.श्रीगणॆशाय नमः.
.. सूर्यसिद्धान्तः ..
सूर्यसिद्धान्तः सौरदीपिका
माधव प्रसादकृतसौरदीपिकया भाष्यॆन च सहितः .
अथ निर्विघ्नॆन परिसमाप्तकामॊ निखिलजगदादिकारणभूतदॆव दॆवनमस्काररूपं शिष्टाचारप्राप्तकर्तव्यताकं मङ्गलमाचरति ग्रन्थकारः .
अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मनॆ .
समस्तजगदाधारमूर्तयॆ ब्रह्मणॆ नमः .. 1 ..
चिन्तितुं ध्यानं कर्तुं यॊग्यं नॆति . मनॊऽविषयमित्यर्थः . तथा व्यज्यत इति व्यक्तं न व्यक्तमव्यक्तं वाचाप्यप्रतिपाद्यमित्यर्थः .. * यतॆ वाचॊ निवर्तन्तॆऽप्राप्य मनसा सहॆति श्रुतॆः .. ऎवंभूतं रूपं यस्य तस्मै
सत्वरजस्तमॊगुणातीतायॆत्यर्थः .
गुणा आत्मा स्वरूपं यस्य तस्मै . प्रकृतिरूपायॆत्यर्थः . गुणानां साम्यावस्था प्रकृतिरित्युक्तॆः.
समस्तस्य स्थावरजङ्गमात्मकस्य जगत उत्पत्तिस्थितिविनाशवत आधारां आश्रयभूता ब्रह्मविष्णुशिवरूपा मूर्तॆयः स्वरूपाणि यस्य तस्मै . ब्रह्मविष्णुशिवात्मकायॆत्यर्थः .
बृहत्त्वादपरिच्छिन्नत्वाज्जगद्व्यापकायॆश्वराय ..
कायवाक् चॆष्टॊपलक्षितॆन मानसॆन्द्रियबुद्धिविशॆषॆण नमस्कारं करॊमीत्यर्थः .. 1 ..
सूर्य ऎतच्छास्त्रं सूर्यांशपुरुषद्वारा हॆति प्रतिपादनाय कथामवतारयति .
अल्पावशिष्टॆ तु कृतॆ मयनामा महासुरः .
रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम् .. 2
वॆदाङ्गमग्र्यमखिलं ज्यॊतिषां गतिकारणम् .
आराधयन् विवस्वन्तं तपस्तॆपॆ सुदुश्चरम् .. 3
सौरदीपिका.
सत्ययुगॆ
किंचिच्छिष्टॆ सति
मयाख्यः
महादैत्यः
ग्रहनक्षत्रादीनां
गतॆः संस्थानचलनमानादिज्ञानस्य कारण प्रतिपादकं
अत्यन्तं
गॊपनीयं
पुण्यजनकम्
श्रॆष्ठं
वॆदस्याङ्गं
उत्कृष्टम्
समग्रं
ज्ञायतॆऽनॆनॆति ज्ञानं शास्त्रं ज्यॊतिःशास्त्रमिति फलितार्थः
ज्ञातुमिच्छुः
सूर्यम्
सॆवयन्सन्
सुतरां दुःखैः क्लॆशैश्चरितुं कर्तुं शक्यमित्यर्थः .
तपश्चर्या
कृतवान् .
अत्र यत्तु अल्पावशिष्टॆ इत्यस्य व्याख्यायां सुधावर्षिण्यां कटपय क्रमॆण त्रिंशदधिकशतवर्षमिता संख्या निष्काशिता सा सम्भवन्त्यपि निर्मूला ज्ञॆया . सूर्यसिद्धान्तॆ तादृशपरिभाषयाङ्क ग्रहस्यादर्शनात् .. 2 .. 3 ..
ततस्तुष्टॊऽर्कॆ मयायॆदं दत्तवानित्याह—
तॊषितस्तपसा तॆन प्रीतस्तस्मै वरार्थिनॆ .
ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम् .. 4 ..
सौरदीपिका.
सुदुश्चरॆण
अराधनॆन
सन्तॊषं प्रापितः अतऎव
प्रसन्नः
साक्षात्
सूर्यः
वरं स्वाभिमतं ज्यॊतिःशास्त्रमर्थयतॆ तस्मै
पूर्वकथितासुराय
मयनाम्नॆ
खॆटानां
ज्ञानं
दत्तवान् ग्रहाणां चरितॆ ज्ञानवान् भवॆति वरमदादित्यर्थैः .. 4..
अथ वरदानप्रकरणमाह—
श्रीसूर्य उवाच
विदितस्तॆ मया भावस्तॊषितस्तपसा ह्यहम् .
दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् .. 5 ..
श्रीसूर्य उवाच-तॆजःसमूहै र्दॆदीप्यमानॊऽर्कॊ मयासुरं प्रत्यवददित्यर्थः .
सूर्यॆण
तव
अभिप्रायॊ ज्यॊतिःशास्त्रजिज्ञासारूपः
ज्ञातः .
सूर्यः
यतः
त्वत्कृताराधनॆन
सन्तॊषं प्रापितः अतः
शास्त्रम्
कालाधीनं
खॆटानां
अपरिमॆयं
माहात्म्यम्
दास्यामि . यत्त्वमिच्छसि तदॆवंभूतं ग्रहाणां चरितं दास्यामीत्यर्थः .. 5 ..
न मॆ तॆजः सहः कश्चिदाख्यातुं नास्ति मॆ क्षणः .
मदंशः पुरुषॊऽयं तॆ निःशॆषं कथयिष्यति .. 6 ..
मम सूर्यस्यॆत्यर्थः
तॆजॊधारकः
मत्सान्निध्यमुपाश्रितः कॊऽपि जीवः
न वर्ततॆ .
मम
वक्तुं
अवसरॊ
न वर्ततॆ . अनवरतभ्रमणादिति फलितम् .
अग्रस्थः
मम सूर्यस्यांशः, मदुत्पन्न इत्यर्थः
पुरुषव्यक्तिः
तुभ्यं
सम्पूर्णं ज्यॊतिःशास्त्रं
वदिष्यति .. 6 ..
अथ सूर्यवचनानुवादमुपसंहरन् सूर्यांशपुरुषमयासुरसंवादॊपक्रममाह—
इत्युक्त्वान्तर्दधॆ दॆवः समादिश्यांशमात्मनः ..
स पुमान् मयमाहॆदं प्रणतं प्राञ्जलिस्थितम् ..7..
सौरदीपिका.
सूर्य्यः
पूर्वॊक्तम्
कथयित्वा
स्वस्य
अंशपुरुषं
सम्यगाज्ञाप्य
अन्तर्हितवान् मयनॆत्रागॊचरतां जात इत्यर्थः .
सूर्याज्ञप्तः
पुरुषः
प्रकर्षॆण नतं नम्रं
प्रकृष्टॊ यः कराग्रयॊः सम्पुटीकरणरूपॊऽञ्जलिस्तत्र चित्तैकाग्र्यॆणावस्थितं
मयासुरं प्रति
वक्ष्यमाणम्
अवदीत् .. 7 ..
तदॆवाह— सूर्यशपुरुष उवाच .
शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम् .
युगॆ युगॆ महर्षीणां स्वयमॆव विवस्वता .. 8 ..
हॆ मयासुर !
ऎकस्मिन्नॆव मनॊ यस्यासौ सन्, ऎकाग्रचित्तॊ भूत्वॆत्यर्थः . त्वं
नॆत्ररूपं श्रॆष्ठमित्यर्थः
शास्त्रं
श्रॊत्रद्वारात्मनः संयॊगॆन प्रत्यक्षं कुरु, तत्-किं ज्ञानं
पुरा
सूर्यॆण
साक्षादॆव
प्रतिमहायुगं
महामुनीनां प्रति
कथितम् .. 8 ..
शास्त्रमाद्यं तदॆवॆदं यत्पूर्वं प्राह भास्करः .
युगानां परिवर्तॆन कालभॆदॊऽत्र कॆवलम् .. 6 ..
वक्ष्यमाणं
सूर्यॊक्तमॆव
प्रथमं
ज्यॊतिःशास्त्रं वर्ततॆ .
प्राक्कालॆ
सूर्यः महर्षीं प्रति
प्रकर्षॆणॊक्तवान् .
महायुगानां
पुनः पुनरावृत्त्या
शाखॆ
यातैष्यकालस्यैव भॆदः . तद्भगणादिनां भॆदॊ नॆत्यर्थः . सूर्य्यॊक्तमदुक्तयॊः कालमात्रस्यैव भिन्नत्वमिति कमलाकरादीनामाशयः . तथा कालभॆदॊऽर्थात्कालवशॆन ग्रहचारॆषु किञ्चिद्वैलक्षण्यं भवतीति युगान्तरॆ तदन्तरं प्रसाध्य ग्रहॆषु दॆयमिति प्राचीनाना माभिप्रायः . तदिदमन्तरं पूर्वग्रन्थॆ बीजमित्यामनन्तीत्यलं पल्लवितॆन . विस्तरस्तु श्रीमद्गुरुमहामहॊपाध्याय पं. दुर्गाप्रसादद्विवॆद रचिताया मधिमास परीक्षायां द्रष्टव्यम् .. 9 ..
अथ कालनिरूपरणमाह—
लॊकानामन्तकृत्कालः कालॊऽन्यः कलनात्मकः .
सद्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यतॆ ..10 ..
सौरदीपिका. कालॊ द्विधा .
जीवानामपलक्षणत्वादचॆतनानामपि
विनाशकः
अखण्डदण्डायमानयं राजानुयायी मृत्युरूप ऎकः .
द्वितीयः
गणनात्मकः
खण्डकालः .
द्वितीयखण्डकालः
महत्त्वाणुत्वभॆदात्
द्विविधः अस्ति .
इयत्तावच्छिन्नपरिमाणॊमूर्तः . अमूर्तस्तद्भिन्नः
कथ्यतॆ स्थूलः कालॊ मूर्तः, सूक्ष्मश्च अमूर्तॆ इति क्रमॆण कथ्यत इत्यर्थः .. 10 ..
मूर्तामूर्तकालावाह—
प्राणादिः कथितॊ मूर्तस्त्रुट्याद्यॊऽमूर्तसंज्ञकः ..
षड्भिः प्राणैर्विनाडी स्यात्तत्ष्ट्या नाडिका स्मृता .. 11 ..
दशगुर्वक्षराणामव्यवहितानामुच्चारणपरिमितिकालः प्राणः . गुर्वक्षरलक्षणं च—सानुस्वारं विसर्गान्तॊ दीर्घॊ युक्तपरश्च यः .
वर्णस्तं गुरुमित्याहुश्छन्दःशास्त्रविशारदाः . स च स्वस्थसुखासनस्य पुंसः ऎतादृशः प्राणः काल आदिर्यस्यैतादृशः कालः
मूर्तसंज्ञकः
उक्तः .
त्रुटिराद्या यस्यैतादृशः .
सूक्ष्मकालः कथितः . त्रुटिलक्षणं तु सिद्धान्ताशिरॊमणौ—यॊऽक्षणॊर्निमॆषस्य खरामभामः स तत्परस्तच्छतभाग उक्ता त्रुटिः .
षट्प्रमाणैः
असुभिः
पानीयपलं विघटिकॆत्यर्थः
भवॆत् .
पानीयपलानां षष्ट्या
घटिका
कथिता, गणकैरिति शॆषः .. 11 ..
1. सूच्या भिन्नॆ पद्मपत्रॆ त्रुटिरित्यभिधीयतॆ .
तत्षष्ट्या लॆखक प्रॊक्तं तत्षष्ट्या प्राण उच्यतॆ ..
10सूर्यसिद्धान्त सं .
[अं
अथ दिनमासावाह –
नाडीषष्ट्या तु नाक्षत्रमहॊरात्रं प्रकीर्तितम् .
तत्रिशताभवॆन्मासः सावनॊऽर्कॊदयैस्तथा ..12..
सौरददीपिका .
घटीनां षष्ट्या तु
नाक्षत्र संबन्धि
दिनरात्रिमाणम्
कथितम् . अश्विन्यादिनाक्षत्राणां कालॆनैकॊभ्रमॊ भवतीत्यर्थः.
नाक्षत्राहॊरात्रॆण त्रिंशत्संख्यया
नाक्षत्रमासः
स्यात् .
तॆनैव प्रकारॆण .
त्रिंशतार्कॊदयैः सूर्याहॊरात्रैः
सावनॊ मासः स्यात् .. 12 ..
अथ सौरचान्द्रमास निरूपण पूर्वकं वर्षं वदन् दिव्यं दिनमाह—
ऐन्दवस्तिथिभिस्तद्वत्संक्रान्त्या सौर उच्यतॆ .
मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यतॆ .. 13 ..
.
पूर्वॊक्तप्रकारॆण
त्रिंशता तिथिभिः
चान्द्रॊ मासः स्यात् . तच्च दर्शन्तावधिकः पूर्णिमान्तावधिकश्च शाखॆषु मुख्यतया प्रतिपादितः . अत्र शास्त्रॆ तु दर्शन्तावधिक ऎव मुख्यः .
संक्रान्त्यवधिकॆन कालॆन . पूर्वसंक्रान्तॆरपरसंक्रान्तिपर्यन्तमित्यर्थः .
सौरमासः
कथ्यतॆ .
द्वादशप्रमाणैः
सौरमासैः
सौरवर्षं भवति . वा यन्मानॆन मासास्तन्मानॆन वर्षं ज्ञॆयम् .
वर्षं सौरवर्षमित्यर्थः
दिवि भवं दिव्यं दॆवसम्बन्धीत्यर्थः . ध्रुवस्थाननिवासिनां दॆवानां सम्बन्धीत्यर्थः .
अहॊरात्रम्
कथ्यतॆ .. 13 ..
सूर्यसंबन्धी मासः तदुत्पन्नकालस्य मनुष्यमानॆन घटिकाल्पत्वातु दिव्यमानॆन तु प्राणादल्पत्वादमूर्तत्व जन्यसमत्वमिति उच्यतॆ . दिव्यं द्युरात्रं परिभाषितम् . यथा ध्रुवबिन्दुगतस्थैकस्यैव क्षितिज नाडीवृत्तं स्वल्पान्तरात् सर्वॆषां दैवानां क्षितिज स्वीकृत्य दिव्यदिनादिमान स्वीक्रियतॆ.
अथ दॆवासुरयॊर्वर्षमाह—
सुरासुराणामन्यॊऽन्यमहॊरात्रं विपर्ययात् .
तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमॆव च .. 14..
12 सूर्य सिद्धान्त सं .
[ अं
सौरदीपिका.
दॆवदैत्यानां सौम्य याम्य ध्रुवाधःस्थितानाम्
परस्परं
व्यत्यासात्
दिनरात्रि प्रमाणं भवति . यदा दॆवानां दिनं तदा दैत्यानां रात्रिः, यदा दॆवानां रात्रिः तदैवासुराणां दिनं भवतीत्यर्थः .
तॆषां दिव्याहॊरात्राणां षष्टिः
षड्भिर्गुणिता षष्ट्यधिक शतत्रयमित्यर्थः .
दॆवसम्बन्धि
असुरसम्बन्धि
वर्षप्रमाणं भवति . ऎवकाराद्दिनरात्र्यॊर्भॆदॆऽपि मानॆन तयॊर्वर्षभॆदॊ न स्यात् .. 14..
अथ चतुर्युगप्रमाणमाह—
तद्वादशसहस्राणि चतुर्युगमुदाहृतम् .
सूर्याब्दसंख्यया द्वित्रिसागरै रयुताहतैः .. 15 ..
सन्ध्यासन्ध्यांशसहितं विज्ञॆयं तच्चतुर्युगम् .
कृतादीनां व्यवस्थॆयं धर्मपादव्यवस्थया .. 16 ..
तॆषां दिव्याब्दानां द्वादशसहस्राणि
चतुर्णां युगानां कृतत्रॆताद्वापरकल्याख्यानां समाहारॊ यॊगस्तदात्मकमॆकं महायुगमित्यर्थः .
उक्तम् .
अयुतॆन गुणितैः
द्वात्रिंशदधिकैश्चतुःशतमितैः . विंशतिसहस्राधिक त्रिचत्वारिंशल्लक्षाणीत्यर्थः
ऎतन्मितैः
सौरवर्षप्रमाणॆन स्यात् .
तत्तॆन दॆवासुरमानॆनॊक्तं चतुर्युगं द्वादशसहस्रवर्षात्मकं महायुगं
युगस्याद्यन्तयॊः क्रमॆण प्रत्यॆकं सन्ध्यासन्ध्यांशाभ्यां युक्तं
ज्ञातव्यम् .
कृतत्रॆताद्वापरकलियुगानां
धर्मचरणानां स्थित्या
वक्ष्यमाणा
स्थितिर्ज्ञॆया . न तु समकालप्रमाणं स्थितिः . अयमर्थः . कृतयुगॆ चतुश्चरणॊ धर्मॆ इति तस्य मानमाधिकम् . त्रॆतायां त्रिचरणॊ धर्मस्तॆन तन्मानापॆक्षया त्रॆतामानं न्यूनम् . ऎवं द्वापरॆ द्विचरणॊ धर्मस्तॆन त्रॆतापॆक्षया तन्मानं न्यूनम् . द्वापरमानादपि कालमान न्यूनं तत्र धर्म्मस्यैकचरणत्वात् . ऎवं चतुर्युगॆ धर्मस्य दश चरणाः भवन्ति ततॊऽनुपातॆन दशभिश्चरणैश्चतुर्युगमानं तदा कृतत्रॆतादिपादैश्चतुस्त्रिद्वॆकसंख्यामितैः किमिति कृत त्रॆता द्वापर कलियुगानां मानं स्यादिति .. 15 . 16 ..
अथ कृतादियुगानां मानं सविशॆषमाह—
युगस्य दशमॊ भागश्चतुस्त्रिद्ध्यॆकसंगुणः .
क्रमात्कृतयुगादीनां षष्ठांशः सन्ध्ययॊः स्वकः..17..
.
चतुर्युगप्रमाणस्य
दशमांशः
चतुस्त्रिद्व्यॆकैः क्रमॆण गुणितः .
गुणक्रमात्
कृतत्रॆताद्वापरकलियुगानां मानं स्यात् .
आत्मीयः
षष्ठॊ विभागः सन्ध्ययॊः, आद्यन्तसन्ध्ययॊः मानं स्यात्. आद्यन्तसन्ध्ययॊरैक्यकालॊ भवतीत्यर्थः ..17
अथ कल्पमानार्थ मनुमानं तत्सन्धिमानं चाह—
युगानां सप्ततिः सैका मन्वन्तरमिहॊच्यतॆ .
कृताब्दसंख्या तस्यान्तॆ सन्धिः प्रॊकॊ जलप्लवः..18..
सौरदीपिका.
महायुगानां
ऎकॆन सहिता
सप्ततिसंख्या
मूर्तकालॆ
मन्वारम्भतत्समाप्तिकालयॊरन्तरकालमानमित्यर्थः.
कथ्यतॆ .
तस्य मनॊरन्तॆ
कृतयुगवर्षसंख्या
जलस्य प्लवः . जलपूर्णा सकला पृथ्वी भवतीत्यर्थः .
भूत भावि मन्वॊरन्तिमादिसन्धिरूपैक कालॆन समः
कथितः ..18..
अथ कल्पप्रमाणं सविशॆषमाह—
ससन्धयस्तॆ मनवः कल्पॆ ज्ञॆयाश्चतुर्दश ..
कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः ..19..
सौरदीपिका.
कल्पकालॆ
ऎकसप्ततिरूपाः
स्वा-
16 सूर्यसिद्धान्त सं .
[1
यम्भुवाद्याः
स्वस्वसन्धिसहिताः
चतुर्दशसंख्याकाः
ज्ञातव्याः . स्वसन्धियुक्तचतुर्दशमनुभिः कल्पः स्यादित्यर्थः .
कल्पस्यादौ
कृतयुगमितः
पञ्चदशकः
सन्धिकालः .
कथितः .. 19 ..
अथ ब्रह्मणॊ निदरात्र्यॊः प्रमाणमाह—
इत्थं युगसहस्रॆण भूतसंहारकारकः ..
कल्पॊ ब्राह्ममहः प्रॊक्तं शर्वरी तस्य तावती ..20..
.
पूर्वॊक्त गणनाप्रकारॆण
युगानां सहस्रसंख्यया
जीवानां संहारकर्ता. ब्राह्मलयात्मक इत्यर्थः .
कल्पकालः
ब्रह्मसम्बन्धि
दिनं
कथितम् .
ब्रह्मणः
तावत्प्रमाणा . युगसहस्रामितॆत्यर्थः .
रात्रिः स्यात् . कल्पद्वयॆन ब्रह्मणॊऽहॊरात्रं भवतीति फलितार्थः .. 20 ..
अथ ब्रह्मण आयुःप्रमाणं गतायुःप्रमाणं चाह—
परमायुः शतं तस्य तयाहॊरात्रसंख्यया ..
आयुषॊऽर्धमितं तस्य शॆषकल्पॊऽयमादिमः ..21..
सौरदीपिका.
ब्रह्मणः
पूर्वॊक्तया
अहॊरात्रमित्या . कल्पद्वयरूपयॆत्यर्थः .
शतवर्षमितं
पूर्णायुः जनीहीति शॆषः .
ब्रह्मणः
शतवर्षरूपस्य
पञ्चाशद्वर्षमितम्
गतम् .
वर्तमानः
आदिभूतः . प्रथम इत्यर्थः
शॆषायुर्दायस्य उत्तरार्धस्य प्रथमदिवसॊ वर्तमान इति फलितार्थः .. 21 ..
19 सूर्यसिद्धान्त सं .. [1
अथ वर्तमानॆऽस्मिन्दिवसॆऽप्यॆतद्भतमित्याह—
कल्पादस्माच्च मनवः षड् व्यतीताः ससन्धयः.
वैवस्वतस्य च मनॊर्युगानां त्रिघनॊ गतः .. 22 ..
सौरदीपिका.
वर्तमानत्
ब्रह्मदिनात्
षट्संख्याकाः
ऎकसप्ततियुगरूपाः
स्वसन्धिभिः सहिताः, सप्तसन्धिभिः साहितां इत्यर्थः
गताः .
वैवस्वताख्यस्य
वर्तमानमनॊरित्यर्थः
महायुगानां
त्रयाणं घनः सप्तविंशतिरित्यर्थः .
अतीतः
समुचयॆ .. 22 ..
अथ वर्तमानयुगस्यापि गतमॆतदिति वदन्नभिमतकालॆऽग्रतॊ वर्षगणः कार्य इत्याह—
अष्टाविंशाद्युगादस्माद्यातमॆतत्कृतं युगम् .
अतः कालंप्रसंख्याय संख्यामॆकत्रपिण्डयॆत् ..23..
सौरदीपिका.
वर्तमानात्
अष्टाविंशतितमात् .
महायुगादित्यर्थः
साम्प्रतं स्थितं
कृतयुगमित्यर्थः
गतम् .
कृतयुगान्तादनन्तरमभिमतकालॆ
वर्षात्मककालं
गणकॆन गणयित्वा
मन्वादीनां गतवर्षसंख्याम्
ऎकस्थानॆ
संकलनं कुर्यात् .. 23 ..
अथ कल्पादितॊ ग्रहादिभचक्रनिर्माणकाल ग्रहगतिप्रारम्भरूपमाह—
ग्रहर् क्षदॆवदॆत्यादि सृजतॊऽस्य चराचरम्
कृताद्रिवॆदा दिव्याब्दाः शतघ्ना वॆधसॊ गताः ..24.. 47400
.
खॆटनक्षत्रामरासुर मानव राक्षस पृथ्वी पर्वत वृक्षादिकं
स्थावरजङ्गमात्मकं जगत्
सृजतीति सृजन् तस्य .
जगन्निर्मातुः
ब्रह्मणः
शतसंख्यागुणिताः
चतुःसप्तत्यधिकचतुःशतानि 47400
दिव्यवर्षाणि
व्यतीताः .. 24..
अथ ग्रहपूर्वगत्युपपत्तौ कारणमाह—
पश्चाद्व्रजन्तॊऽतिजवान्नक्षत्रैः सततं ग्रहाः .
जीयमानास्तु लम्बन्तॆ तुल्यमॆव स्वमार्गगाः 25 ..
सौरदीपिका.
पश्चिम दिगभिमुखं
तारकादिभिः सह
प्रवहवायुजनितसत्वरगतिवशात्
निरन्तरं
गच्छन्तः
स्वस्वकक्षावृत्तस्थाः नक्षत्रैः
पराजिताः सन्तः
सूर्यादिखॆटाः
सममॆव
स्वस्थानात्पूर्वदिशि लम्बायमाना भवन्तीति . अयमर्थः .
यदॆतद्भचक्रं सखॆचरं भ्रमत् दृश्यतॆ तद्विश्वसृजादौ सृष्ट्वा रॆवतीतारायां गगनॆ निवॆशितम् . तत्र प्रवहॊ नाम वायुः . स च नित्यं प्रत्यग्गतिः . तॆन समाहतं भचक्रं सखॆचरं पश्चिमाभिमुखभ्रमणॆ प्रवृत्तम् . अतऎव ग्रहाणां प्रत्यग्गतिः . यत ऎकॆनाहा भमण्डलस्य परिवर्तः . ऎवं चातिशीघ्रं नक्षत्रैः सह पश्चिमादिशं यान्तॊ ग्रहाः नक्षत्रैरश्विन्यादिभिरॆव जीयमाना लम्बन्तॆ . पूर्वदिशं गच्छन्तीत्यर्थः . ऎतदुक्तं भवति . ऎकस्मिन् दिनॆ नक्षत्रॆण सहॊदितॊ ग्रहस्तॆन सह भ्रमण कृत्वा पुनर्द्वितीयदिनॆ तन्नक्षत्र विहाय लम्बतॆ . नक्षत्रॊदयानन्तरं तस्यॊदयॊ भवत्यंतॊ ग्रहस्य प्राग्गतिः . यदा कस्मिश्चिद्दिनॆ चन्द्रॊऽश्विनीनक्षत्रॆ दृष्टः स ऎवाग्रिमदिनॆ भरण्यां दृश्यतॆ . अश्विनीनक्षत्रं तूदपॆक्षया पश्चिमदिशं गतमतॊ ग्रहाणां प्राग्गतित्वं सिद्धम् .. 25 ..
अथात ऎव ग्रहाणां लॊकॆ प्राग्गतित्वं सिद्धमित्यत अह—
प्राग्गतित्वमतस्तॆषां भगणैः प्रत्यहं गतिः .
परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जतॆ .. 26 ..
.
अवलम्बनात्
ग्रहाणां
22 सूर्यसिद्धान्त सं .
[1
पूर्वदिशि गतिः गमनं यॆषां तॆ प्राग्गतयस्तद्भावः प्राग्गतित्वं सिद्धम् .
वक्ष्यमाणैः
प्रतिदिनं
प्राग्गमनरूपा ज्ञॆया .
परिणाहः कक्षापरिधिस्तद्वशात्तदनुरॊधात्
कलागतिरत्यल्पा न्यूनाधिका भवतीत्यर्थः
न्यूनाधिका या कलागतिस्तद्वशात्
राशीन्
भॊगं कुर्वतॆ . ग्रहा इति शॆषः . ग्रहाणां राश्यादिभॊगज्ञानार्थमियमॆव भिन्नागतिरुपयुक्ता नैकरूपॆति भावः .. 26 ..
अथ भभॊगॆ विशॆषं वदन् वक्ष्यमाणभगणस्वरूपमाह—ज़
शीघ्रगस्तान्यथाल्पॆन कालॆन महताल्पगः ..
तॆषां तु परिवर्तॆन पौष्णान्तॆ भगणः स्मृतः .. 27 ..
.
शब्दः पूर्वॊक्तॆर्विशॆषसूचकः .
शीघ्रगतिग्रहश्चन्द्रादिः
भानि नक्षत्राणिच
लघुना
समयॆन भुङ्क्त इति शॆषः .
मन्दगतिर्ग्रहः शनैश्चरादिः
बहुकालॆन भुनक्ति .
भानां
भ्रमणॆन . तुकाराद्ग्रहगतिभॊगजनितॆन
रॆवत्यन्तॆ . अश्विनीतॊ रॆवत्यन्त्यमित्यर्थः .
भचक्रभॊगाः
कथितः .
यद्यपि क्रान्तिवृत्तस्थद्वादशराशिषु यत् स्थानमारभ्य चलितॊ ग्रहः पुनस्तत्स्थानं यदा प्राप्नॊति स चक्रभॊगॊ भवति
तथापि ब्रह्मणा सृष्ट्यादौ क्रान्तिवृत्तॆ रॆवतीयॊगतारायां स्वस्वकक्षानुरॊधॆनॊर्ध्वाधः क्रमॆण ग्रहाणां निवॆशनं कृतमतस्तदवधितश्चक्रभॊगं कृतमिति भावः .. 27 ..
अथ विकलादिपरिभाषया भगणस्वरूपमाह—
विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यतॆ ..
तत्रिंशता भवॆद्राशिर्भगणॊ द्वादशैव तॆ .. 28..
.
विलिप्तानां
षष्टिसंख्यया
लिप्तैका भवति .
कलानां षष्ट्या
अंशः
कथ्यतॆ ..
भागानां त्रिंशत्संख्यया
भं
स्यात् .
राशयः
द्वादशसंख्यारूपैव
द्वादशराशिभॊगात्मकः परिवर्तः कथितः .. 28..
24सूर्यसिद्धान्त सं .
1
अथ भगणान्विवक्षुः प्रथमं सूर्यबुधशुक्राणां भौमगुरुशनिशीघ्रॊच्चानां च भगणानाह—
युगॆ सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः ..
कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम् 29 ..
सौरददीपिका .
ऎकस्मिन् महायुगॆ
सूर्यबुधभृगूणां
खाभ्रखांभ्रद्विरामवॆदप्रमिताः .
पूर्वगामिनाम्
भौमशनिबृहस्पतीनां यानि शीघ्रॊच्चानि तॆषामपि पूर्वॊक्तप्रमिता ऎव
द्वादशराशॊभॊगात्मकाः कथिताः .. 29 ..
अथ चंद्रभौमयॊर्भगणानाह—
इन्दॊ रसाग्नित्रित्रीषुसप्तभूधरमार्गणाः ..
दस्रत्र्यष्टरसाङ्काक्षिलॊचनानि कुजस्य तु.. 30 ..
सौरदीपिका.
चन्द्रस्य
षड्वह्नित्रिहुताशपञ्चभूधराद्रिपञ्चमिताः .
दन्ताष्टषडङ्काकृतिमिता भग
णः सन्ति .. 30 ..
अथ बुधशीघ्रॊच्चगुर्वॊर्भगणाह—
बुधशीघ्रस्य शून्यर्तुखाद्वित्र्यङ्कनगॆन्दवः ..
बृहस्पतॆः खदस्राक्षिवॆदषड् वह्नयस्तथा .. 31 ..
सौरदीपिका.
बुधशीघ्रॊच्चस्य
षष्टिसप्ततित्र्यङ्कात्यष्टिमिता भगणाः सन्ति .
बिम्बात्मकस्य
गुरॊः
नखद्विवॆदषड्रामप्रमिता भगणाः सन्ति .. 31 ..
अथ शुक्रशीघ्रॊच्चशन्यॊर्भगणानाह—
सितशीघ्रस्य षट् सप्तत्रियमाश्विखभूधराः .
शनॆर्भुजङ्गषट्पञ्चरसवॆदनिशाकराः .. 32 ..
.
शुक्रशीघ्रॊच्चस्य
षट्सप्तत्रिद्विद्विखसप्तमिताः
शनैश्चरस्य
26 सूर्यसिद्धान्त 1
अष्टषट्पञ्चरसॆन्द्रमिता भगणाः सन्ति .. 32 ..
अथ चन्द्रस्यॊच्चपातयॊर्भगणाना—
चन्दॊच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगॆ ..
वामं पातस्य वस्वग्नियमाश्विशिखि दस्रकाः..33..
.
चन्द्रमन्दॊचस्य
रामनखाष्टाष्टवॆदमिताः
महायुगॆ भगणाः सन्ति .
चन्द्रपातस्य
पश्चिमगत्या विलॊमाः
अष्टरामाकृतिरामद्विमिता भगणा महायुगॆ .. 33 ..
अथ युगॆ नाक्षत्रदिवस स्तत्स्वरूपावगमाय ग्रहसावनदिनस्वरूपं स्वसंख्याज्ञानहॆतुकं चाह—
भानामष्टाक्षिवस्वद्रि त्रिद्विद्व्यष्टशरॆन्दवः .
भॊदया भगणैः स्वैः स्वैरूनाः स्वस्वॊदया युगॆ ..34..
सौरदीपिका.
नक्षत्राणां भगणाः स्वतॊ गत्यभावात्प्रवह वायुना-
पश्चिमभ्रमणात्स्वादिनतुल्या भवन्ति .
अष्टद्वयष्टनगाग्निजातिगजदिनमिताः
नाक्षत्रादिवसा भवन्ति .
स्वकीयैः स्वकीयैः
पूर्वॊक्तैः
वर्जिताः सन्तः
महायुगॆ
निजनिजसावनदिवसा भवन्ति . ऎवमभीष्टकालॆऽपि ग्रहगत भगणादिनॊना ग्रहसावनदिवसा अभीष्टा भवन्ति .. 34..
अथ वक्ष्यमाणचान्द्रदिवसाधिमासयॊः संख्याज्ञानहॆतुकं स्वरूमाह—
भवन्ति शशिनॊ मासाः सूर्यॆन्दुभगणान्तरम् ..
राविमासॊनितास्तॆ तु शॆषाः स्युरधिमासकाः .. 35..
सौरदीपिका.
सूर्यचन्द्रभगणयॊरन्तरं
चन्द्रस्य
चान्द्रमासाः भवन्ति .
चान्द्र
28सूर्यसिद्धान्त सं .1
मासाः
रविमासैरूनिताः सन्तः
अवशिष्टाः
अधिमासा ऎव
भवन्ति .
तुकारादत्र द्वादशगुणितं रविभगणतुल्या वक्ष्यमाणा रविमासा ग्राह्यः .. 35 ..
अथ वक्ष्यमाणावमसूर्यसावनयॊः स्वरूपमाह—
सावनाहानि चान्द्रॆभ्यॊ द्युभ्यः प्रॊज्झ्य तिथिक्षयाः ..
उदयादुदयं भानॊर्भूमिसावनवासराः .. 36 ..
.
चन्द्रसम्बन्धिभ्यः
दिवसॆभ्यः
सावनदिनानि
त्यक्त्वा शॆषं
न्यूनाहानि भवन्तीति शॆषः. तिथिशब्दॆनात्र सावनदिवसॊ ज्ञॆयः . ननु भॊदया भगणैः इत्यादिना पूर्वं सर्वॆषां सावनदिवसा उक्त्वा इत्यत्र कस्य ग्राह्या इत्यतः सूर्यसावनस्वरूपकथनच्छलॆनॊत्तरमाह—
सूर्यस्य
उदयकालात्"
30 सूर्यसिद्धान्त सं .
1
अव्यवहितॊदयकालपर्यन्तमॆकॊ दिवसः . ऎतादृशाः
कुदिनानि भवन्ति .. 36 ..
अथ सावनदिनप्रमाणं चान्द्रदिनप्रमाणं चाह—
वसुद्व्यष्टाद्रिरूपांक सप्ताद्रितिथयॊ युगॆ .
चान्द्राः खाष्टखखव्यॊमखाग्निखर्तुनिशाकराः..37..
.
ऎकस्मिन्महायुगॆ
अष्टाश्विगजसप्तभूगॊनगसप्तपञ्चभूमिताः सावनादिवसाः सौरदिवसापरनामधॆयाः भवन्तीति, शॆषः .
शून्याष्टशून्यचतुष्कत्रिखषड्रूपमिताः
चन्द्रदिवसा भवन्ति .. 37 ..
अथाधिमासावमयॊः संख्यामाह—
षड्वह्नित्रिहुताशाङ्कतिथयश्चाधिमासकाः ..
तिथिक्षया यमार्थाश्विद्व्यष्टव्यॊमशराश्विनः ..38..
रसत्रित्रिगुणनवपञ्चभूमिताः
अधिमासा ऎवाधिमासका भवन्ति . चकाराद्युगसम्बन्धिनॊ ज्ञॆयः .
द्विपञ्चद्विद्व्यष्टखपञ्चद्विमिताः
दिनक्षयाः, अवमां नीत्यर्थः . भवन्ति .. 38..
रविमाससंख्या क्वहांश्चाह—
खचतुष्कसमुद्राष्टकुपञ्च रविमासकाः ..
भवन्ति भॊदया भानुभगणैरूनिताः क्वहाः ..39..
सौरदीपिका.
खाभ्रखाभ्रवॆदवसुरूपशरमिताः
सूर्यमासाः सन्ति .
पूर्वॊक्तैः सूर्यभगणैः
वर्जिताः
भवासराः
भूदिनानि
स्युः .. 39 ..
अथ कल्पॆ भगणादीनाह—
अधिमासॊनरात्र्युक्षचान्द्रसावनवासराः .
ऎतॆ सहस्रगुणिताः कल्पॆ स्युर्भगणादतः 40 ..
32 सूर्यसिद्धान्त सं .
.
प्रागुक्ताः .
भगणाः सूर्यादिभगणा आदिर्यॆषां तॆ भगणादयः
अधिमासाश्चॊनरात्रयश्चाधिमासॊनरात्रयः . ऋक्षं च
चान्द्रं च सावनं चर्क्ष चान्द्रसावनान्यॆतॆषां वासरा ऋक्षचान्द्रसावनवासराः . अधिमासॊनरात्र्यश्चर्क्षचान्द्रसावनवासराश्च .
सहस्रॆण ताडिताः सन्तः
ब्रह्मदिनॆ
भवॆयुः ..40..
अथ विचन्द्रसूर्यादिग्रहाणां मन्दॊच्चपातभगणानाह—
प्राग्गतॆः सूर्यमन्दस्य कल्पॆ सप्ताष्टवह्नयः ..
कौजस्य वॆदखयमा बौधस्याष्टर्तुवह्नयः .. 41 ..
खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणॆषवः ..
गॊऽग्नयः शनिमन्दस्य पातानामथ वामतः ..42..
मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ..
कृताद्रिचन्द्रा जैवस्य त्रिखाङ्कश्च भृगॊस्तथा ..43..
शनिपातस्य भगणाः कल्पॆ यमरसर्तवः ..
भगणाः पूर्वमॆवात्र प्रॊक्ताश्चन्द्रॊच्चपातयॊः .. 44..
सौरदीपिका.
पूर्वगतॆः
अर्कमन्दॊच्चस्य
ब्रह्मदिनॆ
सप्ताष्टराममिताः
द्वादशराशिभॊगात्मकाः प्रॊक्ताः . प्राग्गतॆः कल्पॆ भगणा इत्यॆषां प्रत्यॆकं सम्बन्धः .
भौमसम्बन्धिनः मन्दॊच्चस्य
चतुरधिकं शतद्वयम् .
बुधमन्दॊच्चस्य
अष्टषष्टयधिकशतत्रयम् .
गुरुमन्दॊच्चस्य
नवशतम् .
शुक्रमन्दॊचस्य
पञ्चत्रिंशदधिकपञ्चशतम् .
शनिमन्दॊच्चस्य
ऎकॊनचत्वारिंशत् प्रॊक्ताः .
अनन्तरं
भौमादिपातानां
पश्चिमगत्या
उच्यन्त इति शॆषः .
कुजसम्बन्धिनः . तुकारात्पातस्य भौमपातस्यॆत्यर्थः
चतुर्दशाधिकशतद्वयम् .
बुधपातस्य
अष्टाशीत्यधिकं चतुःशतम् .
गुरुपातस्य
चतुःसप्तत्यधिकशतम् .
शुक्रसम्बन्धिनश्चकारात् पातस्य शुक्रपातस्यॆत्यर्थः
त्र्युत्त्ररनवशतम् .
मन्दपातस्य
द्विषष्ट्यधिकं षट्शतं
ब्रह्मदिनॆ
भचक्राणि
चन्द्रस्य मन्दॊच्चपातयॊः
भचक्राणि
अस्मिन्नधिकारॆ
ग्रहयुगभगणकथनप्रसङ्गॆ
कथिताः .
ऎवकारॊ विस्मरणानिरासार्थकः.. 41 .. 42 ..
43 .
44..
अथ सृष्टिमारभ्य कृतयुगान्तं यावद्गताब्दज्ञानमाह—
षण्मनूनां तु सम्पिण्ड्यकालं तत्सन्धिभिः सह ..
कल्पादिसन्धिना सार्धं वैवस्वतमनॊस्तथा ..45..
युगानां त्रिघनं यातं तथा कृतयुगं त्विदम् .
प्रॊज्झ्यसृष्टॆस्ततः कालं पूर्वॊक्तं दिव्यसंख्यया..46..
सूर्याब्दसंख्यया ज्ञॆयाः कृतस्यान्तॆ गता अमी ..
खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः .. 47 ..
सौरदीपिका.
स्वायम्भुवादिगतानां षण्मनूनां
सौरवर्षात्मकं
तॆषां षण्मनूनां षट्सन्धिप्रमाणैः
सार्द्धं
कल्पारम्भीयसंधिना कृत
युगमितयॆत्यर्थः
सहितं
ऎकीकृत्य
तुकारादायुषॊऽर्धमितं तस्यॆत्यस्य निरासः .
वर्तमानसप्तमवैवस्वताख्यमनॊः
महायुगानां
त्रयाणां घनं सप्तविंशतिमित्यर्थः
गतम् .
ऎकीकृत्य,
वर्तमानाष्टाविंशतियुगान्तर्गतं
सत्ययुगं
गतत्वॆनैकीकृत्य
सिद्धाङ्कात्
सृष्टिनिर्माणकालं
दिव्यमानॆन
प्राकथित कालं
सौरवर्षमानॆन षट्यधिकशतत्रयगुणितॆन दिव्यमानॆनॆत्यर्थः
त्यक्त्वा चः समुच्चयार्थॊऽनुसन्धॆयः
अवशिष्टाः
खाभ्रखाभ्रद्विसप्तत्रिपञ्चनवैकमिताः
कृतयुगस्यावसानॆ
अतीताः
बॊध्याः .. 45 .. 46 .. 47 ..
भाअषाभाष्य. अपनी सन्धियॊं कॆ सहित छः मनुऒं का समय
और कल्प कॆ आरम्भसन्धि का काल और वर्तमान सातवॆं वैवस्वत मनु कॆ सत्ताईस 27 महायुगॊं का प्रमाण और यह वर्तमान कृतयुण प्रमाण इन सबॊं कॆ यॊग मॆ पहलॆ कहा हुआ सृष्टिका निर्माण काल घटा दॆनॆ सॆ स्टष्टि कॆ ऒरम्भ सॆ लॆकर् कृतयुग कॆ अन्त तक 1953720000 गत सौरवर्ष हॊतॆ है 45 .. 46 .. 47 .. अपनी 2 सन्धियॊं कॆ सहित युगॊं का मान और है सृष्टि कॆ आरम्भ सॆ कृतयुग कॆ अन्त तक कॆ वर्षॊं का प्रमाण नीचॆ लिखॆ चक्र सॆ स्पष्ट मालूम हॊता है.
युगनाम
त्रॆतायुग .
द्वापरयुगा. कलियुग .
महायुग
.
युगप्रमाण
3000 .
2000 .
1000 .
आद्यन्तसन्धिप्रमाण .
800 .
600 .
400 .
200 .
2000
ससन्धियुगप्रमाण .
4800 .1200 .
2400 .
1200 .
12000
सौरवर्षप्रमाण सॆ
युगप्रमाण
1440000. 1080000. 720000 .
360000 .
3600000 .
आद्यन्तसन्धिप्रमाण .288000 .
216000 .
144000 .
72000 .
720000 .
ससन्धियुगप्रमाण.1728000 .
1296000. 864000 .
432000 .4320000 .
सृष्टि कॆ आरम्भ सॆ कृतयुग कॆ अन्तपर्यन्त सौरवर्षप्रमाणबॊधक चक्र
.
0.184
.
.
12096000 .
.
. 116640000.
कृतयुगप्रमाण .
सृष्टिनिर्माणकाल .
. 1706400
शॆष सिद्धान्तॊक्त स्वचतुष्क इत्यादि
.
###
###
###
अथाभीष्टकालॆऽहर्गणसाधनं ततॊ दिनमासाब्दप प्रतिज्ञां—
अत ऊध्वममी युक्ता गतकालाब्दसंख्यया ..
मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः .. 48..
पृथक्स्थास्तॆऽधिमासघ्नाः सूर्यॆमासविभाजिताः ..
लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः .. 49 ..
द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः ..
लब्धॊनरात्रिरहिता लङ्कायामार्थरात्रिकः .. 50 ..
सावनॊ द्युगणः सूर्यद्दिनमासाब्दपास्ततः ..
सप्तभिः क्षयितः शॆषः सूर्याद्यॊ वासरॆश्वरः .. 51
.
कृतयुगान्तात्
उपर्यनन्तरामित्यर्थः
इष्टकालॆ गतसौराब्दसंख्यया
खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकरमिताः
सहिताः सन्तॊऽ भीष्टकालॆ गतसौराब्दा भवन्ति . ऎतॆ
द्वादशगुणिता इत्यर्थः . द्वादशमासात्मकत्वादब्दस्य ..
मधुशुक्ल श्चैत्रशुक्लपक्ष आदिर्यॆषान्तॆ मधुशुक्लादयस्तैः
यातैः
माससंख्याभिः
यॊजिताः . अर्थाचैत्रशुक्तप्रतिपद मारभ्य यॆ गतमासास्तैर्युक्ताः कार्याः .
सिद्धाः सौरमासाः
स्थानद्वयॆ स्थाप्याः . तत ऎकत्र
युगाधिमासैर्गुण्याः
युगसूर्यमासैर्भक्ताः लब्धाधिमासकैः, प्राप्ताधिमासकैर्निरग्रैः
द्वितीयस्थानॆ यॊज्या इत्यर्थः . ऎवं तॆ चान्द्रमासाः भवन्ति . ततस्तॆ
त्रिंशता संगुण्यॆत्यर्थः .
वर्तमानमासस्य
1 सूर्यसिद्धान्त सं .
[38
शुक्लप्रतिपदमारभ्य गततिथिभिर्यॊज्याः . स चान्द्रॊऽहर्गणः स्यात् . ऎतॆ
स्थानद्वय स्थाप्याः . ऎकत्र
युगावमैर्गुणिताः
युगचान्द्राहैर्भाज्याः
प्राप्तैर्गतावमैरन्यत्ररहिताः सन्तः
लङ्कादॆशॆ
अर्धरात्रकालिकः
सावनमानात्मकः
अहर्गणः स्यादिति शॆषः .
साधिताहर्गणात्
सूर्यॆमारभ्य
वारपति,मासपति,वर्षपतयॊ भवन्ति . तत्रायमहर्गणः
सप्तसंख्याभिः
शॆषितः कार्यः सप्तभिर्विभाज्य शॆषितः कार्य इत्यर्थः
अवशिष्टः
अर्कवारादिफः
वारस्वामी गतॊ भवति . तदग्रिमॊ वर्तमानवारॆश्वर इत्यर्थतः सिद्धम् .. 48.. 49 .. 50 .. 51 ..
अथ मासवर्षपयॊरानयनमाह—
मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम् ..
सप्तॊद्धृतावशॆषौ तु विज्ञॆयौ मासर्वैर्षपौ .. 52 ..
. अहर्गणात्
मासदिनैरब्ददिनैश्च भागॆन लब्ध फलं
द्वाभ्यां त्रिभिश्च गुणितं कार्यं
रूपॆणैकसंख्यया युतं
सप्तॊद्धृतॆन फलत्यागॆनावशिष्टौ
मासवर्षस्वामिनौ
ज्ञातव्यौ.
तुकाराद्यक्रमॆण वारॆश्वरगणना तत्क्रमॆणानयॊर्गणना कार्या . परमत्र वर्तमानमासवर्षपौ ज्ञॆयौ .. 5.2 ..
अथ ग्रहानयनमाह—
यथास्वभगणाभ्यस्तॊ दिनराशिः कुवासॆरैः ..
