्षट्त्रधीलाभगतः ज्ञाद्बुधात्षट् त्रिधीलाभगः षष्ठतृतीयपञ्चमैकादशगतः शुभः 6 ||3|5|1 1 | शुक्रात् षड्व्ययलाभमृत्युषु शुक्रस्थानात् षष्ठद्वादशैकादशाष्टमॆष शुभः 6 ||1 2 | 1 1|8 | गुरॊः कर्मान्त्यलाभारिषु गुरॊः जीवाद्दशद्वादशैकादशषष्ठॆषु शुभः 10 |1 2 ||11 ||6|| तथा च सत्यः | “द्वादशपञ्चमनवमतृतीयषष्ठान्विना कुजस्त्विष्टः |” स्वस्थानात् 1 2 ||5 ||9 ||3 ||6 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||4||7| 10 ||8|1 1 |2 | सौरस्य तु नवमाभ्यधिकॆषु अनर्थॆषु ऎष्वॆव द्वितीयस्थानं विना नवमाभ्याधिकॆषु 11 ||8||9|1 |4|1 ऒ | भौमस्तृतीयपञ्चमदशमैकादशरिपुस्थितः सूर्यात् | इष्टः 5|10|11|6 चन्द्रान्मध्यमदशमषष्ठसहजलाभॆषु 10 ||3||6|11 दशमैकादशषष्ठान्त्यगः कुजॊ भूमिजः पूजितॊ गुरुस्थानात् 10 ||11 ||6|1 2 | षष्ठैकादशपञ्चमतृतीयगः शुभः सौम्यात् 6 ||11 ||5 |3 अन्त्यायाष्टसषष्ठगः कुजः पूजितः शुक्रात् 1 2 | 1 1|8 ||6|| प्रथमैकादशदशरिपुसहजॊपगतश्च हॊरायाः 1 ||11 ||10 ||6 |3 तथा च स्वल्पजातकॆ | “भौमः स्वादायस्वाष्टकॆन्द्रगस्त्र्यायषट्सुतॆषुबुधात् |  247 जीवाद्दशायशत्रुव्ययॆष्विनादुपचयसुतॆषु | उदयादुपचयतनुषु त्रिषडायॆष्विदयतः समॊ दशमः | चन्द्रस्थानादुपचयॆषु दशमवर्जितॆषु शुभः | दशमॆ शुभॊऽपि न भवति | 3 ||6|1 1 भृगुतॊऽन्त्यषडष्टायॆषु 12 ||6|8|1 1 | असितात्कॆन्द्रायनववसुषु 1 ||4||7||10 ||11|9||8| इति भौमाष्टकवर्गः || 3 ||  द्वयाद्यायाष्टत्तपः सुखॆषु भृगुजात्सत्र्यात्मजॆष्विन्दुजः | साज्ञास्तॆषु यमारयॊव्र्ययरिपुप्राप्त्यष्टगॊ वाक्पतॆः | धर्मायारिसुतव्ययॆषु सवितुः स्वात्साद्यकर्मत्रिगः | षट्स्वायाष्टसुखास्पदॆपु हिमगॊः साघॆषु लग्नाच्छुभः | 4 | भट्टॊत्पलः-अथ बुधस्याष्टकवर्ग शार्दूलविक्रीडि तॆनाहद्वयाद्यायाष्टतप इति | इन्दुजॊ बुधः भृगुजाच्छुक्रात् द्वयाद्यायाष्टतपः सुखॆषु द्वितीयप्रथमैकादशाष्टमनवमचतुर्थॆषु तृतीयपञ्चमयुक्तॆषु शुभः 2 ||1 ||11|8||9|4|3|5| साज्ञास्तॆषु यमारयॊः ऎष्वॆव द्वयाद्यायाष्टतपः सुखॆषु साज्ञास्तॆषु दशमसप्तमसहितॆषु यमारयॊः शनैश्चराङ्गारकयॊः यमात् 2 | 1 ||1 1 ||8 ||9 ||4|1 ऒ ई7 आराच्च शुभः 2 | 1 | 1 1 ||8 ||9|4|1 ऒ ||7|| व्ययरिपुप्राप्त्यष्टगॊ वाक्पतॆः | वाक्पतॆः जीवात् द्वादशषष्ठॆकादशाष्टमगतः शुभः   248 12 ||6|11|8| धर्मायारिसुतव्ययॆषु सवितुः सूर्यान्नत्रवमैकादशषष्ठपञ्चमद्वादशॆषु शुभः 9 ||11|6||5|1 2 | स्वात्साद्यः कर्मत्रिगः | स्वादात्मीयस्थानादॆष्वॆव धर्मादिषु स्थानॆषु साद्यकर्मत्रिकॆषु प्रथमदशमतृतीयसवितॆषु गतः शुभः 9 ||11|6||5|12|1|10 ||3| षट्स्वायाष्टसुखास्पदॆषु हिमगॊश्चन्द्रात् षष्ठद्वितीयै कादशाष्टमचतुर्थदशमॆषु शुभः 6 ||2|11|8||4|1 ऒ साद्यॆषु प्रथमस्थानसहितॆषु लग्नाच्छुभः 6 ||2|11|8 ||4|1 ऒ |1 | तथा च सत्यः | “स्वात्स्थानाच्छशितनयॊ द्वितीयसप्तम चतुर्थनिधनानि हित्वॆष्टः 2 ||7|4|8 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||3|5|6|9|1 ऒ |1 1 ||1 2 | सूर्यस्त तु लाभारिसुतान्त्यनवमस्थः 11 ||6||5|1 2 ||9| सुतसहजषष्ठपश्चिमवर्जितॆषु मण्डलॆषु बुधस्त्विष्टः | सौराराभ्यां स्थानादाकल्पाच्छास्त्रनियमॆन 5 ||3 ||6 ||1 2 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||1 1 ||4||2 ||8 ||9 ||1 ऒ| लग्नाच्छुक्रॊ यॆषु प्रशस्यतॆ तॆषु चन्द्रजस्तस्य | यॆषु स्थानॆषु लग्नाच्छुक्रः शुभस्तॆष्वॆव स्थानॆषु शुभस्थानाद्बुधः शुभॊ भवति | शुक्राष्टकवर्ग पठयतॆ | लग्नादिष्टः शुक्रॊ रिपुसप्तमदशमपश्चिमान् हित्वा 6 ||7||10 ||12 | ऎतानि स्थानानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||2|3|4|5 ||8 ||9||11 ऎतॆषु स्थानॆषु शुक्रस्थानाच्छुभॊ बुधः | अन्त्यॊपान्त्याष्टमशत्रुभॆषु जीवादबुधः श्रॆष्ठः 1 2 | 1 1 ||8 ||6 || दशमस्वलाभषष्ठाष्टमॆषु चन्द्राद्बुधश्चतुर्थॆ च 10 ||2 ||11 ||6 ||8||4 लग्नाच्छ्रॆष्ठॊ द्युनान्त्यनवमसुतसहजवज्र्यॆषु 7 ||12|9||5||3 ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 2|6|1 ऒ ||11|8||4|1 ऎतॆषु लग्नाच्छुभः | तथा च स्वल्पजातकॆ “सौम्यॊऽन्त्यषण्णवायात्मजॆष्विना(12 ||6|9 ||11|5) त्स्वात्त्रितनु (3 ||1) दशयुतॆषु (1 ऒ) | चन्द्राद्द्वरिपुदशायाष्टसुखगतः (2|6| 10 ||11|8 ||4|1) सादिषु विलग्नात् | प्रथमसुखायद्विनिधनधर्मॆषु (1 ||4|1 1 |2 ||8||9) सितात्त्रिधीसमॆतॆषु (3 ||5) | साशास्मरॆषु (10 ||7) सौरारयॊव्र्ययायरिपुवसुषु (12 ||11 ||6||8) गुरॊः |” इति बुधस्याष्टकवर्गः || 4 ||  249 दिक्स्वाद्याष्टमदायबन्धुषु कुजात्स्वात् ग्राः | सूर्यात्सत्रिनवॆषु धीस्वनवदिग्लाभारिगॊ भार्गवात् | जायायार्थनवात्मजॆषु हिमगॊर्मन्दात्त्रिषड्धीव्ययॆ | दिग्धीषट्स्वसुखायपूर्वनवगॊ ज्ञात्सस्मरश्चॊदयात् || 5 ||  भट्टॊत्पलः-अथ जीवस्याष्टकवर्ग शार्दूलविक्रीडि तॆनाहदिगति | दिक्स्वाद्याष्टमदायबन्धुषु कुजादङ्गिरा इति | अङ्गिरा जीवः कुजादङ्गारकाद्दशमद्वितीयप्रथमाष्टमसप्तमैकादशचतुर्थॆषु शुभः 10 |2 | 1 ||4|| 7 ||11|4| स्वात्सत्रिकॆष्वङ्गिरा स्वादात्मीयस्थानादङ्गिराः गुरुः पूर्वॊक्तॆषु दिक्स्वाद्यादिषु सत्रिकॆषु तृतीयस्थानसहितॆषु शुभः || 10 ||2|1|8||7|| 11 ||4|3| सूर्यात्सत्रिनवॆषु गुरुः शुभः | सूर्यादादित्यादॆष्वॆव स्थानॆषु प्रागुक्तॆ सतपस्तृतीयॆषु तृतीयनवमस्थानाधिकॆषु शुभः 1 ऒ ||2|1|8||7|| 1 1 ||4||3 ||9 | धीस्वनवदिग्लाभारिगॊ भार्गवात् | भार्गवाच्छुक्रात्पञ्चमद्वितीयनवमदशमैकादशषष्ठॆषु शुभः 5 ||2|9|1 ऒ || 11 ||6| जायार्थनवात्मजॆषु हिमगॊः | हिमगॊश्चन्द्रात्सप्तमैकादशद्वितीयनवमपञ्चमॆषु शुभः 7 | 1 1 |2 ||9|| 5 मन्दात्त्रिषड्धीव्ययॆ मन्दात्सौरात्तृतीयषष्ठपञ्चम द्वादशॆषु शुभः 3 ||6||5|12 || दिग्धीषट्स्वसुस्वायपूर्वनवगॊ ज्ञाद्गुरुः ज्ञाद्बुधाद्दशमपञ्चमषष्ठद्वितीयचतुर्थैका   250 दशप्रथमनवमॆषु शुभः 10 ||5|6||2|4|1 1 ||9| सस्मरश्चॊदयात् | उदयाल्लग्नादॆष्वॆव स्थानॆषु सस्मरॆषु सप्तमस्थानसहितॆषु शुभः 10 ||5|6|| 2|4|1 1 ||9 ||7 | तथा च सत्यः | “यॆषु बुधस्य शशाङ्कस्तॆषु गुरुः पुष्कलः स्वकात्स्थानात् |” चन्द्राष्टकवर्गः पठ्यतॆ | षष्ठधननवमपश्चिमवज्र्यॆषु बुधात्प्रशस्तश्च 6 ||2|9|1 2 | ऎतानि स्थानानि वर्जयित्वा जातानि 1 ||3|4|5 ||7||8 ||10|11 | अत्रापि पञ्चमात् द्वितीययॊः स्थानयॊः वराहमिहिरॆण सह भॆद | अत्र च वराहमिहिररॆण यवनॆश्वरमतमङ्गीकृत्य द्वितीयस्थानस्य शुभत्वमङ्गीकृतम् | तथा च यवनॆश्वरः | “स्वस्थानतः स्थानसुतार्थमानप्राप्ति द्वितीयॆ च गुरुः करॊति |” ऎवं द्वितीय च शुभः विवाददैन्याध्वगदस्त्रिकॊणॆ तस्मात्पञ्चमॆ न शुभः | ऎष्वॆवार्कादिष्टॊ नवमाभ्यधिकॆषु भवनॆषु 1|3|4|5||7||8 ||9||10|1 1 अत्रापि पञ्चमद्वितीययॊः वराहमिहिरॆण यवनॆश्वरमतमङ्गीकृतम् | तथा च यवनॆश्वरः | “स्थानॆ रवॆबुँद्धिसुहृद्धनाप्ति करॊति जीवॊ धनदॊ द्वितीयॆ |” ऎवं द्वितीयॆ शुभत्वाद्वराहमिहिरॆणाङ्गीकृतम् | रुग्राजपीडाध्वकृदिन्द्रसूरिः स्यात्पञ्चमॆ तस्मात्पञ्चमॆ न शुभः | आत्मसदृशॆषु सहजभवनं विना कुजाच्च गुरुरिष्टः 1 ||4||7 ||10 ||11 अत्रापि पञ्चमद्वितीययॊः वराहमिहिरॆण सह भॆदः | अत्रापि यवनॆश्वरः | “गुरुः कुजस्थानगतॊऽरिहन्ता द्वितीयगस्तु ह्यतिहर्षदाता |” तस्माद्वाराहमिहिरॆण द्वितीयस्थानमङ्गीकृतम् | जामित्रगॊ व्याध्यरिशॊककारी | ऎवं सप्तमस्थानं नाङ्गीकृतम् | द्वादशरिपुपञ्चमतृतीयसंज्ञॆ स्थाश्ः सौरात् 1 2 ||6 ||5 ||3 दशमैकादशनवमद्वितीयषट्पञ्चमॆषु भृगॊः | इष्टः (10 ||11|9||2|6||5) चन्द्राज्जामित्रनवमसुतलाभकॊशर्क्षॆषु गुरुः शुभः (7 ||9||5|1 1 |2) प्रथमद्वितीयपञ्चमचतुर्थधर्मारिलाभदशमस्थः सौम्यादगुरु- हिन्त्ः (1|2|5 ||4||9||6|11 ||1 ऒ) | जीवॊ लग्नादॆवमिष्टः सजामित्रः 1 ||2|5||4||9||6|11 ||10 ||7| तथा च स्वल्पजातकॆ | “जीवॊ भौमाद्द्वयायाष्टकॆन्द्रगॊऽ-(2|1 1 ||8 |1 |4||7||1 ऒ) कत्सिधर्मसहजॆषु 2 ||11 ||8 || 1 ||4||7||1 ऒ ||9||3| स्वात्सत्रिकॆषु 2 ||11 ||8|1 ||4||7||1 ऒ ||3| शुक्रान्नवमदशमलाभस्वधीरिपुषु 9 |1 ऒ |1 1 |2|5|6| शशिनः स्मरत्रिकॊणार्थलाभग   251 -(7 ||9||5 |2 | 1 1)-स्त्रिरिपुधीव्ययॆषु यमान् (3 ||6||5|1 2) नवदिक्सुखा द्यधीस्वायशत्रुषु ज्ञात्-(9 |1 ऒ ||4|1 ||5|2|11 ||6) सकामगॊ लग्नात् 9 |1 ऒ ||4|1 ||5|2|1 1 ||6|7|” इति जीवाष्टकवर्गः || 5 || लग्नादासुतालाभरन्ध्रनवगः सान्त्यः शशाङ्कात्सितः | स्वात्साज्ञॆषु सुखत्रिधीनवदशच्छिद्राप्तिगः सूर्यजात् | रन्ध्रायव्ययॊ रवॆर्नवदशप्राप्त्यष्टधीस्थॊ गुरॊर्ज्ञा द्धीत्र्यायनवारिगस्त्रिनवषट्पुत्रायसान्त्यः कुजात् || 6 ||  भट्टॊत्पलः-अथ शुक्रायाष्टवर्ग शार्दूलविक्रीडि तॆनाहलग्नादिति | सितः शुक्रः लग्नादासुतलाभरन्ध्रनवगः शुभः | लग्नात्प्रभृति सुतस्थानं पञ्चमं यावत्तथा लाभरन्ध्रनवगः सितः शुभः | तॆषु प्रथमद्वितीयतृतीयचतुर्थपञ्चमैकादशाष्टनवमॆषु लग्नाछुक्रः शुभः | (1 ||2|3 ||4|5|1 1 ||8 ||9) | सान्त्यः शशाङ्काच्चन्द्रादॆव स्थानॆषु सान्त्यॆषु सव्ययॆषु द्वादस्थानाधिकॆषु शुभः (1 ||2|3|4|5|1 1 ||8 ||9 ||12) | स्वात्साज्ञॆषु स्वात्मीयस्थानादॆष्वॆव स्थानॆषु साज्ञॆषु, दशमस्थानाधिकॆषु शुभः (1|2|3|4|5|11|8||9||10) | सुखत्रिधीनवदशच्छिद्राप्तिगः सूर्यजात् | सौराच्चतुर्थतृतीयपञ्चमनवमदशमाष्टमैकादशॆषु शुभः (4|3|5|9||10 ||8|| 252 1 1) | रन्ध्रायव्ययगॊ रवॆः || रवॆरादित्यादष्टमैकादशद्वादशॆषु शुभः (8 ||11 ||12) | नवदशप्राप्त्यष्टधीस्थॊ गुरॊः | (9 ||10 ||11 ||8 ||5) | ज्ञाद्धीत्र्यायनवारिगः | ज्ञाद्बुधात्पञ्चमतृतीयैकादशनवमषष्ठॆषु शुभः (5 ||3 ||1 1 ||9 ||6) | त्रिनवषट्पुत्रायसान्त्यः कुजात् | कुजाद्भौमात्तृतीयनवमषष्ठपञ्चमैकादशॆषु सान्त्यॆषु अन्त्यॆन द्वादशॆन सहितॆषु स्थानॆषु शुक्रः शुभः (3 ||9 ||6 ||5|1 1 ||12) तथा च सत्यः | “स्वस्थानाद्भृगुतनयः षट्सप्तमपश्चिमॆतरॆष्विष्टः (6|7| 1 |2) |” ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 ||2|3|4|5 ||8||9|1 ऒ ||11 | “रिपुपत्निकर्मवज्र्यॆषु सितश्चन्द्रात्तु पुष्कलॊ नृणाम् 6||7||10 |” ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि जातानि 1 ||2 ||3 ||4||5 ||9 ||8 ||11 ||12 | “अन्त्यॊपान्त्याष्टमगः सूर्यादिष्टस्तु भार्गवः कथितः 1|2|11|8 | भौमादन्त्यॊपान्त्यतृतीयनवमसुतशत्रुगश्चैवम् (1 2 | 1 1 ||3|9||5|6) | दशमैकादशनिधनत्रिकॊणसंस्थॊ भृगुजौंवात् (10 ||11|8|5|9) | सौम्यात् सुतधर्मलाभसहजारिसंज्ञॆषु (5|9||11 ||3||6) | लग्नादिष्टः शुक्रॊ रिपुसप्तमदशमपश्चिमान् हित्वा (6 ||7 ||1 ऒ ||1 2) ” ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि स्थानानि जातानि 1 |2|3|4|5 ||8 ||9||11 | “आद्यद्वितीयरिपुसप्तमान्त्यवज्र्यॆषु सौराच्च (1 ||2|6|7||12) ” ऎतानि वर्जयित्वा तान्यॆव वराहमिहिरपठितानि जातानि (3|4|5||8||9|1 ऒ ||11) तथा च स्वल्पजातकॆ “शुक्रॊ लग्नादासुतनवाष्टलाभॆषु (1 ||2|3|4|5|9||8 | 1 1) सव्ययश्चन्द्रात् | स्वात्साज्ञॆषु रविसुतात्त्रिधीसुखाप्तिनवकर्मरन्ध्रॆषु | वस्वन्त्यायॆष्वकन्निवदिग्लाभाष्टधीस्थितॊ जीवात्| ज्ञात्रिसुतनवायारिष्वायसुतापॊक्लिमॆषु कुजात्|” इति शुक्राष्टकवर्गः || 6 || 253 मन्दः स्वात्त्रिसुतायशत्रुषु शुभः साज्ञान्त्यगॊ भूमिजात्| कॆन्द्रायाष्टधनॆष्विनादुपचयॆष्वाद्यॆ सुखॆ चॊदयाशत् धर्मायारिदशान्त्यमृत्युषु बुधाच्चन्द्रात्त्रिषडलाभगः भूमिजाद्भौमादॆष्वॆव प्रागुक्तॆषु साज्ञान्तॆषु गतः दशमद्वादशसहितॆषु शुभः |3|5|11|6|10|12 कॆन्द्रायाष्टधनॆष्विनात् | इनात्सूर्यात् कॆन्द्रॆकादशाष्टमद्वितीयॆषु शुभः (1 ||4||7 ||10 ||11 ||8 ||2) | उपचयॆष्वाद्यॆ सुखॆ चॊदयात् | उदयाल्लग्नात्तृतीयषष्ठदशमैकादशप्रथमचतुर्थॆषु शुभः (3 ||6 ||10|1 1 |1 |4) | धर्मायारिदशान्त्यमृत्युषु बुधात् | बुधाद्बुधस्थानान्नवमैकादषष्ठदशाष्टमॆषु शुभः (9 ||11|6|10 ||8) | चन्द्रात्त्रिषड्लाभगः | चन्द्रस्थानात्तृतीयषष्ठैकादशॆषु शुभः (3 ||6|1 1) | षष्ठान्त्यायगतः सितात् || शुक्रस्थानात् षष्ठद्वादशैकादशॆषु शुभः (6 ||12 ||11) | सुरगुरॊः प्राप्त्यन्त्यधीशत्रुषु सुरगुरॊः जीवादॆकादशद्वादशपञ्चमषष्ठॆषु शुभः (1 1 | 1 2|5|6) तथा च सत्यः | “ऎकादशपञ्चमषष्ठॊऽर्कजः स्वाच्छुभस्तृतीयॆ च (11 ||5|6||3) | स्थानान्निशाकरस्य तु पञ्चमवज्र्यॆष्वथैष्वॆव (1 1 ||3||6) | यॆष्वात्मनॊ रविस्तॆषु भास्करस्तादृशॊ रविस्थानात् |” आदित्याष्टकवर्गः पठयतॆ | “स्वात्स्थानाद्दिवसकरस्तृतीयषष्ठान्त्यभत्रिकॊणानि | हित्वॆष्टः (3 ||6 ||1 2 ||5 ||  254 9) ”ऎतानि हित्वा जातानि 1 ||2 ||4 ||9 ||1 ऒ ||1 1 ||8 अत्र वराहमिहिरादभ्यधीकं नवमं स्थानं तच्च यवनॆश्वरविरॊधित्वाद्वराहमिहिरॆण नॊक्तम्| तथा च यवनॆश्वरः “पापप्रवृत्तिं नवमॆ विधत्तॆ” इति जीवादिष्टः | षट्पञ्चमपश्चिमैकादशस्थश्च (6 ||5|1 2 | 1 1) ‘भ्रातृसुतविजयलाभान्त्यकर्मगः पुष्कलॊ नृणाम् | भौमस्थानात्सौरिः (3|5|6|11 ||12|10) षष्ठान्त्यॊपान्त्यगः शुक्रात् (6 ||1 2 ||11) || दशमैकादशषष्ठाष्टमान्त्यनवमॊऽर्कजः सौम्यात् (10 ||11 ||6|8|1 2 ||9) | स्थानादिष्टॊ लग्नाच्छुभस्तु लग्नादद्यथा सूर्यः |” आदित्याष्टकवर्गः पठ्यतॆ | “दशमैकादशषष्ठतृतीयगॊ लग्नगश्चतुर्थगश्च लग्नात् (10 ||11|6||3|1 |4) | तथा च स्वल्पजातकॆ | “स्वात्सौरस्निसुतायारिगः (3 ||5 ||11 ||6) कुजादन्त्यकर्मसहितॆषु (3 ||5 ||11 ||6 ||12 ||1 ऒ) स्वायाष्टकॆन्द्रगॊर्काऽ-(2|11|8|1 ||4||7||10)-च्छुक्रात्षष्ठान्त्यलाभॆषु (6 ||12 ||11) || त्रिषडायगः शशाङ्का-(3 ||6 | 1 1)दुदयात्ससुखाद्यकर्मगॊऽ-(3 ||6|1 1 |4|1 0)-थ गुरॊः | सुतषड्व्ययायगॊ (5 ||6|1 2 | 1 1) ज्ञाद्द्वययायरिपुदिङ्नवाष्टस्थः (12 ||11 ||6|1 ऒ ||9||8) |” इति सौरस्याष्टकवर्गः || 7 || 255 इति निगदितमिष्टं नॆष्टमन्यद्विशॆषादधिकफलविपाकं जन्मभात्तत्र दद्युः | उपचयगृहमित्रस्वॊच्चगैः पुष्टमिष्टं त्वपचयगृहनीचारातिगैनॆष्टसम्पत् || 8 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ‌अष्टवर्गाध्यायः सम्पूर्णः | 9 || भट्टॊत्पलः-अथाष्टकवर्गफलनिरूपणार्थ मालिन्याह इति निगदितमिति | इत्यनॆनॊक्तॆन प्रकारॆण यन्निगदितमुक्तं तदिष्टं नॆष्टमन्यत् | यदन्यं न गदितं तत्सर्वमनिष्टमशॊभनम् | ऎतदुक्तं भवति | “स्वादर्कः प्रथमायबन्धुनिधन” इत्यनॆन पाठॆन यान्युक्तानि स्थानानि तॆषां श्रॆष्ठं फलम् | विशॆषादधिकफलविपाकमॆवमिष्टानिष्टयॊः फलयॊः विशॆषात्संशॊधनादधिकमिष्यतॆ | तत्फलविपाकं भवति ऎतज्जन्मभात् जन्मकालॆ यत्र स्थानॆ ग्रहाः स्थिताः तस्मात्स्थानाच्छुभाशुभानि फलानि प्रयच्छन्ति, न तथा तत्कालाक्रान्तराशितः | ऎतदुक्तं भवति | यानि शुभस्थानान्याचार्यॆण पठितानि तानि बिन्दूपलक्षातानि कार्याणि | यान्यशुभानि तानि रॆखॊपलक्षितानि कार्याणि | तदिष्टानिष्टयॊः विशॆषमन्तरं कृत्वाऽवशिष्टस्य फलस्य पङ्क्तिरिति | यत्र बिन्द्वष्टकं जातं तत्र शुभफलं सम्पूर्णम् | यत्र च षड् बिन्दवस्तत्र पादॊनफलम् | यत्र च बिन्दुचतुष्टयं तत्रार्धं फलम् यत्र बिन्दू द्वौ तत्र पादफलम् | अशुभफलस्यैव रॆखाभिः कल्पना कार्या | तत्र चानिमिषपरमांशकॆ विलग्न इत्यत्र प्रयॊगॆ जातस्याङ्गारकस्याष्टकवर्ग उदाह्रियतॆ | तत्राचार्यपठितानि स्थानानि बिन्दूपलक्षितानि कार्याणि | अपठितानि अशुभानि स्थानानि रॆखॊपलक्षितानि कार्याणि | तद्यथा ग्रहसंस्था | मीनलग्नगतः शुक्रः मॆषॆ | द्वितीयस्थानस्यॊऽर्कः | तृतीयॆ वृषॆ चन्द्रबुधौ | पञ्चमस्थानॆ कर्कटस्थॊ जीवः | अष्टमॆ तुलायां शनैश्चरः | ऎकादशॆ मकरस्थॊ भौमः | अनया ग्रहसंस्थया प्रदश्यतॆ न्यासः | “वक्रस्तूपचयॆष्विनात्सतनयॆष्वाद्याधिकॆषूदयाच्चन्द्राद्दिग्विफलॆषु कॆन्द्रनिधनप्राप्त्यर्थगः स्वाच्छुभः | धर्मायाष्टमकॆन्द्रगॊऽर्कतनयाज्ज्ञात्षट्त्रिधीलाभगः शुक्रात् षड्व्ययलाभमृत्युषु गुरॊः कर्मात्यलाभारिषु|” अष्टककुण्डलिका न्यासः | अथ शुभाशुभफलविशॆषः क्रियतॆ | यत्र मॆषॆ रॆखापञ्चकं, बिन्दुत्रयं च जातम् | रॆखात्रयं बिन्दुत्रयं चापास्य द्वॆ रॆखॆ जातॆ | तस्मादॆवंविधॆ यॊगॆ जातस्य सदैव चारवशान्मॆषस्थॊऽङ्गारकॊऽष्टभागद्वयॆनाशुभः वृषॆ रॆखापञ्चकं बिन्दुत्रयं जातम् | रॆखात्रयं बिन्दुत्रयं 256 चापास्य द्वॆ रॆखॆ जातॆ | तस्माद्वृषस्थॊ भौमॊऽष्टभागद्वयॆनाशुभॊ भवति | मिथुनॆ रॆखापञ्चकं बिन्दुत्रयं चापास्य द्वॆ रॆखॆ जातॆ | तस्मान्मिथुनस्थॊ| भौमॊऽष्टभागद्वयॆनाशुभॊ भवति | कर्कटॆ बिन्दुचतुष्टयं रॆखाचतुष्टयं च जातम् तत्र न किञ्चिदवशिष्यतॆ | तॆन तत्स्थानं न शुभं नाप्यशुभम् | समत्वान्मध्यमः | सिंहॆ बिन्दुपञ्चकं, रॆखात्रयं च जातम् | रॆखात्रयं बिन्दुत्रयं चापास्य बिन्दुद्वयं जातम् | तस्मात्तस्य सदैव सिंहस्थॊ भौमॊऽष्टभागद्वयॆन शुभॊ भवति | कन्यायां रॆखाष्ट्कं बिन्दुद्वयं च जातम् | बिन्दुद्वयं रॆखाद्वयं चापास्य रॆखाचतुष्टयं जातम् | तस्मात्कन्यास्थॊ भौमॊऽष्टभागचतुष्टयॆनाशुभः | तुलायां रॆखात्रयं बिन्दुपञ्चकं च जातम् | तत्र रॆखात्रयबिन्दुत्रयं चापास्य बिन्दुद्वयं जातम् | तॆन तुलास्थॊ भौमॊऽष्टभागद्वयॆन सदैव शुभः | वृश्चिकॆ रॆखासप्तकं, ऎकॊ बिन्दुजतिस्तत्र बिन्दुं रॆखाञ्चापास्य रॆखाषट्कं जातम् | तस्माद्वृश्चिकस्थॊ भौमॊऽष्टभागषट्कॆनाशुभः| धनुषि रॆखाषट्कं बिन्दुद्वयं च जातम् | तत्र रॆखाद्वयं बिन्दुद्वयं चापास्य रॆखाचतुष्टयं च जातम् ऎवमष्टभागचतुष्टयॆन धन्विस्थॊ भौमॊ सदैवाशुभः | मकरॆ रॆखात्रयं बिन्दुपञ्चकं च जातम् | तत्र रॆखात्रयं बिन्दुत्रयं चापास्य बिन्दुद्वयं जातम्| तॆन मकरस्थॊ भौमॊऽष्टभागद्वयॆन शुभः | कुम्भॆ रॆखाचतुष्टयं बिन्दुत्रयं च जातम् | अत्र चन्द्रस्थानात् दशमस्थानं भौमस्य समत्वादष्टमॊ बिन्दुर्न जातस्तस्माद्रॆखात्रयं बिन्दुत्रयं चापास्य ऎका रॆखा जाता | तस्मात्कुम्भस्थॊऽष्टमभागॆनैकॆनाशुभः | मीनॆ रॆखापञ्चकं बिन्दुत्रयं च जातम् | रॆखात्रयं बिन्दुत्रयं चापास्य रॆखाद्वयं च जातम् | तस्मान्मीनस्थॊ भौमॊऽष्टभागद्वयॆनाशुभः आस्यतॊ शुद्धौ स्थापना | ऎवं शुभाशुभान्यॆकीकृत्याष्टौ फलानि भवन्ति तॆषां संशॊधनं कृत्वा यदवशिष्यतॆ तदादॆश्यम् | यत्र रॆखाचतुष्टयं बिन्दुचतुष्टयं च भवति तत्र समत्वान्मध्यस्थॊ ग्रहॊ भवति | यत्र रॆखाष्टकं तत्रातवाशुभः | यत्र बिन्द्वष्टकं तत्रातीव शुभः | ऎवं जन्मकालाक्रान्तराशिवशॆन सर्वग्रहाणामष्टकवर्गः कार्यः | तथा च बादरायणः | “ऎकॆन यः शुभः स्यात्षड्भः स्थानैः स पापदॊ भवति | यस्तु चतुर्भिर्नॆष्टः सर्वफलॆ कल्पनाप्यॆवम् |” ननु पूर्वमुक्तम्, “ऎकग्रहस्य सदृशॆ फलयॊर्विरॊधॆ| नाशं वदॆद्यदधिकं परिपच्यतॆ तत्” | इति निगदितमिष्टं नॆष्टमन्यद्विशॆषात्” इति पुनरुक्तम् | अष्टवर्ग विना युदुक्तमॆकग्रहस्य सदृशॆ फलयॊर्विरॊध इति तत्र  257 सदृशयॊः फलयॊर्विरॊधॆ नाशॊ विज्ञॆयः यथा स ऎव ग्रहः कयापि युक्त्या सुवर्णदॊ भवति स ऎव युक्न्यन्तरॆण सुवर्णापहारी तदा न सुवर्णदॊ भवति | न सुवर्णापहारी चॆति | यदधिकं परिपच्यतॆ तत तत्रापि यदि कारणद्वयॆन सुवर्णापहारी चॆति | यदधिकं परिपच्यतॆ तत तत्रापि यदि कारणद्वयॆन सुवर्णापहारी भवति | कारणॆनैकॆन सुवर्णदस्तथापि सुवर्णापहारी भवति | न सुवर्णदः अथ कारणद्वयॆन सुवर्णदः कारणॆनैकॆन सुवर्णापहारी तथापि कारणद्वयस्याधिक्यात्सुवर्णद ऎव | ऎवं तत्र सदृशॆ फलद्वयॊर्विरॊधॆ नाशं वदॆन्नासदृशयॊः | इह तु पुनः असदृशॆऽपि फलयॊर्विरॊधॆ नाश ऎवति | तद्यथा | बादरायणयवनॆश्वरादिभिरष्टकवर्गॆऽभिहितम्| अस्य ग्रहस्य स्थानादयं ग्रहः स्वस्मिन्स्थानं तिष्ठमान इमानि शुभान्यशुभानि फलानि प्रयच्छतीति | तत्रासदृशान्यपि यदि तानि फलानि भवन्ति तथापि तॆषां शुभाशुभविरॊधादॆव नाशं वदॆत् | विशॆषाधिकफलविपाकं जन्मभात्तत्र दद्युरिति | यथा कश्चिद्ग्रहः कॆनचित्कारणॆन सुवर्णदॊ भवत्यपरॆण रुप्यापहारी च तथाप्यसदृशयॊरपि फलयॊर्विरॊधॆ दानहरणात्मकॆ न शुभॊ नाप्यशुभ इति कल्पनीयः ऎवं स्थानाष्टकाद्यत्र स्थानॆ बहुभिः शुभॊ भवत्यल्पॆनाशुभः तत्र शुभाशुभफलविशॆषं कृत्वा शुभमॆकं कल् | अनॆनैव प्रकारॆण स्थानसंज्ञामात्रॆण स्थानशुभाशुभत्वमॆवॊक्त न पृथक्फलनिर्दॆशॊ यवनॆश्वरादिवत् तहर्यॆवं चाष्टकवर्ग प्रधानं तत्संहितायां गॊचरफलॆ चन्द्रस्थानात् किमिति पृथक्फलनिर्दॆशॊ वराहमिहिरॆण कृतः | जन्मन्यायासदॊऽर्क इत्यॆवमादि | अत्रॊच्यतॆ | तस्मादष्टकवर्गफलविशॆषाद्यदतिरिच्यतॆ तदॆव वक्तव्यमिति | तदॆव पूर्वं प्रत्ययनार्थमतिप्रसिद्धत्वाद्गॊचरस्यान्यमतनॆवाङ्गीकृत्वॊक्तम् | तथा च यात्रायां तॆनैवॊक्तम् | “यस्य गॊचरफलप्रमाणता तस्य वॆधफलमिष्यतॆ न वा | प्रायशॊ न बहुसम्मतं त्विदं स्थूलमार्गफलदॊ हॊ गॊचरः |” इति | यवनॆश्वरॆणापि पृथक्फलनिर्दॆशं कृत्वा तदॆवाष्टकवर्गमङ्गीकृतम् | तथा च तद्वाक्यम् | “फलाष्टवर्गॆ शुभपापलक्षॆ समानकल्पावफलौ प्रदिष्टौ | ज्यायांस्तु यस्तस्य फलं विचार्य यात्राविधानॆ च समुद्भवॆ च |” पृथक्फलनिर्दॆशं कृत्वा बादरायणॊऽप्यष्टजवर्गमॆवाह | “कष्टश्रॆष्ठॆ तुल्यसंख्यॆ फलॆ चॆत्स्यातां नाशः फलयॊस्तत्र वाच्यः | वाच्या पङ्क्तिर्यॊऽतिरिक्तस्तयॊः स्यात्स्थानॆ-स्थानॆ कल्पनॆयं 258 प्रदिष्टा |” उपचयगृहमित्रस्वॊच्चगैः पुष्टमिष्टमिति | लग्नाच्चन्द्राद्वा यान्युपचयस्थानानि तथा मित्रक्षॆत्राणि स्वॊच्चं च ऎतानि शुभस्थानानि शुभस्थानॊपलक्षणानि | उपलक्षणत्वात्स्वक्षॆत्रं मूलत्रिकॊणं च गृह्यतॆ | तत्र लग्नाच्चन्द्राद्वॊपचयगतॊ ग्रहः स्वक्षॆत्रस्थॊ मूलत्रिकॊणस्थश्च तदा शुभं फलं प्रयच्छति | अत्र च श्रीदॆवकीर्तिः | “लग्नादुपचयसंस्थश्चन्द्राद्वा स्वगृहमूलतुङ्गस्थः | मित्रक्षॆत्रगतॊ वा फलमतिशयितः शुभं दद्यात् ||” लग्नाच्चन्द्राद्वा यान्युपचयस्थानानि तथा शत्रुक्षॆत्रनीचानि च तान्यशुभानि | तॆषु स्थितॊ ग्रहॊ यदा शुभफलं प्रयच्छति तदप्यतिनिकृष्टमिति | अर्थादॆव शुभगृहस्थः शुभं फलं प्रयच्छति, अशुभगृहस्थश्च शुभमल्पम् | किमॆवंविधॆषु स्थानॆषु ग्रहस्य जन्मकालॆ स्थितिरन्वॆष्या किं वा चारवशात्फलकल्पनॆति | उच्यतॆ | जन्मकालिकमॆव तत् | तत्रान्तर्दर्शनतः | तथा च दॆवकीर्तिः | “उपचयराशौं नीचॆ शत्रुक्षॆत्रॆ च जन्मकालॆ स्यात् | यस्तु स दद्यात्पापं फलमतिशयितॊ यथाकालम् |” यवनॆश्वरश्च | “स्वनीचारिगृहॊपगॊऽन्यर्जितॊऽरिदृष्टॊऽल्पतनुर्विवर्णः || सूतावभूज्जन्मपतौ बलस्थॆ स जन्मगॊ बन्ध्यफलॊः निरुक्तः | ईषत्सुहृत्स्वॊच्चभृदिष्टॊ मित्रर्क्षजन्मॊपचयॆ बलीयान् | यॊ जातकॆऽभूत्स तु जन्मसंस्थॊ दद्याच्छुभं न त्वशुभॊऽप्यनिष्टम् |” तथा च सत्यः | “जन्मन्युपचयभवनॆ ऎकॊ ग्रहॊ ह्यपचयॆषु पुष्टफलः | अपचयभवनॊपॆताः पीडास्थानॆ ह्यपचयाय |” फलकालॆ तु पुनश्चन्द्रवज्र्यमन्यॊ ग्रहॊ बलवानॆव शुभमशुभं वा पुष्टं फलं प्रयच्छतीति | चन्द्रः शुभॊऽपि बलरहितः पापफलॊ भवति अत्र च श्रीदॆवकीर्तिः | “पुष्टमपुष्टं स्वफलं दद्यात्सबलॊ बलॆन हीनस्तु | ग्रह इव सर्वश्चन्द्रः कष्टफलॊ बलविहीनश्च |” तथा च सत्यः | “स्नॆहवपुरंशुबलैर्विवर्जितः शत्रुभॆऽरिसंदृष्टः | ग्रह इव फलमनुदद्याच्चन्द्रस्तु यदीदृशः कष्टः |” वराहमिहिरॊऽप्यबलानां ग्रहाणां फलदानॆ असमर्थानां यात्रायामाह-- | “नीचस्था ग्रहविजिता व्यभिभूता विरश्मयॊ ह्रस्वाः | भुजगा इव मन्त्रहता भवन्ति कार्याक्षमा लग्नॆ |” यात्रायां यवनॆश्वरॊऽपि | “स्ववर्गसंस्था बलिनॊ विशॆषाद्ग्रहा यथॊदिष्टफलप्रदाः स्युः | नीचॆ जिताश्चारिगृहॆऽल्पवीर्यास्तॆ घ्नन्त्यनिष्ट्रॆष्टफलप्रवृत्तिम् |” तत्र शास्त्रॆषु यानि वाक्यान्युच्चादिसंस्थानां  259 शुभाशुभफलप्रवृत्तिप्रदर्शकानि नीचारिस्थानामशुभफलप्रदर्शकानि तानि जन्म समयॆ ज्ञॆयानि |  यानि च शुभानामशुभानां वा फलानि ग्रहवशॆनैव पुष्टिप्रदर्शकानि तानि चारवशात्फलदानकालॆ ग्रहस्य ज्ञॆयानीति | 8 ||  इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां अष्टवर्गाध्यायः || 9 ||   260 अथ कर्माजीवाध्यायः || 1ऒ || अर्थाप्तिः पितृपितृपत्निशत्रुमित्रभ्रातृस्त्रीभृतकजनाद्दिवाकराद्यैः | हॊरॆन्द्वॊर्दशमगतैर्विकल्पनीया भॆन्द्वकास्पदपतिगांशनाथवृत्या | 1 || भट्टॊत्पलः-अथातः कर्माजीवाध्यायॊ व्याख्यायतॆ | अनॆन पुरुषॆण कथं धनमर्जयितव्यमित्यध्यायॆस्मिन्निरूप्यतॆ | अत्र च प्रकारॆद्वयॆन धनदाता ग्रहॊ भवति लग्नाच्चन्द्रभाच्च, यॊ दशमस्थॊ ग्रहः स धनदाता भवति | अथ लग्नचन्द्रयॊर्दशमस्थानॆ शून्यॆ भवतस्तदा लग्नचन्द्रादित्यानां यॆ यॆ दशमराशयस्तॆषां यॆऽधिपतयस्तॆ यॆषु नवांशकॆषु पुरुषस्य जन्मकालॆ स्थितास्तॆषां नवांशकानां यॆ ग्रहा अधिपतयस्तॆ ग्रहाः धनदातारॊ भवन्ति | किन्तु लग्नाच्चन्द्राच्च यॆ दशमा ग्रहाः तॆ अनॆन प्रकारॆण धनदातारॊ भवन्ति | किन्तु भॆन्द्रकस्पिदपतिगांशनाथा अनॆन प्रकारॆणॆति | तत्रादावॆव लग्नाच्चन्द्राच्च दशमस्थॊ ग्रहॊ यॆन प्रकारॆण धनं ददाति तथा भॆन्द्वकस्पिदपतिगांशनाथा यॆन प्रकारॆण धनप्रदास्तत्प्रकारद्वयप्रदर्शनं प्रहर्षिण्याह अर्थाप्तिरिति | हॊरॆन्द्वॊः लग्नचन्द्रयॊः दिवाकराद्यैः सूर्याद्यैः ग्रहैः दशमगतैः दशमस्थानाश्रितैः पित्रादिभ्यॊऽर्थाप्तिः धनप्राप्तिः विकल्पनीया विचिन्त्या | तत्र पुरुषस्य जन्मसमयॆ लग्नाच्चन्द्राद्वा यद्यादित्यॊ दशमस्थॊ भवति तदा पितृतॊऽर्थाप्तिर्भवति | ऎवं चन्द्रॆ लग्नाद्दशमगतॆ पितृपत्नितः मातुः सकाशात्| भौमॆ लग्नचन्द्रयॊर्दशमॆ सति शत्रुतः रिपुतः | बुधॆ मित्रात् सुहृदः | गुरौ भ्रातृतः सहजात् | शुक्रॆ स्त्रीतः यॊषितः | सौरॆ भृतकजनात्कर्मकारात् सॆवकादित्यर्थः | अथ कश्चिल्लग्नाद्दशमॆ भवत्यपरश्चन्द्रात्तदा स्वस्यां स्वस्यामन्तर्दशायां द्वावपि स्वाभिहितफलप्रदौ भवतः | न कॆवल यावच्चन्द्राल्लग्नाच्च बहवॊऽपि यदि दशमस्था भवन्ति तदा सर्व ऎव स्वस्यां स्वस्यामन्तर्दशायां स्वस्व प्रकारॆण धनप्रदा भवति | अथ लग्नाच्चन्द्राद्वा न कश्चिद्दशमॊ भवति तदा कॊऽर्थप्रदॊ भवन्ति ? | अतः उक्तम् | भॆद्वकस्पिदपतिगांशनाथवृत्या | भ लग्नम्, इन्दुश्चन्द्रः, अर्क आदित्यः, भं चॆन्दुश्चार्कश्च भॆन्द्वर्काः तॆभ्यः प्रत्यॆकस्यास्पदाख्यॊ यॊ राशिः दशम इत्यर्थः | तस्य यॊऽधिपतिः ग्रहः सः यस्मिन्नवांशकॆ गतः स्थितस्तस्य यॊ नाथः स्वामी   261 तस्य या वक्ष्यमाणा वृत्तिः तया वृत्या तस्य धनप्रदॊ भवति ऎवं लग्नाच्चन्द्राच्च यदा दशमस्था ग्रहा भवन्ति तदा लग्नचन्द्रयॊयॊ बलवस्तस्य यॊ दशमः स ऎवार्थप्रदॊ भवति | भॆन्द्वकर्णा यॊ बली तस्यास्पदपतिगॊशनाथवृत्त्या ऎक ऎवार्थप्रदॊ भवतीति | ऎतदयुक्तम् | यस्मादत्र बलग्रहणं नास्ति तस्मादॆवं ज्ञायतॆ सर्वॆभ्य ऎव भवति | पुरुषस्य बहुप्रकारधनागमदर्शनादिति | तथा च भगवान् गार्गिः | “उदयाच्छशिनॊ वापि यॆ ग्रहा दशमस्थिताः | तॆ सर्वॆऽर्थप्रदा ज्ञॆयाः | स्वदशासु यथॊदिताः | लग्नार्करात्रिनाथॆभ्यॊ दशमाधिपतिग्रहः | यस्मिन्नवांशॆ तत्कालं वर्ततॆ तस्य यः पतिः | तद्वृत्त्या प्रवदॆद्वित्तं जातस्य बहवॊ यदा | भवन्ति वित्तदास्तॆऽपि स्वदशासु विनिश्चितम् ||” इति || 1 ||    262 263 264 स्त्री कुल सॆ धन प्राप्ति का उल्लॆख ऊपर कर चुका हूँ, सुजात गुण वर्ग विभूषिता शुद्धाखिल व्यवहार की स्त्री प्राप्ति सन्तॊष कॆ साथ सही मानॆ की ग्रह भूषण है.....परम सन्तॊष है| तात्पर्यतः आचार्य वराह का फलादॆश अपनी जगह पर परिपूर्ण है, तत्थ्य है और दैवज्ञ की विचार धारा अनॆक प्रकार की हॊनी चाहि‌ऎ जॊ सही ही हॊती है या हॊगी | 1 ||  अर्कांशॆ तृणकनकॊर्णभॆषजाद्यै- श्चन्द्रांशॆ कृषिजलजाङ्गनाश्रयाच्च |  धात्वग्निप्रहरणसाहसैः कुजांशॆ- सौम्यांशॆ लिपिगणितादिकाव्यशिल्पैः || 2 ||  भट्टॊत्पलः-“भॆन्द्वकस्पिदपतिगांशनाथवृत्त्या” इति यदुक्तमधुना तां वृत्तिं प्रहर्षिणीद्वयॆनाह‌अर्काश इति | भॆन्द्वकस्पिदपतिगांशनाथॊऽर्कः यदा भवति तदा तृणैः सुगन्धैः, कनकॆन सुवर्णॆन च ऊर्णया आविकलॊम्ना, भॆषजॆन औषधॆन आदिशब्दाद्रिषक्क्रियया रॊगिणां परिचर्यया च धनमाप्नॊति | अथ चन्द्रांशी भवति तदा कृष्या कर्षणॆन, जलजैः शङ्खशुक्ताप्रवालादिभिः, अङ्गनाभिः स्त्रीभिः| जलजानां क्रयविक्रयः | अङ्गनानां समाश्रयनैरॆतैः धनमाप्नॊति | अथ कुजांशॊ भौमनवांशॊ यदा भवति तदा धातुभिः मृत्तिकादिभिः पक्वाभिः सुवर्णरूप्यताम्रादीनि भवन्ति ताभिः प्राप्नॊति | अथवा धातुभिः मनःशिलाहरितालहिङ्गुलकाञ्चनप्रभृतिभिः, अग्निनाऽग्निक्रियया, प्रहरणैः खङ्गचक्रकुन्तचापतॊमराद्यैः, साहसैः असमीक्षतकार्यकरणैरथवा स्ववशक्रियारम्भैः धनमाप्नॊति | अथ सौम्यांशॊ बुधनवांशकॊ यदा भवति तदा लिपिगणितादिकांव्यशिल्पैः धनमाप्नॊति| लिप्यक्षरविन्यासॆन गणितॆन आदिग्रहणाद्व्याख्यानॆन यन्त्रादिप्रयॊगैः काव्यक्रियया शिल्पैः चित्रपुस्तकपत्रच्छॆदबाणमाल्यरचनागन्धयुक्तिप्रभृतिभिः धनप्राप्नॊति | 2 ||   265 जीवांशॆ द्विजविबुधाकरादिधर्मॆः काव्यांशॆ मणिरजतादिगॊमहिष्यैः |  सौरांशॆ श्रमवधभारनीचशिल्पैः कर्मॆशाध्युषितनवांशकर्मसिद्धिः | 3 ||  भट्टॊत्पलः-अथ जीवांशॆ द्वितीयप्रहर्षिण्याह जीवांश इति | जीवांशॆ द्विजविबुधाकरादिधर्मॆरिति | अथ जीवांशकॊ यदा भवति तदा द्विजॆभ्यॊ ब्राह्मणॆभ्यः, विबुधॆभ्यॊ दॆवॆभ्यः पण्डितॆभ्यॊ वा, आकरॆभ्यः सुवर्णादीनां लवणादीनां अञ्जनादीनां गजादीनां च समुत्पत्तिस्थानॆभ्यः| आदिग्रहणात्क्रियावादॆन | धर्मैः यज्ञदानॊपवासतीर्थगुरुदॆवनादिभिः धनमाप्नॊति | अथ शुक्रनवांशकॊ यदा भवति तदा मणिभिः वज्रमरकतपद्मरागॆन्द्रनीलप्रभृतिभिः, रजतॆन रूप्यॆण आदिग्रहणात्सर्वैर्लॊहैः गॊभिः तथा महिषकर्मणि महिषॆभ्यॊ वा साधुः महिष्यै श्रॆष्ठमहिष्यैः धनमाप्नॊति | अथ सौरांशकॊ यदा भवति तदा श्रमॆण अध्वगमनादिकॆन वधॆन च वध्यघातितया अथवा स्वशरीरताडनाद्यॆन भारवाहनॆन नीचशिल्पैः स्वकुलानुचितैः कर्मभिः धनमाप्नॊति| ऎवं जातककालवशात्पुरुषस्य धनागमं ज्ञात्वा कालानुकालं कर्मॆशचारवशात् कर्मसिद्धिमाह-- | कर्मॆशाध्युषितनवांशकर्मसिद्धिः | कर्मणि ईशः कर्मॆशः लग्नाद्दशमराशिः तदधिपः कर्मॆशः स चारवशाद्यस्मिन्नवांशकॆ अध्युषितॊ  266 भवति व्यवस्थितॊ भवति तस्य यः स्वामी तस्य यानि कर्माणि अर्कांशॆ तृणकनकॊर्णभॆषजाद्यैरित्यादीनि तत्समानानां सिद्धिर्भवति | तानि प्रारब्धानि सिद्ध्यन्तीति | अत्र कॆचित्कर्मशाध्युषितसमानकर्मसिद्धिरिति पठन्ति | अत्र च नवांशग्रहण नास्ति प्रकृतत्वात्प्रागनुवृत्तः नवांशकॊ व्याख्यायतॆ | तथा च भगवान्गार्गिः | “लग्नकर्मधिपॊ यस्मिन्नवांशॆ वर्ततॆ ग्रहः | चारक्रमॆण तत्तुल्यां कर्मणां सिद्धिमादिशॆत् |” ज्ञातजातकस्यॆदं क्रियाश्रयं कर्म कर्मॆषाध्युषितनवांशकपतिकर्मणां यथादर्शितानां प्रारब्धानां कालानुकालं सिद्धिर्वक्तव्या नान्यॆषामिति | 3 || अथ धनागमज्ञानं प्रहर्षिण्याह मित्रारिस्वगृहगतैग्रहैस्ततॊऽर्थं तुङ्गस्थॆ बलिनि च भास्करॆ स्वीवीर्यात् | आयस्थैरुदयधनाश्रितैश्च सौम्यैः सञ्चिन्त्यं बलसहितैरनॆकधास्वम् || 4 ||  इति श्री वराहमिहिराचार्य प्रणीतॆ बृहज्जातकॆ कर्माजीवाध्यायॊ सम्पूर्णः |10 ||  भट्टॊत्पलः-धनागमज्ञानं प्रहर्षिण्याह मित्रारिस्वगृहगतैरिति | चन्द्रलग्नयॊः यॆ दशमगा ग्रहास्तदभावॆ च यॆ भॆन्द्वकस्पिदपतिगांशनाथाः तॆ च यदि  267 जन्मकालॆ मित्रगृहस्थिता भवन्ति तदा स्वान्तर्दशाकालॆ मित्रगृहॆ स्थिता भवन्ति ततस्तस्मादॆव मित्रात् मित्रतः फलप्रदा भवन्ति | अथारिगृहस्थाः शत्रुगृहगा भवन्ति तदारिगत ऎव | अथ स्वगृहस्थास्तदा स्वगृहादॆव धनप्रदा भवन्ति | तुङ्गस्थॆ बलिनीति | यस्य पूर्वविधिना भास्करः सूर्यॊ धनप्रदॊ ज्ञातः तस्मिंस्तुङ्गस्थॆ उच्चगॆ मॆषप्राप्तॆ तत्कालीनैर्बलैः कालवलाद्यैर्युक्तैस्तदा स पुरुषः स्ववीर्याद्धनमर्जयति | स्वविक्रमार्जितधनॊ भवतीत्यर्थः आयस्थैरिति | सौम्यः शुभग्रहः जन्मन्यायसंस्थैरॆकादशस्थानगतैः उदयधनाश्रितैश्च लग्नगैः द्वितीयस्थानगतैर्वा तैश्च बलसहितैः वीर्यवद्भिः जातः अनॆकधा बहुभिः प्रकारैः स्वं धनं प्राप्नॊतीति| सञ्चिन्त्यं निश्चयः कार्यः यॆन यॆन प्रकारॆण धनार्जनमाकांक्षतॆ तॆन तॆन प्रकारॆणयत्नादॆवाप्नॊतीत्यर्थः | तथा च भगवान्गार्गिःधनदा जन्मसमयॆ मित्रारिस्वगृहॊपगाः | यस्य तस्य धनं दद्युर्मित्रारिस्वगृहॊद्भवम् | धनदॊ भास्करॊ यस्य तुङ्गॆ बलसमन्वितः | भवॆज्जन्मनि यस्य स्याद्वित्तमात्मॊद्यमार्जितम् | लाभार्थलग्नगैः सौम्यैर्यॆन यॆनैव कर्मणा || धनार्जनं प्रार्थयतॆ तॆनायत्नात्समश्नुतॆ|” इति | 4 ||  इति श्री बृहज्जातकॆ श्री भट्टॊत्पलटीकायां कर्माजीवाध्यायः || 10 ||  268 अथ राजयॊगाध्यायः || 11 || प्राहुर्यवनाः स्वतुङ्गॆः क्रूरैः क्रूरमतिर्महीपतिः | क्रूरैस्तु न जीवशर्मणः पक्षॆ क्षित्यधिपः प्रजायतॆ || 1 ||  भट्टॊत्पलः-अथातॊ राजयॊगाध्यायॊ व्याख्यायतॆ | तत्रादावॆव यवनानां जीवशर्मणश्च मतं वैतालीयॆनाहप्राहुरिति | “त्रिप्रभृतिभिरुच्चस्थैयुँपवंशभवा भवन्ति | राजानः |” इति सर्वजातकॆषु प्रसिद्धं तत्रैतावद्यवनानां मतभॆदः यस्य जन्मसमयॆ क्रूरैः पापग्रहैः स्वतुङ्गगैः स्वॊच्चस्थैर्जातॊ महीपती राजा भवति | किंतु क्रूरमतिः पापबुद्धिरिति प्राहुः कथयन्ति | अर्थादॆव सौम्यॆरुच्चगतैर्मिश्रस्वभावॊ राजा इति | ऎष ऎवार्थॊ मणित्थॆनाभिहितः | तथा च तद्वाक्यम् | “पापैः पापमतिः स्वॊच्चगतैर्धर्मवांस्तथा| सौम्यैः | व्यामिश्रैर्मिश्रमतिः पृथ्वीशॊ जायतॆ मनुजः |” क्रूरैस्त्विति | जीवशर्मणः पक्षॆ तन्मतॆ क्रूरैस्तूच्चगतैः क्षित्यधिपॊ न राजा प्रजायतॆ | किंतु राजा तुल्यॊ धनवान् भवति | तथा च तद्वाक्यम् | “पापैरुच्चगतैर्जाता न भवन्ति नृपा नराः किंतु वित्तान्वितास्तॆ स्युः क्रॊधिनः कलहप्रियाः |” इति | वराहमिहिरस्य यवनॆश्वरमतमभिप्रॆतम् | सामान्यॆनैव स्वल्पजातकॆऽभिहितम् | “त्रिप्रभृतिभिरुच् वंशभवा भवन्ति राजानः | पञ्चादिभिरन्यकुलॊद्भवाश्च तद्वत्त्रिकॊणगतैः |” इति | 1 ||  269 वक्रार्कजार्कगुरुभिः सकलैस्त्रिभिश्च स्वॊच्चॆषु षॊडश नृपः कथितैकलग्नॆ|  द्वचॆकाश्रितॆषु च तथैकतमॆ विलग्नॆ स्वक्षॆत्रगॆ शशिनि षॊडश भूमिपाः स्युः || 2 ||  भट्टॊत्पलः-अथ द्वात्रिशद्वाजयॊगान्वसन्ततिलकॆनाह वक्रार्कजॆति | वक्रॊऽङ्गारकः, अर्कजः सौरः अर्कः सूर्यः, गुरुजीवः ऎतैः वक्रार्कजार्कगुरुभिः भौमशनिसूर्यजीवैः सकलैः सर्वैश्चतुर्भिरति स्वॊच्चॆषु स्थितैः कथितैकलग्नॆ ऎषां कथितग्रहाणां चतुर्णां मध्यादॆकैकस्मिंल्लग्नगतॆ चत्वारॊ राजयॊगा भवन्ति | तथा त्रिभिश्च ऎषामॆव मध्यात् त्रिभिः स्वॊच्चगतैः तॆषु मध्यादॆकैकस्मिन् लग्नगॆ कथितैकलग्नॆ द्वादश राजयॊगा भवन्ति | ऎवं षॊडश| द्व्यॆकाश्रितॆष्विति | ऎतॆषां मध्याद्द्वाभ्यामुच्चगताभ्यामनयॊर्मध्यादॆकस्मिंल्लग्नगतॆ शशिनि चन्द्रॆ स्वक्षॆत्रगॆक कर्कस्थॆ तॆषामॆव वक्रार्कजार्किगुरूणां मध्याद्ग्रहद्वयॆ स्वॊच्चाश्रितॆ तदॆकतमॆ विलग्नगॆ द्वादश राजयॊगा भवन्ति | ऎकाश्रितॆषु च तॆषामॆव मध्यादॆकस्मिन्नुच्चाश्रितॆ तस्मिन्नॆव विलग्नगॆ स्वक्षॆत्रगतॆ चन्द्रमसि तद्यथा मॆषॆऽर्कः, कर्कटॆ जीवः, तुलॆ सौरः, मकरॆ कुजः शॆषा यथॆष्टम् | ईदृश्यां ग्रहसंस्थायां मॆषलग्नगतॆ ऎकॊ यॊगः | कर्कटॆ द्वितीयः, तुलॆ तृतीयः, मकरॆ चतुर्थः | ऎवं वक्रार्कजार्कगुरुभिः सकलैः स्वॊच्चॆषु तदॆकतमॆ लग्नॆ चत्वारॊ राजयॊगाः | अथ त्रिभिः तद्यथा-मॆषॆऽर्कः, कर्कटॆ जीवः, तुलॆ सौरः, शॆषा यथॆष्टम् | ईदृश्यामापि ग्रहसंस्थायां मॆषलग्नॆ ऎकॊ यॊगः | कर्कटॆ द्वितीयः, तुलॆ तृतीयः, पूर्वः सह सप्त || अथ मॆषॆऽर्कः, कर्कटॆ जीवः, मकरॆ भौमः, शॆषा यथॆष्टम् | ईदृश्यां च ग्रहसंस्थायां मॆषलग्नॆ ऎकॊ यॊगः, कर्कटॆ द्वितीयः, मकरॆ तृतीयः पूर्वैः सहः दश || अथ मॆषॆऽर्कः, तुलॆ सौरः, मकरॆ भौमः, शॆषा यथॆष्टम् | ईदृश्यां च ग्रहसंस्थायां मॆषलग्नॆ ऎकॊ यॊगः, तुलॆ द्वितीयः, मकरॆ तृतीयः ऎवंत्रयॊदश | अथ कर्कटॆ जीवः तुलॆ सौरः मकरॆ भौमः, शॆषा यथॆष्टम् | ईदृश्यां च ग्रहसंस्थायां 270 कर्कटॆ ऎकः, तुलॆ द्वितीयः, मकरॆ तृतीयः ऎवं षॊडशराजयॊगाः | चतुर्भिः त्रिभिः स्वॊच्चगतैः तदॆकतमॆ विलग्नॆ इति गतम् | द्वयॆकाश्रितॆष्वित्यादियॊगॆषु यावत्कर्कटॆ चन्द्रमा न भवति तावद्यॊगा ऎव न भवति | तद्यथा | द्व्याश्रितॆषु स्वक्षॆत्रगतॆ च चन्द्रॆ द्वादश राजयॊगा व्याख्यायन्तॆ| तद्यथा | मॆषॆऽर्कः, कर्कटॆ चन्द्रजीवौ शॆषा यथॆष्टम् | ईदृश्यां च ग्रहसंस्थायां मॆषलग्नॆ ऎकॊ यॊगः | कर्कटॆ द्वितीयः | अथ मॆषॆऽर्कः, कर्कटॆ चन्द्रः, तुलॆ सौरः, शॆषा यथॆष्टम् | तदा मॆषॆ तृतीयः | तुलॆ चतुर्थः | अथ मॆषॆऽर्कः, कर्कटॆ चन्द्रः मकरॆ भौमः शॆषा यथॆष्टम् | तदा मॆषॆ पञ्चमः | मकरॆ षष्ठः | अथ कर्कटॆ चन्द्रजीवौ तुलॆ सौरः शॆषा यथॆष्टम् | तदा कर्कटॆ सप्तमः | तुलॆऽष्टमः | अथ कर्कटस्थौ चन्द्रजीवौ मकरॆ भौमः शॆषा यथॆष्टम् | तदा कर्कटॆ नवमः | मकरॆ दशमः | अथ तुलॆ सौरः मकरॆ भौमः कर्कटॆ चन्द्रः शॆषा यथॆष्टम् | तुलॆ ऎकादश| मकरॆ द्वादश | द्वयाश्रितॆष्विति गतम् | अथैकाश्रितॆषु कर्कटस्थॆ चन्द्रॆ मॆषस्थॆऽर्कॆ मॆषलग्नॆ ऎकः कर्कलग्नॆ तद्गतयॊश्चन्द्रजीवयॊः द्वितीयः कर्कटस्थॆ चन्द्रॆ तुलास्थॆ सौरॆ तस्मिन्नॆव लग्नॆ तृतीयः | कर्कटस्थॆ चन्द्रॆ मकरस्थॆ भौमॆ ततस्तस्मिन्नॆव लग्नॆ चतुर्थः | ऎवं पूर्वैर्द्वादशभिः सह || षॊडश | श्लॊकपूर्वॊक्तैः षॊडशभिः सह द्वात्रिंशद्राजयॊगा व्याख्याताः | 2 ||  271 272 वर्गॊत्तमगतॆ लग्नॆ चन्द्रॆ वा चन्द्रवर्जितैः |  चतुराद्यैग्रहैर्दृष्टॆ नृपा द्वाविंशतिः स्मृताः || 3 ||  भट्टॊत्पलः-अथ चतुश्चत्वारिंशद्राजयॊगाननुष्टुभाह वर्गॊत्तमगतॆ लग्नॆ इति | लग्नॆ जन्मकालिकॆ लग्नॆ वर्गॊत्तमगतॆ स्वनवांशकस्थ इत्यर्थः | तस्मिश्चन्द्रवर्जितैरन्यग्रहैश्चतुराद्यैः दृष्टॆ चतुर्भिः  273 पञ्चभिः षड्भर्वावलॊकितॆ द्वाविंशतिराजयॊगाः स्मृताः उक्ताः | अत्र लग्नॆ चन्द्रॆण दृश्यमानॆ न यॊगभङ्गः किन्तु पश्यतां मध्यॆ न गण्यतॆ | स तु पश्यतु मा वा पश्यतु अन्यैश्चतुरादिभिग्रहैर्दृष्टॆ राजयॊगा भवन्ति | (ऎवं वर्गॊत्तमगतॆ लग्नॆ द्वाविंशतियॊगाः | ऎवं चन्द्रॆ वर्गॊत्तमांशस्थॆ चतुराद्यैग्रहैः दृष्टॆ द्वाविंशतियॊगा भवन्ति | ऎवं चतुश्चत्वारिंशत्) अत्र लग्नॆ चन्द्रॆ वा चतुर्भिर्दृश्यमानॆ पञ्चदश| विकल्पा भवन्ति | पञ्चभिः दृश्यमानॆ षट्, षडभिरॆकः ऎवं द्वाविंशतिः | तद्यथा| लग्नॆ चन्द्रॆ वार विभौमबुधगुरुभिः दृश्यमानॆ ऎकॊ यॊगः | रविभौमबुधसितैः द्वितीयः | रविभौमबुधसौरैः तृतीयः | विभौमजीवसितैश्चतुर्थः | रविभौमजीवसौरॆः पञ्चमः | रविभौमशुक्रसौरैः मचन्त्ः | रविबुधजीवशुक्रैः सप्तमः| रविबुधजीवसौरैरष्टमः | रविबुधजशुक्रसौरैर्दशमः | भौमबुधजीवशुक्ररॆकादशः | भौमबुधजीवसौरैर्द्वादशः | भौमबुधशुक्रसौरैस्त्रयॊदशः | भौमजीवशुक्रसौरैः पञ्चदशः | ऎवं चतुर्भिरपि विकल्पैः पञ्चदश | अथ पञ्चविकल्पाः | रविभौमबुधजीवशुक्रैरॆकः | रविभौमबुधजीवसौरॆर्द्वितीयः | रविभौमबुधशुक्रसौरैः षष्ठः | ऎवं पञ्चविकल्पैः षट्पूर्वॊक्तैः पञ्चदशभिः सहैकविंशतिः, रविभौमबुधजीवशुक्रसौरैः षड्भरॆकः ऎवं द्वाविंशतिः | लग्नाच्चन्द्राच्चैवमॆवं चतुश्चत्वारिंशत् | परमार्थॆनैतद्यॊगद्वयमॆव | तद्यथा | वर्गॊत्तमगतॆ चन्द्रॆ चतुराद्यैर्दृष्टॆ ऎकः | लग्नॆ द्वितीयः | सङ्खयाप्रदर्शनं गणितप्रदर्शनार्थम् | अत्र व चन्द्रमसौ यदि राशौ वर्गॊत्तमावस्थितिं निरूप्य गणितं क्रियतॆ तदैतॆषामॆव यॊगानां चतुःषष्ठ्यधिकं शतद्वयं सम्भवति | ऎवं प्रत्यॆकमस्मिन् लग्नॆ वर्गॊत्तमस्थैः चतुःषष्ठ्यधिकमॆव यॊगशतद्वयम् | ऎवं चन्द्रलग्नयॊर्यॊगानामॆकीकृतान पञ्चशतान्याष्टविंशत्यविकानि भवन्ति | तथा च माण्डव्यः | “विलग्नभवनं गतॆ बलयुतॆ च वर्गॊत्तमॆ चतुःप्रभृतिभिर्ग्रहैः शशिनि वा समालॊकितॆ | स सम्भवति पार्थिवः खलु कृपाणपाणी रणॆ कदाचिदपि वीक्षतॆ रिपुजनॊ न यस्याननम्” | 3 || 274 275 यमॆ कुम्भॆर्कॆऽजॆ गवि शशिनि तैरॆव तनुगैर्नृयुक्सिंहालिस्थैऽ शशिजगुरुवक्रैर्नृपतयः |  यमॆन्दू तुङ्गॆऽङ्गॆ सवितृशशिजौ षष्ठभवनॆ तुलाजॆन्दुक्षॆत्रैः ससितकुजजीवैश्च नरपौ || 4 ||  भट्टॊत्पलः-अथ शिखरिण्या पञ्चयॊगामाह-- यम इति | यमॆ सौरॆ कुम्भस्थॆ अर्कॆ सूर्यॆऽजॆ मॆषस्थॆ सति शशिनि चन्द्रॆ गविवृषस्थितॆ तैरॆव तनुगैः तॆषां ग्रहाणामॆकतमॆ तनुगॆ लग्नस्थॆ न कॆवलं यावच्लशिजगुरुवकैः बुधजीवभौमैः नृयुक्सिंहालिस्थैः जाता नृपतयॊ राजानॊ भवन्ति | चकारॊऽत्र लुप्तॊ द्रष्टव्यः | तत्रैतज्जातम् | सौरः कुम्भॆ रविर्मॆषॆ चंद्रॊ वृषॆ बुधॊ मिथुनॆ जीवः सिहॆं भौमॊ वृश्चिकॆ ईदृश्यां ग्रहसंस्थायां कुम्भलग्नॆ ऎकॊ यॊगः मॆषॆ द्वितीयः वृषॆ तृतीयः | यमॆन्दू इति | सौरचन्द्रौ तुङ्गॆ उच्चॆ न कॆवलं यावदङ्गॆ तनौ लग्नॆ इत्यर्थः | सवितृशशिजौ सूर्यबुधौ षष्ठभवनॆ कन्यायां तुलाजॆन्दुक्षॆत्रैः तुला प्रसिद्धः अजॊ मॆषः इन्दुक्षॆत्रं कर्कटः ऎतैः यथासङ्खयं ससितकुजजीवैः शुक्रभौमगुरुयुतैः नरपौ द्वौ राजयॊविति तत्रैतज्जातम् | कुलॆ सौरः वृषॆ चन्द्रः कन्यायामर्कबुधौ तुलॆ शुक्रः मॆषॆ भौमः कर्कटॆ जीवः ईदृश्यां ग्रहसंस्थायां तुलालग्नॆ ऎकॊ यॊगः | वृषॆ द्वितीयः | पूर्वैस्त्रिभिः सह पञ्च | अत्र षष्ठभवनॆ षष्ठराशौ लग्नात्कॆचिदिच्छंति | ऎतदयुक्तम् | यस्मातुलस्थॆ शुक्रॆ मीनस्थस्यार्कस्यासंभवः | तथा च बादरायणः | “तुललग्नॆ सितसौरॊ मॆषॆ भौमॊ गुरुः कुलीरगतः | कन्यायां रविशशिजौ जातॊ नृपतिर्वृषॆसचन्द्रॆ वा |” |4|  276 कुजॆ तुङ्गॊऽर्कॆन्द्वॊर्धनुषि यमलग्नॆ च कुपतिः पतिर्भूमॆश्चान्यः क्षितिसुतविलग्नॆ सशशिनि |  सचन्द्रॆ सौरॆऽस्तॆ सुरपतिगुरौ चापधरगॆ स्वतुङ्गस्थॆ भानावुदयमुपयातॆ क्षितिपतिः | 5 ||  भट्टॊत्पलः-अथान्यद्राजयॊगत्रयं शिखरिण्याह कुजॆ तुङ्गॆऽर्कॆन्द्वॊरिति | कुजॆ भौमॆ तुङ्गस्थॆ उच्चस्थॆ मकरगतॆ इत्यर्थः | अर्कॆन्द्वॊः सूर्यशशिनॊः धनुषि चापॆ स्थितयॊः यमलग्नॆ यत्र तत्र राशौ लग्नॆ शनैश्चरॊ लग्नगतॆ मकरस्थः इत्यर्थः | ऎवंविधॆ यॊगॆ जातः कुपतिः भूमीशः नृपति राजा भवति | यमलग्नॆ इति | मकरकुम्भयॊः अन्यतमॆ लग्नॆ इति व्याख्यातम् | यमस्य लग्नॆ यमलग्न इति | कैश्चित् यत्र तत्र राशावस्थितॆ सौरॆ लग्नगॆ इति व्याख्यातम् | तच्चायुक्तम् | यस्माद्वादरायणः | “लग्नॆ सौरस्तुङ्गॆ भौमश्चन्द्रादित्यौ चापं प्राप्तौ” इति अस्माकं प्रथमा व्याख्या साध्वी प्रतिभाति | यस्मान्माण्डव्यः | “आदित्यश्च निशाकरश्च भवतॊ वागीशराशौ यदा सार्धं भास्करिणा स्ववीर्यसहितः प्राप्तॊ मृगॆ मङ्गलः | प्राप्नॊति प्रभवं तदौ स सुकृतीक्ष्मापालचूडामणिस्त्रस्यन्ति प्रतिपन्थिनॊ रणमुखॆ यस्मात्कृतान्तादिव |” पतिभूमॆश्चान्य इति | अस्मिन्नॆव यॊगॆ क्षितिसुतॊऽङ्गारकः तस्मिन्स्वॊच्चस्थॆ शशिना चन्द्रमसा युक्तॆऽर्कॆ धनुर्धरस्थॆ राजयॊगः | तत्रैतज्जातम् | मकरलग्नॆ चन्द्राङ्गारकयुतॆ धनुर्धरगतॆऽर्कॆऽन्यॊ द्वितीयॊ भूमॆः पतिर्भवति, राजा इत्यर्थः | अत्र च बादरायणः | “भानुश्चापॆ सॆन्दुभौमस्तुङ्गप्राप्तॊ लग्नॆ वास्यात् |” सचन्द्रॆ सौरॆऽस्तॆ इति | सौरॆ शनैश्चरॆ सचंद्रॆ शशियुक्तॆ तथाभूतॆऽस्तॆ सप्तमस्थानगतॆ तथा सुरपतिगुरौ जीवॆ चापधरगॆ धनुर्धरस्थॆ भानौ आदित्यॆ स्वतुंगस्थॆ स्वॊच्चॆ मॆषप्राप्तॆ उदयं लग्नमुपयातॆ प्राप्तॆ जातः क्षितिपती राजा भवति तत्रैतजातम् | मॆषॆ लग्नॆ तत्रैवार्कः धन्विनि जीवः तुलागतौ शशिसौरी ऎवंविधॆ यॊगॆ जातॊ राजा भवत्यॆवं राजयॊगास्त्रयः || 5 || 277 सुहृज्जायाखस्थैर्भवति नियमान्मानवपतिः |  मृगॆ मन्दॆ लग्नॆ सहजरिपुधर्मव्ययगतैः शशाङ्काद्यैः ख्यातः पृथुगुणयशाः पुङ्गलपतिः || 6 ||  भट्टॊत्पलः-अथ शिखरिण्या राजयॊगद्वयमाह-- वृषॆ सॆन्दौ लग्न इति | वृषॆ गवि सॆन्दौ चन्द्रयुक्तॆ लग्नॆ स्थितॆ सवितृगुरुतीक्ष्णांशुतनयैः सूर्यजीवसौरॆः यथासङ्खयं सुहृज्जायाखस्थॆः चतुर्थ सप्तमदशमस्थितैः नियमान्निश्चयान्मानवपतिः राजा भवति | तत्रैतज्जातम् | वृषॊ लग्नन्तत्रैव चन्द्रः | सिंहॆऽर्कॊ वृश्चिकॆ जीवः कुम्भॆ सौरः ऎवंविधॆ यॊगॆ यॊगॆ जातॊऽवश्यं राजा भवति | मृगॆ मन्द इति | मृगॆ मकरॆ लग्नॆ तत्रस्थॆ मन्दॆ-सौरॆ सहजरिपुधर्मव्ययगतैः तृतीयषष्ठनवमद्वादशस्थैः शशाङ्काद्यैः चन्द्राङ्गारकबुधजीवैः ऎवंविधॆ यॊगॆ जातः ख्यातः सर्वत्र विदितः | पृथुगुणयशा गुणाः शौर्यादयः विस्तीर्ण-गुणकीर्तिः पुङ्गलपतिः मनुष्यनाथॊ भवति | ननु शशाङ्काद्यैरित्युक्तं शुक्रः क्व गच्छतु | उच्यतॆ | यथासङ्खयात्पञ्चमस्थानस्थाविद्यमानत्वात् | शुक्रस्यादित्यपञ्चमत्वादनवकाशः | तत्रैतज्जातम् | मकरॊ लग्नॆ तत्रैव सौरः मीनॆ चन्द्रः मिथुनॆ भौमः कन्यायां बुधः धन्विनि जीवः शुक्राक्~ऒ यत्रतत्रस्थौ ऎवंविधॆ यॊगॆ जातॊ राजा भवति | पृथुगुणयशाः | ऎवमत्र राजयॊगौ द्वौ | तथा च माण्डव्यः |“मृगॆ लग्नॆ सौरस्तिमियुगगतः शीतकिरणः कुजॊ युग्मॆ नाय शशधरसुतश्चापधरगः गुरुर्दॆत्यॆज्याकविभिमतगतौ चारवशतः प्रसूतौ यस्यासौ भवति नरपः शुक्रसदृशः |” | 6 ||  278 हयॆ सॆन्दौ जीवॆ मृगुमुखगतॆ भूमितनयॆ स्वतुङ्गस्थौ लग्नॆ भृगुजशशिजावत्र नृपती |  सुतस्थौ वक्रार्क गुरुशशिसिताश्चापि हिबुकॆ बुधॆ कन्यालग्नॆ भवति हि नृपॊऽन्यॊऽपि गुणवान् || 7 ||  भट्टॊत्पलः-अथ शिखरिण्या राजयॊगत्रयमाह-- हयॆ सॆन्दाविति | हयॆ धनुषि जीव गुरॊ सॆन्दौ सचन्द्रॆ स्थितॆ भूमितनयॆंऽगारकॆ मृगमुखगतॆ मकरस्थॆ “मृगार्धपूर्वॊ मकरॊ मृगार्द्धः” इति वचनात् | भृगुजशशिजॊ शुक्रबुधौ स्वतुंगस्थौ स्वॊच्चप्राप्तौ यदि लग्नॆ भवस्तदात्रास्मिन्यॊगद्वयॆ जातौ राजानौ भवतः | राजयॊगद्वयमॆतत् | तत्रैतज्जातम्| बृहस्पतौ सचंद्रॆ धन्विगतॆ भौमॆ ऎवंविधायां ग्रहसंस्थायां मीनलग्नॆ सशुक्रॆ ऎकॊ यॊगः | कन्यालग्नॆ सबुधॆ द्वितीयॊ यॊगः | सुतस्थाविति | वक्राकी भौमसौरौ सुतस्थौ पंचस्थानगतौ तथा गुरुशशिसिताः जीवचन्द्रशुक्रा हिबुकॆ चतुर्थॆ स्थानॆ बुधॆ कन्यागतॆ लग्नॆ जातॊऽन्यॊ परॊऽपि नृपॊ राजा गुणवान्भवति | तत्रैतज्जातम् | कन्या लग्नं तत्रैव बुधः मकरस्थौ शनिभौमौ धनुर्धरस्था जीवचंद्रशुक्राः यदा भवन्ति तदा जातॊ राजा गुणवांश्च भवति | ऎवं राजयॊगास्त्रयः || 7 ||  279 झाषॆ सॆन्दौ लग्नॆ घटमृगॆन्द्रॆषु सहितै यमारार्कॆ यॊऽभूत्स खलु मनुजः शास्ति वसुधाम् | अजॆ सारॆ मूर्तॊ शशिगृहगतॆ चामरगुरौ सूरॆज्यॆ वा लग्नॆ धरणिपतिरन्यॊऽपि गुणवान् | 8 || भट्टॊत्पलः-अथ शिखरिण्या राजयॊगत्रयमाह-- झषॆ सॆंदाविति | झषॆ मीनॆ सॆन्दौ सचन्द्रॆ लग्नॆ मीनलग्नॆ सचन्द्रॆ घटमृगमृगॆद्रॆषु सहितैर्यमारार्कैः घटः कुम्भः मृगॊ मकरः मृगॆन्द्रः सिंह तॆषु यथासंख्यं यमाराकैः स्थितैः | तत्रैतज्जातम् | मीनॊ लग्नन्तत्रैव चन्द्रः स्थितः कुम्भॆ सौरः मकरॆ भौमः सिहॆऽर्कः ऎवंविधॆ यॊगॆ जातः यः उत्पन्न स मनुजॊ मनुष्यः वसुधां शास्ति भूमिं परिपालयति, राजा भवतीत्यर्थः | खलुशब्दॊ वाक्यालंकारः | अजॆ सार इति | अजॆ मॆषॆ सारॆ सभौमॆ मूर्ती लग्नस्थितॆ तथा चामरगुरौ जीवॆ शशिगृहगतॆ कर्कटस्थॆ जातॊ नृपॊ राजा गुणवान्भवति | अथवा सुरॆज्यॆ बृहस्पतौ मॆषस्थॆ जातॊऽन्यः परॊ राजा गुणवांश्च भवति | ऎवमत्र राजयॊगास्त्रयः || 8 || 280 कर्किणा लग्नॆ तत्स्थॆ जीवॆ चन्द्रसितज्ञैरायप्राप्तैः | मॆषगतॆऽर्कॆ जातं विन्द्याद्विक्रमयुक्तं पृथ्वीनाथम् || 9 ||  भट्टॊत्पलः-अथ राजयॊगं विद्युन्मालयाह कर्कणीति | कर्किणि लग्नॆ कर्कटकॆ लग्नॆ तत्स्थॆ तत्रैव व्यवस्थितॆ जीवॆ गुरौ चन्द्रसितज्ञैः शशिशुक्रबुधैः आयप्राप्तैरॆकादशस्थानस्थैः मॆषगतॆऽर्कॆ आदित्यॆ मॆषस्थॆ जातं संभूतं पृथ्वीनाथं भूमिपतिं विक्रमयुतं प्रतापसहितं विन्द्याज्जानीयात् | 9 ||  मृगमुखॆऽर्कतनयस्तनुसंस्थः क्रियकुलीरहरयॊऽधिपयुक्ताः |  मिथुनतौलिसहितौ बुधशुक्रौ यदि तदा पृथुयशाः पृथिवीशः || 10 ||  भट्टॊत्पलः-अथ द्रुतविलंबितॆन राजयॊगमाह-- मृगमुखॆति | अर्कतनयः सौर मृगमुखॆ मकरगतः स च तनुसंस्थॊ| लग्नप्राप्तः तथा क्रियाकुलीरहस्यः मॆषकर्किसिंहाः अधिपैः स्वनाथैः युक्ताः सहिताः तथा मॆषॆ भौम, कर्कटॆ चन्द्रः सिंहॆ सूर्य इत्यर्थः | तथा बुधशुक्रौ ज्ञसितौ यथासंख्यं मिथुनतौलिसहितौ | तथा मिथुनॆ बुधः तुलॆ शुक्रः ऎवंविधॊ यदि यॊगॊ भवति तदा जातः पृथुयशाः विस्तीर्णकीर्तिः पृथिवीशॊ राजा भवति | तत्रैतज्जातम् | मकरॊ लग्नन्तत्रैव सौरः मॆषॆ भौमः कर्कटॆ चन्द्रः सिंहॆऽर्कः मिथुनॆ बुधः तुलॆ शुक्रः ऎवंविधायां ग्रहसंस्थायां यत्रतत्रस्थॆ जीवॆ यदि जातॊ भवति तदा पृथिवीशः पृथुयशा भवति | 10 || 281 स्वॊच्चसंस्थॆ बुधॆ लग्नॆ भृगौ मॆषूरणाश्रितॆ | सजीवॆऽस्तॆ निशानाथॆ राजा मन्दारयॊः सुतॆ || 11 ||  भट्टॊत्पलः-अथ राजयॊगमनुष्ठभाह स्वॊच्चॆति | बुधॆ स्वॊच्चसंस्थॆ कन्यागतॆ लग्नगॆ भृगौ शुक्रॆ मॆषूरणाश्रितॆ दशमस्थानस्थितॆ निशानाथॆ चन्द्रॆ सजीवॆ बृहस्पतिसंयुक्तॆऽस्तॆ सप्तमस्थानगतॆ मंदारयॊः शनिभौमयॊः सुतॆ पंचमॆ स्थितयॊः जातॊ राजा भवति | तत्रैतज्जातम् कन्या लग्नॆ स बुधॆ मिथुनगतॆ शुक्रॆ गुरौ सचन्द्रॆ मीनस्थॆ मकरस्थयॊः शनिभौमयॊः जातॊ राजा भवति | ऎतॆ राजयॊगाः प्रॊक्ताः | 11 ||  अपि खलुकुलजाता मानवा राज्यभाजः किमुत ! नृपकुलॊत्थाः प्रॊक्तभूपालयॊगैः | नृपतिकुलसमुत्थाः पार्थिवा वक्ष्यमाणैर्भवति नृपतितुल्यस्तॆष्वभूपालपुत्रः || 12 ||  भट्टॊत्पलः-ऎतॆष्वराजवंशतॊऽपि जातॊ राजा भवति वक्ष्यमाणॆषु तु राजवंशज ऎव राजा भवति | तच्च मालिन्याह अपीति | अपिशब्दः सम्भावनायाम् | प्रॊक्तभूपालयॊगैः कथितराजयॊगैः खलकुलजाता नीचवंशॊद्भवा अपि मानवाः पुरुषाः राज्यभाजः नृपा भवंति किमुत किं पुनः राजवंशसंभूतास्तॆऽवश्यं राजानॊ भवंति | वक्ष्यमाणैः पुनः यौगैः नृपतिकुलसमुत्थाः राजवंशजाः पार्थिवाः राजानॊ भवन्ति | तॆषु वक्ष्यमाणॆषु अभूपालवंशजः अराजपुत्रः नृपतुल्यॊ भवति | राजसम इत्यर्थः | न राजा | किमुत संभावनायाम् || 12 ||   282 उच्चस्वत्रिकॊणगैर्बलस्थैस्त्र्याटौभूपतिबंशजा नरॆन्द्राः | उच्चस्वत्रिकॊणगैरिति |  त्र्याद्यैः त्र्यादिभिर्ग्रहैः स्वॊच्चगतैः स्वत्रिकॊणगतैः बलस्थॆः कालादिबलॊपॆतैः जाता भूपतिवंशजाः नृपकुललाजाता नरॆंद्रा राजानॊ भवन्ति | आदिग्रहणाच्चतुर्भिरपि पंचादिभिरन्यवंशजाता इति | पंचादिभिः इति | पंचादिभिः ग्रहैः स्वॊच्चस्थैः मूलत्रिकॊणगैर्वा अन्यवंशजाता हीनकुलजा अपि राजानॊ भवंति | अदिग्रहणात्षडभिः सप्तभिरपि | हीनैर्वित्तयुता इति | त्रिभिरुच्चस्थैः मूलत्रिकॊणस्थैर्वा हीनबलैः कालादिबलरहितैः राजकुलजा अपि राजानॊ न भवन्ति | किंतु राजतुल्या भवंति | ऎतैर्यथॊक्तॆः हीनैः वित्तयुताः सधना भवति, न भूमिपालाः राजानः ऎतदुक्तं भवति | ऎकॆन ग्रहॆण द्वाभ्यां वा स्वॊच्चगाभ्यां मूलत्रिकॊणस्थाभ्यां वा राजकुलजॊऽपि राजा न भवति किंतु धनवान्| ऎवं त्रिभिश्चतुर्भिर्वाऽन्यवंशजाता वित्तयुता भवन्ति, न राजानः | अत्र यादि ग्रहाः यथासंख्याः न भवंति | स्वॊच्चगा मूलकॊणस्थैः सह संख्यां संपादयंति तथापि यथॊक्तफलदा भवंति | अथवॊच्चगताः कॆवलं स्वत्रिकॊणगता वा तथापि | 13 || 283 लॆखास्थॆऽर्कॆजॆन्दौ लग्नॆ भौमॆ स्वॊच्चॆ कुम्भॆ मन्दॆ | चापप्राप्तॆ जीवॆ राज्ञः पुत्रं विन्द्यात्पृथ्वीनाथम् || 14 ||  भट्टॊत्पलः-अथान्यराजयॊगं विद्युन्मालयाह लॆखास्थ इति | लॆखायां तिष्ठतीति लॆखास्थः तस्मिन् लॆखाशब्दॆनॊदय उच्यतॆ | अर्कॆ सूर्यॆ तत्स्थॆ लॆखास्थॆ भूवृत्तादर्थॊदितॆ न कॆवलं यावदजॆ मॆषस्थॆ तत्रैव मॆषलग्नॆ इंदौ चंद्रॆ स्थितॆ भौमॆ कुजॆ स्वॊच्चॆ मकरस्थॆ मंदॆ सौरॆ कुंभस्थॆ जीवॆ गुरौ चापप्राप्तॆ धनुर्धरगतॆ ऎवंविधॆ यॊगॆ जातॊ राज्ञः पुत्रॊ नृपसुतॊ यदि भवति तदा तं भूमॆर्नाथं विन्द्याज्जानीयात् | अन्यकुलजॊ धनवान् | अत्र कॆचिल्लग्नस्थॆऽर्कॆजॆंदौ लग्नॆ इति पठन्ति | आदित्यॆ लॆखास्थॆ सति सिंहगतॆ सूर्यॆ चंद्रॆ मॆषस्थॆ लग्नॆ तदपि न कश्चिद्विरॊधॊ राजयॊग ऎव भवति | 14 ||  284 स्वर् क्षॆ शुक्रॆ पातालस्थॆ धर्मस्थानं प्राप्तॆ चन्द्रॆ | दुश्चिक्यांगप्राप्तिप्राप्तैः शॆषैर्जातः स्वामी भूमॆः | 15 ||  भट्टॊत्पलः-अन्यराजयॊगं विद्युन्मालयाह स्वक्षॆ इति | स्वक्षॆ सितॆ आत्मीयराशौ स्थितॆ वृषतुलयॊरन्यतमस्थॆ न कॆवलं यावत्पातालस्थॆ लग्नाच्चतुर्थॆ धर्मस्थानं प्राप्तॆ नवमगतॆ शॆषैरन्यग्रहैः रविभौमबुधगुरुसौरैः दुश्चिक्यांगप्राप्तिप्राप्तैः तृतीयलग्नैकादशस्थानस्थैः जातॊ भूमॆः पृथिव्याः स्वाम्यधिपतिर्भवति | तत्रैतज्जातम् | कुम्भॆ लग्नॆ वृषॆ शुक्रः तुलॆ| चंद्रः शॆषा ग्रहा यथासंभव मॆषकुम्भधन्विस्थाः | ऎवंविधॆ यॊगॆ जातॊ राजपुत्रॊ राजा भवति | अन्यकुलजॊ धनवान् | अथवा कर्कटॊ लग्नम्, तुलॆ शुक्रः, मीनॆ चंद्रः, शॆषाः ग्रहा यथासम्भवं कन्याकर्कटवृषस्थाः ऎवंविधॆ यॊगॆ जातॊ राजपुत्रॊ राजा भवत्यन्यकुलजॊ धनवान् | 15 || सौम्यॆ वीर्ययुतॆ तनुयुक्तॆ वीर्याढयॆ च शुभॆ शुभयातॆ |  धर्मार्थॊपंचमॆष्ववशॆषैर्धर्मात्मा नृपजः पृथिवीशः || 16 ||  भट्टॊत्पलः-अथान्यराजयॊगं नवमालिकयाह सौम्य इति | सौम्यॆ बुधॆ वीर्ययुक्तॆ कालादिबलैः युक्तॆ तथाभूतॆ तनुयुक्तॆ लग्नस्थॆ शुभॆ शुभयातॆ शुभग्रहॆ गुरुसितयॊरन्यतमॆ यथासम्भवं वीर्याढयॆ च सबलॆ शुभयातॆ धर्मस्थानगतॆ नवमगत इत्यर्थः | शुभॆ सुखयात इति कॆचित् पठन्ति | चतुर्थस्थानस्थ इत्यर्थः | अवशॆषैः परिशिष्टग्रहैः यथासम्भवं धर्मार्थॊपचयॆषु नवमद्वितीयत्रिषडॆकादशदशमानामन्यतमस्थानस्थितैः ऎवंविधॆ यॊगॆ जातॊ नृपजॊ राजपुत्रॊ राजा भवति | धर्मात्मा च | अन्य कुलजॊ धनवान् | 16 ||  285 वृषॊदयॆ मूर्तिधनारिलाभगैः शशांङ्कजीवार्कसुतापरैर्नृपः |  सुखॆ गुरौ खॆ शशितीक्ष्णदीधिती यमॊदयॆ लाभगतैर्तृपॊऽपरैः || 17 ||  भट्टॊत्पलः-अथान्यद्राजयॊगद्वयं वंशस्थॆनाह वृषॊदय इति | वृषॊदयॆ वृषलग्नॆ तथा शशांकजीवार्कसुतापरॆः चन्द्र-गुरुसौरैरपरैश्च रविकुजबुधसितैः यथासंख्यं मूर्तिधनारिलाभगैः लग्नद्वितीयषष्ठैकादशस्थैः जातॊ नृपॊ राजा भवति | तत्रैतज्जातम्| वृषलग्नॆ सचन्द्रॆ मिथुनस्थॆ जीवॆ तुलास्थॆ सौरॆ मीनस्थैः रविकुजबुधसितैः जातॊ राजपुत्रॊ राजा भवति| अन्यकुलजॊ धनवान् | सुखॆ गुराविति | गुरौ जीवॆ सुखॆ चतुर्थस्थानस्थॆ खॆ दशमॆ शशितीक्ष्णदीधिती चन्द्रार्कॊ यमॊदयॆ शनैश्चरॆ लग्नगतॆ अपरैरन्यैर्भीमबुधशुक्रैः लाभगतैरॆकादशस्थैः जातॊ नृपॊ राजा भवति | तत्रैतज्जातम् | शनैश्चरॊ लग्नॆ चतुर्थॆ जीवः दशमॆ सूर्यचन्द्रौ भौमबुधशुक्रा ऎकादशॆ ऎवंविधॆ यॊगॆ जातॊ राजा भवति | अन्यकुलजॊ धनवान्भवति ||17||  मॆषूरणायतगुनाः शशिमन्दजीवा ज्ञारौ धनॆ सितरवी हिबुकॆ नरॆन्द्रम् | वक्रासितौ शशिसुरॆज्यसितार्कसौम्या हॊरासुखास्तशुभखाप्तिगताः प्रजॆशम् || 18 ||  भट्टॊत्पलः-अथान्यराजयॊगद्वयं णॆच्{न्-1|8 286 मॆषूरणायतनुगा इति | शशिमन्दजीवाः चन्द्रसौरगुरवः यथासंख्यं मॆधूरणायतनुगा दशमैकादशलग्नस्थाः ज्ञारौ बुधभौमौ धनॆ द्वितीयस्थानॆ सितरवी शुक्रार्कॊ हिबुकॆ चतुर्थॆ ऎवंविधॆ यॊगॆ जातॊ नरॆन्द्रॊ नृपॊ भवति | तत्रैज्जातम् | दशमॆ चन्द्रः ऎकादशॆ सौरः लग्नॆ जीवः द्वितीयॆ बुधभौमॊ चतुर्थॆ शुक्रार्कॊ ऎवंविधॆ यॊगॆ जातॊ राजपुत्रॊ राजा भवत्यन्यकुलजॊ धनवान् | वक्रासिताविति | वक्रासितौ भौमसौरौ शशिसुरॆज्यसिताकसौम्याः चन्द्रगुरुशुक्रसूर्यबुधाः यथासंख्यं हॊरासुखास्तशुभखाप्तिगताः लग्नचतुर्थसप्तनवमदशमैकादशस्थाः भवन्ति तदा जातः प्रजॆशॊ राजा भवति | तत्रैतज्जातम् | भौमसौरौ लग्नगतौ चतुर्थॆ चन्द्रः सप्तमॆ जीवः नवमॆ शुक्रः दशमॆ सूर्यः ऎकादशॆ बुधः ऎवंविधॆ यॊगॆ जातॊ राजपुत्रॊ राजा भवत्यन्यकुलजॊ धनवान् | 18 || कर्मलग्नयुतपाकदशायां राज्यलब्धिरथवा प्रबलस्य | शत्रुनीचगृहयातदशायां छिद्रसंश्रयदशा परिकल्प्या | 19 ||  भट्टॊत्पलःअथ राजयॊगजातस्य कस्मिन्कालॆ राज्यावाप्तिर्भविष्यतीति तज्ज्ञानं स्वागतयाह कर्मलग्नयुतपाकदशायामिति | राजकर्तृणां ग्रहाणां मध्याद्यॊ ग्रहः कर्मणि लग्नाद्दशमॆ स्थितः यश्च राजयॊगकर्तृणां ग्रहाणां मध्याद्यॊ ग्रहः लग्नयुतॊ जन्मलग्नस्थः तत्पाकदशायां तस्य सम्बन्धिनी या पाकदशान्तर्दशा वा भवति तत्र तस्य राज्यलब्धिर्भवति | अथ लग्नदशमयॊः द्वयॊरपि ग्रहौ भवतः तदा तयॊर्यॊ बलवांस्तस्य दशायामन्तर्दशाकालॆ राज्यलब्धिः | अथ तत्र बहवॊ भॆदा भवन्ति तदा प्रबलस्य सर्वॊत्तमबलस्यान्तर्दशाकालॆ अथवा प्रबलस्यॆति | अथ लग्नदशमौ यदा शून्यौ भवतस्तदा जन्मनि यः प्रबलः सर्वॊत्तमबलस्तस्यान्तर्दशाकालॆ ऎव 287 राज्यदः स्यात् | बहुष्वन्तर्दशासु यस्मिन्नन्तर्दशाकालॆ चारवशादतिबलवत्त्वं सम्भवति तस्यामॆवान्तर्दशायां राज्यप्रदॊ भवति | शत्रुनीचगृहॆति | लब्धराज्यस्यापि जन्मकालॆ शत्रुक्षॆत्रस्थॆन वा ग्रहॆण यान्तर्दशा दत्ता तस्यां तस्मिन्बलवति राज्यहरणं वाच्यम् | यतः सा छिद्रदशा विबलॆऽपि तस्मिन्नापन्द्रवति | सा च संश्रयदशा परिकल्प्या | तस्यामन्तर्दशाया संश्रयं कार्यम् | दैवयुक्तनृपसंश्रयगुणात्तन्मॊक्षॊऽपि | वक्ष्यति | च यात्रायाम् | “अरिकॊपहतदशायां जन्मॊदयनाथशत्रुपाकॆ च | स्वदशॆशकारकदशाः संश्रयणीयॊ नरॆन्द्र इति |” अत्र च भगवान् गार्गिः | “लग्नगः कर्मणॊ वा स्यादथवा प्रबलॊऽपि यः | सः स्यात्स्वान्तर्दशाकालॆ राज्यदः प्रबलॊ यदा | नीचारिगृहसंस्थस्य दशायां प्रबलस्य च | च्युतिर्बलविहीनस्य तन्मॊक्षः परसंश्रयात् |” इति || 19 || गुरुसितबुधलग्नॆ सप्तमस्थॆऽर्कपुत्रॆ वियति दिवसनाथॆ भॊगिनां जन्म विन्द्यात् |  शुभबलयुतकॆन्द्वैः क्रूरभस्थैश्च पापै व्रजति शवरदस्युस्वामितामर्थभाक्च | 20 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ राजयॊगाध्यायः सम्पूर्णः | 11 || 288 भट्टॊत्पलः-अथ भॊगिनां शवरदस्युस्वामिनां च जन्मज्ञानं मालिन्याहगुरुसितबुधलग्नॆ इति | गुरुसितबुधाः जीवशुक्रसौम्याः ऎषामन्यतमॆ लग्नगतॆ अर्कपुत्रॆ सौरॆ सप्तमस्थॆ दिवसनाथॆ सूर्यॆ वियति दशमस्थानगतॆ ऎवंविधॆ यॊगॆ भॊगिनां जन्म भॊगवतां विंद्याज्जातः सदैव भॊगवान्भवति | तस्यार्थविहीनस्यापि यतः कुतश्चिन्द्रॊगावाप्तिर्भवति | रविबुधसितलग्नॆ इत्यत्र कैश्चित् रविबुधसितानां सम्बन्धिलग्न इति व्याख्यातम् | सिंहवृषतुलामिथुनकन्यालग्नॆष्विति | यतॊ दशमस्थॆऽर्कॆ लग्नॆ बुधसितयॊरवस्थानं सम्भवति | आचार्यॆण वराहमिहिरॆण पूर्वशास्त्रानुसारॆणायं यॊगः कृतः | अत्र च भगवान् गार्गिः | “जीवज्ञभार्गवैर्लग्नॆ सप्तमस्थॆऽर्कनन्दनॆ | दशमस्थॆ रवौ जातॊ भॊगवान्पुरुषॊ भवॆत्|” शुभबलयुतकॆन्द्रॆरिति | शुभग्रहसम्बन्धिनॊ राशयः तॆ च सबला यस्य कॆन्द्रगता भवन्ति तैस्तथाभूतैस्तथा पापैः क्रूरग्रहैः क्रूरभस्थैः पापराश्याश्रितैः यस्य जन्म भवति स शवराणां पुलिन्दानां दस्यूनां चौराणां स्वामित्वं व्रजति गच्छति | अर्थभाग् भाग्यवान् धनवांश्च भवति | शुभबलयुतकॆन्द्रॆरिति | अत्र शुभग्रहैः बलयुतैः कॆन्द्रगतैरिति कैश्चिद्व्याख्यातम्| तच्चायुक्तम् | यस्माद्भगवान् गार्गिः | “पापक्षॆत्रगतैः पापैः कॆन्द्रस्थॆः सौम्यराशिभिः | शबलैर्यस्य जन्म स्यात्स्यादसौ दस्युनायकः |” इति | 20 || इति श्रीबृहज्जातकॆ श्रीभट्टॊत्पलटीकायां राजयॊगाध्यायः || 11 || 289 अथ नाभसयॊगाध्यायः | 12 || नवदिग्वसवस्त्रिकाग्निवॆदैर्गुणिता द्वित्रिचतुर्विकल्पजाः स्युः |  यवनैस्त्रिगुणा हि षट्शती सा कथिता विस्तरतॊऽत्र तत्समासः || 1 || भट्टॊत्पलः-अथातॊ नाभसयॊगाध्यायॊ व्याख्यातॆ | नाभसयॊगानॊ चत्वारॊ विकल्पाः | तत्राकृतियॊगा ऎकॊ विकल्पः | आकृतियॊगाः संख्यायॊगा आश्रयगॊगाश्च विकल्पत्रयम् | आकृतियॊगाः सङ्खयायॊगा आश्रययॊगा दलयॊगौचॆति विकल्पचतुष्टयम् | तत्र विंशतिराकृतियॊगाः | सप्तसंख्यायॊगाः त्रय आश्रययॊगाः | द्वौ दलयॊगौ | तत्र त्रित्रिचतुर्विकल्पजनां यॊगानां संख्याज्ञानमौपच्छन्दसिकॆना नवदिगिति | नव प्रसिद्धाः दिक्छब्दॆन दश उच्यतॆ वसवॊऽष्टौ ऎतॆ यथासंख्यं त्रिकाग्निवॆदैः गुणिताः त्रिकशब्दॆन त्रय ऎव उच्यतॆ अग्निशब्दॆन त्रयः वॆदाश्चत्वारः ऎतैर्गुणिताः | तद्यथा | नवदिग्वसवः (9 ||10 ||8) ऎतॆ यथासंख्यं द्वित्रिचतुर्विकल्पजा भवन्ति | ऎतदुक्तं भवति | आकृतियॊगा विशतिः संख्यायॊगाः सप्त ऎवमाकृतिसंख्याविकल्पद्वयॆन सप्तविंशतियॊगा भवन्ति | आश्रययॊगास्त्रयः | आकृतिसंख्या आश्रयकृतॆन विकल्पत्रयॆण त्रिशत् (30) दलयॊगौ द्वौ | आकृतिसंख्या आश्रयदलयॊगकृतॆन विकल्पचतुष्कॆण द्वात्रिंशत् (32) ऎवं द्वित्रिचतुर्विकल्पजा यॊगाः स्युः भवॆयुरिति | यवनैस्त्रिगुणा ह्यॆति | पुराणयवनैः त्रिगुणा हि षट्शती कथिता | षण्णां शतानां समाहारः षट्शती सा च त्रिगुणा अष्टादशयॊगशतान्यभिहितानांत्यर्थः (1800) | ननु स्फुजिध्वजॆन किमुक्तम् | उच्यतॆ | नाभसयॊगानामान्त्यम् | तथा च तद्वाक्यम् | “संस्थानसदृश्यमनन्तकं स्याद्द्रव्याणि नानाप्रकृतीनि दृष्ट्वा |” इति कथं पुराणयवनैरष्टादशशतान्यभिहितानि | उच्यन्तॆ | आकृतियॊगास्त्रयॊविंशतिस्तैरभिहिताः संख्यायॊगानां सप्तविंशत्यधिकं शतं भवति | ऎवं सार्धं शतं भवन्ति | तच्चैकैकं राशिं लग्नगतमधिकृत्यॊक्तम् | तस्माल्लग्नद्वादशकॆनाष्टदशयॊगशतानि भवन्ति | यस्मात्सार्धं शतं द्वादशाहतमष्टादशशतानि भवन्ति | ऎतॆषामुत्पत्तिमध्यायान्तॆ प्रदर्शयिष्यामः | विदिताध्यायार्थस्य सुखावबॊधत्वात् | 290 ऎवं यवनैस्त्रिगुणा षट्शती विस्तरतः कथितॊक्ता | अत्रास्मिञ्छास्त्रॆ तत्समासः तत्संक्षॆपः क्रियतॆ | विस्तरस्य समासॊऽभिधीयत इति | पूर्वप्रदर्शिता| द्वात्रिंशदॆवाभिधीयन्तॆ | तत्फलॆष्वन्यफलानां समानत्वात् | द्वात्रिंशत्स्वॆव यॊगॆष्वष्टादशयॊगशतान्यन्तर्भवन्तीति | 1 ||  291 रज्जुर्मुशलं नलश्चराद्यैः सत्यश्चाश्रयजाञ्जगाद यॊगान् |  कॆन्द्वैः सदसद्युतैर्दलाख्यौ स्रक्सपॊं कथितौ पराशरॆण | 2 ||  भट्टॊत्पलःअथाश्रययॊगत्रयं दलयॊगद्वयं चौपच्छन्दसिकॆनाह रज्जुर्मुशलमिति | चराद्यैः चरस्थिरद्विस्वभावराशिग्रहसंयुक्तैः यथासंख्यं रज्जुर्मुशलं नलश्चॆति यॊगत्रयं भवति | तद्यथैकस्मिश्चरराशौ चरराशिद्वयॆ चरराशित्रयॆ चरराशिचतुष्कॆ वा यदा सर्वॆ ग्रहाः भवन्ति स्थिरराशयॊ द्विस्वभावराशयश्च सर्वॆ शून्या भवन्ति तदा रज्जुर्नामयॊगॊ भवति | ऎवमॆकस्मिन्स्थिरराशौ राशिद्वयॆ राशित्रयॆ राशिचतुष्कॆ वा यदा सर्वॆ ग्रहा भवन्ति चरराशयॊ द्विस्वभावराशयश्च शून्या भवन्ति तदा मुशलं नाम यॊगॊ भवति | ऎवमॆकस्मिन्द्विस्वभावराशौ राशिद्वयॆ राशित्रयॆ राशिचतुष्कॆ वा यदा सर्वॆ ग्रहा भवन्ति चरराशयः स्थिरराशयश्च शून्या भवन्ति तदा नलाख्यॊ यॊगॊ भवति | 292 ऎतानाश्रयजस्त्रीन्यॊगान्सत्याचार्यॊ जगाद उक्तवान्| कॆचित्सत्यस्त्वाश्रयजानिहाह यॊगानिति पठन्ति | इहास्मिन्प्रकरणॆ आहॊक्तवानिति | तथा च सत्यः | “सर्वॆ चरॆषु. राशिषु यदा स्थिता यॊगमाह-- तं रज्जुम् | अनयप्रियस्य सततं विदॆशवासार्थयुक्तस्य | सर्वॆ स्थिरॆषु राशिषु यदा मुशलमाह-- त यॊगाम्| जन्मनि कर्मकराण युक्तानामर्थमानाभ्याम् | द्विशरीरॆषु नल इति यॊगॊ हीनातिरिक्तदॆहानाम्| निपुणानां पुरुषाणां धनसंचयभॊगिनां भवति |” अत्र कैश्चिद्व्याख्यातम् | चरराशिचतुष्कॆ सदा सर्वॆ ग्रहाः भवन्ति तदा रज्जुः स्थिरराशिचतुष्कॆ मुशलं द्विःस्वभावराशिचतुष्कॆ नल इति | तच्चायुक्तम् | यस्माद्भगवान्गार्गिः | “ऎकॊ द्वौ वा त्रयः सर्वॆ चरा युक्ता यदा ग्रहैः | चरयॊगस्तदा रज्जुः शीष्यणां जन्मदॊ भवॆत् | स्थिराश्चॆन्मुशलं नाम मानिनां जन्मकृन्नृणम् | द्विस्वभावॊ नलाख्यस्तु धनिनां परिकीर्तितः |” ऎवमाश्रययॊगत्रयं व्याख्यातं सत्यमतॆन | तथा च सत्यः | “चरराशिगैर्ग्रहॆन्द्रैः स्थिरराशिगतैस्तथा मुशलम्| द्विशरीरगतैर्यॊगॊ नलसंङ्गॊ मुनिभिरुद्दिष्टः |” अथ दलयॊगद्वयमुच्यतॆ | कॆन्द्रैः सदसद्युतैरिति कॆन्द्रॆः यथासंख्यं सदसद्युतैः सद्ग्रहैः सौम्यैर्युतैः दलाख्यॊ दलयॊगः स्रग्माला नाम भवति | तथा कॆन्द्रैरसद्ग्रहैः पापग्रहयुक्तैः दलयॊगः सर्पॊ नाम यॊगॊ भवति | ऎतदुक्तं भवति | यॆषु तॆषु त्रिषु कॆन्द्रॆषु सौम्यग्रहाः बुधगुरुशुक्राः यदा भवन्ति न कस्मिन्कश्चित्कॆन्द्रॆ पापॊ भवति तदा स्नङ्नाम यॊगॊ भवति | अथ यॆषु तॆषु कॆन्द्रॆषु पापाः सूर्यभौमसौराः भवन्ति न कश्चित्कॆन्द्रॆ भवति सौम्यग्रहः तदा सर्पॊ नाम यॊगॊ भवति | नन्वत्र यॊगद्वयं कॆन्द्रॆ सदसद्युतैर्दलाख्यावित्युक्त्वा त्रिषु किमिति व्याख्यातम् | यस्माच्छुक्लपक्षकृष्णपक्षयॊश्चन्द्रस्य सौम्यत्वं पापत्वं च सम्भवति ऎवंस्थितॆ तदा सौम्याक्रान्तॆषु त्रिषु कॆन्द्रॆषु क्षीणश्चन्द्रमा यदा चतुर्थी भवति अथवा पापाक्रान्तॆषु त्रिषु कॆन्द्रॆषु क्षीणश्चन्द्रमा यदा चतुर्थॊ भवति तदापि स्नक्सर्पॊ यॊगौ भवतः | तच्चतुर्षु कॆद्रॆषु किमिति न व्याख्यातम् | उच्यतॆ नैवम् | यस्मादनॆनैव स्वल्पजातकॆ उक्तम् | “कॆन्द्रत्रयगैः पापतरैर्दलाख्या वहिश्च माला च |” अत्र सौम्यास्त्रयः पापास्त्रय इति कथं ज्ञायन्तॆ | यथानयॊर्द्वयॊर्मध्यॆ चन्द्रमास्तृतीयॊ न भवति | उच्यतॆ | भगवता गार्गिणॊक्तम् | “त्रिकॆन्द्रगैर्यमाराकैः सर्पॊ 293 दुःखितजन्मदः | भॊगिजन्मप्रदा माला तद्वज्जीवसितॆन्दुजैः |” ख्नग्यॊगः पापवर्जितकॆन्द्रॆषु सर्पः सौम्यवर्जितॆष्विति कथं ज्ञायतॆ | उच्यतॆ | बादरायणॆनॊक्तम् | “कॆन्द्रॆष्वपापॆषु सितज्ञजीवैः कॆन्द्रत्रिसंस्थैः कथयन्ति मालाम्| सर्पस्त्वसौम्यैश्च यमारसूर्यैर्यॊगाविमौ द्वौ कथितौ दलाख्यौ |” ऎतौ दलयॊगौ | द्वौ स्रक्सपौं कथितौ पराशरॆणौक्तौ | न त्वन्यैरप्युक्तौ | उच्यतॆ अन्यैर्नॊक्तौ पराशरॆणौक्ताविति स्वशास्त्रॆ वराहमिहिरॆणॊक्तौ तथा च मणित्थः | “कॆन्द्रत्रयगतैः पापैः सौम्यैर्वा दलसंज्ञितौ | द्वौ यॊगौ सर्पमालाख्यौ विनष्टफलप्रदौ|” ऎकमाश्रययॊगत्रयमपि अन्यैरुक्तमन्यैर्नॊक्तम् | अन्यैरुक्तत्वाद्वराहमिहिरॆण शास्त्रॆ संगृहीतम् | ऎवं दलयॊगद्वयं व्याख्यातम् || 2 || यॊगा व्रजन्त्यात्श्रयाजाः समत्वं यवाब्जवज्राण्डजगॊलकाद्यैः | कॆन्द्रॊपगैः प्रॊक्तफलौ दलाख्यावित्याहुरन्यॆ न पृथक्फलौ तौ | 3 ||  भट्टॊत्पलः-अथान्यॆराचार्यॆर्यॆन प्रकारणॆ‌आश्रययॊगत्रयं दलयॊगद्वयं च व्याख्यातं तत्कारणमुपजातिकयाह  294 यॊगा व्रजन्तीति | आश्रयजा यॊगा रज्जुर्मुशलनलाख्या आकृतियॊगैः यवाब्जवज्रांडजगॊलकाद्यैः यवपद्मवज्रविहङ्गगॊलकैः आदिग्रहणाद्गदाशकटाभ्यां च तथा संख्यायॊगैः गॊलकाद्यैः गॊलकयुगशूलकॆदारैः संख्यायॊगैः आश्रयजा यॊगास्तुल्यतां समत्वं व्रजन्तीत्यतॊऽन्यैर्नॊक्ताः | तद्व्यतिरॆकॆणाप्याश्रययॊगानामवकाशॊऽस्तीति वराहमिहिरॆणॊक्ताः यैश्च यॊगैः समतां यास्यन्ति | यत्र कैतॆषामन वकाशस्तदध्यायान्तॆ व्याख्यास्यामः | कॆन्द्रॊपगैः प्रॊक्तफलाविति | दलाख्यौ दलयॊगौ द्वौ कॆन्द्रॊपगैः प्रॊक्तफलौ कथितफलौ कॆन्द्रॊपगतैः ग्रहैः प्रॊक्तॆ फलॆ ययॊः | कॆन्द्रत्रयगैः कॆन्द्रस्थानां शुभग्रहाणां शुभं फलमुक्तमशुभानामशुभमिति | अत ऎवॆमौ प्रॊक्तफलौ कथितफलौ | उक्तं च वराहमिहिरॆण | “कॆन्द्रत्रिकॊणॆषु शुभाः प्रशस्तास्तॆष्वॆव पापा न शुभप्रदाः स्युः |” कॆन्द्रत्रिकॊणगैः शुभैः शुभं फलं भवतीति माला नॊक्ता | ऎवं कॆन्द्रत्रयगैः पापैः पापफलं भवतीति सर्पॊ नॊक्तः | ऎवमन्यॆ अपरॆ आहुः कथयन्ति | तथा तौ न पृथक्फलावुक्तार्थत्वात् | यद्यॆवं तर्हि किमर्थं वराहमिहिरॆणॊक्तावित्यत्रॊच्यतॆ | नाभसयॊगान्तर्भूतत्वात्समस्तदशास्वपि फलदौ भवतः | यदा कॆन्द्रॊपगानां यॊगं विना फलं प्रयच्छन्ति | ऎतच्च पराशरादीनां मतम् | तॆषां मतं यथा नाभसयॊगावॆतौ समस्तदशास्वपि फलप्रदौ अतॊ न वराहमिहिरॆणॊक्तौ | 3 || आसन्नकॆन्द्र भवनद्वयगैर्गदाख्यस्तन्वस्तगॆषु शकटं विहगः खबन्ध्वॊः |  श्रृंगाटक नवमपञ्चमलग्नसंस्थैर्लग्नान्यगैर्हलमिति प्रवदन्ति तज्ज्ञाः | 4 || भट्टॊत्पलः-अथाकृतियॊगान्पञ्च-गदाशकटविहङ्गश्रृङ्गाटकहलाख्यान्व सन्ततिलकॆनाह 295 आसन्नॆति | आसन्नॆ निकटवर्तिनि | कॆन्द्रभवनद्वयॆ कण्टकराशियुग्मॆ यदा सर्वॆ ग्रहाः भवन्ति तदा गदाख्यॊ यॊगॊ भवति | स च चतुः प्रकारः | लग्नचतुर्थस्थैः सर्वग्रहैरॆकः | चतुर्थसप्तमस्थैर्द्वितीयः | सप्तमदशमस्थैस्तृतीयः | दशमलग्नॆस्थैश्चतुर्थः | तन्वस्तगॆष्विति | तन्वस्तगॆषु लग्नसप्तमगॆषु सर्वग्रहॆषु शकटं भवति | खबन्ध्वॊः दशमचतुर्थयॊः सर्वग्रहॆषु स्थितॆषु विहगाख्यॊ यॊगः | नवमपंचमलग्नस्थैः सर्वग्रहैः श्रृंगाटकाख्यॊ यॊगॊ भवति | लग्नान्यगैर्हलमिति | लग्नं वर्जयित्वा यथासम्भवमन्यॆ सर्वॆ ग्रहाः परस्परं त्रिकॊणगता भवन्ति तदा हलमिति यॊगः तज्ज्ञाः हॊराशास्त्रपण्डिताः प्रवदन्ति कथयन्ति | स च त्रिप्रकारः | शकटाण्डजवच्छुभाशुभैर्वजं तद्विपरीतगैर्यवः |  कमलं तु विमिश्रसंस्थितैर्वापी तद्यदि कॆन्द्रबाह्यतः | 5 ||  भट्टॊत्पलः-अथ वज्रयवकमलवापीसंज्ञं यॊगचतुष्टयं वैतालीयॆनाहशकटाण्डॆजॆति | शकटवच्छुभैः व्यवस्थितैरण्डजवदशुभैश्च वज्रं भवति | ऎतदुक्तं भवति | लग्नसप्तमयॊः सौम्य चतुर्थदशमयॊश्च पापा भवन्ति| नान्यत्र कॆचित्तदा वज्राख्यॊ यॊगॊ भवति तद्विपरीतगैर्यवः| अत ऎव ग्रहा यदि  296 विपरीतगता भवन्ति तदा यवाख्यॊ यॊगॊ भवति | शकटवदशुभाः अण्डजवच्छुभाः | ऎतदुक्तं भवति | लग्नसप्तमयॊः पापाः स्थिताः चतुर्थदशमयॊश्च शुभाः स्थितास्तदा यवाख्यॊ यॊगॊ भवति | कमलं त्विति | ऎतैरॆव सौम्यपापैः विमिश्रसंस्थितैश्चतुष्वपि कॆन्द्रॆषु समवस्थितैः कमलाख्यॊ यॊगॊ भवति | तदॆव कमलं यदि कॆन्द्रीबाह्यतॊ भवति तदा वापीसंज्ञॊ यॊगः | ऎतदुक्तं भवति | सर्वैरॆव कॆन्द्रबाह्यतः स्थितैः कॆन्द्राणि वर्जयित्वान्यत्र पणफरापॊक्लिमॆषु स्थितैस्तदॆव कमलं वापीसंज्ञं भवति यॊगः | पणफरॆषु चतुर्ष्वापॊक्लिमॆषु चतुर्ष्वापॊक्लिमॆषु चतुर्ष्विति || 5 || भट्टॊत्पलः-अथ वज्रयवयॊः सम्भवॊऽत्र न भवति तौ च मया पूर्वशास्त्रानुसारॆण कृतावित्यॆतदनुष्टुभाहपूर्वशास्त्रानुसारॆणॆति | पूर्वशास्त्रानुसारॆण पूर्वाचार्यॆः मययवनादिभिः वज्राख्यॊ यॊगः कृतः यवाख्यश्च | तस्मान्मयापि कृतः | वज्रादय इति बहुवचननिर्दॆशॊऽन्यॆषामॆवम्प्रकाराणां प्रदर्शनार्थः | वज्रादयॊ यॊगा यद्यपि न सम्भवति तथापि पूर्वशास्त्रनुसारॆण मया कृता | तान्यनुसृत्य दृष्टवॆत्यर्थः | यतः  297 सूर्यादादित्याच्चतुर्थॆ भवनॆ चतुर्थराशौ पूर्वॆण पश्चिमॆन वा ज्ञसितौ बुधशुक्रौ कथं भवतः | न कदाचिदक्~ऒदयॆऽस्तमयॆ वा मध्याह्नार्धरात्रयॊः बुधशुक्रौ भवतः | आदित्यॆ मध्याह्नस्थॆऽर्धरात्रस्थॆ वा तयॊरुदयॊऽस्तमयॊ वा न भवत्यॆव | 6 || कण्टकादिप्रवृतैस्तु चतुर्गृहगतैग्रहैः |  यूपॆषुशक्तिदण्डाख्या हॊराद्यैः कण्टकैः क्रमात् || 7 ||  भट्टॊत्पलः-अथ यूपॆषुशक्तिदण्डाख्यं यॊगचतुष्टयकमनुष्टुभाह कण्टकादीति | हॊरा लग्नं तदाद्यैः कॆन्द्रॆ क्रमात्परिपट्या लग्नकॆन्द्रमादितः कृत्वा चतुर्षु गृहॆषु यथासम्भव सर्वग्रहाणामवस्थानं भवति तदा | यूपॆषुशक्तिदण्डाख्याश्चत्वारॊ यॊगा भवन्ति | यद्यथा | लग्नद्वितीयतृतीयचतुर्थॆषु चतुष्वपि यदा सर्वॆ ग्रहाः भवन्ति तदा यूपाख्यॊ यॊगॊ भवति | अथ चतुर्थपञ्चमषष्ठसप्तमॆषु चतुर्षु सर्वॆ ऎव ग्रहा भवन्ति तदॆषुः शराख्यॊयॊगः | अथ सप्तमाष्टम नवमदशमॆषु चतुर्षु सर्वॆ ऎव ग्रहाः भवन्ति | तदा शक्तियॊगः | अथ दशमैकादशद्वादशलग्नॆषु चतुर्ष सर्वॆ ऎव भवन्ति तदा दण्डयॊग इति | 7 |  298 नीकूटच्छत्रचापानि तद्वत्सप्ताक्षसंस्थितैः | भट्टॊत्पलः-अथ नौकूटच्छत्रचापार्धचन्द्राख्यं यॊगपञ्चकमनुष्टुबाह नौकूटच्छत्रॆति | तद्वतॆनैव प्रागुक्तॆन प्रकारॆण लग्नकॆन्द्रादारभ्यैकस्मात् कॆन्द्रात्सप्तभिर्ग्रहैः सप्तर्क्षसंस्थितैः नौकूटच्छत्रचापसंज्ञयॊगचतुष्टयं भवति | तद्यथा || लग्नद्वितीयतृतीयचतुर्थपञ्चमषष्ठसप्तमॆषु यदा सर्वॆ ग्रहास्तदा नौर्नाम यॊगॊ भवति | ऎवं चतुर्थपञ्चमषष्ठसप्तमाष्टमनवमदशमॆषु यदा सर्वॆ ग्रहाः भवन्ति तदा कूटाख्यॊ यॊगॊ भवति | अथ सप्तमाष्टमनवमदशमैकादशद्वादशलग्नॆषु सर्वॆ ग्रहा भवन्ति तदा छत्राख्यॊ यॊगः | अथ दशमैकादशद्वादशलग्नद्वितीयतृतीयचतुर्थॆषु यदा सर्वॆ ग्रहा भवन्ति तदा चापं चापाख्यॊ यॊगः | अर्धचन्द्र इति | नावाटौरॆव यॊगैरन्यक्षसंस्थितैः अपरराशिव्यवस्थितैरर्धचन्द्राख्यॊ यॊगॊ भवति | नावाद्याः कण्टकॆषूक्ताः तैश्चान्यज्ञसंस्थितैः अपरराशिगतैः तॆन पणफरॆभ्यः आरभ्य निरन्तरं सप्तसु गृहॆषु यदा सर्वॆ ग्रहा भवन्त्यापॊक्लिमॆभ्यॊ वा तदार्धचन्द्राख्यः स चाष्टप्रकारः | तद्यथा | द्वितीयतृतीयचतुर्थपञ्चमषष्ठसप्तमाष्टमॆषु सप्तसु सर्वॆ ग्रहा यदा भवन्ति तदैकः | ऎवं तृतीयादिनवमान्तॆषु द्वितीयः | पञ्चमादिष्वॆकादशान्तॆषु तृतीयः | षष्ठादिषु द्वादशान्तॆषु चतुर्थः | अष्टमादिषु द्वितीयान्तॆषु पञ्चमः | नवमादिषु तृतीयान्तॆषु षष्ठः | ऎकादशादिषु पञ्चमान्तॆषु सप्तमः | द्वादशदिषु षष्ठान्तॆषु यदा सर्वॆ ग्रहा भवन्ति तदाऽष्टम इति || 8 || 299 भट्टॊत्पलः-अथ समुद्रचक्राख्यौ द्वौ यॊगावनुष्टुबाह ऎकान्तरॆति | अर्थाद्द्वतीयस्थानादारभ्यैकान्तरगतैग्रहैः षड्ग्रहाश्रितैः षड्राशिषु व्यवस्थितैः सप्तभिर्ग्रहैः समुद्राख्यॊ यॊगॊ भवति | तद्यथा | द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशॆषु षट्सु यदा सप्त ग्रहा भवन्ति तदा समुद्राख्यॊ यॊगः विलग्नादिस्थितैरिति | अनॆनैव प्रकारॆण विलग्नाल्लग्नात्प्रभृत्यॆकान्तरस्थैः षड्गृहॆषु सप्तभिर्ग्रहैः स्थितैः चक्राख्यॊ यॊगॊ भवति | तद्यथा | लग्नतृतीयपञ्चमसप्तमनवमैकादशॆषु षड्गृहॆषु यदा सर्वॆ ग्रहाः भवन्ति तदा चक्राख्यॊ यॊगॊ भवति | इत्यॆकं प्रकारॆण आकृतिजानामाकारवशादुत्पन्नानां संग्रहॊ व्याख्यातः | 9 || 300 सङ्ख्यायॊ|गाः स्युः सप्त सप्तक्षसंस्थैरॆकापायाद्वल्लकी दामिनी च |  पाशः कॆदारः शूलयॊगॊ युगं च गॊलश्चान्यान्पूर्वमुक्तान्विहाय || 10 ||  भट्टॊत्पलः-अथ संख्यायॊगसप्तकं शालिन्याह संख्यायॊगा इति | सप्तर्क्षसंस्थैः सप्तभिर्ग्रहैः सप्तसु राशिषु गतैरॆकापायादॆकापगमात्क्रमात्सप्त संख्या यॊगाः स्युः भवॆयुः | तॆ च वल्लक्यादयॊ गॊलान्ताः | तद्यथा | यॆषु तॆषु सप्तसु गृहॆषु यदा सर्वॆ ग्रहा भवन्ति तदा वल्लकीनाम यॊगॊ भवन्ति | यदा षट्सु गृहॆषु सप्त ग्रहा भवन्ति तदा दामिनीनाम यॊगॊ भवति | ऎवं पञ्चसु सप्तग्रहाः पाशः पाशॊ यॊगः | चतुर्षु कॆदारः कॆदारॊ यॊगः | त्रिषु शूलः शूलॊ यॊगः | द्वयॊर्युग युगनाम यॊगः | ऎकस्मिन्राशौ सप्त ग्रहा यदा भवन्ति तदा गॊलः गॊलनामा यॊगः | अन्यान्पूर्वमुक्तान्विहाय पूर्वॊक्तानन्यान्यॊगान्विहाय वर्जयित्वा ऎतॆ यॊगाः भवति | ऎतदुक्तं भवति | यथॊक्तानां यॊगानां मध्याद्यदि संख्यायॊगस्य सादृश्यं भवति तदा संख्यायॊगॊ नाङ्गीकार्यः | स ऎव यॊगॊ ग्राह्य इति | 10 |  301 भॊगान्वितॊ भुजगजॊ बहुदुःखभाक्स्यात् | 11 ||  भट्टॊत्पलः-आश्रययॊगत्रयजातानां दलयॊगद्वयजातानां च फलं वसंततिलकॆनाह‌ईष्र्युरिति | ईष्र्युः समत्सरः परर्द्धिमत्सरी, विदॆशनिरतः परदॆशाध्यासनशीलः, अध्वरुचिः सततमटनः | ननु विदॆशनिरत ऎवाध्वरुचिः | तत्किमत्र द्वयॊर्ग्रहणम् | उच्यतॆ | विदॆशॆऽप्यनॆकप्रदॆशाध्यासनशीलॊ भवति सततमटनॊ न भवति | ऎवंविधॊ रज्जवां रज्जावाख्यॆ यॊगॆ जातॊ भवति | मानी गर्वितः, धनी वित्तवान्, बहुषु कृत्यॆषु कार्यॆष्वासक्तः बहुकर्मारम्भशीलः ऎवंविधॊ मुशलाख्यॆ यॊगॆ जातॊ भवति | व्यङ्गॊऽङ्गहीनः विगतमङ्गं यस्य, स्थिरॊ दृढनिश्चयः, आढ्यॊ धनवान्, निपुणः कार्यॆषु सूक्ष्मदृष्टिः | ऎवंविधॊ नलजॊ नलाख्यॊ यॊगॆ जातॊ भवति | ऎवमाश्रययॊगत्रयजातान व्याख्यातम् | स्वगुत्थॊ| भॊगान्वित इति | स्रगुत्थः स्रग्यॊगॆ जातॊ भॊगान्वितॊ भवति | भुजगजॊ भुजगाख्यॆ सर्पयॊगॆ जातॊ बहुदुःखभाक् स्यात् नानाप्रकाराणां दुःखानां भॊक्ता भवति | कॆचिदत्र बहुवचनं पठन्ति | “व्यगांः स्थिराढया निपुणा नलजाः स्रगुत्था भॊगान्विता भुजगजा बहुदुःखभाजः” इति न कश्चिद्दॊषः | ऎवं दलयॊगद्वयजातानां फलं व्याख्यातम् | 11 ||  302 आश्रयॊक्तास्तु विफला भवन्त्यन्यैर्विमिश्रिताः |  मिश्रा यैस्तॆ फलं दद्युरमिश्रा स्वफलप्रदाः || 12 ||  भट्टॊत्पलः-अथान्यॊ यॊग आश्रययॊगश्च यदा समकालमत्र दृश्यतॆ तत्राश्रययॊगस्य निराकरणार्थमनुष्ठबाह आश्रयॊक्तास्त्विति | यत्रान्यॊ यॊग आश्रययॊगश्च भवति तत्राश्रययॊगॊऽन्यॆन यवादिना मिश्रॊ भवति मिश्रितत्वाच्चाफलॊ भवति | स्वं फलं न प्रयच्छति | ऎवमन्यैरपरैः विमिश्रिता निष्फला भवन्ति | यैश्च मिश्राः सादृश्यं गतास्तॆ तत्र फलं दद्युः | कॆचिन्मिश्रा यैस्तॆ फलं तॆषामिति पठंति | अमिश्राश्चान्यैः यदा भवन्ति तदा स्वफलप्रदा आत्मीयं फलं ददति | तत्र चरराशौ लग्नगतॆ स्थिरद्विस्वभावस्थिरमिश्राः | स्थिरलग्नॆ चरद्विस्वभावगतैरमिश्राः | द्विस्वभावलग्नॆ चरस्थिरगतैरमिश्रा इति | 12 ||  यज्वार्थभाक्सततमर्थरुचिगदायां यज्वार्थभागिति | यज्वा यजनशीलः, अर्थभाग्धनानां भाजनं, सततं सर्वकालमर्थरुचिंः अर्थार्जनॊद्यमशीलः ऎवंविधॆ गदाख्यॆ यॊगॆ जातॊ भवति |   303 तद्वृत्तिभुगिति | तदिति शकटपरामर्शः | तद्वृत्तिभुक् शकटवृत्ति भुंक्तॆ | शकटाजीवी भवतीत्यर्थः | सरुजॊ व्याध्यर्दितः कुदारः कुत्सितभार्यः ऎवंविधः शकटजः शकटयॊगॆ भवति | दूतॊऽटन इति दूतः परसंदैशप्रापणार्थं परसकाशगामी, अटनः परिभ्रमणशीलः | ननु दूतॆनाप्यवश्यमटनॆन भवितव्यम् | उच्यतॆ | परॆच्छया गमनशीलॊ दूतः अयं पुनः स्वॆच्छयाटनः तदुभयभाग्भवति | कलहकृत् कलहशीलः ऎवंविधॊ विहगाख्यॆ यॊगॆ जातॊ भवति | प्रदिष्टः उक्तः| चिरॆण सुखॊ चिरसुखी, वयॊऽन्तॆ सुखीत्यर्थः | ऎवंविधॊः श्रृङ्गाटकाख्यॆ यॊगॆ भवति | अन्यैश्चिरंसुखी चिरसुखी श्रृङ्गाटकॆ व्याख्यातः | तच्चायुक्तम् | यस्माद्भागवान्गार्गिः | “लग्नपञ्चमधर्मस्थैर्यॊगः श्रृङ्गाटकॊ मतः | वयॊंऽतॆ सुखिनां जन्म तत्र स्यातस्वादुभाषिणाम् |” कृषिकृद्धलाख्यॆ | हलाख्यॆ यॊगॆ जातः कृषिकृद्भवति, कृषिं करॊतीत्यर्थः | 13 || वज्रॆन्त्यपूर्वसुखिनः सुभगॊऽतिश्शूरॊ विर्यान्वितॊऽप्यथ यवॆ सुखितॊ वयॊऽन्तः |  वख्यातकीत्र्यमितसौख्यगुणश्च पदॊ वाप्यां तनुस्थिरसुखॊ निधिकृन्न दाता | 14 ||  भट्टॊत्पलः-अथ वज्रयवपद्मवापीजातानां स्वरूपं वसन्ततिलकॆनाह 304 वज्रॆऽन्त्यपूर्वसुखिन इति | अन्त्यॆ वयॊऽयॆ सुखिनः पूर्वॆ सुखिनश्च बाल्यॆ सुखी यौवनॆ दुःखितॊ वृद्धत्वॆ पुनरॆव सुखी भवतीत्यर्थः | सुभगः सर्वजनवल्लभः अतिशूरॊऽतीवसंग्रामधीरः ऎवंविधॊ वज्राख्यॆ जातॊ भवति | वीर्यान्वितः पराक्रमयुक्तः | अथशब्दः पादपूरणॆ | वयॊऽन्तः वयॊमध्यॆ सुखी | अन्तःशब्दॊऽत्र मध्यपर्यायः | ऎवंविधॊ यवाख्यॆ यॊगॆ जातॊ भवति | विख्यातकीर्तिः सर्वजनप्रसिद्धकांर्तिः | सा न तु किमत्र विख्यातकीर्तिरस्ति | उच्यतॆ | अस्ति क्वचिच्च सा | यथा क्रीर्त्तिप्रापककर्मभिः शतैरपि परं प्रख्यातकीर्तिं न प्राप्नॊति | अमितसौख्यगुणः अपरिमितसौख्यॊऽपरिमितगुणश्च| गुणाः विद्याशॊर्यादय, ऎवंविधः पद्माख्यॆ यॊगॆ जातॊ भवति | तनुस्थिरसुखं तनु स्वल्पं स्थिरं चिरकालस्थायि सुखं यस्य स्वल्पसुखं बहुकालं भवतीत्यर्थः | निधिकृत् भूमावर्थस्थापनशीलः न दाता कदर्य ऎवंविधॊ वापी संज्ञॆ यॊगॆ जातॊ भवति | 14 || त्यागात्मवान्क्रतुवरैर्यजतॆ च यूपॆ हिंस्रॊऽथ गुप्त्यधिकृतः शरकृच्छराख्यॆ |  नीचॊऽलसः सुखधनैर्वियुतश्च शक्तौ दण्डॆ प्रियैर्विरहितः पुरुषॊऽन्त्यवृत्तिः || 15 ||  भट्टॊत्पलः-अथ यूपशरशक्तिदण्डाख्यॆ यॊगचतुष्टयॆ जातानां स्वरूपं वसन्ततिलकॆनाह   305 त्यागात्मवानिति | त्यागी दाता आत्मवानप्रमादी | क्रतुवरैर्यज्ञश्रॆष्ठैर्यज्ञैर्यजतॆ ऎवंविधॊ यूपाख्यॆ यॊगॆ जातॊ भवति | हिंखॆति | हिंस्रॊ वधरुचिः, गुप्त्यधिकृतः बन्धनपालः, शरकृत् शरकारः ऎवंविधश्च शराख्यॆ यॊगॆ जातॊ भवति | नीच इति | नीचः अधमानामकुलॊचितानां कर्मणां कर्ता, अलसः क्रियास्वपटुः, सुखधनैर्वियुतॊ भॊगवित्तविवर्जितः, निःसुखॊ निर्धनश्च ऎवंविधः शक्तौ यॊगॆ जातॊ भवति | प्रियैः पुत्रादिभिः विरहितः वर्जितः, अन्त्यवृत्तिः दासवृत्तिः, शूद्भवृत्तिरित्यर्थः | ऎवंविधॊ दंडाख्यॆ यॊगॆ जातः पुरुषॊ भवति | 15 || कीत्यायुतश्चलसुखः कृपणश्च नौजः कूटॆऽनृतप्लवनबन्धनपश्च जातः |  छत्रॊद्भवः स्वजनसौख्यकरॊऽन्त्यसौख्यः शूरश्च कार्मुकभवः प्रथमान्त्यसौख्यः || 16 ||  भट्टॊत्पलः-अथ नौकूटच्छत्रकार्मुकजातानां स्वरूपं वसन्ततिलकॆनाहकीत्र्या युतश्चलसुख इति | कीत्र्यायुतः ख्यातयशाः चलसुखः कदाचित्सुखी कदाचिद्दुखी, कृपणः अदाता चशब्दॊऽत्र समुच्चयार्थॆ | ऎवंविधॆ नौजः नावाख्यॆ यॊगॆ जातः प्राणी भवति | कूटॆऽनृत इति | अनृतॆ प्लवनामतिर्यस्यासावनृतप्लवनः, असत्याभिधायी असत्याभिभाषी च | बन्धनपः बन्धन पातति बन्धनपः कॆचित्कूटॆऽनृतकृपणबन्धनपश्च जात इति पठन्ति | ऎवंविधः कूटाख्यॆ यॊगॆ जातॊ भवति | इति कूटयॊगः | छत्रॊद्भव इति | 306 स्वजनसौख्यकरः स्वजनॆषु सुखं करॊतीति स्वजनसौख्यकरः, अन्त्यसौख्यॊ वृद्धत्वॆ सुखितः ऎवंविधः छत्राख्यॆ यॊगॆ जातॊ भवति | इति छत्रयॊगः | कार्मुकभवः शूरश्च संग्रामप्रियः, प्रथमान्त्यसौख्यः प्रथमॆ बाल्यॆ सुखी अन्त्यॆ वृद्धत्वॆ सुखी च ऎवंविधः कार्मुकभवः चापाख्यॆ यॊगॆ जातॊ भवति | इति चापयॊगः | 16 || अर्धन्दुजः सुभगकान्तवपुः प्रधानस्तॊयालयॆ नरपतिप्रतिमस्तु भॊगी |  चक्रॆ नरॆन्द्रमुकुटद्युतिरञ्जिताडघ्रिर्वीणॊद्भवश्य निपुणः प्रियगीतनृत्यः || 17 ||  भट्टॊत्पलः-अथार्धचन्द्रसमुद्रचक्रवल्लकीजातानां स्वरूपं वसन्ततिलकॆनाह‌अर्धॆन्दुज इति | सुभगः सर्वजनप्रियः कान्तवपुः प्रदर्शनीयः, प्रधानः सर्वजनपूज्यः ऎवंविधॊऽर्धॆन्दुजॊऽर्धचन्द्राख्यॊ यॊगॆ जातॊ भवति | नरपतिप्रतिमः राज्ञा तुल्यः भॊगी, भॊगवान् ऎवंविधस्तॊयालयॆ समुद्राख्यॆ यॊगॆ जातॊ भवति | चक्रॆति | नरॆन्द्रा राजानः तॆषां मुकुटाः किरीटाः चूडामणिरत्नानि तॆषां द्युतिः कान्तिः तया रञ्जितौ छुरितावंघ्री पादौ यस्य, राजानस्तस्य पादयॊः पतन्ति, महाराजाधिराजॊ भवतीत्यर्थः | तपॊज्ञानादियॊगाद्राज्ञां पूजनीयॊ वा ऎवंविधश्चक्राख्यॆ यॊगॆ जातॊ भवति | आकृतियॊगविंशतिजातानां फलं व्याख्यातम् | अत्रैव भूपालसंख्यायॊगानां फलं व्याख्यायतॆ | वीणॊद्भवश्चॆति |  307 निपुणः सूक्ष्मदृष्टिः, प्रियगीतनृत्यः गीतप्रियॊ नृत्यप्रियश्च ऎवंविधॊ वीणॊद्भवॊ वीणाख्यॆ यॊगॆ जातॊ भवति | 17 ||  दातान्यकार्यनिरतः पशुपश्च दाम्नि पाशॆ धनार्जनविशीलसभृत्य बन्धुः |  कॆदारजः कृषिकरः सुबहूपयॊज्यः शूरः क्षतॊ धनरुचिर्विधनश्च शूलॆ || 18 ||  भट्टॊत्पलः-अथ दामिनीपाशकॆदारशूलयजातानां स्वरूपं वसन्ततिलकॆनाहदातान्यकार्यॆति | दाता उदारः, अन्यकार्यनिरतः परॊपकारासक्तः, पशुपः पशुरक्षिता बहुपशुभाग्भवति | अथवा बहुपाठॆ बहूनां पालयिता रक्षयिता | ग्रामाधिपतिरित्यर्थः | ऎवंविधॊ दाम्नि यॊगॆ जातॊ भवति | पाश इति | धनार्जनॆ विशीलः धनार्जनविशीलः धनार्जनविशीलश्चासौ सभृत्यबन्धुश्च धनार्जनविशीलसभृत्यबन्धुः स्वयमॆव धनार्जनॆ विशीलः असन्मार्गॆण धनार्जनं करॊति | तथाभूता अस्य भृत्याः कर्मकरा बान्धवाश्च भवन्ति | ऎवंविधः पाशाख्यॆ यॊगॆ जातॊ भवति | कॆदारज इति | कृषिकरः कृषिं करॊति सुबहूपयॊज्यः सुष्ठु शॊभनं कृत्वा बहूनामुपयुज्यतॆ उपकरॊति ऎवंविधः कॆदारजः कॆदाराख्यॆ यॊगॆ जातॊ भवति | शूरः समरधीरः, क्षतः प्रहारितः, धनरुचिः अर्थप्रियः | कॆचिद्वधरुचिरिति पठन्ति | विधनः दरिद्रश्च ऎवंविधः शूलाख्यॆ यॊगॆ जातॊ भवति | 18 ||  308 धनविरहितः पाखण्डी वा युगॆ त्वथ गॊलकॆ विधनमलिनौऽज्ञानॊपॆतः कुशिल्प्यलसॊऽटनः |  इति निगदिता यॊगाः सार्ध फलैरिह नाभसा नियतफलदाश्चिन्त्या ह्यॆतॆ समस्तदशास्वपि || 19 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ नाभसयॊगाध्यः सम्पूर्णः | 12 ||  भट्टॊत्पलः-अथ युगगॊलयॊर्जातस्य स्वरूपं सर्वॆषां च नाभसयॊगानां समस्तदशासु फलप्रदर्शनं हरिण्याहधनविरहित इति | धनविरहितः अर्थहीनः. पाखण्डी त्रयीमार्गव्यपॆतः ऎवंविधॊ युगाख्यॆ यॊगॆ जातॊ भवति | वा शब्दॊऽत्र चार्थॆ | अर्थहीनः पाखण्डी च | अथशब्द अनन्तर्यॆ | विधनॊऽर्थहीनः, मलिनॊ मलॊपॆतशरीरः मलिनवासा वा, अज्ञानॊपॆतः मूर्खः, कुशिल्पी लॊकॆ निंद्यशिल्पकर्ता, अलसः क्रियास्वसमर्थः अटनॊ भ्रमणशीलः | नन्वत्रालसॊऽटनश्चॆति विरुद्धम् | उच्यतॆ | स्वरूपॆणालसः तथाप्यतिदारिद्रयाद्भॊजनक्रियामटनं विना सम्पादयितुमशक्यत्वादटनः ऎवंविधॊ गॊलाख्यॆ यॊगॆ जातॊ भवति | ऎवं सप्तसु संख्यायॊगॆषु शुभफलं व्याख्यातम् | इति निगदिता यॊगा इति | इत्यॆवम्प्रकारा नाभसयॊगाः फलैः सार्ध सह निगदिता उक्ताः | इहास्मिन्ध्यायॆ ऎतॆ समस्तदशास्वपि नियतफलदाः सर्वकालफलप्रदा, चिन्त्या विज्ञातव्याः | ननु वज्रादिष्वाद्यन्तसुखिता प्रदर्शिता तत्कथं समस्तदशास्वित्युक्तम् | उच्यतॆ | तॆषां वचनाद्यथादर्शितकालः सुखदुःखयॊर्भविष्यति | यॆषां कालविभागॊ नॊक्तस्तॆषां समस्तदशास्वपि यथादर्शितसुखदुःखप्रदा भविष्यन्ति | ननु कस्यचित्समस्तं जन्म सुखॆन दुःखॆन चैकरूपॆण गच्छति यॆ च भॊगिनः तॆऽपि मानसैर्दुःखैरभिभूता भवन्ति यॆऽपि 309 भिक्षाशिनस्तॆऽपि कदाचिद्धर्माभितप्ता भवन्ति | शीतलासुद्वमच्छायासु सुखितमित्यात्मानं मन्यंतॆ | तस्मादॆवमादिसुखं दुःखं सर्वॆण संसारिजातॆन विपर्ययॆणानुभूयतॆ तत्कथं समस्तदशास्वपि यॊगाः फलप्रदा भवन्ति | उच्यतॆ | नैतॆ यॊगा दशाष्टकवर्गफलहन्तारः | शुभमशुभं वा फलं दशापतिर्ददात्यष्टकवर्गाश्रितमपि फलं च | अतॊ यथाकालं अपि समग्रजन्मनि| फलं ददत्यॆवं मिश्रफलानुभावॊ भॊगिनां दरिद्रणां च सम्भवत्यॆव | ऎवं तावन्नाभसयॊगाध्यायॊ व्याख्यातः | अस्मिन्नध्यायॆ यद्वक्तव्यं पूर्वं प्रतिज्ञात तदुच्यतॆ | दलयॊगाकृतियॊगयॊः समकालमुपस्थानं नास्ति तथा दलयॊगैः सहाश्रययॊगानां तुल्यकालमुपस्थानं नास्त्यॆव | अथ दलयॊगैः सह संख्यायॊगा युज्यन्तॆ यदा दलयॊगैर्युज्यन्तॆ तदा दलयॊगफलमॆव भवति | अथाकृतियॊगाः संख्यायॊगैर्युज्यन्तॆ तदाप्याकृतियॊगफलं भवति यस्मात्संख्यायॊगानामपवादः | अन्यान्पूर्वमुक्तान्विहाय आश्रययॊगानामप्यपवादः | आश्रययॊगास्तु विफला भवत्यन्यर्विमिश्रिता इति | तस्मात्संख्यायॊगा आश्रयॊगाश्चाभिभूयन्तॆ | अथाश्रययॊगॆन सह संख्यायॊगस्यावस्थानं भवति तदा आश्रययॊग ऎव भवति | नन्वाश्रययॊगसंख्यायॊगानां तुल्यॆ अपवादॆ आश्रययॊगॆन संख्यायॊगः कथमभिभूयतॆ | उच्यतॆ | यदि संख्यायॊगॆनाश्रययॊगस्यावस्थानं भवति, संख्यायॊगॊ भवति | तत्र यदि आश्रययॊगॆन भवति तदा आश्रययॊगस्यावकाश ऎव सम्भवति | आश्रययॊगॆन संख्यायॊगस्थानॆ कृतॆ अस्त्यॆवान्यॊऽवकाशः संख्यायॊगस्य | किन्तु ऎकस्मिन्राशी यदा सर्वॆ ग्रहाः भवन्ति तदा आश्रययॊगॆन संख्यायॊगॊऽभिभूयतॆ तदा गॊलकस्यानवकाशः, अवकाश ऎव न स्यात् | परिभाषा चॆयम् | निरवकाशा हि विधयः सावकाशान्विधीन्बाधन्तॆ इति | अथैकैकं राशिलग्नगतमधिकृत्य पुराणयवनमतॆन यत्सार्धं यॊगशतमुक्तं तदधुना प्रदर्श्यतॆ | तॆषां तावत्त्रयॊविंशतिराकृतियॊगाः, विंशतिरॆव वराहमिहिरॆणाभिहिताः | किंतु तॆषां मध्याद्गदायॊगॆन चत्वारॊ यॊगा अभिहिताः | लग्नचतुर्थयॊः यदा सर्वॆ ग्रहा भवन्ति तदा गदायॊगः | चतुर्थसप्तमयॊः शंखः | सप्तमदशामयॊः बभ्रुकः | दशमलग्नयॊः ध्वजः | तत्र पूर्वॊक्ता विंशतिः शंखः बभ्रुध्वजैः सह त्रयॊविंशतिः भवन्ति | संख्यायॊगानां सप्तविंशत्यधिकं शतमॆवं सार्द्धॆ शतं 310 (15 ऒ) राशिद्वादशकॆनाष्टादशशतानि भवन्ति (18ऒ ऒ) तत्र सप्तविंशत्यधिकस्य संख्यायॊगशततस्यॊत्पत्तिः प्रदर्श्यतॆ | तद्यथैषां विकल्पाः सप्त तत्रैकविकल्पाः सप्त | द्विविकल्पा ऎकविंशतिः | त्रिविकल्पाः पञ्चत्रिंशत् (35) | चतुर्विकल्पाः पञ्चाग्निः (35) | पञ्चविकल्पा ऎकवशितिः (21) | षड्वकल्पाः सप्त | सप्तविकल्पा ऎकः | ऎतदॆकीकृतं सप्तविंशत्यधिकं शतं भवति | (127) ऎतदॆव वराहमिहिरॆण विवाहपटलॆ उक्तम् | “द्वित्र्यादियॊगान्परिगृह्य कस्मान्नॊक्तं शतं सत्रिगुणं विलग्न |” इति अथ विकल्पगणितं प्रदर्श्यतॆ | तत्राचार्यॆण विकल्पगणितं संहितायामुक्तम् | “पूर्वॆण पूर्वॆण गतॆन युक्तं स्थानं विनान्त्यॆ प्रवदन्ति संख्याम् | इच्छाविकल्पैः क्रमशॊऽभिनीय नीतॆ निवृत्तिः पुनरन्यनीतिः |” इति | अत्र यावत्संख्यानां विकल्पाः क्रियन्तॆ तदन्तानॆकाद्यानुपर्युपरि स्थापयॆत् | तद्यथात्र सप्तग्रहैः ऎकाद्यानां सप्तान्तानां न्यासः 7 ||6||5 ||4|3|2|1 | अत्र पूर्वॆण गतॆन युक्तं स्थानं विनान्त्यमिति | पूर्वश्चासौ गतश्च पूर्वगतः तॆन पूर्वॆण गतॆन युक्तमन्त्यमुपरिस्थं विना तद्वर्जयित्यॆत्यर्थः | प्रथममॆकमधः स्थितं तयॊर्द्वयॊरुपरिस्थयॊः क्षिपॆत् | ऎवं तत्र त्रीणि रूपाणि जातानि तानि च स्वॊपरि त्रिषु क्षिपॆत् | ऎवं षड् जातानि स्वॊपरि चतुर्षु क्षिपॆत् | ऎवं तत्र दश रूपाणि जातानि तानि स्वॊपरि पञ्चसु क्षिपॆत् | तत्र पञ्चदश जातानि तानि स्वॊपरि षट्सु क्षिपॆत् | तत्रैकविंशतिर्जातानि अतः परं च कर्मणॊऽभावात्तदुपरि सप्तैव स्थिताः | तदुक्तं स्थानं विनान्त्यं पुनरप्यधः प्रभृत्यॆवं कृत्वा पञ्चमॆ स्थानॆ पञ्चत्रिंशज्जाताः पुनरपि चतुर्थॆ पञ्चत्रिंशत् | पुनस्तृतीयॆ ऎकविंशतिः | पुनः द्वितीयॆ सप्त | प्रथमॆ ऎकैव || 7 ||21|35 ||35|21 ||7|1 | अथवान्यॆन प्राकरॆण संख्यानयनम् | “प्रतिलॊमं निक्षिप्य चानुलॊममधः क्षिपॆत् | अनुलॊमं समाह--न्यादधःस्थॆन विभाजयॆत् |” न्यासः | अत्र सप्तानामधॊरूपं छॆदः | अनॆन भागमपहृत्य 7/1 ||6/2 ||5/3 ||4/4||3/5 ||2/6 ||1/7 लब्धं सप्त (7) ऎतैः द्वितीयॆ स्थानॆ षट् संगुण्यधःस्थिताभ्यां द्वाभ्यां भगमपहरॆत् लब्धमॆकविंशतिः (21) | ऎतैत्तृतीयस्थाः पञ्चसंगुण्य त्रिभिः भजॆल्लब्धं पञ्चत्रिंशत् (35) ऎभिः सङ्गुण्य पञ्चभिः त्रीणि सगुण्य विभाज्यावाप्तमॆकविंशतिः (21) ऎभिः द्वॆ सङ्गुण्य षड्भीः 311 विभज्यावाप्तं, सप्त | ऎभिरॆकं सङ्गुण्य सप्तभिः विभज्यावाप्तमॆक 