विभाजितॊ मध्यगत्यां भगणादिर्ग्रहॊ भवॆत् .. 53 ..
.
अहर्गणः
यत्कालिकैः. स्वस्वभगणैर्गुणितः
तात्कालिकसावनदिनैः,
42 सूर्यसिद्धान्त सं ..
भक्तः फलं
मध्यमगतिमानॆन...!
भगणं द्वादशराश्यात्मकमादियैस्य स ऎतादृशः
मध्यमॊ ग्रहः स्यादित्यर्थः .. 53 ..
अथामुं प्रकारमुच्चपातयॊरानयनायातिदिशति—
ऎवं स्वशीघ्रमन्दॊच्चा यॆ प्रॊक्ताः पूर्वयायिनः ..
विलॊमगतयः पातास्तद्धचक्राद्विशॊधिताः ..54..
सौरदीपिका.
यॆ पूर्वदिग्गतयः
स्वॆषां ग्रहाणां शीघ्रॊश्चमन्दॊच्चाः
पूर्वं कथितास्तॆऽपि
ग्रहानयनरीत्या साध्याः .
पश्चिमगतयः
ग्रहाणां पाताः
ग्रहानयनरीत्या साध्याः . परं तॆ
द्वादशराश्यात्मकात् .
वर्जिताः सन्तः पाता भवंन्तीत्यर्थः .. 54..
अथ संवत्सरानयनमाह—
द्वादशाघ्ना गुरॊर्याता भगणा वर्तमानकैः .
राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विजयादयः..55..
सौरदीपिका.
अहर्गणानीतगुरॊः
गताः
सर्वॊपरिस्थाः भचक्रभॊगाः
" द्वादशभिर्गुणिताः
यस्मिन्राशौ गुरुः स्थितस्तत्सहितैः
गणितागतमॆषादिराशिभिः
युक्ताः
षष्टिसंख्यया
भागावशॆषिताः सन्तः
विजयादिसंवत्सराः भवॆयुः .. 55 ..
प्रभव आदि 60 संवत्सरॊंका नामबॊधक चक्रं
1 प्रभवः
2विभव
3 शुक्लः
4 प्रमॊदः
5 प्रजापतिः
6 आंगिरा
7 श्रीमुखः
8 भावः
9 युवा
10 धाता
11ईश्वरः
12 बहुधान्यः
13 प्रमाथी
14 विक्रःमः
15 वृषः
16 चित्रभानुः
67 सुभानुः:
68 तारण
19 पार्थिवः
20 व्ययः
अथ लाघवॆन ग्रहानायनमाह—
विस्तरॆणैतदुदितं संक्षॆपाद्व्यावहारिकम् ..
मध्यमानयनं कार्यं ग्रहाणामिष्टतॊ युगात् .. 56 ..
अस्मिन्कृतयुगस्यान्तॆ सर्वॆ मध्यगता ग्रहाः ..
विना तु पातमन्दॊचा न्मॆषादौ तुल्यतामिताः ..57
.
ग्रहानायनं
गणितक्रियाबाहुल्यॆन
उक्तम्
लॊकव्यवहारॊपयुक्तं
अल्पगणितप्रयासात्
खॆटानां
मध्यममानॆन गणितम् .
किंचिद्युगं स्वस्वबुध्यापरिकल्प्य ततः
पूर्वॊक्तप्रकारॆणैव कार्यमित्यर्थः .
इदानीन्तनॆ
कृतयुगस्य
46 सूर्यसिद्धान्त सं .
सत्ययुगस्य
अवसानॆ
मध्यमः
सप्तग्रहाः सूर्यादयः
पातमन्दॊच्चान् विहायार्थात्पातमन्दॊञ्चास्तुल्यतां न प्राप्ताः
मॆषराशिप्रारम्भॆ
समानताम्
प्राप्ताः
तुकारादन्यस्थानॆऽपि तुल्यतां न प्राप्ता इत्यर्थः .. 56 .
.. 5.7 ..
अथॊच्चपातयॊर्विशॆषमाह—
मकरादौ शशाङ्कॊच्चं तत्पातस्तु तुलादिगः ..
निरंशत्वं गताश्चान्यॆ नॊक्तास्तॆ मन्दचारिणः..58..
.
मकरादिप्रदॆश
चन्द्रस्य मन्दॊच्चं कृतयुगान्तॆ वर्ततॆ .
चन्द्रपातस्तु
तुलादौ वर्ततॆ ..
अवशिष्टा यॆ मन्दॊच्चपाताः
अल्पगतयः
कथिताः
मन्दॊच्चादयः
अंशाभावतां
न प्राप्ताः . चकारात्कृतयुगान्तं बॊध्यम्. अत्र यत्तु सूर्यसिद्धान्तस्य सुधावर्षिण्यां, अस्मादग्रॆकल्पस्यात्र सहस्रांशॊयुगम् इत्यादयॊ दशश्लॊकाः कॆनचित्सूर्यमतानभिज्ञॆन प्रक्षिप्तास्तॆ च सूर्यमतविद्भिर्हॆयाः-इति. इति लिखितं तदत्यन्तमाश्चर्यजनकम् . यत इमॆ दश
मध्यमधिकं .
47
श्लॊकाः भूधरकृतायां सॊपपत्तिकॊदाहरणटीकायां दृश्यन्तॆ . भूधरस्तु
नृसिंहरङ्गनाथाभ्यां प्राचीनः ऎवं लॆखनशैली तुवर्षायुतॆ धृतिघ्नॆ
नववसुगुणरसरसाः स्युराधिमासाः " इति पञ्चसिद्धान्तिका लॆखतॊऽपिस्पष्टाः . ऎतत्सूर्यसिद्धान्तानुपलब्धाः कतिपयश्लॊकाः बृहत्संहितायाः भट्टॊत्पलविवृतावपि दृश्यन्त इति गणकैर्मध्यस्थबुद्ध्याविचारणीयम् ..58..
पूर्वमिष्टयुगाद्ग्रहानयनं यदुक्तकं तत्रैकप्रकारं स्वयमॆवाह—
कल्पस्यात्र सहस्रांशॊ युगं तावत्प्र कीर्त्यतॆ.
चतुर्विंशॊ युगस्यांशः सूर्याचन्द्रमसॊर्युगम् ..59..
ऎकैकमष्टादशभिः सूर्याब्दैरयुताहतैः .
तत्रार्कॆन्द्वधिमासार्किशुक्रॆन्द्वह्नां निरंशता .. 60 ..
सौरदीपिका.
सौरतन्त्रॆ
ब्रह्मदिनस्य
सहस्रभागॆ यावत्
तावत्कालपर्यन्तं
चतुर्युगप्रमाणं
प्रॊच्यतॆ .
कल्पसहस्रांशस्य
चतुर्विशत्यंशः
अर्कॆन्द्वॊः
युगमानं कथितमिति शॆषः
प्रतियुगमानम्
अयुतगुणितैः
वसुचन्द्रमितसंख्याभिः
अर्कवर्षैर्भवति .
सूर्याचन्द्रमसॊर्युगॆ
सूर्यचन्द्राधिमासशनिशुक्रॊ
४८ सूर्यसिद्धान्त सं .
च्चचन्द्रदिनानां
निःशॆषता भवति . अन्यॆषां तु सशॆषतॆत्यर्थः .. 59 . 60 ..
तत्र युगॆ भगणानाह—
चन्द्रस्याङ्गाष्ट वह्न्यङ्गाखजिना भगणाः स्मृताः .. सौरमासास्तर्कभूमियमाश्चैवायुताहताः .. 61. ..
अधिमासाः नवाष्टाग्निरसषट्कास्तिथिक्षयाः ..
षडंशॊनाः समुद्राङ्कशून्यार्थकृतखॆन्दवः .. 62 ..
रसाद्रिशरतर्काब्धिनगपञ्चरसास्त्विह..
सषडंशाः कुदिवसा नलिनीरिपुवासराः .. 63 ..
खादितर्कॆन्दुनन्दाद्रिरसतर्काःस्मृतास्तथा ..
कुजस्य भगणा राशिचतुष्कसहिता अमी .. 64 ..
चन्द्रखाद्रीषुनन्दाः स्युरद्रिखॆन्दुरसाः शनॆः ..
ज्ञशीघ्रस्य नगाद्र्यग्निसप्तवॆदनगास्तथा .. 6 ..
भगणास्तॆ सषड्भाः स्युर्भगणाः स्युरमीगुरॊः ..
साशाभानि शराद्रीन्दुतिथयॊ भगणा अमी ..66 ..
नवगॊतत्त्वरन्ध्राक्षिरूह्या दैत्यगुरॊस्तथा ..
शीघ्रॊच्चभगणा ज्ञॆयास्तदा मन्दॊच्चकॆ विधॊः ..67 ..
सार्द्रराशिर्यमाब्ध्याग्निनखाः पातस्य साश्वकाः ..
रसाद्रिरसनन्दाः स्युः सूर्याचन्द्रमसॊर्युगॆ .. 68 ..
.
अर्कॆन्द्वॊः
ऎकस्मिन्युगॆ
इन्दॊः
नवाष्टाग्निरसशून्यवॆद्यमाः
पर्ययाः
कथिताः . स्मृता इति प्रत्यॆयतं सम्बध्यतॆ .
अयुतगुणिताः
रसचन्द्राश्विमिताः
अर्कमासाश्च . ऎवकारण भगणव्यवच्छॆदः .
अङ्कवसुत्रिषडर्तुमिताः
सुप्रसिद्धाः .
षष्ठांशॆन रहिताः
वॆदनवखपञ्चसमुद्रशून्यॆन्दवः
अवमानि .
अस्मिन्युगॆ
षष्ठांशसहिताः
ऋतुसप्तपञ्चषड्वॆदसप्तशररसाः
भूदिनानि .
तस्मिनॆव सूर्याचन्द्रमसॊर्युगॆ
शून्यसप्तषड्रूपनवसप्तरसरसाः
नलिन्या रिपुश्चन्द्रस्तस्यै वासराश्चान्द्रदिनानीत्यर्थः स्मृताः कथिताः .
राशीनां चतुष्कं राशिचतुष्कं
50 सूर्यसिद्धान्त सं .
तॆन सहिताः युक्ता राशिचतुष्टययुक्ता इत्यर्थः,
अग्रिमश्लॊकॊक्ताः
रूपशून्यसप्तपञ्चगावः
भौमस्य
पर्ययाः
.
सप्तशून्यरूपाङ्गाः
मन्दस्य .
बुधशीघ्रॊच्चस्य
सूर्याचन्द्रमसॊर्युगॆ
सप्तसप्तत्रिसप्तसमुद्राद्रयः
पर्ययाः
परन्तु
भगणाः
षड्राशियुक्ताः सन्ति .
बृहस्पतॆः
दशराशिसहिताः
अग्रॊक्ताः
पञ्चसप्तरूपपञ्चॆन्दवः
पर्ययाः स्युः .
सूर्याचन्द्रमसॊर्युगॆ
शुक्रस्य
समीपस्थाः
नवनवपञ्चद्विनवलॊचनानि
शीघ्रॊच्चस्य भगणाः
ज्ञॆयाः .
सूर्याचन्द्रमसॊर्युगॆ
चन्द्रस्य
मन्दॊच्चमॆव मन्दॊच्चकं तस्मिन्
अर्द्धॆन सहितॊ राशिः पञ्चदशभागसहितॊ राशिरिति तात्पर्यार्थः
द्विवॆदत्रिशून्यलॊचनानि
बॊध्याः .
चन्द्रपातस्य
सप्तराशिसहिताः
ऋतुसप्ताङ्गनवताः भगणाः
भवॆयुः .. 61 .. 62 .. 63 .. 64 .. 65.. .. 66 .. 67 .. 68 ..
अथ भूव्यासं भूपरिधिं चाह—
यॊजनानि शतान्यष्टौ भूकर्णॊ द्विगुणानि तु .
तद्वर्गतॊ दशगुणात्पदं भूपरिधिर्भवॆत् .. 69 ..
52 सूर्यॆस्सिद्धान्त स .. [ अं .
.
द्विहतानि
अष्टशतमितयॊजनानि
भुवः भूमिगॊलस्य कर्णः भूव्यास इत्यर्थः . कथित इति शॆषः .
दशघ्नात्
तस्य भूकर्णस्य वर्गात्
मूलं
भुवः पृथिव्याः परिधिः स्यात् .. 69 ..
अथ स्फुटपरिध्यानयन दॆशान्तर फलानयन तत्संस्कारं चाह—
लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटॊ भूपरिधिः स्वकः ..
तॆन दॆशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता ..70 ..
कलादि तत्फलं प्राच्यां ग्रहॆभ्यः परिशॊधयॆत् ..
रॆखाप्रतीचीसंस्थानॆ प्रक्षिपॆत् स्युः स्वदॆशजाः ..71 ..
.
पूर्वॊक्तप्रकारॆणानीतः कुपरिधिः
स्वदॆशीयलम्बज्यया" गुण्यः
त्रिज्यया भक्तफलं
स्वदॆशीयः
स्पष्टः भुवः परिधिः स्यात् .
ग्रहस्यः भुक्तिर्दिनगतिः
स्वरॆखास्वदॆशयॊरन्तरगतैर्दॆशान्तरयॊजनैर्गुणनीया
स्वदॆशपरिधिना
भाज्या
कलादिक
दॆशान्तरफलमित्यर्थः .
मध्यरॆखातः पूर्वदिशि
सूर्यादिखॆटॆभ्यः
वर्जयॆदृणं कुर्यादित्यर्थः .
रॆखातः पश्चिमदिशि स्वदॆशॆ सति
यॊजयॆद्धनं कुर्यादित्यर्थः . ततस्तॆ ग्रहाः
स्वदॆशीयाः
भवॆयुः .. 70 .. 71 ..
अथ मध्यरॆखास्वरूपं तद्दॆशांश्च कांश्चिदाह—
राक्षसालयदॆवौकःशैलयॊर्मध्यसूत्रगाः ..
रॊहीतकमवन्ती च यथा सन्निहितंसरः .. 72 ..
राक्षसानामालयः स्थानं लङ्कॆत्यर्थः दॆवानाममराणामॊकः शैलं मॆरुरनयॊर्मध्यॆ यदृजु सूत्रं तत्र स्थिता दॆशा रॆखाख्याः सन्ति .
रॊहीतकनामाख्यं नगरम्
उज्जयिनी
कुरुक्षॆत्रं
स्थितमस्ति
चकारात्तथैवान्यानॆ पुराणि सन्निहित तया ज्ञॆयानि .. 72 ..
यत्र रॆखातः स्वपुरस्य पूर्वापरज्ञानं नास्ति तत्र दॆशान्तरज्ञानमाहा—
अतीत्यॊन्मीलनादिन्दॊः पश्चात्तद्गणितागतात् ..
यदा भवॆत्तदा प्राच्यां स्वस्थानं मध्यतॊ भवॆत् ..73 ..
अप्राप्य च भवॆत्पश्चादॆवं वापि निमीलनात् ..
तयॊरन्तरनाडीभिर्हन्याद्भूपरिधिं स्फुटम् .. 74 ..
षष्ठ्या विभज्य लब्धॆस्तु यॊजनैः प्रागथापरैः ..
स्वदॆशपरिधिर्ज्ञॆयः कुर्याद्दॆशान्तरं हितैः .. 75 ..
1 श्रीभास्कराचार्यकृतीकर्णकुतूहलॆ अन्यानि नगराणि पठितानि-पुरी
. राक्षसी दॆवकन्याऽथ कांची, सितः पर्वतः पर्यलीवत्सगुल्मौ .
पुरी चॊज्जयिन्याद्गया गर्गराटं, कुरुक्षॆत्रमॆरू भुवॊ मध्यरॆखा .. इति .. 2स्वदॆशः परिधौ इति सुधाकरद्विवॆदिकृतपाठान्तरं समीचीनम् .
56 सूर्यसिद्धान्त सं .
[ श्र0
.
चन्द्रस्य
गणितॆन चन्द्रग्रहणॊक्तगणितॆनागतात्
सर्वग्रहणान्तर्गतॊन्मीलनकालात्
उल्लङ्घयित्वा
अनन्तरकालॆ
उन्मीलनं
यदि
स्यात्
तर्हि
स्वदॆशं
मध्यरॆखादॆशात्
पूर्वदिशि
स्यात्तिष्ठतीत्यर्थः .
गणितागतकालातिक्रमणमकृत्वा
चकाराचन्द्रॊन्मीलनं यदि पूर्वमॆव स्यात् तर्हि मध्यरॆखातः स्वस्थानमित्यर्थः
पश्चिमदिशि
तिष्ठतीत्यर्थः .
प्रकारान्तरॆण
गणितागताद् दृक्संसिद्धात्
निमीलनकालात्
निश्चयॆन रॆखापुरात्स्वपुरस्य पूर्वापर ज्ञानं भवतीति तात्पर्यार्थॆः
दृक्सद्धकाल-गणितागतकालयॊः
अन्तरघटिकाभिः
स्पष्टं
कुपरिधिं
गुणयॆत् तादृशं गुणितस्पष्टपरिधिं
खरसमितसंख्यया
भक्त्वा
प्राप्तैः
पूर्वभागयॊजनैः
अथवा पश्चिमभागस्थयॊजनैः
स्वदॆशस्य परिधिः स्वदॆशस्थानमण्डलरूपः
बॊध्यः .
अन्तरयॊजनैः
दॆशान्तरफलं कलात्मक
पूर्वॊक्तप्रकारॆण कुर्यीद्गणक इति शॆषः .
हिकारात्तत्संस्कारॊऽपि पूर्वॊक्तप्रकारॆणभिन्न इत्यर्थः .. 73 .. 74 .. 75 ..
अथ वारप्रवृत्तिकालज्ञानमाह—
वारप्रवृत्तिः प्राग्दॆशॆ क्षपार्धॆऽभ्यधिकॆ भवॆत् ..
तद्दॆशान्तरनाडीभिः पश्चादूनॆ विनिर्दिशॆत् ..76 ..
.
रॆखातः पूर्वस्यां दिशि स्वदॆशॆ स्थितॆ सति
पूर्वकथितदॆशान्तरघटिकाभिः
युक्तॆ
अर्थरात्रॆ
वारस्य सूर्यादिवारस्य प्रवृत्तिः प्रारम्भः
स्यादित्यर्थः .
पश्चिम भागस्थॆ दॆशॆ .
तद्दॆशान्तरनाडीभिः .
हीनॆऽर्द्धरात्रॆ वारप्रवृत्तिः
कथयॆत् अत्र वारप्रवृत्तिविषयॆ सिद्धान्तशिरॊमणौ मध्यमाधिकारॆ टिप्पण्यामिदं पद्य लिखितम्-कॆचिद्वार सवितुरुदयात्प्राहुरन्यॆ दिनार्धाद्भानॊरर्धास्तमयसमयादूचिरॆ कॆचिदॆवम् . वारस्यादि यवन नृपतिर्दिङ्मुहूर्तॆ निशायां लाटाचार्यः कथयति पुनश्चार्द्धरात्रॆ स्वतन्त्रॆ .. इति अन्यदपि-सूर्यॊदयाद्रावण राजधान्यां वारप्रवृति मुनयॊ वदन्ति .. 76 ..
अथ ग्रहस्य तात्कालिक कर्णमाह—
इष्टनाडीगुणाभुक्तिः षष्ट्या भक्ता कलादिकम् ..
६० सूर्यसिद्धान्त .
[
गतॆ शॊध्यं युतं गम्यॆ कृत्वा तात्कालिकॊ भवॆत् ..77 ..
.
लङ्गार्धरात्रितः गतगम्यॆष्टघटीभिर्गुण्या
ग्रहस्य मध्यगतिः
षष्टिसंख्यया
भाज्या
लिप्तादिकं फलं
गतॆष्टकालॆ
ग्रहॆ हीनं
अग्रिमॆष्टकालॆ
ग्रहॆ धनं
विधाय
स्वाभीष्टकालिकः
गणकॆन ज्ञातः स्यादित्यर्थः .. 77 ..
अथ चन्द्रस्य परमविक्षॆपमानमाह—
भचक्रलिप्ताशीत्यंशः परमं दक्षिणॊत्तरम् ..
विक्षिप्यतॆ स्वपातॆन स्वक्रान्त्यन्तादनुष्णगुः ..78 .. [
1 यह—श्री पहलॆ अह—साधन कियॆ है वॆ अर्धरात्र कॆ हुयॆ है . इस का;हब्
. गत वा गम्य इष्ट घटिकायॆं अर्धरात्र सॆ लॆनी चाहिऎँ .
चन्द्रः
स्वासन्नक्रान्तिवृत्तप्रदॆशादर्थात्क्रान्तिवृत्तस्थस्वभॊगप्रदॆशात्
- चन्द्रपातॆन पाता कर्षणॆनॆत्यर्थः
भचक्रलिप्तानां द्वादशराशिलिप्तानामशीत्यंशॊऽशीतिभागः
क्रांतिवृत्तविमण्डलयॊः संपातस्थानाद्राशित्रयान्तं
दक्षिणस्यामुत्तरस्यां वा
त्यज्यतॆ .. 78 ..
अथ भौमादीनां परमविक्षॆपानाह—
तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः ..
बुधशुक्रार्कजाः पातैर्विक्षिप्यन्तॆ चतुर्गुणम् ..79]
.
गुरुः
चन्द्रपरमविक्षॆपस्य नवभागं
द्विहतं षष्टिकलामितमित्यर्थः .
स्वपातॆन परमं दक्षिणॊत्तरं विक्षिपति .
भौमः
ज्ञभृगुशनय:
विंशत्यधिकशतकलामितं
स्वस्वपातैः स्वस्वपाताकर्षणैरित्यर्थः
स्वभॊगक्रान्तिवृत्तप्रदॆशत्यज्यन्तॆ .. 79 ..
सूर्यसिद्धान्त सं .. ६२
अथ पूर्वॊक्तमुपसंहरन्नाह—
ऎवं त्रिघनरन्ध्रार्करसार्कार्का दशाहताः ..
चन्द्रादीनां क्रमादुक्ता मध्यविक्षॆपलिप्तिकाः ..80 ..
इति श्रीसूर्यसिद्धान्तॆ प्रथमॊ मध्यमाधिकारः संपूर्णः .
.
पूर्वॊक्तप्रकारॆण
त्रिघन सप्तविंशतिः, रन्ध्राणि नव, अर्का द्वादश, रसाः षट्, अर्का द्वादश, अर्का द्वादशैतै
दशगुणिताः
उक्ताङ्कक्रमात्
चन्द्रादिषड्ग्रहाणां
परममध्यशरकलाः
कथिताः .. 80 ..
इति श्रीसिद्धान्तवागीशमाधवप्रसादपुरॊहितविरचितायां सौरदीपिकायां प्रथमॊ मध्यमाधिकारः सम्पूर्णः .. 1 ..
. श्रीगणॆशाय नमः .
.. सूर्यसिद्धान्तः ..
अथ स्पष्टाधिकारः
सूर्यसिद्धान्तः सौरदीपिका
माधव प्रसादकृतसौरदीपिकया भाष्यॆन च सहितः .
तत्रादौ ग्रहाणां गतिहॆतूनाह—
अदृश्यरूपाः कालस्य मूर्तयॊ भगणाश्रिताः ..
शीघ्रमन्दॊच्चपाताख्या ग्रहाणां गतिहॆतवः .. 1 ..
.
पूर्वप्रतिपादितकालस्य
वायवीयशरीराः
अप्रत्यक्षा इति भावः
भगणॆष्वाश्रिताः .
विग्रहाः
शीघ्रमन्दॊच्चपातसंज्ञकाः
सूर्यादिग्रहाणां
गतिकारणभूताः सन्ति . ऎतद्वशादॆव ग्रहा दक्षिणॊत्तरपूर्वापरादिषु प्रयान्तीत्यर्थः .. 1 ..
कथमॆतॆ गतिहॆतवॊ भवन्तीत्याह—
तद्वातरश्मिभिर्बद्धास्तैः सव्यॆतरपाणिभिः ..
प्राक् पश्चादपकृष्यन्तॆ यथासन्नंस्वदिङ्मुखम् ..2 ..
प्रवहाख्यॊ मरुत्तांस्तु स्वॊचाभिमुखमीरयॆत् ..
पूर्वापरापकृष्टास्तॆ गतिं यान्ति पृथग्विधाम् .. 3 ..
तॆषामुच्चानां वातरूपै रश्मिभिः किरणैः .
मूर्ताः बिम्बात्मकग्रहाः
उच्चादिभिः
वामदक्षिणहस्तैः
स्वाभिमुखं
यथा ग्रहबिम्बमासन्नं भवति तथा
अकृष्यन्तॆ .
अयमभिप्रायः - उच्चैः स्वस्थानात् षड्राशिपर्यन्तं स्वस्थानस्य पश्चाद्भाग ऎवासनत्वात्पश्चाद्भाग ऎव स्वदिगभिमुखमाकृष्यतॆ
आग्रॆम षड्राशिपर्यन्तं चाग्रत ऎव स्वस्थानस्यासन्नत्वादग्रत ऎवाकृष्यतॆ .
प्रवहसंज्ञकः
वायुः
ग्रहान्
तुकारादुच्चानि
स्वॆच्चसम्मुखम्
प्रॆरयतीत्यर्थः .
अतः कारणात्
ग्रहाः
उच्चदैवतैः पूर्वतॊ परतॊ वापकृष्यमाणाः
प्रथमावगतैकरूपभिन्नप्रकारावगतां प्रतिक्षणविलक्षणां
गमनक्रियां
प्राप्नुवन्ति . वायुवशॊत्थप्रत्यग्गतॆर्भिन्नगतयॊ भवन्तीत्यर्थः .. 2 .. 3 .
अथॊच्चकर्षणप्रक्रारं धनर्णप्रकारं चाह—
ग्रहात्प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम् ..
उच्चसंज्ञॊऽपरार्द्धस्थस्तद्वत्पश्चान्मुखं ग्रहम् .. 4 ..
स्वॊच्चापकृष्ट भगणैः प्राङ्मुखं यान्ति यद्ग्रहाः .
तत्तॆषु धनमित्युक्तमृणं पश्चान्मुखॆषु तु .. 5 ..
.
ग्रहस्थानात्
ग्रहाधिष्ठितराशॆ राशिषट्कं यावत्प्राग्भगणार्धसंज्ञा तत्रस्थः
उच्च-" संज्ञॊ जीवः
प्रहबिम्बं
पूर्वाभिमुखं
आकर्षणं करॊति .
अपरराशिषट्कस्यापरार्द्धसंज्ञा तत्रस्थ उच्चः
ग्रहबिम्बं
पश्चिमदिगभिमुखं
आकर्षणं करॊतीत्यर्थः .
स्वस्वॊच्चैराकर्षिताः
खॆटाः
यत्संख्यामितं
राशिभिः
पूर्वाभिमुखं
गच्छन्तिः
तत्संख्यामितं
ग्रहॆषु
स्वं फलं
पश्चिमाकर्षितग्रहस्य राश्यादिभॊगॆषु
तुकाराद्यत्संख्यामितं फल रूपं पश्चिमतॊ गच्छन्ति तत्संख्यामितमित्यर्थः
ऎतत्
आद्यकथितम् .. 4 . .
5 ..
अथा दक्षिणॊत्तराकर्षणमाह—
दक्षिणॊत्तरतॊऽप्यॆवं पातॊ राहुः स्वरंहसा ..
विक्षिपत्यॆष विक्षॆपं चन्द्रादीनामपक्रमात् .
. 6 ..
उत्तराभिमुखं पातॊ विक्षिपत्यपरार्धगः ..
ग्रहं प्राग्भगणार्द्धस्थॊ याम्यायामपकर्षति .. 7 ..
.
यथॊच्चॆन पूर्वापराकर्षणं तथा
गणितागतः
पातसंज्ञकः
रहति त्यजति ग्रहमिति राहुः तस्थानाधिष्ठातृदॆवताविशॆषॊऽपि
स्ववॆगॆन
मण्डल भॊगस्थानात्
दक्षिणस्यामुत्तरस्यावादिशि
वि-रविग्रहानां
शरतुल्यं विक्षॆपणं
करॊति .
विशिष्टवाचकपदानां विशॆषणवाचकपदसमवधानॆ विशॆष्यमात्रार्थत्वाद् . विक्षिपंतीति तात्पर्यार्थः .
ग्रहात्पश्चिमविभागॆ राशिषट्कस्थितः
राहु
ग्रहबिम्बम्
उत्तरदिगभिमुखं
विक्षॆपान्तरॆण त्यजति .
ग्रहस्थानात्पूर्वदिशि राशिषट्कस्थितॊ राहुः
दक्षिणस्यां दिशि
विक्षिपंति ..६ . ७ ..
अथ बुधशुक्रयॊर्विशॆषमाह—
बुधभार्गवयॊः शीघ्रात्तद्वत्पातॊ यदा स्थितः ..
तच्छीघ्राकर्षणात्तौ तु विक्षिप्यॆतॆ यथॊक्तवत् .. 8 ..
ज्ञशुक्रयॊः
शीघ्रॊच्चात्
राशिषट्कॆ
यत्कालॆ
पातसंज्ञकः -
अस्ति
तादृशपातस्य वॆगॆनाकर्षणात्
बुधशुक्रौ
तुकाराद्यत्कालॆ पातः . स्थितस्तत्काल इत्यर्थः .
दक्षिणस्यामुत्तरस्यां वा दिशि
त्यज्यॆतॆ .. 8 ..
अथ मण्डलवशादाकर्षणॆ भॆदमाह—
महत्वान्मण्डलस्यार्कः स्वल्पमॆवापकृष्यतॆ ..
मण्डलाल्पतया चन्द्रस्ततॊ बह्वपकृष्यतॆ ..9 ..
भौमादयॊऽल्पमूर्तित्वाच्छीघ्रमन्दॊच्चसंज्ञकैः ..
दैवतैरपकृष्यन्तॆ सुदूरमतिवॆगिताः .. 10 ..
अतॊ धनर्णं सुमहत्तॆषां गतिवशाद्भवॆत् ..
अकृष्यमाणास्तैरॆवं व्यॊम्नियान्त्यनिलाहताः 11
सूर्यः
बिम्बस्य
बृहत्त्वात्
इतर ग्रहापॆक्षयाल्पमॆव
उच्चसञ्ज्ञक जीवॆनाकृष्यतॆ ..
शशी
मण्डलस्य लघुत्वॆन
सूर्यात्
अधिकम् .
उच्चसंज्ञकदॆवॆनाकृष्यतॆ .
कुजादि पञ्चग्रहाः
लघुबिम्बत्वात्
शीघ्रॊच्चमन्दॊच्चसंज्ञकैः
दॆवविशॆषैः
अतिवॆगः शीघ्रवॆगः संजातॊ यॆषां तॆ अतिजवाः
अत्यन्तम्
आकृष्यन्तॆ ..
सुदूराकर्षणात्
भौमादीनां
आकर्षणॊत्पन्नचलनवशात्
अत्यधिकं फलं
स्वर्णं
भवतीत्यर्थः .
उच्चपातदैवतैः
पूर्वॊक्तप्रकारॆण
आकर्षिता ऎतॆ भौमादयः
स्वस्वाकाशगॊलॆ
प्रवहवायुताडिताः
गच्छन्ति उच्चसंज्ञकदॆवानांमहत्सु पिण्डॆषु स्वल्पाकर्षणशक्तिरल्पॆषु त्वधिका तथा चासन्नॆषु ग्रह पिण्डॆष्वधिका दूरॆषु त्वल्पत्यर्थत ऎव सिद्धम् . 9 . 10 . 11 ..
अथैवं गतिकारणैर्ग्रहाणामष्टभॆदात्मिकां गतिमाह—
वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा .
तथा शीघ्रतारा शीघ्र ग्रहाणामष्टधा गतिः .. 12 ..
भौमादिपञ्चग्रहाणां
इति
अष्टप्रकारा
भुक्तिरस्ति .
तथा समुच्चयार्थॆ .. 12 ..
अथैनामष्टधागतिं भॆद द्वयॆन क्रॊडयति—
तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा ..
ऋज्वीतिपश्चधाज्ञॆया या वक्रा सानुवक्रगा ..13 ..
अष्टविधगतिषु
स्पष्टार्थमॆवैतॆषाम्
ऎवं
पञ्चप्रकारा
मार्गी गतिः
बॊध्या .
गतिः
अनुवक्रगतिना सह वर्तमाना . वक्रानुवक्रा कुटिलॆत्यर्थः
विलॊमा गतिर्ज्ञॆया . ऎवं ग्रहाणां मार्गी वक्राचॆति गतिद्वयी जाता .. 13 ..
अथ ग्रहाणां स्पष्टक्रियां प्रतिजानीतॆ—
तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः ..
प्रयान्ति तत्प्रवक्ष्यामि स्फुटीकर्णमादरात् .. 14 ..
पूर्वॊक्तप्रकारागताष्टविधगतिवशात्
प्रतिदिनं
यॆन प्रकारॆण
दृग्गॊचरत्वं
सूर्यादयः
प्राप्नुवन्ति
९२
सूर्यसिद्धान्त सं .
[ अं
तादृशं
स्पष्टक्रियागणितप्रकारम्
अत्यन्ताभिनिवॆशात्
प्रकर्षॆण कथयामि .. 14 ..
या अथ स्फुटीकरणॊपयॊगिनीनां ज्यानामुत्पत्तिमाह—
राशिलिप्ताष्टमॊ भागः प्रथमं ज्यार्धमुच्यतॆ ..
तत्तद्विभक्तलब्धॊन मिश्रितं तद् द्वितीयकम् .. 15 ..
अद्यॆनैवं क्रमात्पिण्डान् भक्त्वा लब्धॊनसंयुताः ..
खण्डकाःस्युश्वन्तु विंशज्ज्यार्धपिण्डाःक्रमादमी ..16 ..
ऎकराशॆर्या लिप्तास्ता सामष्टमांशः
आद्य
सम्पूर्णजीवार्धम्
कथ्यतॆ .
तदॆव प्रथमज्यार्धं तॆनैव प्रथमज्यार्धॆन भक्तं लब्धॆन प्रथमज्यार्धं हीनं यत्फलं तॆन प्रथमज्यार्द्धॆनैव युतं
प्रथमज्यार्धं
द्वितीयज्यार्ध भवति ..
प्रथमज्यार्धपिण्डॆन
उक्तरीत्या
क्रमतः
ज्यार्धपिण्डान्
विभज्य
लब्धॆन प्रथमज्यार्धपिण्डा ऊनाः कार्यास्तॆन च खण्डॆन द्वितीयादिखण्डा यॊज्याः
असिद्धज्यार्धपिण्डा भवन्तीत्यर्थः . ऎवं
चतुर्विंशत्संख्याकाः
कार्याः . अत्र भागहारॆ अर्धाधिकॆ शॆषॆ लब्धौ रूपं ग्राह्यम् .
अर्धाल्पॆ शॆषॆ शॆषं त्याज्यमिति व्यवहारॆ सत्यपि ब्रह्मसिद्धान्तॊक्तस्थलॆ अर्धाधिकॆ रूपं न ग्राह्यमिति .
रूपग्रहणॆ रूपसममन्तरंपततीति ज्ञॆयम् .
ब्रह्मसिद्धांतवाक्यम्-*ऎकविंशाच्च विंशाच्च षष्ठात्पञ्चदशादपि .
सप्तमाद्द्वादशात्सप्त दशान्नार्धॊत्तरं मतम्
सिद्धपिण्डाः
समनन्तरमॆवॊच्यन्तॆ .. 15 . 16 .
अथ पूर्वॊक्रसिद्धान्क्रमज्यापिण्डान्निबध्नाति—
तत्त्वाश्विनॊऽङ्काब्धिकृता रूपभूमिधरर्तवः ..
खांकाष्टौ पञ्चशून्यॆशा बाणरूपगुणॆन्दवः .. 17 ..
शून्यलॊचनपंचैकाशिछन्द्र रूपमुनीन्दवः ..
वियच्चन्द्रातिधृतयॊ गुणरन्ध्राम्बराश्विनः .. 18 ..
मुनिषड्यमनॆत्राणि चन्द्राग्निकृतदस्रकाः ..
पञ्चाष्टविषयाक्षीणिकुञ्जराश्विनगाश्विनः .. 19 ..
रन्ध्रपञ्चाष्ठकयमा वस्वद्य्रङ्कयमास्तथा ..
कृताष्टशून्यज्वलना नगादिशशिवह्नयः .. 20 .."
षट्पञ्चलॊचनगुणाश्चन्द्रनॆत्राग्निवह्वयः ..
यमाद्रिवह्निज्वलना रन्ध्रशून्यार्णवाग्नयः .. 21 ..
रूपाग्निसागरगुणा वस्वग्निकृतवह्वयः ..
.
स्पष्टार्थः .
श्लॊकॊक्तक्रमॆणैवान्वयः .. 17 ..18 ..19 ..20 ..21 ..
९६ सूर्यसिद्धान्त स .. २
अथॊत्क्रमज्यासाधनमाह—
प्रॊज्झ्यॊत्क्रमॆण व्यासार्थादुत्क्रमज्यार्द्धपिण्डकाः ..22 ..
. ऎतानुक्तान् क्रमज्यापिण्डान्
पिण्डात्
विलॊमरीत्या त्रयॊविंशतितमपिण्डमारभ्य प्रथम ज्यापिण्डान्तमित्यर्थः .
न्यूनीकृत्य क्रमॆण
उत्क्रमज्यापिण्डा भवन्ति .. 22 ..
अथ पूर्वॊक्तसिद्धातानुत्क्रमञ्ज्यापिण्डानह—
मुनयॊ रन्ध्रयमला रसषट्का मुनीश्वराः ..
द्व्यैष्टैकारूपषड्दस्राः सागरार्थहुताशनाः ..23 .. .
खर्तुवॆदा नवाद्र्यर्था दिङ्नगास्त्र्यर्थकुञ्जराः ..
नगाम्बरवियच्चन्द्रा रूपभूधरशङ्कराः .. 24
शरार्णवहुताशैका भुजङ्गाक्षिशरॆन्दवः .
१३४५
नवरूपमहीध्रैका गजैकाङ्कनिशाकराः ..१७१९
२.२५ ..
गुणाश्विरूपनॆत्राणि पावकाग्निगुणाश्विनः .
२१२३
वस्वर्णवार्थयमला स्तुरङ्गर्तुनगाश्विनः ..
२५४८
२.२६ ..
नवाष्टनवनॆत्राणि पावकैकयमाग्नयः .
२९८९
गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः ..
२.२७ ..
. .
स्पष्टाथ: .. 23 .. 24 . 25 : 26 .. 27 ..
अथ क्रान्तिसाधनमाह—
परमापक्रमज्या तु सप्तरन्ध्रगुणॆन्दवः .
तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यतॆ .. २.२८ ..
.
त्र्यूनं चतुर्दशशतं 1397
परमक्रातिज्या
तुकाराच्चतुर्विंशत्यंशानां वक्ष्यमाणज्यानयन प्रकारसिद्धॆत्यर्थः
अभीष्टज्या
परम क्रातिज्या गुणिता
त्रिज्यया
भक्ता
तस्य फलस्य चापं धनुः .
कालात्मिकॆष्टक्रान्तिः
कथ्यतॆ .. २८ ..
अथ स्पष्टीकर्णार्थं कॆन्द्रभुजकॊटिकल्पनम्—
ग्रहं संशॊध्य मन्दॊच्चात् तथा शीघ्राद्विशॊध्य च ..
शॆषं कॆन्द्रपदं तस्माद्भुजज्या कॊटिरॆव च .. 26 ..
गताद्भुजज्या विषमॆ गम्यात्कॊटिः पदॆ भवॆत् ..
युग्मॆ तु गम्याद्बाहुज्या कॊटिज्या तु गताद्भवॆत् ..30 ..
.
राश्यादि ग्रहं
प्रागानीतराश्यादिमन्दॊचात्
ऊनीकृत्य
शीघ्रॊच्चात्
चः समुच्चयॆ
ऊनीकृत्य
राश्याद्यवशिष्टं
उच्चसम्बन्धॆन
मंन्दॊचसम्बन्धॆन मन्दकॆन्द्रम् . शीघ्रॊच्चसम्बन्धॆन शीघ्रकॆन्द्रं भवतीत्यर्थः .
कॆन्द्रपदात् *
भुजस्य ज्या
कॊटिज्या
चः समुच्चयॆ . कर्तव्या . तत्र त्रिभिस्त्रिर्भा राशिभिरकैकं पदं कल्प्यम् .
ऎवकारात् कॆन्द्रपदादॆव भुजकॊटिज्यॆ साध्यॆ .
विषमसंख्यात्मकॆ
कॆन्द्रपदॆ सति
कॆन्द्रभुक्तात्
विषमपदस्थकॆन्द्रभुक्तमॆव भुज इत्यर्थः .
कॆन्द्रस्य भॊग्यात्
विषमपदस्थितकॆन्द्रस्य भॊग्यमॆव कॊटि रित्यर्थः .
स्यात् .
समपदॆ तु
भॊग्यात्
भुजज्या स्यात् .
तुकारात्समपदॆ
भुक्त्वात्
कॊटिर्ज्या
स्यात् . तत्र समपदॆ राशित्रयॊनितस्य भुजस्य यच्छॆषं सा कॊटिरित्यर्थः .. 29 ..30 ..
लिप्तास्तत्त्वायमैर्भक्ता लब्धं ज्यापिण्डकं गतम् ..
गतगम्यान्तराभ्यस्तं विभजॆत्तत्त्वलॊचनैः .. 31 ..
तदवाप्तफलं यॊज्यं ज्यापिण्डॆ गतसंज्ञकॆ ..
स्यात्क्रमज्याविधिर्यमुत्क्रमज्यास्वपि स्मृतः .. 32 ..
८२ सूर्यसिद्धान्त सं .
[ अं
.
यस्य ज्याकर्तुमिष्टा तस्य लिप्ताः
पञ्चविंशत्यधिकशतद्वयॆन
हृताः
लब्धफलस्य संख्यातुल्यं
अतीतं
ज्यापिण्डमॆव ज्यापिण्डकं स्यात् . यच्छॆषं तत् .
गतगम्यज्यापिण्डयॊरन्तरॆण गुणितं
तत्त्वाश्विभिः
तत् प्राप्तफलं
पूर्वं यद्गतसंज्ञकं ज्यापिण्डं प्राप्तं तस्मिन्
युक्तं कार्यमॆवमभीष्टा ज्या स्यात् .
ऎषः
क्रमज्यानयनप्रकारः
उत्क्रमज्यानयनॆष्वपि
कथितः .. 31 . 32 ..
अथ ज्यातॊ धनुरानयनमाह—
ज्यां प्रॊज्झ्य शॆषं तत्त्वाश्विहतं तद्विवरॊद्धृतम् ..
संख्यातत्त्वाशिवसंवर्गॆ संयॊज्य धनुरुच्यतॆ .. 33 ..
. यस्य ज्याकर्तुमिष्टा तस्मिन्
या ज्या शुध्यति तां
न्यूनीकृत्य
अवशिष्टं
तत्त्वयमलैः संगुण्य
पतितखण्डाग्रिमखण्डयॊरन्तरॆण भक्त फलं
शुद्धज्यासंख्यायास्तत्वलॊचनयॊर्धातॆ
युक्तं कृत्वॆत्यर्थः . सिंद्धं
चापम्
कथ्यतॆ .. 33 ..
अथ मन्दपरिध्यंशा विवक्षुः प्रथमं सूर्यचन्द्रयॊराह—
रवॆर्मन्दपरिध्यंशा मनवः शीतगॊ रदाः ..
युग्मान्तॆ विषमान्तॆच नखलिप्तॊनितास्तयॊः ..34 ..
.
सूर्यस्य .
मन्दपरिधिभागाः
चतुर्दश
चन्द्रस्य
द्वात्रिंशत्
समपदान्तॆ ज्ञॆयाः . युग्मपरिध्यंशा इत्यर्थः .
विषमपदान्तॆ
सूर्यचन्द्रमसॊः .
विंशतिकलॊनिताः
चकारात्पूर्वॊक्ता ऎवांशा ज्ञॆयाः . इह ग्रहफलॊपपत्यर्थं मन्दॊच्चनीचवृतानि पूर्वैः कल्पितानि तॆषामॆतावन्तॊ भागाः प्रमाणानि .. 34 ..
अथ भौमादीनां मन्दपरिधिभागानाह—
युग्मान्तॆऽर्थाद्रयः खाग्नी सुराः सूर्या नवार्णवाः ..
ऒजॆ द्व्यगावसुयमा रदारुद्रा गजाब्धयः ..35 ..
. भौमादीनां
समपदान्तॆ
पञ्चसप्ततिः
त्रिंशत्
त्रयत्रस्त्रिंशत्
द्वादश
ऎकॊनपञ्चाशत् .
ऎतॆ क्रमानुसारॆण पूर्वॊक्तमन्दपरिध्यंशाः स्युः .
विषमपदान्तॆ
द्विसप्ततिः
अष्टविंशतिः
द्वात्रिंशत्
ऎकादश
अष्टचत्वारिंशत् .
मन्दपरिध्यंशाः स्युः .
वक्ष्यमाणश्लॊकॆन कुजादीनामिति चात्रान्वॆति .. 35 ..
अथ भौमादीनां युग्मपदान्तॆ शैघ्र्यपरिध्यंशानाह—
कुजादीनामतः शैघ्र्या युग्मान्तॆऽर्थाग्निदस्रकाः ..
गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गॊऽग्नयः ..36 ..
८६ सूर्यसिद्धान्त सं !
मन्दपरिधिकथनानन्तरं
भौमादिपङ्च खॆटानां कुजबुधगुरुशुक्रमन्दानां
समपदस्यान्तॆ
पञ्चत्रिंशदधिकशतद्वयं
त्रय स्त्रिंशदधिकं शतं
सप्ततिः
द्विषष्ट्युत्तरं शतद्वयं
ऎकॊनचत्वारिंशत्
शीघ्र परिध्यंशा यथाक्रमॆण कथितॆत्यर्थः. .. 36 ..
अथैतॆषां विषमपदान्तॆ शैघ्र्यपरिध्यंशानाह—
ऒजान्तॆ द्वित्रियमला द्विविश्वॆ यमपर्वताः ..
खर्तुदस्रा वियद्भॆदाः शीघ्रकर्मणि कीर्तिताः ..37 ..
विषमपदस्यान्तॆ
द्वात्रिंशदधिकं शतद्वयं
द्वात्रिंशदधिकं शतं
द्विसप्ततिः
षष्ट्यधिकं शतद्वयं
चत्वारिंशत्
शीघ्रकर्मविषयॆ . शीघ्रफलानयनार्थॆमित्यर्थः
कथिताः ..37 ..
अथ परिधॆः स्फुटीकर्णमाह—
ऒजयुग्मान्तरगुणा भुजज्या त्रिज्ययॊद्धृता ..
युग्मवृत्तॆ धनर्णं स्यादॊजादूनाधिकॆ स्फुटम् ..38 ..
.
अभीष्टांशानां भुजज्या मन्दपरिधिसाधनॆ मन्दकॆन्द्रभुजज्या शीघ्रपरिधिसाधनॆ शीघ्रकॆन्द्रभुजज्यॆत्यर्थः .
विषमपरिध्यंशानां समपरिध्यंशानां चान्तरॆण गुणिता
त्रिज्याभक्ता
विषमपदान्तीयपरिधॆः सकाशात्
हीनाधिकॆ सति क्रमॆण
समपदान्तीयपरिधौ
स्वर्ण कार्यं तर्हि
परिधिमानं स्फुटं स्यात् . युग्मपरिध्यंशाश्चॆदॊजपरिध्यंशॆभ्य ऊनास्तदा लब्धं युग्मपरिध्यंशॆषु धनं कार्यं यदि युग्मपरिध्यंशॆभ्यॊ ऽधिकास्तदा लब्धं युग्मपरिध्यंशॆषु हीनं कार्यमॆवं कृतॆ स्पष्टपरिध्यंश भवॆयुरित्यर्थः .. 38 ..
अथ भुजकॊट्यॊः फलानयनं मन्दफलानयनं चाह—
तद्गुणॆ भुजकॊटिज्यॆ भगणांशविभाजितॆ ..
तद्भुजज्याफलधनुर्मान्दं लिप्तादिकं फलम् .. 36 ..