1 ऎव | ऎवमॆकद्वित्रिचतुःपञ्चषट्सप्तविकल्पाः ऎवं विकल्पगणितं कृत्वा यथॆष्टसंख्यानां व्याख्यॆयम् | अथैतॆषां विकल्पानां लॊष्टकप्रस्तारॆणॊद्धारः कर्त्तव्यः | “इच्छाविकल्पैः क्रतशॊऽभिनीय नीतॆ निवृत्तिः पुनरन्यनीतिः |” इति | यथॆष्टसंख्यानां विकल्पानामाद्याक्षराणि लिखॆत्| तत्रैकविकल्पॆष्वॆकैकं लॊष्टचिह्रै कृत्वा विकल्पानुत्पादयॆत् | द्विविकल्पॆष्वाद्यं स्थिरं लॊष्टचिह्न कृत्वा द्वितीयॆन लॊष्टचिह्नितॆन सह विकल्पानुत्पादयॆत् | ऎवं त्र्यादिषु विकल्पॆष्वाद्यं स्थिरं लॊष्टचिन्ह तं कृत्वान्यैः चरलॊष्टचिन्हितैः सहान्यान्विकत्पानुत्पादयॆत् | ऎवं कृत्वा प्रथमस्यापासनं कार्यम् | नीतॆ निवृत्तिरिति वचनात् | ततॊऽन्यचिन्हं कृत्वा न्यसॆत्| पुनरन्यनीतिरीति वचनात् | उक्त च भट्टश्रीशङ्करॆण | “वर्णसंख्याककॊष्ठाख्यां क्षॆपक्ष ज्ञॆयसंख्यकः | ज्ञॆयॊक्त्यान्यत्र तत्पूर्वस्तत्पूर्वश्चाष्यनुक्रमात् | नयॆद्वामाद्यमन्न्यर् क्षछ पूर्व तां निरन्तरम् | ज्ञॆयॊऽन्त्यः पुनराद्याश्च कॊष्ठनिष्ठावधिर्विधिः |” इति | तद्यथैकविकल्पाः | रविः | चन्द्रः | भौमः | बुधः गुरुः | शुक्रः शनिः | ऎवमॆकविल्पाः सप्त (7) | अथ द्विविकल्पाः | रविचन्द्रौ | रविभौमौ | रविबुधौ | रविजीवौ | रविशुक्रौ | रविसौरौ | ऎवमादित्यॆन सह षट् (6) शशिभौमौ | शशिबुधौ | शशिजीवौ | शशिशुक्रौ | शशिसौरौ | ऎवं चन्द्रॆण सह पञ्च (5) भौमबुधौ | भौमजीवौ | भौमशुक्रौ | भौमसौरी | ऎवं भौमॆन सह चत्वारः (4) बुधजीवौ, बुधशुक्रौ, बुधसौरॊ | ऎवं बुधॆन सह त्रयः (3) | जीवशुक्रौ जीवसौरौ | ऎवं जीवॆन सह द्वौ (2) | शुक्रसौरॊ | ऎवं शुक्रॆण सह ऎकः (1) | ऎवं द्विविकल्पाः ऎकविंशतिः| अथ त्रिविकल्पाः | रविचन्द्रभौमाः | रविचन्द्रबुधाः | रविचन्द्रजीवाः | रविचन्द्रशुक्राः | रविचन्द्रसौराः | ऎवमादित्यचन्द्रयॊः पञ्च (5) | रविभौमबुधाः| रविभौमजीवाः | रविभौशुक्राः | रविभौमसौराः | ऎवमादित्याङ्गारकयॊश्चत्वारः (4) || रविबुधजीवाः | रविबुधशुक्राः | रविबुधसौराः | ऎवमादित्यबुधयॊस्त्रयः (3) | रविजीवशुक्राः | रविजीवसौराः | ऎवं द्वौ (2) रविशुक्रसौराः ऎवमॆकः (1) | ऎवमादित्यॆन सह त्रिविकल्पाः पञ्चदश (15) | चन्द्रभौमबुधाः | चन्द्रभौमजीवाः चन्द्रभौमशुक्राः 312 चन्द्रभौमसौराः | ऎवं चन्द्रभौमयॊश्चत्वारः (4) चन्द्रबुधजीवाः | चन्द्रबुधशुक्राः| चन्द्रबुधसौराः, ऎवं त्रयः (3) | चन्द्रजीवशुक्राः | चन्द्रजीवसौराः | ऎवं द्वौ (2) | चन्द्रशुक्रसौराः | ऎवमॆकः (1) | ऎवं चन्द्रॆण सह दश (10) भौमबुधजीवाः | भौमबुधशुक्राः | भौमबुधसौराः | ऎवं त्रयः | भौमजीवशुक्राः | भौमजीवसौराः | ऎवं द्वौ (2) | भौमशुक्रसौराः | ऎवं भौमॆन सह षट् (6) | बुधजीवशुक्राः | बुधजीवसौराः | ऎवं द्वौ (2) | बुधशुक्रसौराः| जीवशुक्रसौराः ऎकः (1) ऎवं त्रिविकल्पाः पञ्चत्रिंशत् (35) | अथ चतुर्विकल्पाः | रविचन्द्रभौमबुधाः | रविचन्द्रभौमजीवाः | रविचन्द्रभौमशुक्राः | रविचन्द्रभौमसौराः | ऎवं चत्वारः (4) | रविचन्द्रबुधजीवाः | रविचन्द्रबुधशुक्राः रविचन्द्रबुधसौराः ऎवं त्रयः (3) | रविचन्द्रजीवशुक्राः | रविचन्द्रजीवसौराः | ऎवं द्वौ (2) | रविचन्द्रशुक्रसौराः ऎवमॆकः (1) | रविभौमबुधजीवाः | रविभौमबुधशुक्राः | रविभौमबुधसौराः ऎवं त्रयः (3) | रविभौमजीवशुक्राः | रविभौमजीवसौराः | ऎव द्वौ (2) | रविभौमशुक्रसौराः | रविजीवशुक्रसौराः | ऎवमादित्यॆन सह विंशति (20) | चन्द्रभौमबुधजीवाः | चन्द्रभौमबुधशुक्राः | चन्द्रभौमबुधसौराः ऎवं त्रयः (3) चन्द्रभौमजीवशुक्राः | चन्द्रभौमजीवसौराः ऎवं द्वी (2) चन्द्रभौमशुक्रसौराः | ऎकः (1) चन्द्रबुधजीवशुक्राः चन्द्रबुधजीवसौराः | चन्द्रबुधशुक्रसौराः | चन्द्रजीवशुक्रसौराः | ऎवं चन्द्रॆण सह दश (10) | भौमबुधजीवशुक्राः | भौमबुधजीवसौराः | भौमबुधशुक्रसौराः | भौमजीवशुक्रसौराः | ऎवं भौमॆन सह चत्वारः (4) | बुधजीवशुक्रसौराः | बुधॆन सह ऎकः (1) | ऎव चतुर्विकल्पाः पञ्चविंशत् (35) | अथ पञ्चविकल्पाः | रविचन्द्रभौमबुधजीवाः | रविचन्द्रभौमबुधशुक्राः | रविचन्द्रभौमबुधसौराः | ऎवं त्रयः (3) | रविचन्द्रभौमशुक्राः | रविचन्द्रभौमजीवसौरा | ऎवं द्वौ (2) | रविचन्द्रभौमशुक्रसौराः | रविचन्द्रबुधजीवसौराः | रविचन्द्रबुधशुक्रसौराः | रविचन्द्रजीवशुक्रसौराः | रविभौमबुधजीवशुक्राः | रविभौमबुधजीवसौराः ऎवमादित्यॆन सह पञ्चदश (15) | चन्द्रभौमबुधजीवशुक्राः चन्द्रभौमबुधजीवसौराः | चन्द्रभौमबुधशुक्रसौराः | चन्द्रभौमजीवशुक्रसौराः 313 चन्द्रबुधजीवशुक्रसौराः | ऎवं चन्द्रमसा सह पञ्च | भौमबुधजीवशुक्रसौराः | ऎवं पञ्च विकल्पाः ऎकविंशतिः (21) | अथ षडविकल्पाः आदित्यचन्द्रभौमबुधजीवशुक्राः | रविचन्द्रभौमबुधशुक्रसौराः | रविचन्द्रभौमगुरुशुक्रसौराः | चन्द्रभौमबुधजीवशुक्रसौराः | ऎवं षड्वकल्पाः | अथ सप्तविकल्पाः | रविचन्द्रभौमबुधजीवशुक्रसौराः सप्तविकल्पा ऎक ऎव (1) | ऎवं सप्तविंशत्यधिकं विकल्पशतम् (127) व्याख्यातम् | 19 || इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां नाभसयॊगाध्यायः || 12 ||   314 315 अथ चन्द्रयॊगाध्यायः || 13 ||  अधमसमवरिष्ठान्यर्ककॆन्द्रादिसंस्थॆ शशिनि विनयवित्तज्ञानधीनैपुणानि |  अहनि निशि च चन्द्रॆ स्वॆऽधिमित्रांशकॆ वा सुरगुरुसितदृष्टॆ वित्तवान्स्यात्सुखी च | 1 ||  भट्टॊत्पलः-अथातश्चन्द्रयॊगाध्यायॊ व्याख्यायतॆ | तत्रादावॆवाकां त्कॆन्द्रपणफरापॊक्लिमस्थॆ चन्द्रॆ जातस्य स्वरूपज्ञानं मालिन्याह् अधमसमवरिष्ठानीति | विनयॊ नीतिः सुशीलता, वित्तं धनं, ज्ञानं शास्त्रावबॊधः बुद्धिः नैपुण्यं कार्यॆषु सूक्ष्मदर्शित्वम् अर्कदादित्यात्कॆन्द्रादिसंस्थॆ कॆन्द्रपणफरापॊक्लिमसंस्थॆ शशिनि चन्द्रॆ जातस्य विनयवित्तज्ञानधीनैपुणान्यधमसवरिष्ठानि निकृष्यमध्यमॊत्तमानि भवन्ति | ऎतदुक्तं भवति | यस्यादित्यज्जन्मनि| कॆन्द्रस्थश्चन्द्रमा भवति तस्यैतानि विनयादीन्यधमानि भवन्ति | अधमत्वमॆतॆषामभावः | यस्माद्यवनॆश्वरः || “मूर्खान्दरिद्रांश्चपलान्विशीलाश्चन्द्रः प्रसूतॆऽर्कचतुष्टयस्थः |” यस्य जन्मसमयॆ पणफरस्थश्चन्द्रः सूर्याद्भवति तस्यैतानि मध्यमानि भवन्ति | न चातिभवतीत्यर्थः | यस्य जन्मनि आपॊक्लिमस्थश्चन्द्रॊ भवति तस्य विनयादीनि वरिष्ठानि भवन्ति | तथा च यवनॆश्वरः | “कुर्यादद्वितीयॆ धनिन प्रसूतिमापॊक्लिमस्थॆ कुलजाग्रजानाम् |” इति | अहनीत्यादि | चन्द्रॆ शशिनि स्वॆऽधिमित्रांशकस्थॆ अहनि निशि च यथासंख्यं सुरगुरुसितदृष्टॆ जीवशुक्राभ्यामवलॊकितॆ जातॊ वित्तवान् धनी सुखी भॊगवांश्च स्याद्भवॆद् | तदुक्तं भवति | यस्याहनि दिवा जन्म भवति चन्द्रश्च यस्मिस्तस्मिन् राशौ स्वनवांशकस्थॊ भवति स्वस्याधिमित्रांशकॆ स्थितॊ वा सुरगुरुणा जीवॆन दृष्टः तदा स पुरुषॊ वित्तवान्सुखी च भवति | अथ यस्य निशि रात्रौ जन्म भवति चन्द्रमाः स्वनवांशकस्थॊऽधिमित्रनवांशकस्थॊ वा भवति शुक्रॆण दृश्यतॆ तदा जातॊ वित्तवान्सुखी च भवति | अत्राहनि निशि च चन्द्रॆ स्वाधिमित्रांशकॆ वा स्थितॆ यथासंख्यं सुरगुरुसितदृष्टॆ कॆचिद्व्याचक्षतॆ | अयुक्तमॆतत् | यस्माद्भगवान् गार्गिः| “स्वांशॆऽधिमित्रस्यांशॆ वा संस्थितॊ दिवसॆ शशी | गुरुणा दृश्यतॆ तत्र जातॊ वित्तसुखान्वितः | निश्यॆवं भृगुणा दृष्टः शशी जन्मनि शस्यतॆ | 316 विपर्ययस्थॆ शीतांशौ जायन्तॆऽल्पधना नराः | इति तथा च यवनॆश्वरः | “स्वांशॆ शशी भार्गवदृष्टमूर्तिर्निशीश्वरॊत्पत्तिकरः प्रदिष्टः | तदुत्तमॊद्भूतिकरः स तु स्याद्दृष्टॊ दिवा दॆवपुरॊहितॆन” | 1 ||  सौम्यैः स्मरारिनिधनॆष्वधियॊग द्वन्दॊस्तस्मिश्चमूपसचिवक्षितिपालजन्म | सम्पन्नसौख्यविभवा हतशत्रवश्च दीर्घायुषॊ विगतरॊगभयाश्च जाताः || 2 ||  भट्टॊत्पलः-अथाधियॊगाख्यं यॊगं सफलं वसन्ततिलकॆनाह सौम्यैरिति | इन्दॊश्चन्द्रात्सौम्यैः बुधगुरुसितैः स्मरारिनिधनॆषु सप्तमषष्ठाष्टमॆषु त्रिषु स्थानॆधु द्वयॊर्वा स्थानयॊरॆकस्मिन्वा स्थानॆ सर्व ऎव भवति तदाधियॊगाख्यॊ यॊगॊ व्याख्यातॊ भवति | अत्र कैश्चित्षष्ठसप्तमाष्टमानां स्थानानां सौम्यग्रहत्रयस्यावस्थानादशून्यतायामधियॊगॊ व्याख्यातः | तच्चायुक्तम्| यस्माच्छ्रुतकीर्तिः | “निधनं द्यूनं षष्ठं चन्द्रस्थानाद्यदा शुभैर्युक्तम् | अधियॊगः स प्रॊक्तॊ व्यासकृतौ सप्तधा पूर्वैः |” व्यासकृतौ विस्तरकृतौ पूर्वैराचार्यैश्चिन्तनैः च सप्तधा सप्तप्रकारः प्रॊक्तः कथितः | तद्यथा | षष्ठॆ राशौ यदा सर्वॆ सौम्यग्रहाः भवन्ति तदैकः | सप्तमॆ द्वितीयः | अष्टमॆ तृतीयः | षष्ठसप्तमयॊश्चतुर्थः | 317 षष्ठाष्टमयॊः पञ्चमः | सप्तमाष्टमयॊः षष्ठः | षष्ठसप्तमाष्टमॆषु सप्तम इति | ऎवं स्थितॆषु सौम्यॆष्वधियॊगः | अर्थादॆवैवमवस्थितॆषु पापैः पापः | मिश्रैर्मिश्रः | तथा च श्रुतकीर्तिः | “षट्सप्तमाष्टसंस्थैश्चन्द्रात्सौम्यैः शुभॊऽधियॊगः स्यात् | पापः पापैरॆवं मिश्रॆर्मिश्रस्तथैवॊक्त |” अधियॊगजातानां फलमाह-- | तस्मिंश्चमूपसचिवक्षितिपालजन्मॆति | तस्मिन्नधियॊगॆ जातश्चमूपः सॆनापतिर्भवति | सचिवॊ मन्त्री वा भवति | क्षितिपालॊ नृपालॊ राजा वा भवति | तॆषां युगपदसम्भवात्पृथक्त्वं व्याख्यातम् | तथा च बादरायणः | “शशिन सौम्याः षष्ठॆ द्यूनॆ वा निधनसंस्थिता वा स्युः | जातॊ नृपतिज्ञॆयॊ मन्त्री वा सॆनानायकॊ वापि |” तॆनैतदुक्तं भवति | बुधगुरुसितैरुत्कृष्टवीयैः नृपॊ| मध्यमवीर्यैः सचिवः हीनवीर्यैः सॆनापतिः | ऎवमन्यतमा अपि | सम्पन्नसौख्यविभवाः अतिसौख्यैश्वर्यसम्पन्नाः हतशत्रवः नष्टरिपवः दीर्घायुष चिरजीविनः, विगतरॊगभयाः स्वस्थदॆहा निर्भयाश्च ऎवंविधॆ यॊगॆ जाता भवन्ति | कॆषाचिन्मतॆ राजयॊग ऎव | तथा च सारावल्याम् | “द्यूनं षष्ठमथाष्टमं शिशिरगॊः प्राप्ताः समस्ता शुभाः क्रूराणां यदि गॊचरॆ न पतिताः सूर्यालयाद्दूरतः | भूपालः प्रभवत्स यस्य जलधॆर्वॆलावनांतॊद्मवैः सॆना मत्तकरींद्रदानसलिलं भृगैर्मुहुः पीयतॆ |” तथा च माण्डव्यः - “अमित्रं यामित्रं निधनमथवा शीतरुचितॊ गताः सर्वॆ सौम्यास्तमिह जनयॆयुर्नरपतिम्| घृतॆनॆवासॆकं गतवति विषादाश्रुपयसा प्रतापाग्निर्यस्य ज्वलति हृदयॆ शत्रुषु भृशम् |” | 2 || 318 हित्वार्क सुनफनफादुरुधुराः स्वान्त्यॊभयस्थैग्रीहैः शीतांशॊः कथितॊऽन्यथा तु बहुभिः कॆमद्रु मॊऽन्यैस्त्वसौ |  कॆन्द्रॆ शीतकरॆऽथवा ग्रहयुतॆ कॆमद्रुमॊ नॆष्यतॆ कॆचित्कॆन्द्रनवांशकॆषु च वदन्त्युक्तिप्रसिद्धा न तॆ || 3 ||  भट्टॊत्पलः-अथ सुनफानफादुरुधुराकॆमद्रुमाख्यं यॊगचतुष्टयं शार्दूलविक्रीडि तॆनाहहित्वार्कमिति | अथार्कमादित्यं हित्वा त्यक्त्वा यदान्यः कश्चिद्ग्रहॊ भौमादिक शीतांशॊश्चन्द्रात्स्वान्त्यॊभयस्थॊ भवति द्वितीयद्वादशस्थौ वा द्वौ भवतस्तदा सुनफा-अनफा-दुरुधुरारख्यं यॊगत्रयं भवति | ऎतदुक्तं भवति | अर्क हित्वा यदान्यॊ ग्रहः कश्चिच्चन्द्राद्द्वतीयस्थानॆ भवति तदा सुनफानाम यॊगॊ भवति | अथार्क वर्जयित्वा चन्द्रात् द्वादशॆ कश्चिद्ग्रहॊ भवति तदा अनफानाम यॊगॊ भवति | ऎवमर्कं वर्जयित्वा चन्द्रात् द्वितीयद्वादशगौ ग्रहॊ भवतस्तदा| दुरुधुरानाम यॊगॊ भवति | अत्र यॊगत्रयॆऽप्यादित्यॊ द्वितीयॆ द्वादशॆ वा स्थानॆ भवति तदा न यॊगभङ्गकृद्भवति | किन्तु यॊगकर्तृणां मध्यॆ न गण्यतॆ | ऎतदुक्तं भवति | आदित्यॊ द्वितीयॆ द्वादशॆ वा स्थानॆ भवतु, मा भवतु, वा भौमादिस्तत्रस्थॊ यथादर्शितयॊगकर्ता भवति | ऎतॆ यॊगा बहुभिराचार्यः पठिताः, अन्यथा कॆमद्रुम उक्तः | अस्माद्यॊगत्रयाद्यद्यॆकॊऽपि यॊगॊ न भवति तदा कॆमद्रुमाख्यॊ यॊगॊ भवति| ऎतदुक्तं भवति | भौमादीनां कॆन्द्रॆ शीतकरॆऽथवा ग्रहयुतॆ कॆमद्रुमॊ नॆष्यतॆ | अन्यॆषां गर्गादीनामॆवं मतम् | कॆन्द्रॆ जन्मलग्नॆ कॆन्द्रॆ शीतकरॆ चन्द्रॆ वा भौमादिग्रहयुतॆ भौमादिग्रहविरहितयॊरपि चन्द्राद्द्वितीयद्वादशस्थानयॊः कॆमद्रुमॊ न 319 भवति | कॆन्द्रॆ ग्रहयुत इत्यत्र कैश्च्चिन्द्रकॆन्द्रमॆव कॆवलं व्याख्यातं तच्चायुक्तम् | चन्द्रकॆन्द्रॆ ग्रहयुतॆ चन्द्रमसॊऽपि यॊगॊऽन्तर्भवति शीतकरॆ ग्रहयुतॆ इत्यॆतदपार्थक्यं स्यात् | अत्र च भगवान्गार्गिः | “व्ययार्थकॆन्द्रगश्चन्द्राद्विना भानुं न चॆदग्रहः | कश्चित्स्याद्वा विना चन्द्रं लग्नात्कॆन्द्रगतॊऽथवा | यॊगः कॆमद्रुमॊ नाम तदा स्यात्तत्र गर्हितः | भवन्ति निन्दिताचारा दारिद्रयापतिसंयुताः |” तथा सारावल्याम् | “सुनफानफादुरुधुराः क्रमॆण यॊगा भवन्ति रविरहितैः | वित्तान्त्यॊभयसंस्थैः कैरववनबान्धवाद्विहगैः | ऎतॆन यदा यॊगाः कॆन्द्रग्रहवर्जितः शशांकश्च | कॆमद्रुमॊऽतिकष्टः शशिनि च सर्वग्रहादृष्टॆ |” ऎवं “कॆन्द्रॆ शीतकरॆऽथवा ग्रहयुतॆ कॆमद्रुमॊ नॆष्यतॆ |” अन्यॆ आचार्या नॆच्छन्ति | वराहमिहिरस्तु पुनरिच्छत्यॆव | यस्मिन्नर्थॆ तस्यैव तद्वाक्यम् | अन्यथा कॆमद्रुम| इत्यॆवमुक्त्वा परमतमुक्तम् | अन्यैरसौ ऎवं कॆन्द्रॆ शीतकरॆऽथवा ग्रहयुतॆ कॆमद्रुमॊ नॆष्यतॆ |” स्वल्पजातकॆऽपि तॆन सुनफानफादुरुधुराभावॆ कॆमद्रुम उक्तः | तथा च | “रविवज्र्य द्वादशगैरनफा चन्द्राद्द्वतीयगैः सुनफा | उभ् रुधरा कॆमद्रुमसंज्ञकॊऽतॊऽन्यः |” सत्यस्यापि | “सुनफानफादुरुधुराभावॆ कॆमद्रुमः|” तथा च | “सुनफात्वनफायॊगौ दौरुधुरश्चन्द्रसंस्थितः क्षॆत्रात् | प्राकपृष्ठतॊ ग्रहॆन्द्रैरुभयगतैस्तॆषु रविवज्र्यम् | कॆमद्रुमॊऽत्र यॊगॊऽन्यथा भवॆद्यत्र गर्हितं जन्म|” कॆचित्कॆन्द्रनवांशकॆष्विति | कॆचिदाचार्याः कॆन्द्रॆषु कॆचिच्च नवांशकॆष्वॆतद्यॊगत्रयं वदन्ति | तथा चन्द्रात्द्वतीयद्वादशॊभयस्थैग्रहैः सुनफाया यॊगा व्याख्याताः | तथा कैश्चिच्छ्रुतकीर्तिजीवशर्मप्रभृतिभिः कॆन्द्रवशान्नवांशकवशाच्च व्याख्याताः | ऎतदुक्तं भवति | ताराग्रहैश्चन्द्राच्चतुर्थस्थानस्थैः सुनफा | दशमस्थानस्थैरनफा | चतुर्थदशमस्थितैः दुरुधरा अतॊऽन्यथा कॆमद्रुमः | तथा च श्रुतकीर्तिः | “चन्द्राच्चतुर्थॆः सुनफा दशमस्थितैः कीर्तितॊऽनफा विहगैः | उभ् रुधरा कॆमद्रुमसंज्ञितॊऽन्यथा यॊगः |” कॆचित्कॆन्द्रनवांशकॆषु तु वदन्ति | यत्र तत्र राशौ यद्राशिसम्बन्धिनवांशकॆ चन्द्रमा भवति तस्माद्राशॆर्यॊ द्वितीयॊ राशिः तत्र यदि ताराग्रहॊ भवति तदा सुनफा | अथ चन्द्रनवांशकराशॆः द्वादशॆ ताराग्रहॊ यदा भवति तदानफा | अथ चन्द्रनवांशकराशॆः द्वितीयॆ द्वादशॆ च यदा ग्रहॊ भवतस्तदा| 320 दुरुधरा | अतॊऽन्यथा कॆमद्रुमः | तथा च चन्द्रनवांशकराशितॊ द्विद्वादशराशी यदि ग्रहरहितौ भवतः तदा कॆमद्रुमः | तथा च जीवशर्मा यद्राशिसंज्ञॆ शीतांशुर्नवांशॆ जन्मनि स्थितः | तद्द्वतीयस्थितैर्यॊगः सुनफाख्यः प्रकीर्तितः | द्वादशैरनफा ज्ञॆयॊ ग्रहैर्द्विद्वदिशस्थितैः | प्रॊक्तॊ दुरुधुरायॊगॊऽन्यथा कॆमद्रुमः स्मृतः |” उक्तिः प्रसिद्धा न तॆ यॆषामॆवंविधं मतम् | तॆषामुक्तिर्लॊकॆ न प्रसिद्धा तन्मतं वृद्धज्यॊतिषिकैर्नाङ्गीकृतमित्यर्थः || 3 ||  321 त्रिंशत्सरूपा सुनफानफाख्याः षष्टित्रयं दौरुधरॆ प्रभॆदाः |  इच्छाविकल्पैः क्रमशॊऽभिनीय नीतॆ निवृतिः पुनरन्यनीतिः | 4 ||  भट्टॊत्पलः-अथ सुनफानफादुरुधुराख्यं प्रकारज्ञानमिन्द्रवज्रयाहत्रिशत्सरूपा इति | सरूपात्रिशदॆकत्रिशत् | ऎकत्रिशत्सुनफाख्या यॊगाः | तावन्त ऎवानफाख्याः षष्टित्रयमशीत्यधिकं शतं दुरुधुराप्रभॆदानामॆषां पूर्ववद्विकल्पगणितम् | इच्छाविकल्पैरित्यादि | ऎतच्छलॊकॆ लॊष्टुकप्रस्तारं पूर्वमॆव नाभसयॊगाध्यायॆ व्याख्यातम् | इच्छाविकल्पैः क्रमशः परिपाट्यान्यत्र लॊष्टुकमभिनीय नीतॆ निवृत्तिः कार्या | पुनः भूयॊऽन्यनीतिरित्यत्र स्थानान्तरॆ चालनम् | अथ सुनफादयॊ भौमबुधगुरुसितासितैः पञ्चभिर्निष्पाद्यन्तॆ | तस्मादिच्छाविकल्पाः पंच तॆषां न्यासः | अत्र प्राग्वत्पूर्वॆण पूर्वॆण गणितॆन युक्तस्थानं विनान्त्यं प्रवदन्ति संख्यामिति कृत्वा जातम् 5 ||4|3|2 | 1 अथवा प्राग्वत्संस्थः स्वसंख्या जाताः 5/ 1 ||4/2 ||3/3 ||2/4 ||1/5 ऎवमॆकविकल्पाः 5 द्विविकल्पाः 10 त्रिविकल्पाः दश चतुर्विकल्पाः पंच पंचविकल्पा ऎकः ऎवमॆकत्रिंशत् || 5|1 ऒ || 10 ||5|1 | तद्यथा | द्वितीयॆ चन्द्राद्भौमः बुधः बृहस्पतिः शुक्रः सौरः ऎवमॆकविकल्पाः पञ्च | अथ द्विविकल्पाः | भौमबुधौ 1 भौमजीवौं 2 भ 3भौमसौरौ 4 बुधजीवौ 5 बुधशुक्रौ 6 बुधसौरौ 7 जीवशुक्रौ 8 जीवसौरौ 9 शुक्रसौरौ 10 | ऎवं द्विविकल्पाः दश | अथ त्रिविकल्पाः | भौमबुधजीवाः 1 भौमबुध शुक्राः 2 भौमबुधसौराः 3 भौमजीवशुक्राः 4 भौमजीवसौराः 5 भौमशुक्रसौराः 6 बुधजीवशुक्राः 7 बुधजीवसौराः 8 बुधशुक्रसौराः 9 जीवशुक्रसौराः 10 | ऎवं त्रिविकल्पा दश | अथ चतुर्विकल्पाः भौमबुधजीवशुक्राः 1 भौमबुधजीवसौराः 2 भौमजीवशुक्रसौराः 3 भौमबुधशुक्रसौराः 4 बुधजीवशुक्रसौराः 5 ऎवं चतुर्विकल्पाः पंच | अथ पंचविकल्पाः | भौमबुधजीवशुक्रसौराः | ऎवं पंचविकल्पा ऎकः | ऎवमॆकत्रिंशत् सुनफायॊगाः उत्पादिताः | अनॆनैव प्रकारॆण द्वादशस्थैः अनफाभॆदाः ऎकत्रिशत् | अथ दुरुधुराविकल्पाः | ऎषां लॊष्टु कप्रस्ताराभावात्स्वबुद्धयॆच्छाविकल्पैः क्रमशॊऽभिनीयॆति न्यायॆन व्युत्पत्तिः | ऎकॊ द्वितीयॆ | द्वितीयॊ द्वादशॆ | ऎकॊ द्वादशॆ | द्वितीयॊ द्वितीयॆ | तद्यथा | भौमबुधौ 1 322 बुधभौमॊ 2 भौमजीवौं 3 जीवभौमौ 4 भौमशुक्री 5 शुक्रभौमौ 6 भौमसौरौ 7 सौरभौमौ 8 बुधजीवौ 9 जीवबुधौ 10 बुधशुक्रौ 11 शुक्रबुधौ 1 2 बुधसौरौ 13 सौरबुधौ 14 जीवशुक्रौ 15 शुक्रजीवौ 16 जीवसौरौ 17 सौरजीवौ 18 शुक्रसौरौ 19 सौरशुक्रौ 20 | अथैकॊ द्वितीयॆ | द्वादशॆ द्वौ | द्वितीयॆ द्वौ | द्वादशॆः चैकः | तद्यथा | भौमः बुधजीवौ 1 बुधः जीवभौमौ 2 जीवः शुक्रबुधौ 3 बुधः शुक्रभौमौ 4 भौमः बुधसौरौ 5 बुधः सौरभौमौ 6 भौमः जीवशुक्रौ 7 जीवः शुक्रभौमौ 8 भौमः जीवसौरौ 9 भौमः सौरभौमौ 10 भौमः शुक्रसौरौ 1 1 शुक्रः सौरभौमौ 1 2 बुधः भौमजीवौ 1 3 जीवः भौमबुधॊ 14 बुधः भौमशुक्रौ 15 भौमः शुक्रबुधौ 1 6 बुधः भौमसौरौ 18 भौमः सौरबुधौ 18 बुधः जीवशुक्रौ 19 जीवः शुक्रबुधौ 20 बुधः जीवसौरौ 2 1 जीवः सौरबुधौ 22 बुधः शुक्रसौरौ 23 शुक्रः सौरबुधौ 24 जीवः भौमबुधौ 25 भौमः बुधजीवौ 2 6 जीवः भौमशुक्रौ 27 भौमः शुक्रजीवौ 28 जीवः भौमसौरौः 29 भौमः सौरजीवौ 30 जीवः बुधशुक्रौ 31 बुधजीवौ 32 जीवः बुधसौरौः 3 3 बुधः सौरजीवौ 34 जीव शुक्रसौरौ 35 शुक्रः सौरजीवौ 3 6 शुक्रः भौमबुधॊ 37 भौमः बुधशुक्रौ 38 शुक्रः भौमजीवौ 39 भौमः जीवशुक्रौ 40 शुक्रः भौमसौरौ 41 भौमः सौरशुक्रौ 42 शुक्रः बुधजीवौ 43 बुधः जीवशुक्रौ 44 शुक्रः भौमसौरौ 4 1 भौमः सौरशुक्रौ 42 शुक्रः बुधजीवौ 43 बुधः जीवशुक्रौ 44 शुक्रः बुधसौरौ 45 बुधः सौरशुक्रौ 46 शुक्रः जीवसौरौ 47 जीवः सौरशुक्रौ 48 सौर भॊमबुधौ 49 भौमः बुधसौरौ 50 सौरः भौमजीवौ 51 भौमः जीवसौरौ 52 सौरः भौमशुक्रौ 53 भौमः शुक्रसौरौ 54 सौरः बुधजीवौ 55 बुधः जीवसौरौ 56 सौरः बुधशुक्रौ 57 बुधः शुक्रसौरौ 58 सौरः जीवशुक्रौ 50 शुक्रसौरौ 60 | ऎवमॆकत्र जाताः 80 अथैकॊ द्वितीयॆ | द्वादशॆ त्रयः | तद्यथा | भौमः बुधजीवशुक्राः 1 बुधजीवशुक्राः भौमः 2 भौमः बुधजीवसौराः 3 बुधजीवसौराः भौमः 4 भौमः बुधशुक्रसौराः 5 बुधशुक्रसौराः भौमः 6 भौमः जीवशुक्रसौराः 7 जीवशुक्रसौराः भौमः 8 बुधः भ् चीनाः बुधः 10 बुधः भौमजीवसौराः बुधः 12 बुधः भौमशुक्रसौराः 13 भौमशुक्रसौराः बुधः 14 बुधः जीवशुक्रसौराः 15 जीवशुक्रसौराः 1 6 जीवः 323 भौमबुधशुक्राः 17 भौमबुधशुक्राः जीवः 18 जीवः भौमबुधसौराः 19 भौमबुधसौराः 19 भौमबुधसौराः जीवः 20 ऎवमॆकत्र 10 ऒ | जीवः भौमशुक्रसौराः 1भौमशुक्रसौराः जीवः 2 जीवः बुधशुक्रसौराः 3 बुधशुक्रसौरा जीवः 4 जीवः 4 शुक्रः भौमबुधजीवाः शुक्रः 6 शुक्रः भौमबुधसौराः 7 भौमबुधसौराः शुक्रः 8 शुक्रः भौमजीवसौराः 9 भौमजीवरासौः शुक्रः 1 ऒ शुक्रः बुधजीवसौराः 11 बुधजीवशुक्राः सौरः 1 2 सौरः भौमबुधजीवाः 13 भौमबुधजीवाः सौरः 14 सौरः भौमबुधशुक्रः 15 भौमबुधशुक्राः सौरः 1 6 सौरः भौमजीवशुक्राः 17 भौमजीवशुक्राः सौरः 18 सौरः बुधजीवशुक्राः 19 बुधजीवशुक्राः 19 बुधजीवशुक्राः सौरः 20 | ऎवमॆकत्र 120 | अयं द्वितीयॆ ऎकॊ द्वादशॆ चत्वारः | चत्वारॊ द्वितीयॆ द्वादशॆ चैकः | तद्यथा | भौमः बुधजीवशुक्रसौराः 1 बुधजीवशुक्रसौराः भौमः 2 बुधः भः 3 भौमजीवशुक्रसौराः बुधः 4 जीवः भौमबुधजीवशुक्रसौराः 5 भौमबुधशुक्रसौराः जीवः 6 शुक्रः भौमबुधजीवसौराः 7 भौमबुधजीवसौराः शुक्रः 8 सौरः भौमजीवशुक्राः 9 भौमबुधजीवशुक्राः सौरः 10 ऎवमॆकत्र 130 | अयं द्वौ द्वादशॆ द्वावॆव द्वितीयॆ | वद्यथा | भौमबुधौ जीवशुक्रौ 1 जीवशुक्रौ भौमबुधौ 2 भौमबुधॊ जीवसौरौ 3 जीवसौरौ भौमबुधौ 4 भॊमबुधौ शुक्रसौरौः 5 शुक्रसौरौः भौमबुधौ 6 भौमजीवौं शुक्रबुधौ 7 शुक्रबुधौ भौमजीवौं 8 भौमजीवौं बुधसौरौ 9 बुधसौरौ भौमजीवौ 10 भौमजीवौ शुक्रसौरौ 11 शुक्रसौरौ भौमजीवौ 12 भौमशुक्रौ बुधजीवौ 13 बुधजीवौ भौमशुक्रौ 14 भौमशुक्रौ बुधसौरौ 15 बुधसौरौ भौमशुक्रौ 16 भौमशुक्रौ जीवसौरौ 17 जीवसौरौ भौमशुक्रौ 18 बुधजीवौ भौमसौरौ 19 भौमसौरौ बुधजीवौ 20 | ऎकमॆकत्र 150 || भौमसौरौ बुधशुक्रौ 1 बुधशुक्रौ भौमसौरौ जीवशुक्रौ 3 जीवशुक्रौ भौमसौरौ 4 बुधजीवौ शुक्रसौरौ 5 शुक्रसौरौ बुधजीवौ 6 बुधशुक्रौ जीवसौरौ 7 जीवसौरौ बुधशुक्रौ 8 जीवशुक्रौ बुधसौरौ 9 बुधसौरौ जीवशुक्रौ 10 | ऎकमॆकत्र 160 | द्वौ द्वितीयॆ त्रयौ द्वादशॆ द्वादशॆ द्वौ त्रयौ द्वितीयॆ च | तद्यथा | भौमबुधौ जीवशुक्रसौराः 1 जीवशुक्रसौराः भौमबुधौ 2 भौमजीवौ बुधशुक्रसौराः 3 जीवशुक्रसौरौः भौमजीवौ 4 भौमशुक्रौ बुधजीवसौराः 5 बुधजीवसौराः   324 भौमशुक्रौ 6 भौमसौरौ बुधजीवशुक्राः 7 बुधजीवशुक्राः भौमसौरौ 8 बुधजीवौ भौमशुक्रसौराः 9 भौमशुक्रसौराः बुधजीवौ 10 | ऎवकॆमत्र 170 | बुधशुक्रौ भौमजीवसौराः 1 भौमजीवसौराः बुधशुक्रौ 2 बुधसौरौः भौमजीवशुक्राः 3 भौमजीवशुक्राः बुधसौरौ 4 जीवशुक्रौ भौमबुधसौराः 5 भौमबुधसौराःजीवशुक्रौ 6 जीवसौराः भौमबुधशुक्राः 7 भौमबुधशुक्राः जीवसौरौ 8 शुक्रसौरौ भौमबुधजीवाः 9 भौमबुधजीवाः शुक्रसौरौ 10 | ऎकमॆकत्र 180 | ऎवं दुरुधुरायॊगभॆदः शतमशीत्यधिकं प्रदर्शितः || 4 || 325 स्वयमधिगतवित्तः पार्थिवस्तत्समॊ वा भवति हि सुनफायां धीधनख्यातिमांश्च |  प्रभुरगदशरीरः शीलवान्ख्यातकीर्तिर्विषयसुखसुवॆषॊ निर्वृतश्चानफायाम् || 5 ||  भट्टॊत्पलः-अथ सुनफाऽनफयॊर्यॊगजातस्य स्वरूपविज्ञानं मालिन्याह 326 स्वयमिति | स्वयमात्मनाधिगतमर्जितं वित्तं यॆन स्वबाह्वर्जितधनः पार्थिवॊ राजा भवति | तत्समॊ वा | यदि राजा न भवति तदा राजतुल्यः धीधनख्यातिमान् बुद्धिवित्तकीर्तिभिर्युक्तः ऎवंविधः सुनफायां यॊगॆ जातॊ भवति | प्रभुरिति | प्रभुरप्रतिहताज्ञः, अगदशरीरॊ नीरुजदॆहः अविद्यमाना गदा रॊगा यस्य, शीलवान् दमविनयादिदिर्गुणैर्युक्तः, ख्यातकीर्तिः प्रथितयशाः जनविदितसद्गुणः विषयसुखः शब्दस्पर्शरूपरसगन्धाः विषयाः तत्सुखैर्युक्तः | ननु किं विषयव्यतिरिक्तसुखमस्ति ? उच्यतॆ | अस्ति | यद्यॊगिनां मनःसुखं सुवॆषः अनुपलॆपनालंकार माल्यसद्वस्त्रधारणशीलः निर्वृत्तः मनॊदुःखविनिर्मुक्तः ऎवंविधॊऽनफायां यॊगॆ जातॊ भवति | 5 ||  उत्पन्नभॊगसुखमभुग्धनबाहनाढद्यस्त्यागान्वितॊ दुरुधराप्रभवः सुभृत्यः |  कॆमद्रुमॆ मलिनदुःखितनीचनिःस्चाः प्रॆष्याः खलाश्च नृपतॆरपि वंशजाताः | 6 ||  भट्टॊत्पलः-अथ दुरुधराकॆमद्रुमयॊगॆ जातयॊः स्वरूपं वसन्ततिलकॆनाह‌उत्पन्नभॊगसुखभुगिति | यत्र तत्र तथॊत्पन्नभॊगैः सुखानि भुंक्तॆ धनॆन वितॆन वाहनैरश्वादिभिराढयः, त्यागान्वितॊ दाता, सुभृत्यः शॊभनभृत्य ऎवंविधॊ दुरुधुरायॊगॆ जातॊ भवति | कॆमद्रुम इति | मलिनः मलिनवासाः, स्नानालसश्च दुःखितः शरीराद्यैः दुःखैरन्वितः, नीचः स्वकुलानुचियाधमकर्मकरः निःस्वः दरिद्रः, प्रॆष्यः दासकर्मकरः, खलः दुर्जनस्वभावः ऎषामुक्तार्थानामन्यतमॆन युक्तॊ 327 यदि नृपतॆः राज्ञॊऽपि वंशॆ कुलॆ जातः तथाप्यॆवंविधः कॆमद्रुमजातॊ भवति | कॆचिदत्रबहुवचनं पठन्ति | ’कॆमद्रुमॆ मलिनदुःखिरनीचनिःस्वः प्रॆष्यः खलश्च नृपतॆरपि वंशजातः |” तथापि न कश्चिद्दॊषः | 6 || उत्साहशौर्यधनसाहसवान्महीजः सौम्यः पटुः सुवचनॊ निपुणः कलासु |  जीवॊऽर्थधर्मसुख भाङनुपपूजितश्च कामी भृगुर्बहुधनॊ विषयॊपभॊक्ता | 7 ||  भट्टॊत्पलः-ऎवं तावत्सुनफादिसामान्यॆन फलमभिधायॆदानीं ग्रहवशाद्विशॆषफलं वसन्ततिलकॆनाह‌उत्साहॆति | उत्साहवान् बली नित्यॊद्यमशीलः, शौर्यवान्, रणप्रियः, धनवान् वित्तान्वितः, साहसवानसमीक्षितकार्यकारी यद्यत्कार्यं यदा कालॆ त्वविचार्य करॊति यः सः साहसिकः ऎवंविधॊ महीजॊऽङ्गारकॊ यदि यॊगकर्त्ता भवति तदा जातॊ भवति | पटुः दक्षः, सुवचनः शॊभनवाक्, कलासु निपुणः गीतवाद्यनृत्यचित्रपुस्तककर्मादिषु सूक्ष्मदृष्टिः यदि सौम्यॊ बुधॊ यॊगकर्ता तदैवंविधॊ जाति भवति | अर्थभाक् धनानां भाजनः, धर्मभाक् धर्मक्रियास्वनुरतः, सुखभाक् नित्यंसुखितः, नृपपूजितः राज्ञां मान्यः, यदि जीवॊ बृहस्पतिः यॊगकरः तदैवंविधॊ जातॊ भवति | कामी कामुकः स्त्रीलॊलः, बहुधनः प्रभूतार्थः, विषयॊपभॊक्ता विषयाणामिंद्रियार्थानामुपभॊक्ता उपभॊगशीलः तत्सुखान्वितः यदि भृगुः शुक्रॊ यॊगकरस्तदैवंविधॊ जातॊ भवति | 7 || 328 परविभवपरिच्छदॊपभॊक्ता रवितनयॊ बहुकार्यकृद्गणॆशः |  अशुभकृदुडुपॊऽह्नि दृश्यमूतिर्गलिततनुश्च शुभॊऽन्यथान्यदूह्यम् || 8 ||  भट्टॊत्पलः-अथ शनैश्चरॆ यॊगकर्तरि पुरुषस्य स्वरूपं चन्द्रमसि च दृश्यादृश्यॆ जातस्य स्वरूपज्ञानं पुष्पिताग्रयाह परविशॆति | परार्जितानां विभवानामैश्वर्याणां परिच्छदानां गृहवस्त्रवाहनपरिवाराणामुपभॊक्ता भवति बहुकार्यकृन्नानाविधानां कार्याणां कर्ता, गणॆशः बहुगणस्वामी, गणाः संघाः तॆषां प्रभुः ऎवंविधॊ रवितनयः शनैश्चरॊ यॊगकरॊ यदि भवति तदा जातॊ भवति | अत्र यॊगत्रयॆ सुनफानफादुरुधुराख्यॆ ऎकैकस्य ग्रहस्य फलमुक्तं द्वयादिसंभवॆ फलं द्वयादिकं वाच्यम् | अशुभकृदिति| उडुपश्चन्द्रॊऽह्नि दिनॆ दृश्यमूर्तिः दृश्यमानशरीरः अशुभकृदनिष्टफलकर्ता उतदुक्तं भवति | दिवा जन्मनि चन्द्रमा दृश्यॆ चक्रार्द्धॆ स्थितः अशुभं फलं करॊति | स पुरुषॊ दारिद्रयादियुक्तॊ भवतीत्यर्थः | गलिततनुरदृश्यमूर्तिः शुभः | ऎतदुक्तं भवत्यदृश्यॆ चक्रार्द्धॆ स्थितः शुभकृज्जातः ऐश्वर्यादियुक्तॊ भवति | अन्यथान्यदूह्यम् | उक्तप्रकारादन्यथास्थॆ चन्द्रमसि फलमन्यदूहां स्वबुद्धया विकल्पनीयम् | ऎतदुक्तं भवति | रात्रौ जन्मन्यदृश्यॆ चक्रार्द्धॆ यस्य चन्द्रॊ भवति तस्याशुभं जन्म | यस्य दृश्यॆ चक्रार्द्धॆ चन्द्रॊ भवति तस्य शुभं जन्म भवतीत्यर्थः || 8 ||  329 चन्द्रयॊगाध्यायः सम्पूर्णः | 13 || भट्टॊत्पलः-अथ लग्नाच्चन्द्राद्वा यस्यॊपचयॆ सौम्यग्रहा भवति तस्य फलं वसन्ततिलकॆनाह लग्नादिति | यस्य जन्मनि लग्नात्सौम्यग्रहाः बुधजीवसिता उपचयगता भवन्ति सर्व ऎव स पुरुषॊऽतीव वसुमानत्यर्थ धनवान्भवति | यस्य शशाङ्काच्चन्द्रादप्युपचयॆ सर्वं ऎव सौम्यग्रहाः सॊऽपि धनवान् भवति | ऎवं 330 समस्तैः त्रिभिरॆतत्फलम् | द्वाभ्यां समः | यस्य लग्नाच्चन्द्राद्वा द्वौ ग्रहौ सौम्यावुपचयगतौ भवतः स समॊ मध्यधनॊ भवति | नातिबहुधनॊ भवतीत्यर्थः | तदूनतायां लग्नाच्चन्द्राद्वा यस्यैकः सौम्यग्रहः उपचयगतॊ भवति सॊऽल्पवसुमान्किञ्चिद्धनान्वितॊ भवति | अर्थादॆव लग्नाच्चन्द्राद्वा यस्यॊपचयॆ न कश्चित्सौम्यग्रहॊ भवति स दरिद्रॊ भवति | यस्य लग्नचन्द्रयॊद्वीयॊरपि सौम्यग्रहा उपचयस्थाः कयापि युक्त्या भवन्ति सॊऽप्यतीव वसुमान्भवति | अन्यॆष्वसत्स्वपि फलॆष्विति | अन्यॆष्वपरॆष्वसत्स्वशॊभनॆष्वपि फलॆषु सस्विदं फलमुत्कटॆन बाहुल्यॆन भवति | यस्य लग्नाच्चन्द्राद्वा उपचयस्थाः सौम्यग्रहा भवन्ति तस्यान्ययॊगमशुभमपि कॆमद्रुमादिफलमभिभूयॆदं शुभमॆव फलमुत्कटत्वॆन प्राबल्यॆन भवतीति | 9 || इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां चन्द्रयॊगाध्यायः || 13 || 331 अथ द्विग्रहयॊगाध्यायः || 14 | |  भौमॆनाघरतं बुधॆन निपुणं धीकीर्तिसौख्यान्वितम् |  क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रॆण रङ्गायुधै लब्धस्वं रविजॆन धातुकुशलं भाण्डप्रकारॆषु वा || 1 ||  भट्टॊत्पलः-अथ द्विग्रहयॊगाध्यायॊ व्याख्यायतॆ | तत्रादित्यॆ चन्द्रादियुक्तॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहतिग्मांशुरिति | तिग्मांशुरादित्यः उषॆशॆन चन्द्रमसा सहितॊ युक्तः उषा रात्रिः उषाया ईशः उषॆशः रात्रिनाथः नरं मनुष्यं यन्त्राश्मकारं जनयति | यन्त्राणि सहस्नघातिप्रभृतीन्यश्मानः पाषाणाः तत्क्रियासु तत्कर्मसु निरतं सक्तं तं करॊति | ऎवं भौमॆन सहैकाराशिगतॊऽर्कॊऽघरतं पापासक्तं जनयति | बुधॆन क्रियासु निपुणं सूक्ष्मदृष्टि धीकीर्तिसौख्यान्वितं धीर्बुद्धिः, कीर्तिः यशः, सौख्यं सुखं सुखभावः परकर्मतत्परं जनयति | शुक्रॆण रङ्गयुधैः रङ्गावतरणक्रियया मल्लादिकयाऽयुधैः खङ्गादिभिश्च लब्धस्वं प्राप्त्यर्थं जनयति | रविजॆन शनैश्चरॆण धातुषु ताम्राद्युत्पत्तिमृत्तिकासु गैरिकाद्यासु वा धातुषु कुशलं निपुणं भाण्डप्रकारॆषु समुद्गादयस्तॆषु कुशलं वा | 1 ||  332 शार्दूलविक्रीडि तॆनाहकूट इति | कूटं पण्यद्रव्याणां प्रतिरूपक्रियासक्तं स्त्रीपण्यं अशिवमश्रॆयस्करम् मातुः जनन्याः ऎवंविधः शशी चन्द्रमाः सवक्रॊ वक्रॆणाङ्गारकॆण युक्तॊ नरं जनयति | सज्ञ इति | प्रसृतवाक्यं प्रियंवदम्, अर्थनिपुणमर्थॆषु सूक्ष्मदृष्टि, सौभाग्यॆन सर्वजनवल्लभॆन कीत्र्या यशसान्वितं संयुक्तं सज्ञॊ बुधसहितः शशी नरं जनयति | विक्रान्तं शत्रुजॆतारं, कुलमुख्यं वंशप्रधानम्, अस्थिरमतिं चपलं, वित्तॆश्वरं धनस्वामिनं, साङ्गिराः अङ्गिरसा गुरुणा संयुक्तः शशी नरं जनयति | वस्त्राणां क्रियादिकुशलं तन्तुवायकम् आदिग्रहणात्सीवनरञ्जनक्रयविक्रयॆष्वपि कुशलं ससितः शुक्रॆण संयुक्तः शशी नरं जनयति | क्रियादिकुशलं सर्वक्रियासु निपुणं सार्किः आर्किणा शनैश्चरॆण युक्तः द्विःसंस्कृता पुनर्भूः तस्याः सुतं पुत्रं शशी नरं जनयति | पूनर्भूलक्षणम् | “परिणीता पति हित्वा सवर्ण कामतः श्रयॆत् | अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः” | 2 || 333 मूलादिस्नॆहकूटैव्र्यवहरति वणिग्बाहुयॊद्धा ससौम्यॆ पुर्यध्यक्षः सजीवॆ भवति नरपतिः प्राप्तवित्तॊ द्विजॊ वा |  गॊपॊ मल्लॊऽथ दक्षः परयुवतिरतॊ द्यूतकृत्सासुरॆज्यॆ दुःखार्तॊऽसत्यसन्धः ससवितृतनयॆ भूमिजॆ निन्दितश्च | 3 || भट्टॊत्पलः-अथाङ्गारकॆ बुधादियुक्तॆ जातस्य स्वरूपं स्रग्धरयाह मूलादिति | ससौम्यॆ भूमिजॆ बुधयुक्तॆऽङ्गारकॆ जातॊ वणिग्भवति | स च वणिङमूलादिभिः व्यवहरति मूलादीनि मूलपुष्पवल्कलसारफलानि, स्नॆहास्तैलादयः ऎतैर्व्यवहरति | कूटैश्च द्रव्यप्रतिरूपैः कृत्रिमैर्व्यवहरति | बाहुयॊद्धा नियुद्धकुशलश्च भवति | ऎवं विधः ससौम्यॆ सौम्यॆन बुधॆन युतॆ| भूमिजॆ जातॊ भवति | पुर्यध्यक्षः नगराधिकृतः पुरि अध्यक्षः स्वामी अथवा नरपतिः राजा भवति | अथवा द्विजॊ ब्राह्मणः प्राप्तवित्तॊ लब्धधनः | कॆचित्प्राप्तविद्य इति पठन्ति | सजीवॆ गुरुसंयुत्तॆक भौमॆ जातॊ भवति | गॊपः गॊपालकः, मल्लः बाहुयॊद्धा | अथशब्दः पादपूरणॆ | दक्षः चतुरः परयुवतिरतः परस्त्रीसक्तः. द्यूतकृत्कितवः सासुरॆज्यॆ असुरैरीज्यः असुरॆज्यः तॆन असुरॆज्यॆन शुक्रॆण युक्तॆ भूमिजॆ जातः ऎवं विधॊ भवति | दुःखार्तः दुःखपीडितः, असत्यसन्धः असत्यैव सन्धा प्रतिज्ञा यस्य अनृतभाषी, निन्दितः कुत्सितॊऽसूयया युक्तः ससवितृतनयॆ सवितृतनयॆन सौरॆण युक्तॆ भूमिजॆ जातॊ भवति | 3 ||  334 सौम्यॆ रङ्गचरॊ बृहस्पतियुतॆ गीतप्रियॊ नृत्यवि द्वाग्मी भूगणपः सितॆन मृदुना मायापटुर्लङ्घकः |  सद्विद्यॊ धनदारवान् बहुगुणः शुक्रॆण युक्तॆ गुरौ ज्ञॆयः श्मश्रुकरॊऽसितॆन घटकृञ्जातॊऽन्नकारॊऽपि वा || 4 ||  भट्टॊत्पलः-अथ बुधॆ जीवादियुक्तॆ जीवॆ च शुक्रादियुक्तॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहसौम्यॆ रङ्गचर इति | रङ्गचरॊ मल्लादिकः, गीतप्रियः गीतवल्लभः, नृत्यविन्नृत्यज्ञः ऎवंविधॊ सौम्यॆ बुधॆ बृहस्पतिना युक्तॆ जातॊ भवति | प्रशस्ता वाग्यस्य स वाग्मी वचनक्रियता परप्रत्यायनसमर्थः, भूगणपः भुवश्च गणानां सङ्घानामधिपतिः ऎवंविधॊ बुधॆ सितॆन शुक्रॆण सहितॆ जातॊ भवति | मायापटुः परवञ्चनदक्षः, लङ्घकः गुरुवचनातिक्रामी ऎवंविधॊ मृदुना शनैश्चरॆण सहितॆ बुधॆ जातॊ भवति | सद्विद्य इति | सद्विद्यः शॊभनविद्यः, धनदारवान् वित्तकलत्रसंयुक्तः, बहुगुणः प्रभूतगुणैः शॊर्यादिभिर्युक्तः ऎवंविधॊ गुरौ जीवॆ शुक्रॆण युक्तॆ जातॊ भवति | श्मश्रुकरॊ नापितः अथवा घटकृत्कुम्भकारः अथवान्नकारः सूपकारः ऎवंविधॊऽसितॆन सौरॆण युक्तॆ गुरौ जातॊ ज्ञॆयॊ विज्ञातव्यः || 4 ||  असितसितसमागमॆऽल्पचक्षुर्युवतिसमाश्रयसम्प्रवृद्धवित्तः | भवति च लिपिपुस्तकचित्रवॆत्ता कथितफलैः परतॊ विकल्पनीयाः | 5 || इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ द्विग्रहयॊगाध्यायः सम्पूर्णः | 14 || 335 भट्टॊत्पलः-अथ शुक्रॆ शनैश्चरयुक्तॆ जातस्य स्वरूपं द्विग्रहयॊगफलं च पुष्पिताग्रयाह असितॆति | अल्पचक्षुरल्पदृष्टिः युवतिसमाश्रयॆण स्त्रीसंश्रयणॆन सम्यक् प्रवृद्धं वित्तं धनं यस्य स युवतिसमाश्रयवृत्तिः लिपिरक्षरविन्यासः, पुस्तकलॆखकर्मचित्रमालॆख्यम् ऎषां वॆत्ता तज्ज्ञः ऎवंविधः असितसितसमागमॆ| शनैश्चरस्य शुक्रॆण संयॊगै जातः पुरुषः ऎवंविधॊ भवति | यदि राशिद्वयॆ द्वौ ग्रहयॊगौ भवतः तच्च द्विग्रहयॊगद्वयस्यापि फलं व्यक्तव्यम् | अथ राशित्रयॆ द्विग्रहयॊगत्रयं भवति तदा द्विग्रहयॊगत्रयस्यापि फलं वाच्यम् | कथितफलैरिति | द्वाभ्यां परतॊऽपरॆऽन्यॆ त्रयॊ ग्रहा यदैकगता भवन्ति तदा कथितफलैरुक्तफलैरॆव विकल्पनीयाः तदा द्विग्रहयॊगत्रयस्य फलं वाच्यम् | यद्यर्कचन्द्रभौमा ऎकराशिस्था भवन्ति तदार्कचन्द्रयॊगॆ यत्फलमुतं यच्चादित्याङ्गारकयॊगॆ फलं यच्च चन्द्राङ्गारकयॊगॆ फलं तत्फलत्रयमपि वाच्यम् | ऎवं यथा सम्भवमन्यत्रापि ग्रहत्रयस्यैकराशिगतस्य फलं वक्तव्यम् | यद्यॆकराशौ द्विग्रहयॊगॊऽन्यत्र त्रिग्रहयॊगॊ वा भवतस्तदा सर्वाणि फलानि वाच्यानीति | 5 || इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां द्विग्रहयॊगाध्यायः || 14 ||  336 अथ प्रव्रज्यायॊगाध्यायः | 15 || ऎकस्थैश्चतुरादिभिर्बलयुतैर्जाताः पृथग्वीर्यगैः शाक्याजीविकभिक्षुवृद्धचरका निग्रीन्थवन्याशना | माहॆयज्ञगुरुक्षपाकरसितप्राभाकरॊनैः क्रमात् प्रव्रज्या बलिभिः समाः परजितैस्तत्स्वामिभिः प्रच्युतिः | 1 ||  भट्टॊत्पलः-अथातः प्रव्रज्यायॊगाध्यायॊ व्याख्यायतॆ | तत्रादावॆव चतुरादिभिरॆकस्थैः ग्रहैः जातस्य प्रव्रज्यायॊगं शार्दूलविक्रीडितॆनाह‌ऎकस्थैरिति | ऎकस्मिन्यत्र तत्र राशौ चतुरादयॊ ग्रहा भवन्ति चत्वारः पञ्च षट् सप्त वा भवन्ति तैरॆकस्थैश्चतुरादिभिः बलयुतैः वीर्यवद्भिः माहॆयादिभिः जाताः सम्भूताः शाक्यादिकाः प्रव्रजकाः भवन्ति | किन्तु चतुरादिभिः बलयुतैरॆका प्रव्रज्या भवति | तदर्थमाह-- | पृथग्वीर्यगैः तैश्च बलिभिः वीर्यगैः सबलैः पृथक् पृथक् प्रव्रज्या भवति | ऎतदुक्तं भवति | चतुरादीनामॆकस्थानां मध्याद्यद्यॆकॊ बलवान् भवति तदा जातस्यैकैव प्रव्रज्या भवति | अथ चतुरादीनामॆकस्थानां मध्यान्न कश्चिद्बली भवति तदा जातस्य प्रव्रज्या न भवति | अथ द्वौ बलिनौ भवतस्तदा जातस्य प्रव्रज्याद्वयमॆव भवति | तदा बहवॊ बलिनस्तदा बह्वयः प्रव्रज्या भवन्ति | ऎवमॆकस्थैश्चतुरादिभिर्बलयुतैः जाताः प्रव्रज्याभाजॊ भवन्ति | यस्मादुक्तम् | प्रव्रज्या बलिभिः समाः ताश्च पृथग्वीर्यगैः माहॆयादिभिः भौमाद्यैः शाक्याद्या भवन्ति | तद्यथा | चतुरादीनामॆकस्थानां मध्याद्यदा माहॆयॊ भौमॊ बलवान् भवति तदा जातः शाक्यॊ रक्तपटॊ भवति | ऎवं ज्ञॆ बुधॆ बलवति आजीविकॊ भवति आजीविकश्चैकदण्डी| गुरौ बलवति भिक्षुः यतिर्भवति | क्षपाकरश्चन्द्रॊ यदा बलवांस्तदा वृद्धः वृद्धश्रावकः कापालिकः वृत्तभङ्गभयाच्छ्रावकशब्दॊऽत्र लुप्तॊ द्रष्टव्यः | सितॆ शुक्रॆ बलवति चरकः चक्रधरः प्रभाकरिः सौरः तस्मिन् बलवति निर्ग्रन्थः नग्नः क्षपणकः प्रावरणरहित इत्यर्थः | इनॆ आदित्यॆ बलवति वन्याशनः मूलफलाशनस्तपस्वी भवति | ऎवं क्रमात्क्रमशः परिपाट्या ऎतॆ प्रव्रज्यापर्यायाः| ऎतॆ ऎवं कालक्रमाद्व्याख्याताः | तथा च वङकालकाचार्यः | “ताबसि‌ऒ दिणणाहॆ चन्दॆ कावालि‌ऒ तहा भणि‌ऒ | रक्तवडॊ भूमिसुवॆ सॊमसुवॆ 337 ऎ‌अदण्डी‌आ | दॆवगुरु शुक्क कॊण क्कमॆण ज‌ई चर‌अ खवणा‌ई |” अस्यार्थः | तावसि‌ऒ तापसिकः, दिणणाहॆ दिननाथॆ सूर्यॆ, चन्दॆ चन्द्रॆ, कावालि‌ऒ कापालिकः, तहा भणि‌ऒ तथा भणितःरत्तवडॊ रक्तपटः, भूमिसुवॆ भूमिसुतॆ, सॊमसुवॆ सॊमसुतॆ बुधॆ, ऎ‌अदण्डि‌आ ऎकदण्डी | दॆवगुरुः बृहस्पतिः, शुक्कः शुक्रः, कॊणः शनैश्चरः, क्कमॆण क्रमॆण, ज‌ई यतिः, चर‌अ चरकः, खवणा‌ई क्षपणकः | अथ वृद्धश्रावकग्रहणं माहॆश्वराश्रितानां प्रव्रज्यानामुपलक्षणार्थम् | आजीविकग्रहणं नारायणाश्रितानाम् | तथा च वङ्कालकॆ संहितान्तरॆ पठ्यतॆ | “जलण हर सुग‌अ कॆसव सू‌ई ब्रह्मण्ण णग्ग मग्गॆसु | दिक्खाणं णा‌अव्बा सूरा‌इग्गहा क्कमॆण णागह‌आ |” जलण ज्वलनः साग्निक इत्यर्थः | हर ईश्वरभक्तः भट्टारकः, सुग‌अ सुगतः, इत्यर्थ कॆसव कॆशवभक्तः, भागवतः इत्यर्थः | सू‌ई श्रुतिमार्गगतः मीमांसकः | ब्रह्मभक्तः वानप्रस्थः | णग्न नग्नः श्रपणकः | मग्गॆसु मार्गॆषु | दिक्खाणं दीक्षाणाम् || ण‌अव्बा ज्ञातव्याः | सूरा‌इग्गाहा सूर्यादिग्रहाः | क्कमॆण | णागह‌आ नाथगताः | ऎवं चतुरादीनामॆकस्थानां मध्याद्यावन्तॊ बलिनः तावन्त ऎव प्रव्रज्या भवन्ति | तत्रापि प्रथमा वीर्याधिकस्य तत्सम्बधिनी प्रव्रज्या भवति | यस्मातस्वल्पजातकॆ उक्तम्| “चतुरादिभिरॆकस्थैः प्रव्रज्यां स्वां ग्रहः करॊति बली | बहुवीर्यॆस्तावद्यः प्रथमा वीर्याधिकस्यैव |” तापसवृद्धश्रावकरक्तपटाजीविभिक्षुचरकाणां निग्रन्थानां चॆति| वीर्यॊपचयक्रमॆणान्यासां क्रमः | ऎवं बलिभिः समाः प्रव्रज्याः बलिनॊ ग्रहस्य यादृश्यॆव तद्बलानुसारॆण प्राप्नॊति परिपालयति ऊनवलस्य मनाङ नाप्नॊति पालयति | पराजितैस्तत्स्वामिभिः प्रच्युतिरिति | शाक्यादिप्रव्रज्यास्वामिभिग्रहैः पराजितैरन्यैर्ग्रहैः युद्धॆ विजितैः प्रच्युतिः प्रव्रज्यात्यागः | तत्प्रव्रज्यां गृहीत्वां पुनस्त्यजति | ऎतदुक्तं भवति | चतुरादीनां मध्याद्यद्यॆकॊ बलवान् भवति स च| ग्रहयुद्धॆ अन्यॆन ग्रहॆण जातककालॆ पराजितस्तदा प्रव्रज्यां गृहीत्वा पुनस्त्यजति त्यक्त्वा च प्रव्रज्यामनाश्रित्यैव तिष्ठति | अथ चतुरादीनां मध्याद्द्वौ बहवॊ वा बलिनॊ भवन्ति तॆ च पराजितास्तदा तस्यावश्यमॆव सर्वाभ्यः प्रव्रज्याभ्यः च्युतिर्भवति | यस्माद्बलवद्ग्रहसंख्यास्तॆन प्रव्रज्याः कर्तव्याः | अन्त्यप्रव्रज्याधिपतिर्यद्यन्यॆन ग्रहॆण जितॊ न भवति तदा तामॆव प्रव्रज्यामाश्रितॊ   338 म्रियतॆ | अथ प्रव्रज्यादायकॊ ग्रह ऎक ऎव जितॊ न भवति तदा यावज्जीवं तामॆव प्रव्रज्यामाश्रयति | अथ द्वौ ग्रहौ प्रव्रज्यादायकौ तौ चापराजितौ तदा प्रथमप्रव्रज्यादायकान्तर्दशायां प्रथमां प्रव्रज्यां गृहीत्वा तामॆवाश्रित्य तावत्तिष्ठति | यावद्द्वतीयप्रव्रज्यादायकग्रहान्तर्दशाप्रवॆशः | तत्र प्रथमां त्यक्त्वा द्वितीयामाश्रयति | ऎवं बहुप्रव्रज्यासु सम्भवॆ यॊज्यम् | अत्र च सत्याचार्यः“तॆष्वधिकबली जीवस्त्रिदण्डिनं भार्गवश्चरकमुख्यम् | नग्नश्रमणं सौरॊ बुधस्तदा जीविकाचार्यम् | वृद्धश्रावकमिन्दुर्दिवाकरस्तापसं तपॊयुक्तम् | वक्रः शाक्यः श्रवणं क्षॆत्राश्रयजं गुणांश्चैतान् | वीर्यॊपॆतॆऽल्पतनावदीक्षिता भक्तिवदिनास्तॆषां | अन्यैः पराजितश्चॆत्प्रव्रज्याप्रच्युतिं कुर्यात् | यावन्तॊ वीर्ययुताः प्रव्रज्या भवन्ति तावन्त्यः | ऎकक्षगॆषु नियमातॆषामाद्या बलॊपॆतात् |” | 1 ||  339 रविलुप्तकरैरदीक्षिता बलिभिस्तद्गतभक्तयॊ नराः |  अभियाचितमात्रदीक्षिता निहतैरन्यनिरीक्षितैरपि || 2 ||  भट्टॊत्पलः-अथास्तमितान्यजितान्यदृष्टानां ग्रहाणामपवादं वैतालीयॆनाहरविलुप्तकरैरिति | चतुरादीनामॆकस्थानां मध्याद्यावन्तॊ ग्रहा बलिनस्तावन्तः स्वप्रव्रज्यादायकास्तत्रापि बलिनां मध्यॆ यावन्तॊ रविलुप्तकराः सूर्यमण्डलगा अस्तमिता भवन्ति तैरदीक्षिता जाता भवन्ति | तावन्तः स्वकीयाः प्रव्रज्या न प्रयच्छतीत्यर्थः | किन्तु जाता नराः तद्गतभक्तयस्तद्गतानां तत्प्रव्रज्याप्रविष्टानां मध्यॆ भक्ता भवन्ति | अत्र रविलुप्तकरत्वमुदयास्तमयं गणयित्वाऽन्वॆष्यम् | शुक्रगुरुज्ञार्किकुजाः कालांशैरुत्तरॊत्तरैः नवभिर्दृश्यादृश्या दृक्कर्मणां रवॆः द्वादशभिरिन्दुरित्यॆवमादिकर्मणि कृतॆ कदाचिदादित्यॆन सहैकराशिगतैरपि नास्तमितॊ भवति | कदाचित् द्वितीयराशिस्थॊऽप्यस्तमितॊ भवति | ऎवमुदयास्तमयमन्वॆष्यास्तमितफलं वाच्यम् | अभियाचितमात्रदीक्षिता इति | बलिभिरित्यनुवर्ततॆ | बलिर्भिनिहतैः ग्रहयुद्धॆऽन्यग्रहविजितैरन्यैश्च ग्रहैर्निरीक्षितैर्दृष्टैः अभियाचितमात्रदीक्षिताः दीक्षाप्रार्थनानपरा भवन्ति | न च तां प्राप्नुवन्ति | पूर्वमुक्तं पराजितैस्तत्स्वामिभिः प्रच्युतिरित्यस्यायमपवादः | तॆनैतदुक्तं भवति | बलिग्रहॊ ग्रहयुद्धॆऽन्यॆन विजितॊ भवति | न कॆनचिद्दृश्यतॆ तदा तत्प्रव्रज्यां गृहीत्वा पुनस्त्यजति | अथ बली ग्रहः समागमनॆन ग्रहॆण विजितॊ भवत्यन्यॆन तदा प्रव्रज्यां प्रार्थ्यमानॊऽपि न प्राप्नॊति | यस्य च प्रव्रज्याप्रच्युतिः 340 जाता तस्य तदवसानॆ बहुष्वन्तर्दशासु चारवशाद्यस्मिन्नन्तर्दशाकालॆ बलवान् भविष्यति तस्मिन्कालॆ प्रव्रज्यां दास्यति | तथा चॊक्तम् | “दीक्षादानसमर्थॊ| यॊ भवति तदा बलॆन संयुक्तः | तस्यैव दशाकालॆ दीक्षां लभतॆ नरॊऽवश्यम् | यस्य च दीक्षाच्यवनं तस्यैव दशावसानॆ स्यात् | ऎवं जातककालॆ सञ्चिन्त्य बलाबलं वाच्यम् |” | 2 || जन्मॆशॊऽन्यैर्यद्यदृष्टॊऽर्कपुत्रं पश्यत्यार्किजन्मपं वा बलॊनम् |  दीक्षां प्राप्नॊत्यार्किदृक्काणसंस्थॆ भौमाक्र्यंशॆ सौरदृष्टॆ च चन्द्रॆ || 3 ||  भट्टॊत्पलः-अथ चतुरादिभिरॆकस्थैर्विना प्रव्रज्यायॊगं शालिन्याहजन्मॆश इति | जन्मनि यस्मिन् राशौ चन्द्रः स्थितस्तस्य यॊऽधिपतिर्ग्रहः स जन्मॆशः | स च यद्यन्यैर्ग्रहैरदृष्टॊ नावलॊकितः न कॆनिचद्ग्रहॆण दृश्यतॆ तथाभूतॊऽसावर्कपुत्रं शनैश्चरं पश्यति तदा जातस्य प्रव्रज्या भवति | सा च शनैश्चरकृता शनैश्चरजन्मॆशयॊः यॊ बलवांस्तदीयान्तर्दशाकालॆ | उक्तं च | “यस्यॆक्षतॆऽर्कपुत्रं जन्मभनाथॊ ग्रहैर्न सन्दृष्टः | तस्य हि दीक्षालाभॊ| तद्बलयॊगाद्दशाकालॆ |” पश्यत्यार्किरिति | अथवार्किः सौरः सबलॊ जन्मराश्यधिपं बलॊनं वीर्यरहितं पश्यति तथापि शनैश्चरॊक्तप्रव्रज्यां वदति | उक्तं च | “शनिदृष्टॆ बलहीनॆ जन्मनि नाथॆ वदॆच्च निर्ग्रन्थम् |” दीक्षां प्राप्नॊतीति| यत्र तत्र राशौ चन्द्रॆ शशिन्यार्किद्रॆष्काणसंस्थॆ सौरद्रॆष्काणव्यवस्थितॆ न कॆवलं यावद्भौमाक्र्यंशॆ कुजसौरयॊरन्यतरनवांशकस्थॆ तस्मिश्च सर्वग्रहादृष्टॆ शनैश्चरॆणॆक्षमाणॆ दीक्षां प्राप्नॊति | शनैश्चरॊक्तप्रव्रज्यां व्रजति | तथा च | 341 सौरद्रॆष्काणसंस्थॊ यदि भवति शशी तदंशसंस्थश्च | वक्रांशॆ वा दृष्टः सौरॆण तु सर्वदर्शनविमुक्तः | निर्ग्रन्थसञ्ज्ञॊ यॊऽर्कपुत्रवीर्यानुसारॆण जन्माधिपतिः पापैरति निरीक्षितस्त्वॆक ईक्षतॆ सौरः |” यस्य पुरुषस्य मूर्तॊ नियता दीक्षिता भवति तस्य जन्माधिपतिं विबलं निरीक्षतॆ | यस्य सूर्यजः सबलः सॊऽपि खलु भाग्यहीनः सुरुगुरुशशिहॊरास्वार्किदृष्टासु धर्म गुरुरथ नृपतीनां यॊगजस्तीर्थकृत्स्यात् |  नवमभवनसंस्थॆ मन्दगॆऽन्यैरदृष्टॆ भवति नरपयॊगॆ दीक्षितः पार्थिवॆन्द्रः | 4 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ प्रव्रज्यायॊगाध्यायः सम्पूर्णः | 15 || भट्टॊत्पलः-अथ यॆन यॊगॆन जातः शास्त्रकरॊ भवति च राजापि दीक्षितॊ तद्यॊगद्वयं मालिन्याह सुरगुर्विति | सुरगुरुः जीवः, शशी चन्द्रः, हॊरा लग्नम् ऎतासु सुरगुरुशशिहॊरासु आर्किणा शनैश्चरॆण दृष्टासु अवलॊकितासु धर्म नवमॆ स्थानॆ गुरुः जीवॊ यदि भवति | अथशब्दः पादपूरणॆ | नृपतीनां यॊगजः कश्चिद्राजयॊगॊ जातस्य भवति तदा स पुरुषः तीर्थकृच्छास्त्रकृत्स्याद्भवॆत् | काणादबुद्धपाञ्चशिखवराहमिहिरब्रह्मगुप्तप्रतिम इति | सुरगुरुशशिहॊरास्विति | धन्विमीनकर्कटलग्नैः कैश्चित्व्याख्यातम् | तच्चायुक्तम् | यस्मान्माण्डव्यः 342 गतॆ मन्दालॊक गुरुशशिविलग्नॆ नवमगॆ गुरौ निष्पद्यन्तॆ न इह नृपयॊगॆ नृपतयः | विजृम्भन्तॆ यॆषां लटहरचनारम्भसुभगा जगत्यां यॆ विद्वद्गुणकथनपाषाण- सदृशाः|” तथा चॊक्तम् गुरुशशिलग्ना दृष्टा कॊणॆ न तु नवमगॊ यदि गुरुः | नरनाथजन्मजातः शास्त्रकरॊ भवति न च नृपः |” अथ द्वितीयॊ राजयॊगस्तत्रॊपस्थानं करॊति तदा राजा भवति | तीर्थकरश्च जनककाशिराजस्फुजिध्वजप्रतिम इति | उक्तं च “अस्मिन्यॊगॆ चान्यॊ नृपयॊगॊ भवति तत्र यॊ जातः | स भवति जिनॆन्द्रतुल्यॊ नरनाथः शास्त्रकर्ता च |” नवमभवनसंस्थॆ मन्दं गच्छतीति