कॆन्द्रभुजज्याकॊटिज्यॆ
तॆन स्फुटपरिधना गुणितॆ
भगणांशैः 360 भक्तॆ भुजकॊटिफलॆ स्त: .
भुजज्याफलस्य धनुः
कलादिकं
मन्दफलं भवतीत्यर्थः .. 39 ..
अथ चलकर्णानयनमाह—
शैघ्र्यं कॊटिफलं कॆन्द्रॆ मकरादौ धनं स्मृतम् ..
संशॊध्यंतु त्रिजीवायां कर्कादौ कॊटिजं फलं ..40 ..
तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः ..
शीघ्रसम्बन्धि
कॊटिज्ययानीत फलं
मकरादिषड्राशिस्थितॆ शीघ्रकॆन्द्रॆ सति
त्रिज्यायां
स्वं
कथितम् .
कर्कादिषड्राशिस्थितॆ कॆन्द्रॆ
तुकारात्तस्यामॆव त्रिज्यायां
कॊटिज्ययॊत्पन्नं फलं
त्याज्यम् . ऎवं स्पष्टकॊटिज्या भवति .
तस्याः स्पष्टकॊटि ज्याया भुजफलस्य च वर्गयॊगात्
पदं
९० शॆ सूर्यसिद्धान्त सं .. [ अं
शीघ्राख्यः
शीघ्रकर्ण इत्यर्थः . कथित इति .. 40 ..
अथ शीघ्रफलानयनमाह—
त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम् ..41 ..
लब्धस्य चापं लिप्तादि फलं शैघ्र्यमिदं स्मृतम् ..
ऎतदाद्यॆ कुजादीनां चतुर्थॆ चैव कर्मणि .. 42 ..
.
पूर्वॊक्तप्रकारॆणानीतं भुजफलं
त्रिज्यया गुणितं
शीघ्रकर्णॆन भाज्यं .
लब्धफलस्य
धनुः
तद्धनुरॆकं .
शीघ्रसम्बन्धि
कलादिफलं
कथितम् .
शीघ्रफलं
भौमादिपञ्चखॆटानां .
प्रथमॆ
संस्कार्यम् .
ऎवकाराद्द्वितीयतृतीययॊर्मान्दंफलं संस्कार्यमित्यर्थः .. 41 .. 42 ..
अथ फलानां क्रमं सूर्याचन्द्रमसॊ: स्पष्टत्वं चाह—
मान्दं कर्मैक कर्कॆन्द्वॊ र्भौमादीनामथॊच्यतॆ ..
शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्यनुक्रमात् ..43 ..
. .
सूर्याचन्द्रमसॊ:
ऎकमॆव मान्दं कर्म कार्यमॆतयॊः शीघ्रॊच्चाभावात् . ऎकॆनैव मन्दकर्मणानयॊः स्पष्टत्वं भवतीत्यर्थः .
अनन्तरं
कुजादीनाम्
स्फुटतां कथ्यत इत्यर्थः .
इति
कर्माणि भवन्ति . अयमर्थः . प्रथमं शैघ्र्यं द्वितीयं मान्दं पुनश्च तृतीयं मान्दं चतुर्थं शैघ्र्यं कर्मैतत् क्रम कृतकर्म चतुष्टयॆन भौमादिपञ्चखॆटाः स्पष्टा भवन्ति .. 43 ..
अत्रापि विशॆषमह—
मध्यॆ शीघ्रफलस्यार्धं मान्दमर्धफलं तथा ..
मध्यग्रहॆ मन्दफलं सकलं शॆघ्र्यमॆव च .. 44 ..
.
मध्यग्रहॆ
स्वसाधितशीघ्रफलस्य .
दलं संस्कार्यम् .
मन्दसम्बन्धि
शीघ्रफलार्द्धसंस्कृतमध्यग्रहात्साधितमन्दफलस्यार्धं
तस्मिन्नॆव संस्कार्यम् . शीघ्रफलार्धसंस्कृतॆ संस्कार्यमित्यर्थः .
अस्मात्सादितं मन्दफलं
सम्पूर्णं
मध्यमखॆटॆ संस्कार्यमॆवं मन्दस्पष्टॊ भवति .
अस्मात् साधितं शीघ्रफलं
चकारात्समग्रं शीघ्रफलं मन्दस्पष्टॆ संस्कार्यमॆवं स्फुटॆ ग्रहः स्यात् . ऎवकारादुक्तरीत्या साधितॊ ग्रहः स्फुटः स्यान्नान्यथॆत्यर्थः ..44 ..
फलयॊः संस्कारार्थं धनर्णकल्पनामाह—
अजादिकॆन्द्रॆ सर्वॆषां शॆघ्र्यॆ मान्दॆ च कर्मणि ..
धनं ग्रहाणां लिप्तादि तुलादावृष्णमॆव च .. 45 ..
.
सूर्यादिखॆटानां
शीघ्रकर्मणि मन्दकर्मणि च
मॆषादिराशिषट्कस्थितॆ दॆ
कलादिफलं
स्वं ज्ञॆयम् . ग्रहॆषु यॊज्यमित्यर्थः
तुलादिषड्राशिस्थितॆ कॆन्द्र इत्यर्थः . लिप्तादिफलं
ग्रहॆषु हीनं कार्यमित्यर्थः
ऎवकारात्फलयॊराननप्रकारभॆऽदॆपि न धनर्णरीतिभॆदः चकारॊव्यवस्थार्थकः .. 45 ..
अथ ग्रहाणां भुजान्तरफलमाह—
अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता ..
भचक्रकलिकाभिस्तु लिप्ताः कार्याग्रहॆऽर्कवत् ..46 ..
.
सूर्यादिग्रहाणां स्पष्टगतिः
सूर्यस्य भुजफॆलॆन कलात्मकमन्दफलॆन गुणिता
द्वादशराशिकलाभिः
भक्ता .
प्राप्तफलकलाः
सूर्यादिग्रहॆ
सूर्यस्य ! मन्दफलतुल्यं
धनर्णं कुर्याद्यदि सूर्यस्य मन्दफलं धनं तदा . सूर्यादिग्रहॆषु धनमृणं चॆदृणं कुर्यादित्यर्थः .. 46 ..
स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर्निशापतॆः ..
दॊर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवॆत् ..47 ..
चन्द्रस्य
मध्यमगतिः
चन्द्रस्य मन्दॊच्चगत्या हीना कार्या . तादृशगतॆः सकाशात्
दॊर्ज्यान्तरमादिभूतं यस्यैतादृश गतिफलं
वक्ष्यमाणप्रकारॆण दॊर्ज्यान्तरगुणा भुक्तिरित्यादिना प्रसाध्य
चन्द्रमध्यगतौ
वक्ष्यमाणरीत्या हीनं युक्तं च
स्यादित्यर्थः .. 47 ..
अथ ग्रहाणां मन्दस्पष्टगतिं वासनासूचनपूर्वगति—
ग्रुहभूक्तॆः फलं कार्यं ग्रहवन्मन्दकर्मणि ..
दॊर्ज्यान्तरगुणा भुक्रिस्तत्त्वनॆत्रॊद्धृता पुनः .. 48 ..
स्वमन्दपरिधिक्षुण्णा भगणांशॊद्धृता कलाः ..
कर्कादौ तु धनं तत्र मकरादावृणं स्मृतम् .. 49 ..
.
गतिमन्दफलानयनॆ
ग्रहगतिसकाशात्
ग्रहस्य मन्दफलसाधनरीत्या
गतिमन्दफलं
साध्यमित्यर्थः .
ग्रहमध्यगतिः
ग्रहस्य तृतीयमन्दकर्मणि दॊर्ज्याकरणॆ यॆ भुक्तभॊग्यखण्डॆ तयॊरन्तरॆण गुणिता
पञ्चविंशत्यधिकशतद्वयॆन भाज्या
ततॊऽनन्तरमित्यर्थः .
स्वस्य मन्दपरिधिनागुणिता
षष्ट्यधिकशतत्रयॆण भक्ता फलं
गतिमन्दफलकला भवन्ति .
कर्कादिकॆन्द्रॆ
ग्रहमध्यगतौ
स्वं
मकरादिकॆन्द्रॆ
क्षयं
कथितम् .
तुकारान्मन्दस्पष्टगतिः सिद्धाभवतीत्यर्थः .. 48 .. 49 ..
अथ स्पष्टगतिसाधनमाह—
मन्दस्फुटीकृतां भुक्तिं प्रॊज्झ्य शीघ्रॊच्चभुक्तितः .
तच्छॆषं विवरॆणाथ हन्यात्त्रिज्यान्त्यकर्णयॊः .. 50 ..
चलकर्णहृतं भुक्तौ कर्णॆ त्रिज्याधिकॆ धनम् ..
ऋणमूनॆऽधिकॆ प्रॊज्झ्य शॆषं वक्रगतिर्भवॆत् ..51 ..
अनन्तरं पूर्वसिद्धां मन्दस्पष्टगतिं
शीघ्रॊच्चगतॆः
हीनं कृत्वा यदवशिष्टं
तदवशिष्टं कॆन्द्रगतिरूपं
ज्याद्वितीयशीघ्रकर्णयॊः . ग्रन्थान्तरैकवाक्यतार्थमत्र त्रिज्याशब्दॆन द्वितीयशीघ्रफलकॊटिज्या ग्राह्या .
अन्तरॆण .
गुणयॆत्
द्वितीयशीघ्रकर्णॆन भक्तं फलं
मन्दस्पष्टगतौ
: द्वितीयशीघ्रकर्णॆ त्रिज्यातॊऽधिकॆसति
युक्तं
द्वितीयशीघ्रकर्णॆ त्रिज्यातॊ न्यूनॆ सति
हीनं कार्यं तर्हि स्पष्ट गतिः स्यात् ..
शीघ्रफलाधिकॆ सति शीघ्रफलॆ
मन्दस्पष्टगतिं त्यक्त्वा
यदवशिष्टं तत्
वक्रा गतिः
स्यादित्यर्थः .. 50 .
. 5.1 ..
अथ वक्रगत्युपपत्तिमाह—
दूरस्थितः स्वशीघ्रॊच्चाद्ग्रहः शिथिलरश्मिभिः ..
सव्यॆतराकृष्टतनुर्भवॆद्वक्रगतिस्तदा .. 52 ..
.
स्वस्य शीघ्रॊचात्
दूरगतः .
त्रिभाधिकान्तरितः
खॆटः
शीघ्रॊच्चदॆवताहस्तगशिथिलरज्जुभिः
वामभागॆतराकृष्टतनुर्यदा
तत्कालॆ
विपरीतगतिः स्यात् .. 52 ..
अथ वक्रारम्भभागांस्तथा वक्रत्यागभागांशचाह—
कृतर्तुचन्द्रॆ र्वॆदॆन्द्रैः शून्यत्रॆकैर्गुणाष्टिभिः .
शररुद्रैश्चतुर्थॆषु कॆन्द्रांशैर्भूसुतादयः .. 53 ..
भवन्ति वक्रिणस्तैस्तु स्वैः स्वैश्चक्राद्विशौधितैः .
अवशिष्टांशतुल्यैः स्वैः कॆन्द्रैरुज्झन्ति वक्रताम् ..54 ..
.
भौमादिपञ्चताराग्रहाः
चतुर्थॆ-
कर्मसूत्पनैः
कॆन्द्रभागैः
कृत
र्तुचन्द्रैरित्याद्युक्तरूपैः क्रमॆण वक्रारम्भं प्राप्नुवन्तीत्यर्थः .
स्वकीयैः स्वकीयैः
कॆन्द्रांशैः
द्वादशराशिभ्यः
हीनैः
शॆषसमानैः
स्वकीयैः
कॆन्द्रांशैः
तुकारात्क्रमॆण तॆ भौमादयः
वक्रत्वम्
त्यजन्ति .. 53 .. 54 ..
अथ वक्रान्तभागानामतुल्यत्वॆ कारणान्तरमप्याह—
महत्त्वाच्छीघ्रपरिधॆः सप्तमॆ भृगुभूसुतौ ..
अष्टमॆ जीवशशिजौ नवमॆ तु शनैश्चरः .. 55 ..
सौर दीपिका .
प्रागुक्तशीघ्रपरिधः
अधिकत्वात्
शुक्रभौमौ
शीघ्रकॆन्द्रस्य सप्तमराशौ
बृहस्पतिबुधौ
अष्टमराशौ वक्रत्वं त्यजतः .
शनिस्तु
नवमराशौवक्रत्वं त्यजति .. 55 ..
१०६ सूर्यसिद्धान्त सं ..
अथ चन्द्रादिग्रहाणां विक्षॆपसाधनमाह—
कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम् ..
वामं तृतीयकं मान्दं बुधभार्गवयॊः फलम् ..56 ..
स्वपातॊनाद्ग्रहाज्जीवाशीघ्राद्भृगुजसौम्ययॊः ..
विक्षॆपघ्न्यन्त्यकर्णाप्ता विक्षॆपस्त्रिज्यया विधॊः .. 57 ..
.
भौमशनिजीवपातानां
शीघ्रजं
चतुर्थकर्मसिद्धफलं
ग्रहतुल्यं यथा ग्रहॆ संस्कृतं तद्वदित्यर्थः . संस्कार्यमितिशॆषः .
तृतीयकर्मसिद्धं
मन्दफलं
विलॊमं संस्कार्यम् .
स्वस्य फलसंस्कृतपातॆन हीनात् .
स्फुटग्रहात्
बुधशुक्रयॊः .
स्वपातॊनात् .
शीघ्रॊच्चात् .
भुजज्या कार्या . सा जीवा
मध्यमशरकलाभिर्गुण्या
चतुर्थकर्णाप्त फलं
स्पष्टशरः स्यात् ..
त्रिराशिज्यया भाज्यॆत्यर्थः .. 56 .. 57 ..
अथ स्पष्टक्रान्तिमाह—
विक्षॆपापक्रमैकत्वॆ क्रान्तिर्विक्षॆपसंयुता .
दिग्भॆदॆ विद्युता स्पष्टा भास्करस्य यथागता ..58 ..
.
ग्रहस्पष्टापमः
शरापम यॊरॆकदिक् त्वॆ सति
शरॆण युक्ता कार्या .
शरापमयॊरन्यदिक्त्वॆसति
रहिता शॆषदिक्का स्पष्टा क्रान्तिः स्यात् ..
सूर्यस्य
पूर्वागतैव
स्पष्टक्रान्तिः स्यात् .. 58 ..
अथ ग्रहाणां स्वाहॊरात्रानयनमाह—
ग्रहॊदयप्राणहता खखाष्ठैकॊद्धृता गतिः ..
चक्रासवॊ लब्धयुताः स्वाहॊरात्रासवः स्मृताः ..59 ..
.
ग्रहणां स्पष्टगतिः
साय ग्रहस्य यॊ राशिस्तस्य यॆ निरॆक्षॊदयास्तैर्गुणिताः
अष्टादश शतॆन भक्ताः
लब्धासुभिर्युताः
षट्शताधिकैकविंशतिसहस्रमितासवः
स्वस्व ग्रहस्याहॊरात्रासवः
कथिताः .. 59 ..
क्रान्तॆः क्रमॊत्कमज्यॆ द्वॆ कृत्वा तत्रॊत्क्रमज्यया ..
हीना त्रिज्या दिनव्यासदलं तद्दक्षिणॊत्तरम् .. 60 ..
.
ग्रहस्य स्पष्टक्रान्तॆः
क्रमज्यॊक्रमज्याच .
द्वॆप्राप्ति प्रसाध्य
तयॊर्मध्यॆ
क्रान्त्युत्क्रमज्यया
रहिता
त्रिभज्या कार्याशॆयं
अहॊरात्रवृत्तव्यासार्ध द्युज्यॆत्यर्थः .
दिनव्यासदलं
दक्षिणगॊलॆ दक्षिणगॊलॆ उत्तरगॊलॆ च स्यात् .. 60 .
क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशॊद्धृता ..
त्रिज्यागुणाहॊरात्रार्धकर्णाप्ता चरजासवः .. 61 ..
तत्कार्मुकमुदक्क्रान्तौ धनहानी पृथक् स्थितॆ ..
स्वाहॊरात्रचतुर्भागॆ दिनरात्रिदलॆ स्मृतॆ .. 62 ..
याम्यक्रान्तॊ विपर्यस्तॆ द्विगुणॆ तु दिनक्षपॆ
विक्षॆपयुक्तॆनितया क्रान्त्या भानामपि स्वकॆ .. 63 ..
क्रान्तिक्रमज्या
विषुवच्छायया गुण्या
द्वादशभिर्भक्ता फलं
कुज्यास्यात् . सा
त्रिज्या गुण्या
दिनव्यासदलॆन भक्त्वा फलं चरज्या स्यात्
तस्यधनुः
चरज्यॊत्पन्नासवश्चरासव इत्यर्थः .
पूर्वानीत स्वाहॊरात्रस्य चतुर्थांशॆ
स्थानद्वयस्थॆ
उत्तरक्रान्तौ सत्यां चरात्
युक्तहीनॊ कार्यौ तौ क्रमॆण
दिनार्धा रात्र्यर्धॆ
कथितॆ
दक्षिणक्रान्तौ सत्यां
दिनरात्रि दलॆ भवतः यत्र चरजासवॆ धनं कृतं तत्र रात्र्यर्धॆ यत्र हीनं कृतं तत्र दिनार्धं स्यात् .
तुकारात्तॆ दिनरात्रि दलॆ
द्वाभ्यां गुणितॆ कृतॆ
दिनमान रात्रिमानॆस्तः . विक्षॆपयुक्तॊनितया ऎवं नक्षत्रशरॆण युतॊनितया
नक्षत्राणां
पूर्वॊक्त प्रकारॆणानीतया क्रान्त्या
अपि नक्षत्राणामपि दिनक्षपा प्रमाणॆ साध्यॆ इत्यर्थः ..६१ . ६२ . ६३ ..
अथ भभॊगमानपूर्वकं तिथिभॊगमानं ग्रहस्य नक्षत्रानयनं चाह—
भभॊगॊऽष्टशतीलिप्ताः खाशिवशैलास्तथा तिथॆः .
ग्रहलिप्ता भभॊगाप्ता भानि भुक्त्या दिनादिकम् .. 64 ..
.
अष्टशतकलाः
नक्षत्रंभॊगः
तिथॆर्विंशत्यधिकसप्तशतकलाः
भॊग इत्यर्थः
यस्य ग्रहस्यनक्षत्र ज्ञान मभीष्टं तद्ग्रहस्य कलाः
भभॊगॆन भक्ताः फलं
गतनक्षत्राणि भवन्ति . शॆषं वर्तमाननक्षत्रस्य गतकलास्तस्मात्
ग्रहगत्या
गतदिनादिकं साध्यम् .
. अयमर्थः .. शॆषकलाभिरूनं भभॊगं भॊग्यकला भवन्ति . भुक्तभॊग्यकलासु ग्रहगत्या भाजितॆ फलं क्रमॆण गत-गम्यदिनादिकं भवति .. 64 ..
अथ प्रसंगाद्यॊगानयनमाह—
रवींदु यॊगलिप्ताभ्यॊ यॊगा भभॊगभाजिताः .
गतगम्याश्च षष्टिघ्न्यॊ भुक्तियॊगाप्तनाडिकाः .. .. 65 ..
.
सूर्याचन्द्रमसॊर्यॊगकलाभ्यः
भभॊगॆन विभक्ता भवति .
गतकलाः
गम्यकलाश्च
षष्टिगुणिताः
सूर्याचन्द्रमसॊर्गतियॊगॆन भजनाल्लब्धघटिका गतैष्या भवन्ति .. 65 ..
अथ प्रसंगात्तिथ्यानयनमाह—
अर्कॊनचन्द्रलिप्ताभ्यस्तिथयॊ भॊगभाजिताः .
गता गम्याश्च षष्टिघ्नाना नाड्यॊ भुक्त्यन्तरॊद्धृताः .. 66 ..
व्यर्कॆन्दुकलाभ्यः
प्रतिपदादयः
तिथिभॊगॆन विभक्ता भवन्ति .
गतकलाः
गम्यकलाश्च
षष्टिगुणिताः
सूर्याचन्द्रमसॊर्गत्यन्तंतरॆण भक्ताः फलं
क्रमॆण वर्तमानातिथॆः गतघटिका गम्यघटिकाश्च भवन्ति .. 66 ..
अथ पञ्चाङ्गावशिष्टं करणानयनं विवक्षुस्तावत्स्थिरकर्णान्याह—
ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम् ..
किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्चापरार्धतः 67
.
कृष्णपक्षीयायाः .
चतुर्दशीतिथॆः
द्वितीयार्धाद् द्वितीयार्धामारभ्य इत्यर्थः
स्थिरकर्णानि स्युः . तान्याह
शकुनिकरणं प्रथमम् !
नागांख्यं द्वितीयम्
चतुष्पदाख्य तु तृतीयम्
किंस्तुघ्नाख्यं चतुर्थॆ करणमस्ति . अयमर्थः . प्रतिमासं कृष्णपक्षीयचतुर्दश्या अपरार्धॆ शकुनिकरणम् . अमापूर्वार्धॆ नागकरणम् . अमाया उत्तरार्धॆ चतुष्पदाख्यं करणम् . शुक्लपक्षीय प्रतिपत्पूर्वार्धॆ किंस्तुघ्ननामकरणमिति ..
अथ चरकरणान्याह-
बवादीनि ततः सप्त चराख्यकरणानि च ..
मासॆऽष्टकृत्व ऎकैकं करणानां प्रवर्ततॆ .. 68 ..
.
स्थिरकरणकथनानन्तरं शुक्लपक्षीयप्रतिपदपरार्धतः
बवकरणमादियॆषां तानि
बवम्, बालवम्, कौलवम्, तैतिलम्, गरम्, वणिजम्, विष्टिः ,
इति सप्तसंख्याकानि
चर
करणानि भवन्ति .
ऎकस्मिश्चान्द्रमासॆ
बवादिसप्तकरणानां मध्यॆ
ऎकमॆकं करणं
अष्टावृत्तिः
प्रकर्षॆण भवतीत्यर्थः .. 68 ..
अथ सर्वॆषां करणानां भॊगं स्फुटगतॆः समाप्तिं चाह—
तिथ्यर्धभॊगं सर्वॆषां करणानां प्रकल्पयॆत् .
.
ऎषा स्फुटगतिः प्रॊक्ता सूर्यादीनां खचारिणाम् 69.
.
चरकरणानां स्थिरकरणानां च
तिथ्यर्धकालमितावस्थानं
कल्पनां कुर्या दित्यर्थः
सूर्य आदिर्यॆषां तॆ सूर्यादयस्तॆषां
खॆटानां
अदृश्यॆत्यादिप्रकल्पयॆदित्यन्तं यावत्
स्पष्टगतिः स्पष्टक्रियाज्ञानसंपादिका
तुभ्यं प्रति मया कथिता .
ऎतॆन स्पष्टाधिकारः परिपूर्तिमाप्त इति सूचितम् .. 69 ..
इति श्रीसिद्धान्तवागीश माधवप्रसादपुरॊहितविरचितायां सौरदीपिकायां द्वितीयः स्पष्टाधिकारः सम्पूर्णः .. 2 ..
अथ त्रिप्रश्नाधिकारः .
तत्र विना प्रश्र्नं गुरॊस्तत्प्रतिपादनॆच्छामुदयाद्विना च तदिच्छ छात्राणां तज्ञज्ञानासम्भवात्त्रयाणां दिग्दॆशकालानां प्रश्नाः सॊत्तरा यस्मिन्नधिकारॆ स त्रिप्रश्नाधिकारः .
तत्र प्रथमं दिग्ज्ञानमाह—
शिलातलॆऽम्बुसंशुद्धॆ वज्रलॆपॆऽपि वा समॆ ..
तत्र शंक्वङ्गुलैरिष्टैः समं मण्डलमालिखॆत् .. 1 ..
तन्मध्यॆ स्थापयॆच्छकुं कल्पना द्वादशागुलम् ..
तच्छायाग्रं स्पृशॆद्यत्र वृत्तॆ पूर्वापरार्धयॊः .. 2 ..
तत्र बिन्दू विधायॊभौ वृत्तॆ पूर्वापराभिधौ .
तन्मध्यॆ तिमिना रॆखा कर्तव्या दक्षिणॊत्तरा .. 3 ..
याम्यॊत्तरदिशॊर्मध्यॆ तिमिना पूर्वपश्चिमा ..
दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्भदॆव हि ..4 ..
.
दिक्साधनॊपक्रमॆ
अम्बुना जलसमीकृत्
शिलाप्रदॆशॆ
अथवा
अनॆकवस्तुमिश्रितपदार्थस्य लॆपॊ यस्मिन् स वज्रलॆपस्तस्मिन् वज्रलॆपकृत चत्वरादौ
समस्थानॆ भूमिपृष्टॆ
अभीप्सितै:
शङ्गुः प्रमाणाङ्गुलैः
अवक्रं नतॊन्नतरहितम्
वृत्तम् क्षितिजाख्यं
रचयॆत् .
तद्वृत्तकॆन्द्रॆ
कल्पनयाद्वादशसङ्ख्याकांगुलानि तुल्यानि यस्मिंस्तं द्वादशविभागात्मकमित्यर्थः
काष्ठादिनिर्मितं दण्डं
न्यसॆदित्यर्थः .
स्थापितशङ्गॊच्छायाग्रं
लिखित मण्डलॆ
दिनस्य पूर्वाह्नपराह्नयॊः
यस्मिविभागॆ
स्पर्श कुर्यात्
द्वौ
बिन्दुरूपचिह्नॆ
पूर्वापराख्यौ
कृत्वा
पूर्वापर बिन्दौ मध्यॆ
मत्स्यॆन
सरळा रॆखा
कार्या
सा याम्यॊतरा रॆखा भवति .
दक्षिणॊत्तरदिशॊ:
मध्यस्थानॆ
मत्स्यॆन
पूर्वापरा रॆखा कार्यॆत्यर्थः .
पूर्वॊक्तप्रकारॆणैव
दिग् द्वया न्तरॊत्पन्नमत्स्यैः .
मत्स्यान्तरमत्स्यैरित्यर्थः
निश्चयॆन
कॊणदिशः
संसाध्याः सम्यक् प्रकारॆण साध्याः .. 1 .
2 .
3 .
4 .
अथ तात्कालिकच्छायाग्रस्थानमाह—
चतुरस्र बहिः कुर्यात्सूत्रैर्मध्याद्विनिर्गतैः..
भुजसूत्रांगुलैस्तत्र दत्तरिष्टप्रभा स्मृता .. 5..
सौरदीपिका.
दिग्रॆखासम्पातरूपमध्यचिह्नात्
निःसृतैः
अष्टदिग्रॆखारूपसूत्रैः
वृत्ताद्बहिः
समचतुर्भुजं वर्गक्षॆत्रं
रचयॆदित्यर्थः .
समचतुर्भुजॆ
वक्ष्यमाणभुजमितसूत्रस्यांगुलैः
पूर्वापरसूत्रादर्धज्यावदीयमानः
इष्टच्छाया
कथिता .. 5 ..
प्राक्पश्चिमाश्रिता रॆखा प्रॊच्यतॆ सममण्डलम् ..
उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्यतॆ .. 6 ..
सौरदीपिका.
पूर्वपश्चिमसम्बद्धा साधिता .
पूर्वपररॆखा
समवृत्तं
कथ्यतॆ. वृत्तान्तःस्थिता पूर्वापररॆखा सममण्डलपदॆनॊच्यत इत्यर्थः .
सैव रॆखॊन्मण्डलं .
सैव रॆखा विषुववृत्तं च
कथ्यत इत्यर्थः .. 6..
अथाग्रज्ञानमाह—
रॆखा पाच्यपरा साध्या विषुवद्भाग्रगा तथा..
इष्टच्छायाविषुवतॊमध्यमग्राभिधीयतॆ .. 7..
.
पलभाग्रगा दक्षिणॊत्तररॆखायां विषु वच्छाया यत्र लग्ना तत्स्थानस्पर्शिनीत्यर्थः .
पूर्वापररॆखानुकारा रॆखा
पूर्वांपररॆखायाः समानान्तरॆत्यर्थः .
कार्यॆत्यर्थः .
इष्टच्छायाग्रपलभाग्ररॆखयॊः
पूर्वलिखितचतुरस्रॆऽङ्गलात्मकमन्तरम्
कर्णवृत्ताग्रा
कथ्यतॆ .. 7..
अथ प्रसंगाशातच्छायातः कर्णज्ञानं तच्छुद्धिं चाह—
शंकुच्छायाकृतियुतॆमूलं कर्णॊऽस्य वर्गतः ..
प्रॊज्झ्य शंकुकृतिं मूलं छाया शंकुर्विपर्ययात् ..8..
सौरदीपिका.
शंकॊश्छायायाश्च वर्गयॊगस्य
पदं
छायाकर्णः स्यात् .
छायाकर्णस्य
कृतॆः सकाशात्
शंकुवर्गं
पातयित्वा
शॆषस्य पदं
प्रभास्यात् .
छायासाधनवैपरीत्यात् . कर्ण वर्गॆ छायावर्गहीनॆ यच्छॆषं तस्य मूलमित्यर्थः .
द्वादशांगुलशंकुः स्यात् .. 8 ..
अथायनांशानामानयनमाह—
त्रिंशत्कृत्यॊ युगॆ भानां चक्रं प्रापरिलम्बतॆ.. तद्गुणाद्भूदिनैर्भक्ताद्द्युगणाद्यदवाप्यतॆ .. 9 ..
तद्दॊस्त्रिघ्ना दशाप्तांशा विज्ञॆया अयनाभिधाः ..
सौरदीपिका.
महायुगॆ
नक्षत्राणां
वृत्तं क्रान्तिवृत्तमित्यर्थः .
त्रिंशताकृतिर्विंशतिः . त्रिंशद्गुणितविंशतिः . षट्शतमिति यावत् .
पूर्वभागॆ
ध्रुवाधारभगॊलस्थानान्तवारमवलम्बतॆ . अर्था स्वमार्गॆ प्रतीच्या कियद्भिर्भागैरचलित्वा ततः परावर्त्य स्वस्थानं प्राप्य . पुनश्च तावद्भिरंशैः पूर्वस्यां चलति ततॊऽपि परावर्त्य यथास्थितं मवतीत्यॆकॊ विलक्षणॊ भगणः . तॆन प्रागित्युपलक्षणम् . संवाद कालॆ प्रागवलम्बनॆन प्राक्परिलम्बत - इत्युक्तम् .
षट्शतगुणितात्
अहर्गणात्
युगल कुदिनैः
हृतात्
यल्लभ्यतॆ
तस्य
भुजः कार्यः
भुजांशास्त्रिभिर्गुणिताः, कार्याः
तॆभ्यॊ दशभक्तॆन लब्धाः
अयनाख्याः
विशॆषॆण बॊध्याः .. 9..
स्पष्टाधिकारॆ कान्त्याधानयनमुक्तं तत्कॆवलाद्ग्रहान्न साध्यमित्याह—
तत्संस्कृताद्ग्रहात्क्रान्तिच्छायाचरदलादिकम्..10..
सौरदीपिका.
अयनांशसंस्कृतात्
गणितागत खॆटात्
क्रान्तिरपमश्छाया वक्ष्य माणाः. चरदलं चरमादिशब्दाल्लग्नमायनवलनमायनदृक्कर्म च संगृह्यतॆ. तत् साध्यम् .. 10 ..
अथायनांशानां प्रत्यक्षसिद्धत्वमाह—
स्फुटं दृक्तुल्यतां गच्छॆदयनॆ विषुवद्वयॆ .
प्राक् चक्रं चलितं हीनॆ छायार्कात्करणागतॆ ..11..
अन्तरांशैरथावृत्य पश्चाच्छॆषैस्तथाधिकॆ .
सौरदीपिका.
दक्षिणायनॆ तथा उत्तरायणॆकक्र्कादौ मकरा दौ चॆत्यर्थः .
गॊलसन्धौ मॆषा दौ वा तुला दौ चह्नितं चक्रं
दृष्टिगॊचरतां
प्रत्यक्षं
भवॆ दयनद्वयॆ परमक्रान्तित्वाद्विषुवद्वयॆ च क्रान्त्यभावादित्यर्थः .
छायार्कॊ वक्ष्यमाणस्तस्माच्छायार्कात्
गणितागतस्फुटार्कॆ
न्यूनॆ सति
भचक्र
पूर्वभागॆ
गतम् .
छाया र्काऊत्करणागतॆऽधिकॆ सति
गणितागतकरणागत सूर्ययॊरन्तरांशैः
भचक्रं परिवर्त्य
प्रत्यक्
चलितमित्यर्थः . ज्ञॆयम् .. 11 ..
अथ चराद्युपजीव्यां पलभामाह—
ऎवं विषुवती छाया स्वदॆशॆ या दिनार्धजा .. 12 ..
दक्षिणॊत्तररॆखायां सा तत्र विषुवत्प्रभा ..
- सौरदीपिका.
स्वाभीष्टदॆशॆ
अयनांशसंस्कृतसूर्यॊत्पन्ना.
विषुवद्दिनसम्बद्धा
माध्याहिकी
याचप्रमाणा
द्वादशांगुलशंकॊश्छाया
याम्यॊत्तरॆखायां
तावत्प्रमाणा
स्वाभीष्टदॆशॆ
पलभा भवति .. 12 ..
अथ लम्बाक्षयॊरानयनमाह—
शङ्कुच्छायाहतॆ त्रिज्यॆ विषुवत्कर्णभाजितॆ ..13..
लम्बाक्षज्यॆ तयॊश्चापॆ लम्बाक्षौ दक्षिणौ सदा ..
सौरदीपिका.
स्थानद्वयस्थापितॆ त्रिज्यॆ
द्वादशाङ्गुलशंकुपलभागुणितॆ . ऎकत्र शङ्कुगुणितापरत्र पलभया गुणितॆ त्यर्थः .
पलकर्णॆनॊभयत्र भाज्या, फलॆ क्रमॆण
यत्र शङ्कुना त्रिज्या पलकर्णमक्ता तत्र लब्धं लम्बज्या स्यादन्यत्राक्षज्या स्यात् .
लम्बाज्याक्षज्ययॊः
धनुषी
क्रमॆण लम्बांशाक्षांशौ स्याताम् .
सर्वकालॆ, उभयगॊल इत्यर्थः . तौ
दक्षिण दिक्स्थौ भवतः .. 13 ..
अथ मध्यच्छायावशॆनाक्षांशानयनमाह—
मध्यच्छाया भुजस्तॆन गुणिता त्रिभमौर्विका 14
स्वकर्णाप्ता धनुर्लिप्ता नतास्ता दक्षिणॆ भुजॆ ..
उत्तराश्चॊत्तरॆ याम्यास्ताः सूर्यक्रान्तिलिप्तिकाः 15
दिग्भॆदॆ मिश्रिताः साम्यॆ विश्लिष्ट्याश्चाक्षलिप्तिकाः..
सौरदीपिका.
स्वॆष्टमध्याह्नॆ साधितदिङ्मध्यगतशङ्कॊर्दक्षिणॊ- त्तररॆखास्थच्छाया
माध्याह्निकॊ भुजः
भुजॆन
त्रिज्या
हता
मध्याह्नच्छायाकर्णॆनाप्ता
फलस्य चापं
कलाः
रवॆर्नतलिप्ताः स्युः .
नतकलाः
भुजॆ दक्षिणदिक्स्थॆ सति
उत्तरदिक्काः स्युः.
उत्तरगॆ भुजॆ सति
दक्षिणाः .
नतलिप्ताः
सूर्यापमकलाः
दॆशॊभिन्नत्वॆ
युक्ताः कार्याः
दिक्साम्यॆ
अन्तरिताः कार्याः
अक्षकला नन्ति .. 14 . 15 ..
अथाक्षांशॆभ्य पलभानयनमाह—
ताभ्यॊऽक्षज्या च तद्वर्गं प्रॊज्झ्य त्रिज्याकृतॆः पदम् 16
लम्बज्यार्कागुणाक्षज्या विषुवद्भाथ लम्बया ..
.
अक्षकलाभ्यः
अक्षांशज्या भवति .
समुञ्चयॆ
अक्षज्यावर्ग
त्रिभज्या वर्गात्
त्यक्त्वा
मूलं
लम्बांशज्या भवति .
अनन्तरम्
अक्षांशज्या.
द्वादशगुणा
लम्बज्या भक्ता फलं
पलभा स्यात् .. 16 ..
अथ छायार्कसाधनमाह—
स्वाक्षार्कनतभागानां दिक्साम्यॆन्तरमन्यथा ..17..
दिग्भॆदॆऽपक्रमः शॆषस्तस्य ज्या त्रिज्यया हता..
परमापक्रमज्याप्ता चापं मॆषादिगॊ रविः .. 18.. .
कर्कादौ प्रॊज्झ्य चक्रार्धात्तुलादौ भार्धसंयुतात् ..
मृगादौ प्रॊज्झ्य भगवान्मध्याहॆऽर्कः स्फुटॆ भवॆत् ..
सौरदीपिका.
स्वदॆशीयाक्षांशानां मध्यच्छाया भुज स्तॆन गुणिता त्रिभमौर्विका, इत्यादिना साधितानामर्कनतांशानां च
ऎकदिक्स्थॆ
वियॊगं कार्यम् .
अन्यदिक्त्वॆ
यॊगः कार्यः .
संस्कारॊत्पन्नॊऽङ्कः
सूर्यस्य क्रान्तिः स्यात् .
क्रान्तॆः
भुजज्या
त्रिराशिज्यया
गुण्या
परमक्रान्तिज्यया भक्ता
फलस्य धनुः
मॆषादिराशित्रयान्तर्गतः
सूर्यः स्यात् .
कर्कादित्रयॆ
षड्राशितः
त्यक्त्वा
तुलादिराशित्रयॆ भाधंसंयुतात षड्राशियुतादागतार्कः.
मकरादिराशित्रयॆ
द्वादशराशिभ्यः
त्यक्त्वा शॆषं
मध्याहकालॆ
सूर्यः स्पष्टॊ भवॆत् .. 17 . 18 ..
अथागतस्पष्टसूर्यान्मध्यमार्कानयनमाह—
तन्मान्दमसकृद्वामं फलं मध्यॊ दिवाकरः.. 16..
सौरदीपिका.
स्फुटार्कात्साधितं मन्दफलं
_ विलॊमम्
अनॆकवारं स्पष्टसूर्यॆ संस्कार्यम् . अयमर्थः . स्फुटार्कस्य मन्दफलॆन स्फुटार्कॊ वामं संस्करणीयः . कॆन्द्रॆ ऋणात्मकॆ स्फुटार्कॆ धनं, धनात्मकॆ ऋणं कार्य स च संस्कारॊऽसत्कार्य ऎवमसकृत्कर्मणा साधितः
सूर्यः
मध्यमॊ भवॆत् .. 19 ..
अथ मध्यच्छायाकर्णयॊः साधनमाह—
स्वाक्षार्कापक्रमयुतिर्दिक्साम्यॆऽन्तरमन्यथा ..
शॆष नतांशाः सूर्यस्य तदाहुज्या च कॊटिज्या..20
शंकुमानांगुलाभ्यस्तॆ भुजत्रिज्यॆ यथाक्रमम् ..
कॊटिज्यया विभज्यासॆ छायाकर्णावहर्दलॆ .. 21 ..
सौरदीपिका.
दिगैकत्वॆ
स्वदॆशीयाहांशानां सूर्यकान्त्यंशानां च यॊगः
दिग्भॆ
वियॊगः कार्यः .
संस्कारॊत्पन्नमुभयत्र
अर्कस्य
मध्याह्नॆ नतांशाः भवन्ति .
तॆषां नतांशानां भुजज्या दृग्ज्या र स्यात्, नवतिशुद्धा नतांशाः कॊटिस्तदुत्पन्ना ज्या कॊटिज्या महाशंकुः स्यात्
भुजज्यात्रिज्यॆ
शंकुमानांगुलैर्द्वादशभिः संगुण्यॆ
नतांशॊननक्त्यंशाना - ज्यया
भक्त्वा
लब्धॆ
मध्याह्नॆ
छाया तत्कौर्णौ
यथाक्रमॆण भवतः . प्रथमस्थानॆ या लब्धिः सा मध्याहच्छाया द्वितीयस्थानॆ या लब्धिः सा च मध्याह्नच्छायाकर्णौ भवतीत्यर्थः .. 20 . 21 ..
अथ भुजसाधनं विवक्षुः प्रथममयां कर्णाग्र भानयति—
क्रान्तिज्या विषुवत्कर्णगुणाप्ता शंकुजीवया ..22
अर्काग्रा स्वॆष्टकर्णघ्नी मध्यकर्णॊद्धृता स्वका..
सौरदीपिका.
अर्कक्रान्तिज्या
पलकर्णॆन गुणा
शंकुज्यया द्वादशांगुलरूपशंकुज्ययॆत्यर्थः द्वादशभिरिति यावत् .
भक्ता फलम्
सूर्यस्या भवति . सा
अभीष्टकालिकच्छायाकर्णॆन गुण्या
मध्याह्निककर्णॆनार्थात् त्रिज्यया भाज्या लब्धा
अभीष्टकालिकाग्रा स्यात् .. 22 ..
अथ भुजानयनमाह—
विषुवद्भायुतार्काग्रा याम्यॆ स्यादुत्तरॊ भुजः .. 23..
विषुवत्यां विशॊध्यॊदग्गॊलॆ स्याबाहुरुत्तरः..
विपर्यया जॊ याम्यॊ भवॆत्प्राराच्यपरान्तरॆ .. 24 ..
माध्याह्निकॊ भुजॊ नित्यं छाया माध्याह्निकी स्मृता .
. -
दक्षिणगॊलॆ
सूर्यस्याभीष्टकालिक कर्णाग्रा
पलभया युक्ता
ही शंकुमूलादुत्तरॊं भुजः स्यात्
उत्तरगॊलॆ
पलभायां
कर्णाग्रां त्यक्त्वा शॆषम्
उत्तर दिक्कः
भुजः स्यात् .
विपरीत शॊधनात् . कर्णाग्रायां पलभायाः शॊधनात्
दक्षिणः
बाहुः
छायाग्रात् पूर्वा . परसूत्रान्तरालप्रदॆशॆ स्यात् . अयमर्थः . दिङ्मध्यस्थापितशंकुच्छायाग्रॆ बिन्दुं कृत्वा दिङ्मध्यपूर्वापररॆखाछायाग्रपर्यन्तं भुजश्चॆदुत्तर ऎव भुजः . . दक्षिणभुजश्चॆदक्षिणभुज ऎव भुजः . दिङ्मध्यपूर्वापररॆखाछायाग्रपर्यन्तं पूर्वॊक्तप्रकारॆण यदा भुजाभावस्तदा दिङ्मध्यस्थापितशंकॊश्छायाग्रमपि
पूर्वापररॆखायामॆव तिष्ठति .
मध्याह्नकालीनः
बाहुः
सदा
मध्याहकालिकी
छाया कथिता .. 23 . 24 ..
अथ सममण्डलकर्णामयनमाह—
लम्बाक्षजीवॆ विषुवच्छायाद्वादशसङ्कणॆ .. 25 ..
क्रान्तिज्याप्तॆ तु तौ कर्णौ सममण्डलमॆ स्वौ ..
सौरदीपिका.
लम्बज्याक्षज्यॆ
क्रमॆण पलभाद्वादशगुणितॆ
उभयत्रक्रान्तिज्यया भक्तॆ फलॆ
समवृत्तस्थॆ
सूर्यॆ .
छायॊत्पन्नौ कर्णौ भवतः .
तुकारादुभयत्र सम वृत्तस्थॆऽर्कॆ द्वादशांगुलशङ्कॊश्छायाकर्णः स्यात् .. 25 ..
अथ प्रकारान्तरॆण सममण्डलकर्णानयनमाह—
सौम्याक्षॊना यदा क्रान्तिः स्यात्तदा द्युदलश्रवः..26..
विषुवच्छाययाभ्यस्तः कर्णॊ मध्याग्रयॊद्धृतः..
सौरदीपिका.
यस्मिन्दॆशॆ यस्मिन्समयॆ
उत्तरा
अपमः
अक्षादल्पा
तस्मिन्दॆशॆ तस्मिन्कालॆ सममण्डलगॆ रवौ द्वादशाङ्गलशङ्कॊश्छायाकर्णौ भवति नान्यथा . अथ
पूर्ववदानीतॊ द्युदलकर्णः मध्याह्नकालॆ छायाकर्णः
पलभया
गुणितः
मध्याह्नकर्णाग्रया
भक्तः . फलं
सममण्डलस्थॆ ग्रहॆ द्वादशाङ्गलशङ्कॊश्छायाकर्णः स्यात् .. 26 ..
पुनरमायाः साधनमाह—
स्वक्रान्तिज्यात्रिजीवानी लम्बज्याप्ताप्रमौर्विका ..27..
स्वॆष्टकर्णहता भक्का त्रिज्ययाग्राङ्गलादिका ..
सौरदीपिका. -
स्वाभीष्टापमज्या
त्रिज्यया गुणिता
लम्बज्यया भक्ता फलं
अप्रैव मौर्विका जीवा इत्यप्रमौर्विका अग्रा भवतीत्यर्थः . सा
स्वष्टक
स्वाभिमतकर्णॆन गुणिता
त्रिभज्यया
हृता फलम्
अङ्गलामिकामा
त्कर्णवृत्ताग्रा भवति .. 27 ..
अथ कॊणशंकुहग्ज्ययॊः साधनमाह—
त्रिज्यावर्धितॊऽप्रज्यावर्गॊनाहादशाहतात् ..28..
पुनर्दादशनिघ्नाच लभ्यतॆ यत्फलं बुधैः..
शङ्कुवर्गार्धसंयुक्तविषुवर्गभाजितात् .. 29 ..
तदॆव करणी नाम तां पृथक् स्थापयॆद्बुधः ..
अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा .. 30 ..
भक्ता फलाख्यं तद्द्वर्गसंयुक्तकरणीपदम् ..
फलॆन हीनसंयुक्तं दक्षिणॊत्तरगॊलयॊः .. 31 ..
याम्ययॊर्विदिशॊः शङ्कुरॆवं याम्यॊत्तरॆ स्वौ ..
परिभ्रमति शङ्कॊस्तु शङ्कुरुत्तरयॊस्तु सः .. 32 ..
तत्त्रिज्यावर्गविश्लॆषान्मूलं दृग्ज्याभिधीयतॆ ..
.
त्रिज्यावर्गस्यार्धात्
अग्रज्याया वर्गॆण हीनात् शॆषात्
द्वादशगुणितात्
द्वितीयवारं
द्वादश गुणात्
चः समुच्चयॆ
द्वादशाङ्गुलशङ्कॊवर्गार्धॆन युक्तं यत्पलभावर्गं तॆन भाजितात्
गणितज्ञैः
यावत्संख्यामितं
फलं प्राप्यतॆ
तावत्संख्यामितं फलमॆव
करणीसंज्ञा ज्ञॆयॆत्यर्थः .
गणकः
करणी
ऎकान्तॆ
स्थापनं कुर्यात् .
पलभा
द्वादशगुणिता
पूर्वगृहीतयाग्रज्यया
हता
शङ्कुवर्गार्धसंयुतपलभावर्गॆण भक्ताप्तं
फलसंज्ञं स्यात् .
फलस्य वर्गॆण युतायाः करण्या मूलं
याम्यॊदग्गॊलयॊः क्रमॆण
फलाख्यॆन
हीनयुतमर्थादक्षिणगॊलगॆऽर्कॆ फलाख्यॆनॊनमुत्तरगॊलगॆ रवौ युतम् .
उक्तप्रकारॆण
सिद्धशंकुः
गणितकर्तुः सकाशात्
दक्षिणॊत्तरॆ
सूर्यॆ
सति
तुकारात्क्रमॆण
दक्षिणयॊरुत्तस्यॊश्च
कॊणयॊः, आग्नॆयनैर्ऋत्यॊरीशानवायव्यॊरित्यर्थः
कॊणाख्यः
नरः स्यात् .