मन्दगः सौरः तस्मिन्मन्दगॆ लग्नान्नवमभवनसंस्थॆ धर्मस्थानाश्रितॆऽन्यैः शर्मस्थानाश्रितॆऽन्यैः सर्वैर्ग्रहैरदृष्टॆ नावलॊकितॆ तथा नरपयॊगॆ राजयॊगानां मध्यादन्यतमॆ राजयॊगॆ सति जाती दीक्षितः प्रवृजितः पार्थिवॆन्द्रश्च राजाधिराजॊ भवति | पश्चात्तत्काल सर्वबली तद्दीक्षायां दीक्षितश्च भवति | राजयॊगं विनाऽयमपि प्रव्रज्यायॊगः | यॊगजश्चॆज्जातॊ राजा दीक्षितश्च भवति | अन्यथादीक्षित ऎव | उक्तं च नवमस्थानॆ सौरॊ यदि स्थितः सर्वदर्शनविमुक्तः | नरनाथयॊगजातॊ नृपॊऽपि दीक्षान्वितॊ भवति | नृपयॊगस्याभावॆ यॊगॆऽस्मिन्दीक्षितॊ नरॊ जातः | निःसन्दिग्धं प्रवदॆद्यॊगस्यास्य प्रभावॆन |” इति | 4 || इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां प्रव्रज्यायॊगाध्यायः || 15 ||  343 344 अथ ऋक्षशीलाध्यायः | | 16 || प्रियभूषणः सुरूपः सुभगॊ दक्षॊऽश्विनीषु मतिमांश्च |  कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु || 1 ||  भट्टॊत्पलः-अथ ऋक्षशीलाध्यायॊ व्याख्यायतॆ | ऋक्षं नक्षत्रं राशिश्च तत्रादावॆव चन्द्रभुज्यमाननक्षत्रशीलं भवति, तत्राश्विनॊभरण्यॊः जातस्य शीलविज्ञानमार्ययाह प्रियभूषण इति | प्रियभूषणः अलङ्करणवल्लभः, सुरूपः शॊभनरूपः, वपुष्मान् सुभगः सर्वजनप्रियः, दक्षः सर्वकार्यकरणपटुः, मतिमान् बुद्धियुक्तः ऎवविधॊऽश्विनीषु जातॊ भवति | तारकापॆक्षयात्र सर्वत्र बहुवचननिर्दॆशः कृतः | कृतनिश्चय इति | कृतनिश्चयः प्रारब्धानां कर्मणामन्तगः, सत्यः सत्यवाक्, अरुक् नीरुजः, दक्षः चतुरः, सुखितॊ दुःखनिर्मुक्तः ऎवंविधॊ भरणीषु जातॊ भवति | 1 || बहुभुक् परदाररतस्तॆजस्वी कृत्तिकासु विख्यातः |  रॊहिण्यां सत्यशुचिः प्रियंव्वदः स्थिरमतिः सुरूपश्च || 2 ||  भट्टॊत्पलः-अथ कृत्तिकारॊहिण्यॊजतिस्य स्वरूपमार्ययाह बहुभुगिति | बहुभुक् प्रभूताहारः, परदाररतः परस्त्रीष्वासक्तः, तॆजस्वी असहिष्णुः, विख्यातः सर्वत्र प्रसिद्धकीर्तिः ऎवंविधः कृत्तिकासु जातॊ भवति | सत्यः अवितथभाषी, शुचिः परस्वाद्यलुब्धः, शास्त्रॊक्तशौचानुष्ठाता, प्रियंवदः मधुरवाक्, स्थिरमतिः ऎकमतिः, सुरूपश्च वपुष्मान् ऎवंविधः रॊहिण्यां जातॊ भवतीति | 2 || 345 चपलश्चतुरॊ भीरुः पटुरुत्साही धनी मृगॆ भॊगी |  शठगर्वितः कृतघ्नॊ हिंस्रः पापश्च रौद्रक्षॆ || 3 ||  भट्टॊत्पलः-अथ मृगशीर्षार्द्रयॊः जातस्य स्वरूपमार्ययाह चपल इति | चपलः क्रियास्वनवस्थितः, चतुरः दक्षः भीरुः भयार्त्तः, पटुः प्रवक्ता, उत्साही, सॊद्यमः, धनी वित्तवान्, भॊगी सम्भॊगशीलः, ऎवंविधॊ मृगॆ मृगशिरसि जातॊ भवति | शठः परकार्यविमुखः | उक्तं च ग्रन्थान्तरॆ शठलक्षणम्- “मनसा वचसा यश्च दृश्यतॆ कार्यतत्परः | कर्मणा विपरीतश्च स शठः सद्भिरुच्यतॆ |” गर्वितः मानी, कृतघ्नः खलः कृतमुपकृतं हन्ति यः स कृतघ्नः, हिंस्नः वधिकः, पापः पापकर्मकर्ता ऎवंविधॊ रौद्रक्षॆ आद्रयां जातॊ भवतीति | 3 ||  दान्त रन्| दान्तः शमपरः तपःक्लॆशसहः, सुखी सुखितः, सुशीलः शॊभनशीलः विनयवान्, दुर्मॆधा जडप्रायः, रॊगभाक् पीडितदॆहः, तृषार्त्तः, अल्पॆन स्तॊकॆनैवार्थॆन सन्तुष्टः ऎवंविधॊ मनुजॊ मनुष्यः पुनर्वसौ जायतॆ उत्पद्यतॆ || 4 || 346 शान्तात्मा सुभगः पण्डितॊ धनी धनसंभृतः पुष्यॆ |  शठसर्वभक्षपापः कृतघ्नः धूर्तश्च भौजङ्गॆ || 5 ||  भट्टॊत्पलः-अथ पुष्याश्लॆषयॊजतस्य स्वरूपमार्ययाह शान्तात्मॆति | शान्तात्मा शमदमपरॊ जितॆन्द्रियः, सुभगः सर्वजनप्रियः, पण्डितः शास्त्रार्थवित्, धनी वित्तवान्, धर्मनिरत ऎवंविधः पुष्यजॊ भवति | शठः परकार्यविमुखः, सर्वभक्षः सञ्चयनशीलः, पापकर्मरतः, कृतघ्नः कृतमुपकृतं हन्ति स कृतघ्नः, धुर्तः परवचनदक्षः ऎवंविधॊ भौजङ्गॆ आश्लॆषायां जातॊ भवति||5 || बहुभृत्यधनॊ भॊगी सुरपितृभक्तॊ महॊद्यमः पित्र्यॆ |  प्रियवाग्दाता द्युतिमानटनॊ नृपसॆवकॊ भाग्यॆ || 6 ||  भट्टॊत्पलः-अथ मघापूर्वाफाल्गुन्यॊः जातस्य स्वरूपमार्ययाह बहुभृत्यधन इति | बहुभृत्यधनः प्रभूतपरिवारवित्तान्वितः, भॊगी भॊगान्वितः, सुरपितृभक्तिः दॆवानां पितृणां च भक्तः, महॊद्यमः महॊत्साही ऎवंविधः पित्र्यॆ मघायां जातॊ भवति | प्रियवाक् अभिमतवक्ता, दाता दानशीलः, द्युतिमान्सुकान्तिः, अटनः परिभ्रमणशीलः, नृपसॆवकः राजसॆवानुरतः ऎवंविधॊ भाग्यॆ पूर्वाफाल्गुन्यां जातॊ भवति | 6 || 347 सुभगॊ विद्याप्तधनॊ भॊगी सुखभाद्वितीयफाल्गुन्याम् |  उत्साही धृष्टः पानपॊऽघृणी तस्करॊ हस्तॆ || 7 ||  भट्टॊत्पलः-अथॊत्तराफाल्गुनीहस्तयॊजतस्य स्वरूपमार्ययाह सुभग इति | सुभगः सर्वजनप्रियः, विद्याप्तधनः विद्यया आप्तं धनं यॆन स भॊगी भॊगान्वितः, सुखभाग्दुःखरहितः ऎवंविधॊ द्वितीयफाल्गुन्यां उत्तराफाल्गुन्यां जाति भवति | उत्साही सॊद्यमः, धृष्टः प्रतिभायुक्तः निर्लज्जॊ वा पानपः पानप्रियः आसवानुरक्तः, अघृणी निर्दयः, तस्करः चौरः ऎवंविधॊ हस्तॆ जातॊ भवति | 7 ||  चित्राम्बरमाल्यधरः सुलॊचनाङ्गश्च भवति चित्रायाम् |  दान्तॊ वणिक्कृपालुः प्रियवाग्धर्माश्रितः स्वातौ || 8 || भट्टॊत्पलः-अथ चित्रास्वात्यॊजतस्य स्वरूपमार्ययाह चित्राम्बरॆति | चित्राम्बरमाल्यधरः चित्राणि नानाप्रकाराणि अम्बराणि वस्त्राणि माल्यानि च धारयति | सुलॊचनाङ्ग शॊभना नॆत्रावयवा यस्य ऎवंविधः चित्रायां जातॊ भवति | दान्तॊ विनयान्वितः, जितॆन्द्रियः वणिक्क्रयविक्रयज्ञः कृपालुः कॆचित्तृषालुरिति पठन्ति तृषालुः तृषां न सहतॆ प्रियवाक् अभिमतवक्ता, धर्माश्रितः धर्मरतः ऎवंविधः स्वातौ जातॊ भवति || 8 || 348 ईष्र्युर्लुब्धॊ द्युतिमान्वचनपटुः कलहकृद्विशाखासु |  आढयॊ विदॆशवासी क्षुधालुरटनॊऽनुराधासु || 9 ||  भट्टॊत्पलः-अथ विशाखानुराधयॊर्जातस्य स्वरूपमार्ययाह ईष्र्युरिति | ईष्र्युः परर्द्धिमत्सरी, लुब्धॊ लॊभाभिभूतः द्युतिमान् सुकान्तिः, वचनपटुः सम्भाषणदक्षः | कॆचिदर्थपटुरिति पठन्ति, अर्थाजनॆ प्रटुः प्रवीणः, कलहकृद्विरॊधशीलाः ऎवंविधॊ विशाखासु जातॊ भवति | आढयः ईश्वरः, विदॆशवासी परदॆशनिवसनशीलः, क्षुधालुः क्षुधां न सहतॆ | अटनः परिभ्रमणशीलः ऎवंविधॊऽनुराधासु जातॊ भवति | 9 ||  ज्यॆष्ठासु न वहुमित्रः सन्तुष्ट धर्मकृत्प्रचुरकॊपः |  मूलॆ मानी धनवान्सुखी न हिंस्रः स्थिरॊ भॊगी | 10 ||  भट्टॊत्पलः-अथ ज्यॆष्ठामूलयॊजतस्य स्वरूपमार्ययाह ज्यॆष्ठास्विति | न बहुमित्रः स्वल्पसुहृत्, सन्तुष्टः सन्तॊशशीलः, धर्मकृद्धर्मानुरतः, प्रचुरकॊपः अतिक्रॊधी, ऎवंविधॊ ज्यॆष्ठासु जातॊ भवति | मानी गर्वितः, धनवान् प्रभूतवित्तः, सुखी सुखितः, न हिंस्नः सौम्यप्रकृतिः | परविघातं न करॊति स्थिरः ऎकमतिः, भॊगी भॊगान्वितः ऎवंविधॊ मूलॆ जाती भवति||10 || 349 इष्टानन्दकलत्रॊ मानी दृढसौहृदश्च जलदैवॆ |  वैश्वॆ विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च || 11 ||  भट्टॊत्पलः-अथ पूर्वॊत्तराषाढयॊजतिस्य स्वरूपमार्ययाह‌ईष्टानन्दकलत्र इति | इष्टमभिमतमानन्दजनकं कलत्रं भार्या यस्य | मानी गर्वितः, दृढसौहृदः स्थिरसुहृत् ऎवंविधॊ जलदैवॆ दूर्वाषाढायां जातॊ भवति | विनीतः विनयसंयुक्तः, धार्मिकः धर्मज्ञः, बहुमित्रः प्रभूतसुहत्, कृतज्ञः प्रत्युपकारशीलः, सुभगश्च सर्वजनप्रियः ऎवंविधॊ वैश्वदॆवॆ उत्तराषाढायां जातॊ भवति | 1 1 ||  श्रीमाञ्छूवणॆ श्रुतवानुदारदारॊ धनान्वितः ख्यातः |  दाता आढ्यः शूरॊ गीतप्रियॊ धनिष्ठासु धनलुब्धः || 12 ||  भट्टॊत्पलः-अथ श्रवणधनिष्ठयॊर्जातस्य स्वरूपमार्ययाह श्रीमानिति | श्रीमान् श्रिया युक्तः श्रुतवान् पण्डितः, उदारदारः उदारा दारा यस्य स शॊभनस्त्रीकः, धनान्वितः वित्तवान्, ख्यातः जनविदितकीर्तिः ऎवंविधः श्रवणॆ जातॊ भवति | दाता दानशीलः, आढ्यः ईश्वरः,रणप्रियः गीतवल्लभः, धनलुब्धः अर्थरुचिः ऎवंविधॊ धनिष्ठासु जातॊ भवति || 12 ||   350 स्फुटवाग्व्यसनी रिपुहा साहसिकः शतभिषजि दुग्राह्यः |  भाद्रपदासूद्विग्नः स्त्रीजितधनी पटुरदाता च | | 13 ||  भट्टॊत्पलः-अथ शतभिषक्पूर्वाभाद्रपदयॊर्जातस्य स्वरूपमार्ययाहस्पुटवागिति | स्फुटवाक् सत्यवादी, व्यसनी स्त्र्यादिव्यसनॊपहतः, रिपुहा शत्रुघातकः साहसिकः ह्यसमीक्षितकार्यकृत्, दुर्गाह्यः दुराराध्यः ऎवंविधः शतभिषजि जातॊ भवति | उद्विग्नः दुःखितमना, स्त्रीजितः स्त्रीभिरभिभूतः धनी धनवान् अथवा धनपटुः धनार्जनॆ चुतरः, अदाता कदर्यः ऎवंविधः पूर्वाभाद्रपदासु जातॊ भवति | 13 ||  वक्ता सुखी प्रजावान् जितशत्रुर्धार्मिकॊ द्वितीयासु | सम्पूर्णाङ्गः सुभगः शूरः शुचिरर्थवान् पौष्णॆ || 14 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ ऋक्षशीलाध्यायः प्रजावान् बहुपुत्रपौत्रः, जितशत्रुः जितारिः, धार्मिकः| ऎवविध द्वितीयासूत्तराभाद्रपदासु जातॊ भवति | सम्पूर्णाङ्गः परिपूर्णावयवः, सुभगः सर्वजनप्रियः, शूरः सङ्ग्रामधीरः, शुचिः परधनादिष्वलुब्धः, अर्थवान् धनान्वितः  351 ऎवंविधः पौष्णॆ रॆवत्यां जातॊ भवति | ऎतॆ यथॊक्ता नक्षत्रस्वभावाश्चन्द्रस्य सबलत्वात्परिपूर्णा भवन्ति | 14 || इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां ऋक्षशीलाध्यायः || 16 ||  352 अथ चन्द्रराशिशीलाध्यायः || 17 || वृत्ताताम्रदृगुष्णशाकलघुभुक् क्षिप्र प्रसादॊऽटनः कामी दुर्बलजानुस्थिरधनः शूरॊऽङ्गनावल्लभः | सॆवाज्ञः कुनखी व्रणाङ्कितशिरा मानी सहॊत्थाग्रजः शक्त्या पाणितलॆऽङ्कितॊऽतिचपलस्तॊयॆ च भीरुः क्रियॆ || 1 || भट्टॊत्पलः-अथातॊ राशिशीलाध्यायॊ व्याख्यायतॆ | अथ मॆषस्थॆ चन्द्रमसि जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहवृतॆति | वृतॆ परिवर्तुलॆ आताग्नॆ लॊहितवर्णॆ दृष्टी चक्षुषी यस्य स वृत्ताताम्रदृक्| -, उष्णं शाकं लघु च स्वल्पं भुङ्क्तॆ स उष्णशाकलघुभुक् उष्णभॊजॊ शाकभॊजी, क्षिप्रप्रसादः आश्वॆव प्रसीदति, अटनः परिभ्रमणशीलः, कामी सुरतप्रियः, दुर्बलजानुः निर्मांसलजङ्घान्धिः, अस्थिरधनः, अचिरवित्तः, शूरः रणप्रियः, अङ्गनावल्लभः स्त्रीप्रियः, अङ्गनानां वल्लभॊ अङ्गना| वल्लभा यस्य | सॆवाज्ञः पराराधनकुशलः, कुनखी कुत्सितनखः, व्रणाङ्कितशिराः सच्छिद्रमूद्ध, मानी गर्वितः, सहॊत्थाग्रजः सहॊत्थानां सहजातानामाग्रणीर्गुणप्रधानः, पाणितलॆ हस्ततलॆ स चिह्नविशॆषॆणांकितः चिह्नितः, अतिचपलः क्रियास्वनवस्थितः, तॊयॆ च जलॆ भीरुः सभयः ऎवंविधाः क्रियॆ मॆषस्थितॆ चन्द्रमसि जातॊ भवति | 1 || 353 कान्तः खॆलगतिः पृथूरुवदनः पृष्ठास्यपाश्र्वाङ्कित स्त्यागी क्लॆशसहः प्रभुः ककुदवान्कन्याप्रजः श्लॆषमलः | पूर्वॆर्बन्धुधनात्मजैर्विरहितः सौभाग्ययुक्तः क्षमी दीप्ताग्निः प्रमदाप्रियः स्थिरसुहृन्मध्यान्त्यसौख्यॊ गवि | 2 ||  भट्टॊत्पलः-अथ वृषस्थॆ चन्द्रमसि जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहकान्त इति | कान्तः दर्शनीयः, खॆलगतिः सविलासगामी, पृथूरुवदनः पृथूविस्तीर्णावूरू वदनं मुखं यस्य | पृष्ठं पश्चिमभागः आस्यं वक्त्रं पाश्र्वॆ प्रसिद्धॆ ऎषामन्यतमस्थानॆऽङ्कितश्चिह्नितः त्यागी दाता, क्लॆशसहः कदर्थनासमर्थः, प्रभुरप्रतिहताज्ञः, ककुदवान् ककुदसंयुक्तः, कन्याप्रजः कन्या प्रजा यस्य, स्त्रीजनकः, शलॆष्मलः कफाधिकः, पूर्वैः प्रथमैः बन्धुभिः कुटुम्बैः धनैः वित्तैः आत्मजैः पुत्रैश्च विरहितः वियुक्तः, सौभाग्ययुक्तः सर्वजनवल्लभः, क्षमी क्षमावान् सहिष्णुरित्यर्थः | दीप्ताग्निः बह्वाशीः, प्रमदाप्रियः स्त्रीवल्लभः, स्थिरसुहृत् दृढमित्रः, मध्यान्त्यसौख्यः मध्यॆ यौवनॆऽन्त्यॆ वृद्धत्वॆ च सुखितः अर्थादॆव बाल्यॆ दुःखित ऎवं विधॊ गवि वृषस्थॆ चन्द्रॆ जातॊ भवति | 2 || स्त्रीलॊलः सुरतॊपचारकुशलस्ताम्रॆक्षणः शास्त्रविद्दूतः कुञ्चितमूर्धजः पटुमतिर्हास्यॆङ्गितयूतवित् |  चार्वाङ्गः प्रियबाक्प्रभक्षणरुचिर्गीतप्रियॊ नृत्यवित् क्लीबैर्याति रतिं समुन्नतनसश्चन्द्रॆ तृतीयक्षगॆ || 3 ||  भट्टॊत्पलः-अथ मिथुनस्थॆ चन्द्रमसि जातस्य स्वरूपं शार्दूकविक्रीडि तॆनाह 354 स्त्रीलॊल इति | स्त्रीलॊलः स्त्रीष्वभिलाषकरः सुरतॊपचारकुशलः सुरतॊपचारॆ सुरतकर्मणि कामशास्त्रॆषु कुशलः शिक्षितः, ताम्रॆक्षणः लॊहितनॆत्रः, शास्त्रविच्छास्त्रज्ञः, पण्डितः, दूतः परॆच्छया गमनागमनशीलः, कुञ्चितमूर्धजः कुटिलशिरॊरुहः, पटुमतिश्चतुरधीः अतीव प्राज्ञः, हास्यमुपहासम् इङ्गितं परचित्तज्ञानं द्युतं प्रसिद्धम् ऎतानि वॆत्ति जानाति | चार्वङ्गः शॊभनावयवः, प्रियवागभिमतवक्ता, प्रभक्षणरुचिः बहुभुक् गीतप्रियः गीतरतिः, नृत्यविन्नृत्यज्ञः, क्लीबैः षण्द्वैः सह रतिं याति गच्छति, समुन्नतनस उन्नतननासिकः ऎवंविधश्चंद्रॆ तृतीयक्षगॆ तृतीयराशौ स्थितॆ मिथुनगॆ जातॊ भवतीत्यर्थः | 3 ||  आवक्रदुतगः समन्नतकटिः स्त्रीनिर्जितः सत्सुहृददैवज्ञः प्रचुरालयः क्षयधनैः संयुज्यतॆ चन्द्रवत् |  ह्रस्वः पीनगलः समॆति च वशं साम्ना सुहृद्वत्सल स्तॊयॊद्यानरतः स्ववॆश्मसहितॆ जातः शशाङ्कॆ नरः || 4 ||  भट्टॊत्पलः-अथ कर्कटस्थॆ चन्द्रमसि जातस्य स्वरूपं शार्दूलविक्रीडितॆनाह‌आवत्रॆति | आवक्रं कुटिलं द्रुतं सत्वरं गच्छतीति आवक्रद्रुतगः कुटिलसत्वरगामी, समुन्नतकटिः उच्चजघनः, स्त्रीनिर्जितः प्रमदाजितः, ऒर् य् सत्सुहृच्छॊभनमित्रः, दैवज्ञः ज्यॊतिःशास्त्रार्थवॆत्ता, प्रचुरालयः प्रभूतगृहकर्ता, क्षयधनैरपचयॊपचयैश्चन्द्रवच्छशिवत्संयुज्यतॆ, कदाचित् सधनः कदाचिद्विधन इत्यर्थः चन्द्रक्षयवृद्धिवत्, ह्रस्वः अदीर्घः, पीनगलः मांसलकण्ठः, साम्ना प्रीत्या वशं वश्यतां समॆति याति, सुहृद्वत्सलः मित्रवल्लभः, तॊयॊद्यानरतः 355 जलॊपवनसक्तः तॊयॆ जलॆ उपवनॆ उद्यानॆ चरतः ऎवंविधः स्ववॆशमसहितॆ कर्कटस्थॆ शशाङ्कॆ चन्द्रॆ नरः पुरुषः जातॊ भवति || 4 ||  तीक्ष्णः स्थूलहनुर्विशालवदनः पिङ्गॆक्षणॊऽल्पात्मजः स्त्रीद्वैषी प्रियमासकानननगः कुष्यत्यकार्य चिरम | क्षुत्तृष्णॊदरदन्तमानसरुजा सम्पीडितस्त्यागवान् विक्रान्तः स्थिरधीः सुगर्वितमना मातुर्विधॆयॊऽर्कभॆ || 5 ||  भट्टॊत्पलः-अथ सिंहस्थॆ चन्द्रमसि जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहतीक्ष्ण इति | तीक्ष्णः अमर्षशीलः, स्थूलहनुः बृहद्धनुः, बुहत्कपॊलः | विशाल वदनॊ विस्तीर्णवक्त्रः, पिङ्गॆक्षणः कपिलनॆत्रः, अल्पात्मजः स्वल्पापत्यः, स्त्रीद्वॆषी प्रमदाद्विट्, स्त्रीद्वैष्टॆति कॆचित्पठन्ति | प्रियमांसकानननगः मांसमामिषं, काननमरण्यं, नगः पर्वतः ऎतॆ प्रिया यस्य आमिषवनपर्वतानुरतः, अकार्यॆ अकरणीयॆऽर्थॆ कुप्यति क्रुध्यति चिरं बहुकालं, कॆचिदकाण्डॆ अकालॆ | क्षुत्प्रसिद्धा तृष्णा पिपासा, उदरं जठरं दन्ता दशनाः, मनश्चित्तमॆभ्यॊ जाता रुजः पीडास्ताभिः सम्पीडित उपतप्तः, त्यागवान्, दाता, विक्रान्तः पराक्रमशीलः. स्थिरधीरॆकमतिः, गर्वितमनाः अभिमानसंयुक्तः, मातुर्विधॆयॊ जननीवश्यः, भक्तः, इत्यर्थः | “विधॆयॊ वचनग्राही” इत्यमरः | ऎवंविधॊऽर्कभॆ सूर्यराशौ सिंहस्थॆ चन्द्रॆ जातॊ भवति | 5 || 356 व्रीडामन्थरचारुवीक्षणगतिः स्वस्तांसबाहुः सुखी श्लक्ष्णः सत्यरतः कलासु निपुणः शास्त्रार्थविद्धार्मिकः | मॆधावी सुरतप्रियः परगृहैर्वित्तैश्च संयुज्यतॆ कन्यायां परदॆशगः प्रियवचाः कन्याप्रजॊऽल्पात्मजः || 6 ||  भट्टॊत्पलः-अथ कन्यागतॆ चन्द्रमसि जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाह व्रीडामन्थरचारुवीक्षणगतिरिति | व्रीडा लज्जा तया मन्थरत्वमलसत्त्वं तॆन चारु शॊभनं वीक्षणं दृष्टिपातॊ गतिः गमनं च यस्य, स्नस्तावधः पतितौ शिथिलावंसौ स्क्रन्धौ बाहू भुजौ यस्य, सुखी सुखितः, श्लक्षणः मृदुवाक् तनुकायॊ वा, सत्यरतः सत्यभाषी, धार्मिकश्च परमार्थवादी, कलासु निपुणः कलासु नृत्यगीतवाद्यपुस्तकचित्रकर्मसु निपुणः सुज्ञः, शास्त्रार्थवित्पण्डितः, धार्मिकः धर्मानुरतः, मॆधावी बुद्धिमान्, सुरतप्रियः कामलॊलुपः, परगृहैः परवॆश्मभिः वित्तैर्धनैश्च संयुज्यतॆ सम्यग्युक्तॊ भवति परदॆशगः अन्यदॆशनिवासशीलः, प्रियवचाः प्रियभाषी, कन्याप्रजः कन्या प्रजा यस्य स्त्रीजनकः, अल्पात्मजः स्वल्पपुत्रः ऎवंविधः कन्यायां स्थितॆ चन्द्रॆ जातॊ भवति| 6 ||  357 दॆवब्राह्मणसाधुपूजनरतः प्राज्ञः शुचिः स्त्रीजितः प्रांशुश्चॊन्नतनासिकः कृशचलद्गात्रॊऽटनॊऽर्थान्वितः | शार्दूलविक्रीडि तॆनाहदॆवॆति | दॆवब्राह्मणसाधुपूजनरतः दॆवानां सुराणां ब्राह्मणानां द्विजानां साधूनां सज्जनानां च पूजतॆ रतः सक्तः प्राज्ञः मॆधावी, अत्र मॆधा बुद्धिः | प्रज्ञालक्षणम् | “अतीतानुस्मृतिमॆंधा बुद्धिस्तत्कालग्राहिणी | शुभाशुभविचारज्ञा प्रज्ञा धीरैरुदाहृता |” शुचिः परधनाद्यलुब्धः, श्रॊत्रियॊ वा, स्त्रीजितः यॊषितां वशगः, प्रांशुरत्युच्चः, उन्नतनासिकः अत्युन्नतनासः, कृशचलद्गात्रः दुर्बलशिथिलावयवः कृशं दुर्बलं चलत् बलहीनं गात्रं शरीरं यस्य | अटनः परिभ्रमणशीलः, अर्थान्वितः सधनः हीनाङ्गः, अपरिपूर्णावयवः, क्रयॆषु विक्रयॆषु च कुशलः शक्तः, दॆवद्विनामा सभ्यपर्यायद्वितीयाभिधानः द्वितीयनाम दॆवाख्यं चास्य भवति, सरुक् पीडितदॆहः, बन्धनां स्वकुटुम्बानामुपकारकृद्धिरकारी, तैश्च बन्धुभिः विरुषितः भत्सितः पराभूतः, त्यक्तः त्यजितश्च, ऎवंविधः सप्तमॆ तुलास्यॆ चन्द्रमसि जातॊ भवति | 7 || 358 पृथुलनयनवक्षा वृत्तजङघॊरजानुर्जनकगुरवियुक्तः शैशवॆ व्याधितश्च |  नरपतिकुलपूज्यः पिङ्गलः क्रूरचॆष्टॊ झषकुलिशखगांकश्छन्नपापॊऽलिजातः | 8 ||  भट्टॊत्पलः-अथ वृश्चिकस्थॆ चन्द्रमसि जातस्य स्वरूपं मालिन्याहपृथुलॆति | पृथुलनयनवक्षाः पृथुलॆ विस्तीर्णॆ नयनॆ नॆत्रॆ वक्ष उरॊ यस्य, वृत्तॆ परिवर्तुलॆ जङ्घॆ ऊरू जानुनी च यस्य | जनकैः मातृपितृभिः गुरुभिश्चॊपदॆशकारिभिः गौरवयुक्तैश्च वियुक्तॊ रहितः, शैशवॆ बाल्यॆ व्याधितः पीडितः नरपतिकुलॆ राज्ञां वंशॆ पूज्यः आराध्यः, पिङ्गलः क्रूरचॆष्टः विषमस्वभाव, झषकुलिशखगाङ्कः झषॊ मीनः, कुलिशं वज्र, खगः पक्षी ऎतैर्मत्स्यवज्रपक्षिसमानैरङ्कैश्चिह्नितः छन्नपापः गुप्ताशुभकृत् ऎवंविधॊऽलिनि वृश्चिकस्थॆ चन्द्रॆ जातॊ भवति | 8 ||  व्यादीर्घास्यशिरॊधरः पितृधनस्त्यागी कविर्वीर्यवान्| वक्ता स्थूलरदश्रवाधरनसः कर्मॊद्यतः शिल्पवित् |  कुब्जांसः कुनखी समांसलभुजः प्रागल्भ्यवान् धर्मविद्बन्धुद्विट्न बलात्समॆति च वंश साम्नैकसाध्यॊऽश्वजः | 9 ||  भट्टॊत्पलः-अथ धनुर्धरस्थॆ चन्द्रॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहव्यादीर्घास्यॆति | व्यादीर्घॊऽस्यशिरॊधरः दीर्घमतिर्दीर्घमास्यं मुखं शिरॊधरा ग्रीवा च यस्य | पितृधनः जनकवित्तान्वितः, त्यागी दाता, कविः काव्यज्ञः, वीर्यवान् बली, वक्ता सम्भाषणॆ दक्षः, स्थूलरदश्रवाधरनसः स्थूला 359 महत्प्राणा रदा दन्ताः, श्रवसी कर्णॊ, अधर औष्ठः, नसः नासिका घ्राणः, ऎतॆ सर्व ऎव स्थूला यस्य | कर्मॊद्यतः सर्वकार्याणामुद्यमशीलः, शिल्पज्ञः लिपिपुस्तकचित्रः कुब्जांसः अस्पष्टस्कन्धः, कुनखी कुत्सितनखः, समांसल भुजः पीनबाहुः, प्रागल्भ्यवान् अतिप्रतिभायुक्तः, धर्मवित् धर्मज्ञः, बन्धुद्विट् बन्धु नामप्रीतिभाक् द्वॆष्टा, बलात् हठादाक्रमणात् वंश संविधॆयतां वश्यतां न समॆति नायाति | साम्ना प्रीत्या ऎकॆनैव गुणॆन साध्यः स्वीक्रियतॆ ऎवंविधॊऽश्वजॊ धनुषि स्थितॆ चन्द्रॆ जातॊ भवति | 9 ||  नित्यं लालयति स्वदारतनयान्धर्मध्वजॊऽधः कृशाः स्वक्षः क्षामकटिर्गृहीतवचनः सौभाग्ययुक्तॊऽलसः | शीतालुर्मनुजॊऽटनश्च मकरॆ सत्त्वाधिकः काव्यकृल्लुब्धॊऽगम्यजराङ्गनासु निरतः सन्त्यक्तलज्जॊऽघृणः || 10 ||  भट्टॊत्पलः-अथ मकरस्थॆ चन्द्रॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहनित्यं लालयतीति | नित्यं लालयति स्वदारतनयान् स्वकलत्रं तनयांश्च पुत्रान् लालयति प्रीत्या भजतॆ | धर्मध्वजः दाम्भिकः मिथ्याधार्मिकः, अधः कृशः अधॊभागादतिदुर्बलः, स्वक्षः शॊभननॆत्रः, क्षामकटिः कृशजघनः, गृहीतवचनः उक्तग्राहकः यदुच्यतॆ तत्सकृदॆव गृह्णाति | सौभाग्ययुक्तं सर्वजनप्रियः, अलसः क्रियास्वपटुः, शीतालुः शीतं न सहतॆ | अटनः परिभ्रमणशीलः, सत्त्वाधिकः उदारचॆष्टः बलाधिकॊ वा, काव्यकृत् विद्वान् लुब्धः लॊभाभिभूतः, अगम्यास्तगमनीयासु निकृष्टजातिषु जरदङ्गनासु वृद्धस्त्रीषु निरतः, सन्त्यक्तलज्जः विमुक्तव्रीडः अघृणः निर्दयः ऎवंविधॊ मनुजॊ मनुष्यॊ मकरस्थॆ चन्द्रमसि जातॊ भवति | 10| 360 करभगलः शिरालुः खरलॊमशदीर्घतनुः पृथुचरणॊरुषष्ठजघनास्यकटिर्जरठः | परवनितार्थपापनिरतः क्षयवृद्धियुतः प्रियकुसुमानुलॆपनसुहृद्घटजॊऽध्वसहः | 11 ||  भट्टॊत्पलः-अथ कुम्भस्थॆ चन्द्रॆ जातस्य स्वरूपं त्रॊटकॆनाह करभगल इति | करभगलः उष्ट्रसमग्रीवः, शिरालुः शिरासंततः, खराः कर्कशा लॊमा यस्याः सा लॊमशा दीर्घाऽत्युच्चा तनुः शरीरं यस्य | पृथू विस्तीर्णॊ चरणौ पादौ तथा उरू जानूपरिभागौ पृष्ठं दॆहपश्चिमभागॊ जघनं नितम्बस्थानमास्यं मुखं कटिश्च बस्तिः यस्य स पृथुचरणॊरुपृष्ठजघनास्यकटिः, तथा जरठः मूर्खः, परवनितासु परस्त्रीषु परार्थॆषु पापॆ च निरतः सक्तः क्षयवृद्धियुतः उपचयपापचयैर्युक्तः, प्रियकुसुमानुलॆपनसुहृत् कुसुमाणि पुष्पाणि अनुलॆपनं समालम्भनं सुहृदॊ मित्राणि प्रियाणि यस्य | अध्वसहः पथि क्षम ऎवंविधॊ घटजः कुम्भस्थॆ चन्द्रमसि जातॊ भवति | 11 ||  361 जलपरधनभॊक्ता दारवासॊऽनुरक्तः समरुचिरशरीरस्तुङ्गनासॊ बृहत्कः | अभिभवति सपत्नान्स्त्रीजितश्चारुदृष्टिद्युतिनिधिधनभॊगी पण्डितश्चान्त्यराशौ || 12 ||  भट्टॊत्पलः-अथ मीनस्थॆ चन्द्रॆ जातस्य स्वरूपं मालिन्याह जलपरधनभॊत्तॆति | जलपरधनभॊक्ता जलधनानामुदकॊत्पन्नवित्तान मुक्ताफलानां क्रयविक्रयजातानां परधनानां च भॊक्ता स्वामी, दारवासॊऽनुरक्तः दारॆषु कलत्रॆषु विषयॆषु वासांसि वस्त्राणि ऎतॆषु चानुरक्तः, समरुचिरशरीरः समं तुल्यं सर्वावयवपरिपूर्णं रुचिरं दीप्तिमच्छरीरं यस्य | तुङ्गनासॊऽत्युच्चनासिकः, बृहत्कः विस्तीर्णमूर्द्धा, अभिभवति सपत्नान् सपत्नान् शत्रून् अभिभवति पराभवति, स्त्रीजितः निधिः भूमावधः स्थितॊऽर्थॊ निधिशब्दॆनॊच्यतॆ धनं वित्तमॆषां भॊगी भॊक्ता, पण्डितश्च शास्त्रार्थवित् ऎवंविधॊऽन्त्यराशौ मीनस्थॆ चन्द्रमसि जातॊ भवति | 12 ||  बलवती राशौ तदधिपतौ च स्वबलयुतः स्याद्यदि तुहिनांशुः | कथितफलानामविकलदाता शशिवदतॊऽन्यॆप्यनुपरिचिन्त्याः | 13 || इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ चन्द्रराशिशीलाध्याय सम्पूर्णः | 17 ||  भट्टॊत्पलः-अथॊक्तराशिस्वरूपमपवादं च म्रमरविलसि तॆनाह बलवति राशाविति | पुरुषस्य जन्मसमयॆ यस्मिन्राश चन्द्रमा व्यवस्थितस्तस्मिन्बलवति सबलॆ तथा यस्य च राशॆर्यॊऽधिपतिस्तस्मिस्तदधिपतौ च बलवति तथा तुहिनांशुश्चन्द्रमाः स च यदि स्वबलॆनात्मीयॆन वीर्यॆण पूर्वॊक्तॆन संयुतॊऽन्वितः स्याद्भवॆत् ऎवमॆतॆषु त्रिषु यदि सबलत्वं विद्यतॆ तदा| 362 यथॊक्तराशिस्वरूपं जातः पुरुषॊ भवति | यत उक्तं कथितफलानामविकलदातॆति| अनया सामग्रया स चन्द्रः कथितफलानामुक्तस्वरूपाणामविकलानां परिपूर्णानां दाता भवति, ऎषां मध्याद्द्वयॊर्बलवतॊर्मध्यॆ युक्तं स्वरूपं प्राप्नॊति | ऎकस्मिन्बलवति हीनं किञ्चित् न कस्मिश्चिद्बलवति तदुक्तं स्वरूपं न किञ्चिद्भवति | शशिवदत इति | अतॊऽस्माच्चन्द्रादन्यॆ परिशिष्टा यॆ ग्रहाः रविभौमज्ञगुरुसितसौराः शशिवच्चन्द्रवत् परिकल्प्याः | यत्र राशौ स्थिता भवन्ति तदाश्रयॆण वक्ष्यमाणं स्वरूपं दास्यन्ति | तदपि चन्द्रवत् | ऎतदुक्तं भवति | बलवति राशौ तदधिपतौ च बलवति यस्य ग्रहस्य राशिस्वरूपं पठ्यतॆ तस्मिन्नपि बलवति तदधिपतौ च सम्पूर्णं तत्पठितं राशिस्वरूपं भवति | यद्यॆकयॊश्च बलवतॊर्मध्यमॊ न मिलति न कस्मिश्चिद्बलवति | नैतत्किञ्चिदिति | चन्द्रराशिस्वभाव इति || 13 || इति बृहज्जातकॆ श्री भट्टॊत्पलटीकायां चन्द्रराशिशीलाध्यायः || 17 ||  363 अथ राशिशीलाध्यायः | 18 || प्रथितश्चतुरॊऽटनॊऽल्पवित्तः क्रियगॆ त्वायुधभृद्वितुङ्गभागॆ | गवि वस्त्रसुगन्धपण्यजीवी वनिताद्विट् कुशलश्च गॆयवाद्यॆ | 1 ||  भट्टॊत्पलः-अथ मॆषवृषगतॆऽर्कॆ जातस्य स्वरूपमौपच्छन्दसिकॆनाहप्रथित इति | प्रथितः प्रख्यातः, चतुरः दक्षः, अटनः परिभ्रमणशीलः, अल्पवित्तः स्तॊकार्थः, आयुधभृत् शस्त्रधारणजीवी ऎवंविधः क्रियगॆ मॆषस्थॆ भानावादित्यॆ जातॊ भवति | ऎतच्च फलं वितुङ्गभागॆ यदि तत्रैव मॆषस्थः आदित्यः परमॊच्चस्थॊ भवति तुङ्गभागं परमॊच्चं वर्जयित्वा अन्यत्र स्थितॆऽर्कॆ चैतत्फलम् दॊषभाग् जातॊ न भवति | तद्यथा | अल्पवित्तॊ बहुवित्तॊ न भवति, अटनॊ न भवति, आयुधभृन्न भवति, तस्यान्यॆ आयुधभृतॊऽनुयायिनॊ भवन्ति | अन्यॆ तु पुनः पूर्वॊक्ता गुणाः | प्रथितश्चतुरॊ भवति | गवीत्यादि | वस्त्रैरम्बरैः सुगन्धद्रव्यैः पण्यैश्च जीवति | वनिताद्विट् स्त्रीषु द्वॆष्टा, गॆयॆ गीतॆ वाद्यॆ च वादनविधौ कुशलः शिक्षितः, ऎवंविधॊ गवि वृषस्थॆ सूर्यॊ जातॊ भवति | 1 || विद्याज्यॊतिषवित्तवान्मिथुनॆ भानौ कुलीरॆ स्थितॆ तीक्ष्णॊऽस्वः परकार्यकृच्छ्रमपथक्लॆशैश्च संयुज्यतॆ |  सिंहस्थॆ वनशैलगॊकुलरतिर्वीयान्वितॊऽज्ञः पूमान्| कन्यास्थॆ लिपिलॆख्यकाव्यगणितज्ञानान्वितः स्त्रीवपुः || 2 ||  भट्टॊत्पलः-अथ मिथुनकर्कसिंहकन्यास्थॆ सूर्यॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहविधॆति | विद्याज्यॊतिषवित्तवान् विद्यावान् पण्डितः, ज्यॊषिवान् ज्यॊतिषः शास्त्रज्ञः वित्तवान् धनी ऎवंविधॊ मिथुनस्थॆ भानौ जातॊ भवति | तीक्ष्णः 364 उग्रः, अस्वः दरिद्रः, परकार्यकृदन्यॆषां कार्यकर्ता, श्रमपथक्लॆशैः श्रमॆण खॆदॆन पथाऽध्वना क्लॆशैः दुःखैश्च सर्वकालं संयुज्यतॆ ऎवंविधः कुलीरस्थॆ कर्कटगतॆ भानौ जातॊ भवति | सिंहस्थ इति | वनमरण्यं, शैलः पर्वतः, गॊकुलः गॊवाटः ऎतॆषु स्थानॆषु रतिः, निवासशीलः, तदासक्त इत्यर्थः | वीर्यान्वितः बली, अज्ञः मूर्खः ऎवंविधः पुमान् पुरुषः सिंहस्थॆऽर्कॆ जातॊ भवति | लिपिरक्षरविन्यासः, लॆख्यं चित्रकर्म, काव्यं कवॆः कर्म, गणितं ग्रहगणितादि, ज्ञानं विज्ञानम् ऎतैरन्वितॊ युक्तः, स्त्रीवपुः स्त्रीतुल्यशरीरः ऎवंविधः कन्यास्थॆऽर्कॆ जातॊ भवति || 2 || जातस्तौलिनि शौण्डिकॊऽध्वनिरतॊ हैरण्यकॊ नीचकृत् क्रूरः साहसिकॊ विषार्जितधनः शास्त्रान्तगॊऽलिस्थितॆ |  सत्पूज्यॊ धनवान्धनुर्धरगतॆ तीक्ष्णॊ भिषक्कारुकॊ नीचॊऽज्ञः कुवणिङ् मृगॆऽल्पधनवाँल्लुब्धॊऽन्यभाग्यरतः || 3 ||  भट्टॊत्पलः-अथ तुलावृश्चिकधन्विमकरस्थॆऽर्कॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहजात इति | शौण्डिकॊ मद्यविक्रयी भवति, मद्यकरॊ कॆचित्. अध्वनिरतः पथि प्रसक्तः, हैरण्यकः स्वर्णकारः, नीचकृदनुचितकर्मकर्ता ऎवंविधः तौलिनि तुलास्थॆऽर्कॆ जातॊ भवति | क्रूरः उग्रस्वभावः, साहसिकः असमीक्षितकार्यकृत् | तथा च | ‘असमीक्षितलार्याणां कर्त्ता साहसिकः स्मृतः|” विषार्जितधनः विषमप्रयॊगैरर्जितं धनं सञ्चितं वित्तं यॆन, प्रत्यन्तरॆ वृथार्जितधनः 365 यद्धनमर्जयति तदस्य वृथा निष्फलं भवति चौरादयॊऽपहरन्ति | शस्त्रान्तगः शस्त्रनैपुण्यकः शास्त्रस्यायुधस्यान्तगः ऎवंविधॊऽलिस्थितॆ वृश्चिकगतॆऽर्कॆ जातॊ भवति | सत्पूज्यः सतामर्चनीयः, धनवान्वितयुक्तः तीक्ष्णः क्रूरचॆष्टः भिषक्| वैद्यप्रयॊगज्ञः, कारुकः शिल्पकर्मज्ञः ऎवंविधॊ धनुर्धरस्थॆऽर्कॆ जातॊ भवति | नीचः कुलानुचिताधर्मकर्मकृत्, अज्ञः मूर्खः, कुवणिक् कुत्सितवणिक्, अल्पधनवान्| स्तॊकार्थः, लुब्धः लॊभाभिभूतः, अन्यभाग्यैः रतः परार्थॊपकारभॊक्ता ऎवंविधॊ मृगॆ मकरस्थॆऽर्कॆ जातॊ भवति | 3 ||  नीचॊ घटॆ तनयभाग्यपरिच्युतॊऽस्वस्तॊयॊत्थपण्यविभवॊ वनितादृतॊऽन्त्यॆ | नक्षत्रमानवतनुप्रतिमॆ विभागॆ लक्ष्मादिशॆतुहिनरश्मिदिनॆशयुक्तॆ | 4 ||  भट्टॊत्पलः-अथ कुम्भमीनगतॆऽर्कॆ जातस्य स्वरूपं चन्द्रार्कयॊस्तु लक्ष्मज्ञानं वसन्ततिलकॆनाहनीच इति | नीचः कुलानुचिताधर्मकर्मकृत्, तनयैः पुत्रैः भाग्यैश्च परिच्युतः त्यक्तः पुत्रैः जनबाल्लभ्यॆन च विरहितः, अस्वः निर्धनः ऎवंविधॊ घटॆ कुम्भस्थॆऽर्कॆ जातॊ भवति | तॊयॊत्थं जलॊत्पन्न मुक्ताफलादि तत्पण्यॆन तद्विक्रयॆण विभवमैश्वर्यं यस्य | वनितादृतः स्त्रीपूज्यः ऎवंविधॊऽन्त्यॆ मीनस्थॆऽर्कॆ जातॊ भवति | नक्षत्रमानवतनुरित्यादि | नक्षत्रमानवकॊ राशिपुरुषः कालाङ्गनीत्यादिना प्रदर्शितः तुहिनरश्मिश्चन्द्रः, दिनॆश आदित्यः ऎतौ समॆतौ यस्मिन्राशौ स्थितौ स राशिनक्षत्रपुरुषस्य यस्मिन्नङ्गॆ स्थितस्तत्र पुरुषस्य जातस्य लक्ष्म चिह्नं मस्तकादी 366 समादिशॆत् वदॆत् | यथा मॆषस्थयॊः शिरसि, वृषस्थयॊः मुख इत्यॆवमूह्यम् | इति आदित्यराशिस्वभावः || 4 ||  नरपतिसत्कृतॊऽटनश्चमूपवणिक्सधनाः क्षततनुचौरभूरिविषयांश्च कुजः स्वगृहॆ |  युवतिजितान् सुहृत्सु विषमान् परदाररतान् कुहकसुवॆषभीरुपरुषान् सितभॆ जनयॆत् || 5 ||  भट्टॊत्पलः-अथ मॆषवृश्चिकवृषतुलस्थॆ कुजॆ जातस्य स्वरूपं क्रॆटकॆनाह नरपतिसत्कृत इति | नरपतिसत्कृतः राजपूजितः, अटनः परिभ्रमणशीलः, चमूपः सॆनापतिः, वणिक् क्रयविक्रयज्ञः, वित्तान्वितः क्षततनुः विक्षतदॆहः व्रणितशरीरः, चौरस्तस्करः, भूरिविषयः विप्रकीर्णॆन्द्रियः, ऎवंविधान्| स्वगृहॆ मॆषवृश्चिकस्थः कुजः भौमः जनयॆत् | युवतिजितः स्त्रीविधॆयः, सुहृत्सु मित्रॆषु, विषमः दुर्विधॆयः सक्रूरस्वभावः, परदाररतः परयॊषिति प्रसक्तः, कुहकज्ञः ऐन्द्रजालिकः, सुवॆषः शॊभनालङ्कार, भीरुः सभयः पुरुषः, कर्कशः निस्नॆहः ऎवंविधान्पुरुषान् सितभॆ शुक्रक्षॆत्रॆ वृषॆ तुलॆ च स्थितॊ भौमॊ जनयॆदुत्पादयॆत्|5 || 367 बौधॆऽसहस्तनयवान्विसुहृत्कृतज्ञॊ गान्धर्वयुद्धकुशलः कृपणॊऽभयॊऽर्थी |  चान्द्रॆऽर्थवान्सलिलयानसमर्जितस्वः प्राज्ञश्च भूमितनयॆ विकलः खलश्च || 6 ||  भट्टॊत्पलः-अथ मिथुनकन्याकर्कटस्थॆ भौमॆ जातस्य स्वरूपं वसन्ततिलकॆनाह बौधॆ इति | असहः तॆजस्वी, तनयवान् पुत्रयुक्तः, विसुहृत् मित्ररहितः, कृतज्ञः परॊपकारशीलः, गान्धर्वयुद्धकुशलः गान्धर्वॆ गीतॆ युद्धॆ च संग्रामॆ प्रवॆशनिर्गमव्यूहरचनादिषु च कुशलः तज्ज्ञः, कृपण अदाता, अभयः निर्भयः, अर्थी याच्ञापरः ऎवंविधॊ बौधॆ मिथुनकन्यास्थॆ कुजॆ भौमॆ जातॊ भवति | अथ कर्कटस्थ भौमॆ जातस्य स्वरूपमाह-- | चान्द्रॆ इति | अर्थवान् सधनः, सलिलयानसमर्जितस्वः सलिलयानॆन प्लवादिना सम्यगर्जितं स्वं धनं यॆन अथवा सलिलॆन जलॆन यानॆन गमनॆनाध्वना समर्जितं धनं यॆन | प्राज्ञः मॆधावी, विकलॊऽङ्गहीनः, खलः दुर्जनः ऎवंविधश्चान्द्रॆ कर्कटगतॆ भौमॆ जातॊ भवति|6 || 368 निःस्वः क्लॆशसही वनान्तरचरः सिंहॆऽल्पदारात्मजॊ जैवॆ नैकरिपुर्नरॆन्द्रसचिवः ख्यातॊऽभयॊऽल्पात्मजः | दुःखार्तॊ विधनॊऽटनॊऽनृतरतस्तीक्ष्णश्च कुम्भस्थितॆ भौमॆ भूरिधनात्मजॊ मृगगतॆ भूपॊऽथ वा तत्समः || 7 ||  भट्टॊत्पलः-अथ सिंहधन्विमीनकुम्भमकरस्थॆ भौमॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहनिःस्व इति | निस्वः निर्धनः, क्लॆशसहः आपद्धीरः कदर्थनाक्षमः, वनान्तरचरः अरण्यमध्यचारी, कॆचिद्भयॊ वनचर इति पठन्ति | अभयॊ भयरहितः, वनान्तरचरॊऽरण्यचारी, अल्पदारात्मजॊऽल्पकलत्रः अल्पापत्यः ऎवंविधः सिंहस्थॆ भौमॆ जातॊ भवति | अनॆकरिपुः बह्वरिः, नरॆन्द्रसचिवः मन्त्री, ख्यातः विदितकीर्तिः, अभयः निर्भयः, अल्पात्मजः स्वल्पापत्यः ऎवंविधॊ धन्विमीनस्थॆ भौमॆ जातॊ भवति | दुःखार्त नित्यं दुःखसन्तप्तः, विधनः दरिद्रः, अटनः परिभ्रमणशीलः, अनृतरतः असत्यभाषी, तीक्ष्णः निरपॆक्षः, क्रूरः ऎवंविधः कुम्भस्थॆ भौमॆ जातॊ भवति | भूरिधनात्मजः प्रभूतधन, प्रभूतपुत्रः, भूपः राजा, अथवा तत्समः राजतुल्यः, ऎवंविधॊ मृगगतॆ मकरस्थॆ भौमॆ जातॊ भवति | इति भौमराशिस्वभावः || 7 ||  369 द्यूतर्णपानरतनास्तिकचौरनिःस्वाः कुस्त्रीककूटकृदसत्यरताः कुजक्षॆ | आचार्य भूरिसुतदारधनार्जनॆष्टः शौक्रॆ वदान्यगुरुभक्तिरताश्च सौम्यॆ | 8 ||  भट्टॊत्पलः-अथ मॆषवृश्चिकतुलवृषगतॆ बुधॆ जातस्य स्वरूपं वसन्ततिलकॆनाहद्यूतॆति | द्यूतॆऽक्षज्ञानॆ ऋणॆ परस्वहरणॆ पानॆ च निरतः सक्तः, नास्तिकः शास्त्रार्थादपॆतः, तार्किकः नास्ति परलॊकॆ मतिर्यस्य स नास्तिकः, चास्तस्करः, निःस्वॊ दरिद्रः, कुस्त्रीकः कुत्सितभार्यः, कूटकृत् कूटकर्ता दाम्भिकः, असत्यनिरतः अनृतभाषी ऎवंविधा जाताः सौम्यॆ बुधॆ भौमक्षॆमॆषवृश्चिकस्थॆ भवन्ति | आचार्यॆत्यादि | आचार्यः उपदॆशकर्त्ता, भूरिसुतः प्रसूतापत्यः, भूरिदारॊ बहुकलत्रः, धनार्जनमिष्टं अस्य, अर्थाजनॆ नित्यमुद्यतः, वदान्यः दाता, गुरुभक्तिरताः मातृपितृगुरुणां भक्ताः ऎवविधाः पुरुषाः शौक्रॆ वृषतुलस्थॆ बुधॆ जाता भवन्ति | 8 ||  विकत्थनः शास्त्रकलाविदग्धः प्रियंवदः सौख्यरतस्तृतीयॆ | जलार्जितस्वः स्वजनस्य शत्रुः शशाङ्कजॆ शीतकरर्क्षयुतॆ || 9 || भट्टॊत्पलः-अथ मिथुनकर्कटस्थॆ बुधॆ जातस्य स्वरूपमुपॆन्द्रवज्रयाह विकत्थन इति | विकत्थनः वाचालः असत्यवादी, शास्त्रकलाविदग्धः शास्त्रॆ कलासु च गीतवाद्यनृत्यखॆलचित्रकर्मसु विदग्धः शिक्षितः, प्रियंवदॊऽभिमतवक्ता, सौख्यरतः सुखासक्तः ऎवंविधः शशाङ्कजॆ बुधॆ तृतीयॆ मिथुनस्थॆ जातॊ भवति | जलार्जित इति | खलार्जितस्वः जलॆनॊदकॆनार्जितं स्वं   370 धनं यॆन सः | कॆचिद्बलार्जितस्व इति पठन्ति | बलॆन वीर्यॆणार्जितं स्वं धनं यॆन | स्वजनस्यात्मीयजनस्य च बन्धुजनस्य शत्रुः रिपुः ऎवंविधः शशाङ्कजॆ बुधॆ शीतकरक्षॆ चन्द्रकर्कटयुक्तॆ जातॊ भवति | 9 ||  स्त्री द्वॆष्यॊ विधनसुखात्मजॊऽटनॊऽज्ञः स्त्रीलॊलः स्वपरिभवॊऽर्कराशिगॆ ज्ञॆ | त्यागी ज्ञः प्रचुरगुणः सुखी क्षमावान् युक्तिज्ञॊ विगतभयश्च षष्ठराशौ || 10 ||  भट्टॊत्पलः-अथ सिंहकन्यागतॆ बुधॆ जातस्य स्वरूपं प्रहर्षिण्याह स्त्रीद्वॆष्य इति | स्त्रीणां द्वॆष्यः स्त्रीद्वॆष्य, विधनसुखात्मजः विधनः धनरहितः, विमुखः विगतसुखः, विगतात्मजः पुत्ररहितः, अटनः परिभ्रमणशीलः, 3लस्ः मूर्खः, स्त्रीलॊलः वनिताभिलाषी, स्वपरिभवः स्वॆषामात्मीयानां सकाशात्परिभवॊ यस्य ऎवंविधॊ ज्ञॆ बुधॆऽर्कराशिगॆ सिंहस्थॆ जातॊ भवति | त्यागी दाता, ज्ञः पण्डितः, चतुरगुणः प्रभूतगुणैर्युतः गुणा विद्याशौर्यादयः | सुखॊ सुखितः, क्षमावान्सहिष्णुः, युक्तिज्ञः प्रयॊगवॆत्ता, विगतभयः निर्भयः ऎवंविधः षष्ठराशौ कन्यास्थॆ जातॊ भवति | 10 ||  371 परकर्मकृदस्वशिल्पबुद्धी ऋणवान्विष्टिकरॊ बुधॆऽर्कजक्षॆ | नृपसत्कृतपण्डिताप्तवाक्यॊ नवमॆऽन्त्यॆ जितसॆवकॊऽन्त्यशिल्पः || 11 ||  भट्टॊत्पलः-अथ मकरकुम्भधन्विमीनगतॆ बुधॆ जातस्य स्वरूपमौपच्छन्दसिकॆनाह परकर्मकृतिदि | परकर्मकृत् परप्रॆष्यकरः, अस्वः दरिद्रः, शिल्पबुद्धिः शिल्पकर्मस्वनुरतमतिः, ऋणवान् परस्वग्रहणशीलः, विष्टिकरः आज्ञाकरः ऎवंविधॊऽर्कजक्षॆ मकरकुम्भस्थॆ बुधॆ जातॊ भवति | नृपसत्कृतः राजपूजितः नृपसम्मतॊ वा राजवल्लभः, पण्डितः विद्वान्, आप्तवाक्यः व्यवहारार्थवॆत्ता आप्तमनुकूलं वाक्यं यस्य ऎवंविधॊ नवमॆ धन्विस्थितॆ बुधॆ जातॊ भवति | जितसॆवकः जिताः सॆवका यॆन पराराधनदक्षः पराभिप्रायज्ञः, अन्त्यशिल्पः नीचशिल्पः ऎवंविधॊऽन्त्यॆ मीनस्थॆ बुधॆ जातॊ भवति | इति बुधराशिस्वस्वभावः|| 11 ||  सॆनानीर्बहुवित्तदारतनयॊ दाता सुभृत्यः क्षमी तॆजॊदारगुणान्वितः सुरगुरौ ख्यातः पुमान्कौजभॆ |  कल्याङ्गः सधनार्थमित्रतनयस्त्यागी प्रियः शौक्रभॆ बौधॆ भूरिपरिच्छदात्मजसुहृत्साचिव्ययुक्तः सुखी || 12 ||  भट्टॊत्पलः-अथ मॆषवृश्चिकवृषतुलामिथुनकन्यागतॆ जीवॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाह   372 सॆनानीरीति | सॆनानीः सॆनानायकः बहुवित्तः प्रभूतधनः, बहुदारः प्रभूतकलत्रः, बहुतनयः प्रभूतापत्यः, दाता दानशीलः, सुभृत्यः शॊभनभृत्यः क्षमी क्षमावान् तॆजसा कान्त्या दारगुणैः कलत्रसौख्यैरन्वितॊ युक्तः, ख्यातः प्रख्यातकीर्तिः ऎवंविधः सुरगुरौ जीवॆ कौजॆ कुजभॆ भौमक्षॆत्रॆ मॆषवृश्चिकस्थॆ जातॊ भवति | कल्पाङ्गः स्वस्थदॆहः, सधनार्थः सधनः, समित्रः ससुहृत् सतनयः पुत्रान्वितः, सुखधनमित्रयुक्तः, त्यागी दाता, प्रियः सर्वजनवल्लभः ऎवंविधः शौक्रभॆ शुक्रक्षॆत्रस्थॆ जीवॆ जातॊ भवति | बौधॆ इत्यादि | भूरिपरिच्छदः बहुवस्त्रगृहपरिवारः, भूर्यात्मजः बहुपुत्रः भूरिसुहृत् प्रभूतमित्रः, साचिव्यॆ मन्त्रित्वॆ नियुक्तः सचिवस्य भावः साचिव्यं सुथितः ऎवंविधॊ बौधॆ बुधक्षॆत्रॆ मिथुनकन्यास्थॆ जीवॆ जातॊ भवति | 12 ||  चान्द्रॆ रत्नसुतस्वदारविभवप्रज्ञासुखैरन्वितः सिंहॆ स्याद्बलनायकः सुरगुरौ प्रॊक्तं च यच्चन्द्रभॆ || स्वक्षॆ माण्डलिकॊ नरॆन्द्रसचिवः सॆनापतिवर्षा धनी कुम्भॆ कर्कटवत्फलानि मकरॆ नीचॊऽल्पवित्तॊसुखी || 13 ||  भट्टॊत्पलः-अथ कर्कटसिंहधन्विमीनकुम्भमकरस्थॆ जीवॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाह 373 ऎण्चान्द्र इति | रत्नानि मणयः, सुताः पुत्राः, स्वं धनं, दाराः कलत्रं, विभव ऐश्वर्यं, प्रज्ञा मॆधा, सुखं सुखभावः ऎतैरन्वितः संयुक्तः ऎवंविधः चान्द्रॆ चन्द्रक्षॆत्रॆ कर्कटस्थॆ सुरगुरौ जीवॆ जातॊ भवति | बलनायकः सॆनाप्रधानः अन्यच्च यच्चन्द्रभॆ कर्कटस्थॆ उतं रत्नसुतस्वदारविभवप्रज्ञासुखैरन्वितः ऎवंविधः सिंहस्थॆ जीवॆ स्याद्भवॆत् माण्डलिकः मण्डलाधिपतिः सॆनानाथॊ वा, अथवा धनी वित्तवान् ऎवंविधः स्वक्षॆस्वराशौ धन्विमीनस्थॆ जातॊ भवति | कुम्भॆकर्कटवदिति| यॊनि कर्कटस्थॆ जीवॆ फलान्यभिहितानि रत्नसुतस्वदारवुभवप्रज्ञासुखैरन्वित इत्यॆतानि कुम्भस्थॆ गुरौ भवन्ति | अत्रान्यॆन सह मतभॆदः | तॆनानिष्टम् फलमभिहितम् | तथा च | नीचः कुम्भॆ जनयति कर्मणि तॊयाश्रयॆ सक्तम् | नीचा कुलानुचिताधर्मकर्मकृत्, अल्पवित्तः स्तॊकार्थः, असुखीदुःखितः ऎवंविधः मकरस्थॆ जीवॆ जातॊ भवति | इति वृहस्पतिराशिस्वभावः || 13 ||  परयुवतिरतस्तदर्थवादैर्हृतविभवः कुलपांसनः कुजक्षॆ | स्वबलमतिधनॊ नरॆन्द्रपूज्यः स्वजनविभुः प्रथितॊऽभयः सितॆ स्वॆ || 14 || भट्टॊत्पलः-अथ मॆषवृश्चिकवृषतुलागतॆ शुक्रॆ जातस्य स्वरूपं पुष्पिताग्रयाऽऽह 374 परॆति | परयुवतिरतः परस्त्रीषु सक्तः, तदर्थवादस्तासां परस्त्रीणामर्थवादैरपराधानुवचनैः हतविभवॊऽपहृतार्थः, कुलपांसनः कुलकलङ्कभूतः ऎवंविधः सितॆ शुक्रॆ कुजर्क्षॆ भौमक्षॆत्रॆ मॆषवृश्चिकस्थॆ जातॊ भवति | स्वबलॆत्यादि | स्वबलॆनात्मवीर्यॆण स्वमत्या आत्मीयबुद्धया च धनं यस्यासौ स्वबलमतिधनः नरॆन्द्रपूज्यः राजवल्लभः, स्वजनविभुः बन्धुप्रधानः, प्रथितः विख्यातः, अभयः निर्भयः, ऎवंविधः स्वॆ स्वक्षॆत्रॆ वृषतुलास्थॆ सितॆ शुक्रॆ जातॊ भवति | 14 || नृपकृत्यकरॊऽर्थवान्कलाविन्मिथुनॆ षष्ठगतॆऽतिनीचकर्मा |  रविजक्षगतॆऽमरारिपूज्यॆ सुभगः स्त्रीविजितॊ रतः कुनार्याम् || 15 ||  भट्टॊत्पलः-अथ मिथुनकन्यामकरकुम्भस्थॆ शुक्नॆ जातस्य स्वरूपमौपच्छन्दसिकॆनाह नृपॆति | नृपकृत्यकरः राजकर्मकर्ता, अर्थवान् धनी, कलावित् कलाज्ञः गीतवाद्यादिकवॆत्ता ऎवंविधॊऽमररारिपूज्यॆ दैत्यगुरौ शुक्रॆ मिथुनस्थॆ जातॊ भवति | षष्ठगतॆ कन्यास्थॆ शुक्रॆऽतिनीचकर्मा कष्टकार्यकरॊ जातॊ भवति | सुभगः सर्वजनप्रियः, स्त्रीविजितः प्रमदावशगः, कुनाय कुत्सितस्त्रियां रतः सक्तः ऎवंविधः शुक्रॆ रविजक्षगतॆ मकरकुम्भस्थॆ जातॊ भवति | 15 || 375 द्विभार्यॊऽर्थी भीरुः प्रबलमदशॊकश्च शशिभॆ| हरौ यॊषाप्तार्थः प्रवरयुवतिर्मन्दतनयः | गुणैः पूज्यः सस्वस्तुरगसहितॆ दानवगुरौ झषॆ विद्वानाढयॊ नृपजनितपूजॊऽतिसुभगः || 16 ||  भट्टॊत्पलः-अथ कर्कटसिंहधन्विमीनस्थॆ शुक्रॆ जातस्य स्वरूपं शिखरिण्याह द्विभार्य इति | द्विभार्यः द्विस्त्रीकः, अर्थी याञ्चापरः, भीरुः सभयः, प्रबलमदॊऽतिदृप्तः, प्रबलशॊकॊऽतिदुःखितः ऎवंविधॊ दानवगुरौ दैत्यपूज्यॆ शुक्रॆ शशिभॆ कर्कटस्थॆ जातॊ भवति | यॊषाप्तार्थः स्त्रीप्राप्तधनः, प्रवरयुवतिः प्रधानस्त्रीकः, मन्दतनयः अल्पापत्यः ऎवंविधॊ हरौ सिंहस्थॆ शुक्रॆ जातॊ भवति | गुणैः, पूज्यः, मान्यः, सस्वः सधनः ऎवंविधस्तुरगसहितॆ धन्विस्थॆ दानवगुरौ शुक्रॆ जातॊ भवति | विद्वान्पण्डितः, आढ्यः ईश्वरः, नृपजनितपूजः नृपॆण राज्ञा जनितॊत्पादिता पूजाऽर्हणं यस्य | अतिसुभगः सर्वजनानामतिवल्लभः ऎवंविधॊ झषॆ मीनस्थॆ शुक्रॆ जातॊ भवति | इति शुक्रराशिस्वभावः | 16 ||  मूख्~ऒऽटनः कपटवान्विसुहृद्यमॆऽजॆ कीटॆ तु बन्धवधभाक् चपलॊऽघृण्श्च | निह्र्~ऒसुखार्थतनयः स्खलितश्च लॆख्यॆ रक्षापतिर्भवति मुख्यपतितश्चबौधॆ || 17 ||  भट्टॊत्पलः-अथ मॆषवृश्चिकमिथुनकन्यागतॆ सौरॆ जातस्य स्वरूपं वसंततिलकॆनाह  376 मूर्ख इति | मूर्खाऽज्ञानॊपॆतः, अटनः परिभ्रमणशीलः, कपटवान् दांभिकः, विसुहृत् मित्ररहितः ऎवंविधॊ यमॆ सौरॆ अजॆ मॆषस्थॆ जातॊ भवति | बन्धवधभाक् बंधॊ बंधनं, बधस्ताडनं बंधबधौ भजतॆ, चपलः क्रियास्वनवस्थितः, अघृणः निर्दयः ऎवंविधः कीटॆ वृश्चिकस्थॆ जातॊ भवति | निह्रीसुखार्थतनयः निर्गता ह्रीर्लज्जा यस्य स निर्लज्जः, निःसुखॊ दुःखितः, निरर्थॊ दरिद्रः, निस्तनयः पुत्ररहितः, लॆख्यॆ आलॆख्यकर्मणि स्खलितः अज्ञः, रक्षापतिर्भवत्यारक्षकः मुख्यपतिः प्रधाननाथः ऎवंविधॊ बौधॆ बुधक्षॆत्रॆ मिथुनकन्यास्थॆ सौरॆ जातॊ भवति||1| 7 || वज्र्यस्त्रीष्टॊ न बहुविभजॊ भूरिभायॊं वृषस्थॆ ख्यातः स्वॊच्चॆ गणपुरबलग्रामपूज्यॊऽर्थवांश्च |  कर्किण्यस्वॊ विकलदशनॊ मातृहीनॊऽसुतॊऽज्ञः सिंहॆऽनार्यॊ विसुखतनयॊ विष्टिकृत्सूर्यपुत्रॆ || 18 ||  भट्टॊत्पलः-अथ वृषतुलाकर्कटसिंहस्थॆ सौरॆ जातस्य स्वरूपं मन्दाक्रान्तयाह वज्र्यॆति | वज्र्यास्वगम्यासु स्त्रीषु यॊषित्सु इष्टः वल्लभः न बहुविभवः न प्रभूतैश्वर्ययुक्तः अल्पैश्वर्ययुक्तः, भूरिभार्यः प्रभूतदारः ऎवंविधॊ वृषस्थॆ सूर्यपुत्रॆ शनैश्चरॆ जातॊ भवति | ख्यातः विदितकीर्तिः, गणानां समूहानां पुराणां नगराणां बलानां सैन्यानां ग्रामाणां च पूज्यॊ मान्यः, अर्थवान् सधनः ऎवंविधः स्वॊच्चराशौ तुलास्थॆ सौरॆ जातॊ भवति | अस्वः दरिद्रः, विकलदशनः अल्पदंतः, मातृहीनः 377 जननीवियुक्तः, असुतः पुत्ररहितः, 3लस्ः मूर्खः ऎवंविधः कर्कटस्थॆ सौरॆ जातॊ भवति | सिंहॆऽनार्य इति | अनार्यः मूर्खः, विसुखॊ दुःखितः, वितनयः पुत्ररहितः, विष्टिकृद्भारवाहकः ऎवंविधः सिंहस्थॆ सूर्यपुत्रॆ शनैश्चरॆ जातॊ भवति | 18 ||  स्वन्तः प्रत्ययितॊ नरॆन्द्रभवनॆ सत्पुत्रजायाधनॊ जीवक्षॆत्रगतॆऽर्कजॆ पुरबलग्रामाग्रनॆताऽथ वा | अन्यस्त्रीधनसंवृत्तः पुरबलग्रामाग्रणीर्मन्ददृक् स्वक्षॆत्रॆ मलिनः स्थिरार्थविभवॊ भॊक्ता च जातः पुमान् | 19 ||  भट्टॊत्पलः-अथ धन्विमीनमकरकुम्भगतॆ सौरॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहस्वन्तरिति | स्वन्तः शॊभनॊंऽतः पर्यन्तॊ यस्य स स्वन्तः शुभॆन कर्मणा| तस्य मृत्युर्भवति | अथवाऽन्तॆ शॊभनं सुखादिकं यस्य | नरॆन्द्रभवनॆ राजगृहॆ प्रत्ययितः संजातप्रत्ययः, सत्पुत्रः शॊभनापत्यः, सज्जायः शॊभनभार्यः, सद्धनः सद्वित्तः, पुरबलग्रामाग्रनॆता पुराणां नगराणां बलस्य सॆनायाः ग्रामाणां च अग्रनॆता प्रधानॊ नायकः ऎवंविधॊर्कजॆ जीवक्षॆत्रॆ धन्विमीनस्थॆ जातॊ भवति | अन्यस्त्रीसंवृतः परयॊषिद्भिः परधनैश्च संवृतः संयुक्तः पुरबलग्रामाग्रणीः पुराणां बलानां च अग्रणीः प्रधाननायकः, मन्ददृगल्पचक्षुः, मलिनः मलॊपॆतः स्नानालसः, स्थिरार्थः स्थिरवित्तः, स्थिरविभवः स्थिरैश्वर्यः, भॊक्ता असञ्जयशीलः ऎवंविधः पुमान् पुरुषः स्वक्षॆत्रॆ मकरकुम्भस्थॆ सौरॆ जातॊ भवति | इति 378 शनैश्चरराशिस्वभावः | ऎतॆषु सर्वॆषु ग्रहराशिस्वभावॆषु बलवत राशौ तदघधिपतौ च तस्मिश्च ग्रहॆ बलवति जातस्य यथॊक्तं राशिस्वरूपं भवति | द्वयॆकयॊश्च बलवतॊर्मध्यॆ समानमिति | न कस्मिश्चिद्बलवति न किंचिदिति | 19 ||  भट्टॊत्पलः-अथ मॆषादिषु लग्नॆषु चन्द्राक्रान्तराश्युक्तस्वरूपातिदॆशं पुष्पिताग्रयाह शिशिरॆति | शिशिरकरश्चन्द्रमास्तस्य राशिभिः सह समागमॆ| यत्स्वरूपमुक्त वृत्ताताम्रदृगित्यादिकं तन्मॆषलग्नजातस्यापि वक्तव्यम् | ऎवमन्तॆष्वपि राशिषु वृषादिषु स्थितॆ चन्द्रमसि यदुक्तं तल्लग्नजातस्यापि वक्तव्यम् | यतॊ मुनयः सदृशं फलं वदन्ति कथयंति | स्वरूपभॆदाभावात् तथा च सत्यः“मॆषविलग्नॆ कुनरवी सुरॊषणॊ भॆदकृत्स्खलितवाक्यः | पित्तानिलभूयिष्ठः कृपणॊऽतिबहुव्यथश्चैव | रहितॊ बाल्यॆ गुरुभिर्मन्दसुतः स्वजनसहजहितकर्ता | धर्मस्थितौ विदॆशॊपगश्च कर्मारभत्यफलम्| नीचां वा पिशुनां वा विफलां लभतॆऽन्यपूर्विकां भार्याम् | सहजसमान्यपि मित्राणि चास्य बन्धुत्वमुपयांति | शस्त्रॆण वा विषैर्वा मरणं पित्तॊद्भवैर्विकारैर्वा |  379 स्वात्पक्षाज्ज्वलनाद्वा वर्षाद्दुर्गात्प्रपतनाद्वा | वृषभविलग्नॆ स्थूलॊष्ठगंडनासॊ महाललाटश्च | श्लॆष्मानिलभूयिष्ठस्त्यागी बहुशॊ व्ययरतश्च | कन्याप्रजॊऽल्पपुत्रः पितुर्जनन्याश्च दॊषकृद्बहुशः | कर्मणि सततं सक्तॊ विधर्मयुक्तॊऽर्यभाक् चैव | नित्यं कलत्रकांक्षी शस्त्रविधाती सदा स्वजनहर्ता | मृत्युः शस्त्रैः पाशैर्मृगैश्च लभतॆऽन्यदॆशॆषु | दॆहश्रमैर्जलैर्वा मूलैर्वाऽप्यटननिरसनैश्चैव | पुरुषश्चतुष्पदैर्वा बलान्वितान्मृत्युमुपयाति | पूर्वविलग्नॆ मिथुनॆ हीनांगः सूयतॆऽधिकांगॊ वा | प्रियवाग्विशिष्टकर्मा मिश्रप्रकृतिर्द्विजननीकः | अल्पमतिरल्पकायः सतां च महितॊ गुरूणां च | अल्पसहजॊऽल्पचॆष्टः परावमर्दॊ गुणयुतश्च | कर्मसु बहुष्वभिरतॊ धर्मं साधयति न चाथ धर्मॆण | व्यालाद्विषान्मृगाद्वाऽप्युदकाद्वा मृत् || उरसिकृताभिज्ञानः कफानिलात्मा दृढग्राही | पापानहितान्भजततॆ परस्वमपि निक्षिपद्व्ययॆन सकृत् | स्वजनादृप्तः स्वजनैर्विभत्सितॊ ह्यस्थिरप्रसवः | तीक्ष्णं कर्म विदॆशॆ नित्यं ह्यद्धदितः परस्वामी | असदृशदारॊ रिपुनिर्जितश्च पूज्यः समूहानाम् | कंठापीडाद्रज्ज्वा कफॊदयादस्थिभंजनाद्धॆदात् | दॆहच्छॆदादथवा जलॊदरान्मृत्युमाप्नॊति | सिंहविलग्नॆ कठिनः प्रियामिषः पैत्तिकॊ विततनासः | बह्वारम्भकुटुम्बः कृपणस्त्वथ संमतः ख्यातः | 380 सहजविषादी स्वजनस्य घातकॊ विक्रमैः स्वकैर्युक्तः | अविषादी कर्मकरॊ विविघॊपायैस्त्वधर्मिष्ठः | भार्या बह्वीलभतॆ विद्याद्विविधाः कुलैरुपॆताश्च | कट्याँ रुजश्च बहुशॊ जन्वॊर्दशनॆषु चाप्नॊति | मृत्युः शस्त्रैः पापैर्विषैश्च काष्ठैरथामयैश्चापि | अम्बुचरैर्वा सत्त्वैर्नुभुक्षया ह्रासमुपयाति | षष्ठविलग्नॆ प्रियवाक् तनुच्छविर्दीर्घकरचरणः | मिश्रप्रकृतिश्चार्याकृतिव्रणी चार्थवान् कृपणः | स्वजनस्यॆष्टः कन्याबहुप्रजॊ भ्रातृभिर्विरुद्धश्च | धर्मप्रियॊऽल्पलाभः कर्मणि निपुणः समाचरति | विविधाच्चतुष्पदगणाच्छास्त्रात् पित्तॊद्भवाद्रॊगात् | कफवातिकः सुचपलॊ ह्रस्वग्रीवः कृतघ्नश्च | अर्थान्विपुलाँल्लभतॆ व्ययॆन सम्पूज्यतॆ यशः प्रायः | गुरुसॆवायां निरतः पितान्यजनसहजजनपूज्यः | अध्वरुचिर्धर्मिष्ठॊ विनाशमायाति पीडनैः स्वैः स्वैः | मृतभार्यः कलहरुचिर्बहुशः शॊकादिभिः क्लिष्टः | मृत्युः ख्यातात्पुरुषात्स्वजनात्सौम्याच्चतुष्पदाद्वापि | खॆदाच्च विप्रयॊगादुपवासान्मार्गयॊगाद्वा | अष्टमराशौ लग्नॆ विशालरज्ज्वाननॊदरः क्रूरः | पित्तप्रकृतिः पिंगॆक्षणॊ मृदुद्रुतगतिः परस्वामी | स्फीतकुटुम्बस्वजनॊऽन्तकश्च बहुव्ययॊ बहुप्रसवः | सुखरहितॊ भ्रातृभ्यॊ वृषसॆवी धर्महीनश्च | भार्यानिमित्तविमुखी शत्रॊरर्थान्न ददाति बहुशश्च | स्वकुलॊद्भूतश्छनूँल्लभतॆ रागांश्च नैकविधान्| च्छ्र् गात्रच्छॆदैः शत्रॊर्वशं गतॊबन्धनैः प्रहारैश्च |  381  रॊगैर्वा पापकृतैर्ज्वलनाद्वामॄत्युमुपयाति|| स्थूलॊष्ठदशननासा नवमॆलग्नॆकफानिलप्रकृतिः| मांसलगुह्यॊरुभुजःकुनखीकर्मॊद्यतः|| क्षुद्रान्नीचान्भजतॆचौर्यादनलान्नृपाच्चनष्टधनः| विज्ञानानां प्रसवॊ बहुपूज्यॊ भ्रातृघातरुचिः | कर्मविदॆशॆष्विष्टः कुरुतॆ वित्तानि चार्हति नृपॆभ्यः | धर्मॆ तु मध्यमगतिर्दारैश्च विरॊधमुपयाति | रॊगान्वदनॆ लभतॆ चतुष्पदाच्चात्मनः समाप्नॊति | मृत्युं बिलॆशयाद्वा नृपाच्च बन्धाज्जनाद्वापि | दशमविलग्नॆ तनुनासिकापुटॊ दीर्घवक्त्रकरचरणः | वाय्वात्मकॊ मृगास्यॊ भीरुश्चपलॊऽथ बन्धनभाक् | कुटुम्बॊऽल्पधनः कृपणः कन्याप्रजॊ मृतस्वजनः | सहजसमृद्धः शौर्यान्नृपादरण्याच्च लब्धधनः | उपवासव्रतशीलॊ नीचामिष्टामवाप्नुयाद्वार्याम् | बहुविग्रहॊऽल्पकॆशॊ दुर्बलजानुश्च रॊगार्तः | बालादनिलाच्छस्त्रान्नृपाद्विषात्प्रपतनाद्गजाद्वापि | पित्तॊदयादजीर्णान्म्रियतॆ वा मार्गविभ्रष्टः | ऎकादशॆ विलग्नॆ स्तब्धः क्रूरः कुलाग्रजः पुरुषः | पित्तानिलभूयिष्ठस्तिलपुष्पसमाननासश्च | प्राप्तान्नाशयतॆऽर्थान् बहुभृत्यः साध्यतॆ व्ययैश्चापि | क्षीणः स्वगॊत्रगुरुजनपरपक्षसुहृत्स्वजनशत्रुः | कर्मणि पापॆ सक्तस्तनुश्च कान्तानवाप्नुयाल्लाभान् | धर्मध्वजप्रवृत्तौ दैवतपूजैश्च कारयति भार्याम् | विग्रहशॊलॆ लभतॆ विविधान् रॊगान्कफॊन्द्रवानुरसि | म्रियतॆ च जठररॊगाद्धमनात्स्त्रीणां प्रयॊगाद्वा | द्वादशगॆ प्राग्लग्नॆ स्थूलॊष्ठी मीनदृङ महानासः | कफवातिकॊ महात्मा त्वग्दॊषी नैकमतिचॆष्टः | 382 शिष्टायव्ययभृत्यैः स्वजनस्त्रीपूजितः सहजनाथः | कर्मणि धर्मॆ युक्तः पित्रापचयः सुदारश्च | नीचाचाचारां भार्या लभतॆ च रिपून्सुदारुणान् क्रूरान् | रॊगात्सशॊणितादाप्नुयाद्भयं व्यालसिंहॆभ्यः | मृत्युं पुरुषैर्गणवृन्दपूजितैर्गुह्यजैर्विकारैर्वा | विद्यौषधप्रयॊगादुपवासान्मार्गदॊषाद्वा |” ऎवं शिशिरकरसमागमसदृशं लग्नजातं फलम् | तथा च | शिशिरकराश्रितराशॆरीक्षणं दृष्टिफलं वक्ष्यमाणं तथा तदॆव तल्लग्नजातस्यापि वक्तव्यम् | चन्द्रॆ भूपबुधावित्यादि | किन्तु लग्नॆ फलमपि किमिदम् | यदत्र भाव इति चन्द्रराशित लग्नादिषु भावॆष्वधिकं फलं यद्भावास्तन्वादयः | भवनगुणॆः राशिगुणॆर्भवनाथगुणैस्तत्स्वामिगुणैर्विचिन्तनीयाः विचार्याः | भवनभनाथयॊर्गुणः सबलत्वम् | ऎतदुक्तं भवति | लग्नॆ बलवति लग्नपतौ च बलवति जातस्य शरीरपुष्टिर्वक्तव्या | लग्नाद्द्वतीयराशौ बलवति तदधिपतौ च बलवति जातस्य धनसमृद्धिर्वक्तव्या | ऎवं शॆषराशिबलॆ तदधिपबलॆ च जातस्य भ्रात्रादीनां वृद्धिर्वक्तव्या | तथापि किञ्चिद्विशॆषः कथयति | विपरीतं रिःफषष्ठाष्टमॆषु इत्यादि| ऎवं तन्वादिस्थॆषु राशिष्वबलवत्सु तदधिपॆष्वबलवत्सु च भावहानिर्वक्तव्या | भवनभनाथयॊः यछॆकॊ बलवान् भवति तदा मध्यस्था भाववृद्धिर्वाच्यॆति | तथा च यवनॆश्वरः“भावॆशभावस्थखगस्वभावप्रधानमध्याधमदर्शनाद्यैः | तद्भावसम्पत्तिविपत्त्युपायैनैर्याणिकं पाकमुपैति पुंसाम् |” | 20 || इति बृहज्जातकॆ श्रीभट्टॊत्पलटीकायां राशिशीलाध्यायः || 18 ||  383 384 नृस्थॆऽयॊव्यवहारिपार्थिवबुधाभीस्तन्तुवायॊऽधनः स्वक्षॆ यॊद्धुकविज्ञभूमिपतयॊऽयॊजीविदृग्रॊगिणौ | 1 ||  भट्टॊत्पलः-अथातॊ दृष्टिफलाध्यायॊ व्याख्यायतॆ | तत्र ऎवं मॆषवृषि मिथुनकर्कटस्थॆ चन्द्रॆ भौमाद्यैग्रहैः दृश्यमानॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहचन्द्रॆ भूपबुधाविति | कुजाद्या भौमादयः भौमबुधबृहस्पतिशुक्रशनैश्चराकः तत्राजगॆ मॆषस्थॆ चन्द्रमसि भौमदृष्ट जातॊ भूपॊ राजा भवति | बुधदृष्ट बुधः पण्डितः, जीवदृष्टॆ नृपॊपमः राजतुल्यः, शुक्रदृष्टॆ गुणी गुणवान् भवति | कॆचिद्वणिगिति पठन्ति | शनैश्चरदृष्टॆ स्तॆनश्चौरः, सूर्यदृष्टॆऽधनः दरिद्र इति | ऎवमपि मॆषलग्नॆ भौमादिदृष्टॆ फलं वाच्यम् | गविस्थॆति | गवि वृषस्थॆ चन्द्रमसि भौमदृष्टॆ जातॊ निःस्वः दरिद्रः भवति | बुधदृष्टॆ स्तॆनश्चौरः जीवदृष्टॆ नृमान्यः नृणां मान्यः पूज्यः, कॆचिन्नृपाढ्य इति पठन्ति | नृपाढ्यः राजा धनाढ्यः ईश्वरः, शुक्रदृष्टॆ भूपः राजा, सौरदृष्टॆ प्रॆष्यः दासः | ऎवं वृषलग्नॆऽपि | नृस्थॆ मिथुनस्थॆ चन्द्रमसि भौमदृष्टॆऽयॊव्यवहारी शास्त्रविक्रयकः, बुधदृष्टॆ पार्थिवः राजा, जीवदृष्टॆ बुधः पण्डितः, शुक्रदृष्टॆऽभीः निर्भयः धीरः भयरहितः, सौरदृष्टॆ तन्तुवायः, रविदृष्टॆऽधनः दरिद्रः | ऎवं मिथुनलग्नॆऽपि | स्वर् क्ष   कर्कटस्थॆ चन्द्रमसि भौमदृष्टॆ यॊद्धा भवति युद्धकुशलः, बुधदृष्टॆ कविः काव्यकर्त्ता, जीवदृष्टॆ ज्ञः पण्डितः, शुक्रदृष्टॆ भूमिपतिः राजा, सौरदृष्टॆऽयॊजीवी आयुधजीवी शस्त्रॊपजीवी, सूर्यदृष्टॆ दृग्रॊगॊ चक्षुर्व्याध्यर्दितः | ऎवं कर्कटलग्नॆऽपि || 1 ||  385 ज्यॊतिज्ञाढ्यनरॆन्द्रनापितनृपक्ष्मॆशा बुधाद्यैर्हरौ तद्वद्भूपचमूपनैपुणयुताः षष्ठॆऽशुभैः स्त्र्याश्रयः | जूकॆ भूपसुवर्णकारवणिजः शॆषॆक्षितॆ नैकृती कीटॆ युग्मपिता नतश्च रजकॊ व्यङ्गॊऽधनौ भूपतिः || 2 ||  भट्टॊत्पलः-अथ सिंहकन्यातुलावृश्चिकस्थॆ चन्द्रॆ बुधादिदृष्टि जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहज्यॊतिरिति | बुधादयः बुधगुरुशुक्रशनिसूर्यभौमाः हरिः सिंहस्तस्मिन् हरौ सिंहस्थॆ चन्द्रॆ बुधदृष्टॆ ज्यॊतिज्ञः ज्यॊतिः शास्त्रार्थवॆत्ता, जीवदृष्टॆ आढ्यः ईश्वरः, शुक्रदृष्टॆ नरॆन्द्रॊ राजा, सौरदृष्टॆ नापितः, रविदृष्टॆ नृपः राजा, भौमदृष्ट क्ष्मॆशः भूपतिः | ऎवं सिंहलग्नॆऽपि | तद्विदित्यादि | तद्वद्बुधादिभिर्दृष्टॆ इत्यनुवर्ततॆ सर्वत्र | षष्ठॆ कन्यागतॆ चन्द्रॆ बुधदृष्टॆ भूपः राजा, जीवदृष्टॆ चमूपः सॆनापतिः, शुक्रदृष्टॆ नैपुणयुतः सर्वकार्यॆषु सूक्ष्मदृष्टिः, अशुभैः सौररविभौमै र्दृष्टॆ स्त्र्याश्रयॊ भवति | स्त्रियमाश्रित्य जीवतीत्यर्थः | ऎवं कन्यालग्नॆऽपि | जूकॆ तुलास्थॆ चन्द्रमसि बुधदृष्ट भूपॊ राजा भवति | जीवदृष्ट सुवर्णकारः, शुक्रदृष्ट वणिक् क्रयविक्रयज्ञः, शॆषाः सौरसूर्यभौमाः ऎतैः दृष्ट नैकृती निकृतः प्राणिघातकः | ऎवं तुलालग्नॆऽपि | कीटॆ वृश्चिकस्थॆ चन्द्रमसि बुधदृष्टॆ युग्मपिता युग्मस्य जनकः द्वयॊः पिता जातॊ भवति जात ऎव युग्मपिता | द्विपितृक इति कॆचित्पठन्ति | जीवॆदृष्ट नतः प्रह्वः, शुक्रदृष्ट रजकः वस्त्ररागकृत्, सौरदृष्ट 386 व्यङ्गॊऽङ्गहीनः, सूर्यदृष्टॆऽधनः दरिद्रः, भौमदृष्ट भूपतिः राजा | ऎवमॆतैरॆव दृष्ट वृश्चिकॆऽपि | 2 ||  ज्ञातुर्वीशजनाश्रयश्च तुरगॆ पापैः सदम्भः शठश्रात्युर्वीशनरॆन्द्रपण्डितधनी द्रव्यॊनभूयॊ मृगॆ |  भूपॊ भूपसमॊऽन्यदारनिरतः शॆषैश्च कुम्भस्थितॆ हास्यज्ञॊ नृपतिर्बुधश्च झषगॆ पापॆक्षितॆ || 3 ||  भट्टॊत्पलः-अथ धन्विमकरकुम्भमीनस्थॆ चन्द्रमसि बुधादिदृष्ट जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहज्ञात्युर्वीशॆति | तुरगॊ धन्वी तत्रस्थॆ चन्द्रॆ बुधदृष्टॆ ज्ञातीशः स्वजनभर्त्ता, जीवदृष्टॆ उर्वीशॊ राजा, शुक्रदृष्टॆ जनाश्रयः जनामाश्रयस्थानं, पापैः शनिरविभौमैर्दृष्टॆ सदम्भः मिथ्या धर्मध्वजी, शठः परकार्यविमुखश्च भवति | ऎवं धन्विलग्नॆऽपि | मृगॊ मकरस्तत्रथॆ चन्द्रॆ बुधदृष्टॆऽत्युर्वीशॊ | राजाधिराजॊ भवति, जीवदृष्ट नरॆन्द्रॊ राजा, शुक्रदृष्ट पण्डितः, शनिदृष्ट धनी वित्तवान्, सूर्यदृष्ट द्रव्यॊनः   387 दरिद्रः, भौमदृष्टभूपॊ राजा | ऎवं मकरलग्नॆऽपि | कुम्भस्थॆ चन्द्रमसि बुधदृष्टॆः भूपः राजा भवति | जीवदृष्टॆ भूपसमः राजतुल्यः शुक्रदृष्टॆऽन्यदारनिरतः परस्त्रीसक्तः | चशब्दाच्छॆषैः शनिसूर्यभौमैस्त्रिभिरप्यन्यदारनिरत ऎव | ऎवं कुम्भलग्नॆऽपि | झषगॆ मीनस्थॆ चन्द्रमसि बुधदृष्टॆ हास्यज्ञः उपहासं कर्तुं जानाति | जीवदृष्टॆ नृपतिः राजा, शुक्रदृष्टॆ बुधः पण्डितः पापाः शनिसूर्यभौमाः ऎतैर्दृष्टॆ च पाप ऎव भवति | ऎवं मीनलग्नॆऽपि | लग्नदृष्टिफलं चन्द्रफलातिदॆशॆनॊक्तम् | “शिशिरकरसमागमॆक्षणानां सदृशफलं प्रवदन्ति लग्नजातम् |” इति | तत्र चन्द्रमसा दृष्ट लग्नॆ फलम् नॊक्तम् | तस्मात्तत्रॊच्यतॆ उक्तमॆव यस्मादुक्तम् | “हॊरास्वामिगुरुज्ञवीक्षितयुता नान्यैश्च वीर्यॊत्कटा |” तत्र कर्कटवज्र्यमन्यल्लग्नम्, चन्द्रदृष्टं हीनबलं भवति | हीनबलत्वादशॊभनम् | उक्तं च | “मुक्त्वा तु चन्द्रभवनं लग्नगतं शिशिरकिरणसंदृष्टम् | अशुभफलं निर्दिष्टं पृच्छायां जन्मसमयॆ वा” | 3 || हॊरॆशार्क्षदलाश्रितैः शुभकरॊ दृष्टः शशी तद्गतस्त्र्यंशॆ तत्पतिभिः सुहृद्भवनगैर्वा वीक्षितः शस्यतॆ | सूर्याद्यैरवलॊकितॆऽपि शशिनि ज्ञॆयं नवांशॆष्वतः | 4 || 388 भट्टॊत्पलः-अथ हॊराद्रॆष्काणव्यवस्थितस्य चन्द्रस्य ग्रहदृष्टिफलं शार्दूलविक्रीडि तॆनाह हॊरॆशॆति | हॊराशब्दॆन राश्यर्धमुच्यतॆ | ’हॊरॆति लग्नं भनवस्य चार्धम्” इति वचनात् | हॊराया ईशः हॊरॆशः तस्यर्क्षदलं हॊरॆशर्क्षदलं तत्राश्रिता हॊरॆशक्षदलाश्रिताः तैर्ग्रहैः हॊरॆशक्षदलाश्रितैः शशी चन्द्रः तद्गतस्तद्धॊरास्थॊ दृष्टः शुभकरॊ भवति | ऎतदुक्तं भवति | यत्र तत्र राशौ यस्यां हॊरायां चन्द्रमाः स्थितस्तद्धॊरास्थैः सर्वग्रहैः यदि दृश्यतॆ तदा जन्मनि शुभकरॊ भवति | तॆनार्कहॊरास्थश्चन्द्रॊ यत्र तत्र राश्याश्रितैरर्कहॊराश्रितैग्रीहैः दृष्टश्च शुभकरॊ भवति अर्थादॆव चन्द्रहॊरास्थॆर्दृष्टॆऽशुभकरः | ऎवं यत्र तत्र राशौ स्वहॊरास्थैश्चन्द्रहॊरास्थैग्रीहैर्यत्र तत्रावस्थैढुंष्टः शुभकरॊ भवति | अर्थादॆवार्कहॊरास्थैर्दृष्टॊऽशुभकरः | ऎवं लग्नॆऽपि हॊरॆशॆन फलं यॊज्यम् | त्र्यंशॆ तत्पतिभिरिति | यत्र तत्र राशौ यस्मिन् द्रॆष्काणॆ स्थितश्चन्द्रस्तस्यः यः पतिस्तॆन द्रॆष्काणपतिना दृष्टश्चन्द्रः शस्यतॆ स्तूयतॆ | शुभकरः इत्यर्थः | पतिभिरिति | बहुवचननिर्द्दॆशान्नवांशद्वादशांशात्रिंशांशाकाधिपतयॊ गृह्यन्तॆ | तैरपि दृष्टः चन्द्रः शुभकरॊ भवति | ऎवं लग्नॆऽपि | यद्यपि समान्यॆनॊक्तं तथापि शुभग्रहैद्रॆष्काणपतिभिर्दृष्टः शस्यतॆ | पापग्रहैर्मध्यमः | यस्मादनॆनैव स्वल्पजातकॆ उक्तम्| “क्षॆत्राधिपसंदृष्ट शशिनि नृपस्तत्सुहृद्धिरपि धनवान्| द्वॆष्कार्णाशकपैर्वा प्रायः सौम्यैः शुभं नान्यैः |” इति | सुहृद्भवनगैरित्यादि | सुहृद्भवनगैः मित्रक्षॆत्रस्थैः ग्रहैः वीक्षितः दृष्टः चन्द्रः शस्यतॆ स्तूयतॆ शुभकर ऎव | अर्थादॆव स्वभवनगकैदृष्टः शस्यतॆ | अर्थादॆवारिभवनगतैः दृष्टः न शस्यतॆ अशुभफलॊ भवति | ऎवं लग्नॆऽपि यॊज्यम् | यत्प्रॊक्तं प्रतिराशिवीक्षणफलं तद्द्वादशांशॆ स्मृतमिति | प्रतिराशि राशौ राशौ मॆषादिस्थॆ चन्द्रमसि यद्वीक्षणफलं प्रॊक्तं कथितं तदॆव मॆषादिद्वादशांशकस्थॆ चन्द्रमसि स्मृतमुक्तम् | तदॆव वाच्यमिति | चन्द्रॆ भूपबुधावित्यादि यदुक्तम् | ऎवं लग्नॆऽपि | तत्रापि कर्कटद्वादशांश विना चन्द्रदृष्टिरशॊभना सूर्याद्यैरित्यादि | अतॊऽस्मात्परं शशिनि चन्द्रॆ सूर्याद्यैरकादिभिरवलॊकितॆ दृष्टॆ नवांशॆषु फलं ज्ञॆयं ज्ञातव्यमिति | 4 || 389 आरक्षिकॊ वधरुचिः कुशलॊ नियुद्धॆ धूपॊऽर्थवान्कलहकृत्क्षितिजांशसस्थॆ | भट्टॊत्पलः-अथ मॆषवृश्चिकवृषतुलांशकस्थॆ चन्द्रमसि सूर्यादिदृष्टॆ फलं वसन्ततिलकॆनाह आरक्षिक इति | क्षितिजॊ भौमः तन्नवांशकस्थॆ मॆषनवांशकस्थॆ वृश्चिकनवांशकस्थॆ चन्द्रमसि सूर्यदृष्टॆ आरक्षिकॊ भवति | आरक्षिकः नगररक्षाधिकृतः | भौमदृष्टॆ वधरुचिः प्राणिघातकः, बुधदृष्टॆ नियुद्धॆ कुशलः, नियुद्धॆ बाहुयुद्धॆ कुशलः शिक्षितऽ प्रवीणः, जीवदृष्टॆ भूपः राजा, शुक्रदृष्टॆऽर्थवानीश्वरः, सौरदृष्टॆ कलहकृदिति | मूर्ख इत्यादि | सितांशकॆ शुक्रनवांशकॆ वृषनवांशकॆ तुलानवांशकॆ वा स्थितॆ चन्द्रमसि रविदृष्टॆ मूर्खा भवति| भौमदृष्टॆऽन्यदारनिरतः परदारसक्तः, बुधदृष्टॆ काव्यकृत् काव्यज्ञः, कॆचिद्यवदिति पठन्ति | जीवदृष्ट सत्काव्यकृत् शॊभनकाव्यकर्ता, शुक्रदृष्ट सुखपरः सुखासक्तः, सौरदृष्टॆ अन्यकलत्रगः परदाराभिगामी | 5 || 390 बौधॆ हि रङ्गचरचौरकवीन्द्रमन्त्री गॆयज्ञशिल्पनिपुणः शशिनि स्थितॆंऽशॆ |  स्वांशॆऽल्पगात्रधनलुब्वतपस्विमुख्यः स्त्रीपॊष्यकृत्यनिरतश्चनिरीक्ष्यमाणॆ || 6 ||  भट्टॊत्पलः-अथ मिथुनकन्याककांशस्थॆ चन्द्रॆ फलं वसन्ततिलकॆनाह बौधॆ हीति | शशिनि चन्द्रॆ बौधॆ बुधनवांशकस्थॆ मिथुननवांशकस्थॆ कन्यानवांशकस्थॆ वा निरीक्ष्यमाणॆ दृष्टॆ रंगचरः मल्लादिकॊ भवति | भौमदृष्टॆ चौरः तस्करः, बुधदृष्टॆ कवीन्द्रः कविराजः, जीवदृष्टॆ मन्त्री सचिवः, शुक्रदृष्टॆ शिल्पनिपुणः | स्वांशॆति | स्वांशॆ आत्मीयनवांशकस्थॆ कर्कटनवांशकस्थॆ शशिनि चन्द्रॆ सूर्यदृष्टॆऽल्पगात्रः कृशदॆहॊ भवति | भौमदृष्टॆ धनलुब्धः, कृपणः, अल्पधनॊ वा, बुधदृष्टॆ तपस्वी, जीवदृष्टॆ मुख्यः प्रधानः, सितदृष्टॆ स्त्रीवॊध्यः स्त्रीभिरभिवर्धनीयः, सौरदृष्टॆ कृत्यनिरतः कार्यासक्तः || 6 || 391 सक्रॊधॊ नरपतिसम्मतॊ निधीशः सिंहाशॆ प्रभुरसुतॊऽतिहिंस्रकर्मा | जीवांशॆ प्रथितबलॊ रणॊपदॆष्टा हास्यज्ञः सचिवविकामवृद्धशीलः || 7 ||  भट्टॊत्पलः-अथ सिंहधन्विमीननवांशस्थॆ चन्द्रॆ सूर्यादिदृष्टॆ फलं प्रहर्षिण्याह सक्रॊध इति | सितांशकस्थॆ चन्द्रमस्यर्कदृष्टॆ सक्रॊधः क्रॊधयुक्तॊ भवति| भौमदृष्टॆ नरपतिसम्मतः राजबल्लभः, बुधदृष्टॆ निधीशः निधिना प्राप्तार्थः, गुरुदृष्टॆ प्रभुरप्रतिहताज्ञः, शुक्रदृष्टॆऽसुतः पुत्ररहितः, सौरदृष्टॆऽतिहिंख्नकर्मा क्रूरकर्मणि रतः | जीवांश इत्यादि | जीवांशॆ बार्हस्पत्यॆ नवांशकॆ धन्व्यंशकॆ मीनांशकगतॆ वा स्थितॆ चन्द्रमसि सूर्यदृष्टॆ प्रथितबलः प्रख्यातवीर्यॊ भवति | भौमदृष्टॆ रणॊपदॆष्टा सङ्ग्रामदॆशकालव्यूहरचनाभिज्ञः, बुधदृष्टॆ हास्यज्ञः उपहासवॆत्ता, जीवदृष्ट सचिवः मन्त्री, शुक्रदृष्टॆ विकामः कामहीन पुंस्त्वहीनः, सौरदृष्टॆ वृद्धशीलः धर्ममतिरिति || 7 ||  अल्पापत्यॊ दुःखितः सत्यपि स्वॆ मानासक्तः कर्मणि स्वॆऽनुरक्तः दुष्टस्त्रीष्टः कृपणश्चार्किभागॆ चन्द्रॆ भानौ तद्वदिन्द्वादिदृष्टॆ | 8 ||  भट्टॊत्पलः-अथ मकरनवॆशकस्थॆ कुम्भनवांशकस्थॆ वा चन्द्रॆ सूर्यादिदृष्टॆ जातस्य फल शालिन्याह‌अल्पापन्य इति | आर्किः अर्कस्यापत्यमार्किः तस्य भागॆ शनैश्चरनवांशकॆ मकरनवांशकस्थॆ कुम्भनवांशकस्थॆ वा चन्द्रॆ सूर्यदृष्टॆऽल्पापत्यॊऽल्पप्रसवॊ भवति | भौमदृष्टॆ सत्यपि स्वॆ दुःखितः सत्यपि 392 विद्यमानॆऽपि स्वॆ धनॆ दुःखितॊ भवति | बुधदृष्टॆ मानासक्तः गर्वितः, जीवदृष्टॆ स्वॆ आत्मीयॆ कर्मण्यनुरक्तः कुलानुरूपकर्मकृत् शुक्रदृष्टॆ दुष्टस्त्रीष्विष्टः बल्लभः सौरदृष्टॆ कृपणः आदाता | ऎवं तत्कालनवांशकवशात् ग्रहदृष्ट्या लग्नॆऽपि वक्तव्यम् | किन्तु तत्रापि कर्कटनवांशकं विना चन्द्रदृष्टिरशुभॆति | भानौ तद्वदिन्द्वादिदृष्टॆ भानावादित्यॆ इन्द्वादिदृष्टॆ चन्द्राद्यैग्रहैरवलॊकॆत तद्वतॆनैव प्रकारॆण दृष्टिफलं यत्र तत्र राशौ यत्र तत्र नवांशकस्थॆ चन्द्रमस्यकदिदृष्टॆ तत्फलमुक्तं तद्वत् | यत्र तत्र नवांशकव्यवस्थितॆऽर्कॆ चन्द्रदृष्टॆ तदॆव फलं वाच्यम् भवति | ऎतदुक्तं नवांशकव्यवस्थितस्यादित्यस्य चन्द्रस्य च ताराग्रहदृष्टिफलं तुल्यम् | किन्तु यदादित्यदृष्ट्या चन्द्रस्याक्तं तच्चन्द्रदृष्ट्या सूर्यस्य वक्तव्यम् | तद्यथा मॆषनवांशकस्थॆऽर्कॆ चन्द्रदृष्टॆ आरक्षितॊ भवति | वृषतुलानवांशकस्थॆ मूर्खः, मिथुनकन्यानवांशकस्थॆ रङ्गचरः, सिंहनवांशकस्थॆ सक्रॊधः, धन्विमीननवांशकस्थॆ प्रथितबलः, मकरकुम्भनवांशकस्थॆऽल्पापत्यः, कर्कटनवांशकस्थॆऽल्पगात्रः | ऎवमादित्यस्य नवांशकावस्थितस्य ग्रहदृष्ट्या चन्द्रॆण फलं समानमिति || 8 ||  वर्गॊत्तमस्वपरगॆषु शुभं युदुक्तं तत्पुष्टमध्यलघुताशुभमुत्क्रमॆण | वीर्यान्वितॊंऽशकपतिर्निरुणद्धि पूर्व राशीक्षणस्य फलमंशफलंददाति | 9 ||  इति श्रीवराहमिहिराचार्यविरचितॆ बृहज्जातकॆ दृष्टिफलाध्यायः सम्पूर्णः | 19 || 393 भट्टॊत्पलः-अथास्यैव नवांशकदृष्टिफलस्य विशॆषं वसन्ततिलकॆनाहवर्गॊत्तमॆति | नवांशकव्यवस्थितॆ चन्द्रॆ नवांशकदृष्टिफलं द्विप्रकारमुक्तं शुभमशुभं च | यथा आरक्षिक इतिशुभं, वधरुचिरित्यशुभं च | तत्र वर्गॊत्तमांशकगतॆ चन्द्रॆ यद्ग्रहदृष्टिजं फलं शुभमुक्तं तत्पुष्टमतीव शुभं भवति | स्वांशकस्थॆ तु यच्छुभमुक्तं तन्मध्यमम् | परमपुष्टता मध्यता लघुता च | अशुभमुत्क्रमॆण अशुभमनिष्टं यत्फलं यदुक्तं तदतीवाशुभं भवति | स्वनवांशस्थस्य मध्यमम् | वर्गॊत्तमांशस्थस्य लघुता | ऎवं लग्नादित्ययॊरपि दृष्टिफलं यॊज्यम् | जातकॆ सर्वाण्यॆव फलानि भवन्तीति प्राप्तम् | यस्माद्यवनॆश्वरः || ‘’ - - | यॊगविकल्पनाभिरिदं समुद्राम्बुवदप्रमॆयम् |” इति | अतः सदैव राशिदृष्टिनवांशकदृष्टिफलयॊरपि सदैव पक्तिंप्राप्नॊति | तव नवांशकपतौ बलवति राशिदर्शनफलबाधनार्थमाह-- | वीर्यान्वित इति | यस्मिन्नवांशकॆ व्यवस्थितश्चन्द्रॊ लग्नं वा भवति तस्य नवांशकस्य यॊऽधिपतिः | स चॆद्वीर्यान्वितॊ बलवान् भवति तदा निरुणद्धि पूर्व प्रथमं निवारयति | किं सर्वमॆव नहि | राशीक्षणस्य फलं न हॊराद्रॆष्काणद्वादशभागॆक्षणस्य तद्धित्वांशॆक्षणफलमॆव ददाति | अथांशकॆ पतिर्बलवान्न भवति तदा राशीक्षणांशकॆक्षणफलॆ उभॆ अपि वाच्यॆ | ऎवं चन्द्रलग्नयॊरुभयॊरपि | आदित्यस्य तु नवांशकॆक्षणफलमॆवं वक्तव्यम् | यस्मात्तस्य राशीलक्षणफलमिह नॊक्तमिति || 9 || इति बृहज्जातकॆ श्रीभट्टॊत्पलटीकायां दृष्टिफलाध्यायः || 19 ||  394   395 अथ भावाध्यायः | | 20 || || शूरः स्तब्धॊ विकलनयनॊ निर्घृणॊऽर्कॆ तनुस्थॆ मॆषॆ सस्वस्तिमिरनयनः सिंहसस्थॆ निशान्धः |  नीचॆऽन्धॊऽस्वः शशिगृहगतॆ बुद्बुदाक्षः पतंगॆ भूरिद्रव्यॊ नृपहृतधनॊ वक्त्ररॊगी द्वितीयॆ || 1 ||  भट्टॊत्पलः-अथातॊ भावाध्यायॊ व्याख्यायतॆ | तत्रादित्यस्य लग्नगतस्य द्वितीयस्थस्य च फलं मन्दाक्रान्तयाहशूर इति शूरः संग्रामप्रियः, स्तब्धः चिरकार्यकृत्, विकलनयनः हीनदृष्टिः, निर्घृणः निर्दयः ऎवं विधॊऽर्कॆ रवौ तनुस्थॆ लग्नस्थॆ जातॊ भवति | ऎतत्तावत्सर्वलग्नॆषु सामान्यफलं भवति | अथ मॆषसिंहतुलाकर्कटानामन्यतमॆ लग्नगतॆऽर्कॆ तदा पूर्वॊक्तं फलं न भवति | वक्ष्यमाणं चॊक्तराशीनां प्रतिराशिफलं भवति | तद्यथा मॆषॆ सस्व इति | मॆषलग्नॆ तत्रस्थॆ चार्कॆ सस्वः सार्थः, तिमिरनयनः चक्षुरॊगी भवति | तिमिरश्चक्षुरॊगी प्रसिद्धः | सिंहलग्नॆ तत्रस्थॆ चार्कॆ निशांधः रात्र्यन्धॊ भवति | आदित्यस्य नीचः तुला तस्मिल्लग्नॆ तत्रस्थॆ चार्कॆ सूर्यॆऽन्धॊ नॆत्रहीनॊ स्वः दरिद्रश्च भवति | शशिगृहॆ कर्कटलग्नॆ तत्रस्थॆ पतंगॆ चार्कॆ बुद्बुदॆक्षणः पुष्पिताक्षॊ भवति | भूरिद्रव्य इति | लग्नात् द्वितीयॆऽर्कॆ भूरिद्रव्यः प्रभूतार्थः, नृपहृतधनः राज्ञा हृतस्वॊ, वक्त्ररॊगी मुखपीडितश्च भवति||1 ||   396 मतिविक्रमवांस्तृतीयगॆऽर्कॆ विसुखः पीडितमानसश्चतुर्थॆ | असुतॊ धनवर्जितस्त्रिकॊणॆ बलवाच्छत्रुजितश्च शत्रुयातॆ || 2 || भट्टॊत्पलः-अथ लग्नात् तृतीयचतुर्थपंचमषष्ठस्थानस्थार्कफलमौपच्छन्दसिकॆनाह मतीति | मतिः बुद्धिः, विक्रमः पराक्रमः, ऎतौ विद्यॆतॆ यस्य स तथाविधस्तृतीयगॆऽर्कॆ रवौ भवति | विसुखॊ दुःखितः, पीडितमानसः नित्यॊद्विग्नचितः ऎवंविधश्चतुर्थगॆऽर्कॆ जातॊ भवति | असुतः विपुत्रः, धनवर्जितॊ दरिद्रः ऎवंविधस्त्रिकॊणॆ पञ्चमस्थॆ रवौ जातॊ भवति | बलवान् बलयुक्तः, शत्रुजितश्च शत्रुभिररिभिः जितः ऎवंविधः शत्रुयातॆ षष्टस्थानस्थॆऽर्कॆ जातॊ भवति| कॆचिद्बलवान् नष्टरिपुश्च शत्रुयात इति पठंति | तथा च सत्यः | “षष्ठॆ रिपुरॊगशॊकध्नः |” आचार्यॆणात्र यवनॆश्वरमतमंगीकृतं यतः षष्ठस्थानस्थितानां पापान यवनॆश्वरॆणनिष्ट फलमभिहितम् | तथा च स्फुर्जिध्वजः | “षष्ठाश्रितॊऽर्कॊ विषशस्त्रदाहक्षुद्रॊगशत्रुव्यसनॊपतप्तान् | काष्ठाश्मपाताच्च विशीर्णदन्तान्यूनॆटवीदंष्ट्रिनखिक्षतांश्च | कुजॊ गतस्तत्र परिक्षतांगंदृग्व्याधितं धिक्कृतिकर्शितं च | सौरः शिरॊश्माशनिपातवातद्विमुष्टिघातॊपहतं च कुर्यात्|” अनॆनैवातिदॆशं पापानामाचार्य करिष्यत्यर्कवत् | 2 | स्त्रीभिर्गतः परिभवं मदगॆ पतंगॆ स्वल्पात्मजॊ निधनगॆ विकलॆक्षणश्च | धर्मॆ सुतार्थसुखभाक् सुखशौर्यभाक् खॆ लाभॆ प्रभूतधनवान् पतितस्तु रिःफॆ || 3 || 397 जातस्य स्वरूपं वसंततिलकॆनाहस्त्रीभिर्गत इति | पतङ्गॆ आदित्यॆ मदगॆ सप्तमस्थानस्थॆ जातः स्त्रीभिः यॊषिद्भिः परिभवं गतः प्राप्तॊ भवति | कॆचिन्महतॆ पतङ्ग इति पठन्ति | निधनगॆ अष्टमस्थॆ पतंगॆ सूर्यॆ स्वल्पात्मजः अल्पापत्यः, विकलॆक्षणाश्च विकलॆ अक्षिणी यस्य, अदृढचक्षुर्भवति| हीनदृष्टिर्भवतीत्यर्थः | धर्मॆ नवमस्थॆ सुताः पुत्राः, अर्थॊ धनं, सुखं सुखभावः ऎषां भागी भवति | कॆचिद्धर्मॆ सुतार्थरहित इति पठन्ति | तथा च सत्यः | “साध्वाचारविरॊधं रुजःप्रदॊ दैन्यकृन्नवमसंस्थः |” खॆ दशमॆ सुखशौर्यभाक् सुखितॊ बली च भवति | लाभॆ ऎकादशॆ प्रभूतधनवान् बहुवितॊ भवति | रिःफॆ द्वादशॆ पतितः स्वकर्मपरिभ्रष्टॊ भवति | इत्यादित्यचारः | 3 ||  मूकॊन्मत्तजडान्धहीनवघिरप्रॆष्याः शशाङ्कॊदयॆ स्वर्क्षजॊच्चगतॆ धनी बहुसुतः सस्वः कुटुम्बी धनॆ |  हिंस्रॊ भ्रातृगतॆ सुखॆ सतनयॆ तत्प्रॊक्तभावान्वितॊ नैकारिर्मूदुकायवह्निमदनस्तीक्ष्णॊऽलसश्चारिगॆ || 4 ||  भट्टॊत्पलः-अथ चन्द्रॆ लग्नाद्द्वतीयतृतीयचतुर्थपञ्चमषष्ठस्थॆ जातस्य स्वरूपं शार्दूलविक्रीडि तॆनाहमूक इति | मूकॊ वाग्घीनः, उन्मत्तः ध् कारा जडः अप्रतिपन्नः, अन्धः नॆत्रहीनः, हीनः अनुचितकर्मकृत्, वधिरः श्रॊत्रॆन्द्रियहीनः, प्रॆष्यॊ   398 दासः, ऎषामन्यतमॊ जातः शशांकॊदयॆ शशांकॆ चन्द्रॆ उदयगॆ लग्नस्थॆ जातॊ भवति | ऎतन्मॆषवृषकर्कटवज्र्यम् | तॆषां विशॆषमाह-- | स्वर्क्षजॊच्चगत इति | स्वर्क्षः कर्कटकः तस्मिन् लग्नॆ तत्स्थॆ चन्द्रमसि धनी वित्तवान् भवति | अजॆ मॆषलग्नॆ तत्स्थॆ चन्द्रमसि बहुसुतः प्रभूतपुत्रॊ भवति | चन्द्रस्यॊच्चॊ वृषः तस्मिल्लग्नॆ चन्द्रॆ सस्वः अर्थवान् भवति | धनॆ लग्नात् द्वितीयॆ चन्द्रॆ कुटुम्बी बहुकुटुम्बॊ भवति भ्रातृगतॆ तृतीयस्थानस्थॆ हिस्त्रः क्रूरॊ भवति प्राणिबधकॊ वा | सुखॆ चतुर्थ सतनयॆ तनयॆन पञ्चमॆन स्थानॆन युक्तॆ तत्प्रॊक्तभावान्वितस्तॆन प्रॊक्तॆन कथितॆन भावॆनान्वितॊ युक्तॊ भवति | तॆन सुखॆ सुखितस्तनयॆ पुत्रान्वित इति | नैकरिरित्यनॆकारिः बहुशत्रुः, मृदुकायः सुकुमारशरीरः, मृदुवह्निर्नातिप्रदीप्ताग्निः, मृदुमदनः मैथुनाशीघ्रगः, तीक्ष्णः उग्रस्वभावः, अलसः क्रियास्वपटुः ऎवंविधॊऽरिगॆ लग्नात् षष्ठस्थॆ चन्द्रॆ जातॊ भवति | 4 || ईष्र्युस्तीव्रमदॊ बहुमतिव्र्याध्यर्दितश्चाष्टमॆ सौभाग्यात्मजमित्रबन्धुधनभाग धर्मस्थितॆ शीतगौ | निप्पत्तिं समुपैति धर्मधनधीशौर्यॆर्युतः कर्मगॆ ख्यातॊ भावगुणान्वितॊ भगवतॆ क्षुद्रॊऽङ्गहीनॊ व्ययॆ || 5 || 399 भट्टॊत्पलःअथ लग्नात्सप्तमाष्टमनवमदशमैकादशद्वादशस्थॆ चन्द्रॆ जातस्य स्वरूपं शार्दूलविक्रीडितॆनाह‌ईष्र्युरिति | ईष्र्युः परर्द्धिमत्सरी, तीव्रमदः अतिमदनः ऎवंविधॊ मदॆ सप्तमस्थॆ चन्द्रॆ जातॊ भवति | बहुमतिः बहुप्रज्ञः चपलबुद्धिरित्यर्थः | व्याध्यर्दितः रॊगपीडितः ऎवं विधॊऽष्टमस्थॆ चन्द्रॆ जातॊ भवति , सौभाग्यं सर्वजनवाल्लभ्यं, आत्मजाः पुत्राः मित्राणि सुहदः बान्धवाः स्वजनाः धनं वित्तम् ऎषां भागी भवति | शीतगौ चन्द्रॆ धर्मस्थॆ नवमस्थानाश्रितॆ जातॊ भवति | निष्पत्तिः निष्पादनं सर्वं कर्म समुपैति गच्छति | धर्मधनधीशौर्यॆर्युतः धर्मॆण, धनॆन वितॆन, धिया बुद्धया, शौर्यॆण बलॆन युतः ऎवंविधः कर्मगॆ दशमस्थानस्थॆ चन्द्र जातॊ भवति | ख्यात इति | ख्यातः सर्वत्र प्रसिद्धः भावगुणान्वितः भाव ऎकादशी लाभस्थानं तॆनान्वितः सलाभ इत्यर्थः | ऎवंविधॊ भगवतॆ ऎकादशस्थॆ चन्द्रॆ जातॊ भवति | क्षुद्रॊ हिंस्रस्वभावः, अङ्गहीनः अवयवरहितः ऎवंविधॊ द्वादशस्थॆ चन्द्रॆ जातॊ भवति | इति चन्द्रचारः || 5 || लग्नॆ कुजॆ क्षततनुर्धनगॆ कदन्नॊ धर्मॆऽघवान् दिनकरप्रतिमॊऽन्यसंस्थः | विद्वान् धनी प्रख्नलपण्डितमन्त्र्यशत्रुधर्मज्ञविश्रुतगुणः परतॊऽर्कवज्झॆ | 6 || 400 भट्टॊत्पलः-अथ लग्नादिस्थयॊर्भॊमबुधयॊजातस्य स्वरूपं वसन्ततिलकॆनाह लग्न इति | लग्नस्थॆ कुजॆ प्रहारादिना क्षततनुः विक्षतशरीरः, धनगॆ द्वितीयस्थॆ कदन्नः कुत्सितान्नाशी भवति | धर्मॆ नवमॆ अघवान् पापरतॊ भवति | अन्यसंस्थॊ दिनकरप्रतिमः अन्यॆषु परिशिष्टस्थानॆधु स्थितॊ दिनकरप्रतिमॊऽर्कतुल्यफलः तृतीयचतुर्थपञ्चमषसप्तमाष्टमदशमैकादशद्वादशॆषु यान्यॆवादित्यस्य फलान्यभिहितानि तान्यॆव भौमस्य वाच्यानि | तद्यथा | तृतीयॆ मतिविक्रमवांश्चतुर्थॆ विसुखः पीडितमानसः, पञ्चमॆ सुतधनवर्जितः, षष्ठॆ बलवान्| शत्रुजितश्च, सप्तमॆ स्त्रीभिः परिभवं गतः, अष्टमॆ स्वल्पात्मजः विकलॆक्षणश्च, नवमॆ सुतार्थसुखभाक्, दशमॆ सुखशौर्यवान्, ऎकादशॆ प्रभूतधनवान्, द्वादशॆ पतितः | इति भौमाचारः | अथ बुधचारः | विद्वान् धनीत्यादि | ज्ञॆ बुधॆ लग्नगतॆ विद्वान् पण्डितॊ भवति, द्वितीयॆ धनी धनवान्, तृतीयॆ प्रखलः प्रकर्षॆण खलॊ दुर्जनः, चतुर्थॆ पण्डितः, पञ्चमॆ मन्त्री, मन्तसत्बान्ध्ः विगतरिपुः सप्तमॆ धर्मज्ञः विश्रुतगुणः, परतॊऽनन्तरान्यस्थानॆऽर्कवत् सूर्यवत् | नवमदशमैकादशद्वादशॆषु यान्यर्कस्य फलान्यभिहितानि तान्यॆव बुधस्य वाच्यानि | तद्यथा | नवमॆ सुतार्थसुखभाक् , दशमॆ सुखशौर्यभाक् ऎकादशॆ प्रभूतधनवान्, द्वादशॆ पतित इति| इति बुधचारः || 6 || 401 विद्वान्सुवाच्यः कृपणः सुखी च धीमानशत्रुः पितृतॊऽधिकश्च | नीचस्तपस्वी सधनः सलाभः खलश्च जीवॆ क्रमशॊ विलग्नात् || 7 || भट्टॊत्पलः-अथ लग्नादिस्थस्य जीवस्य फलमिन्द्रवज्रयाह विद्वानिति | जीवॆ गुरौ वलिग्नात्प्रभृति स्थितॆषु द्वादशॆषु स्थानॆधु क्रमशः परिपाट्यैतानि फलानि | तद्यथा || लग्नस्थॆ गुरौ विद्वान् पण्डितॊ भवति | द्वितीयॆ सुवाक्यः शॊभनवचनः, तृतीयॆ कृपणः अदाता, चतुर्थॆ सुखी, पञ्चमॆ धीमान् बुद्धिमान्, मन्त्षान्थ्ः विगतरिपुः, सप्तमॆ पितृतॊऽधिकः पितुः सकाशाद्गुणधिकः, अष्टमॆ नीचः स्वकुलानुचितकर्मकृत्, नवमॆ तपस्वी विद्यमानतपाः, दशमॆ सधनः सवित्तः, ऎकादशॆ सलाभः लाभयुक्तः, द्वादशॆ खलः क्रूरचॆष्टः | इति बृहस्पतिचारः || 7 || स्मरनिपुणः सुखितश्च विलग्नॆ प्रियकलहॊऽस्तगतॆ सुरतॆप्सुः | तनयगतॆ सुखितॊ भृगुपुत्रॆ गुरुवदतॊऽन्यगृहॆ सधनॊऽन्त्यॆ || 8 ||  भट्टॊत्पलः-अथ लग्नादिस्थस्य शुक्रस्य फलं चित्रतयाह स्मरनिपुण इति | स्मरनिपुणः कामकुशलः, सुखितः सञ्जातसुखः ऎवंविधॊ विलग्नस्थॆ भृगुपुत्रॆ शुक्रॆ जातॊ भवति | प्रियकलहः कलहवल्लभः, सुरतॆप्सुः सुरताभिलाषी ऎवंविधॊऽस्तगतॆ सप्तमस्थॆ शुक्रॆ जातॊ भवति | तनयगतॆ पञ्चमस्थॆ शुक्रॆ सुखितॊ भवति | गुरुवदतॊऽन्यगृहॆ अतॊऽस्मात्स्थानत्रयादन्यस्मिन् गृहॆ स्थानॆ गुरुवत् जीवत्फलानि वक्तव्यानि | द्वितीयतृतीयचतुर्थषष्ठाष्टमनवम 402 दशमैकादशद्वादशॆषु यान्यॆव गुरॊः बृहस्पतॆः फलान्यभिहितानि तान्यॆव शुक्रस्य वक्तव्यानि | तद्यथा | द्वितीयॆ सुवाक्यॊ भवति | तृतीयॆ कृपणः, चतुर्थॆ सुखी, षष्ठॆऽशत्रुः, अष्टमॆ नीचः, नवमॆ तपस्वी, दशमॆ सधनः, ऎकादशॆ सलाभः, द्वादशॆ खलः, सधनॊऽन्त्यॆ अन्त्यॆ मीनॆ यत्र तत्र भावस्थॆ सधनः वित्तवान्भवति | स्थानॊक्तं तत्फलं न भवति | कॆचिद्गुरुवदतस्तु झषॆ द्रविणी स्यादिति पठन्ति | अतॊऽनन्तरं परिशॆषस्थानॆषु गुरुवत् | झषॆ मीनॆ द्रविणी स्यात् भवॆदिति | इति शुक्रचारः || 8 ||  अदृष्टार्थॊ रॊगी मदनवशगॊऽत्यन्तमलिनः शिशुत्चॆ पीडार्तः सवितृसुतलग्नॆत्यलसबाक् | गुरुस्वक्षौच्चस्थॆ नृपतिसदृशॊ ग्रामपुरपः सुविद्वांश्चार्वङ्गॊ दिनकरसमॊऽन्यत्र कथितः || 9 ||  भट्टॊत्पलः-अथ लग्नादिस्थस्य सौरस्य फलं शिखरिण्याह अदृऽटार्थॊ रॊगीति | अदृष्टार्थः नित्यं दरिद्रः, रॊगी व्याधित, मदनवशगः कामाधीनः अत्यन्तमलिनः अतीव-मलॊपॆतः, शिशुत्वॆ बाल्यॆ पीडार्ता व्याध्यर्दितः, अलसवाक् अव्यक्तभाषी, ऎवंविधः सवितृसुतॆ सौरॆ लग्नस्थितॆ जातॊ भवति | यदि तुलाधन्विमकरकुम्भमीनानामन्यतमॊ राशिः लग्नगतॊ न भवति तदा तदॆव तदुक्तं फलं भवति | ऎषामन्यतमॆ लग्नगॆ तस्य सौरस्य फलमाह-- | गुरुस्वक्षांच्चस्थ इति | गुरुक्षॆत्रॆ धन्विमीनौ शनैश्चरस्य स्वश्लॆ स्वक्षॆत्रॆ मकरकुम्भौ तस्यैवौच्चस्तुला ऎषामन्यतमॊ राशिः यदि लग्नगतॊ भवति तत्र स्थितॆ च सौरॆ नृपतिसदृशः राजतुल्यॊ भवति | ग्रामपुरपः ग्रामाणां पुराणां 403 वाधिपतिः, सुविद्वान् पण्डितः चार्वङ्गः शॊभनावयवश्च भवति | कॆचित्सुहृत्स्वक्षांच्चस्थ इति पठन्ति तदयुक्तम् | (|| ई?(र्?ःट् | स्वॊच्चॆस्वजीवभवनॆ क्षितिपालतुल्यॊ लग्नॆऽर्कजॆ भवति दॆशनराधिनाथः | शॆषॆषु दुःखगदपीडित ऎव बाल्यॆ दारिद्रयकामवशगॊ मलिनॊऽलसश्च |” दिनकरसमॊऽन्यत्र कथित इति | अन्यत्र द्वितीयादिषु स्थानॆषु दिनकरसमॊऽर्कतुल्यः कथित उक्तॊ यान्यादितयस्य फलान्यभिहितानि तान्यॆव सौरस्य वाच्यानि | तद्यथा | द्वितीयॆ भूरिद्रव्यॊ नृपहृतधनॊ वक्त्ररॊगॊ च भवति, तृतीयॆ मतिविक्रमवान्, चतुर्थॆ विसुखः पीडितमानसः, पञ्चमॆ असुतॊ धनवर्जितः, षष्ठॆ बलवान् शत्रुनिर्जितः, सप्तमॆ स्त्रीभिः परिभवं गतः, अष्टमॆ स्वल्पात्मजॊ विक्रलॆक्षणश्च, नवमॆ सुतार्थसुखभाक्, दशमॆ सुखशौर्यमाक्, ऎकादशॆ प्रभूतधनवान्, द्वादशॆ पतित इति शनैश्चरचारः || 9 || सुहृदरिपरकीयस्वर्शयुङ्गस्थितानां फलमनुपरिचिन्त्यं लग्नदॆहादिभावैः | समुपचयविपत्ती सौम्यपापॆषु सत्यः कथयति विपरीतं रिःफषष्ठाष्टमॆषु || 10 ||  भट्टॊत्पलः-अथ लग्नादारभ्य यॆ तन्वादयॊ भावास्तॆषु भावॆषु व्यवस्थितानां सर्वॆषामॆव ग्रहाणां फलविशॆषं मालिन्याह सुहृदरि | यदॆतत्प्रतिगृहं लग्नात्प्रभृति द्वादशसु स्थानॆषु फलमनुपरिचिन्त्यम् | भावाः तनुकुटुम्बसहॊत्थादयः | लग्नदॆहादिभावैरिति | लग्नं दॆहः शरीरं परिकल्प्यम्, लग्नादारभ्य तनुकुटुम्बसहॊत्थादयॊ भावाः परिकल्प्याः| अत्र का भ्रान्तिः ? तत्रॊच्यतॆ | अस्त्यॆव | यस्माद्यवनॆश्वरः | मृर्ति 404 च हॊरां शशिभं च विद्यात् इति | अत्र शशिभान्न परिकल्प्या लग्नात्परिकल्प्याः तॆषु शरीरादिभावॆषु यॊ ग्रहॊ व्यवस्थितः स तस्य भावस्य पुष्टि कृशतां वा करॊति| कथमित्याह ? सुहृदरिपरकीयस्वक्षतुङ्गस्थितान फलमनुपरिचिन्त्यमिति| सुहृत् क्षॆत्रं मित्रर्क्षं अरिक्षॆत्रं शत्रुभं परकीयमुदासीनभं स्वर्क्षमात्मीयक्षॆत्रं तुङ्गमुच्चभम् ऎतॆषु स्थानॆधु स्थितान फलमनुपरिचिंत्यं परिकल्प्यम् | भावस्थॊ| ग्रहॊ यादृशॆ क्षॆत्रॆ भवति तादृशं फलं प्रयच्छति | नन्वत सुहृदादिक्षॆत्राण परिगणना कृता तत्र न शुभाशुभफलविभाग उक्तः | उक्तः उच्यतॆ | अर्थादॆवैतद्गम्यतॆ | यथा मित्रक्षॆत्रस्थॊ भाववृद्धि करॊति शत्रुक्षॆत्रादिस्थश्च तद्धानिम् | तत्र च यॆ शुभाशुभक्षॆत्रॆ नॊक्तॆ त्रिकॊणनीचभॆ तॆ अपि ग्राह्यॆ | मित्रादिक्षॆत्रान्यक्षॆत्रॊपलक्षणानि ज्ञॆयानि | कः पुनरपि अरिपरकीययॊविशॆष उच्यतॆ | उदासीनॊऽत्र परॊऽभिप्रॆतः, अरिः शत्रुः, पर उदासीनः, तत्रैतदुक्तं भवति | पापः सौम्यॊ वा नीचस्थः शत्रुक्षॆत्रस्थॊ वा यस्मिन्भावॆ व्यवस्थितः तस्य भावस्य हानिं करॊति | उदासीनक्षॆत्रस्थॆ न हानिं न च वृद्धिम् | मित्रक्षॆत्रॆ स्वक्षॆत्रॆ मूलत्रिकॊणॆ स्वॊच्चॆ व्यवस्थितॊ भावस्य वृद्धिमिति | ऎतत्कॆर्षाचिन्मतॆ | तथा च भगवान्गार्गिः“नीचक्षरिपुगॆहस्थॊ ग्रहॊ भावविनाशकृत्| उदासीनगृहॆ भव्यॊ मित्रर्क्षस्वत्रिकॊणगः| स्वॊच्चगश्च ग्रहॊऽवश्य भाववृद्धिकरः स्मृतः |” इति | सत्याचार्यस्तु पुनः समुपचयविपत्ती सौम्यपापॆषु कथयति यस्मिन् भावॆ सौम्याः स्थितास्तस्य भावस्य वृद्धिं कुर्वन्ति, यस्मिन् भावॆ पापाः स्थितास्तस्य भावस्य विपति हानिं कुर्वन्ति | किन्तु रिःफषष्ठाष्टमॆष्वॆतद्विपरीतं कथयन्ति | रिःफॆ द्वादशॆ स्थानॆ भावहानि कुर्वन्ति पापाः वृद्धिं तॆन रिःफॆ सौम्याः व्ययहानिं कुर्वन्ति पापाः व्ययवृद्धिम् | षष्ठॆ सौम्याः शत्रुहानिं कुर्वन्ति पापाः शत्रुवृद्धिम् | अष्टमॆ सौम्याः मृत्युहानिं कुर्वन्ति पापाः मृत्युवृद्धिमिति | तथा च सत्यः“सौम्याः पुष्टि पापस्तद्धानिं संश्रिता ग्रहाः कुर्युः | मत्र्यादिषु निधनॆंऽत्यॆ षष्ठॆ च विपर्ययात्फलदाः ||” ननु पूर्व सौम्यानां पापानां चॊपचयस्थानावस्थितानां शुभं फलं व्याख्यातं तत्कथं षष्ठस्थाः पापाः शत्रुवृद्धिं कुर्वन्ति | अत्रॊच्यतॆ पूर्वं | सामान्यॆनॊक्तम् | 405 यत्र च वाचनिकी बाधा भवति तत्र सामान्यं भावफलं त्यक्त्वा यथॊंक्तफलं वक्तव्यम् | यद्यॆवं कथं स्वल्पजातकॆ उक्तम् | “पुष्णंति शुभा भावान्मूत्र्यादीन घ्नन्ति संस्थिताः पापाः | सौम्याः षष्ठॆऽरिघ्नाः सर्वॆ नॆष्टा व्ययाष्टमगाः ||” इति | अत्रॊच्यतॆ | बृहज्जातकॆ आचार्यॆणॊक्तं स्वल्पजातकॆऽन्याचार्यमतॆन प्रतिज्ञातमाचायॆण | “ज्यौतिषमागमशास्वं विप्रतिपतौ म यॊग्यस्माकम् | स्वयमॆव विकल्पयितुं किन्तु बहूनां मतं वक्ष्तॆ |” यत्राचार्याणां समसंख्यानां मतभॆदसमत्वं भवति तत्र वराहमिहिरॊ मतद्वयमपि दर्शयति | तथा च बृहद्यात्रायाम्नयरूपां ग्रहकुण्डलिकां स्वल्पयात्रायां सामान्यरूपां पठति | ऎवं बृहदल्पयॊर्विवाहपटलयॊरपि || 10 ||  406 उच्यॆति | ग्रहकुण्डलिकायां फलं द्विविधमुतं शुभमशुभं च | तत्र यच्छुभं फलं तदुच्चत्रिकॊणस्वसुहृच्छत्रुनीचगृहार्कगैग्रहर्दतं यथाक्रमं पादॊनदलपादाल्पनिष्फलं भवति | तॆनॊच्चस्थॊ ग्रहः सम्पूर्ण प्रयच्छति | मूलत्रिकॊणस्थः पादॊनं, स्वक्षॆत्रस्थॊऽर्ध, मित्रक्षॆत्रस्थः पादफलं, शत्रुक्षॆत्रस्थः पादादप्यल्प, नीचस्थॊऽस्तमितश्च न किञ्चिदपि | ऎवं शुभफलम् | शुभग्रहणादॆवाशुभस्य ग्रहस्य व्युत्क्रमॊ व्याख्यॆयः | तत्रास्तमितॊ नीचस्थश्चाशुभं फलं संपूर्णं प्रयच्छति | शत्रुक्षॆत्रस्थः पादॊनं, मित्रक्षॆत्रस्थॊऽर्धं, स्वक्षॆत्रस्थः पादं, त्रिकॊणस्थः पादादप्यल्पम् , उच्चस्थौ न किंचिदपि | ऎवं जातककालॆ ग्रहस्यावस्थानात्फलं वाच्यम् | दशाष्टकवर्गादिफलपक्तिकालॆ शुभमशुभं वा पुष्टफलं बलवानॆव प्रयच्छति | ऎतच्च पूर्वमॆव व्याख्यातम् | उक्तं च तत्कालं बलयुक्तॊ भवति यदि दशाधिपस्तस्य | शुभमशुभं वापि फलं वक्तव्यं नित्यमॆव परिपूर्णम् |” 11 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां भावाध्यायः || 20 ||  407 408 अथाश्रययॊगाध्यायः || 21 || कुलसमकुलमुख्यबन्धुपूज्या धनिसुखिभॊगिनृपाः स्वभैकवृद्धया | परविभवसुहृत्स्वबन्धुपॊप्या गणपबलॆशनृपाश्च मित्रभॆषु | 1 |  भट्टॊत्पलः-अथात आश्रययॊगाध्यायॊ व्याख्यायतॆ | अत्रादावॆवैकादि संख्यॊत्तरवृद्धया स्वगृहगतानां ग्रहाणां मित्रक्षॆत्रगतानां च फलं पुष्पिताग्रयाहकुलसमकुलॆति | स्वभॆषु स्वराशिष्वॆकवृद्धया स्थितैः ग्रहैर्जाताः कुलसमकुलमुख्यबन्धुपूज्या धनिसुखिभॊगिनृपाः पुरुषाः भवन्ति | यस्मिस्तस्मिन् ग्रहॆ स्वक्षॆत्रतजातः कुलसमः स्वकुलतुल्यॊ भवति | ऎवं द्वयॊः स्वक्षॆत्रस्थयॊः कुलमुख्यः स्वकुलप्रधानः स्वकुलाधिकः, त्रिषु बन्धूनां पूज्यः, चतुर्षु धनी वित्तवान्, पंचसु सुखी, षट्सु भॊगी नृपतुल्यः कॆचिद्दभूप इति पठन्ति | स चॊपमानाद्भूपतिरिव भूपस्तत्सत्वमॆवमुक्तम् | स्वल्पजातकॆऽप्युक्तम् | “कुलतुल्यकुलाधिकबन्धुमान्यधनिभॊगिनृपसमनरॆद्राः |” ऎवं षटसु नृपसमः, सप्तसु नृपॊ राजा, ऎवंगुणः ऎकॊत्तरवृद्धया स्वक्षॆत्रगॆषु जातॊ भवति | परविभवॆत्यादि | ऎकवृद्धया स्थितॆषु परविभवसुहृत्स्वबन्धुपॊष्या गणपबलॆशनृपाश्च जाता भवन्ति | तॆनैकस्मिन् मित्रक्षॆत्रस्थॆ ग्रहॆ जातः परविभवपॊष्यॊ भवति | पराजीवीत्यर्थः | द्वयॊः सुहृत्पॊष्यः, त्रिषु स्वपॊष्यॊ ज्ञातिपॊष्यॊ भवति | चतुर्षु बन्धुपॊष्यः भ्रातृपॊष्य इत्यर्थः | पञ्चसु गणपः गणस्वामी, षट्सु बलॆशॊ सॆनापतिः, सप्तसु नृपॊ राजा | 1 ||  409 जनयति नृपमॆकॊऽप्युच्चगॊ मित्रदृष्टः प्रचुरधनसमॆतं मित्रयॊगाच्च सिद्धम् विघनविसुखमूढव्याधितॊ बन्धतप्तॊ वधदुरितसमॆतः शत्रुनीचक्षगॆषु | 2 || भट्टॊत्पलः-अथॊच्चगतस्यैकस्यापि मित्रदृष्टस्य फलॆमॆकॊत्तरवृद्धया नीचशत्रुस्थानानां च मालिन्याहजनयतीति | ऎकॊऽप्युच्चगतॊ ग्रहॊ मित्रदृष्टः सुहृदवलॊकितः नृपं राजानं जनयति उत्पादयति ऎवमॆकॊऽप्युच्चगतॊ मित्रयॊगान्मित्रयुक्तत्वात्प्रचुरधनसमॆतं सिद्धं च जनयति प्रचुरधनसमॆतं पार्यप्तवित्तयुक्तं सिद्धं च सर्वत्रावाप्तपूजं जनयति | विधनविसुखमूढॆत्यादि | ऎकवृद्धया शत्रुनीचक्षगॆषु शत्रुक्षॆत्रस्थॆषु नीचगॆषु वा ग्रहॆषु विधनविसुखमूढव्याधिता बन्धतप्तां बधदुरितसमॆता जाताः भवन्ति | तॆन यस्य जन्मन्यॆकॊ ग्रहः शत्रुक्षॆत्रगॊ नीचगॊ वा भवति स विधनः विगतधनॊ भवति दरिद्रः | यस्य द्वौ स विसुखॊ दुःखितः | यस्य त्रयः स मूढः विचित्तः | यस्य चत्वारः स व्याधितः पीडितः | यस्य पञ्च स बन्धनतप्तॊ भवति| यस्य षट् स तप्तॊ भवति बहुदुःखसंतप्तः यस्य सप्त स वधदुरितसमॆतॊ भवति | वधवध्यॊ दुरितं दुष्कृतं वध ऎव दुरितं तॆन समॆतॊ वा | नीचॆ यद्यपि सप्त न सम्भवन्ति तथापि वज्रादिवत्पूर्वशास्त्रानुसारॆण तत्फलॊपदॆशः | 2 || 410 न कुम्भलग्नं शुभमाह-- सत्यॊ न भागभॆदाद्यवना वदन्ति |  कस्यांशभॆदॊ न तथास्ति राशॆरतिप्रसङ्गस्चिति विष्णुगुप्तः | 3 |  भट्टॊत्पलः-अथ कुम्भलग्नजातस्याशुभं फलमुपजातियाहन कुम्भलग्नमिति |सत्याचार्यः कुम्भलग्नं जन्मनि न शुभमाह-- न शॊभन मुक्तवान् | तथा च सत्यः“जन्मनि चन्द्रः श्रॆष्ठः प्रवदॆद्धॊरारिनिधनवर्जः स्यात्| हॊरा च भवॆदिष्ट द्विपदॆष्विह कुम्भवज्र्य हि | कुम्भविलग्नॆ जातॊ भवति नरॊ दुःखशॊकसन्तप्तः |” इति | न भागभॆदादिति | पुराणयवना भागभॆदाद्द्वादशभागभॆदाज्जन्मनि कुम्भलग्नमशुभमिति यस्य तस्य लग्नस्य कुम्भद्वादशभागॆ जन्म न शुभमिति तॆषां मतं न कुम्भलग्नॆ | तथा च तन्मातानुसारिणा श्रुतकॊर्तिना“सर्वस्मिल्लग्नगतॆ कुम्भद्विरसांशकॊ यदा भवति | राशौ न तदा सुखितः परान्नभॊजी भवॆत्पुरुषः|” इति | अत्र विष्णुगुप्तचाणक्यावाहतुः | कस्यांशभॆद इति | यदुक्तम् | भागभॆदात्कुम्भलग्नं 411 जन्मनि न शुभम् | तत्कस्य राशॆलीग्नगतस्य | कुम्भद्वादशभागॊ नास्त्यपि तु सर्वस्यैवास्ति विद्यतॆ | तस्माद्यदि कुम्भस्य द्वादशभागॊ न शुभस्तदा सर्वाण्यॆव लग्नॊक्तानि फलानि निरर्थकानि भवन्ति | तस्मादति प्रसङ्गः | तॆन कुम्भलग्नमॆवाशुभं न तत्तद्भागभॆद इति | तथा च तद्वाक्यम् | “कुम्भद्वादशभागॊ लग्नगतॊ न प्रशस्यतॆ यवनैः | यद्यॆवं सर्वॆषां लग्नगतानामनिष्टफला स्यात् | घटयॊगाद्राशीनां न मतं तत्सर्वशास्त्रकाराणाम् | तस्मात्कुम्भविलग्नॊ जन्मन्यशुभॊ न तद्भागः |” इति || 3 || यातॆष्वसत्स्वसममॆषु दिनॆशहॊरां ख्यातॊ महॊद्यमबलाथयुतॊऽतितॆजाः | 