कॊणशंकुत्रिज्यावर्गयॊरन्तरात्
पदं
नतांशज्या
उच्यतॆ . अत्रॆयमभिसन्धिः . यदा यत्र दॆश उत्तरक्रान्तिः स्वदॆशाक्षांशॆभ्यॊ न्यूना तदा, तस्मिन्दॆशॆ सममण्डलकालात्परतः करणीपदमक्षफलान्वितं पूर्वापराह्वयॊर्याम्यकॊणयॊरॆकशंकुः स्यात् . ऎवं पूर्वॊक्तप्रकारॆण यदा यद्दॆशॆऽर्कक्रान्तिरुत्तरा स्वदॆशाक्षांशॆभ्यॊऽधिका तदा तामॆव शॆषाक्षफलान्वितां करणीयमॆवं पूर्वापराह्वयॊरीशानवायव्ययॊः शंकुः स्यात् .. 28 . 26 . 30 . 31 . 32 ..
अथैतच्छायाछायाकर्णयॊरानयनमाह—
स्वशङ्कुना विभज्याप्तॆ दृक्त्रिज्यॆ द्वादशाहतॆ .. 33 ..
छायाकर्णौ तु कॊणॆषु यथास्वं दॆशकालयॊः .. * *
सौरदीपिका.
कॊणीयदृग्ज्यात्रिज्यॆ
द्वादशगुणॆ
कॊणशंकुना
भक्त्वा
लब्धॆ
छायाछायाकर्णौ
तुकारात्क्रमॆण दॆश कालानुरॊधॆन वा
चतुर्षु कॊणॆषु
दॆशकालानुरॊधॆन
स्वमनतिक्रम्यॆति यथास्वं, यथादॆशं यथाकालं यथाकॊसं कॊणशङ्कॊः सम्भवस्तत्र छायाकौँ भवतः इत्यर्थः .. 33 ..
अथ दिक्सम्बन्धॆन छायाकर्णावुक्त्वा कालसम्बन्धॆनाह—
त्रिज्यॊदक्चरजायुक्ता याम्यायां तद्विवर्जिता..34..
अन्त्या नतॊत्क्रमज्यॊना स्वाहॊरात्रार्धसङ्गुणा
त्रिज्याभक्ताभवॆच्छॆदॊलम्बज्यानॊऽथभाजितः 35
त्रिभज्यया भवॆच्छङ्कुस्तद्वर्ग परिशॊधयॆत् ..
त्रिज्यावर्गात्पदं दृग्ज्या छायाकर्णौ तु पूर्ववत् 36
.
त्रिभज्या
उत्तरगॊलॊत्पन्न चरासुभुजज्यया युता . उदक्चरज्यया युता कार्यॆत्यर्थः .
दक्षिणगॊलॆ
चरज्यया हीना कार्या शॆषम्
अन्त्या स्यात् . सा
नतकालॊत्क्रमज्ययॊनान्त्या शॆषमिष्टान्त्या भवति . सा
स्वकीयाहॊरात्रवृत्तव्यासार्धॆन गुणिता
त्रिभज्यया भक्ता फलं
छॆदसंज्ञः
स्यात् .
अनन्तरं छॆदः
लम्बज्यया गुणितः
त्रिज्यया
भाज्यः फलं
इष्टकालॆ शंकुः स्यात् .
शंकुवर्ग
त्रिभज्यावर्गात्
विशॊधयॆत् . शॆषस्य
मूलं
भुजज्यारूपा नतांशज्या स्यात् . *
तुकारादाभ्यां शङ्कुदृग्ज्याभ्यां
पूर्वॊक्तरीत्या
छायाछायाकर्णौ साध्यौ .. 34 . 35 . 36 ..
अथ छायाकर्णाभ्यां नतकालानथनमाह—
अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता ..
दृग्ज्या तद्वर्गसंशुद्धा त्रिज्यावर्गाच्च यत्पदम् ..37..
शङ्कुः स त्रिमजीवाघ्नः स्वलम्बज्याविभाजितः..
छॆदःसत्रिज्ययाभ्यस्तः स्वाहॊरात्रार्धभाजितः..38..
उन्नतज्या तया हीना स्वान्त्या शॆषस्य कार्मुकम् ..
उत्क्रमज्याभिरॆवं स्युःप्राक्पश्चार्धनतासवः.. 36..
सौरदीपिका.
त्रिभज्या
अभीष्टकालिक च्छायया
गुणिता
अभीष्ट च्छायाकर्णॆन भक्ता फलं
नतांशज्या स्यात् .
दृग्ज्यावर्गॆण हीनात्
त्रिराशिज्याकृतॆः
यन्मूलं तत्
अभीष्टशंकुः स्यात् .
शंकुः
त्रिज्यया गुणितः
स्वदॆशीयलम्बज्यया भक्तः फलं
इष्टहतिः स्यात् .
छॆदः
त्रिराशिज्यया
गुणितः
स्वाज्यया भक्तः फलम्
उन्नतकालवशॆन ज्यार्थादिष्टान्त्यका स्यात् .
इष्टा न्त्यया
रहिता
स्वकीयान्त्या नतॊत्क्रमज्या स्यात्
अवशिष्टस्य नतॊत्क्रमज्यारूपस्य
उत्क्रमज्यापिण्डैः
धनुः कार्यः .
उक्तप्रकारॆण सिद्धाङ्काः
दिनस्य पूर्वा पराधयॊनतकालासवः
भत्रॆयुः धनुरॆव नतासवॊ भवन्ति . इष्टच्छाया पूर्वाह्नॆ चॆत्यागर्धॆ नतासवः, अपराह्णॆ इष्टच्छाया चॆत्पश्चार्धॆ नतासवः .. स्युरित्यर्थः .. 37 .. 38 . 36 ..
अथाग्रातश्छायार्कसाधनमाह—
इष्टाग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता ..
क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमॊद्धृता..40..
तच्चापं भादिकं क्षॆत्रं पदैसत्र भवा रविः..
सौरदीपिका.
स्वदॆशीयलम्चज्या
इष्टकालिक कर्णाग्रया गुणिता
इष्टकालिकछाया कर्णाङ्गुलैर्भक्ता, फलं
इष्टापमज्या स्यात् .
इष्टक्रान्तिज्या
त्रिज्यया गुणिता
परमक्रान्तिज्यया भक्ता यत्फलं सा दॊर्ज्या स्यात् .
तस्या दॊर्ज्यायाः धनुः
राश्यादिकं
स्थानं भुज इत्यर्थः . तत्र क्षॆत्रॆ
उत्पन्नः
सूर्यः
चतुर्भिः पदैः स्यात् . "कर्कादौ प्रॊज्झ्य चक्रार्धात्-" इत्यादि पूर्वॊक्तप्रकारॆण भवतीत्यर्थः ’पदज्ञानं तु सिद्धान्ततत्त्वविवॆकॆ कमलाकरॆणॊक्तम् . तद्यथा-- आद्यॆ पदॆऽपचयनी पलभाल्पिका स्याच्छायाल्पिका भवंति वृद्धिमती द्वितीयॆ .
छायाधिका भवति वृद्धिमती तृतीयॆ तुर्यॆ पुनः क्षयवती तदनल्पिका च ..
वृद्धिं व्रजन्ती यदि दक्षिणाग्रच्छाया तथापि प्रथमं पदं स्यात् .
ह्रासं प्रयान्तीमथ तां विलॊक्य रवॆर्विजानीहि पदं द्वितीयम् ..
अथ भाभ्रमणमाह—
इष्टॆऽह्नि मध्यॆ प्राक्पश्चाद्धृतॆ बाहुत्रयान्तरॆ ..41..
मत्स्यद्वयान्तरयुतॆस्त्रिस्पृक्सूत्रॆण भाभ्रमः..
सौरदीपिका.
अभीष्टदिनॆ
पूर्वापरविभागॆ
भुजत्रयान्तरॆ
चिह्नत्रयॆ कृतॆ सति
अव्यवहितचिह्नाभ्यां मत्स्यद्वयमुत्पाद्य मत्स्यद्वयस्य प्रत्यॆकमुखपुच्छगतसूत्रयॊर्यस्मिन्स्थानॆ यॊगस्तस्मात्
चिह्नत्रयलग्नतुल्यसूत्रमितॆन व्यासार्थॆन
छायाभ्रमणमार्गवृत्तं भवति . प्रथमान्तिमकालान्तर्गतकालिकच्छायाग्रं तद्वृत्तपरिधौ भवतीत्यर्थः .. 41 ..
अथ लङ्कॊदयासुसाधनं तन्निबन्धनं चाह—
त्रिभद्युकर्णार्धगुणाः स्वाहॊरात्रार्धभाजिताः ..12..
क्रमादॆकद्वित्रिभज्यास्तच्चापानि पृथक् पृथक् ..
स्वाधॊऽधः परिशॊध्याथ मॆषाल्लङ्कॊदयासवः..43..
खागाष्टयॊऽर्थगॊऽगैकाः शरत्र्यङ्कहिमांशवः .
सौरदीपिका.
ऎकराशॆः राशिद्वयस्य राशित्रयस्य च ज्या
राशित्रयाद्युकर्णार्धॆनार्थात्परमाल्पद्युज्यया गुण्याः
स्वाहॊरात्रार्धॆन स्वस्वद्युज्ययॆ त्यर्थः भाज्याः
फलानां धनूंषि
भिन्नभिन्नस्थानॆ स्थाप्यानि .
स्वादधॊऽधः
न्यूनीकृत्य . प्रथमफलं द्वितीयफलाद्वितीयफलं तृतीयफला द्धीनं कार्य प्रथमं यथास्थितमित्यर्थः . शॆषं
मॆषमारभ्य. राशित्रयाणां
लङ्कायामुदयासवः
क्रमॆण भवन्तीत्यर्थः . प्रथमं मॆषस्य, द्वितीयं वृषस्य, तृतीय मिथुनस्य लङ्कॊदयासुमानं भवतीति फलितार्थः .
अनन्तरं तन्मानमाह
सप्ततियुतं षॊडशशतं मॆषमानं
पञ्चॊनमष्टादशंशतं वृषमानं
पञ्चत्रिंशदधि
कमॆकॊनविंशतिशतं मिथुनमानं भवतीत्यर्थः .. 42 . 43 ..
अथैभ्यः स्वदॆशॊदयासूनाह—
स्वदॆशचरखण्डॊना भवन्तीष्टॊदयासवः.. 14..
व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः..
उत्क्रमॆण षडॆवैतॆ भवन्तीष्टास्तुलादयः .. 45 ..
. सौरदीपिका. ऎतॆ सिद्धा लङ्कॊदयासवः
स्वदॆशचर खण्डैरूनाः कार्यास्तॆ
स्वदॆशॆ मॆषादीनामुदयासवः
जायन्तॆ .
अनन्तरं
लङ्कॊ दयासवॊ विलॊमक्रमॆण स्थापिताः
स्वदॆशसम्बन्धिमॆषादि राशीनां चरखण्डैः
उदयक्रमॆण स्थापितैः
युक्ताः सन्तः
कर्कटादित्रयाणामसवॊ भवन्ति .
मॆषादीनामुदयासवः ऎव
षट्संख्याकाः
कन्यासिंहकर्कादिक्रमॆण
तुलराशि रादिरॆषान्तॆ तुलादयः . तुलराशिमारभ्य मीनान्तमित्यर्थः .
अभिमतदॆशॊदयासुमानाः
जायन्तॆ .. 44 . 45 ..
अथॆष्टकालिकलग्नसाधनमाह—
गतभॊग्यासवः कार्या भास्करादिष्टकालिकात् ..
स्वॊदयासुहता भुक्तभॊग्या भक्ताः खवह्निभिः ..16..
अभीष्टघटिकामुभ्यॊ भॊग्यासून् प्रविशॊधयॆत् ..
तद्वत्तदॆष्यलग्नसूनॆवं यातान्तथॊत्क्रमात् .. 47..
शॆषं चॆत्रिंशताभ्यस्तमशुद्धॆन विभाजितम् ..
भागहीनं च युक्तं च तल्लग्नं क्षितिजॆ तदा ..48 .
सौरदीपिका.
यत्कालीनं लग्नं साध्यं तत्कालीनात्
सूर्यात्
गतासवॊ भॊग्या
सवश्च
साध्याः . कथं साध्या इत्यत आह .
सूर्याधिष्ठितराशॆभुक्तांशाः भॊग्यॊशाश्च
सूर्याक्रान्तराशॆः स्वॊदयासुभिर्गुणिताः
त्रिंशता
भाज्याः क्रमॆण गतासवॊ भॊग्यासवश्च भवन्ति .
सूर्यॊदयादिष्टकालपर्यन्तं याः गतॆष्टघटिकारस्तामसुभ्यः
भानॊर्भॊ ग्यांशॆभ्यः साधितासून्
पातयॆत् .
सूर्याधिष्ठित राशॆरग्रिमराशीनामुदयासूनपि
क्रमॆण शॊधयॆत् .
उक्तरीत्या
गतासून्
भुक्तराश्युदयासूंश्च
व्यस्तक्रमात् शॊधयॆत् .
यदि शॆषं स्यात्तदा
शॆषं त्रिंशता गुणितम्
यॊ राश्युदयॊ न शुध्यति सॊऽशुद्धस्तॆन
भाज्यं
भागादॆना फलॆन हीनं कार्यमाद्यदि भुक्तासुभ्यः फलं साधितं तदा लब्ध भागादिकं भुक्तभागादिकं चार्कॆ हीनं कार्यम् .
भागादिना फलॆन युतं कार्यमाद्यदि भॊग्यासुभ्यः फलं साधितं तदा लब्धं भागादिफलं भॊग्यभागादिकं चार्कॆ यॊजयॆत्
अभीष्टकालॆ
सिद्धफलं
क्षितिजवृत्तस्य पूर्व विभागॆ
क्रान्तिवृत्तस्य यः प्रदॆशः क्षितिजॆ लग्नस्त दॆव सायनमुदयलग्नं स्यात् .. 46 . 47 . 48 ..
अथ मध्यलग्नानयनमाह—
पाक्पश्चान्नतनाडीभिस्तस्माल्लङ्कॊदयासुभिः ..
भानौ क्षयधनॆ कृत्वा मध्यलग्नं तदा भवॆत् .. 46..
. ___
पूर्वनतघटिकाभिः पश्चिम नतघ- टिकाभिश्च
तात्कालिकसूर्यात्
निरक्षदॆशराश्युदयासुभिः पूर्वॊक्तप्रकारॆण सिद्धं यद्राशिभागादिकं तत्
सूर्यॆ
हीनयुतॆ
पूर्वनतनाडी भिः साधितं फलं रवौ क्षयं पश्चिमनतनाडीभिः साधितं फलं रवौ धनं कार्यमित्यर्थः .
अभीष्टसमयॆ
दशमलग्नं
स्यात् .. 46..
अथ कालसाधनमाह—
भॊग्यासून्नकस्याथ भुक्तासूनधिकस्य च ..
सपिण्ड्यान्तरलग्नासूनॆवं स्यात्कालसाधनम् ..50 ..
सौरदीपिका.
अनन्तरम्
लग्नार्कयॊर्मध्य ऊनस्य
तात्कालिकसूर्यस्य भॊग्यांशॆभ्यः साधितानसन्
लग्नार्कयॊर्मध्यॆ यॊऽधिकस्तस्य
सूर्यस्य भुक्तांशॆभ्यः साधितासून्
लग्नार्कयॊर्मध्यॆ यॆ राशयस्तॆषामुदयासून्
चकारः समुच्चयॆ
संयॊज्य
उक्तप्रकारॆण
कालस्य सिद्धिः स्यात् .. 50 ..
ऎवमानीतस्यॆष्टकालस्य स्थितिमाह—
सूर्यादूनॆ निशाशॆष लग्नॆर्कादधिकॆ दिवा ..
भचक्रार्धयुताद्भानॊरधिकॆऽस्तमयात्परम् .. 51 ..
सौरदीपिका.
अर्कात्
उदयलग्नॆ
न्यूनॆ . सूर्यात्रिराश्यन्तर्गतत्वॆन न्यूनॆ सति
रात्रिशॆषॆ . अर्द्ध रात्रदिनान्तरॆ पूर्वप्रकारॆणानीतॆष्टकालस्य स्थितिरित्यर्थः .
अर्काल्लग्नॆऽधिकॆऽग्रतः स्थितॆ
दिवॆष्टकालॊ ज्ञॆयः .
राशिषट्कन युतात्सूर्यात्
लग्नॆ ऽधिक
सूर्यास्तकालात्
अनन्तरमिष्ट
कालः स्यात् . ऎतॆन रात्रीष्टकालॆ सति सषड्भसूर्याल्लग्नं साध्यमिति सूचितम् .. 51 ..
इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां
सौरदीपिकायां तृतीयस्त्रिप्रश्नाधिकारः .. 3 ..
4 चन्द्रग्रहणाधिकारः
तत्र प्रथम सूर्यचन्द्रयॊबिम्बयॊजनानि तत्स्फुटीकरणं चाह—
सार्धानि षट्सहस्राणि यॊजनानि विवस्वतः ..
विष्कम्भॊमण्डलस्यॆन्दॊ सहाशीत्या चतुःशतम्..1..
स्फुटस्वभुक्त्या गुणितॊ मध्यभुक्तयॊद्धृतौ स्फुटौ.
सौरदीपिका.
सूर्यस्य मण्डलस्य गॊलरूपबिम्बस्य
सहस्रस्यार्धॆन सहितानि
, षष्टि शतं
व्यासः .
चन्द्रस्य गॊलाकारबिम्बस्य
उक्तः- चेप्पँबडिनदि. . तौ व्यासौ
स्पष्टस्वगत्या
हतौ
मध्यगत्या भक्तौ
स्पष्टौ भवतः .. 1 ..
अथ चन्द्रकक्षायां सूर्यबिम्ब साधयंस्तयॊः कलात्मक
विम्बानयनमाह—
खॆः स्वभगणाभ्यस्तः शशाङ्कभगणॊद्धृतः ..2..
शशाङ्ककक्षागणितॊ भाजितॊ वार्ककक्षया ..
विष्कम्भश्चन्द्रकक्षायां तिथ्यासा मानलिप्तिकाः ..3..
सौरदीपिका.
सूर्यस्य
स्पष्टव्यासः
स्वस्य भगणैः सूर्यभगणैर्गुणितः
चन्द्रभगणैर्भक्तः .
अथवा
वक्ष्यमाणचन्द्रकल्या गुणितः
वक्ष्यमाणरविक क्षया
भक्तः सन्
शशाङ्काधिष्ठि ताकाशगॊलॆ सूर्यव्यासः स्पष्टॊ भवति . सूर्यचन्द्रयॊर्व्यासयॊजनसंख्या
पञ्चदशभक्ता
सूर्याचन्द्रमसॊ श्चन्द्रकक्षायां बिम्बव्यासकला भवन्ति .. 2 . 3 ..
स्फुटॆन्दुभुक्ति र्भूव्यासगणिता मध्ययॊद्धृता ..
लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम् .. 4 ..
मध्यॆन्दुव्यासगुणितं मध्यार्कव्यासभाजितम् .
विशॊध्य लब्दं सूच्यां तु तमॊ लिप्तास्तु पूर्ववत् ..
सौरदीपिका.
स्पष्टचन्द्रगतिः
भूव्यासॆन हता
चन्दस्य मध्यगत्या
भक्ता
भजनफलं
सचीसज्ञंस्यात्
भूव्यासॊनस्पस्टरविबिम्बं
मध्यमचन्द्रबिम्बव्यासॆनाशीत्यधिकचतुःशतयॊजनैर्गुणितं
सूर्यस्य मध्यमबिम्बव्यासॆन पञ्चषष्टिशत यॊजनभक्तं
फलं
पूर्वसिद्धायां
न्यूनीकृत्य
तुकाराच्छॆषं
भूच्छायारूपं तमश्छायायास्त मस्वरूपत्वात् .
पूर्वॊक्तप्रकारॆण
कलाः कार्याः
तुकाराद्भच्छायायाः .. 4 .. 5 ..
अथ ग्रहणद्वयसम्भूतिमाह—
भानॊभर्धॆ महीच्छाया तत्तुल्यॆऽर्कसमॆऽपि वा ..
शशाङ्कपातॆ ग्रहणं कियद्भागाधिकॊनकॆ ..6..
सौरदीपिका.
सूर्यात्
राशिषट्कान्तरॆ
भूच्छाया भ्रमति .
सषड्भार्कसमॆ
अथवा
सूर्यतुल्यॆऽपि
चन्द्रपातॆ
सषड्भसूर्यादर्काद्वा कतिपयैगैरधिकॊनॆऽपि चन्द्रपातॆ
सूर्याचन्द्रमसॊर्ग्रहणं भवति .. 6..
अथ ग्रहणयॊः कालमाह—
तुल्यौराश्यादिभिः स्याताममावास्यान्तकालिकॊ ..
सूर्यॆन्दू पौर्णमास्यन्तॆ भार्धॆ भागाधिकॊ समौ ..7..
.
अमान्तकालॊत्पन्नौ
अर्कचन्द्रौ
राश्याद्यवयवैः
समौ
भवॆताम् .
पूर्णिमाया अन्तॆ
राशिषट्कान्तरॆ
अंशादिकौ
तुल्यौ स्याताम् .. 7 ..
अथ समलिप्तीकरणमाह—
गतष्यपर्वनाडीनां स्वफलॆनॊनसंयुतौ ..
समलिप्तौ भवॆतां तौ पातस्तात्कालिकॊऽन्यथा ..8..
- सौरदीपिका.
सूर्यचन्द्रौ
यत्कालिकौ सूर्य चन्द्रौ तत्कालागता ऎष्या वा दर्शान्तपूर्णिमान्तान्यतरघटिकास्तासां
स्वस्वगतिसम्बन्धॆन “इष्टनाडीगुणामुक्तिः—
इत्यादिना साधितफलॆन
क्रमॆण हीनयुतौ
समकलौ
स्याताम् .
चन्द्रपातः
गतैष्यक्रमॆण युतहीनः
पर्वान्तकालिकः स्यात् .. 8..
अथ छाद्यछादकनिर्णयमाह—
छादकॊ भास्करस्यॆन्दुरधास्थॊ धनवद्भवॆत् ..
भूछायां प्राङ्मुखश्चन्द्रॊ विशत्यस्य भवॆदसौ .. 6 ..
सौरदीपिका.
सूर्यस्य
सूर्यादयःस्थितः
चन्द्रः
मॆघवत्
भावर्णकरः
स्यात् . यथाधःस्थॊ मॆघः सूर्यस्याच्छादकॊ भवति तथा
चन्द्रॊ भवतीत्यर्थः .
प्रागभिमुखः
मृगाङ्कॊ गच्छं
महीछायां
प्रवॆशं करॊति . अतः कारणात्
चन्द्रस्य
भूमा छादिका
स्यात् .. 6..
अथ ग्रासानयनमाह—
अथ ग्रासानयनं सम्पूर्णन्यूनग्रहणानं ग्रहणाभावज्ञानं चाह—
तात्कालिकॆन्दुविक्षॆपं छाद्यच्छादकमानयॊः..
यॊगार्धात्प्रॊज्झ्य यच्छॆषं तावच्छन्नं तदुच्यतॆ..10..
यद्ग्राह्यमधिकॆ तस्मिन्सकलं न्यूनमन्यथा ..
यॊगार्धादधिकॆ न स्याद्विक्षॆपॆ ग्राससम्भवः ..11..
सौरदीपिका. 4
यश्छाद्यतॆ स छायः . यश्छादयति
स छादकः . अर्थाच्चन्द्रग्रहॆ चन्द्रश्छायॊ भूभा छादकः . सूर्यग्रहणॆ सूर्यरछाद्यश्चन्द्रश्छादक इति . अनयॊः
मानैक्यार्धात्
तात्कालिकचन्द्रशरमर्थात्पूर्णिमान्त कालिकचन्द्रशरं
न्यूनीकृत्य
यदवशिष्टं
तत्प्रमाणकं
तावत्प्रदॆशात्मक
ग्रास मानम्
कथ्यतॆ .
यस्मात्
ग्राह्य मानं
छन्नमानॆ
ग्राह्यमानात् महति सति
सम्पूर्णग्रहणं भवति
ग्राह्यमानान्न्यूनॆ छन्नॆ ग्रासॆ सति
ग्राह्यमानान्तर्गत ग्रहणं स्यात् .
मानैक्यार्धात्
महति
शरॆ सति
ग्रासस्य सम्भवॆ ग्रहणमित्यर्थः
न भवॆत् .. 10 .. 11 ..