चान्द्रीं शुभॆषु युजि मार्दवकान्तिसौख्यसौभाग्यधीमधुरवाक्ययुतः प्रजातः || 4 ||  भट्टॊत्पलः-अधुना हॊरास्थानां ग्रहाणां फलं वसंततिलकॆनाहयातॆष्विति | असद्ग्रहाः पापाः तॆष्वसत्सु पापॆषु असमभॆषु विषमराश्यवस्थितॆषु न कॆवलं यावद्दिनॆशहॊरामादित्यहॊरां यातॆषु प्राप्तॆषु विषमराशिषु पापाः प्रथमार्धस्था यदा भवन्ति तदा जातः ख्यातः सर्वत्र प्रसिद्धः महॊद्यमबलार्थयुतः महत्सु कार्यॆषूद्यमरतॊ, बलवान् वीर्यवान्, अर्थयुतॊ धनवान्, अतितॆजा अतितॆजस्वी भवति | चान्द्री शुभॆष्विति | युजि युग्राशौ शुभॆषु   412 सौम्यग्रहॆषु सौम्यग्रहॆषु चान्द्री हॊरां यातॆषु समराशिषु प्रथमार्धस्थाः सौम्या भवन्ति तदा जातॊ मार्दवयुतॊ मृदुस्वभावः, कान्तियुतॊ द्युतिमान्, सौख्ययुतः सुखान्वितः सौभाग्ययुतः सर्वजनप्रियः, धीयुतः मतिवान्, मधुरवाक्ययुतः प्रियंवदः ऎतैः गुणैर्युक्तॊ जातॊ भवति | 4 ||  तास्वॆव हॊरास्वपरक्षगॆषु ज्ञॆया नराः पूर्वगुणॆषु मध्याः |  व्यत्यस्तहॊराभवनस्थितॆषु मत्या भवन्त्युक्तगुणैर्विहीनाः || 5 ||  भट्टॊत्पलः-अथ पुनरपि हॊरागतफलमिन्द्रवज्रयाह तास्वॆवॆति | तास्वॆव पूर्वॊक्तासु हॊरास्वपरक्षगॆष्वन्यराश्याश्रितॆषु जाता नराः सर्वॆषु पूर्वॊक्तगुणॆषु मध्याः भवन्ति | ऎतदुक्तं भवति | समराशिषु रविहॊरायां पापग्रहाणामवस्थानं भवति तदा जातानां पूर्वॊक्तगुणा मध्या भवन्ति | ऎवं विषमराशिषु चन्द्रहॊरायां सौम्यग्रहाणामवस्थानं भवति तदा जातानां पूर्वॊक्तगुणा मध्या भवति | व्यत्यस्तहॊराभवनस्थितॆष्विति व्यात्यस्तासु विपरीतस्थासु हॊरासु व्यत्यस्तॆषु च भवनॆषु राशिषु स्थितॆषु ग्रहॆषु जाता मत्र्या मनुष्या उक्तगुणैः प्रागुद्दिष्टैः गुणैः विहीना वर्जिता भवन्ति | ऎतदुक्तं भवति समराशिषु चन्द्रहॊरायां पापानामवस्थानं भवति तदा जाता महॊद्यमबलार्थहीना भवन्ति वितॆजसश्च | ऎवं विषमराशिषु आदित्यहॊरायां सौम्यानामवस्थानं भवति तदा जाता मार्दवकान्तिसौख्यसौभाग्यधीमधुरवाक्यविहीना भवन्ति | अत्र च दर्शितॆ ग्रहावस्थानॆ यथा यथा ग्रहबहुत्वं भवति तथा तथा गुणबहुत्वं वक्तव्यम्||5||  413 कल्याणरूपगुणमात्मसुहृद्दृकाणॊ चन्द्रॊऽन्यगस्तदधिनाथगुणं करॊति | व्यालॊद्यतायुधचतुश्चरणाण्डजॆषु तीक्ष्णॊऽतिहिंस्रगुरुतल्परतॊऽटनश्च || 6 ||  भट्टॊत्पलः-अथ द्रॆष्काणावस्थानाच्चन्द्रस्य फलं वसन्ततिलकॆनाहकल्याणरूपगुणमिति | आत्मीयद्रॆष्काणॆ यदा चन्द्रः स्थितॊ भवति अथवा सुहृदॊष्काणॆ स्थितस्तदा जातः कल्याणरूपगुणः प्रसस्तरूपः प्रशस्तगुणश्च भवति| आत्मीद्रॆष्काणमित्रद्रॆष्काणावस्थानं विनान्यद्द्रॆष्काणावस्थितॆ चन्द्रमसि विचारः | यस्मादुक्तान्यगस्तदधिनाथगुणं करॊति | यस्मिन्द्रॆष्काणॆ चन्द्रमा व्यवस्थितस्तस्य यॊऽधिपतिः स यदि चन्द्रस्य तत्कालमध्यस्थस्तदा जातस्य मध्यमौ रूपगुणौ भवतः | अथ द्रॆष्काणाधिपतिश्चन्द्रस्य तत्कालमरिस्तदा जातॊ रूपगुणहीनॊ भवति | व्यालॊद्यतांयुधॆति | व्यालद्वॆष्काणः सर्पद्रॆष्काणस्तत्रस्थॆ चन्द्रॆ जातः तीक्ष्ण उग्रॊ भवति | उद्यतायुधद्रॆष्काणः सायुधस्तत्स्थॆ चन्द्रॆ जातॊऽतिहिंख्नॊ मारणात्मकॊ भवति | प्राणिघातरत इत्यर्थः | चतुश्चरणः तत्रस्थॆ चन्द्र गुरुतल्परतॊ गुरुदाराभिगामी भवति | अण्डजद्रॆष्काणः पक्षिद्वॆष्काणस्तत्रस्थॆ चन्द्रॆऽटनः परिभ्रमणशीलॊ भवति | आत्मीयादिद्रॆष्काणस्थॆ चन्द्रमसि व्यालद्रॆष्काणस्थॆ चन्द्रॆ संभवतः फलद्वयमपि वक्तव्यम् | अत्र व्यालद्रॆष्काणाः कर्कटद्वितीयः कर्कटतृतीयः वृश्चिकाद्यः वृश्चिकद्वितीयः मीनतृतीयः उद्यतायुधद्रॆष्काणाः | मॆषाद्यः मॆषातृतीयः मिथुनद्वितीयः मिथुनतृतीयः, सिंहतृतीयः, कन्याद्वितीयः तुलातृतीयः, धनुषि प्रथमः धनुषि तृतीयः, मकरतृतीयः | अथ चतुष्पदद्रॆष्काणाः मॆषद्वितीयः वृषद्वितीयः वृषतृतीयः कर्कप्रथमः सिंहप्रथमः सिंहद्वितीयः तुलातृतीयः वृश्चिकतृतीयः धनुषि प्रथमः मकराद्यः | अथ खगद्रॆष्काणाः | मिथुनद्वितीयः सिंहप्रथमः तुलाद्वितीयः कुम्भप्रथमः | अत्रापि गुणद्वयान्तर्भूतद्रॆष्काणस्थॆ चन्द्रॆ फलद्वयं वक्तव्यमिति||6||  414 स्तॆनॊ भॊक्ता पण्डिताढत्यॊ नरॆन्द्रः क्लीबः शूरॊ विष्टिकृद्दासवृत्तिः | पापॊ हिंस्रॊऽभीश्च वर्गॊत्तमांशॆष्वॆषामीशा राशिवद्द्वादशांशैः || 7 ||  भट्टॊत्पलः-अधुना मॆषादिनवांशकजातस्य स्वरूपं शालिन्याह स्तॆन इति | मॆषवज्र्यान्यस्मिन् राशौ लग्नगतॆ मॆषनवांशकॆ जातः स्तॆनश्चौरॊ भवति | वृषवज्र्यवृषनवांशकॆ जातॊ भॊक्ता असञ्चयशीलः | ऎवं मिथुनवज्र्यं मिथुननवांशकॆ जातः पण्डितॊ विद्वान्भवति | कर्कटनवांशकॆ जातः आढयः ईश्वरः | सिहांशकॆ नरॆन्द्रॊ राजा | कन्यांशकॆ क्लीबः पुरुषाकाररहितः| तुलांशकॆ शूरः संग्रामप्रियः | वृश्चिकांशस्थॆ विष्टिकृद्भारजीवी | धन्व्यंशकॆ दासवृत्तिः | मकरांशकॆ पापः | कुम्भांशकॆ हिंस्रः क्रूरः | मीनांशकॆऽभीः निर्भयः| कॆचिदधीरिति पठन्ति | अधीः बुद्धिरहितः | आचार्यस्य चाभीरभिमतम्| तथा च स्वल्पजातकॆ | “तस्करभॊक्तृविचक्षणधनिनृपतिनपुंसकाभयदरिद्राः | खलपापॊप्रॊत्कृष्ट मॆषाद्यानां नवांशभवाः |” इति | वर्गॊत्तमांशॆष्वॆषामीशाः | ऎष्वॆव राशिषु वर्गॊत्तमांशॆषु जाता ऐषामॆव पूर्वॊक्तानामीशाः स्वामिनॊ भवन्ति | मॆषलग्नॆ मॆषनवांशकॆ जातश्चौरस्वामी भवन्ति | वृषलग्नॆ वृषनवांशकॆ जातॊ भॊक्तृणामसञ्चयशीलानां स्वामी भवति | ऎवं मिथुनॆ पण्डितस्वामी | कर्कटलग्नॆ ईश्वराणां स्वामीं महाधनिकः | सिंहॆ 415 नृपस्वामी महाराजाधिराजः | कन्यायां क्लीबस्वामी | तलायां शूराणां स्वामी | वृश्चिकॆ भारवाहानां स्वामी | धन्विनि दासानां स्वामी | मकरॆ पापानां स्वामी | कुम्भॆ क्रूराणां स्वामी | मीनांशकॆऽभयानां स्वामी | राशिवद्द्वादशांशैरिति | द्वादशांशः राशिवत्फलानि वाच्यानि यानि मॆषादिस्थॆ चन्द्रमसि फलान्यभिहितानि वृत्ताताम्रदृगित्यॆवमादीनि तान्यॆव मॆषादिद्वादशांशकजातस्य वक्तव्यानीति | 7 || जायान्वितॊ बलविभूषणसत्त्वयुक्तस्तॆजॊऽतिसाहसयुतश्च कुजॆ स्वभागॆ | रॊगी मृतस्वयुवतिर्विषमॊऽन्यदारॊ दुःखी परिच्छदयुतॊ मलिनॊऽर्कपुत्रॆ || 8 ||  भट्टॊत्पलः-अथ भौमसौरयॊःस्वत्रिशांशक्रस्थयॊः फलं वसन्ततिलकॆनाहजायान्वित इति | जायान्वितॊ भार्यायुक्तः, बलं वीर्य, विभूषणानन्यलङ्करणानि, सत्त्वमौदार्यमॆतर्युक्तः तथातितॆजाः अतिसाहसॆनासमीक्षितकार्यकरणॆन च युक्तः, ऎवविधः कुजॆ भौमॆ स्वभागॆ स्वत्रिंशांशकस्थॆ जातॊ भवति | रॊगी व्याधितः, मतस्वयुवतिः मृता स्वा आत्मीया युवतिर्भार्या यस्य | विषमः क्रूरः, अन्यदारॊऽन्यसम्बन्धिनी दारा यस्य परदारासक्तः | दुःखी निःसुख, परिच्छदयुतॊ गुहवस्त्रपरिवारॊपॆतः, मलिनः मलॊपॆतः ऎवंविधॊऽर्कपुत्रॆ सौरॆ स्वत्रिशांशकस्थॆ जातॊ भवति | नन्वत्र विंशांशकग्रहणं नास्ति, तत्कथं 416 ज्ञायतॆ त्रिंशंशिकफलमॆतत् | उच्यतॆ शुक्रफलाभिधानॆ त्रिंशांशकग्रहणं भविष्यति || 8 || स्वांशॆ गुरौ धनयशः सुखबुद्धियुक्तास्तॆजस्विपूज्यनिरुगुद्यमभॊगवन्तः | मॆधाकलाकपटकाव्यविवादशिल्पशास्त्रार्थसाहसयुताः शशिजॆऽतिमान्याः || 9 ||  भट्टॊत्पलः-अथ जीवबुधयॊः स्वत्रिशांशकस्थयॊः जातस्य स्वरूपं वसन्ततिलकॆनाहस्वांश इति | धनॆन वितॆन, यशसा कीत्र्या, सुखॆन निर्दुःखत्वॆन बुद्धया प्रज्ञया च युक्ताः, तॆजस्वी सॊत्साहः, पूज्यः लॊकवंद्यः, निरुक् स्वस्थदॆहः, उद्यमवान् उत्थानशील, भॊगसंयुक्तः, ऎवंविधॊ गुरौ जीवॆ स्वत्रिशांशकस्थॆ जाता भवन्ति | मॆघा बुद्धिः, कला गीतवाद्यनृत्यपुस्तकचित्रकर्मादिकाः, कपटः दाम्भिकत्वं, काव्यं कवॆः कर्म विवादः वाक्पटुत्वं, शिल्पं तक्षकर्मादि, शास्त्रार्थः सतामाचरानुष्ठानं, साहसमसमीक्षितकार्यकरणशीलता, अतिमान्यॊऽतिपूज्यः ऎवंविधाः शशिजॆ बुधॆ स्वत्रिंशांशकस्थॆ जाताः भवन्ति | कॆचिदत्र सर्वत्रैकवचनमॆवॆच्छन्ति तथापि न कश्चिद्दॊषः || 9 ||  417 स्वॆ त्रिंशांशॆ बहुसुतसुखारॊग्यभाग्यार्थरूपः  शुक्रॆ तीक्ष्णः सुललितवपुः सुप्रकीर्णॆन्द्रियश्च |  शूरस्तब्धौ विषमवधकौ सद्गुणाड्यौ सुखिज्ञौ  चार्वङ्गॆष्टौ रविशशियुतॆष्वारपूर्वाशंकॆषु || 10 || इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ आश्रययॊगाध्यायः सम्पूर्णः || 21 ||  भट्टॊत्पलः-अथ शुक्रस्य स्वत्रिशांशकस्थस्य भौमादित्रिंशांशकस्थयॊश्चन्द्रार्कयॊश्च जातस्य स्वरूपं मन्दाक्रान्तयाह स्वॆ त्रिंशांशॆ इति | बहुसुतः प्रभूतपुत्रः, बहुसुखॊऽपरिमितसुखः आरॊग्यॆण निरॊगतया, भाग्यैः जनप्रियत्वॆन, अर्थॆन धनॆन, रूपॆण सुचारुतया संयुक्तः कॆचिद्भार्यार्थरूप इति पठन्ति | भार्यया कलत्रॆण तथा तीक्ष्णः क्रूरः, सुललितवपुः शॊभनशरीरः, सुप्रकीर्णॆन्द्रियः विक्षिप्तॆन्द्रियार्थः सुप्रकीर्णानि विक्षिप्तानीन्द्रियाणि यस्य | बहुस्त्रीगमनशीलः ऎवंविधः शुक्रॆ स्वत्रिशंशिकस्थॆ जातॊ भवति | शूरस्तब्धावित्यादि | आरपूर्वाशवॆषु भौमप्रथमॆषु भागॆषु रविशशियुक्तॆष्वर्कचन्द्रसंयुक्तॆषु यथासंख्यं फलानि | तद्यथा | भौमत्रिंशांशकस्थॆऽर्कॆ शूरः सङ्ग्रामप्रियः, चन्द्रॆ स्तब्धश्चिरकारी, सौरत्रिंशांशकस्थॆऽर्कॆ विषमः क्रूरॊ भवति | चन्द्रमसि वधकः, जीवत्रिंशांशकस्थॆऽर्कॆ सद्गुणॊ भवति | चन्द्रमस्याढ्यः ईश्वरः, बुधत्रिंशांशकस्थॆऽकं सुखी भवति | चन्द्रॆ ज्ञः पण्डितः, शुक्रत्रिंशांशकस्थॆऽर्कॆ चार्वङ्गः शॊभनशरीरः, चन्द्रमसीष्टः सर्वजनप्रियः ऎवमारपूर्वॆष्वंशॆषु आरॊऽङ्गारकः पूर्वः प्रथमॊ यॆषामंशकानां त्रिंशद्भागानां तॆष्विति || 10 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां आश्रययॊगाध्यायः || 21 ||    418 419 अथ प्रकीर्णकाध्यायः || 22 ||  स्वक्षतुङ्गगमूलत्रिकॊणगाः कण्टकॆषु यावन्त आश्रिताः | सर्व ऎव तॆऽन्यॊन्यकारकाः कर्मगस्तु तॆषां विशॆषतः || 1 ||  भट्टॊत्पलः-अथातः प्रकीर्णकाध्यायॊ व्याख्यायतॆ | मिश्रः प्रकीर्णक इत्युच्यतॆ | तत्र ग्रहाणां परस्परं कारकसंज्ञां वैतालीयॆनाहस्वर् क्ष  ति | स्वर् क्ष   स्वक्षॆत्रॆ यॊ ग्रहः स्थितः यश्च तुङ्गॆ स्वॊच्चॆ यश्च मूलत्रिकॊणॆ स्थितः स च यदि लग्नकण्टकॆषु कॆन्द्रॆस्वाश्रितः स्थितॊ भवति ऎवं विधस्य ग्रहस्यान्यॊऽप्यॆवंविधः कॆन्द्रगॊ यदि भवति तदा तौ ग्रहावन्यॊन्यं परस्परं कारकाख्यौ भवतः | अनॆन प्रकारॆण यः कर्मगः | यॊ यस्मात् ग्रहात् दशमस्थानस्थः स विशॆषतः विशॆषॆण तॆषां ग्रहाणां मध्यात्कारकसंज्ञां लभतॆ | अत उक्तम् | कर्मगस्तु तॆषां विशॆषत इति | 1 ||  कर्कटॊदयगतॆ यथॊडुपॆ स्वॊच्चगाः कुजयमार्कसूरयः | कारका निगदिताः परस्परं लग्नगस्य सकलॊऽम्बराम्बुगः || 2 ||  भट्टॊत्पलः-अथास्यैवॊदाहरणप्रदर्शनार्थं रथॊद्धतयाह कर्कटॆति | यथा कर्कटॊदयॆ कुलीरलग्नॆ तत्स्थॆ चॊडुपॆ चन्द्रॆ कुजॊऽङ्गारकः, यमः सौरः अर्क आदित्यः, सूरिर्बृहस्पतिः ऎतॆ कुजयमार्कसूरयः स्वॊच्चगाः आत्मीयतुङ्गस्था यदि भवन्ति कुजॊ मकरॆ, यमस्तुलायामार्कॊ मॆषॆ, सूरिः कर्कटॆ तदा तॆ परस्परमन्यॊन्यङ्कारका निगदिता उक्ताः अनॆन प्रकारॆण यावन्तॊ भवन्ति तावन्तः परस्परं कारकाख्याः अनॆनॊहरणॆनैतत्प्रति पादितं 420 भवति| यथा पुरुषस्य जन्मलग्नात् कॆन्द्रं विना स्वक्षॆत्रॆ उच्चत्रिकॊणगाः अपि परस्परं कण्टकगास्तदा कारकसंज्ञामपि लभन्तॆ | लग्नगस्यॆति | लग्नगस्य ग्रहस्य प्राक्लग्नॆ समवस्थितस्य सकलः सर्वॊ ग्रहॊऽम्बरगः दशमस्थानस्थश्चांबुगश्- चतुर्थस्थानस्थश्च कारकसंज्ञॊ भवति | अनॆनैतदुक्तं भवति लग्नगॊ ग्रहः स्वक्षॆत्रस्वॊच्चत्रिकॊणॆषु यद्यपि भवति तस्माद्यॊ दशमस्थः चतुर्थॊ वा सॊऽप्युच्चत्रिकॊणस्वक्षॆत्राणामन्यतमस्थॊ भवति तथापि लग्नगतस्य स कारकाख्यॊ भवति न तस्य लग्नगत इति | अत उक्तम् | लग्नगस्य सकलॊऽम्बरांबुग इति||2 ||  421 स्वत्रिकॊणॊच्चगॊ हॆतुरन्यॊन्यं यदि कर्मगः | सुहृत्तद्गुणसम्पन्नः कारकश्चापि स स्मृतः || 3 ||  भट्टॊत्पलः-अथ पुनरपि अन्यत्कारकलक्षणमनुष्ठभाह स्वत्रिकॊणॊच्चग इति | स्वत्रिकॊणॊच्चगॊ ग्रहः कारकत्वॆ हॆतुः कारणं न कॆन्द्रस्थः तथाऽन्यॊन्यस्य ग्रह लग्नकॆन्द्रं विनाप्यवस्थितस्य यदि कश्चिद्ग्रहः कर्मगॊ दशमस्थानस्थॊ भवति स च स्वक्षॆत्रॊच्चमूलत्रिकॊणानामन्यतमॆ भवति | यस्माच्च दशमस्तस्य यदि सुहृन्मित्रं निसर्गतॊ न कॆवलं यावत्तद्गुणसम्पन्नस्तॆन मित्रगुणॆन संयुक्तस्तात्कालिकॆ मित्रामित्रविधिनाधिमित्रतां प्राप्तस्थाविधः सर्वग्रहः कारकाखयॊ भवति | यस्य च दशमः स तस्य कारकाखयॊ न भवति | कारकसंज्ञा च यात्रायामुपयुज्यतॆ | “युक्तॊपहतदशायां जन्मॊदयनाथशत्रुपाकॆ च| स्वदशॆशकारकदशासंश्रयणीयॊ नरॆन्द्रपतिः” इति | तथा ससखिवॆशिगृहयुक्तः कारकर्क्षॆऽपि चन्द्रः जयसुखधनदाता तत्प्रहर्तान्यथॆति || 3 ||  शुभं वर्गॊत्तमॆ जन्म वॆशिस्थानॆ च सद्ग्रहॆ | अशून्यॆषु च कॆन्द्रॆषु कारकाख्यग्रहॆषु च || 4 ||  भट्टॊत्पलः-अथ कारकसंज्ञाप्रयॊजनमनुधुभाह शुभमिति | यस्य लग्नवांशी वर्गॊत्तमाख्यॆ जन्म भवति चन्द्रॊऽपि वा वर्गॊत्तमांशगता भवति तस्य शुभं जन्म | यस्मिन्राशौ पुरुषस्य जन्मसमयॆऽर्कः स्थितस्तस्माद्राशॆर्यॊ द्वितीयॊ राशिः स वॆशिसंज्ञः | चस्य च प्रागुक्तॆ वॆशिस्थानॆ सद्ग्रहः सौम्यग्रहॊ ज्ञगुरुसितानामन्यतमॊ भवति तस्यापि शुभं जन्म | यस्य 422 जन्मलग्नं कॆन्द्रचतुष्टयादॆकमप्यशून्यं कॆन्द्रं भवति तस्यापि शुभं जन्म | अत्र सौम्यग्रहाधिष्ठितॆ कॆन्द्रॆ विशॆषॆण शुभं जन्म | तस्मादुक्तमनॆनैव‌ऎकस्मिन्नपि कॆन्द्रॆ यदि सौम्यॆ न ग्रहॊऽस्ति यात्रायाम् | जन्मन्यथवा कर्मणि न तच्छुभं प्राहुराचार्याः |” यस्य जन्मनि कारकाख्याः कारसंज्ञा ग्रहा भवन्ति तस्यापि शुभं जन्म | अत्र यथा गुणाधिक्यं तथा शुभतरमॆव जन्म | 4 ||  मध्यॆ वयसः सुखप्रदाः कॆन्द्रस्था गुरुजन्मलग्नपाः |  पृष्ठॊभयकॊदयक्षगस्त्वन्तॆऽन्तः प्रथमॆषु पाकदाः | 5 ||  भट्टॊत्पलः-अथ यॆन यॊगॆन जातॊ यौवनॆ सुखी भवति तं दशापतिफलपाकं वैतालीयॆनाहमध्यॆ वयस इति | गुरुजीवः जन्मनि यत्र राशौ चन्द्रमाः स्थितः तदधिपतिः जन्मपः यस्मिल्लग्नॆ जातः तदधिपॊ लग्नपः ऎषामन्यतमॊ यस्य लग्नकॆन्द्रॆ भवति तस्य वयॊमध्यॆ सुखप्रदॊ भवति, यौवनॆ सुखी भवतीत्यर्थः | अत्र च यवनॆश्वरःजन्माधिपॊ लग्नपतिश्च यॆषां चतुष्टयॆ स्याद्बलवान् गुरुर्वा | चतुर्षु हॊरादिषु संगतः स्याच्चतुर्वयः कालफलप्रदः स्यात् |” पृष्ठॊभयॆत्यादि | दशापतिर्दशाप्रवॆशकालॆ पृष्ठॊदयराशिगॊ मॆषवृषकर्कधन्विमकराणामन्यतमस्थितॊ यदा भवति तदा स्वदशान्तॆ फलप्रदॊ भवति | अथॊभयॊदयॆ मीनॆ भवति तदान्तदशामध्यॆ फलप्रदॊ भवति | अथार्कॊदयॆ शीर्षॊंदयॆ मिथुनसिंहकन्यातुला 423 वृश्चिककुम्भानामन्यतमॆ फलप्रदॊ भवति | अथाक्~ऒदयॆ शीर्षॊंदयॆ मिथुनसिंहकन्यातुलावृश्चिककुम्भानामन्यतमॆ यदा भवति तदा प्रथमदशाप्रवॆशसमयॆ फलप्रदॊ भवति | ऎवं शुभस्याप्यशुभस्य पक्तिर्वाच्या | दशाकालं त्रिधा परिकल्प्य यस्मिन्कालॆ तस्य फलपंक्तिज्ञायतॆ आद्यॆ मध्यॆऽन्नयॆ वा तत्र चन्द्रः सत्फलबॊधनानि कुरुतॆ पापानि चातॊऽन्यथॆति | ऎतत्त्रिधा विभक्तॆ दशाकालॆ ज्ञॆयम् | पूर्वॊक्तं सर्वं दशाफलं यॊज्यम् | दशापतिः प्रवॆशकालॆ तिष्ठन्नॆव तत्फलं ददातीत्यॆतत्कथं गम्यतॆ | यवनॆशवरादिभिः सामान्यॆन चॊक्ततम्| उच्यतॆ | भगवतॊ गर्गवचनात्| तथा च भगवान्गार्गि आद्यन्तमध्यफलदः शिरःपृष्ठॊभयॊदयॆ | दशाप्रवॆशसमयॆ तिष्ठन् वाच्यॊ दशापतिः |” इति || 5 ||  दिनकररुधिरौ प्रवॆशकालॆ गुरुभृगुजौ भवनस्य मध्ययातौ | रविसुतशशिनौ विनिर्गमस्थौ शशितनयः फलदस्तु सर्वकालम् || 6 || इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ प्रकीर्णकाध्यायः सम्पूर्णः || 22 ||  भट्टॊत्पलः-अथाष्टकवर्गफलस्य कालं पुष्पिताग्रयाऽऽह दिनकरॆति | चारवशात्पक्तिकालॆ यस्मिन्राशी शुभमशुभं वाष्टकवर्गफलं दिनकर आदित्यः प्रयच्छति तस्मिन् राशौं आग्नॆ त्रिभागॆ तिष्ठन्नॆव फलं प्रयच्छति | ऎवमॆव रुधिरॊ भौमः | गुरुजीवः, भृगुजः शुक्रः, ऎतौ 424 गुरुभृगुजौ भवनस्य राशॆर्मध्ययातौ मध्यत्रिभागगतौ फलप्रदौ भवतः | रविसुतः सौरः, शशी चन्द्रः, ऎतौ रविसुतशशिनौ विनिर्गमस्थौ राश्यन्तत्रिभागस्थौ फलप्रदौ भवतः | शशितनयॊ बुधः सर्वकालं फलदः सर्वभागस्थ | फलप्रदॊ भवति | सर्वस्मिन्नॆव राशौ यावत्तिष्ठति तावत्फलं शुभमशुभं वा यथाप्राप्तं ददातीति | 6 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां प्रकीर्णकाध्यायः || 22 ||  425 अथानिष्टाध्यायः || 23 || लग्नात्पुत्रकलत्रभॆ शुभपतिप्राप्तॆऽथवालॊकितॆ चन्द्राद्वा यदि सम्पदस्ति हि तयॊर्ज्ञॆयॊऽन्यथासम्भवः | पाथॊनॊदयगॆ रवौ रविसुतॊ मीनस्थितॊ दारहा पुत्रस्थानगतश्च पुत्रमरणं पुत्रॊऽवनॆर्यच्छति || 1 ||  भट्टॊत्पलः-अथातॊऽनिष्टाध्यायॊ व्याख्यायतॆ | तत्रादावॆव दारसुतहीनजन्मज्ञानं शार्दूलविक्रीडि तॆनाहलग्नादिति | यस्य जन्मनि लग्नात् पुत्रभं पञ्चमस्थानं शुभग्रहॆण स्वपतिना च प्राप्तं संयुक्तं भवत्यथवा आलॊकितं दृष्टं भवति तस्यापि पुत्रसम्पत् अस्तीति वक्तव्यम् | चन्द्राद्वा पञ्चमस्थानं यस्य शुभग्रहॆण स्वपतिना वा युतदृष्टं भवति तस्यापि पुत्रसम्पदस्ति | यस्य लग्नचन्द्रयॊरुभयॊरपि पञ्चमस्थानं शुभग्रहॆण स्वपतिना वा युतदृष्टं न भवति तस्य पुत्रासम्भवः, अपुत्रत्वं वक्तव्यम् | अत्र कॆचिद् द्वादशप्रकारं पुत्रं वर्णयन्ति-औरसः, क्षॆत्रजः, दत्तः, कृत्रिमः, अधमप्रभवः, गूढॊत्पन्नः, अपविद्धः, पौनर्भवः, कानीनः, सहॊढः, क्रीतकः, दासीप्रभव इति | तथा च सारावल्याम् शुभभवनमथ शुभयुतं शुभदृष्टं वा सुतर्क्षमिह यॆषाम् | तॆषां प्रभवः पुंसां भवत्यवश्यं न विपरीतम् | ऎकतमॆ गुरुवर्गॆ शुभराशावौरसौ भवॆत्पुत्रः | लग्नाच्चन्द्रादथवा बलयुक्ताद्वीक्षितॊऽपि वा सौम्यैः | संख्या नवांशतुल्या सौम्यांशॆ तावती सदा दृष्टा | शुभदृष्टॆ तद्द्वगुणा क्लिष्टा पापांशकॆ तथा दृष्टा | सौरक्षॆ सौरगुणॊं बुधदृष्ट गुरुकुजार्कदूग्धीनः | क्षॆत्रजपुत्रं जनयति बौधॊऽपि गुणॊ रविजदृष्टः | मान्दं सुतक्षमिन्दुं निरीक्षतॆ यदि शनैश्चरॆण युतम् | दत्तकपुत्रॊत्पत्तिः क्रीतश्चबुधस्य चैवं स्यात् | सप्तमभागॆ कौजॆ सौरयुतॆ पञ्चमॆ सदा भवनॆ | कृत्रिमपुत्रं तक | 426 वर्गॆ पञ्चमराशौ सौरॆ सूर्यॆ च तत्र संयुक्तॆ | लॊहितदृष्टॆ वाच्यॊ जातश्च सुतॊऽधमप्रभवः | चन्द्रॆ भौमांशगतॆ धीस्थॆ मन्दावलॊकितॆ भवति | गूढॊत्पतिः पुत्रः शॆषग्रहदर्शनायातॆ | तस्मिन्नॆव च भौमॆ शनिवर्गस्थॆ निरीक्षतॆ रविणा | पुरुषस्य भवति पुत्रॊऽपविद्ध इति चरक्रमुनिवचनात् | शनिवर्गस्थॆ चन्द्रॆ शनियुक्तॆ पञ्चमॆ सदा सौरॆ | शुक्ररविभ्यां दृष्टॆः पुत्रः पौनर्भवॊ भवति | चूडा यदार्कसत्त्वात्कलादृतस्यैव पञ्चमॆ भवनॆ | रविदृष्टॆऽप्यथ सहितॆ कानीनः सम्भवति पुत्रः | वर्गॆ रविचन्द्रमसॊः सुतगॆहॆ चन्द्रसूर्यसंयुक्तॆ | शुक्रॆण दृष्टमात्रॆ पुत्रः कथितः | सहॊढश्च | पापैर्बलिभिर्युक्तॆ पापक्षॆ पञ्चमॆ सदा राशौ | जातॊ पुत्रः पुरुषः सौम्यग्रहदर्शनातीतॆ | शुक्रनवांशॆ तस्मिन् शुक्रॆण निरीक्षितॆ त्वपत्यानि | दासीप्रभवानि वदॆच्चन्द्रॆऽपि कॆचिदाचार्याः | सितशशिवर्गॆ धीस्थॆ ताम्यां दृष्टॆऽथवापि संयुक्तॆ | प्रायॆण दारिकाः स्युस्तद्राशिगणॊऽपि वान्यथा पुत्राः |” इति | ऎवं लग्नाच्चन्द्राद्वा कलत्रभं सप्तमं स्थानं यस्य शुभॆन स्वपतिना वा युतदृष्टं भवति तस्य कलत्रसम्पदस्तीति वक्तव्यम् | ऎवं लग्नाच्चन्द्राद्वा यस्य सप्तमस्थानं शुभग्रहॆण स्वपतिना वा युतदृष्टं न भवति तस्य कलत्रसम्पन्न भवतीति वक्तव्यम् | भार्या तस्य न भवतीत्यर्थः | यत उक्तं ज्ञॆयॊन्यथासम्भवः | अन्यथा तयॊः पुत्रकलत्रयॊरसम्भवः अभावॊ ज्ञॆयॊ ज्ञातव्यः | अत्र पुत्रकलत्रग्रहणमुपलक्षणर्थम् | सर्वॆषामपि तन्वादीन लग्नाच्चन्द्राद्वा स्थितिरन्वॆष्या | यतॊ द्ववॆतौ मूर्तिसंजौ | तथा च यवनॆश्वरः | “मूर्ति च हॊरां शशिनं च विन्द्यात्” इति | अत्र कलत्रस्थानॆऽपि कॆचिद्विशॆषं वर्णयन्तिशुक्रॆन्दुजीवशशिजैः सकलैस्त्रिभिश्च द्वाभ्यां कलत्रभवनॆ च तथैककॆन | ऎषां गृहॆऽपि च गणॆऽथ विलॊकितॆ वा सन्ति स्त्रियॊ  427 भवनवर्गखगस्वभावाः | ऎवं क्रूरैर्नाशॊ लग्नाच्चन्द्राद्वदॆच्च बलयॊगात् | शशिरविजयॊः कलत्रॆ भार्या पुंसां पुनर्भूः स्यात् | भवनाधिपांशतुल्या भवन्ति नार्यॊ निरीक्षणाद्वापि | ऎकैव रविकुजांशॆ गुरुबुधयॊश्चापि जामित्रॆ | प्रायॆण चन्द्रसितयॊर्बलसंयुत्तॆश्थवापि जामित्रॆ | दृष्ट वा बहुपत्न्यॊ भवन्ति शुक्नॆ विशॆषॆ | गुरुशुक्रयॊः स्ववर्णा रविकुजशशिभानुजैभवन्त्यूनाः | शुक्रॆ वॆश्याप्रायाश्चन्द्रॆऽपि वदन्ति कॆतुमालाख्याः | “पाथॊनॆत्यादि | पाथॊनः कन्या तस्मिन्नुदयगॆ लग्नस्थॆ तत्र च रवावर्कॆ स्थितॆ रविसुतः सौरः मीनस्थॊ यदि भवति तदा दारहा भवति दारान्कलत्राणि हन्ति घातयति | तस्य पुरुषस्य जीवत ऎव भार्यामरणं वक्तव्यम् | अस्मिन्नॆव यॊगॆपाथॊनॊदयगॆ रवौ अवनॆः भूमॆः पुत्रॊ भौमः पुत्रस्थानॆ गतः पञ्चमॆ स्थानॆ गतॊ मकरॆ स्थितॊ भवति तदा पुत्रमरणं सुतविपतिं यच्छति ददाति | तस्य जीवत ऎव पुत्रमरणं वक्तव्यम् || 1 ||  उग्रग्रहैः सितचतुस्रसंस्थितैर्मध्यस्थितॆ भृगुतनयॆऽथवॊग्रयॊः | सौम्यग्रहैरसहितसंनिरीक्षितॆ जायावधॊ दहननिपातपाशजः || 2 || भट्टॊत्पलः-अथ जीवन ऎव भार्यामरणयॊगत्रयं प्रहर्षिण्याह उग्रग्रहैरिति | उग्रग्रहाः आदित्यभौमसौराः तैः सिताच्छुक्राद्यथासम्भवं चतुरस्नसंस्थितैः चतुर्थाष्टमगतैः यस्य भवति तस्य जायावधॊ भार्याविपत्तिः 428 दहनॆनाग्निना भवति | तस्य जीवत ऎव भार्याऽग्निनाऽत्मानं व्यापादयति | अथवॊग्रयॊः पापयॊः द्वयॊर्मध्यॆ शुक्रादॆकॊ द्वादशॆऽन्यॊ द्वितीयॆ भृगुतनयॆ शुक्रॆ स्थितॆ जातस्य निपातॆनॊच्छ्रितपतनाज्जायावधॊ भवति | तस्य जातस्य जीवत ऎव पतनान्निपतिता भार्या म्रियत इति | अथ वैकस्मिन्रराशावॆकॆन भुक्तं स्थानमतिक्रम्यान्यॆन भुज्यमानमप्राप्य यदि शुक्रस्यावस्थानं तदापि पापद्वयमध्यस्थॊ भवति | अथ यस्य जन्मनि सौम्यग्रहयॊरन्यतमॆन सहितः संयुक्तः शुक्रॊ न भवति न चापि तनिरीक्षितॊ दृष्टस्तस्य पाशजॊ जायावधॊ भवति | जीवत ऎव भार्यॊद्बन्धनॆनात्मानं व्यापादयति | कैश्चिद्यॊगद्वयमॆतद्व्याख्यातम् | उग्रग्रहैः सितचतुरस्नसंस्थितैरॆकः मध्यमस्थितॆ भृगुतनयॆऽथवॊग्रयॊः द्वितीयः सौम्यग्रहैरसहितः सन्निरीक्षित इति | यॊगद्वयविशॆषीभूतजायावधॊ दहननिपातपाशजः इति यॊगद्वयॆऽपि विकल्पः | तच्चायुक्तं यस्माद्भगवान् गार्गिः चतुर्थाष्टमगैः शुक्रात्सौराराकैंहुताशनात् | तॆषां द्वयॊस्तु मध्यस्थॆ तथा शुक्रॆ निपातजः | शुक्रॆ सद्यॊगदृग्धीनॆ पाशाद्भार्यावधॊ भवॆत् |” | 2 ||  पत्या सहैकनयनस्य वदन्ति जन्म | द्यूनस्थयॊर्नवमपञ्चमसंस्थयॊर्वा शुक्रार्कयॊर्विकलदारमुशन्ति जातम् || 3 || भट्टॊत्पलः-अधुना विकलनयनदारजन्मयॊगज्ञानं वसन्ततिलकॆनाह लग्नादिति | शशी चन्द्रः, तिग्मरश्मिः सूर्यः ऎतयॊः लग्नाद्व्ययारिगतयॊ ऎका व्ययॆ द्वादशॆ स्थानॆ द्वितीयॊऽरिस्थानॆ, षष्ठॆ पत्न्या 429 सहैकनयनस्य ऎकाक्षस्य जन्म वदन्ति कथयन्ति | जातः काणॊ भवति न कॆवलं, यावत् तद्भार्या काणी भवतीत्यर्थः | द्यूनस्थयॊरिति | शुक्रसूर्ययॊद्यूनस्थॊः लग्नाद् द्वयॊरपि सप्तमस्थयॊः नवमयॊः पञ्चमयॊर्वा जातं विकलदारमुशन्ति कथयन्ति | भार्या हीनाङ्गी भवतीत्यर्थः | अत्र द्यूनस्थयॊः नवमपञ्चमसंस्थयॊर्वा शुक्रार्कयॊः कैश्चिद्यथासम्भवमॆव यॊगॊ व्याख्यातः | तच्चायुक्तम् | यस्माद्भवान् गार्गिः पञ्चमॆ नवमॆ द्यूनॆ समॆतौ सितभास्करौ | यस्य स्यातां भवॆद्भार्या तस्यैकाङ्गविवर्जिता |” | 3 || कॊणॊदयॆ भृगुतनयॆऽस्तचक्रसन्धौ वन्ध्यापतिर्यदि न सुतर्क्षमिष्टयुक्तम् | पापग्रहैव्र्ययमदलग्नराशिसंस्थैः क्षीणॆ शशिन्यसुतकलत्रजन्मधीस्थॆ | 4 ||  भट्टॊत्पलः-अथासुतकलत्रबन्ध्यापतिजन्मज्ञानं वसन्ततिलकॆनाह कॊणॊदय इति | कॊणः शनैश्चरस्तस्मिन्नुदयॆ लग्नगतॆ भृगुतनयॆ शुक्रॆ अस्तचक्रसन्धौ वृश्चिकर्कटमीनानामन्यनवांशकस्थॆ न कॆवलं यावदस्तॆ लग्नात्सप्तमस्थानस्थॆ ऎवमस्तस्थश्चक्रसन्धौ यदि भवति तदा जातॊ वन्ध्यापतिर्भवति वन्ध्या निष्फलार्तवा | ऎतन्मकरवृषकन्यालग्नॆषु सम्भवति | अपुत्र इति वक्तव्यॆ वन्ध्यापतिग्रहणॆनैतज्ज्ञापयति| यथा कौमारॆभ्यॊ दारॆभ्यः पुत्रॊत्पत्तिर्भवत्यविरुद्धकामॆभ्यॊ भवति | पापग्रहैरिति| पापग्रहैः व्ययस्थानं द्वादशं मदस्थानं सप्तमं लग्नराशिरुदयः ऎतॆषु द्वयॊरॆकस्मिन् द्वयॊरॆकस्मिन् वा पापग्रहैः यथासंम्भवं स्थितैः शशिनि चन्द्रॆ क्षीणॆ धीस्थॆ लग्नपञ्चमगॆ असुतस्यापुत्रस्याकलत्रस्थ च स्त्रीवर्जितस्य पुत्रभार्यावर्जितस्य जन्म भवति | जातस्य न भार्या, न पुत्रॊ भवतीत्यर्थः | 4 || 430 असितकुजयॊवर्गॆऽस्तस्थॆ सितॆ तदवॆक्षितॆ|  परयुवतिगस्तौ चॆत्सॆन्दुस्त्रिया सह पुंश्चलः |  भृगुजशशिनॊरम्तॆऽभार्यॊ नॊ विसुतॊऽपि वा  परिणततनू नृस्त्र्यॊर्दृष्टौ शुभैः प्रमदापती || 5 ||  भट्टॊत्पलः-अथ परयुवतिजन्मज्ञानं हरिण्याह असितॆति | असितकुजयॊः सौरभौमयॊः अन्यतमस्य वर्गॆ सितॆ शुक्रॆ स्थितॆ तस्मिश्चास्तस्थॆ लग्नात्सप्तमगतॆ तदवॆक्षितॆ तयॊरॆव सौरारयॊन्यतरॆणावॆक्षितॆ दृष्टॆः जातः परयुवतिगः परदारगामी भवति | तौ चॆदित्यादि | तौ चॆदित्यादि | तौ सौरारावस्तॆ सप्तमॆ स्थानॆ ऎकराशिस्थितौ सॆन्दू चन्द्रसहितौ भवतः असितकुजयॊः वर्ग तत्स्थः सितः तदवॆक्षितः तदा जातः स्त्रिया सह पुंश्चलॊ भवति | स पुरुषः परदारॆषु गच्छति तद्भार्या परपुरुषॆषु गच्छति | भृगुजशशिनॊरित्यादि | भृगुजः शुक्रः, शशी चन्द्रः तयॊः भृगुजशशिनॊः ऎकराशिगतयॊः यत्र तत्रावस्थितयॊः तावॆव सितकुजावस्तॆ सप्तमॆ स्थानॆ भवतः तदा जातॊ नरः अभार्यॊ भवति विसुतॊ वा | वाशब्दॊऽत्र चार्थॆ, न विकल्पनॆ | अभार्यॊ भवत्यपुत्रश्च | परिणतन इति | ना च स्त्री च नृस्त्रियौ नरस्त्रीग्रहयॊरॆकराशिगयॊरस्तॆ सप्तमॆ तावॆवासितकुजौ भवतः | तौ शुभदृष्टौ सौम्यग्रहॆण कॆनचिद्दृश्यतॆ तदा परिणततनू प्रमदापती भवतः परिणतॆ तनू ययॊः | ऎतदुक्तं भवति-तस्य वृद्धत्वॆ वृद्धा भार्यॊपतिष्ठत इति || 5 ||  431 वंशच्छॆता खमदसुखगैश्चन्द्रदैत्यॆज्यपापैः शिल्पी त्र्यंशॆ शशिसुतयुतॆ कॆन्द्रसंस्थार्किदृष्टॆ |  दास्यां जातॊ दितिसुतगुरौ रिःफगॆ सौरभागॆ  नीचॊऽर्कॆन्द्वॊर्मदनगतयॊर्दृष्टयॊः सूर्यजॆन || 6 ||  भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगामन्दाक्रान्तयाह वंशच्छॆतॆति | चन्द्रः शशी, दैत्यॆज्यः शुक्रः, पापाः क्रूरग्रहाः आदित्यभौमसौराः ऎतैः खमदसुखगैः खसंज्ञं दशमं, मदस्थानं सप्तमं, सुखसंज्ञं चतुर्थम् ऎतॆषु स्थानॆषु चन्द्रदैत्यॆज्यपापैः गतैः समवस्थितैः जातॊ वंशच्छॆता भवति | ऎतदुक्तं भवति-यस्य जन्मनि चन्द्रमा दशमः शुक्रः सप्तमः, पापाश्चतुर्थस्थाः | स वंशच्छॆत्ता | तत्कृतॊ वंश उच्छिद्यतॆ, कुलविच्छित्तिर्भवति दुर्यॊधनप्रायः | शिल्पी त्र्यंशॆ इति | शशिसुतॆन बुधॆन युक्तॊः यः त्र्यंशॊ द्रॆष्काणः स यस्य राशॆः सम्बन्धी तस्मिन्स राशिः लग्नकॆन्द्रस्थॆनार्किणा सौरॆण दृष्टॆ जातः शिल्पी भवति | चित्रकर्मादिकर्मणा| जीवतीत्यर्थः | अत्र कॆचिद्बुधयुक्तराशॆः शनैश्चरदृष्टि वर्णयन्ति | यथा राशौ दृष्टॆ द्रॆष्काणॊऽपि दृष्टः स्यात् | यद्यॆष पक्ष आचार्याभिप्रॆतः स्यात्तदा बुधॆ कॆन्द्रस्थॆन सौरॆण दृष्टॆ शिल्पी भवत्यॆतदॆवाचार्यॊऽवक्ष्यत् | त्र्यशग्रहणं नाकरिष्यत् | कृतवांश्चातॊऽवसीयतॆ नैतदाचार्यस्याभिप्रॆतमिति | तॆन त्र्यंशग्रहणं कृतम् | तस्माद्द्वॆष्काणराशॆर्दृष्टिविचारः न कॆवलं यावद्विलग्नांश स्वनाथॆनॆत्यत्रैवॊदाहार्यम् | दास्तां जात इत्यादि | दितिसुतगुरौ शुक्रॆ रिःफगॆ लग्नाद्द्वादशस्थॆ न कॆवलं यावत्सौरभागॆ शनैश्चरनवांशकव्यवस्थितॆ दास्यां जातः दासीपुत्रॊ जात इति वक्तव्यम्| नीचॊऽर्कॆन्द्वॊरिति | अर्कॆन्द्वॊः रविशशिनॊः द्वयॊरपि लग्नमदनगतयॊः 432 सप्तमस्थानस्थयॊः सूर्यजॆन सौरॆण दृष्टयॊरवलॊकितयॊः जातॊ नीचॊ भवति | स्वकुलानुचिताधर्मकर्मकृदित्यर्थः || 6 ||  पापालॊकितयॊरस्तस्थयॊर्वाध्यरुक् चन्द्रॆ  कर्कटवृश्चिकांशकगतॆ पापैर्युतॆ गुह्यरुक् |  श्चित्री रिःफधनस्थयॊरशुभयॊश्चन्द्रॊदयॆऽस्तॆ रवौ  चन्द्रॆ खॆदऽवनिजॆऽस्तगॆ च विकलॊ यद्यर्कजॊ वॆशिगः || 7 ||  भट्टॊत्पलः-अथान्यानप्यनिष्टयौगाञ्छार्दूलविक्रीडि तॆनाह पापालॊकितयॊरिति | सितः शुक्रः, अवनिजॊऽङ्गारकः ऎतयॊररतयॊः लग्नात्सप्तमगतयॊरपि पापालॊकितयॊः पापग्रहदृष्टयॊर्जातस्य वाध्यरुभवति स च प्रसिद्धः यत्र तत्र राशौ चन्द्रॆ शशिनि कर्कटवृश्चिककांशकयॊरन्यतमस्थॆ तत्र चान्यॆ पापॆन युतॆ जातॊ गुह्यरुक्परुषव्याधिः | श्वित्रीत्यादि | अशुभयॊः सौरारयॊः रिःफधनस्थयॊः द्वादशाद्वितीयगतयॊः चन्द्रॆ लग्न उदयस्थॆ रवावादित्यॆऽस्तॆ सप्तमस्थॆ जातः श्वित्री श्वॆतकुष्ठयुक्तॊ भवति | चन्द्रॆ खॆ दशमस्थॆऽवनिजॆ भौमॆऽस्तगॆ सप्तमस्थॆ अस्मिन्यॊगॆ यद्यर्कजः सौरॊ वॆशिस्थानस्थॊ भवति तदा जातॊ विकलॊऽङ्गहीनॊ भवति||7 || 433 अन्तः शशिन्यशुभयॊर्मृगगॆ पतङ्गॆ श्वासक्षयप्लीहकविद्रधिगुल्मभाजः | शॊषी परस्परगृहांशगयॊ रवीन्दॊः क्षत्रॆऽथवा युगपदॆकगयॊः कृशॊवा || 8 ||  भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगान्वसन्ततिलकॆनाह अन्तरिति | यत्रतत्रस्थॆ शशिनि चन्द्रॆ अशुभयॊः सौर भौमयॊरन्तर्मध्यॆस्थितॆ पतङ्गॆ सूर्यॆ च मृगगतॆ मकरस्थॆ जाताः श्वासक्षयप्लीहकनिद्रधिगुल्मभाजॊ भवन्ति | श्वासः प्रसिद्धः, क्षयः शरीरक्षयः, प्लीहः प्रसिद्धः वामकुक्षिसंस्थॊ मांसखण्डः विद्रधिगुल्मौ रॊगौ प्रसिद्धौ ऎषामन्तमॆन रॊगॆणार्दिता भवन्तीत्यर्थः | कॆचिदकयचनं पठन्तिश्वासक्षयप्लीहकविद्रधिगुल्मभावस्यादिति | शॊषीति | रवीन्द्रॆश्चन्द्रार्कयॊः परस्परमन्यॊन्यगृहांशगयॊः आदित्यः कर्कटॆ, सिहॆ चन्द्रॊऽथवा यत्र तत्र राशौ सिहांशकॆ चन्द्रः, कर्कटांशॆ सूर्यः तदा जातः शॊषी भवति | अत्र कॆचित्परस्परगृहांशगयॊ रविन्द्वॊरिति | सिंहॆ सिंहाशकॆ स्थितॆ चन्द्रॆ कर्कटॆ कर्कटांशस्थॆ सूर्यॆ च जातः शॊषी क्षयी भवतीति वर्णयन्ति | तच्चायुक्तम् | यस्नाद्भगवान्गार्गिः | “परस्परगृहॆ यातौ यदि वापि तदंशगौ | भवॆतामर्कशीतांशू तदा शॊषी प्रज्ञायतॆ |” क्षॆत्रॆऽथवॆति | युगपतुल्यकालं तयॊरॆव परस्परक्षॆत्रॆ यदा द्वावपि भवतः सिंहॆ यदॊभावपि अर्कचन्द्रौ स्थितौ कर्कटॆ वा भवतस्तदा जातः शॊषी भवति कृशॊ वा | कृशॊ दुर्बलः || 8 || 434 चन्द्रॆऽश्विमध्यझषकर्किमृगाजभागॆ कुष्ठी समन्दरुचिरॆ तदवॆक्षितॆ वा | यातैस्त्रिकॊणमलिकर्किवृषैर्मृगॆ च कुष्ठी च पापसहितैरवलॊकितैर्वा |9 ||  भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगान्वसन्ततिलकॆनाह चन्द्र इति | अश्विमध्यॆ धन्विपञ्चकनवांशकॆ चन्द्रॆ स्थितॆ तत्र च समन्दरुधिरॆ मन्दॆन सौरॆण रुधिरॆणाङ्गारकॆण युक्तॆ यथासम्भवमन्यतमॆन तदवॆक्षितॆ वा ताभ्यामन्तमॆन दृष्टॆ जातः कुष्ठी भवति | अथवा यत्र तत्र राशौ झषकर्किमृगाजभागॆ झषॊ मीनः, कर्किः कुलीरः, मृगॊ मकरः, अजॊ मॆषः, ऎषामन्यतमॆ नवांशकस्थॆ चन्द्रॆ तत्र मन्दरुधिरयॊरन्यतमॆन युतॆ दृष्टॆ वा जातः कुष्ठी भवति | अत्र चन्द्रॊ यदा शुभग्रहदृष्टॊ भवति तदा कण्डूविकारी भवति, न कुष्ठॊ | यस्माद्यवनॆश्वरः || “मीनांशकॆ मॆषमृगांशकॆ वा चन्द्रस्थितौऽत्रैव हि पापदृष्टः | किलासकुष्ठादिविनिष्टदॆहमिष्टॆक्षितः कण्डुविकारिणं च |” यातैस्त्रिकिणमिति | अलिकर्किवृषैः वृश्चिककुलीरवृषभैः मृगॆ च ककरॆ ऎतैश्च त्रिकॊणयातैः प्राप्तैः तथाविधॊ लग्नॊ भवति | यस्यैषामन्यतमॆ पञ्चमॆ वा स्थानॆ भवति स च| पापानामन्यतमॆन युक्तॊ दृष्टॊ वा भवति तदा जातः कुष्ठी भवति | 9 || 435 निधनारिधनव्ययस्थिता रविचन्द्रारयमा यथा तथा | बलवद्ग्रहदॊषकारणैर्मनुजानां जनयन्त्यनॆत्रताम् || 10 || भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगान्वसन्ततिलकॆनाह निधनॆति | रविरादित्यः चन्द्रः शशी, आरः अङ्गारकः, यमः सौरः ऎतॆ रविचन्द्रारयमाः | यथा यथा यॆन तॆन प्रकारॆण निधनारिधनव्ययस्थिताः अष्टमषष्ठद्वितीयद्वादशगास्तदा जातानां मनुजानां मनुष्याणामनॆत्रतामान्ध्यं जनयन्त्युत्पादयन्ति | यथातथॆति क्रमनिवारणार्थः | तां चानॆत्रतां बलवद्ग्रहदॊषकारणैः तॆषां चतुर्णा ग्रहाणां मध्याद्यॊ बलवास्तस्य यॊ वातपित्तश्लॆष्मणां मध्याद्दॊष उक्तः तॆन दॊषकारणॆन तत्प्रकॊपॆन तस्याक्षिविनाशॊ भवति | 10 | नवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः | नियमाच्छूवणॊपघातदारदवैकृत्यकराश्य सप्तमॆ || 11 || भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगान्वैतालीयॆनाह नवॆति | अशुभाः पापाः नवमायतृतीयधियुताः नवमॆ ऎकादशॆ तृतीयॆ धीस्थानॆ पञ्चमॆ ऎतॆषु यथासम्भवं युताः समवस्थिताः तॆ च सौम्यैः शुभग्रहैरनिरीक्षिता न दृष्टास्तदा बलवद्ग्रहदॊषकारणॆनैव पुरुषस्य नियमान्निश्चयाच्छ्रवणॊपघातदाः श्रॊत्रयॊः कर्णयॊः उपघातदा बधिर्यकराः | अत्राशुभग्रहणॆनार्कचन्द्रारसौराः प्रागुक्ता ऎव ज्ञॆयाः | रदवैकृत्यकराश्च सप्तमॆ इति | त ऎवार्कचन्द्रारसौराः लग्नात्सप्तमॆ स्थानॆ स्थिताः सौम्यॆरदृष्टा रदानां दन्तानां वैकृत्यकराः स्युः || 11 ||  436 उदयत्युडुपॆऽसुरास्यगॆ सपिशाचॊऽशुभयॊस्त्रिकॊणयॊः | सॊपप्लवमण्डलॆ रवा‌उदयस्थॆ नयनापवर्जितः | 12 ||  भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगान्वैतालीयॆनाह उदॆयतीति | उडुपॆ चन्द्रॆ उदयति लग्नगतॆ तस्मिश्चासयरास्यगॆ राहुग्रस्तॆ तस्माच्च लग्नादशुभयॊः सौरभौमयॊः त्रिकॊणशयॊः नवमपञ्चमस्थयॊः जातः सपिशाचॊ भवति | पिशाचाधिष्ठितॊ भवतीत्यर्थः | ऎवं रवावादित्यॆ मण्डलॆ सॊपप्लवॆ असुरास्यगॆ अर्कॆ राहुग्रस्तॆ तस्मिश्चॊदयस्थॆ लग्नगॆ लग्नादशुभयॊः सौरभौमयॊत्रिकॊणगतयॊः जातॊ नयनापवर्जितॊ भवति | अन्ध इत्यर्थः || 12 || संस्पृष्टः पवनॆन मन्दगयुतॆ द्यूनॆ विलग्नॆ गुरौ सॊन्मादॊऽवनिजॆ स्थितॆऽस्तभवनॆ जीवॆ विलग्नाश्रितॆ | तद्वत्सूर्यसुतॊदयॆऽवनिसुतॆ धर्मात्मजद्यूनगॆ जातॊ वा ससहस्ररश्मितनयॆ क्षीणॆ व्ययॆ शीतगौ || 13 ||  भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगान् शार्दूलविक्रीडि तॆनाह संस्पृष्ट इति | यस्य जन्मगि मन्दगः सौरॊ द्यूनॆ सप्तमॆ युतः स्थितॊ भवति विलग्नॆ च गुरुः बृहस्पतिः स पवनॆन वायुना संस्पृष्टॊ भवति | वातरॊगी भवतीत्यर्थः | अवनिः भूः तस्याः जातॊऽवनिजः तस्मिन्नस्तभवनॆ सप्तमॆ स्थानॆ स्थितॆ विलग्नाश्रितॆ प्राग्लग्नगॆ च जीवॆ गुरौ जातः सॊन्मादॊ भवति, विचित्त इति | तद्वदिति | सूर्यसुतः सौरः तस्मिन्नुदयॆ लग्नॆ स्थितॆ अवनिसुतॆ भौमॆ धर्मात्मजद्यूनगॆ नवपञ्चमसप्तमस्थानामन्यतमस्थाननस्थॆ जातस्तद्वत्सॊन्माद ऎव 437 भवति | कॆचितद्वच्चाहुः | यमॊदय इति पठन्ति | अथवा क्षीणॆ शीतगौ चन्द्रॆ वाग्रहणात्सॊन्माद ऎव भवति || 13 || राश्यंपॊषणकरशीतकरामरॆज्यैर्नीचाधिपांशकगतैररिभागगैर्वा | ऎभ्यॊऽल्पमध्यबहुभिः क्रमशः प्रसूता ज्ञॆयाः स्युरभ्युपगमक्रयगर्भदासाः || 14 ||  भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगान्वसन्ततिलकॆनाह राश्यंशपॆति | यस्मिन्नवांशकॆ चन्द्रॊ वर्ततॆ स राश्यंशकः तस्य यः पतिः राश्यंशपः, उष्णकरः सूर्यः, शौतकरश्चन्द्रः, अमरॆज्यॊ जीवः ऎतैः राश्यंशपॊष्णकरशीतकरामरॆज्यैः आत्मीयादुच्चात्सप्तमराश्यधिपॊ नीचाधिपस्तदीयॆ नीचाधिपतिनवांशकॆ व्यवस्थितैः अरिभागगैः शत्रुनवांशगतैर्वा जाता दासा भवन्ति | ऎभ्यॊऽल्पमध्यबहुभिरिति | ऎभ्यॊ ग्रहॆभ्यः ऎकॊऽल्पः, द्वौ मध्यमा यत्र चत्वारॊ वा बहवः ऎभ्यः प्रसूताः क्रमशॊ दासा भवन्ति | तस्यैकॊ नीचाधिपांशकॆ शत्रुनवांशकॆ वा गतॊ भवति सॊऽभ्युपगमॆनात्मना जीवितार्थी दासत्वमुपपद्यतॆ | यस्य द्वौ सॊऽन्यॆन क्रीतॊ विक्रीतः यॆन क्रीतस्तस्य दासॊ भवति यस्य त्रयश्चत्वारॊ वा सा गर्भदासॊ दासस्य पुत्रॊ दास्या वा पुत्रॊ लॊकॆ गृहदास इति प्रसिद्धः ||14|| 438 विकृतदशन पापैर्दृष्टॆ वृषाजहयॊदयॆ  खलतिरशुभक्षॆत्रॆ लग्नॆ हयॆ वृषभॆऽपि वा |  नवमसतगॆ पापैर्दृष्टॆ रवावदृढॆक्षणी  दिनकरसुत नैकव्याधिः कुजॆ विकलः पुमान् || 15 ||  भट्टॊत्पलः-अथान्यॆषामनिष्टयॊगानां ज्ञानार्थ हरिण्याह विकृतॆति | वृषः प्रसिद्धः, अजॊ मॆषः हयॊ धन्वी ऎषामुदयॆऽन्यतमॆ लग्नॆपापॆर्दृष्टॆऽवलॊकितॆ विकृतदशनॊ विरूपदन्तॊ भवति | अशुभक्षॆत्राणि पापग्रहराशयः मॆषसिंहवृश्चिकमकरकुम्भाः ऎषामन्यतमॆ लग्नॆ हयॆ धन्विनि वावृषभॆऽपि वा लग्नॆ पापदृष्टॆः जातः खलतिः खल्वाटॊ भवति | रवावादित्यॆ नवमसुतगॆ लग्नान्नवमपञ्चमयॊरन्यतरस्थानस्थॆ पापग्रहदृष्टॆ जातः अदृढॆक्षणॊ भवत्यसारनयनः | ऎवं दिनकरसुतॆ सौरॆ लग्नान्नवमपञ्चमस्थॆ पापैः दृष्टॆ नैकव्याधिः बहुरॊगौ भवति | ऎवमॆव कुजॆ भौमॆ लग्नान्नवमपञ्चमस्थॆ पापदृष्टॆ पुमान् पुरुषॊ जातॊ विकलॊऽङ्गहीनॊ भवति | 15 || व्ययसुतधनधर्मगैरसौम्यैर्भवनसमाननिबन्धनं विकल्प्यम् | भुजगनिगडपाशभृददृकाणैर्बलवदसौम्यनिरीक्षितैश्च तद्वत् | 16 || भट्टॊत्पलः-अथान्यानप्यनिष्टयॊगान्पुष्पिताग्रयाह 439 व्ययसुतॆति | असौम्यैः पापैः व्ययसुतधनधर्मगैः द्वादशपञ्चमद्वितीयनवमस्थानानां यथासम्भवमन्यतमस्थानस्थैः जातस्य निबन्धनं भवति | स वध्यत इत्यर्थः | तच्च निबन्धन भवनसमानं राशिसदृशं स प्राणी यॆन प्रकारॆण स राशिः बध्यतॆ तॆन प्रकारॆणॆत्यर्थः | तद्यथा | मॆषवृषधनुर्धराणामन्यतमॆ लग्नॆ निगडैः बध्यतॆ | कर्कटमकरमीनानामन्यतमॆ लग्नॆ बन्धनं विना दुर्गॆ स्थिता रक्ष्यतॆ | वृश्चिकलग्नॆ भूगृहॆ बध्यतॆ | भुजगनिगडपाशभृदिति | यस्मिन् द्रॆष्काणॆ पुरुषॊ जातः स चॆद्भुजगपाशभृद्भवति सर्पद्रॆष्काणॊ निगडपाशभृद्वा द्रॆष्काणः स च प्रथमपञ्चमनवमानामित्यनया गणनया यस्य राशॆः सम्बन्धी भवति स चॆद्राशिः बलवता असौम्यॆन पापग्रहॆणान्यतमॆन दृश्यतॆ तथा जातस्य तद्भवनसमानं निबन्धनं तद्वत्तॆनैव प्रकारॆण विकल्प्यम् | भुजगद्रॆष्काणः कर्कटद्वितीयः कर्कटतृतीयः वृश्चिकाद्यः वृश्चिकद्वितीयः मीनन्त्यश्च | निगडद्रॆष्काणॊ मकराद्यः | भुजगनिगडपाशभृदिति कैश्चिद् व्याख्यातम् | तत्र पांशभृदनॆन द्रॆष्काणॊ न पठितः | तस्मात्भुजगपाशभृन्निगडपाशभृदिति व्याख्यॆयम् | भुजगपाशभृन्निगडपाशभृद्भुजङ्गादिभागैर्बलवदसौम्यनिरीक्षितैश्च तद्वत् | इति स्पृष्टॊ भवॆदित्यर्थः | अस्मिन् श्लॊकॆ पठति इति || 16 || 440 परुषवचनॊऽपस्मारार्तः क्षयी च निशापतौ सरवितनयॆ वक्रलॊकं गतॆ परिवॆषगॆ | रवियमकुजैः सौम्यादृष्टैर्नभस्थलमाश्रितैर्भूतकमनुजः पूर्वॊद्दिष्टैर्वराधममध्यमाः || 17 || इति श्रीवराहमिहिराचार्य प्रणीतॆ बृहज्जातकॆ अनिष्टाध्यायः सम्पूर्णः || 23 ||  भट्टॊत्पलः-आन्यानप्यनिष्टयॊगान् हरिण्याह परुषवचन इति | निशापतौ चन्द्रॆ-सरवितनयॆ सौरसहितॆ वक्रालॊकगतॆ भौमॆन दृष्टॆ परिवॆषगॆ तत्कालं परिवॆषयुक्तॆ जातः पुरुषः पुरुषवचनः सदाऽप्रियाभिधायी, अपस्मारार्तः क्षयी च भवति | अत्र चन्द्रमसस्त्रयः प्रकाराः व्याख्याताः, त्रयश्च दॊषः | यस्यैकप्रकारश्चन्द्रमा भवति तस्यैकॊ दॊषॊ भवति | यस्य प्रकारद्वयं तॆन चन्द्रॆ सौरॆण युक्तॆ परुषवचनः सदैवाप्रियाभिधायी भवति | सरवितनयॆ भौमदृष्टॆ अपस्मारार्तॊऽपस्मारः मृत्युः | सरवितनयॆ भौमदृष्टॆ तत्कालं परिवॆषगॆ क्षयी भवति | रवियमकुजैरिति | रविरादित्यः, यमः सौरः, कुजॊऽङ्गारकः ऎतैः नभस्थलमाश्रितैः दशमस्थानस्थैः, सौम्यादृष्टैः शुभग्रहाणां मध्यान्न कॆनचिद्दृष्टै रवलॊकितैः जातॊ मनुष्यॊ भृतकौ भवति, तैः पूर्वॊद्दिष्टैग्रहैः रवियमकुजैः वराधममध्यमॊ भृतकॊ भवति | तॆषां ग्रहाणामॆवंविधॆनैकॆन भृतकॊऽपि वरः श्रॆष्ठॊ भवति | अजुगुप्सितां भृतिं करॊति | द्वाभ्यां मध्यमॊ भवति, मध्यमां भृतिं करॊति | त्रिभिरधमॊ जुगुप्सितां भृतिं करॊति || 17 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां अनिष्टाध्यायः || 23 ||  441 442 अथ स्त्रीजातकाध्यायः || 24 || यद्यत्फलं नरभवॆऽक्षममङ्गनानां तत्तद्वदॆत्पतिषु वा सकलं विधॆयम् | तासां तु भर्तृमरणं निधनॆ वपुस्तु लग्नॆन्दुगं सुभगतास्तमयॆ पतिश्च | 1 ||  भट्टॊत्पलः-अथातः स्त्रीजातकाध्यायॊ व्यख्यायतॆ | तत्रादावॆव पुरुषजन्मॊक्तफलातिदॆशं तदधिकं च वसन्ततिलकॆनाह यद्यत्फलमिति | नरभवॆ पुञ्जन्मनि यद्यत्फलमङ्गनानां स्त्रीणामक्षमम सम्भाव्यं तत्पतिषु तद्भर्तृषु वदॆद् ब्रूयात् पुञ्जन्मॊक्तं फलं यद्वृत्ताताभ्रदृगित्यादि | तत्र यत्स्त्रीणां क्षमं यॊग्यं तत्तासामॆव वक्तव्यं, यच्चाक्षमं न सम्भवति राज्यादि तत्पतिषु तज्जातकालॆ दृष्ट्वा वक्तव्यम् | यच्च सम्भवति सुनफादियॊगानां फलं तदखिलं सकलमुभयॊरॆवं वक्तव्यम् | तानि च त्रिविधानि फलानि | कानिचित्स्त्रीर्णा वक्तव्यानि, कानिचित्पतिषु, कानिचिद्द्वयॊरपि | वृत्ताताम्रदृगित्याकारप्रदर्शनानि स्त्रीणामॆव वक्तव्यानि, राजयॊगादिफलानि तत्पतिषु | तत्पतीनां सुनफादियॊगफलानि सुखदुःखप्रदर्शकानि उभयॊरपि | अथवा सकलं समग्रं स्त्रीजातकफलं तत्पतिषु विधॆयं वक्तव्यम् | तासामित्यादि | तासां स्त्रीणां निधनॆऽष्टमॆ स्थानॆ भर्तृमरणं यथा वक्तव्यम् तथॊपरिष्टाद्वक्ष्यति | वपुस्तु शरीरं लग्नॆन्दुगं लग्नचन्द्रयॊर्गतं तच्चापि तासां यथा वक्ष्यति | तासां सुभगता सौभाग्यं यादृग्भाविपतिर्वा तादृगस्तमयॆ सप्तमस्थानाद्वक्तव्यम् | तदपि वक्ष्यति || 1 || 443 ||  युग्मॆषु लग्नशशिनॊः प्रकृतिस्थिता स्त्री सच्छीलभूषणयुता शुभदृष्टयॊश्च | ऒजः स्थयॊश्च मनुजाकृतिशीलयुक्ता पापा च पापयुतवीक्षितयॊर्गुणॊना || 2 ||  भट्टॊत्पलः-यदुक्तं वपुस्तु लग्नॆन्दुगं तत्प्रदर्शनं वसन्ततिलकॆनाह युग्मॆष्विति | लग्नशशिनॊरुदयचन्द्रयॊरपि युग्मॆषु समराशिषु स्थितयॊः स्त्री यॊषित्प्रकृतिस्थिता स्त्रीस्वभावा भवति | प्रकृतौ स्वभावॆ तिष्ठति | तयॊरॆव लग्नॆन्द्वॊः शुभदृष्टयॊः सौम्यग्रहावलॊकितयॊः सच्छीलभूषणयुता भवति | सच्छीलं शॊभनचरित्रं तदॆव भूषणमलङ्करणं तॆन युता अथवा शॊभनॆन शीलॆन भूषणैश्च युता | ऒजःस्थयॊरिति | तयॊरॆव लग्नॆन्द्वॊरॊजः स्थयॊर्विषमराशिगतयॊः मनुजाकृतिशीलयुक्ता पुरुषाकारा पुरुषशीला भवति | तयॊः लग्नॆन्द्रॊः पापयुतवीक्षितयॊः पापसंयुतयॊः अवलॊकितयॊर्वा पापा पापशीला गुणॊना सर्वगुणरहिता च भवति | अर्थादॆवैकस्मिन्समराशिगॆ अन्यस्मिन् विषमराशिगॆ पुँस्त्रियॊर्मध्यस्वरूपाकारा भवति | ऎवमॆकस्मिन् शुभग्रहयुतॆ अन्यस्मिन्पापयुतॆ 444 सच्छीला भवति, असच्छीला च मिश्रॆत्यर्थः | ऎवमॆकस्मिन् शुभग्रहदृष्टॆ अन्यस्मिन्पापदृष्टॆऽपि | ऎवमुभयॊरपि सौम्यासौम्ययुतदृष्टयॊश्च | अनया दृष्ट्या शॆषकल्पना कार्या | 2 ||  भट्टॊत्पलः-अथ भौमक्षॆ लग्नगॆ वा भौमादित्रिंशां . स्वरूपमिन्द्रवज्रयाह कन्यैवॆति | भूम्यात्मजक्षॆ भौमक्षॆत्रॆ मॆषवृश्चिकयॊरन्यतरॆ लग्नगतॆ चन्द्रगतॆ वा तत्र च वक्रार्किजीवॆन्दुजभार्गवानां कुजयमजीवज्ञसितानामंशकॆषु त्रिंशद्भागॆषु क्रमॆण फलनिर्दॆशॊ वक्तव्यः | तद्यथा-भौमलग्नॆ भौमत्रिंशांशकॆ लग्नगतॆ चन्द्रगतॆ वा जाता कन्यैव दुष्टा भवत्यनूढापि सा पुरुषसम्प्रयॊगॆ च व्रजति गच्छतीत्यर्थः | सौरत्रिशांशकजाता कन्यैव दास्यं दासभावं व्रजति जनयति | इहास्मिन् भौमक्षॆत्रॆ जीवत्रिशांशकॆ साध्वी सच्छीला भवति | बुधत्रिशांशकॆ जाता समाया मायायुक्ता भवति | शुक्रत्रिशांशकॆ जाता कुचरित्रयुक्ता भवति दुर्वृत्ता इति| ऎवं त्रिंशांशकफलं सर्वदा गुणतया परीक्षितव्यम् | 3 || 445 दुष्टा पुनर्भूः सगुणा कलाज्ञा ख्याता गुणैश्वसुरपूजितक्षॆ |  स्यात्कापटी क्लीबसमा सती च बौधॆ गुणाढ्या प्रविकीर्णकामा || 4 || भट्टॊत्पलः-अथ बुधशुक्रक्षॆत्रयॊरन्यतमॆ लग्नगॆ चन्द्रगॆ वा भौमादित्रिंशांशकजातायाः स्वरूपमिन्द्रवज्रयाह दुष्टति | अंशवॆषु वक्रार्किजीवॆन्दुजभार्गवानामिति सर्वत्रानुवर्ततॆ | असुरपूजित शुक्रस्तस्यक्षॆ वृषतुलयॊरन्यतमॆ लग्नगॆ चन्द्रगॆ वा भौमत्रिशांशकॆ जाता दुष्टा दुष्टशीला भवति, शनित्रिशांशकॆ जाता पुनर्भूः पाणिग्रहणादनन्तर मन्यस्य भार्या भवति | जीवत्रिशांशकॆ जाता सगुणा गुणवती भवति | बुधत्रिशांशकॆ जाता कलाज्ञा भवति | गीतवाद्यनृत्यचित्रादिषु कुशला | शुक्रत्रिशांशकॆ जाता गुणैः शीलादिभिः ख्याता भवति | स्यात्कापटीत्यादि | बौधॆ मिथुनकन्ययॊरन्यतरॆ लग्नगॆ वा भौमत्रिशांशकॆ जाता कापटी कपटासक्ता भवति| सौरत्रिशांशकॆ जाता क्लीबसमा नपुंसकतुल्या भवति | बृहस्पतित्रिंशांशकजाता साध्वी भवति | बुधत्रिशांशकजाता गुणाढया गुणबहुला भवति | शुक्रत्रिंशांशकजाता प्रविकीर्णकामा विक्षिप्तमन्मथा सर्वपुरुषगामिनी भवतीति|4 || 446 स्वच्छन्दा पतिघातिनी बहुगुणा शिल्पिन्यसाध्वीन्दुभॆ न्राचारा कुलटार्कभॆ नृपवधू पुञ्चष्टितागम्यगा | जैवॆ नैकगुणाल्परत्यतिगुणा विज्ञानयुक्ता सती दासी नीचरतार्किभॆ पतिरता दुष्टाऽप्रजा स्वांशकैः || 5 ||  भट्टॊत्पलः-अथ चन्द्रार्कजीवसौरक्षॆत्रणामन्यतमॆ लग्नगॆ चन्द्रगॆ वा भौमादित्रिशांशकजातायां स्वरूपं शार्दूलविक्रीडि तॆनाहस्वच्छन्दॆति | इन्दुभॆ कर्कटॆ लग्नॆ तद्गतॆ वा चन्द्रॆ भौमत्रिशांशकजाता स्वच्छन्दा स्वैरिणी यथॆष्टच्यवहारिणी भवति | सौरत्रिशांशकजाता पतिघातिनी भवति | जीवत्रिशांशकजाता बहुगुणा भवति | बुधत्रिशांशकजाता शिल्पिनी शिल्पकर्मनिरता भवति | शुक्रत्रिशांशकजाता असाध्वी दुःशीला भवति | न्राचारॆति | अर्कभॆ सिंहॆ लग्नॆ तद्गतॆ वा चन्द्रॆ भौमत्रिशांशकॆ जाता ब्राचारा पुरुषाचारा भवति | नुरिवाचारॊ यस्याः | कॆचिद्वाचाटा इति पठन्ति, बहुभाषिणी | सौरत्रिशांशकॆ जाता कुलटा असाध्वी भवति | जीवत्रिशांशकॆ जाता नृपवधूः राजभार्या भवति | बुधत्रिंशांशकॆ जाता पुंचॆष्टिता पुरुषस्वभावा भवति | शुक्रत्रिशांशकॆ जाता अगम्यगाऽगम्यपुरुषगामिनी भवति | जीवक्षॆत्रॆ धन्विमीनयॊरन्यतरॆ लग्नगतॆ तद्गतॆ वा चन्द्रॆ भौमत्रिशांशकॆ जाता नैकगुणा बहुगुणा भवति | सौरत्रिशांशकॆजाता अल्परतिः शीघ्रवॆगा भवति | बृहस्पतित्रिशांशकजाता अतिगुणा बहुगुणवती भवति | बुधत्रिशांशकॆ जाता विज्ञानयुक्ता आश्चर्ययुक्ता भवति | शुक्रत्रिशांशकॆ जाता असती असाध्वी भवति| दासीति | आर्किभॆ सौरक्षॆत्रॆ मकरकुम्भयॊरन्यतरॆ लग्नगॆ चन्द्रगॆ वा भौमत्रिशांशकजाता दासी भवति | सौरत्रिशांशकजाता नीचरता नीचपुरुषसक्ता 447 भवति | जीवत्रिशांशकजाता पतिरता भर्तृभक्ता भवति | बुधत्रिशांशकॆ जाता दुष्टा भवति | शुक्रत्रिशांशकॆ जाताऽप्रजा वन्ध्या भवति | 5 ||  शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् | बलाबलविकल्पॆन तयॊरुत्तं विचिन्तयॆत् || 6 ||  भट्टॊत्पलः-ऎतदंशकैरिति तदर्थमनुष्टुभाह शतीति | राशिं राशिमधिकृत्य तदॆततिंत्रशांशकॆ उक्त फलं तच्छशिलग्नशमायुक्तॆश्चन्द्रलग्नयुक्तॆस्त्रिशांशकॆ यस्मिन्राशौ इशकॆ चन्द्रमा भवति तद्वत् फलं वाच्यम् | यद्वा लग्नं भवति तस्य यस्त्रिशांशस्तदद्वशाद्वा | कथमुच्यतॆ | बलाबलविकल्पॆनॆत्यादि | चन्द्रलग्नयॊः यॊ बलवान्सः यत्र राशौ यत्र त्रिशांशकॆ भवति व्यवस्थितः तस्य यदुक्तं फलं तदॆवं विचिन्तयॆत् | ऎतदुक्तं भवति-अन्यस्मिन्राशावन्यस्मिन् त्रिशांशकॆ चन्द्रमा 448 भवति अन्यस्मिन्राशौ अन्यस्मिन् त्रिशांशकॆ लग्नं तदा तयॊर्यॊ बलवान् स यस्मिन् त्रिशांशकॆ भवति तस्यैव फलं वदॆत् | यॊ बलरहितस्तस्य फलं न भवतीति | 6 ||  दृक्संस्थावसितसितौ परस्परांशॆ शौक्रॆ वा यदि घटराशिसम्भवॊंऽशः | स्त्रीभिः स्त्रीमदनविषानलप्रदीप्तं संशान्तिं नयति नराकृतिस्थिताभिः || 7 ||  भट्टॊत्पलः-अथ यस्मिन् यॊगॆ जाता स्त्रीभिः पुरुषाकारसंस्थभिः सह मदनं शमयति तद्यॊगद्वयज्ञानं प्रहर्षिण्याह दृक्संस्थाविति | असितः सौरः, सितः शुक्रः ऎतावसितसितौ परस्परांशॆ अन्यॊन्यांशगतौ सौरः शुक्रांशगतः, शुक्रः, सौरांशगतौ च परस्परं दृक्संस्थौ अन्यॊन्यं पश्यतः ऎकॊ यॊगः | अथवा शौक्रॆ राशौ वृषतुलयॊरन्यतरॆ लग्नगतॆ तत्कालं यदि घटराशिसम्भवॊंऽशः कुम्भनवंशकॊदयॊ भवति तदा द्वितीयॊ यॊगः | अस्मिन्यॊगद्वयॆ जाता स्त्री अन्याभिरपराभिः स्त्रीभिः यॊषिद्भिः नराकृतिस्थिताभिः पुरुषसंस्थानाभिः पुरुषाकारयुताभिः मदनविषानलं प्रदीप्तं कामविषाग्निं प्रज्वलितं शान्तिं नयति शमयति| ऎतदुक्तं भवति-अन्य स्त्री स्वजघनॆ पुरुषरूपॆण चर्ममयं लिङ्ग बध्वा पुंवत् तस्या रतिमभिजनयति | यतॊऽतिकामार्त्तत्वात् पुरुषयॊगं गन्तुं न शक्नॊति || 7 || 449 शून्यॆ कापुरुषॊऽबलॆऽस्तभवनॆ सौम्यग्रहावीक्षितॆ क्लीबॊऽस्तॆ बुधमन्दयॊश्चरगृहॆ नित्यं प्रवासान्वितः | उत्सृष्टा रविणा कुजॆन विधवा बाल्यॆऽस्तराशिस्थितॆ कन्यैवाशुभवीक्षितॆऽर्कतनयॆ द्यूनॆ जरां गच्छति || 8 ||  भट्टॊत्पलः-अथास्तमयॆ पतिश्चॆति यदुक्तं तद्विज्ञानं शार्दूलविक्रीडि तॆनाहशून्यॆ इति | लग्नाच्चन्द्राद्वा यः सप्तमॊ राशिः स यदि शून्यः सर्वग्रहवियुक्तॊ भवति अबलॊ बलहीनश्च तस्मिन्नस्तभवनॆ शून्यॆ अबलॆ च बलरहितॆ तथा सौम्यैः शुभग्रहैरनिरीक्षितॆ न कॆनचिच्छुभग्रहॆण दृश्यमानॆ न कॆनचित्सौम्यग्रहॆण युतॆ जातायाः भर्ता कापुरुषः कुत्सितपुरुषॊ भवति | अथवा लग्नाच्चन्द्राद्वा यः सप्तमॊ राशिस्तत्र बुधमन्दयॊज्ञसौरयॊरन्यतरॆ स्थितॆ जातायाः भर्ता क्लीबः पुरुषाकारहीनॊ भवति | यस्याश्चरगृहं चरराशिः सप्तमॆ भवति तस्याः नित्यं सर्वकालं भर्ता प्रवासान्वितः प्रवासशीलॊ भवति, अर्थादॆवं स्थिरॆ सप्तमॆ नित्यं गृहॆ स्थितॊ भवति, द्विस्वभावॆ किञ्चित्प्रवासॆ किञ्चिद्गृहॆ स्थितॊ भवति | उत्कृष्टा रविणा कुजॆन विधवॆति | तरणौ रवावस्तस्थितॆ सप्तमगॆ जाता पतिनॊत्सृष्टा भर्त्रा त्यक्ता भवति | ऎवं कुजॆ सप्तमगतॆ तस्मिश्चाशुभैः पापैः वीक्षितॆ बाल्यॆ विधवा रण्डा विगतभर्तृका भवति | अर्कतनयॆ सौरॆ द्यूनॆ सप्तमगॆ तस्मिश्चाशुभैः पापैर्वीक्षितॆ दृष्टॆ कन्यैव जरामुपगच्छति कुमार्यॆव वृद्धा भवति वृद्धत्वं प्राप्नॊतीति | विवाहं न करॊतीत्यर्थः | अत्र चन्द्रलग्नयॊर्बलवशा दॆवॆतद्वक्तव्यम् || 8 || 450 आग्नॆयैर्विधवास्तराशिसहितैर्मिश्रैः पुनर्भूर्भवॆत्| क्रूरॆ हीनबलॆऽस्तगॆ स्वपतिना सौम्यॆक्षितॆ प्रॊञ्झिता | अन्यॊन्यांशगयॊः सितावनिजयॊरन्यप्रसक्ताङ्गना द्यूनॆ वा यदि शीतरश्मिसहितौ भर्तुस्तदानुज्ञया || 9 ||  भट्टॊत्पलः-ननु चन्द्रात्सप्तमस्थानादप्यॆतत्फलं कथमवगम्यतॆ ? उच्यतॆ. स्थानॆ चन्द्रमसः फलदर्शनाभावात् पुनरपि जाता कीदृशी भविष्यतीति तद्विज्ञानं शार्दूलविक्रीडितॆनाह‌आग्नॆयैरिति | ऎकैकस्मिन्पापग्रहॆ सप्तमॆ फलमुक्तम् | यदि बहवः आग्नॆयाः क्रूराः सप्तमस्था भवन्ति तदा प्रतिग्रहॊक्तं फलं त्यक्त्वा तैराग्नॆयैरस्तराशिसहितैः विधवैव भवति | मिश्रैः क्रूरैः सौम्यैश्च सप्तमस्थैः पुनर्भुर्भवॆत्| स्वपाणिग्राहिर्ण त्यक्त्वा अन्यस्य भार्या भवतीत्यर्थः | द्विसंस्कृता | तथा च ग्रन्थान्तरॆ पुनर्भुलक्षणमुक्तम्स्वैरिणी स्वपर्ति हित्वा सवर्ण कामतः श्रयॆत् | अक्षतं च प्रजाद्वारं पुनर्भूसंस्कृता पुनः |” क्रूर इति | क्रूर आदित्याङ्गारकशनैश्चराणामन्यतमॆऽस्तगॆ लग्नात्सप्तमस्थॆ तस्मिश्च हीनबलॆ सर्वबलरहितॆ तथाभूतॆ सौम्यॆक्षितॆ शुभग्रहाणां बुधगुरुसितानामन्यतमॆन दृष्टॆ जाता स्वपतिना आत्मीयॆनैव भत्र प्रॊज्झिता त्यक्ता भवति | अन्यॊन्यांशगयॊरिति | सितः शुक्रः, अवनिजॊऽङ्गारकः ऎतयॊः सितावनिजयॊः अन्यॊन्यांशगयॊः परस्परनवांशकस्थितयॊः यत्र तत्र राशौ सितनवांशकॆ भौम भौमनवांशकै शुक्रः 451 तदा साङ्गना स्त्री अन्यप्रसक्ता परपुरुषरता भवति | अथवा द्यूनॆ लग्नात्सप्तमॆ स्थानॆ तावॆव यद्यङ्गरकशुक्रा शीतरश्मिसहितौ चन्द्रसहितौ भवतस्तथाप्यन्यपुरुषासक्ता भवति | किन्तु भर्तुरनुज्ञया पत्युराज्ञयॆति, न तु स्वातन्त्र्यॆणॆति | 9 || सौरारक्षॆ लग्नगॆ सॆन्दुशुक्नॆ मात्रा सार्ध बन्धकी पापदृष्ट | कौजॆऽस्तांशॆ सौरिणा व्याधियॊनिश्चारुश्रॊणी वल्लभा सद्ग्रहांशॆ || 10 || भट्टॊत्पलः-अथ यॆन यॊगॆन जाता मात्रा सह बन्धकी भवति, यॆन च| रुगर्दितयॊनिर्यॆन च सुभगा, तद्यॊगत्रयं शालिन्याह सौरारर्क्षॆ इति | सौरः शनैश्चरः तद्‌ऋक्षॆ मकरकुम्भौ, आरॊ भौमस्तद्‌ऋक्षॆ मॆषवृश्चिकौ ऎषामन्यतरॆ लग्नगतॆ तस्मिश्च सॆन्दुशुक्रॆ इन्दुना चन्द्रॆण शुक्रॆण च संयुक्तै तथाभूतॆ पापदृष्ट पापग्रहावलॊकितॆ जाता बन्धकी परपुरुषगामिनी भवति न कॆवलं यावन्मात्रा सार्ध जनन्या सह बन्धकी जाता तन्मातापि बन्धकी परपुरुषगामिनी भवति | अस्तांशॆ लग्नात्सप्तमॆ स्थानॆ यॊ राशिस्तत्कालं कौजॊ भौमनवांशकॊ भवति तस्मिश्च कौजॆऽस्तांशॆ सौरिणा| रविजॆन दृष्टॆ जाता व्याधियॊनिः सरॊगभगा भवति | यदुक्तं सुभगतास्तमयॆ तदर्थमाह-- | चारुश्रॊणी वल्लभा सद्ग्रहांश इति | यदा लग्नात्सप्तमॆ स्थानॆ 452 सद्ग्रहस्य शुभग्रहस्य नवांशकॊदयॊ भवति तदा चारुश्रॊणी शॊभनभगा वल्लभा पत्युः प्रिया च भवति | 10 || वृद्धॊ मूर्खः सूर्यजक्षॆऽशकॆ वा स्त्रीलॊलः स्यात्क्रॊधनश्चावनॆयॆ | शौक्रॆ कान्तॊऽतीवसौभाग्ययुक्तॊ विद्वान्भर्ता नैपुणज्ञश्च बौधॆ || 11 ||  भट्टॊत्पलः-अथ यस्याः सप्तमं स्थानं शून्यं भवति तस्याः शनैश्चराङ्गारकशुक्रक्षॆत्रॆ तदंशॆ वा सप्तमॆ यादृशी भवति तद्विज्ञानं मालिन्याहवृद्ध इति | यस्या जन्मनि लग्नात्सप्तमॆ स्थानॆ सूर्यजस्य सौरस्यक्ष मकरकुम्भयॊरन्यतरं तत्सम्बन्धी नवांशकॊ वा सप्तमॆ भवति तस्याः वृद्धः मूर्खश्च भर्ता भवति | यस्याः आवनॆयस्याङ्गारकस्यर्क्षॆ मॆषवृश्चिकयॊरन्यतदंशकॊ वा सप्तमॆ भवति तस्याः स्त्रीलॊलः स्त्रीषु स्पृहयालुः क्रॊधनः क्रॊधशीलश्च भर्ता भवति | ऎवं शौक्रॆ राशौ वृषतुलयॊरन्यतरॆ तदंशकॆ वा सप्तमस्थॆ कान्तॊऽतीवदर्शनीयॊऽतीवसौभाग्ययुक्तॊ वल्लभश्च भर्ता भवति | बौधॆ मिथुनकन्ययॊरन्यतरॆ तदंशकॆ वा सप्तमस्थॆ जातायाः भर्ता विद्वान् पण्डितः नैपुणज्ञश्च सर्वत्र सूक्ष्मदृष्टिर्भवति | 11 ||  453 मदनवशगतॊ मृदुश्च चान्द्रॆ त्रिदशगुरौ गुणवान् जितॆन्द्रियश्च | अतिमृदुरतिकर्मकृच्च सौर्यॆ भवति गृहॆऽस्तमयस्थितॆऽशकॆ वा || 12 || भट्टॊत्पलः-अथ चन्द्रराशौं सप्तमॆ तन्नवांशकॆ जीवराशी वादित्यराशौ च तन्नवांशकॆ वा तद्विज्ञानं पुष्पिताग्रयाहमदनॆति | यस्याः जातायाः सप्तमॆ स्थानॆ चान्द्रॊ राशिः कर्कटस्तदंशकॊ वा भवति तस्याः भर्ता मदनवशगतः कामातुरॊ मृदुश्चाकठिनश्च भवति | त्रिदशगुरॊः जीवस्य राशौ धन्विमीनयॊरन्यतरॆ सप्तमस्थॆ तदंशकॆ वा जातायाः भर्ता गुणवान् शौर्यादिभिर्गुणैर्युक्तॊ जितॆन्द्रियॊ दान्तश्च भवति | सौर्यॆ राशौ सिंहॆ तदंशकॆ वा सप्तमस्थॆ जातायाः भर्ताऽतिमृदुरतीवाकठिनः, अतिकर्मकृदतीवव्यापारकृद्भवति व्यापारकरणशीलः| कॆचिद्रतिकर्मकृदतिकामातुरः कामासक्तॊ भवति | ऎवमस्तमयस्थितॆ सप्तमस्थाननस्थॆ गृहॆ राशावंशकॆ वा फलमभिहितं यत्रान्यसम्बन्धी राशिः सप्तमॆ भवति अन्यसम्बन्धी नवांशश्च तत्र राशयंशपयॊः यॊ बलवांस्तदीयं फलं वाच्यमिति || 1 2 ||  454 ईष्र्यान्विता सुखपरा शशिशुक्रलग्नॆ ज्ञॆन्द्वॊः कलासु निपुणा सुखिता गुणाढया | शुक्रज्ञयॊस्तु रुचिरा सुभगा कलाज्ञा त्रिष्वप्यनॆकवसुसौख्यगुणा शुभॆषु | 13 ||  भट्टॊत्पलः-अथ चन्द्रशुक्रबुधान द्वी त्रयॊ वा लग्नगता यस्या भवन्ति तस्याः स्वरूपं वसन्ततिलकॆनाह ईष्र्यॆति | यस्याः जन्मलग्नॆ शशिशुक्रौ चन्द्रसितौ समॆतौ भवतः सा ईष्र्यान्विता मात्सर्ययुक्ता सुखपरा सुखासक्ता च भवति | ज्ञॆन्द्वॊः बुधचन्द्रयॊः लग्नगतयॊः कलासु निपुणा तज्ज्ञा सुखिता सञ्जातसुखा भवति, गुणाढया गुणबहुला च | शुक्रज्ञयॊः सितबुधयॊर्लग्नगयॊः रुचिरा दर्शनीया सुकान्ता सुभगा भर्तृवल्लभा कलाज्ञा च भवति | त्रिष्वपीति | यस्यास्त्रयॊऽपि चन्द्रबुधशुक्रा लग्नगता भवन्ति साऽनॆकवसुसौख्यगुणा अनॆकैर्वसुभिः धनैः सौख्यैरनॆकैबहुभिश्च गुणॆयुक्ता भवति | अपिशब्दात् त्रिषु शुभॆषु बुधगुरुसितॆषु लग्नगतॆषु जाता अनॆकवसुसौख्यगुणा भवति | 13 ||  455 क्रूरॆऽष्टमॆ विधवता निधनॆश्वरॊंऽशॆ यस्य स्थितॊ वयसि तस्य समॆ प्रदिष्टा | सत्स्वर्थगॆषु मरणं स्वयमॆव तस्याः कन्यालिगॊहरिषु चाल्पसुतत्वमिन्दौ | 14 ||  भट्टॊत्पलः-अत्र पूर्वं तासां भर्तृमरणमिति यदुक्तं तद्विज्ञानं वसन्ततिलकॆनाहक्रूरॆऽष्टम इति | यस्याः क्रूरग्रहॊष्टमॆ स्थानॆ भवति तस्या विधवता भवति| कस्मिन्काल इत्याह | निधनॆश्वरॊ यस्यॆति | निधनॆश्वरॊऽष्टकस्थानाधिपतिर्यस्य ग्रहस्य नवांशकॆ भवति तस्य यद्वयस्तस्मिन्वयसि विवाहात्परतस्तस्या वैधव्यं वक्तव्यम् | ऎकं द्वौ नव विंशतिरित्यादि ग्रहवयः | ऎवं कॆचिद्वदन्ति | वयं पुनः दशान्तर्दशाकालं वयःशब्दॆन ब्रूमः | यत्र निधनॆश्वरश्चन्द्रभौमयॊरन्यतरंऽशॆ भवति तत्र चन्द्रभौमयॊर्वयःप्रमाणं वर्षत्रितयम् | तत्र प्रायः कुमारीणां विवाहासंभवस्तस्मादष्टमस्थानाधिपतिर्यस्यांशकॆ व्यवस्थितस्यस्यान्तर्दशाधिपति स्तस्या विवाहात्परं विधवता प्रदिष्टॊक्ता सत्स्विति | यस्या जन्मनि| क्रूरग्रहॊऽष्टमगॊ भवति सद्ग्रहः शुभग्रहः | कश्चिदर्थगॊ द्वितीयस्थानगतॊ भवति तस्याः भर्तुः पुरस्तात् स्वस्यैव मरणं भवति | यस्या जन्मनि कन्यायामलिनि वृश्चिकॆ गवि वृषॆ हरौ सिंहॆ वा इन्दुः स्थितॊ भवति तस्या अल्पसुतत्वं स्वल्पपुत्रत्वं वक्तव्यम् | कन्यालिगॊहरीणामन्यतमश्चन्द्रराशिर्यस्यास्तस्याः अल्पाः पुत्रा भवन्तीति || 14 ||  456 सौरॆ मध्यबलॆ बलॆन रहितैः शीतांशुशुक्रॆन्दुजैः शॆषॆवीर्यसमन्वितैः पुरुषिणी यद्यॊजराश्युद्गमः | झीवारास्फुजिदैन्दवॆषु बलिषु प्राग्लग्नराशौ समॆ विख्याता भुवि नैकशास्त्रनिपुणा स्त्री ब्रह्मवादिन्यपि || 15 ||  भट्टॊत्पलः-अथ यस्मिन्यॊगॆ जाता पुरुषिणी भवति, यस्मिश्च ब्रह्मवादिनी भवति, तद्यॊगद्वयं शार्दूलविक्रीडि तॆनाहसौरॆ इति | सौरॆ शनैश्चरॆ मध्यबलॆ नातिबलवति न चातिबलहीनॆ तथा शीतांशुशुक्रॆन्दुजैः शशिसितबुधैः बलॆन वीर्यॆण रहितैः विवर्जितैः शॆषैरादित्यभौमजीवैर्वीर्यसमन्वितैः सबलैर्यत्र तत्रावस्थितैर्यद्यॊजराशिः विषमराशिरुद्गमः उद्गम उदयॆ लग्नॆ भवति | विषमराशिः लग्नॆ जाता भवतीत्यर्थः | तदा जाता मॆषमिथुनसिंहतुलाधन्विकुम्भानामन्यतमॆ सा पुरुषिणी भवति | बहुपुरुषॆत्यर्थः | जीवारास्पुजिदैन्दवॆष्विति | जीवॊ बृहस्पतिः, आरॊ भौमः, आस्फुजिच्छुक्रः, ऐन्दवॊ बुधः ऎतॆषु यत्र तत्रावस्थितॆषु बलिषु वीर्यवत्सु तथा प्राग्लग्नॆ यदि समराशिर्भवति तदा जाता स्त्री भुवि भूमौ विख्याता सर्वत्र प्रथिता अनॆकशास्त्रकुशला अनॆकॆषु बहुषु शास्त्रॆषु कुशला तज्ज्ञा ब्रह्मवादिन्यपि मॊक्षशास्त्रॆ कुशला भवति | 15 ||  457 पापॆऽस्तॆ नवमगतग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयॆन | उद्वाहॆ वरणविधौ प्रदानकालॆ चिन्तायामपि सकलं विधॆयमॆतत् | 16 || इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ स्त्रीजातकाध्यायः सम्पूर्णः || 24 ||  भट्टॊत्पलः-अथ यद्यॊगजाता प्रव्रज्यामाश्रयति तद्विज्ञानं प्रहर्षिण्याहपापॆ इति | पूर्वं सप्तमस्थस्य ग्रहस्य पृथक् पृथक् फलमुक्तं तत्र लग्नात्पापॆ क्रूरग्रहॆऽस्तॆ सप्तमस्थॆ यद्यन्यः कश्चिद् ग्रहॊ लग्नान्नवमगतॊ भवति तदा सा स्त्री प्रागुक्तं फलं न प्राप्नॊति | नवमगतस्य ग्रहस्य तुल्यां तत्कथितां प्रव्रज्यां युवतिः स्त्री असंशयॆन निःसंशयॆनॊपैति प्राप्नॊति | ऎवं स्त्री जातकं व्याख्यातम् | उद्वाहॆ इति | अत्र यॆ यॊगा व्याख्यातास्तॆ चॆदुद्वाहॆ विवाहकालॆ भवन्ति तदा यॊगॊक्तफलं वाच्यम् | तथा तस्याः वरणविधौ कन्यामार्गणकालॆ प्रदानकालॆ कन्यादानकालॆ च चिन्तायां प्रश्नकालॆऽप्यॆवं सकलं सर्व विधॆयं वक्तव्यम् | स्त्रीजातकॆषु यॆ शुभाशुभयॊगा उक्तास्तॆऽत्रापि शुभाशुभा वक्तव्याः, न सकलजातकॊक्ताः | तॆ च यथाप्रदर्शितकालॆनैव ज्ञॆयाः यॆषां च वक्ष्यमाणविवाहपटलॊक्तयॊगैर्बाधॊ भविष्यति तॆऽत्र न वक्तव्याः | युक्त्यैतद्विवाह पटलमुक्तमिति | 16 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां स्त्रीजातकाध्यायः || 24 || 458 459 अथ नैर्याणिकाध्यायः || 25 || मृत्यु र्मृत्युग्रहॆ क्षणॆन बलिभि स्त्रद्धातु कॊपॊद्भव स्तत्संयुक्तभगात्रजॊ बहुभवॊ वीर्यान्वितै र्भूरिभिः, अग्न्यम्ब्बायुधजॊ ज्वरामयकृतस्तृट्धुत्कृतश्चाष्टमॆ सूर्याद्यैर्निधनॆ चरादिषु परस्वाध्वप्रदॆशॆष्विति || 1 ||  भट्टॊत्पलः-अथातॊ नैर्याणिकाध्यायॊ व्याख्यायतॆ | तत्रादावॆवाष्टमॆ स्थानॆ ग्रहदृष्टॆ वियुक्तॆ युतॆ वा यथा म्रियतॆ तद्विज्ञानं शार्दूलविक्रीडि तॆनाहमृत्युरिति | बलिभिग्रीहैमृत्युगृहॆ क्षणॆन मृत्युर्भवति | यस्य जन्मलग्नान्मृत्युगृहमष्टमं स्थानं शून्यं यॊ ग्रहॊ बलवान् पश्यति तस्य ग्रहस्य यॊ धातुरुक्तस्तद्धातुकॊपॊद्भवस्तॆन धातुना प्रकुपितॆन स म्रियतॆ | तद्यथाऽर्कस्य पित्तं, चन्द्रस्य वातकफौ, भौमस्य पित्तं, बुधस्य त्रयॊऽपि वातपित्तश्लॆष्माणः, बृहस्पतॆः कफः, शुक्रस्य वातकफौ, सौरस्य वात इति | तत्संयुक्तभगात्रज इति | तदित्यनॆन लग्नादष्टमस्थानस्थ परामर्शः | तॆनाष्टमॆन युक्तं यद्भगात्रं तत्संयुक्तभगात्रं तज्जातस्तत्सम्भूतः लग्नादष्टमॊ राशिः यस्मिन्नङ्गॆ कालाख्यपुरुषस्य वर्ततॆ तस्मिन्नङ्गॆ दृष्टग्रहॊक्तदॊषकॊपाम्रियतॆ | भूरिभिर्बहुभिः वीर्यान्वितैः सबलैः बहुभवॊ मृत्युः यदाबहवॊऽपि वीर्यान्वितास्तच्छून्यमष्टमस्थानं पश्यन्ति तदा यावन्तः पश्यन्ति तावतां ग्रहाणामुक्तदॊषप्रकॊपॆन तॆ च बहवॊ दॊषा यस्मिन्कालपुरुषाङ्गॆ लग्नादष्टमराशिवर्ततॆ तस्मिन्नङ्गॆ प्रकुप्यं निधनं कुर्वन्तीति | अग्न्यम्ब्वायुधज इति | सूर्यादिभिरष्टमॆ स्थानॆ स्थितैरग्न्यादिभिर्मृत्युर्भवति | तद्यथा-यस्य लग्नादष्टमॆ स्थानॆऽर्कॊ भवति तस्याग्निहॆतुकॊ मृत्युर्भवति | ऎवं चन्द्रॆऽष्टमॆऽम्बुहॆतुकः, भौमॆ आयुधहॆतुकः, बुधॆ ज्वरहॆतुकः, जीवॆ आमयकृतः अविज्ञातव्याधिहॆतुकः, शुक्रॆ तृड्ढॆतुकः, सौरॆ क्षुद्धॆतुक इति | ऎतैग्रीहैर्बलिभिर्यथॊक्त ऎव मृत्युः शुभॆन कर्मणा भवति | बलहीनैरशुभॆन मध्यबलैर्मध्यमॆनहि | विज्ञातमरणप्रकारस्य मरणदॆशज्ञानार्थमाह---निधनॆ चरादिष्विति | यस्य निधनॆऽष्टमॆ स्थानॆ चरराशिर्भवति स परदॆशॆ म्रियतॆ | यस्य स्थिरः स स्वदॆशॆ, यस्य द्विस्वभावः सॊऽध्वप्रदॆशॆ पथि म्रियत इति || 1 || 460 शैलाग्राभिहतस्य सूर्यकुजयॊर्गुत्युः खबन्धुस्थयॊः कूपॆ मन्दशशाङ्कभूमितनयैर्बन्ध्वस्तकर्मस्थितैः | कन्यायां स्वजनाद्धिमॊषणकरयॊः पापग्रहैर्दृष्टयॊः स्यातां यद्युभयॊदयॆऽर्कशशिनौ तॊयॆ तदा मज्जितः || 2 ||  भट्टॊत्पलः-अथ शैलाग्राभिघातॆषु यैर्यॊगैम्रियतॆ तान्| शार्दूलविक्रीडि तॆनाह 461 शैलाग्राभिहतस्यॆति | सूर्यकुजयॊः रविभौमयॊः युगपत्तुल्यकालं खबन्धुस्थयॊदशमयॊश्चतुर्थयॊर्वा जातस्य शैलाग्राभिहतस्य शिलाप्रहारॆण हतस्य मृत्युर्भवति | कूप इति | मन्दशशाङ्कभूमितनयैः सौरॆन्दुभौमैर्यथासंख्यै बन्ध्वस्तकर्मस्थितैश्चतुर्थसप्तमदशमस्थैः | तद्यथा-सौरॆ चतुर्थगॆ चन्द्रॆ सप्तमगॆ भौमॆ दशमगॆ जातः कूपॆ पतितॊ म्रियतॆ | कन्यायामिति | हिमॊष्णकरयॊश्चन्द्रार्कयॊः कन्यायां स्थितयॊश्च पापग्रहदृष्टयॊजतिः स्वजनॆन म्रियतॆ स्वजनॆन व्यापाद्यतॆ | उभयॊदयॆ द्विस्वभावराशावुदयॆ लग्नगतॆ तत्र चार्कशशिनौ रविचन्द्रौ यदा स्यातां भवॆतां तदा तॊयॆ जलॆ मज्जितॊ मग्नॊ म्रियतॆ|| 2 ||  मन्दॆ कर्कटगॆ जलॊदरकृतॊ मृत्युर्मुगाङ्कॆ मृगॆ शस्त्राग्निप्रभवः शशिन्यशुभयॊर्मध्यॆ कुजर्क्षॆ स्थितॆ | कन्यायां रुधिरॊत्थशॊषजनितस्तद्वत्स्थितॆ शीतगौ सौरक्षॆ यदि तद्वदॆव हिमगौ रज्ज्वग्निपातैः कृतः | 3 ||  भट्टॊत्पलः-अथान्यानपि मृत्युयॊगान् शार्दूलविक्रीडि तॆनाह मन्दॆ इति| मन्दॆ शनैश्चरॆ कर्कटगॆ कुलीरस्थॆ मृगाङ्कॆ चन्द्रॆ मृगॆ मकर स्थितॆ जातस्य जलॊदरकृतॊ जलॊदरॆण मृत्युर्भवति | शस्त्राग्निप्रभव इति | शशिनि चन्द्रॆ कुजर्क्षॆ मॆषवृश्चिकयॊरन्यतमस्थॆ तत्र चाशुभयॊर्द्वयॊः पापयॊर्मध्यस्थॆ जातस्य शस्त्राग्निप्रभवः शस्त्रॆणाग्निना वा प्रभवति तत्कृतॊ मृत्युः | कन्यायामिति| शीतगौ चन्द्रॆ कन्यायां तद्वत् स्थितॆ पापद्वयमध्यगतॆ जातस्य रुधिरॊत्थशॊषजनितॊ मृत्युर्मरणं भवति | दुष्टॆन रक्तॆन शॊषॆण वा उत्थितॊ जनित 462 उत्पन्नः | सौरक्षॆ इति | हिमगौ चन्द्रॆ सौरक्षॆ मकरकुम्भयॊरन्यतमस्थॆ तद्वत्तस्मिंश्च पापद्वयमध्यगतॆ यदि चॆज्जातस्तदा रज्ज्वग्निपातैः रज्ज्वाऽग्निना पाताद्वा म्रियत इति | 3 || बन्धार्द्धीनवमस्थयॊरशुभयॊः सौम्यग्रहादृष्टयॊद्वॆष्काणॆश्च सपाशसर्पनिगडैश्छिद्रस्थितैर्बन्धतः | कन्यायामशुभान्वितॆऽस्तमयगॆ चन्द्रॆ सितॆ मॆषगॆ सूर्यॆ लग्नगतॆ च विद्धि मरणं स्त्रीहॆतुकं मन्दिरॆ || 4 ||  भट्टॊत्पलः-अथान्यानपि मृत्युयॊगान् शार्दूलविक्रीडि तॆनाह बन्धाद्धीनवमस्थयॊरिति | अशुभयॊर्द्वयॊः पापयॊर्धनवमस्थयॊः पञ्चमनवमस्थानस्थयॊश्च सौम्यग्रहैरदृष्टयॊरनवलॊकितयॊर्जातः बन्धाद् बन्धनॆन म्रियतॆ | द्वॆष्काणॆरिति | यॆन लग्नॆन पुमान् जातस्तस्मादष्टमॆ स्थानॆ यॊ राशिस्तत्कालं वर्ततॆ तत्र यदि सपाशसर्पॊ द्रॆष्काणॊ भवति सनिगडी वा तदा जातः बन्धनॆन म्रियतॆ | तत्र भुजगपाशभृद्द्रॆष्काणः कर्कटद्वितीयः कर्कटतृतीयः वृश्चिकप्रथमः वृश्चिकद्वितीयः मीनान्त्यश्च | निगडद्रॆष्काणः मकराद्यः | कन्यायामिति | मीनलग्नजातः कन्यायामस्तगॆ सप्तमस्थॆ चन्द्रॆ तस्मिंश्चाशुभान्वितॆ कॆनचित्पापॆन सहितॆ सितॆ शुक्रॆ मॆषगॆ सूर्यॆ रवौ लग्नगतॆ जातस्य मरणं मन्दिरॆ गृहॆ स्त्रीहॆतुकं स्त्रीनिमित्तं विद्धि जानीहि || 4 || 463 शूलॆद्भिन्नतनुः सुखॆऽवनिसुतॆ सूर्यॆऽपि वा खॆ यमॆ सप्रक्षीणहिमांशुभिश्च युगपत्पापैस्त्रिकॊणाद्यगैः | बन्धुस्थॆ च रवौ वियत्यवनिजॆ क्षीणॆन्दुसंवीक्षितॆ काष्ठॆनाभिहतः प्रयाति मरणं सूर्यात्मजॆनॆक्षितॆ || 5 ||  भट्टॊत्पलः-अथान्यानपि मृत्युयॊगान् शार्दूलविक्रीडि तॆनाह शूलॊद्भिन्नतनुरिति | सुखॆ चतुर्थॆ स्थानॆऽवनिसुतॆ भौमॆ स्थितॆ || सूर्यॆऽपि वा इति | रवौ चतुर्थस्थॆ खॆ दशमॆ स्थानॆ यदि यमः सौरॊ भवति तदा जातः शूलॊद्भिन्नतनुम्रियतॆ शूलॆनॊद्भिन्ना तनुर्यस्य शूलप्रॊतस्य तस्य मरणं भवति | सप्रक्षीणॆति | पापैः रविभौमसौरैः सप्रक्षीणहिमांशुभिरतिक्षीणचन्द्रसंयुतैश्च युगपत्तुल्यकालं त्रिकॊणाद्यगैः पञ्चमनवमलग्नस्थैः | ऎतदुक्तं भवति सक्षीणचन्द्राणां पापानामॆतत्स्थानत्रयमुक्त्वाऽन्यत्रावस्थितिर्न भवति तदा चकाराच्छूलॊद्भिन्नतनुम्रियतॆ | बन्धुस्थॆ चॆति | रवौ सूर्यॆ बन्धुस्थॆ लग्नाच्चतुर्थगॆ, वियति दशमॆऽवनिसुतॆ भौमॆ स्थितॆ तस्मिश्च क्षीणॆन्दुना क्षीणचन्द्रॆण संवीक्षितॆ तदा| जातश्चकाराच्छूलॊद्भिन्नतनुम्रियतॆ | अस्मिन्नॆव यॊगॆ चतुर्थगॆ रवौ दशमस्थॆ भौमॆ तस्मिश्च सूर्यात्मजॆन शनैश्चरॆणॆक्षितॆ दृष्टॆ जातः काष्ठॆनाभिहतः काष्ठघातॆन ताडितॊ मरणं प्रयाति प्राप्नॊतीत्यर्थः || 5 ||  464 रन्धास्पदाङ्गहिबुकैलंगुडाहताङ्ग प्रक्षीणचन्द्ररुधिरार्जिदिनॆशयुक्तैः | तैरॆव कर्मनवमॊदयपुत्रसंस्थैधूमाग्निबन्धनशरीरनिकुट्टनान्तः | 6 ||  भट्टॊत्पलः-अथान्यानपि मृत्युयॊगान्वसन्ततिलकॆनाह रन्ध्रास्पदॆति | रन्ध्रमष्टमं स्थानम, आस्पदं दशमम, अङ्ग लग्नं, हिबुकस्थानं, चतुर्थम् ऎतै रन्ध्रास्पदाङ्गहिबुकैर्यथाख्यं प्रक्षीणचन्द्ररुधिरार्किदिनॆशयुक्तैः | ऎतदुक्तं भवति-अतिक्षीणचन्द्रॊऽष्टमॆ, रुधिरॊ भौमः दशमॆ, आर्किः सौरॊऽङ्गॆ लग्नॆ, दिनॆशॊ रविश्चतुर्थॆ ऎवंविधॊ यॊग जातॊ लगुडहताङ्गॊ लगुडताडितावयवॊ म्रियतॆ | कॆचित्पठन्ति-लगुडाहतान्त इति | लगुडाहतस्यान्तॊ भवति | तैरॆवॆति | तैरॆव ग्रहैः प्रक्षीणचन्द्ररुधिरार्किदिनॆशैः यथासङ्ख्यं कर्मनवमॊदयपुत्रसंस्थैः दशमनवमलग्नपञ्चमस्थैः क्षीणचन्द्रमा दशमॆ, भौमौ नवमॆ, सौरॊ लग्नॆ, अर्कः पञ्चमॆ यदि भवति तदा जातस्य धूमॆनाग्निना बन्धनॆन शरीरनिकुट्टनॆन काष्ठादिना प्रहरणॆन वा तस्य मृत्युर्भवति | 6 ||  बन्ध्वस्तकर्मसहितैः कुजसूर्यमन्दैर्निर्याणमायुधशिखिक्षितपालकॊपैः | सौरॆन्दुभूमितनयैः स्वसुखास्पदस्थैज्ञॆयः क्षतकृमिकृतश्वशरीरघातः | 7 ||  भट्टॊत्पलः-अथान्यानपि मृत्युयॊगानवसन्ततिलकॆनाह 465 बन्ध्वस्तकर्मसहितैरिति | कुजॊऽङ्गारकः सूर्यॊ रविः, मन्दः सौरः ऎतैर्यथासङ्ख्यं बन्ध्वस्तकर्मसहितैः चतुर्थसप्तमदशमस्थैः चतुर्थॆ भौमः, सप्तमॆ सूर्यः, दशमॆ सौरः यस्य जन्मनि भवन्ति तस्यायुधॆन खड्गादिना शिखिनाग्निना| क्षितिपालकॊपॆन नृपक्रॊधॆन वा ऎषामन्यतमॆन निर्याणं मृत्युर्भवति | सौरॆन्दुभूमितनयैः शनिशशिभौमैः यथासङ्ख्यं स्वसुखास्पदस्थैर्द्वितीयचतुर्थ दशमस्थैः द्वितीयॆ सौरः चतुर्थॆ चन्द्रः, दशमॆ भौमः यस्य जन्मनि भवन्ति तस्य क्षतकृमिकृतः क्षतॆ छिद्रॆ कृमयः कीटा उत्पद्यन्तॆ तत्कृतश्च शरीरपातॊ भवति क्षतकृमिभिः पतितैर्मृत्युर्भवति || 7 || खास्थॆऽर्कॆऽवनिजॆ रसातलगतॆ यानप्रपाताद्वधॊ यन्त्रॊत्पीडनजः कुजॆऽस्तमयगॆ सौरॆन्द्विनाभ्युद्गमॆ | विण्मध्यॆ रुधिरार्किशीतकिरणैर्जूकाजसौरक्षगैर्यातैर्वा गलितॆन्दुसूर्यरुधिरैव्यॊमास्तबन्ध्वाह्वयान् || 8 ||  भट्टॊत्पलः-अथान्यानपि मृत्युयॊगान् शार्दूलविक्रीडि तॆनाह खस्थ इति | अर्कॆ रवौ खस्थॆ दशमस्थानगतॆ कुजॆ रसातलगतॆ चतुर्थस्थॆ जातस्य यानप्रपातात् वाहनात्पतितस्य वधॊ मृत्युर्भवति | यन्त्रॊत्पीडनज इति | कुजॆऽङ्गारकॆऽस्तमयगॆ सप्तमस्थॆ सौरॆन्द्विनाभ्युद्गमॆ सौरॆश्चॆन्दुश्चॆनश्च तॆ सौरॆन्द्विनाः, शनिचन्द्ररविभिरभ्युद्गमॆ लग्नॆ स्थितैः जातस्य यन्त्रॊत्पीडनजॊ वधः यन्त्रपीडितॊ म्रियतॆ | कॆचित्क्षीणॆन्द्विनाक्र्युद्गमॆ इति पठन्ति | क्षीणॆन्दुः क्षीणचन्द्रमाः, इन आदित्यः, आर्किः सौरः ऎतैः लग्नॆ स्थितैः जातस्य यन्त्रॊत्पीडनजॊ वधः | विण्मध्य इति | रुधिरॊऽङ्गारकः आर्किः सौरः शीतकिरणश्चन्द्रः ऎतैः यथासङ्ख्यं जुकाजसौरर्क्षगैः जूकस्तुलः, अजॊ मॆषः,   467 अस्तॆ रवौ सरुधिरॆ निधनॆऽर्कपुत्रॆ क्षीणॆ रसातलगतॆ हमिगौ खगान्तः | लग्नात्मजाष्टमतपस्स्विनभौममन्दचन्द्वैस्तु शैलशिखराशनिकुड्यपातैः | 10 ||  भट्टॊत्पलः-अथान्यानपि मृ ? अस्तॆ रवाविति | अस्तॆ सप्तमॆ रवावादित्यॆ सरुधिरॆ भौमॆन संयुक्तॆ स्थितॆऽर्कपुत्रॆ सौरॆ निधनॆऽष्टमॆ क्षीणॆ हिमगौ चन्द्रॆ रसातलगतॆ चतुर्थस्थानस्थॆ जातः भगान्तॊ भवति खगः पक्षी तत्कृतॊ मृत्युर्भवति | तस्य मृतस्याग्निसंस्कारॊ न भवतीत्यर्थः | लग्नात्मजाष्टमॆति | इनः सूर्य, भौमः कुजः, मन्दः सौरः, चन्द्रः शशाङ्कः, ऎतैर्यथासङ्ख्यं लग्नात्मजाष्टमतपस्सु स्थितैः लग्नपञ्चमाष्टमनवमस्थैः तॆन लग्नॆऽर्कः, पञ्चमॆ भौमः, अष्टमॆ सौरः, नवमॆ चन्द्रॊ यस्य जन्मनि भवति तस्य शैलशिखरात् पर्वतमस्तकात् पतितस्याशनिपातॆन चॊल्कया वज्रपातॆन कुड्यपातॆन भित्तिपातॆन वा मृत्युर्भवति | 10 ||   द्वाविंशः कथितस्तु कारणं द्रॆष्काणॊ निधनस्य सूरिभिः | तस्याधिपतिर्भवॊऽपि वा निर्याणं स्वगुणैः प्रयच्छति || 11 || भट्टॊत्पलः-अथ यस्य जन्मन्यॆतॆषां यॊगानां मध्यादन्यतमॊ यॊगॊ न भवति न चाष्टमॆ स्थानॆ कश्चिद् ग्रहॊ भवति न चाष्टमं स्थानं कश्चिद्ग्रहः पश्यति तन्मृत्युकारणं वैतालीयॆनाहद्वाविंश इति | यॆन द्रॆष्काणॆन पुमान् जातस्तस्माद्यॊ द्वाविंशॊ द्रॆष्काणॊं भवति स सूरिभिः पण्डितैः निधनस्य मृत्यॊः कारणं निमित्तं कथितः | कथमित्याह-तस्याधिपतिरित्यादि | तस्य द्वाविंशस्य द्रॆष्काणस्य 468 यॊऽधिपतिग्रहस्तस्याग्न्यम्बायुधज इत्यादिस्वगुणैर्यॊ हॆतुः पठितस्तॆन निर्याणं मरणं प्रयच्छति ददाति | अथवा यस्मिन् राशौ स द्वाविंशॊ द्रॆष्काणॊ भवति तस्य राशॆर्यः स्वामी तत्सम्भवॊ भवति स स्वगुणैरात्मीयहॆतुभिः निर्णाणं मरणं प्रयच्छति ददाति| स च द्वाविंशॊ द्रॆष्काणॊ लग्नादष्टमराशौ भवति स कथं ज्ञायतॆ ? उच्यतॆ, यदि लग्नस्य प्रथमॊ द्रॆष्काणस्तदाऽष्टमस्यापि प्रथमॊऽथ लग्नस्य द्वितीयस्तदाऽष्टमस्यापि द्वितीयॊऽथ लग्नस्य तृतीयस्तदाऽष्टमस्यापि तृतीयः न कॆवलं यावत्सर्वराशीनामॆषैव व्यवस्था | अनॆन क्रमॆण प्रकारॆण यॊष्टमराशॆः द्रॆष्काणः स ऎव द्वाविंशॊ द्रॆष्काण इति | तत्रैतज्जातम्यस्यॊक्तयॊगानामन्यतमॊ यॊगॊ न भवति न चाष्टमं स्थानं ग्रहयुतवीक्षितं तस्य द्वाविंशद्रॆष्काणाधिपाष्टमराश्यधिपयॊर्यॊ बलवांस्तदुक्तदॊषॆण मृत्युरिति || 11 || हॊरानर्वाशकप्रयुक्तसमानभूमौ यॊगॆक्षणादिभिरतः परिकल्प्यमॆतत् | मॊहस्तु मृत्युसमयॆऽनुदितांशतुल्यः स्वॆशॆक्षितॆ द्विगुणितस्त्रिगुणः शुभैश्च || 12 ||  भट्टॊत्पलः-अथ यादृग्भूमौ म्रियतॆ तद्विज्ञानं वसन्ततिलकॆनाहहॊरानवांशॆति | पुरुषस्य जन्मसमयॆ हॊरायां लग्नॆ यॊ नवांशकॊ भवति तस्य यॊऽधिपतिः ग्रहस्तॆन यॊ युक्तॊ राशिः स राशिर्यत्र स्थित इत्यर्थः | तस्य राशॆर्या यॊग्या भूमिस्तस्यां भूमौ स म्रियतॆ | तद्यथा | स चॆद्राशिद्वयॆ भवति तदा 469 अधिकसञ्चारभूमौ | स चॆद्राशिः मॆषॊ भवति तदाजाविकसंज्ञभूमौ | वृषभश्चॆत्तदा| वृषभप्रचारभूमौ | मिथुनश्चॆत्तदा गृहॆ, कर्कटश्चॆत्तदा कूपॆ, सिंहश्चॆत्तदाऽरण्यॆ, कन्या चॆत्तदा कूपॆ, तुला चॆत्तदा पणगृहॆ, वृश्चिकश्चॆत्तदाश्वभ्रॆ, धन्वी चॆत्तदाऽश्वप्रचारभूमौ, मकरश्चॆत्तदाकूपॆ, कुम्भश्चॆत्तदा गृहॆ, मीनश्चॆत्तदानूप इति| यॆषां तु पुनर्मृत्युयॊगॆ जलादौ मरणमुक्तं तॆषां तत्रैव | न कॆवलं दर्शितराशिवशॆन भूप्रदॆशॊ वक्तव्यः, अपि तु यॊगॆक्षणादिभिरिति | स लग्ननवांशकाधिपतिर्यस्मिन् राशौ व्यवस्थितः तत्र यद्यनॆन ग्रहॆण तस्य यॊगॊ भवति तदा तस्य च या भूमिः ईक्षणादिर्यॊ वा तत्स्थं पश्यति आदिग्रहणाद्यस्य नवांशकॆ स्थितस्यापि या भूमिरुक्ता तस्यां स म्रियतॆ इति | अत्र च बहुभूमिसम्भवॆ ग्रहबलाद्वक्तव्या | ननु च ग्रहस्य का भूमिः ? उच्यतॆ, ग्रहस्यात्मीयराशॆर्या भूमिः सैवॆति | ननु यस्य राशिद्वयं तस्य का भूमिरिति ? उच्यतॆ, तत्र त्रिकॊणराशॆः सम्बन्धिनी भूमिः | तद्यथा | आदित्यस्य सिंहभूमिः अरण्यम् | चन्द्रमसः कर्कटभूमिरनूपम् | भौमस्य मॆषभूमिरजाविकसंचारप्रदॆशः | बुधस्य कन्याभूमिरनूपम् | जीवस्य धनुर्भूमिरश्वप्रचारः | शुक्रस्य तुलाभूमिः विपणिः | शनैश्चरस्य कुम्भभूमिः गृहमिति | कॆचिदत्र दॆवालयॆ अग्निविहारकॊशशयनक्षित्युत्कराः स्युरित्यादिकं स्थानमिच्छन्ति | ऎतच्च शॊभनम्| यतः ऎतॆषु स्थानॆधु म्रियमाण दृश्यन्त इति | ऎवमॆतत्तस्मादन्यत् परिकल्प्यं चिन्त्यम् | मॊहस्त्विति | यावन्तॊ लग्नस्य नवांशका अनुदिताः शॆषास्तॆषामंशानां संपीडितानां यावत्कालॊ भवति ततुल्यः तत्समॊ मृत्युसमयॆ मरणकालॆ कालॊ भवति | ऎतदुक्तं भवति-यावत्कालॊ लग्नादवशिष्टः पुरुषस्य जन्मविषयॆ भवति तावत्कालमिति | स चॆल्लग्नराशिः यदि स्वांशॆन स्वपतिनॆक्षितॊ दृष्टस्तदा स ऎव कालॊ द्विगुणॊ वक्तव्यः अर्थादॆव स्वामिना सौम्यग्रहॆण च दृष्टस्तदा षड्गुणकालॊ वक्तव्यः | स्वामिना सौम्यग्रहॆण च दृष्टस्तदा षड्गुणकालॊ वक्तव्यः || 12 ||  470 दहनजलविमिश्रॆर्भस्मसंक्लॆदशॊषैः निधनभवनसंस्थैर्व्यालवर्गॆर्विडम्बः | इति शवपरिणामश्चिन्तनीयॊ यथॊक्तः पृथुविरचितशास्त्रादगत्यनूकादिचिन्त्यम् | 13 |  भट्टॊत्पलः-अथ मृतस्य शरीरपरिणामज्ञानं मालिन्याहदहनॆति निधनभवनॆऽष्टमॆ स्थानॆ यॊ द्रॆष्काणॊ व्यवस्थितः तद्वशाच्छवपरिणामश्चिन्तनीयः | स च यदि दहनद्रॆष्काणॊऽग्निद्रॆष्काणॊ भवति तदा भस्मत्वॆन परिणामत्यग्निना दह्यतॆ पापद्रॆष्काणॊऽग्निद्रॆष्काणः | अथ जलद्रॆष्काणॊ भवति तदा संक्लिद्यतॆ जलमध्यॆ क्षिप्यतॆ | सौम्यग्रहद्रॆष्काणी जलद्रॆष्काणः अथ मिश्रद्रॆष्काणॊ भवति तदा शुष्यतॆ | सौम्यग्रहद्रॆष्काणः पापयुक्तॊ भवति, पापग्रहद्रॆष्काणी वा सौम्ययुक्तस्तदा मिश्रद्वॆष्काणः | तथा निधनभवनसंस्थैरष्टमराश्याश्रितैः व्यालवर्गॆः सर्पद्रॆष्काणैः विडम्बितॊ भवति तदा श्वश्रृगालकाकादिभिर्भुज्यतॆ | भक्ष्यतॆ इत्यर्थः | अत्र व्यालद्रॆष्काणः कर्कटाद्यः वृश्चिकाद्यः वृश्चिकाद्यः वृश्चिकद्वितीयः मीनान्त्यश्च | उक्तं चशशिगृहपूर्वापरगः कीटस्य च मीनपश्चिमॊपगतः | निधनॆ यस्य भवन्ति द्रॆष्काणास्तस्य च मृतस्य | भुञ्जन्ति वायसाद्याः प्राणिसमूहा न चान्ति संदॆहः | पापग्रहद्रॆष्काणी यस्याष्टमराशिसंस्थितॊ भवति | दहनं प्राप्नॊति नरॊ मृतमात्रॊ निश्चयात्प्रवदॆत् |” ऎवं सौम्यद्रॆष्काणॊ जलमध्यॆ क्षिप्यतॆ नरॊऽत्र मृतः | 471 सौम्यद्रॆष्काणः पापैः पापद्रॆष्काणॊऽपि सौम्युक्तः | यस्याष्टमभवनगतः शॊषं प्राप्नॊति सॊऽपि मृत इति | ऎवं प्रकारः शवानां मृतानां परिमाणॊ विपत्तिश्चिन्तनीयॊ विचार्य | पृथुविरचितशास्त्राद्विस्तीर्णाच्छास्त्राद्गत्यर्थकादि मरणादि चिन्त्यम् | मृतस्य का गतिर्भविष्यति ? कस्माच्च लॊकादयमागतः ? आदिग्रहणात्तत्र कीदृगासीदिति | अनूकशब्दॆनॆहातीतजन्मॊच्यतॆ || 13 ||  भट्टॊत्पलः-अथ यॊऽयं जातॊ जन्तुः स कस्माल्लॊकादागत इति यदुक्तं तद्विज्ञानं मालिन्याह गुरुरिति | गुरुजीवः, उडुपतिशुक्रौ चन्द्रसितौ, सूर्यभौमौ रविकुजौ, यमज्ञौ सौरबुधौ ऎतॆ विबुधपितृरिरश्चॊ नारकीयांश्च जातान कुर्युः | विबुधलॊकॊ दॆवलॊकः, पितृलॊकः प्रसिद्धः, तिरश्चस्तिर्यङ्ललॊकः प्रसिद्धः, ऎम्यः आगतान्| वदॆत् | कथमिति तदर्थमाह-- | दिनकरशशिवीर्याधिष्ठितात् त्र्यंशनाथादिति | 472 दिनकरः सूर्यः, शशी चन्द्रः अनयॊः दिनकरशशिनॊः मध्याद्यॊ बली वीर्यवान्| तॆनाधिष्ठितॊ युक्तॊ यस्त्र्यंशॊ द्रॆष्काणः तस्य यॊ नाथः स्वामी तस्य यॊ लॊकस्तस्मादागत इति वक्तव्यम् | तत्र स यदि द्रॆष्काणॊ गुरॊः जीवस्य सम्बन्धी भवति तदा विबुधलॊकाचागत इति वक्तव्यम् | अथ चन्द्रशुक्रयॊरन्यतरसम्बन्धी भवति तदा नरकलॊकादागत इति वक्तव्यम् | यस्माल्लॊकादागतस्तत्रापि श्रॆष्ठमध्यमहीनस्य ज्ञानमाह--प्रवरॆत्यादि | यस्य ग्रहस्य प्रदर्शितलॊकात्तस्य जन्मज्ञानमाह---ग्रहस्तुङ्गस्थः स्वॊच्चराशिगतॊ भवति तदा तत्र प्रवरः प्रधान आसीदिति विज्ञॆयम् | अथॊच्चराशिच्युतॆ नीचमप्राप्य तदा तत्रासौ मध्यम आसीदिति विज्ञॆयम् | नीचस्थः निकृष्टः हीनः ऎतदनूकॆ प्राग्जन्मनि| ज्ञॆयम्|| 14 ||  473 गतिरपि रिपुरन्ध्रत्र्यंशपॊऽस्तस्थितॊ वा गुरुरथ रिपुकॆन्द्रच्छिद्रगः स्वॊच्चसंस्थः | उदयति भवनॆऽन्त्यॆ सौम्यभागॆ च मिक्षॊ भवति यदि बलॆन प्रॊज्झितास्तत्र शॆषाः | 15 ||  इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ नैर्याणिकाध्यायः सम्पूर्णः || 25 ||  भट्टॊत्पलः-अथ मृतस्य का गतिर्भविष्यति तद्विज्ञानं मालिन्याह गतिरिति | यस्य जन्मनि लग्नात्षष्ठसप्तमाष्टमस्थानानि शून्यानि भवन्ति तस्य तत्कालं रिपुस्थानॆ षष्ठॆ यॊ द्रॆष्काणॊ यश्च रन्ध्रस्थानॆऽष्टमॆ त्र्यंशॊ द्रॆष्काणॊ वर्ततॆ तयॊर्यावधिपती तयॊर्मध्यॆ यॊ बलवान् यस्य यॊ लॊकॊऽभिहितः स ऎव गतिः | ऎवं रिपुरन्ध्रत्र्यंशप इति | तत्र तॆन मृतॆन गन्तव्यमिति | अस्तस्थितॊ वा | अथ लग्नात्षष्ठसप्तमाष्टमस्थानानामन्यतमॆ स्थानॆ कश्चिद्ग्रहॊ भवति तदा तस्य दर्शितलॊकॆ तॆन गन्तव्यम् | अथ लग्नात्षष्ठसप्तमाष्टमस्थानानां द्वॆ स्थानॆ त्रीणि वा सग्रहाणि भवन्ति | अथैकस्मिन्नपि द्वयादयॊ ग्रहा भवन्ति तॆर्षा ग्रहार्णा यॊ बलवांस्तस्यः यः प्रदर्शितॊ लॊकस्तॆन गन्तव्यमिति | नन्वस्तस्थितॊ वॆत्यॆकं स्थानमुक्तं तत्र सप्तग्रहणं कृतं तत्षष्ठाष्टमस्थॊऽपि स्वां गतिं नयतीति किं व्याख्यातम् ? उच्यतॆ, अस्तस्थितॊ वॆति वाशब्दश्चशब्दार्थॆ ज्ञॆयः न कॆवलमस्तस्थितश्चकाराद्रिषुरन्ध्रपश्चॆति कॆचिदस्तस्थितश्चॆति पठन्ति | तथा च स्वल्पजातकॆ उक्तम्-‘सुरपितृतिर्यङ्नारकान् गुरुरुडपसितावसृग्रवीज्ञयमौ | रिपुरन्ध्रत्रयंशकपा नयन्ति चास्तारिनिधनस्थाः |” गुरुरथॆति | अथशब्दः पादपूरणार्थॆ | यस्य जन्मनि गुरुबुँहस्पतिलीग्नाद्रिपुस्थानॆ षष्ठॆ भवति कॆन्द्रॆषु वा छीद्रॆऽष्टमॆ वा स च स्वॊच्चस्थ कर्कटॆ भवति तदैकॊ यॊगः | अथवाऽन्त्यॆ भवनॆ मीनराशावुदयति विलग्नगतॆ तत्र च गुरुवज्र्य शॆषा ग्रहा अन्यॆ ग्रहा बलॆन वीर्यॆण प्रॊज्झिता वर्जिता भवन्ति तदा द्वितीयॊ यॊगः | अस्मिन्यॊगद्वयॆ जातस्य मॊक्षॊ भविष्यतीति वक्तव्यम् | उदयति भवनॆऽन्त्यॆ सौम्यभागॆ च मॊक्ष इत्यत्र चकारॊ वाशब्दस्यार्थॆ | यथा पुरुषस्य जन्मकालग्रहवशाद्गतिरुक्ता तथा मरणकाललग्नवशादपि गतिर्वक्तव्या | यस्मात्स्वल्पजातकॆ उक्तम् 474 षष्ठाष्टमकण्टकगॊ गुरुश्चॆन्द्रवति मीनलग्नॆ वा | शॆषैः खगैर्जन्मनि मरण वा मॊक्षगतिमाहु |” इति | 15 || इति बृहज्जातकॆ श्रीभट्टॊत्पलटीकायां नैर्याणिकाध्यायः || 25 ||  475 अथ नष्टजातकाध्यायः || 2 6 || आधानजन्मापरिबॊधकालॆ सम्पृच्छतॊ जन्म वदॆद्विलग्नात् | पूर्वापरार्धॆ भवनस्य विन्द्याद्भानावुदग्दक्षिणगॆ प्रसूतिम् | 1 || भट्टॊत्पलः-अथ नष्टजातकाध्यायॊ व्याख्यायतॆ | तत्रादावॆव प्रसूतिकालज्ञानमिन्द्रवज्रयाह‌आधानॆति | यस्याधानकालॊ ज्ञायतॆ तस्याधानकालात् पूर्वमॆव जन्म व्याख्यातं तत्कालमिन्दुसहित इत्यादिना जन्मकालश्च व्याख्यात ऎव | ऎवमाधानजन्मकालयॊरपरिबॊधॆ अज्ञानॆ सति संपृच्छतः प्रष्टुः विलग्नात्प्रश्नलग्नाज्जन्मवदॆत् ब्रूयात् | यॆन लग्नॆन प्रष्टा पृच्छति तस्य यदि पूर्वार्ध प्रथमहॊरा भवति तदा प्रष्टुः भानावादित्यॆ उदयगतॆ उत्तरायणस्थॆ जन्म वक्तव्यम् | मकरादिराशिष्टकस्थॆ जातः इत्यर्थः | अथ लग्नस्यापरार्ध द्वितीया हॊरा भवति तदा भानौ दक्षिणगतॆ दक्षिणायनस्थॆ जन्म वक्तव्यम् | कर्कटादिराशिषट्कस्थॆ जात इत्यर्थः | तथा च आधानजन्मनि यस्याविज्ञातॆ तस्य दॆहिनः जन्म सस्पृच्छतस्तस्य प्रश्नलग्नाद्विनिर्दिशॆत् || 1 ||  476 लग्नत्रिकॊणॆषु गुरुस्त्रिभागैर्विकल्य वर्षाणि वयॊस्नुमानात् | ग्रीष्मॊऽर्कलग्नॆ कथितास्तु शॆषैरन्यायनत्रवृतुरर्कचारात् || 2 || भट्टॊत्पलः-अथ वर्षर्तुज्ञानमुपजातिकयाह लग्नत्रिकॊणॆष्विति | त्रिभागैद्रॆष्काणॆलीग्नत्रिकॊणॆषु प्रथमपञ्चमनवमस्थानॆषु गुरुजीवॊ ज्ञॆयः | तद्यथा | प्रश्नलग्नस्य यदि प्रथमद्रॆष्काणॊ भवति तदा या ऎव लग्नराशिस्तत्रस्थॆ गुरौ जन्म वक्तव्यम् | अथ लग्नस्य द्वितीयॊ द्रॆष्काणस्तदा| लग्नाद्यः पञ्चमॊ राशिस्तत्रस्थॆ गुरौ जन्म वक्तव्यम् | अथ लग्नस्य तृतीयॊ द्रॆष्काणस्तदा लग्नाद्यॊ नवमॊ राशिस्तत्रस्थॆ गुरौ जन्म वक्तव्यम् | ऎवं कॆषाञ्चिन्मतम् | तथान्यॆष मत तथा | प्रश्नलग्नस्य यदा प्रथमॊ द्वॆष्काणादयॊ भवति तदा लग्नराशितॊ यावत्संख्यॆ राशौ बृहस्पतिस्तिष्ठति तावत्संख्यानि प्रधुर्वर्षाणि वक्तव्यानि | अथ लग्नॆ द्वितीयॊ द्वॆष्काणस्तदा लग्नात्पञ्चमराशितॊ यावत्सङ्ख्यॆ राशौं बृहस्पतिर्भवति तावत्संख्यानि प्रधुर्वर्षाणि वक्तव्यानि | यदा लग्नस्य तृतीयॊ द्रॆष्काणॊ भवति तदा लग्नान्नवमराशितॊ यावत्संख्यॆ राशौ बृहस्पतिर्भवति तावत्संख्यानि प्रष्टुर्वर्षाणि वक्तव्यानि | तद्व्याख्यानं न शॊभनं, पूर्वव्यख्यानमॆव श्रॆयः | यस्माद्यवनॆश्वरद्रॆष्काणलग्नक्रमस्तु राशौ गुरुर्विलग्नादित्रिकॊणगॊऽभूत् | समुद्गतॆ तद्भवनक्रमॆण स्वाचारभादन्दगतिं प्रगण्यात् |” यद्यप्यत्र सामान्यॆनॊक्तं बृहस्पतॆरवस्थानम् | तथा च 477 द्वादशभागक्रमॆण प्रतिराशौं सञ्चार्यः | तद्यथा | यदि प्रश्नलग्नस्य प्रथमद्वादशभागॊदयॊ भवति तदा लग्नस्थॆ जीवॆ जातः | द्वितीयद्वादशभागश्चॆत्तदा| लग्नाद्द्वतीयॊ गुरौ जातः | ऎवं तृतीयादिद्वादशभागॊदयॆ तृतीयादिषु स्थानॆषु ऎव वयॊनुमानात्तस्याकृतिं शरीरमवॆक्ष्य वर्षाणि विकल्प्य वयःप्रमाणं बुद्धवा द्वादशसु द्वादशसु वर्षषु विकल्प्ना कार्या | किमस्मिन्नॆव भगणपरिवर्तज्ञातराशॆः बृहस्पतॆरवस्थानमभूदुत द्वितीय उत तृतीयादिषु | ऎवं तस्थाकृतिमवॆक्ष्य वयॊनुमानं वक्तव्यम् | यत्र द्वादशसु वर्षॆषु भ्रान्तिर्भवति तत्र पुरुषलक्षणॊत्तॆन दशाविभागॆन द्वादशवार्षिकी दशां क्षॆत्रॆषु परिकल्प्य यत्तत् क्षॆत्राङ्गसंस्पर्शाद्वर्षज्ञानम्ं| तथा च पुरुषलक्षणॆ पठयतॆपादौ सगुल्फौ प्रथमं प्रदिष्टं जङ्गॆ द्वितीयं तु स जानुवक्त्रॆ | मॆढॊरुमुष्काश्च ततस्तृतीयं नाभिं कटिं चॆति चतुर्थमाहुः | उदरं कथयन्ति पञ्चमं हृदयं षष्ठमस्थ स्तनान्वितम् | अथ सत्तममंशजत्रुणी कथयन्त्यष्टममॊष्ठकन्धरॆ | नवमं नयनॆ च सुभुणी सललाटं दशमं शिरस्तथा | अशुभॆष्वशुभं दशाफलं चरणाघॆषु शुभॆषु शॊभनम्|” इति | किं त्वत्र विंशत्यधिकं वर्षशतं यस्य जन्मनॊऽतीतं तस्य नष्टजातकवर्षज्ञानॊपाय ऎव नास्ति | ऎवं वर्षॆषु ज्ञातॆषु ऋतुज्ञानमाह-- | ग्रीष्मॊऽर्कलग्न इति | यॆन लग्नॆन प्रष्टा पृच्छति तत्र चॆदर्कः सूर्यः स्थितस्तद्द्रॆष्काणॊ वा लग्नॆ तदा ग्रीष्मॆ जात इति वक्तव्यम् | कथितास्तु शॆषैरिति | शॆषैरन्यैश्चन्द्रादिभिर्ग्रहैर्लग्नस्थैः ऋतुः पूर्वमॆव कथित उक्तः द्रॆष्काणैः शिशिरादय इत्यादिना ग्रन्थॆनॊक्तः | तत्र यदा शनैश्चरॊ लग्नॆ भवति तद्द्रॆष्काणॊ वा तदा शिशिरॆ जात इति वक्तव्यम् | ऎवं शुक्रॆ लग्नगतॆ वा तद्द्रॆष्काणी तदा वसन्तॆ जातः | ऎवं भौमॆ ग्रीष्मॆ | ऎवमॆव रवावपि | चन्द्रॆ लग्नगतॆ तद्द्वॆष्काणॆ वा वर्षासु | बुधॆ शरदि | जीवॆ हॆमन्त इति | यदा बहवॊ लग्नगताः भवन्ति तदा तॆषां मध्यॆ या बलवान् तदुक्ततौं जात इति वक्तव्यम्| अथ न कश्चिद्यदि लग्नगतॊ भवति तदा यस्य सम्बन्धी द्रॆष्काणॊदयॊ भवति तदा तदुक्ततॊ जात इत्यॆवं वक्तव्यम् | अन्यायनर्तावृतुरर्कचारादिति | अन्यस्मिन्नयनॆ वान्यस्मिन्नृतावर्कचारादृतुः अन्यस्मिन्नयनॆ तदयनासम्भवश्चॆदृतुरन्यॊ भवति तदर्तुरर्कचारवशॆन वक्तव्यः | ऎतदुक्तं भवति | सौरॆण मानॆन 478 ऋतुर्वक्तव्यः न तु चान्द्रॆण | यथा शिशिरॆ ज्ञातॆ मकरकुम्भयॊरन्यतरॆ राशौ सूर्यस्यावस्थानं ज्ञॆयम् | ऎवं शॆषराशिष्वप्यूह्यम् | अनॆन लौकिकश्चान्द्रमासॊ निराकृतॊ भवतीति ||2||  479 चन्द्रज्ञजीवाः परिवर्तनीयाः शुक्रारमन्दैरयनॆ विलॊमॆ | द्रॆष्काणभागॆ प्रथमॆ तु पूर्वॊ मासॊऽनुपाताच्च तिथिर्विकल्प्यः || 3 ||  भट्टॊत्पलः-अथायनॆ विलॊमॆ ग्रहपरिज्ञानादृतुपरिज्ञानं मासपरिज्ञानं चॆन्द्रवज्रयाहचन्द्रज्ञॆति | अयनॆ विलॊमॆ सति चन्द्रज्ञजीवाः शुक्रारमन्दैः परिवर्तनीयाः| शशिबुधगुरवः सितभौमशनैश्चरैः अयनव्यत्ययॆ प्राप्तॆ सति परिवर्तनीयाः, व्यवस्थाप्याः | ऎतदुक्तं भवति | यद्युत्तरायणॆ प्रवृट्कालॆ ज्ञातॆ तदा| वसन्तॆ जात इति वक्तव्यम् | चन्द्रः शुक्रॆणात्र परिवर्तितः | अथॊत्तरायणॆ शरदि प्राप्तायां ग्रीष्मॆ जातः | दक्षिणायनॆ ग्रीष्मॆ ज्ञातॆ शरदि जातः | अथ बुधॊः रविभौमयॊरपवर्तितौ रविभौमॊ बुधॆन च उत्तरायणॆ मॆहन्तॆ ज्ञातॆ शिशिरॆ जातः | दक्षिणायनॆ शिशिरॆ प्राप्तॆ हॆमन्तॆ जात इति वक्तव्यम् | अत्र जीवमन्दौ परस्परमपवर्तितौ | ऎवमृतौ ज्ञातॆ मासज्ञानमाह-- | द्रॆष्काणभागॊ वर्ततॆ तदा ज्ञाततौं प्रथमॆ मासि जन्म इति वक्तव्यम् | अथ लग्नॆ द्रॆष्काणस्य द्वितीयॊ भागॊ वर्ततॆ तदा| ज्ञाततौं द्वितीयॆ मासि जातः | अत्रापि अर्कावस्थानत ऎव मासज्ञानम् | अथ ऎवं मासं ज्ञात्वा तिथिज्ञानार्थमाह-- | अनुपाताच्च तिथिर्विकल्प्यः | अनुपातात्रैराशिकात्तिथिर्विकल्प्यॊ लग्नस्य षड्लप्ताशतानि द्वॆष्काणः | द्रॆष्काणॆन ऋतुज्ञानं तदर्घलिप्ताशतत्रयम् | लिप्ताशतत्रयॆण मासज्ञानम् | 480 अत्रानुपातातिथिर्लिप्ता दशकॆनैकॊ ज्ञॆयः | ऎष तिथिरादित्यभागः | ऎवमादित्यस्य राशयॊ भागा ज्ञॆयाः | मासा राशयस्तिथयॊ भागाः | यस्मिच्च तिथौ ज्ञातवर्षॆ यथा प्रदर्शितादित्यॊ भवति तस्मिन् तिथौ तस्य जन्म इति वक्तव्यम् || 3 ||  481 अत्रार्षि हॊरापटदॊ द्विजॆन्द्राः सूर्याशतुल्यां तिथिमुहिशन्ति | रात्रिद्युसञ्जॆषु विलॊमजन्म भागैश्च वॆलाः क्रमशॊ विकल्प्याः | 4 | भट्टॊत्पलः-अथ चन्द्रमानतिथिज्ञानॊपायमिन्द्रवज्रयाह अत्रापीति | अत्रास्मितिथिज्ञानॆ द्विजॆन्द्रामुनयॊ हॊराशास्त्रज्ञाः सूर्याशतुल्यामंशस्थानॆ स्फुटार्कभागसम तिथिमुद्दिशन्ति कथयन्ति | प्रश्नकालॆ तात्कालिकॆनादित्यॆन यावन्तॊ भागा भुक्तास्तावन्तः शुक्लप्रतिपत्प्रभृति ज्ञातमासस्य तिथयॊ व्यतीताः | अत्र चान्द्रमानॆ मकरमानॆ जातॆ माघमासॊ ज्ञॆयः | 482 ऎवमन्यॆष्वपि मासकल्पना कार्या | तथा च मणित्थः | “पृच्छाकालॆ रविणा यावन्तॊंऽशाः स्फुटॆन संभुक्ताः | राशॆस्तास्तिथयः स्युः शुक्लादावर्कमासस्य |” ऎवं दिनॆ ज्ञातॆ किमयं रात्रौ जातॊ दिवा वॆति तदर्थमाह-- | रात्रिद्युसंज्ञॆष्विति | रात्रिद्युसंज्ञाः पूर्वं व्याख्याताः गॊऽजाश्विकर्किमिथुना इत्यादिना| तत्र प्रश्नकालॆ यदि रात्रिसंज्ञा लग्नॊ भवति तदा तस्य विलॊमता दिवा जन्म वक्तव्यम् | अथ द्युसंज्ञा लग्नॊ भवति तदा रात्रौ जन्म वक्तव्यम् | (मॆषादिराशीनां चषकाः | मॆ. 2ऒ ऒ मी. बृ. 240 कुं. मि. 28ऒ मं. क. 320 ध. सिं. 360 वृ. क. 40 0 तु.) ऎवं दिनरात्रिविभागॆ ज्ञातॆ वॆलाज्ञानमाह-- | भागैश्च वॆलाः क्रमशॊ| विकल्प्याः | यस्मिन्दिनॆ पुरुषस्य जन्मज्ञानं तस्मिन्दिनॆ आदित्यॊ विज्ञातः ततस्तयस्य पुरुषस्य यदि दिवा जन्म तदा तस्मादादित्याद्दिनप्रमाणं कार्यम् | अथ रात्रौ जन्म तदा रात्रिप्रमाणम् | तत्र प्रश्नलग्नस्य तस्मिन्कालॆ यावन्तश्चषका भुक्तास्तैरनुपातः कार्यः यदि पुरुषस्य दिवा जन्म तदा दिनप्रमाणॆन | यदा रात्रौ तदा रात्रिप्रमाणॆन तत्काललग्नभुक्तचषकाणां गणनां कृत्वा तस्यैव लग्नस्य स्वदॆशराश्युदयप्रमाणॆन भागमपहृत्यावाप्तां बॆलां तावता कालॆन गतॆन दिनस्य रात्रॆर्वा जन्म वक्तव्यम् | ऎवं लग्नभागैः क्रमशः परिपाट्या वॆला समयः विकल्प्या विकल्पनीया | 4 ||  483 कॆचिच्छशाङ्काध्युषितान्नवांशाच्छुक्लान्तसञ्ज्ञ कथयन्ति मासम् | लग्नत्रिकॊणॊत्तमवीर्ययुक्तं सम्प्रॊच्यतॆऽङ्गालभनादिभिर्वा | 5 || भट्टॊत्पलः-अर्थान्तरॆण मासज्ञानमिन्द्रवज्रयाह कॆचिदिति | कॆचिदाचार्याः शशाङ्काध्युषीताच्चन्द्रयुक्तान्नवांशाच्छुक्लान्तसंज्ञं मासं कथयन्ति प्रश्नकालॆ यस्मिन्नवांशकॆ नवमॆऽशॆ चन्द्रमा भवति तमपि नवांशकं त्रिधा परिकल्प्य तस्मिन्नवांशकॆ नवमॆऽशॆ चन्द्रमा व्यवस्थित इति चन्द्रनवांशकगत नक्षत्रमन्वॆष्यम् | तन्नक्षत्रशुक्लान्तसंज्ञकॆन सितस्य जन्म वक्तव्यम् | अत्र यस्य नक्षत्रस्य शुक्लान्तसंज्ञॊ मासॊ नास्ति तस्य बृहस्पतिचारॊक्तविधिना शुक्लान्तसंज्ञा मासः परिकल्प्यः | तत्रॊक्तम् | ‘नक्षत्रॆण सहॊदयमस्तं वा यॆन याति सुरमन्त्री | तत्संज्ञं वक्तव्यं वर्षं मासक्रमॆणैव | वर्षाणि कार्तिकादीन्याग्नॆयाद्धद्वयानि यॊज्यानि | क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् |” इति | तत्र चन्द्रमा यदि वृषनवांशकॆ तन्नवांशकसप्तमकस्यार्वाग् भवति तदा कार्तिकॆ मासि जात इति वक्तव्यम् | अथ वृषनवांशकॆ तन्नवांशसप्तकस्यॊर्ध्व भवति मिथुननवांशकॆ तन्नवांशकषट्कस्यार्वाग यदा चन्द्रमा भवति तदा मार्गशीर्षॆ मासि जात इति वक्तव्यम् | अथ मिथुननवांशकॆ नन्नवांशकषट्कस्यॊर्ध्वं कर्कटनवांशकॆ तन्नवांशकपञ्चकस्यार्वाग्यदा चन्द्रमा भवति तदा पौषॆ मासि जात इति वक्तव्यम् | अथ कर्कटॆ तत्तन्नवांशकपञ्चकस्यॊर्ध्वं सिंहनवांशकॆ तन्नवांशचतुष्टययस्यार्वाग्यदा चन्द्रमाः तदा माघॆ जन्म इति वक्तव्यम् | अथ सिंहनवांशकॆ तन्नवांशकचतुष्टयस्यॊर्ध्वं कन्यानवांशकॆ तन्नवांशकसप्तकस्यार्वाग्यदा चन्द्रमा भवति तदा फाल्गुनॆ मासिजात इति वक्तव्यम् | अथ कन्यानवांशकसप्तकस्यॊर्ध्वं तुलानवांशकॆ 484 तन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा चैत्रॆ मासि जात इति वक्तव्यम् | अथ तुलानवांशकॆ तन्नवांशषट्कस्यॊर्ध्वं वृश्चिनवांशकॆ तन्नवांशकपञ्चमस्यार्वाग्यदा चन्द्रमा भवति तदा वैशाखॆ मासि जात इति वक्तव्यम्| अथ वृश्चिकॆ तन्नवांशकपञ्चकस्यॊर्ध्व धन्विनवांशकॆ तन्नवांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा ज्यॆष्ठॆ मासि जात इत्यवगन्तव्यम् | अथ धन्विनवांशकॆ तन्नवांशकचतुष्टयस्यॊध्र्व मकरनवांशकत्रयस्यार्वाग्यदा चन्द्रमा भवति तदा आषाढॆ मासि जात इति | वक्तव्यम् | अथ कमरनवांशकॆ तन्नवांशकत्रयस्यॊध्र्व कुम्भनवांशकॆ तन्नवांशकद्वयस्यार्वाग्यदा चन्द्रमा भवति तदा श्रावणॆ मासि जात इति वक्तव्यम् | अथ कुम्भनवांशकॆ तन्नवांशकद्वयस्यॊध्र्व मीननवांशॆ तन्नवांशकपञ्चकस्यावग्यिदा चन्द्रमा भवति तदा भाद्रपदॆ मासि जात इति वक्तव्यम् | अथ मीननवांशकॆ तन्नवांशकपञ्चकस्यॊर्ध्व मॆषनवांशॆ तन्नवांशाष्टकस्यार्वाग्यदा चन्द्रमा भवति तदाऽश्वयुजि मासि जात इति वक्तव्यम्| अथ मॆषनवांशकॆ तन्नवांशाष्टकस्यॊध्र्व यदि चन्द्रमा भवति तदा कार्तिकॆ मासि जात इत्यवगन्तव्यम् | यस्मिन्कृतिका रॊहिणी च स कार्तिकः | मृगशिराद्र च| मार्गशीर्षः | पुनर्वसुः पुष्यश्च पौषः | आश्लॆषा मघा च माघः | पूर्वाफाल्गुन्युत्तराफाल्गुनी हस्तश्च फाल्गुनः चित्रा स्वाती च चैत्रः | विशाखानुराधा च वैशाखः | ज्यॆष्ठामूलॆ ज्यॆष्ठः | पूर्वाषाढॊत्तराषाढश्चाषाढः | श्रवणधनिष्ठॆ च श्रावणः | शतभिषक् पूर्वाभाद्रपदॊत्तराभाद्रपदाश्च भाद्रपदः | रॆवत्यश्विनीभरण्यश्चाश्वयुजः यस्मादुक्तम्-“त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम्” इति | ऎवं शुक्लान्तस्य मासस्य निश्चयः शुक्लान्तग्रहणॆनैतत्प्रतिपादयति | यत्तथा | शुक्लपक्षान्तॆ यॆन नक्षत्रॆण युक्ततस्तदुपलक्षितॊ मासॊ वक्तव्यः | यथा कार्तिकशुक्लपक्षान्तॆ कृत्तिकारॊहिणीभ्यामन्यतरॆन यश्चन्द्रमा भवति तॆन कार्तिकॊ मास उच्यतॆ | ऎवमन्यॆषामपि युज्यतॆ | तदैतत् बुवतॆ | ऎतदुक्तं भवति | न शुक्लान्तॊ मास इत्यतॊ मासः कृष्णान्त ऎव | तथा च यवनॆश्वरः | “मासॆ तु शुक्लप्रतिपत्प्रवृतॆ पूर्वॆ शशी मध्यबलॊ दशाहॆ |” तथा च| “यद्राशिसंज्ञः शीतांशुः प्रश्नकालॆ नवांशकॆ | स्थितस्तद्राशिगः पूर्णॊ यस्मिन्भवति चन्द्रमाः | जन्ममासः स निर्दिष्टः पुरुषस्य तु पृच्छतः |   485 कृष्णपक्षान्तिकॊ मासॊ ज्ञॆयॊऽत्र तु विपश्चिता |” लग्नत्रिकॊणॆत्यादि | लग्नस्य प्रश्नलग्नस्य त्रिकॊणयॊश्च नवमपञ्चमयॊर्मध्याद्यस्तत्कालमुत्तमॆन प्रधानवीर्यण बलॆन युक्तस्तद्धं राशिः प्रॊच्यतॆ कथ्यतॆ | तस्मिन्राशौ गतॆ चन्द्रमसि जात इति वक्तव्यम् | तथा च यवनॆश्वरः | “हॊरादिवीर्याधिकलग्नभाजि स्थानं त्रिकॊणॆ शशिनॊऽवधार्यम् |” अङ्गालभनादिभिर्वा | कालांगानीत्यनॆन प्रदर्शितॊ यः कालपुरुषस्याङ्गविभागस्तदालभनाद्वाऽनॆन विधिना स्प्रष्टुः स्पृशतः यदॆव कालपुरुषस्याङ्ग स्पृशति तत्स्थॆ चन्द्रमसि जात इति वक्तव्यम् |  486 यावान् गतः शीतकरॊ विलग्नाच्चान्द्राद्वदॆत्तावति जन्मराशिः | मीनॊदयॆ मीनयुगं प्रदिष्टं भक्ष्याहृताकाररुतैश्च चिन्त्यम् || 6 ||  भट्टॊत्पलः-अथ प्रकारान्तरॆण जन्मॆशराशिज्ञानमिन्द्रवज्रयाह यावानिति | विलग्नात्पृच्छालग्नाच्छीतकरश्चन्द्रॊ यावान्गतॊ यावति राशौ व्यवस्थितस्तस्माद्यस्तावति राशिः तत्रस्थॆ चन्द्रमसि जात इति वक्तव्यम् | मीनॊदयॆ यदि मीनलग्नगतॊ भवति तदा मीनयुगमॆव प्रदिष्टमुक्तम् | मीनस्थचन्द्रमा इति वक्तव्यम् | ननु दर्शितविधिना राशिरनॆकप्रकारॊ यत्र प्राप्तॊ भिन्नरूपस्तत्र कॊ वक्तव्य इत्याशंक्याह | भक्ष्याहसाकाररुतैरिति | यस्य राशॆ सम्बन्धिभक्ष्यद्रव्यं तस्मिन्कालॆ कृत्रिममानीयतॆ तदाकारश्च कश्चिद् दृश्यतॆ | यथा मार्जारादिदर्शनॆ सिंहॊ महिषादिदर्शनॆ वृष इत्यादि | अथवा राश्युक्तरूपं पुरुषस्य दृष्ट्याऽथवा रुतॆन यस्य राशिसदृशप्रणिनॊ रुतं शब्दः क्रियतॆ तत्रस्थॆ चन्द्रमसि जात इति वक्तव्यम्|6||  487 हॊरानवांशप्रतिमं विलग्नं लग्नाद्रविर्यावति च दृकाणॆ | तस्माद्वदॆत्तावति वा विलग्नं प्रष्टुः प्रसूताविति शास्त्रमाह-- || 7 || भट्टॊत्पलः-ऎवं जन्मराशौ ज्ञातॆ लग्नज्ञानमिन्द्रवज्रयाह हॊरॆति | हॊरायां प्रश्नलग्नॆ यस्य रॊशॆनवांशकस्तत्कालं वर्ततॆ तत्प्रतिमं तमॆवांशकराशिं तस्य जन्मलग्नं वक्तव्यम् | अथवा लग्नाल्लग्नद्रॆष्काणादारभ्य रविः सूर्यॊ यावति यावत्संख्यॆ द्रॆष्काणॆ व्यवस्थितस्तस्माल्लग्नादारभ्य तावति राशौ लग्नगतॆ तस्य जन्म वक्तव्यम् | अत्र च द्वादशभ्यॊऽधिकॆ द्रॆष्काणॆ द्वादशकमपास्य सङ्ख्यानिर्दॆशः चतुर्विंशतॆरधिकॆ चतुविंशतिमपास्य शॆषं वदॆत् | ऎवं शास्त्रमाह-- शास्त्रं कथयति| न स्वमनीषिकयॊक्तमिति शास्त्रग्रहणॆनैतत्प्रतिपाद्यतॆ | उक्तं च पृच्छालग्ननवांशस्य यॊ राशिः संज्ञया समः | तस्मिँल्लग्नगतॆ राशौ वक्तव्यं जन्म पृच्छतः | यावत्संख्यॊ गतॊ लग्नाद्द्रॆष्काणी दिनकृत्ततः | तावत्संख्यॆ लग्नराशौ द्रष्टुर्जन्म विनिर्दिशॆत्” | 7 ||  488 जन्मादिशॆल्लग्नवीर्यगॆ वा छायाङ्गुलघ्नॊर्कहतॆऽवशिष्टम् | आसीनसुप्तॊत्थिततिष्ठताभं जायासुखाज्ञॊदयगं प्रदिष्टम् || 8 || भट्टॊत्पलः-अथ प्रकारान्तॆण लग्नानयनमिन्द्रवज्रयाह जन्मादिशॆदिति | लग्नगॆ ग्रहॆ जन्मादिशॆत् | प्रश्नलग्नॆ यॊ ग्रहॊ व्यवस्थितस्तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यम् | अथ बहवॊ लग्नगता भवन्ति तदा तॆषां यॊ बलवान् तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यम् | ततः सलिलसमीकृतायामवनौ द्वादशाङ्गलॆन शङ्कना तात्कालिकानि छायाङ्कलानि गृहीत्वा तैरंगुलैरॆकैकं ग्रहं यद्दर्शितकालॆ लिप्तापिंडीकृतं गुणयॆत | अथवा सर्वग्रहॆभ्यॊ यॊ बलवान् ग्रहस्तं तत्कालिकं कृत्वा लिप्तापिण्डं कृत्वा छायांगुलहतं चार्कशुद्धं कारयॆत् द्वादशभिर्विभजॆतत्र यावसंख्यमवशिष्टं तावत्संख्यॊ मॆषादॆरारभ्य यॊ राशिर्भवति तस्मिन् राशौ लग्नगतॆ तस्य जन्म वक्तव्यम् | अथ प्रकारान्तरॆणाह | आसीनॆत्यादि | आसीन उपविष्टॊ यदा प्रष्टा पृच्छति तदा लग्नाद्यज्जायास्थानं सप्तमराशिस्तस्मिँल्लग्नगतॆ तस्य जन्म वक्तव्यम् | अथ सुप्तः | सुप्तॊऽत्र शयन पतितॊ विहितः लब्धनिद्रस्य प्रश्नाभावात् | तत्र पतितॊ यदा पृच्छति तदा लग्नाद्यत्सुखस्थानं चतुर्थराशिस्तस्मिँल्लग्नगतॆ तस्य जन्म वक्तव्यम् | अथॊत्थितः पृच्छति तदा तस्माल्लग्नाद्यदाज्ञास्थानं दशमॊ राशिस्तस्मिन् लग्नगतॆ तस्य जन्म वक्तव्यम् | अथ शयनादासनाच्चॊस्थितः उत्तिष्ठन् पृच्छति तदॊदयलग्नराशौ तस्मिन्नॆव जन्म वक्तव्यम् उक्तं च उत्तिष्ठतॊ विलग्नात्प्रष्टुः सुप्तस्य बन्धुलग्नाच्च | उपविष्टस्यास्तमयॆ व्रजतॊ मॆषूरणस्थानात् |” इति | 8 ||  489 गॊसिंहौ जितुमाष्टमौ क्रियतुलॆ कन्यामृगौ च क्रमात्| संवग्र्यॊ दशकाष्टसप्तविषयैः शॆषाः स्वसंख्यागुणाः | जीवारास्फुजिदैन्दवाः प्रथमवक्छॆषा ग्रहाः सौम्यव द्राशीनां नियतॊ विधिग्रहयुतैः कार्या च तद्वर्गणा || 9 ||  भट्टॊत्पलः-अथ प्रकारान्तरॆण सर्वमॆव नष्टजातकं वक्ति | ततः प्रश्नकालॆ तात्कालिकं लग्नं कृत्वा लिप्तापिण्डीकार्यम् | ततस्तस्य लिप्तापिण्डीकृतस्य गुणकारविज्ञानार्थं शार्दूलविक्रीडि  तॆनाहगॊसिंहाविति | गॊसिंहादयॊ राशयॊ यथाक्रमं दशादिभिर्गुणकारैः संवग्र्या गुणनीयाः | तद्यथा | गॊसिंहौ वृषसिंह दशभि (10) गुणयॆत् | वृषलग्नं लिप्तापिण्डीकृतं दशभिर्गुणयॆत् | ऎवं सिंह दशभिरॆव | जितुमाष्टमौ मिथुनवृश्चिकौ लग्नगतावष्टभि (8) र्गुणयॆत् | क्रियतुलॆ ऎतौ सप्तभि (7) र्गुणयॆत् | कन्यामृगौ कन्यामकरौ ऎतौ लग्नगतौ विषयैः पञ्चभि (5) गुणयॆत् | ऎवमॆतॆ यथाक्रमं सवंग्र्या गुणनीयाः | शॆषा अनृक्ता राशयः स्वसङख्यागुणा‌आत्मीयसङख्यया गुणनीयाः | तत्र गणनया कर्कट चतुर्भिगुणयॆत्| ऎवं धन्वीनवभिः (9) | कुम्भमॆकादशभिः (11) ऎवं मीनॊ द्वादशभिः (12) | ऎवं तावल्लग्नं स्वगुणकारॆणावश्यमॆव गुणयॆत् | दशकाष्टसप्तविषयैः | ततस्तत्र यदि ग्रहॊ भवति (मॆ. 7 बृ. 10 मि. 8 कं. 4 सिं. 1ऒ क. 5 तु. 7 वृ. 8 ध. 9 म. 5 कुं. 11 मी. 12) तदा ग्रहगुणकारॆणावश्यमॆव गुणयॆत् | तत्र ग्रहगुणकारविधिः जीवारास्फुजिदैन्दवाः | प्रथमवद्दशकाष्टसप्तविषयैरिति | जीवॆ गुरौ लग्नगतॆ तदॆव लग्नं स्वगुणाकारैराहतं दशभिर्गुणयॆत् | आरॆ भौमॆ लग्नगतॆ अष्टभिः, आस्फुजिच्छुक्रः 490 तस्मिँल्लग्नगतॆ सप्तभिः, ऐन्दवॆ बुधॆ पञ्चभिः, शॆषा रविशशिसौरास्तॆ च सौम्यवत् बुधवत्, पञ्चभिर्गुणनीया (सू. 5 च. 5 मं. 8 बु. 5 बृ. 10 शु. 7 श. 5) इत्यर्थः | ऎवं तात्कालिकं लग्नमवश्यं राशिगुणकारॆण गुणयॆत् | ततः सग्रहॊक्तगुणकारैरपि तत्र च यदा ग्रहॊ भवति तदा ग्रहगुणकारॆण गुणयॆत् | यदा बहवॊ ग्रहा भवन्ति तदा सर्वॆषां गुणकारैर्गुणयॆत् | ऎवं च तद्गुणितमॆकान्तॆ स्थापयॆत् || 9 || गुणक अंकॊ का प्रयॊजन प्रश्न कालीन लग्न राश्यादि का कलापिण्ड बनाकर उसॆ लग्नगत राशि कॆ गुणक अंक सॆ गुणित कर, और यदि लग्नस्थ ऎक ग्रह या अधिक ग्रह हॊ तॊ उन ग्रहॊं कॆ गुणाङ्कॊ सॆ भी उक्त गुणनफल कॊ गुणित कर आगत गुणनफल कॊ ऎक स्थान मॆं लिखकर अग्रिम श्लॊक सम्बन्धी क्रिया कॆ लि‌ऎ सुरक्षित करना चाहि‌ऎ | 9 || 491 सप्ताहतं त्रिघनभाजितशॆषमृक्षं दत्वाथवा नवविशॊध्य न वाथवाऽस्मात् | ऎवं कलत्रसहजात्मजशत्रुभॆभ्यः प्रष्टुर्वदॆदुदयराशिवशॆन तॆषाम् || 10 ||  भट्टॊत्पलः-अथ नक्षत्रानयनं वसन्ततिलकॆनाह सप्ताहतमिति | सप्ताहतं सप्तभिर्गुणयॆत् | दत्वाथवॆति | ततस्त्र नव दॆयाः शॊध्या वा न किञ्चिद्वा कथमित्युच्यतॆ | यदि स चरराशिर्लग्नगतॊ भवति तदा नव दॆयाः | स्थिरॆ न दॆया नापि शॊध्याः | द्विस्वभावॆ विलग्नॆ नव शॊध्याः ऎवं कॆचिद्व्याचक्षतॆ | वयं पुनबूमः-यदि प्रश्नलग्नॆ प्रथमॊ द्रॆष्काणॊ भवति तदा नव दॆयाः | द्वितीयॆ न दॆया नापि शॊध्याः | तृतीयॆ नव शॊध्याः | ऎवं कृत्वा तस्य राशॆस्त्रिघनॆन सप्तविंशत्या भागमपहृत्यावाप्तं त्याज्यम् | तत्र यावत्संख्यॊऽङ्कॊऽवशॆषॊ भवति तावत्सङ्ख्यमश्विन्यादितॊ यन्नक्षत्रं तन्नक्षत्रं तस्य प्रष्टुर्वक्तव्यम् | कॆचिद्वदन्तियथास्थितस्य राशॆः सप्तविंशत्या भागमपहृत्यावशॆषाङ्कनवकदानॆन विशॊधनॆन वा यथास्थितॆनाङ्कॆन संवाद उत्पद्यतॆ तथा नक्षत्रं वक्तव्यम् | ऎवमित्यादिकलत्रसहजात्मजशत्रुभॆभ्य इति | भार्याभर्तृपुत्ररिपुषु नष्टजातकं यदा पृच्छति तदा तद्भॆभ्यस्तद्भावॆभ्यः ऎवं प्रष्टुः पृच्छकस्य वदॆत् ब्रूयात् | तमॆवॊदयराशिं परिकल्पयॆदित्यर्थः | ऎतदुक्तं भवति-यदि पुरुषः स्वपत्न्या नक्षत्रं पृच्छति तदा तात्कालिकॆ लग्नॆ राशिषट्कं दॆयम् | अथ भ्रातुः पृच्छति तदा राशिद्वयं दॆयमथ पुत्रस्य पृच्छति तदा राशिचतुष्कं दॆयमथ शत्रॊः पृच्छति तदा राशिपञ्चकं दॆयम् | ऎवं कृत्वा यद्भवति तदॆवॊदयराशिं प्रकल्प्य तद्गुणकारॆण गुणयॆत् | तत्स्थग्रहगुणकारॆण च ततस्तत्र प्राग्वन्नवकदानविशॊधनॆ कृत्वा सप्तविंशत्या भागमपहृत्यावशॆषाङ्कसमं यस्य प्रष्टा पृच्छति तस्य नक्षत्रं वक्तव्यम् | ऎतदप्युपलक्षणार्थमॆव त्रिराशिसहितातात्कालिकाल्लग्नान्मित्रस्य वक्तव्यमॆतन्नक्षत्रानयनमप्युपलक्षणमॆव सकलमपि नष्टजातकं वक्तव्यम् || 10 ||  492 भूयॊ दशादिगुणिताः स्वविकल्पभक्ता वर्षादयॊ नवकदानविशॊधनाभ्याम् || 11 || भट्टॊत्पलः-अथ वर्षाद्यानयनं वसन्ततिलकॆनाह वर्षर्नुमासॆति | वर्षादीनि सर्वाणि स्वविकल्पॆन भागॆ हृतॆ यथापाठक्रमॆणानयितव्यानि | तात्कालिकं लग्नं लिप्तापिण्डीकृतं राशिगुणकारहतं ग्रहसंयुक्तं चॆद्ग्रहगुणकाराहतमपि यदॆकान्तॆ स्थापितं तत्पुनरपि दशादिगुणं कार्यम् | ऎतदुक्तं भवति | स राशिः स्थानचतुष्टयॆ धार्यः | ऎकत्र दशगुणॊऽन्यत्र द्वितीयॆऽष्टगुणॊऽन्यत्र तृतीयॆ सप्तगुणः, चतुर्थॆ पञ्चगुणः कार्यः | यतः उक्तम् | भूयॊ दशादिगुणिताः भूयः पुनरपि दशकाष्टसप्तविषयैर्गणनीयाः ततस्तस्मिन् राशिचतुष्टयॆ प्राग्वन्नवकदानविशॊधनॆ कृत्वा स्वविकल्पैर्भागमपहृत्यावाप्तं तॆन वर्षादयॊ ज्ञॆयाः || 11 ||  493 विज्ञॆया दशकॆष्वब्द ऋतुमासास्तथैव च | अष्टकॆष्वपि मासार्द्धास्तिथयश्च तथा स्मृताः || 12 ||  भट्टॊत्पलः-अथ न ज्ञायतॆ कस्माद्राशॆः कस्यानयनं कार्यं तद्नुष्टुप्त्रयॆणाह विज्ञॆया दशकॆष्वब्दा इति | अत्र बहुवचनं बहुधॊपयॊगित्वात्कृतम् | यदुक्तम् | स्वविकल्पभक्ताद्वर्षादयस्तद्व्याख्यायतॆ | ऎतॆ चत्वारॊ राशयः स्थापितास्तॆषां नवकदानविशॊधनं कृत्वा कर्मयॊग्याः सर्वॆ भवन्ति | ततॊ दशगुणस्य पृथक्स्थस्य परमायुषा विंशत्याधिकॆन वर्षशतॆन भागमपहृत्य यॊङ्कॊऽवशिष्यतॆ तदङ्कसमं तस्य वर्ततॆ | तस्यैव षड्भर्भागमपहृत्य ऋतुसंख्यया तत्र यॊऽङ्कऽवशिष्यतॆ तदङ्कसमॆ शिशिरादाभ्यर्तॊ जात इति वक्तव्यम् | तस्यैव तु माससंख्यया द्वाभ्यां भागमपहृत्य यद्यॆकॊऽवशिष्यतॆ तदा ज्ञाततॊं प्रथमॆ मासि जात इति वक्तव्यम् | अथ शून्यमवशिष्यतॆ तदा द्वितीयॆ मासि जातः | ऎवं कृत्वा दशगुणः कर्मयॊग्यॊ राशिरपास्यः | यस्य विंशत्यधिकाद्वर्षशतादप्यधिकं जन्मनॊऽतीतं तस्य नष्टजातकज्ञानॊपाय ऎव नास्ति | अष्टकॆष्वित्यादि | यॊ यॊऽसावष्टहतॊ राशिस्तस्य पृथक्स्थस्य कर्मयॊगस्य पक्षसंख्यया द्वाभ्यां भागमपहृत्य यद्यॆकॊऽवशिष्यतॆ तदा शुक्लपक्षॆ जात इति वक्तव्यम् | न किञ्चिदवशिष्यतॆ तदा कृष्णपक्षॆ तस्यैव तिथिसंख्यया पञ्चदशभिर्भागमपहृत्य यॊऽङ्कॊऽवशिष्यतॆ तदङ्कसमानॆ तिथौ जात इति वक्तव्यम् | ऎवं कृत्वाष्टगुणः कर्मयॊग्यॊ राशिरपास्यः || 12 ||  494 दिवारात्रिप्रसूतिं च नक्षत्रानयनं तथा | सप्तकॆष्वपि वर्गॆषु नित्यमॆवॊपलक्षयॆत् || 13 || भट्टॊत्पलः-दिवॆत्यादि | यॊऽसौ सप्तहतॊ राशिस्तत्र प्राग्वदॆव नवकदानविशॊधनॆ कृत्वा तत्कर्मयॊग्यं राशिं स्थापयॆत् | यस्य दिवारात्रिसंख्यया द्वाभ्यां भागमपहृत्य यद्यॆकॊऽवशिष्यतॆ तदा दिवसॆ जातॊऽथ न किञ्चिदवशिष्यतॆ तदा रात्रौ जात इति वक्तव्यम् | यॊऽसौ सप्तहतॊ राशिस्तस्य नक्षत्रसंङ्खयया सप्तविंशत्या भागमपहृत्य यॊऽङ्कॊऽवशिष्यतॆ तदङ्कसंख्यॆ नक्षत्रॆऽश्विन्यादित आरभ्य जातनक्षत्रमिति वक्तव्यम् | अस्य कर्मणः पुनरभिधानं नक्षत्रानयनस्य बाहुल्यॊपयॊगित्वात् | 13 ||  495 वॆलामथ विलग्नं च हॊरामंशकमॆव च | पञ्चकॆषु विजानीयान्नष्टजातकसिद्धयॆ || 14 ||  भट्टॊत्पलः-वॆलॆत्यादि | यस्मिन्दिनॆ पुरुषस्य जन्मज्ञानं तदिनप्रमाणं घटिकादिकं कर्तव्यम् | रात्रौ चॆत्तदा रात्रिप्रमाणम् | ततः पञ्चगुणस्य राशॆस्तॆन दिनप्रमाणॆन रात्रिप्रमाणॆन वा भागमपहृत्य यॊऽङ्कॊऽवशिष्यतॆ तस्मिन्कालॆ दिनगतॆ रात्रिगतॆ वा तस्य जन्म वक्तव्यम् | अथ विलग्नमित्यादि | अथशब्दः पादपूरणार्थम् | कालॆ ज्ञातॆ राश्यादि लग्नं कर्तव्यम् | ततस्तस्य हॊराद्रॆष्काणनवांशद्वादशांशत्रिंशांशभागाः कर्तव्याः | तत्कालिकग्रहाश्च कर्तव्याः | ततॊ यथाभिहितॆन विधिना दशान्तर्दशाष्टकवगदिरभिहितस्य फलस्य निर्दॆशः कार्यः | ऎवं नष्टजातकं साधयॆत् || 14 || संस्कारनाममात्रा द्विगुणा छायांगुलैः समायुक्ताः | शॆषं त्रिनवकभक्तान्नक्षत्रं तद्धनिष्ठादि || 15 ||  भट्टॊत्पलः-अथ प्रकारान्तरॆण नक्षत्रानयनमार्ययाह संस्कारमॆति | संस्कारॆण नाम संस्कारनाम तस्य मात्राः संस्कारॆणागतस्य नाम्नॊ मात्राः संस्कारनाममात्राः | संस्कारग्रहणॆनैतत्प्रतिपादितं भवति | संस्कारॆण यत्पुरुषस्य नाम कृतं तस्य मात्रा ग्राह्याः, नान्यस्य 496 कस्यचित्कुनामादॆः | मात्राश्चॆह गृह्यन्तॆ हल् अर्धमात्रिकः अत्र मात्रिकः इत्यनया स्थित्या ताः संस्कारनामामात्राः संगृह्य द्विगुणीकार्याः | ततस्तात्कालिकानिशङ्कुछायाङ्गुलानि गृहीत्वा द्विगुणमात्रास्तैरङ्गुलैः संयुक्ताः कार्याः | ऎवं कृतॆ यद्भवति तस्य त्रिनवकॆन सप्तविंशत्या भागमपहृत्य यः शॆषॊ भवति तदङ्कसम तस्य धनिष्ठादित आरभ्य नक्षत्र वक्तव्यम् || 15 ||  द्वित्रिचतुर्दशदशतिथिसप्तत्रिगुणा नवाष्ट चैन्द्राद्याः | पञ्चदशघ्नास्तद्दिङमुखान्विता भ धनिष्ठादि || 1 6 ||  भट्टॊत्पलः-अथ नक्षत्रानयनं प्रकारान्तरॆणार्ययाह द्वित्रिचतुर्दशॆति | पूर्वाभिमुखा यदा प्रष्टा पृच्छति तदा द्वयॊरङ्काः स्थाप्याः | अथाग्नॆयाभिमुखस्तदा त्रयाणाम् | अथ दक्षिणाभिमुखस्तदा| चतुर्दशानाम् | अथ नै‌ऋत्यभिमुखस्तदा दशानाम् | अथ पश्चिमाभिमुखस्तदा| तिथिसङ्ख्यानां पञ्चदशानाम् | अथ वायव्याभिमुखस्तदा सप्तत्रिगुणा ऎकविंशतिः| उत्तराभिमुखस्तदा नवानाम् || ऐशान्याभिमुखस्तदाऽष्टानाम् | तद्यथा| ऎवं दिगभिमुखप्रवॆष्टवशॆनाङ्कं गृहीत्वा ततः पञ्चदशगुणः कार्यः | ततस्तस्मिन् प्रदॆशॆ यावन्तः पुरुषास्तदभिमुखाः स्थितास्तत्संख्यान्वितॊ युक्तः कार्यः | ऎवं कृतॆ यद्भवति तस्य सप्तविंशत्या भागमपहृत्य यॊऽङ्कॊऽवशिष्यतॆ तदङ्कसमं तस्य धनिष्ठाद्यारभ्य नक्षत्रं वक्तव्यम् || 16 || 497  इति नष्टजातकमिदं बहुप्रकारं मया विनिर्दिष्टम् | ग्राह्यमतः सच्छिष्यैः परीक्ष्य यत्नाद्यथा भवति | 17 || इति श्रीवराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ नष्टजातकाध्यायः सम्पूर्णः || 26 ||  भट्टॊत्पलः-अथ नष्टजातकॊपसंहारमार्ययाह इति नष्टजातकमिति | इति शब्दः उपसंहारॆ | मया वराहमिहिराचार्यॆण नष्टजातकं बहुप्रकारं बहुभॆदं विनिर्दिष्टमुक्तमिदम् | अतॊऽस्माद्धॆतॊः सच्छिष्यैः शॊभनसच्छात्रैः ग्राह्यम् | यत्नात्परीक्ष्य विचार्य यथा यॆन प्रकारॆण सम्भवति सत्यरूपं तथा ग्राह्यमिति | यॆन प्रकारॆण सम्भवति तथा ग्रहीतव्यमित्यर्थः | बहुभिरागमैर्मया विचार्य पराशर-वशिष्ठ यवन-सत्य-मणित्थादीनां मतानि आलॊक्य कृतम् | तदॆव भूयॊ निर्मलगुणनिपुणबुद्धया विचार्य सम्यक्तया कार्य यॆन स्फुटसिद्धॊऽसौ सम्पद्यतॆ || 17 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां नष्टजातकाध्यायः || 26 || 498 499 अथ द्रॆष्काणाध्यायः || 27 || कट्यां सितवस्त्रवॆष्टितः कृष्णः शक्त इवाभिरक्षितुम् | रौद्रः परशुं समुद्यतं धत्तॆ रक्तविलॊचनः पुमान् || 1 ||  भट्टॊत्पलः-अथ द्रॆष्काणाध्यायॊ व्याख्यायतॆ | तत्रादौ मॆषाद्यद्रॆष्काणस्य स्वरूपज्ञानं वैतालीयॆनाहकट्यामिति | कट्यां जघनॆ सितं श्वॆतं वस्त्रमम्बरं वॆष्टितं यॆन | कृष्णः असितवर्णः, शक्त इव अभिरक्षितुमाभिमुख्यॆन रक्षां कर्तुशक्तः समर्थ इव | रौद्रॊ भीषणः यः परशुं कुठारं समुद्यतं धत्तॆ धारयति | रक्तविलॊचनॊ लॊहिताक्षः स च| पुमान्पुरुषः ऎष पुरुषद्रॆष्काणः सायुधॊ भौमासक्तश्च || 1 ||  रक्ताम्बरा भूषणभक्ष्यचित्ता कुम्भाकृतिवांजिमुखी तृषात्त | ऎकॆन पादॆन च मॆषमध्यॆ द्रॆष्काणरूपं यवनॊपदिष्टम् || 2 ||  भट्टॊत्पलः-अथ मॆषद्वितीयद्वॆष्काणस्य स्वरूपमिन्द्रवज्रयाह रक्ताम्बरॆति | रक्ताम्बरा लॊहितवस्त्रा, भूषणमलंकरणं भक्ष्यं भॊज्यं तत्र चित्तं यस्याः | कुम्भाकृतिः घटॊदरी वाजिमुखी अश्ववक्त्रा, तृषार्ता पिपासात्ता ऎकॆन पादॆन चरणॆनॊपलक्षिता इदं द्रॆष्काणरूपं मॆषमध्यॆ मॆषद्वितीयं यवनॊपदिष्टं यवनाचार्यैः कथितम् | ऎष चतुष्पदद्रॆष्काणः स्त्रीद्रॆष्काणाऽर्कसक्तश्च | ??|| ? >’?? च्ल् ईव्च्, इति व्यख्यातस्तथा खगमुखॊ द्रॆष्काणश्च | 2 || 500 क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्नब्रतॊऽभ्युद्यतदण्डहस्तः | रक्तानि वस्त्राणि बिभर्ति चण्डॊ मॆषॆ तृतीय कथितस्त्रिभागः || 3 || भट्टॊत्पलः-अथ मॆषतृतीयद्वॆष्काणस्य स्वरूपमिन्द्रवज्रयाह क्रूर इति | क्रूरॊ विषमस्वभावः, कलाज्ञः, कलावित्, कपिलः पिङ्गलः, क्रियार्थी कर्मस्वभिलाषुकः, भग्नव्रतः स्खलितनियमः, आभिमुख्यॆनॊद्यतॊ दण्डः हस्तॆ पाणौ यस्य | रक्तानि लॊहितानि वस्त्राण्यम्बराणि बिभर्ति धारयति | चण्डः क्रॊधशीलः | अयं मॆषतृतीयस्त्रिभागॆ द्रॆष्काणः कथित उक्तः | ऎष नरद्रॆष्काणः सायुधॊ जीवसक्तश्च | 3 || कुञ्चितलूनकचा घटदॆहा दग्धपटा तृषिताशनचित्ता | आभरणान्यभिवाञ्छति नारी रूपमिदं वृषभॆ प्रथमस्य || 4 ||  भट्टॊत्पलः-अथ वृषप्रथमद्रॆष्काणजातस्य स्वरूपं दॊधकॆनाह कुञ्चितॆति | कुञ्चिताः कुटिलाः लूनाः कचाः कॆशाः यस्याः सा कुटिलच्छिन्नकॆशा, घटदॆहा कुम्भसदृशॊदरी, दग्धपटा दग्धवस्त्रा, तृषिता पिपासार्त्ता, अशनॆ भॊजनॆ चित्तं यस्याः | आभरणानि भूषणानि अभिवाञ्छति सा च नारी स्त्री इदं वृषभप्रथमस्य द्रॆष्काणस्य स्वरूपम् | ऎषः स्त्रीद्रॆष्काणः साग्निकः शुक्रसक्तश्च || 4 || 501 क्षॆत्रधान्यगृहधॆनुकलाङ्गॊ लाङ्गलॆ सशकटॆ कुशलश्च | स्कन्धमुद्वहति गॊपतितुल्यं क्षुत्परॊऽजवदनॊ मलवासाः || 5 || भट्टॊत्पलः-अथ वृषद्वितीयद्रॆष्काणस्य स्वरूपं स्वागतयाह क्षॆत्रधान्यॆति | क्षॆत्रं कॆदारः, धान्यानि शालयः, गृहं वॆश्म, धॆनुः गौः कलाः गीतवाद्यनृत्यलॆखचित्रकर्मादि ऎतासां ज्ञः पण्डितः लाङ्गलॆ हलॆ, सशकटॆ शकटसहितॆ, कुशलः शिक्षितः, गॊपतितुल्यं वृषभसदृशं, स्कन्धं ककुदमुद्वहति धारयति | क्षुत्परः क्षुधयार्तः, अजवदनः छागवक्त्रः, मलवासा मलिनाम्बरः | ऎष नरद्रॆष्काणः चतुष्पादद्रॆष्काणॊ बुधसक्तश्च || 5 ||  द्विपसमकायः पाण्डुरदंष्टः शरभसमाङघ्रि पिङ्गलमूर्तिः | अविमृगलॊभव्याकुलचित्तॊ वृषभवनस्य प्रान्तगतॊऽयम् || 6 || भट्टॊत्पलः-अथ वृषतृतीयद्रॆष्काणस्य स्वरूपं दॊधकॆनाह द्विपसमकाय इति | द्विपसमकायॊ महाशरीरॊ हस्तितुल्यदॆहः न पुनः हस्तिशरीरः, पाण्डुरदंष्ट्रः श्वॆतदन्तः, शरभसमाङ्घ्रिः, बृहत्पादॊ न पुनः शरभसदृशपादः, पिङ्गलमूर्तिः कपिलदॆहः, अविः प्रसिद्धः, मृग आरण्यपशुः अविमृगलॊभार्थं व्याकुलं चित्तं यस्य | अयं वृषभवनस्य वृषराशॆः प्रान्तगतस्तृतीयद्रॆष्काणः | चतुष्पादः सौरसक्तश्च || 6 || 502 सूच्याश्रयं समभिवाञ्छति कर्म नारी रूपान्विताभरणकार्यकृतादरा च | हीनप्रजॊच्छ्रितभुजतुंमती त्रिभागमाद्यं तृतीयभवनस्य वदन्ति तज्ज्ञाः || 7 ||  भट्टॊत्पलः-अथ मिथुनस्य प्रथमद्रॆष्काणस्य स्वरूपज्ञानं वसन्ततिलकॆनाहसूच्याश्रयमिति | नारी स्त्री सूच्याश्रयं कर्म सीवनक्रियां सम्यगभिवाञ्छति इति | रूपान्विता सुरूपा आभरणकार्य भूषणकर्मणि कृत आदरॊ अभिलाषः श्रद्धा यया हीनप्रजा अपत्यरहिता उच्छ्रितभुजॊध्वबाहुकॊ ऋतुमती सार्तवा कामार्त्ता वा | तृतीयभवनस्य मिथुनस्याद्यं प्रथमं त्रिभागं द्रॆष्काणं तज्ज्ञाः पण्डिताः प्रवदन्ति कथयन्ति | ऎष स्त्रीद्रॆष्काणॊ बुधसक्तश्च || 7 ||  उद्यानसंस्थः कवची धनुष्माञ्छूरॊऽस्त्रधारी गरुडाननश्च | क्रीडात्मजालङ्करणार्थचिन्तां करॊति मध्यॆ मिथुनस्य राशॆः || 8 || भट्टॊत्पलः-अथ मिथुनद्वितीयद्रॆष्काणस्य स्वरूपमुपजातिकयाह उद्यानसंस्थ इति | उद्यानसंस्थ उपवनॆ तिष्ठति | कवची सन्नाहप्रावृतशरीरः, धनुष्मान् चापहस्त, शूरॊ रणप्रियः | शरास्त्रधारी वा पाठः || शराः काण्डानि तान्यॆवाष्त्राणि तद्धरणॆ शीलं यस्तॆति | गरुडाननः पक्षिसदृशवक्त्रं, क्रीडनं क्रीडा, आत्मजाः पुत्राः, अलंकरणमाभरणम्, अर्थॊ वित्तम् ऎषां सम्बन्धिनीं चिन्तां करॊति | अयं मिथुनस्य राशॆर्मध्यॆ द्वितीयद्रॆष्काण इत्यर्थः | ऎष नरद्रॆष्काणः सायुधः खगद्रॆष्काणः शुक्रसक्तश्च || 8 || 503 भूषितॊ वरुणवद्बहुरत्नॊ बद्धतूणकवचः सधनुष्कः | भट्टॊत्पलः-अथ मिथुनस्य तृतीयद्रॆष्काणस्वरूपं स्वागतयाह भूषित इति | भूषितॊऽलंकृतः, वरुणवत्समुद्रवत् बहुरत्नः प्रभूतमणिः, तूणं शराधानं, कवचं सन्नाहः ऎतौ बद्धौ ग्रथितौ यॆन, सधनुष्कः चापयुक्तः, नृत्यॆ वादितॆ वाद्यविषयॆ कलासु च निःशॆषासु विद्वांस्तज्ज्ञः काव्यकृत्पण्डितः कवॆः कर्म काव्यं तत्करॊति | ऎषः मिथुनस्य राशॆरवसानॆ तृतीयद्रॆष्काण इत्यर्थः | ऎषः नरद्रॆष्काणसायुधः सौरसक्तश्च || 9 ||  भट्टॊत्पलः-अथ कर्कटपूर्वस्य स्वरूपं स्वागतयाहपत्रॆति | पत्राणि मूलानि फलानि च बिभर्ति धारयति | द्विपकायॊ हस्तिसदृशशरीरः | काननॆ वनॆ मलयगः मलयश्चन्दनवृक्षः तत्रॊपगतः स्थितः | शरभाङिघः शरभसदृशपादः, क्रॊडः सूकरस्ततुल्यवदनः तत्सदृशवक्त्रः, कथयन्ति| ऎष द्रॆष्काणश्चतुष्पाच्चन्द्रसक्तश्च || 10 ||  504 पदार्चिता मूर्धनि भॊगियुक्ता स्त्री कर्कशारण्यगता विरौति | शाखां पलाशस्य समाश्रिता च मध्यॆ स्थिता कर्कटकस्य राशॆः || 11 || भट्टॊत्पलः-अथ कर्कटद्वितीयद्रॆष्काणस्य स्वरूपमिन्द्रवज्रयाह पद्मार्चितॆति | स्त्री यॊषिन्मूर्धनि शिरसि पद्मैः कमलैरर्चिता पूजिता | भॊगियुक्ता ससर्पा, कर्कशा कठिनयौवनॊपॆता, अरण्यगता ऎकान्तस्थिता, विरौति आक्रॊशति | पलाशवृक्षस्य शाखा लत समाश्रिता तत्रासक्ता स्थिता | कर्कटस्य राशॆर्मध्यॆ स्थिता द्वितीयद्रॆष्काणॆ समवस्थिता | ऎष स्त्रीद्रॆष्काणी व्यालद्रॆष्काणी भौमसक्तश्च || 11 || भार्याभरणार्थमर्णवं नौस्थॊ गच्छति सर्पवॆष्टितः | हॆमैश्च युतॊ विभूषणैश्चिपिटास्यॊऽन्त्यगतश्च मर्कटॆ || 12 ||  भट्टॊत्पलः-अथ कर्कटस्य तृतीयद्रॆष्काणस्य स्वरूपं वैतालीयॆनाहभार्यॆति | भार्या जाया तस्या आभरणार्थमंलकरणनिमित्तमर्णवं समुद्रं नौस्थॊ नावमारूढः | सर्पवॆष्टिताङ्गॊ गच्छति याति, हॆमैः सुवर्णनिर्मितैः विभूषणैरलंकरणैर्युतः | चिपिटास्यः कर्कटॆऽन्त्यगः | तृतीयॆद्रॆष्काणॆ इत्यर्थः | ऎष नरद्रॆष्काणॊ व्यालद्रॆष्काणॊ जीवसक्तश्च || 12 || 505 शाल्मलॆरुपरि गृध्रजम्बुकॊ श्वा नरश्च मलिनाम्बरान्वितः | रौति मातृपितृविप्रयॊजितः सिंहरूपमिदमाद्यमुच्यतॆ || 13 || भट्टॊत्पलः-अथ सिंहपूर्वस्य द्रॆष्काणस्य स्वरूपज्ञानं रथॊद्धतयाहशाल्मलॆरिति | शाल्मलिवृक्षस्यॊपर्यग्रॆ गृध्रः पक्षी, जम्बुकः श्रृगालः, ऎतौ स्थितौ तथा सारमॆयः, नरॊ मनुष्यः स च मलिनैः मलॊपॆतैरम्बरैर्वस्त्रैरन्वितॊ युक्तः, मातृपितृविप्रयॊजितॊ जननीजनकविरहितॊ रौत्याक्रॊशति | इदमाद्यं प्रममं रूपं सिंहस्यॊच्यतॆ कथ्यतॆ | सिंहप्रथमद्रॆष्काण इत्यर्थः | ऎष नरद्रॆष्काणः चतुष्पदद्रॆष्काणः भगद्रॆष्काणॊऽर्कसक्तश्च || 13 ||  हयाकृतिः पाण्डुरमाल्यशॆखरॊ बिभर्ति कृष्णाजिनकम्बलं नरः | दुरासदः सिंह इवात्तकार्मुकॊ नताग्रनासॊ मृगराजमध्यमः | 14 ||  भट्टॊत्पलः-अथ सिंहद्वितीयस्य स्वरूपं वंशस्थॆनाह हयाकृतिरिति | हयाकृतिः अश्वाकारः, पाण्डुरमीषच्छुल्कयुक्तं माल्यं पुष्पनिचयं शॆखरॆ शिरसि यस्य | कृष्णाजिनं कृष्णमृगचर्म कम्बलमौर्णिकं बिभर्ति धारयति | कॆचित्कृष्णाजिनचीवरमिति पठन्ति | चीवरं जीर्णवासः, नरॊ मनुष्यॊ दुरासदः दुर्ज्ञॆयः, दुःसाध्यः, सिंह इव आत्तकार्मुकः गृहीतचापः, नताग्रनासः नताग्रा नासा यस्य | मृगराजस्य सिंहस्य मध्यमॊ द्वितीयॊ द्रॆष्काणः हयाकृतिः | पुरुष ऎवायं नरश्चतुष्पदद्रॆष्काणः सायुधॊ जीवसक्तश्च || 14 ||   506 ऋक्षाननॊ वानरतुल्यचॆष्टॊ बिभर्ति दण्डं फलमामिषं च | कूर्च मनुष्यः कुटिलैश्च कॆशैर्मृगॆश्वरस्यान्त्यगतस्त्रिभागः || 15 || भट्टॊत्पलः-अथ सिंहतृतीयस्य स्वरूपजातिकयाह‌ऋक्षानन इति | ऋक्षः प्राणी ऋक्षाननः ऋक्षसदृशवक्त्रः, वानरतुल्यचॆष्टः वानरॆण कपिना तुल्या सदृशा चॆष्टा स्वभावॊ यस्य | दण्डमायुधं फलमाम्रादि, आमिषं मांसं च बिभर्ति धारयति | कूर्चॊ दीर्घश्मश्रुः, मनुष्यः पुरुषः, कुटिलैःः कॆशैर्मूर्धजैर्युक्तः | मृगॆश्वरस्य सिंहस्यान्त्यगतस्त्रिभागः | ऎष नरद्रॆष्काणः चतुष्पदद्रॆष्काणः सायुधॊ भौमसक्तश्च || 15 ||  पुष्पप्रपूर्णॆच घटॆन कन्या मलप्रदिग्धाम्बरसंवृताङ्गी | वस्त्रार्थसँय्यॊगमभीष्टमाना गुरॊः कुलं वाञ्छति कन्यकाद्यः | 16 || भट्टॊत्पलः-अथ कन्यापूर्वस्य स्वरूपमुपजातिकयाहपुष्पप्रपूर्णॆनॆति | कन्या कुमारी, पुष्पप्रपर्णॆन कुसुमपरिपूरितॆन कुम्भॆन उपलक्षिता, मलप्रदिग्धैरतिमलॊपॆतैः अम्बरैर्वस्त्रैः संवृतावयवा | वस्त्राण्यम्बराणि अर्थॊ धनं ऎषां संयॊग्यभीष्टमाना वाञ्छमाना गुरॊः कुलं व्रजति गच्छति | कन्याकाद्यः प्रथमद्रॆष्काणः | ऎषस्त्रीद्रॆष्काणॊ बुधसक्तश्च || 16 ||  507 भट्टॊत्पलः-अथ कन्याद्वितीयस्य स्वरूपं वैतालीयॆनाह पुरुष इति | पुरुषॊ नरः, प्रगृहीतलॆखनिः ययाक्षराणि लिख्यन्तॆ सा लॆखनिः, श्यामॊ श्यामवर्णः, वस्त्रशिराः कर्पटसंयमितमूद्ध कॆचिद्बद्धशिरा इति पठन्ति | संयमितशिराः | व्ययं व्ययं व्ययकृत् आयं प्रवॆशं च करॊति गणयति | विपुलं विस्तीर्णं कार्मुकं धनुर्बिभर्ति धारयति | रॊमव्याप्ततनुः रॊमशरीरः ऎष मध्यमॊ द्वितीयद्रॆष्काणः | ऎष नरद्रॆष्काणः सायुधः सौरसक्तश्च || 17 ||  गौरी सुधौताग्रदुकूलगुप्ता समुच्छ्रित कुम्भकटच्छुहस्ता | दॆवालयं स्त्री प्रयता प्रवृत्ता वदन्ति कन्यान्त्यगतस्त्रिभागः || 18 || भट्टॊत्पलः-अथ कन्यातृतीयस्य ज्ञानमुपजातिकयाहगौरीति | गौरी गौरवर्णा, सुधौतान्यग्राणि यस्मिन्दुकूलॆ पटविशॆषॆ तॆन गुप्ताच्छादिता | कॆचितु दुकलहस्ता इति पठन्ति | समुच्छ्रिता अत्युच्चा कुम्भॊ घटः कटच्छुर्दर्वी प्रसिद्धा गृहॊपयॊगिकं लॊहभाण्डं तत्करॆ हस्तॆ यस्याः | दॆवालयं सुरगृहं स्त्री युवतिः प्रयता समाहिता प्रवृत्ता गन्तुमुद्यता, वदन्ति कथयन्ति मुनयः| कन्यान्त्यगस्त्रिभागः तृतीयद्रॆष्काणः | ऎष स्त्रीद्रॆष्काणः शुक्रसक्तश्च || 18 ||  508 वीथ्यन्तरापणगतः पुरुषस्तुलावानुमानमानकुशलः प्रतिमानहस्तः | भाण्डं विचिन्तयति तस्य च मूल्यमॆतद्रूपं वदन्ति यवनाः प्रथमं तुलायाः| 19 ||  भट्टॊत्पलः-अथ तुलाद्यस्वरूपं वसन्ततिलकॆनाह वीथ्यन्तरॆति | वीथ्यन्तरॆ मार्गमध्यॆ यदा पणं प्रसारकः समवस्थितस्तत्र गतः | पुरुषॊ नरस्तुलावान् तुलाहस्तः विद्यमानतुलः उन्मानॆ ऊर्ध्वमानॆ तुलादिकॆ| मानॆ मानशब्दॆन कुडवादौ च तस्मिन्कुशलः तज्ज्ञः प्रतिमानं यॆन द्रव्यादि सुवर्णरत्नादीनि परिच्छिद्यन्तॆ तत् हस्तॆ यस्य भाण्डॆ क्रयद्रव्यं विचिन्तयति ध्यायति तस्य भाण्डस्यैतन्मूल्यमिति तस्य च भाण्डस्य च मूल्यं विचिन्तयति | ऎतद्यवनास्तुलायाः प्रथमद्रॆष्काणस्य रूपं वदन्ति कथयन्ति | ऎष नरद्रॆष्काण शुक्रसक्तश्च | 19 || कलशमिति | गृध्रः पक्षी गृध्रमुखॊ गृध्राननः कलशं कुम्भं गृहीत्वा विनिष्पतितुं निर्विशॆषं पतितुमभीप्सति वाञ्छति | यतः क्षुधितॊ, बुभुक्षितः तृषितः पिपासितॊऽतः कलत्रं भार्यां सुतान् पुत्रान् मनसा चित्तॆनैति गच्छति | अभीप्सति अभिलषति स्मरतीत्यर्थः | इत्यॆवप्रकारः तुलाधरमध्यगः तुलाद्वितीयद्रॆष्काणः ऎष नरद्रॆष्काणः खगद्रॆष्काणः शनैश्चरसक्तश्च || 20 ||   509 भट्टॊत्पलः-अथ तुलातृतीयस्य स्वरूपं वंशस्थॆनाह विभीषयन्निति | रत्नचित्रितॊ मणिभिर्विभूषितः वनॆऽरण्यॆ मृगान्हरिणान्विभीषयन् भीषां कुर्वन् तिष्ठति | कीदृशः ? काञ्चनं सौवर्णं तृणं शराधानं वर्म सन्नाह तॆ च बिभर्ति धारयति | फलान्यामिषं च मांसं बिभर्ति नरॊ मनुष्यॊ वानररूपभ्रूत्वानरस्य कपॆरिव रूपं बिभर्ति धारयति | फलान्याम्रादीनि | कॆचिद्धनुर्धरः किन्नररूपभृन्नर इति पठन्ति | धनुर्धरः चस्हस्तः किन्नरॊ दॆवयॊनिरश्वमुखः पुरुषः तुलावसानॆ तुलायास्तृतीयद्रॆष्काणॆ यवनैः पुराण्यवनैरुदाहृतः कथितः | नरा मनुष्यॊ वानराकारॊऽयं चतुष्पदद्रॆष्काणॊ बुधसक्तश्च || 21 || वस्त्रैर्विहीनाभरणैश्च नारी महासमुद्रात्समुपैतिकूलम् | स्थानच्युता सर्पनिबद्धपादा मनॊरमा वृश्चिकराशिपूर्वः || 22 || भट्टॊत्पलः-अथ वृश्चिकप्रथमस्य स्वरूपमुपजातिकयाहवस्त्रैरिति | स्त्री वस्त्रैरम्बरैस्तथाभरणैरलङ्करणैश्च विहीना वर्जिता| महासमुद्रान्महासागरात् कूलं समुपैत्यागच्छति | स्थानच्युता स्वस्थानात् भ्रष्टा सर्पनिबद्धपादा मुजगनियमितचरणा | मनॊरमा चित्तानन्दविधायिनी चित्ताह्वादकरी 510 वृश्चिकराशॆः पूर्वः प्रथमद्रॆष्काणः | ऎष स्त्रीद्रॆष्काणॊ व्यालद्रॆष्काणॊ भौमसक्तश्च|| 22 ||  भट्टॊत्पलः-अथ वृश्चिकद्वितीयस्य स्वरूपं दॊधकॆनाह स्थानॆति | नारी स्त्री स्थानसुखान्यभिवाञ्छति भर्तुकुतॆ पतिनिमित्तॆ भुजगावृतदॆहा सर्पव्याप्तशरीरा | कच्छपः कूर्मः कुम्भॊ घटः तत्समानशरीरा तत्तुल्यदॆहा | वृश्चिकं मध्यरूपं द्वितीयं द्रॆष्काणमुशन्ति कथयन्ति | ऎष स्त्रीद्रॆष्काणॊ व्यालद्रॆष्काणः जीवासक्तश्च || 23 ||  पृथुलचिपिटकूर्मतुल्यवक्त्रः श्वमृगवराहश्रृंगालभीषकारी | अवति च मलयाकरप्रदॆशं मृगपतिरन्त्यगतस्य वृश्चिकस्य || 24 ||  भट्टॊत्पलः-अथ वृश्चिकतृतीयस्वरूपज्ञानं पुष्पिताग्रयाहपृथुलचिपिटमिति | पृथुलं विस्तीर्ण चिपिटं चर्पटं कूर्मतुल्र्य कच्छपसदृशं वक्त्रं मुखं यस्य | श्वा सारमॆयः, मृगॊ हरिणः, श्रृगालः क्रॊष्टा, वराहः सूकरः ऎषां भीषकारी भयकारी मलयस्य चन्दनस्याकरस्य प्रदॆशमुत्पत्तिस्थानं भवति रक्षति स च मृगपतिः सिंहः अन्त्यगतॊ वृश्चिकश्य तृतीयद्रॆष्काणः | ऎष कूर्माननः सिंहद्रॆष्काणः चतुष्पदद्रॆष्काणः चन्द्रसक्तश्च || 24 || 511 मनुष्यवक्त्रॊऽश्वसमानकायॊ धनुर्विगृह्यायतमाश्रमस्थः | क्रतूपयॊज्यानि तपस्विनश्च ररक्ष आद्यॊ धनुषस्त्रिभागः || 25 || भट्टॊत्पलः-अथ धन्विपूर्वस्य स्वरूपज्ञानमिन्द्रवज्रयाहमनुष्यवक्त्र इति | मनुष्यवक्त्रॊ नरवदनः अश्वसमानकायः तुरगसदृशदॆहः, आयतं दीर्घं धनुशचापं गृहीत्वा आश्रमस्थः तत्राश्रमॆ तिष्ठति | क्रतूपयॊज्यानि यज्ञॊपकरणादीनि यज्ञभाण्डानि खुक्खुवादीनि तपस्विनः तापसान् ररक्ष रक्षितवान् | आद्यः प्रथमॊ धनुषस्त्रिभागॊ धन्विद्रॆष्काणः | कॆचिच्च ररक्ष| पूर्व इति पठन्ति | धनुषः पूर्वस्त्रिभागः प्रथमद्रॆष्काणः | ऎषॊऽश्वसमानकायः नरद्रॆष्काणः चतुष्पात्सायुधद्रॆष्काणः जीवसक्तश्च || 25 ||  मनॊरमा चम्पकहॆमवर्णा भद्रासनॆ तिष्ठति मध्यरूपा | समुद्ररत्नानि विघट्टयन्ती मध्यत्रिभागॊ धनुषः प्रदिष्टः || 26 || भट्टॊत्पलः-अथ धन्विद्वितीयस्य स्वरूपज्ञानमुपजातिकयाहमनॊरमॆति | मनॊरमा चित्ताह्लादकारिणी, चम्पकं पुष्पविशॆषः हॆम सुवर्ण तत्सदृशवर्णा तत्समकान्तिः भद्रासनॆ आसनविशॆषॆ तिष्ठति तत्र उपविष्टा मध्यमरूपा न चातिशॊभना नाप्यत्यशॊभना समुद्ररत्नानि सागरमणीन् विघट्टयन्ती स्त्री तिष्ठति | धनुषॊ मध्यत्रिभागॊ द्वितीयद्रॆष्काणॊ मुनिभिः प्रदिष्टः उक्तः | ऎष स्त्रीद्रॆष्काणॊ भौमसक्तश्च || 26 || 512 कूर्चा नरॊ हाटकचम्पकाभॊ वरासनॆ दण्डधरॊ निषष्णः | कौशॆयकाव्युद्वहतॆऽजिनं च तृतीयरूपं नवमस्य राशॆः || 27 || भट्टॊत्पलः-अथ धन्वितृतीयस्थ स्वरूपमुपजातिकयाहकूर्चॊ नर इति | नरॊ मनुष्यः कूर्चॊ दीर्घश्मश्रुः, हाटकं सुवर्णं चम्पकः पुष्पविशॆषः तदाभः तत्सदृशकान्तिः तत्समानद्युतिः वरासनॆ प्रधानासनॆ निषष्णः उपविष्टः दण्डधरॊ दण्डहस्तः, कौशॆयकानि पट्टविशॆषाणि उद्वहतॆ धारयति | अजिनं मृगचर्म नवमस्य राशॆर्धनुषः तृतीयद्रॆष्काणस्य स्वरूपम् | ऎष नरद्रॆष्काणः सायुधः अर्कसक्तश्च || 27 ||  रॊमचितॊ मकरॊपमदंष्टः सूकरकायसमानशरीरः | यॊक्त्रकजालकबन्धनधारी रौद्रमुखॊ मकरप्रथमस्तु | 28 ||  भट्टॊत्पलः-अथ मकरप्रथमस्य स्वरूपं दॊधकॆनाह रॊमॆति | रॊमचितॊ रॊमशः, मकरॊपमदंष्ट्रः मकरतुल्यदंष्ट्रः मकरॊ जलचरप्राणी सूकरस्य वराहस्य कायॊ दॆहः तत्समानशरीरः तत्तुल्यतनुः | यॊक्त्रकं यॆन बलीवर्दा यॊज्यन्तॆ, जालकः प्रसिद्धः यॆन पक्षिणॊ बध्यन्तॆ बन्धनं निगडादि ऎतानि धारयति तच्छीलः | रौद्रमुखॊ वक्रिताननः मकरप्रथमः प्रथमद्रॆष्काणः | ऎष पुरुषद्रॆष्काणः बन्धनधारित्वात्सनिगडः सूकरसमानशरीरः न सूकरः तस्मान्न चतुष्पात् शनैश्चरसक्तश्च || 28 || 513 कलास्वभिज्ञाब्जदलायताक्षी शयामा विचित्राणि च मार्गमाणा | विभूषणालङकृतलॊहकर्णा यॊषा प्रदिष्टा मकरस्य मध्यॆ || 29 ||  भट्टॊत्पलः-अथ मकरद्वितीयस्य स्वरूपमुपजातिकयाहकलास्वभिज्ञाब्जदलायताक्षीति | कलास्वभिज्ञा आभिमुख्यॆन जानाति अब्जदलायताक्षी अब्जदलं पद्मपत्रं तद्वादायतॆ दीर्घ अक्षिणी यस्याः सा दीर्घनॆत्रा च श्यामा श्यामवर्णा विचित्राणि नानाप्रकाराणि वस्तूनि च मार्गमाणा अभीप्समाना विभूषणैरलंकृता लॊहकर्णा लॊहयुक्तश्रॊता लॊहाभरणं कर्णयॊर्यस्याः सा यॊषा स्त्री मकरस्य मध्यॆ द्वितीयद्रॆष्काणॆ प्रदिष्टा उक्ता | ऎषः स्त्रीद्रॆष्काणः शुक्रसक्तश्च|29 ||  किन्नरॊपमतनुः सकम्बलस्तूणचापकवचैः समन्वितः | कुम्भमुद्वहति रत्नचित्रितं स्कन्धगं मकरराशिपश्चिमः | 30 || भट्टॊत्पलः-अथ मकरतृतीयस्य स्वरूपं रथॊद्धतयाह किन्नरॊपमॆति | किन्नरॊपमतनुः किन्नरा दॆवयॊनयः अश्वमुखाः पुरुषास्तत्सदृशी तनु, सकम्बलः कम्बलॆन सहितः, तूणं शराधारं, चापं धनुः कवचं सन्नाहः ऎतैस्तूणचापकवचैः शराधारधनुः सन्नाहैः समन्वितॊ युक्तः कुम्भं 514 घटं रत्नचित्रितं मणिविरचितं स्कन्धगमं सासक्तमुद्वहृति धारयति | मकराशॆः पश्चिमस्तृतीयद्रॆष्काणः | ऎष पुरुषद्रॆष्काणः सायुधः बुधसक्तश्च || 30 ||  स्नॆहमद्यजलभॊजनागमव्याकुलाकृतमनाः सकम्बलः | कॊशकारवसनॊऽजिनान्वितॊ गृध्रतुल्यवदनॊ घटादिगः || 31 || भट्टॊत्पलः-अथ कुम्भप्रथमद्रॆष्काणस्य स्वरूपं दॊधकॆनाह स्नॆहमद्यजलभॊजनॆति | स्नॆहस्तैलादिं मद्यं पानविशॆषः जलमुदकं, भॊजनमशनम् ऎतॆषां य आगमः तॆन व्याकुलितं मनः चित्तं यस्य | सकम्बलः कम्बलसहितः कॊषकारॆवसनः पट्टवासाः, अजिनान्वितः कृष्णमृगचर्मयुक्तः, गृध्रः पक्षी तत्तुल्यवदनः तत्समवक्त्रः, घटादिगः कुम्भप्रथमद्रॆष्काणः ऎष नरद्रॆष्काणः खगश्च सौरसक्तश्च || 31 ||  दग्धॆ शकटॆ सशाल्मलॆ लॊहान्याहरतॆऽङ्गना वनॆ | मलिनॆन पटॆन संव्वृता भाण्डॆर्मूर्ध्नि गतैश्च मध्यमः || 32 ||  भट्टॊत्पलः-अथ कुम्भद्वितीयस्वरूपं वैतालीयॆनाहदग्धॆ शकटॆ इति | शकटॆ गम्नायां दग्धॆ अग्निना भस्मीकृतॆ सशाल्मलॆ शाल्मलवृक्षैः सहितॆ अङ्गना स्त्री लॊहान्याहरतॆ गृह्णाति वनॆ अरण्यॆ मलिनॆन पटॆन समलॆन वाससा संवृता भाण्डैः भाण्डप्रकारैः मूर्छिन गतैः मस्तकारॊपितैः 515 उपलक्षिता | कॆचिद्धाण्डैरारॊपितैः परिपूर्ण इति पठन्ति | मध्यमॊ द्वितीयद्रॆष्काणः| ऎष स्त्रीद्रॆष्काणः साग्निकॊ बुधसक्तश्च || 32 ||  शयामः सरॊमश्रवणः किरीटी त्वकपत्रनिर्यासफलैबिभर्ति | भाण्डानि लॊहव्यतिमिश्रितानि सञ्चारयत्यन्तगतॊ घटस्य | 3 3 | भट्टॊत्पलः-अथ कुम्भतृतीयस्य स्वरूपज्ञानमिन्द्रॆवज्रयाह शयाम इति | श्यामः शयामवर्णः, सरॊमश्रवणः लॊमशकर्णः, किरीटी कौलि युक्तः, त्वक् चर्म, पत्रं पर्णं, निर्यासः वृक्षनिर्यासः यथा गुग्गुलुः स्नॆहः फलं च सुप्रसिद्धमॆवाम्रादि ऎतैः सह भाण्डानि लौहव्यतिमिश्रितानि लॊहसंयुक्तानि बिभर्ति धारयति तानि च संचारयति स्थानात् स्थानान्तरं नयति | घटस्य कुम्भस्यान्तर्गतः तृतीयद्रॆष्काणः | ऎष नरद्रॆष्काणः शुक्रसक्तश्च || 33 ||  स्रुग्भाण्डमुक्तामणिशङ्खमिश्रैर्व्याक्षिप्तहस्तः सविभूषणश्च | भार्याविभूषार्थमपां निधानं नावा प्लवत्यादिगतॊ झषस्य | 34 || भट्टॊत्पलः-अथ मीनाद्यस्य स्वरूपमिन्द्रॆवज्रयाह खुग्भाण्डॆति | खुग्भाण्डानि यज्ञॊपकरणभाण्डानि, मुक्ता मौक्तिकं, मणयः प्रसिद्धाः, शङ्खः प्रसिद्ध ऎव ऎतैर्मिश्रैरॆकीकृतैः व्याक्षिप्तॊ हस्तॊ यस्य 516 आकुलकरः सविभूषणः साभरणः भार्या जाया तद्विभूषार्थमलङ्करणार्थमपां निधानं समुद्रॆ नावा प्लवति नौस्थॊ गच्छति | कॆचिन्महार्णर्व च नावा प्लवतीति पठन्ति | झषस्य मीनस्यादिगतः प्रथमद्रॆष्काणः | ऎष नरद्रॆष्काणॊ जीवसक्तश्च || 34 ||  अत्युच्छ्रितध्वजपताकमुपैति पॊतं कूलं प्रयाति जलधॆः परिवारयुक्ता | वर्णॆन चम्पकमुखा प्रमदा त्रिभागॊ मीनस्थ चैष कथितॊ मुनिभिर्द्वितीयः | 35 ||  भट्टॊत्पलः-अथ मीनद्वितीयस्य स्वरूपज्ञानं वसन्ततिलकॆनाह अत्युच्छ्रितॆति | अत्युच्छ्रिता अतीवॊच्चध्वजाः पताका यस्मिन्पॊतॆ तमुपैति आरॊहति | जलधॆः समुद्रस्य कूलं तटं प्रयाति | प्रमदा स्त्री, कीदृशी ? परिवारयुक्ता सखीजनॆनावृता | चम्पकं पुष्पविशॆषः चम्पककान्तिः मुखवर्णन चम्पककान्ति मुष्णातीत्यर्थः ऎष मीनस्य द्वितीयविभागॊ मुनिभिर्गदित उक्तः | ऎष स्त्रीद्रॆष्काणश्चन्द्रसक्तश्च || 35 || श्वभ्रान्तिकॆ सर्पनिवॆष्टिताङ्गॊ वस्त्रैर्विहीनः पुरुषस्त्वटव्याम् | चौरानलव्याकुलितान्तरात्मा विक्रॊशतॆऽन्त्यपगतॊ झषस्य | 36 ||  इति श्री वराहमिहिराचार्यप्रणीतॆ बृहज्जातकॆ द्रॆष्काण स्वरूपाध्यायः सम्पूर्णः || 27 || 517 भट्टॊत्पलः-अथ मीनस्य तृतीयद्वॆष्काणस्वरूपज्ञानमिन्द्रवज्रयाह श्वभ्रान्तिकॆ इति | श्वभ्रान्तिकॆ गर्तसमीपॆ सर्पवॆष्टिताङ्गॊ भुजगावृतावयवः वस्त्रैरम्बरैर्विहीनॊ रहितः पुरुषॊः नरः अटव्यामरण्यॆ चौरैस्तस्करैः अनलॆनाग्निना व्याकुलितः क्षुभितॊऽन्तरात्मा यस्या विक्रॊशतॆ रॊदिति | झषस्य मीनस्यान्त्यॊपगतः तृतीयद्वॆष्काणः | ऎष व्यालद्वॆष्काणॊं भौमसक्तश्च | द्वॆष्काणस्वरूपस्य प्रयॊजनं प्रदॆशॆषु व्याख्यातम्| तथा च यात्रायां वक्ष्यति | “द्रॆष्काणाकारचॆष्टां गुणसदृशफलं यॊजयॆद्वृद्धिहॆतॊर्द्रष्काणॆ सौम्यॆरूपॆ कुसुमफलयुतॆ रत्नभाण्डान्वितॆ च | सौम्यैर्दृष्टॆ जयः स्यात्प्रहरणसदृशॆ पापदृष्टॆ च भङ्गः सम्मॊहॊ वाथ बन्धः सभुजगनिगडॆ पापयुक्तॆ पिपासुः” | इति | अन्यच्चास्य प्रयॊजनं चौररूपस्थानादिज्ञानम् | उक्तं च षट्पञ्चाशिकायां पृथुयशसा-“अंशकाज्ज्ञायतॆ द्रव्यं द्रॆष्काणैस्तस्कराः स्मृताः || राशिभ्यः कालदिग्दॆशा वयॊ ज्ञातिश्च लग्नपात् |” ऎवं वृत्तानि | 36 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां द्रॆष्काणाध्यायः || 27 || 518 519 अथ उपसंहाराध्यायः || 28 || राशिप्रभॆदॊ ग्रहयॊनिभॆदॊ वियॊनिजन्माश्थ निषॆककालः | जन्माथ सद्यॊ मरणं तथायुर्दशाविपाकॊऽष्टकवर्गसञ्ज्ञः | 1 || भट्टॊत्पलः-अथात उपसंहाराध्यॊयॊ व्याख्यायतॆ | अथाध्यायसंग्रहमुपजातिकयाह राशिप्रभॆद इति | राशिप्रभॆदः प्रथमॊऽध्यायः, ग्रहयॊनिभॆदॊ द्वितीय, वियॊनिजन्मा तृतीयः, अथ शब्दः आनन्तर्यॆ | निषॆककालश्चतुर्थः, जन्मविधिः पञ्चमः, अथ सद्यॊमरणमरिष्टाध्यायः षष्ठः, आयुर्विभागः सप्तमः, दशाविभागॊऽष्टमः, अष्टकवर्गसंज्ञॊ नवमः || 1 || कर्माजीब्रॊ राजयॊगाः खयॊगाश्चान्द्रा यॊगा द्विग्रहाद्याश्च यॊगाः | प्रव्रज्याथॊ राशिशीलानि दृष्टिभावस्तस्मादाश्रयॊऽथ प्रकीर्णः || 2 ||  भट्टॊत्पलः-अथ शॆषाध्यायसङ्ग्रहं शालिन्याह कर्माजीव इति | कर्माजीवॊ दशमः 10, राजयॊगाध्याय ऎकादशः 11, खयॊगाः नाभसयॊगाध्यायः द्वादश 12, चान्द्रयॊगाः सुनफाद्याश्चन्द्रयॊगाध्यायस्त्रयॊदशः 13, द्विग्रहत्रिग्रहयॊगाध्यायश्चतुर्दशः 14, प्रव्रज्यायॊगा ध्यायः पञ्चदशः 15, अथॊऽनन्तरं राशिशीलाध्यायः षॊडशः 16, दृष्टिफलाध्यायः सप्तदशः 17, तस्मात्परॊभावाध्यायॊऽष्टादशः 18, अथातः परमाश्रयाध्याय ऎकॊनविंशतितमः 19, प्रकीर्णाध्यायॊ विंशः 20 || 2 ||  520 नॆष्टा यॊगा जातकं कामिनीनां निर्याणं स्यान्नष्टजन्मा दृकाणः | अध्यायानां विंशतिः पञ्चयुक्ता जन्मन्यॆतद्यात्रिकं चाभिबाल्यॆ || 3 ||  भट्टॊत्पलः-अथ शॆषाध्यायसंग्रहं शालिन्याह नॆष्टा यॊगा इति | अनिष्टयॊगाध्याय ऎकविंशतिः 21, कामिनीनां स्त्रीणां जातकाध्यायॊ द्वाविंशतिः 22, निर्याणं मरणज्ञानाध्यास्त्रयॊविंशतिः 23, नष्टजातकाध्यायश्चतुर्विंशतिः 24, द्रॆष्काणस्वरूपाध्यायः पञ्चविंशतिः 25 || ऎवं पञ्चयुक्ताध्यायानां विंशतिः जन्मनि जातकॆ उक्ता कथितॊक्ता ऎतज्जातकॆ|3 ||  प्रश्नास्तिथिर्भं दिवसः क्षणश्च चन्द्रॊ विलग्नं त्वथ लग्नभॆदः | शुद्धिग्रहाणामथ चापवादॊ विमिश्रकाख्यं तनुवॆपनं च || 4 || भट्टॊत्पलः-ऎवमिदानी यात्रिकॆ यात्रायां निबद्धमध्यायसङ्ग्रहमभिधास्यॆ कथयिष्यॆ | तच्चॊपजातिकयाह प्रश्नास्तिथिरिति | प्रश्नाः प्रश्नभॆदाध्यायः, तिथिस्थितिबलाध्यायः, भं नक्षत्राभिधानं दिवसॊ दिवसाभिधानं वारफललक्षणं, क्षणॊ मुहूर्त्तनिर्दॆशः चन्द्रश्चन्द्रबलाध्यायः, लग्नं च लग्नविनिश्चयः, अथानन्तरं लग्नभॆदॊ हॊराद्रॆष्काणनवांशकद्वादशभागत्रिंशद्भागानां लक्षणं सफलं ग्रहाणां शुद्धिः सफला समस्तग्रहाणां कुण्डलिकाफलम् | अथान्तरं अपवादाध्यायः विमिश्रकाख्यं विमिश्रकाध्यायः तनुवॆपनं दॆहस्पन्दनम् || 4 ||  521 अतः परं गुह्यकपूजनं स्यात्स्वप्नं ततः स्नानविधिः प्रदिष्टः | यज्ञॊ ग्रहाणामथ निर्गमश्च क्रमाच्च दिष्टः शकुनॊपदॆशः || 5 ||  भट्टॊत्पलः-शॆषाध्यायस्य कीर्तनमुपजातिकयाह अतः परमिति | अतॊऽस्मात्परं गुह्यकपूजनं स्याद्भवॆत् स्वप्नं स्वप्नाध्यायः ततॊऽनन्तरं स्नानविधिः प्रदिष्टः उक्तः, ग्रहाणां यज्ञॊ ग्रहयज्ञः अथानन्तरं निर्गमः प्रास्थानिकं क्रमात्परिपाट्या दष्टि उक्तः शकुनॊपदॆशः शकुनरुतज्ञानम् | ऎष यात्रायां सङ्ग्रहः || 5 ||  522 विवाहकालः करणं ग्रहाणां प्रॊक्तं पृथक्तद्विपुलाऽथ शाखा | स्कन्धैस्त्रिभिज्यौतिषसङ्ग्रहॊऽयं मया कृतॊ दैवविदां हिताय || 6 ||  भट्टॊत्पलः-अथ शॆषवस्तुसङ्ग्रहमुपजातिकयाह विवाहकाल इति | विवाहकालॊ विवाहपटलं ग्रहाण करण पञ्चसिद्धान्तिकायां प्रॊक्तं कथितं पृथग्विभज्य तद्विपुला तस्य करणस्य शुभाशुभज्ञानाय विपुला विस्तीर्णा शाखा कथिता | त्रिभिः स्कन्धैरॆतैर्गणितहॊरासंहिताख्यैरयं ज्यॊतिः शास्त्रसङ्ग्रहॊ मया वराहमिहिराचार्यण दैवविदां सांवत्सरिकाणां हितार्थं कृतॊ विरचितः | विस्तीर्णशास्त्राण्यालॊच्य संक्षॆपतॊ मया कृतः || 6 ||  पृथुविरचितमन्यैः शास्त्रमॆतत्समस्तं तदनु लघु मयॆदं तत्प्रदॆशार्थमॆव | कृतमिह हि समर्थं धीविषाणामलत्वॆ मम यदिह यदुक्तं सज्जनैः क्षम्यतां तत् || 7 ||  भट्टॊत्पलः-ऎतन्मालिन्याह पृथुविरचितमन्यैरिति | ऎतत्समस्तं सकलशास्त्रमन्यैराचार्यैर्यवनॆश्वरादिभिः पृथु विस्तीर्णं कथितं तदनु तदॆव शॊभनतरं मया तत्प्रदॆशार्थं तदुपदिष्टार्थं लघु स्वल्पं कृतं तत्प्रदॆशॆऽपि यॊऽर्थः सॊऽस्मिंस्तात्पर्यार्थः | हि यस्मादर्थॆ इहास्मिन् शास्त्रॆ कृतं धीविषाणामलत्वॆ बुद्धिश्रृङ्गनिर्मलीकरणविषयॆ समर्थमुक्तमॆतत्कृतम्| मया चॆह सङ्ग्रहॆ यदुक्तमशॊभनयुक्तं कथितं तत्सज्जनैः पण्डितैर्मम क्षम्यतां, क्षन्तव्यमित्यर्थः || 7 ||   ग्रन्थस्य यत्प्रचरतॊऽस्य विनाशमॆति लॆख्यादबहुश्रुतमुखाधिगमक्रमॆण | यद्वा मया कुकृतमल्पमिहाकृतं वा कार्यं तदत्र विदुषा परिहृत्य रागम् || 8 ||  भट्टॊत्पलः-अथ कालविशॆषॆण कुकृताल्पकृतयॊश्च पुनः करणॆ सतां प्रार्थनाय वसन्ततिलकॆनाह ग्रन्थस्यॆति | अस्य ग्रन्थस्य यत्प्रचरतॊ विचरमाणस्य यद्विनाशमॆति याति लॆख्याल्लॆखकदॊषात् तत् बहुश्रुतमुखाधिगमक्रमॆण बहुश्रुतानां पण्डितानां मुखादधिगम्य ज्ञात्वा क्रमॆण परिपाट्या विदुषा पण्डितॆन रागं मात्सर्यमपहृत्य विहाय कर्तव्यम् | तॆ च शास्त्रार्थापॆक्षया संस्कारॆण समर्थाः | यद्वा मया कुकृतं कुत्सित कृतं तथाऽल्पमपरिपूर्णं तद्विचार्यं विचारॆण कर्तव्यमित्यर्थः || 8 ||  524 आदित्यदासतनयस्तदवाप्तबॊधः कापित्थकॆ सवितृलब्धवरप्रसादः | आवन्तिकॊ मुनिमतान्यवलॊक्य सम्यगघॊरां वराहमिहिरॊ रुचिरां चकार | 9 ||  भट्टॊत्पलः-तत्रादित्यदासाख्यस्य कापित्थाख्यॆ ग्रामॆ वरदनामादित्यदासाच्च विज्ञानागमं स्वनिवासमुज्जयिनीं च नाम हॊराशास्त्रनाम च वसन्ततिलकॆनाह‌आदित्यदासॆति | आदित्यदासाख्यॊ ब्राह्मणः तस्य तनयः पुत्रः तस्मादॆव पितुरादित्यदासादवाप्तः बॊधः ज्ञानं यॆन | कापित्थाख्यॆ ग्रामॆ यॊऽसौ भगवान् सविता सूर्यस्तस्माल्लब्धः प्राप्तॊ वरप्रसादॊ यॆन | आवन्तिकः आवन्तिकॆ दॆशॆ उज्जयिन्यां वास्तव्यः | कॊऽसौ वराहमिहिरः ? अयं मुनिमतानि ऋषिप्रणीतानि शास्त्राण्यवलॊक्य विचार्य सम्यग्यथावस्तु कृत्वा हॊरा जातकशास्त्रं रुचिरां शॊभनां सुगमां चकार कृतवानिति | 9 ||  दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनॆदम् | शास्त्रमुपसङ्गृहीतं नमॊऽस्तु पूर्वप्रणॆतृभ्यः || 10 ||  इति श्री वराहमिहिराचार्यप्रणीतॆबृहज्जातकॆ उपसंहाराध्यायः सम्पूर्णः || 28 ||  भट्टॊत्पलः-अथ सतां प्रणामपूर्वकाणि शास्त्राणि प्रणामान्तानि कृत्वा ततः शास्त्रावसानॆ पूर्वप्रणॆतृणां नमस्कारमार्ययाह 525 दिनकरॆति | दिनकरॊऽर्कस्तदादिकाः सर्व ऎव ग्रहाः मुनयॊ वसिष्ठाद्याः गुरुरादित्यदासः तॆषां चरणप्रणिपातॆन पादनमस्कारकरणॆन कृतॊ यः प्रसादॊऽनुकम्पा तॆनानुनयॆन मतिर्बुद्धिर्यस्य तॆन दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिना मयॆदं शास्त्रमुपसङ्गृहीतं स्वीकृतमस्ति | तस्मात्पूर्वप्रणॆतृभ्यः पूर्वशास्त्रकारॆभ्यॊ नमॊऽस्तु नमस्करणॆन यः कृतप्रसादः नम इति भद्रम् || 10 || इति बृहज्जातकॆ भट्टॊत्पलटीकायां उपसंहाराध्यायः || 28 ||      



  आमुख मन्त्रेश्वर कृत फलदीपिका जातक ग्रन्थों की शृङ्खला की एक अनुपम कड़ी है। यह ग्रन्थ अपने मूल रूप में प्राचीन भारतीय लिपि ' ग्रन्थ ...