अथ स्थितिमर्धियॊरानयनमाह—
ग्राह्यग्राहकसंयॊगवियॊगौ दलितॊ पृथक् ..
विक्षॆपवर्गहीनाभ्यां तद्वर्गाभ्यामुभॆ पदॆ .. 12 ..
षष्ट्या संगुण्य सूर्यॆन्द्वॊःर्भु क्त्यन्तरविभाजितॆ .
स्यातां स्थितिविमर्दार्धॆ नाडिकादिफलॆ तयॊः ..13..
सौरदीपिका.
छाद्यच्छादकमानयॊर्यॊगान्तरॆ
अर्धितॆ
स्थानान्तरॆ स्थाप्यॆ .
शरवर्गहीनाभ्यां
यॊगवियॊग यॊर्वर्गाभ्याम् यॆ
द्वॆ
मूलॆ भवतस्तॆ
षष्टिसंख्यया
गुणयित्वा
अर्कचन्द्रयॊः
गत्यन्तरकलाभिर्भक्तॆ सति
यॊगवियॊगयॊः स्थानॆ
घटिकादिफलॆ
क्रमॆण स्थित्यर्धविमर्दार्धॆ
भवॆताम् .. 12 . 13 ..
अथ स्थित्यर्धमर्दार्धॆ असकृत्साध्यॆ इत्याह—
स्थित्यर्धनाडिकाभ्यस्ता गतयः षष्टिभाजिताः..
लिप्सादि प्रग्रहॆ शॊध्यं मॊक्षॆ दॆयं पुनः पुनः ..14..
तद्विक्षॆपैः स्थितिदलं विमर्दार्ध तथासकृत् ..
संसाध्यमन्यथा पातॆ तल्लिप्तादिफलं स्वकम् ..15..
सौरदीपिका.
सूर्य-चन्द्र-पातानां गतयः
स्थित्यर्धघटिकाभिर्गुणिताः
षष्टि भक्ताः
कलादिफलं
स्पर्शस्थित्यर्धानयनॆ
तॆषु ग्रहॆषु हीन कार्यम् .
मॊक्षस्थित्यर्धा नयनॆ
तच्चालनफलं तॆषु ग्रहॆषु यॊज्यम् .
चन्द्रपातॆ
स्वगत्या साधितं
तस्य कलादि फलं
विलॊमं स्पर्शस्थित्यर्धनिमित्तं यॊज्यं मॊक्षस्थित्यर्ध निमित्तं हीनं कार्यमित्यर्थः .
ऎवं तात्कालिकचन्द्र पाताभ्यां साधितशरकलाभिः
स्थित्यर्धं स्पर्शस्थित्यर्धं मॊक्षस्थित्यर्धं च
असकृत्साध्यम् .
तॆनैव प्रकारॆण
स्पर्शमर्दार्धं मॊक्षमर्धमित्यर्थः
पुनः पुनः
कार्यमित्यर्थः . ऎवं स्थित्यर्धमर्दार्धॆ स्फुटॆ भवतः .. 14 . 15 ..
अथ मध्यग्रहणस्पर्शमॊक्षकालानाह—
स्फुटतिथ्यवसानॆ तु मध्यग्रहणमादिशॆत् ..
स्थित्यर्धनाडिकाहीनॆ ग्रासॊ मॊक्षस्तु संयुतॆ ..16..
सौरदीपिका.
स्पष्टतिथ्यन्तॆ
तुकारात्स्फुट-तिथ्यन्तॆ ऎव न पूर्वापरकाल इत्यर्थः .
ग्रासॊपचय समाप्तिम्
कथयॆत् .
स्पर्शस्थित्यर्धघटिकाभिरूनॆ स्पष्टतिथ्यन्तॆ
ग्रासारम्भः स्पर्श इत्यर्थः .
मॊक्षस्थित्यर्धयुक्तॆ स्पष्टतिथ्यन्तकालॆ तुः .
ग्रहणसमाप्तिः स्यात् .. 16 ..
अथ सर्वग्रहणॆ निमीलॊन्मीलनकालावाह—
तद्वदॆव विमर्दार्धानाडिकाहीनसंयुतॆ..
निमीलनॊन्मीलनाख्यॆ भवॆतां सकलग्रहॆ .. 17..
सौरदीपिका.
सम्पूर्ण ग्रहणॆ
पूर्वॊक्तप्रकारवदॆव
स्पर्शमॊक्षमर्दार्धघटिकाभिः क्रमॆणॊनयुतॆ स्पष्ट तिथ्यन्तॆ
क्रमॆण निमीलनॊन्मीलनसंज्ञॆ
स्याताम् .. 17 ..
अथॆष्टकाल इष्टग्रासानयनार्धं कॊटिकलानयनमाह—
इष्टनाडीविहीनॆन स्थित्यर्धॆनार्कचन्द्रयॊः..
भुक्त्यन्तरं समाहन्यात्षष्ट्याप्ताः कॊटिलिप्तिकाः18
. -
सूर्यॆन्द्वॊः
गत्यन्तरं
इष्टघटिकाभिरूनॆन
स्पर्शस्थित्य
र्धॆन
गुणयॆत्
षष्टि भक्ताः
छाद्य-छादकबिम्बकॆन्द्रयॊरन्तररूपकॊटॆः लिप्ता भवन्ति .. 10 ..
अथात्र सूर्यग्रहणॆ विशॆषमाह—
भानॊर्ग्रहॆ कॊटिलिप्ता मध्यस्थित्यर्धसंगुणाः..
स्फुटस्थित्यर्धसम्भक्ताः स्फुटाः कॊटिकलाः स्मृताः 19
सौरदीपिका.
सूर्यस्य
ग्रहणॆ
कॊटि कलाः
सूर्यग्रहणॊक्तस्पष्टशरानीतस्थित्यर्धॆन हताः
सूर्यग्रहणॊक्तस्फुटस्थित्यर्धॆन भक्ताः
कॊटॆः कलाः
स्पष्टाः
कथिताः .. 16 ..
अथॆष्टमासानयनमाह—
क्षॆपॊ भुजस्तयॊर्वर्गयुतॆर्मूलं श्रवस्तु तत् ..
मानयॊगार्धतःप्रॊज्झ्य ग्रासस्तात्कालिकॊ भवॆत् 20
- सौरदीपिका.
तात्कालिकशरः
भुजसंज्ञकः स्यात् .
भुजकॊट्यॊः
वर्गयॊगात्
पदं
कर्णः स्यात् .
कर्णः
मानैक्यार्धात्
विशॊध्य
इष्टकालिकः
अवान्तासः
स्यात् .. 20 ..
अथ मध्यग्रहणानन्तरमिष्टग्रासानयनमाह—
मध्यग्रहणतश्चॊर्धमिष्टनाडीविशॊधयॆत् ..
स्थित्यर्धान्मौक्षिकाच्छॆषं प्राग्वच्छॆषं तु मौक्षिकॆ21..
सौरदीपिका.
मध्यग्रहणकालात् . स्पष्टतिथ्यन्तादित्यर्थः
अनन्तरम् . उपरीत्यर्थः .
इष्टघट्यः . इष्टघटिकासम्बन्धिकर्म इत्यर्थः
मॊक्ष कालिकस्थित्यर्धात्
त्यजॆत्
शॆषकर्म
भुक्त्यन्तरं समाहन्यादित्यादिप्रकारॆण कुर्यात् .
मॊक्षस्थित्यर्धान्तर्गतॆष्टकालॆ
उर्वरितॊ ग्रासॊ भवति . न पूर्ववद्गत इत्यर्थः .. 21..
अथॆष्टग्रासादिष्टकालानयनमाह—
ग्राह्यग्राहकयॊगार्धाच्छॊध्याः स्वच्छन्नलिप्तिकाः ..
तद्वर्गात्प्रॊज्झ्य तत्कालविक्षॆपस्य कृतिं पदम् ..22..
कॊटिलिप्ता रवॆः स्पष्टस्थित्यर्धॆनाहता हताः..
मध्यॆन लिप्तास्तन्नाड्यः स्थितिवद्ग्रासनाडिकाः 23
सौरदीपिका.
छाद्यच्छादकयॊर्मानैक्यार्धात्
इष्टग्रासकलाः
त्याज्याः
शॆषवर्गात्
तात्कालिकशरस्य
वर्गं
विशॊध्य
शॆषस्य मूलं चन्द्रग्रहणॆ
कॊटिकलाः स्युः .
सूर्यस्य कॊटिकलाः
मध्यग्रहणकालस्पर्शमॊक्षा न्यतरकालयॊरन्तररूपॆण
गुण्याः
मध्य स्थित्यर्धॆन
भक्ताः फल स्फुटकॊटिकला भवन्ति . ताभ्यः लिप्ताभ्यः
स्थित्यर्धसाधनरीत्या षष्ट्या संगुण्य सूर्यॆ द्वॊर्भुक्त्यन्तरविभाजिताः"-इत्यादिना
तासां कॊटि कलानां घट्यः
स्वॆष्टग्रासघटिकाः स्युः .. 22 .. 23 ..
अथ वलनानयनमाह—
नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ..
वलनांशाः सौम्ययाम्याः पूर्वापरकपालयॊः .. 24 .. राशित्रययुताग्राह्यात्क्रान्त्यशैदिक्समैर्युताः ..
भॆदॆऽन्तराज्ज्या वलना सप्तत्यंगुलभाजिता ..25..
सूर्याचन्द्रमसौनतकालज्या
स्वदॆशाक्षांशज्यया
गुणिता
त्रिज्यया भक्ता
लब्धफलस्य
धनुः कलात्मक षष्टि भक्त . पूर्वापरकपालयॊः
क्रमॆण
उत्तरदक्षिणाः
अक्षवलनांशाः . पूर्वनति सौम्याः पश्चिमनति दक्षिणवलनांशा भवन्तीत्यर्थः .
राशित्रयॆण युक्तात्
राश्यादिग्राह्यात्
क्रान्त्यशाः साध्यास्त’ ऎवायनवलनांशा भवन्ति . तैः
दिक्तुल्यैः . तुल्यदिक्कैरायनाक्षवलनांशैः
यतास्तॆषां
दिग्भॆदॆ
आयनाक्षवलनयॊरन्तरात्
जीवा स्पष्टवलनज्या स्यात् . सा जीवा
सप्तत्यंगुलैर्भक्ता
अंगुलादिका वलना भवति .. 24 .. 25 ..
अथ कलात्मकविम्बविक्षॆपादीनामङ्गुलीकरणम्—
सॊन्नतं दिनमध्यर्धं दिनार्धाप्तं फलॆन तु..
छिन्द्यादिक्षॆपमानानि तान्यॆषामगुलानि तु 26 ..
सौरदीपिका.
दिनमानम्
स्वार्धयुक्तं . स्वकीयॆनार्धॆन युक्तमित्यर्थः .
इष्टकालिकॊनतघटिकाभिः सहितं
दिनार्धॆन भक्तं
लब्धफलॆन
पूर्वॊक्तानि कलात्मकानि
विक्षॆपग्राह्यग्राहकबि म्बमानानि
भजॆत् . फलम्
विक्षॆपादीनां
भवन्ति .. 26 ..
इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां सौरदीपिकायां
5 अथ सूर्यग्रहणाधिकारः.
तत्रादौ लम्बननत्यॊरभावस्थानमाह—
मध्यलग्नसमॆ भानॊ हरिजस्य न सम्भवः ..
अक्षॊदमध्यमक्रान्तिसाम्यॆ नावनतॆरपि .. 1..
सौरदीपिका.
उदयास्तलग्नयॊर्मध्यं मध्यलग्नं त्रिभॊनलग्न मित्यर्थस्तत्तुल्यॆ
सूर्यॆ सति
लम्बनस्य लम्बनान्तरलम्बनस्यॆत्यर्थः
अभाव इत्यर्थः
अक्षांशानामुत्तरमध्यलग्नस्य क्रान्त्यंशानां च तुल्यत्वॆ
नतॆः
अपिशब्दात्सम्भवः
अभाव ऎवं तन्मूलभूतानां नतांशानामभावात् .. 1..
अथाभावस्थानातिरिक्तस्थानॆ सम्भवात्प्रतिपादनं
प्रतिजानीतॆ—
दॆशकालविशॆषॆण यथावनतिसम्भवः ..
लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथॊच्यतॆ .. 2..
सौरदीपिका.
दॆशविशॆषॆण कालविशॆषॆण
नत्युत्पत्तिर्गॊलस्थित्या
भवति . च पुनः
पूर्वापरदिगनुरॊधात्
चकारादॆश कालविशॆषॆण
हरिजस्यापि सम्भवॊ यथा भवति
तत्तुल्यॆन’ नतिर्लम्बनं च आनयनद्वारा
कथ्यतॆ .. 2 ..
अथ तत्रॊपयुक्तामुदयाभिधामाह—
लग्नं पर्वान्तनाडीनां कुर्यात्स्वैरुदयासुभिः ..
तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तॊदयाभिधा..3..
.
स्वदॆशयैः
राश्युदयासुभिः
पर्वान्तघटिकानां
पर्वान्तकालिक
लग्नं
साधयत्.
अयनाशसंस्कृतस्य
लग्नस्य भुजज्या
परमकान्तिज्यया हता
लम्बज्या भक्ताफलं
उदय
संज्ञिका स्यात् .. 3 ..
अथॊपयुक्तां मध्यज्यामाह—
तदा लङ्कॊदयैर्लग्नं मध्यसंज्ञं यथॊदितम् ..
तत्कान्त्यक्षांशसंयॊगॊ दिक्साम्यॆऽन्तरमन्यथा .. 4 ..
शषं नतांशास्तन्मौर्वी मध्यज्या साभिधीयतॆ ..
.
पर्वान्तकालॆ
निरक्षॊदयैः
पूर्वॊक्तप्रकारॆण नतघटीद्वारा
दशम भावात्मकं
उदयं साध्यम् ..
दिगैकत्वॆ
तत्क्रान्त्य
तस्य मध्यलग्नस्यायनांशसंस्कृतदशमलग्नस्य क्रान्त्यंशानां स्वदॆशाक्षांशानां च यॊगः कार्यः .
दिग्भॆदॆ क्रान्त्यक्षांशॊभिन्नदिक्त्वॆ सति
वियॊगः कार्यः .
शिष्टं
संस्कारदिक्का नतांशा भवन्ति .
तॆषां नतांशानां जीवा कार्या .
मध्यलग्न नतांशज्या
मध्यज्यॆति नाम
कथ्यतॆ .. 4 ..
अथाभ्यां नतिसम्बनॊपयुक्तं दृक्क्षॆपं दृग्गतिं चाह—
मध्यॊदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ..5..
मध्यज्यावर्गविश्लिष्टं दृक्क्षॆपः शॆषतः पदम् ..
तस्त्रिज्यावर्गविश्लॆषान्मूलं शंकुः स दृग्गतिः..6..
सौरदीपिका..
मध्यज्या
उदयाभिधया
गुणिता
त्रिज्यया भक्ता
भजनफलं
स्वगुणितम् . फलस्य वर्गः कार्य इत्यर्थः .
मध्यज्यावर्गॆणान्तरितं कार्यं
शॆषात् यत्
मूलं स
दृक्क्षॆपसंज्ञः स्यात् .
दृक्क्षॆपवर्गत्रिज्यावर्गयॊरन्तरात्
पदं
शंकुः स्यात् .
शंकुः
दृग्गतिसंज्ञॊ भवति ..5.6..
अथ गणिसुखार्थं लाघवात् दृग्गती आह—
नतांशबाहुकॊटिज्यॆऽस्फुटॆ दृक्षॆपदृग्गती ..
.
दशमभावनतांशानां भुजकॊटिज्यॆ
स्थूलॆ
क्रमॆण दृक्क्षॆपदृग्गतिसंज्ञॆ भवतः . अर्थान्नतांशज्या दृक्क्षॆपॆस्तद्वर्गॊनत्रिज्यावर्गस्य मूलं दृग्भातिर्भवति..
अथ लम्बनानयनमाह—
ऎकज्यावर्गतश्छॆदॊ लब्धं दृग्गतिजीवया ..7..
मध्यलग्नार्कविश्लॆषज्या छॆदॆन विभाजिता ..
रवीन्द्वॊर्लम्बनं ज्ञॆयं प्राक्पश्चाद्घटिकादिकम् .. 8
सौरदीपिका.
ऎकराशिज्यावर्गात्
पूर्वॊक्तदृग्गत्या भक्तात् यत्
फलं भवॆत्तत्
छॆदसंज्ञः स्यात् .
अमान्तकालिक त्रिभॊनलग्नसूर्ययॊरन्तरांशज्या
छॆदसंज्ञॆन
भक्त फलं
त्रिभॊनलग्नरूपमध्यलग्नात्पूर्वापरविभागॆ
सूर्यचन्द्रयॊः
नाड्यादिकं
हरिजं
बॊध्यम् ..6, 7 ..
अथ मध्यग्रहणकालज्ञानार्थं तिथौ लम्बनसंस्कारं
सदसकृत्साध्यमित्याह—
मध्यलग्नाधिकॆ भानौ तिथ्यन्तात्प्रविशॊधयॆत् ..
धनमूनॆऽसकृत्कर्म यावत्सर्वं स्थिरीभवॆत् .. 9 ..
सौरदीपिका.
सूर्यॆ
त्रिभॊनलग्नाधिकॆ सति
दर्शतिथ्यन्तकालात् पूर्वसाधितं लम्बनं
हीनं कुर्यात् .
त्रिभॊन लग्नात्सूर्यॆ न्यूनॆ सति .
तिथ्यन्तॆ युतं कार्यम् . ऎवं
गणितकर्म
पुनः पुनस्तावत्कार्य
लम्बनादि सर्वॆ गणितं यावत्काल पर्यन्तं
अविलक्षणं भवॆत् .. 6 ..
अथ नतिसाधनमाह—
दृक्क्षॆपः शीततिग्मांश्यॊर्मध्यभुक्त्यन्तराहतः..
तिथिघ्नत्रिज्यया भक्तॊ लब्धं सावनतिर्भवॆत् ..1
सौरदीपिका.
पूर्वानीतॊ दृक्क्षॆपः
चन्द्रार्कयॊः
मध्यमगत्यॊरन्तरॆण गुणितः
पञ्चदशगुणितत्रिज्यया
हृतः
यत्कलादिफलं
दॆशकालविशॆषॆण गॊलासिद्धा
कलादिका नतिः
स्यात् .. 10 ..
अथ प्रकारान्तराभ्यां नतिसाधनमाह—
दृक्क्षॆपात्सप्ततिहृताद्भवॆदावनतिः फलम् ..
अथवा त्रिज्यया भक्तात्सप्तसप्तकसंगुणात् .. 11..
.
पूर्वानीतदृक्क्षॆपात्
सप्तत्या भक्तात्
कलादिफलं
प्रकारान्तरॆण
नतिः
स्यात् .
प्रकारान्तरॆण
सप्तानां सप्तकं सप्तवारमावृत्तिरॆकॊनपञ्चाश दित्यर्थः तॆन गुणितादृक्क्षॆपात्
त्रिभज्यया
फलं कलादिका नतिः स्यात् .. 11 ..
अथ नतॆर्दिज्ञानं स्पष्टविक्षॆपं चाह—
मध्यज्यादिग्वशात्सा च विज्ञॆया दक्षिणॊत्तरा ..
सॆन्दुविक्षॆपदिक्साम्यॆयुक्ता विश्लॆषितान्यथा ..12..
.
अवनतिः
मध्यज्याया दिगनुरॊधात्
याम्यॊत्तरार्थात्मध्यज्या चॆद्दक्षिणा तदा नतिरपि दक्षिणा चॆदुत्तरातदॊत्तरा
बॊध्या .
दक्षिणॊत्तरावनतिः
चन्द्रशरदिक्तुल्यॆ . नतिचन्द्रशरयॊरॆकदिक्त्वॆ
चन्द्रशरॆण युता .
दिग्भॆदॆ
अन्तरिता नतिः स्पष्टशररूपा स्यात् .. अत्र चन्द्रविक्षॆपॊ मध्यग्रहणकालिक इति ज्ञॆयम् .. 12 .. .
अथ स्थित्यर्धाद्यानयनमाह—
तया स्थितिविमर्दार्धग्रासाद्यं तु यथॊदितम् ..
प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् .. 13..
.
विक्षॆपसंस्कृतया नत्या
स्थित्यर्धविमर्धग्रासाः . आद्यशब्दात्स्पर्शमॊक्षसम्मीलनॊन्मीलनं .
च ग्राह्यं
चन्द्रग्रहणॆ यथाक्तं तथा
मतं साध्यमित्यर्थः .
वलनाभीष्टग्रासाः . आदिशब्दादिष्टग्रासादिष्टकालानयनम् .
चन्द्र ग्रहणॊक्तरीत्या समानॆयमित्यर्थः .. 13 ..
अथ स्थित्यर्धविमर्दार्धॆ च विशॆषमाह—
स्थित्यर्धॆनाधिकात्याग्वत्तिथ्यन्ताल्लम्बनं पुनः
ग्रासमॊक्षॊद्भवं साध्यं तन्मध्यहरिजान्तरम् .. 14..
प्राक्कपालॆऽधिकं मध्याद्भवॆत्प्राग्ग्रहणं यदि ..
मौक्षिकं लम्बनं हीनं पश्चार्धॆ तु विपर्ययः .. 15..
तदा मॊक्षस्थितिदलॆ दॆयं प्रग्रहणॆ तथा ..
हरिजान्तरकं शॊध्यं यत्रैतत्स्याद्विपर्ययः .. 16..
ऎतदुक्तं कपालैक्यॆ तद्भॆदॆ लम्बनैकता ..
स्वॆस्वॆ स्थितिदलॆ यॊज्या विमर्दार्धॆऽपिचॊक्तवत्..17..
गणितागतदर्शान्तकालात्
स्पार्शिकस्थित्यर्धॆन हीनात् , मौक्षिकस्थित्यर्थॆन च युतात्
ऎकज्यावतश्छॆद इत्यादि प्रकारॆण
स्पर्शमॊक्षकालिकं
हरिजं
असकृत्
कार्यम् .
त्रिभॊनलग्नात्पूर्वभागॆ . त्रिभॊनलग्नाधिकॆ
मध्यकालिकलम्बनात्
स्पर्शकालिकलम्बनं
चॆत्
महान्
स्यात्
मॊक्षकालिकं
हरिजं
न्यून भवॆत् .
त्रिभॊनलग्नात्पश्चिमभागॆ, त्रिभॊनलग्नादूनॆ रवौ तु
विपर्यासॊ भवॆत् . मध्यकालिकलम्बनात्स्पर्शकांति लम्बनं न्यूनं मॊक्षकालिकलम्बनमधिकमित्यर्थः .
.
स्पर्शमध्यमॊक्षकालिकलम्बनान्तरं
मॊक्षस्थित्यर्धॆ
यॊज्यम् .
स्पर्शस्थित्यः
दॆयमित्यर्थः .
यस्मिन् कालॆ
उक्तवैपरीत्यं
भवॆत् . प्राक्कपालॆ मध्या कालिक लम्बनात्स्पार्शिकलम्बनं न्यूनं मौक्षिकलम्बनमधिकम्, पश्चिमकपालॆ तु मध्यकालिकलम्बनात्स्पार्शिकलम्बनमधिकं मौक्षिकलम्बनं न्यूनं स्यादित्यर्थः . तत्र
साधितं
लम्बनान्तर मॊक्षस्थितिदलॆ मध्यमॊक्षकालिकलम्बनान्तरम्, स्पार्शिकस्थिति मध्यस्पर्शकालिकलम्बनान्तरमित्यर्थः
अपनॆयम्
लम्बनान्तरं
स्पर्शमध्ययॊर्मध्यमॊक्ष यॊर्वा कपालाभिन्नॆ उक्तलम्बनॆ यॊज्यॆ शॊध्यॆ वॆति प्रतिपादित
स्पर्शमध्ययॊर्मध्यमॊक्षयॊर्भॆदॆ कपालभॆदॆ
उक्तलम्बनयॊरैक्यम् . ऎवं स्पर्शमॊक्षस्थित्यर्धॆ स्पष्टॆ भवतः .
मर्दार्धॆऽपि
स्थित्यर्धॆनाधिकादित्यादिरीत्या
निजॆ निजॆ
स्थित्यर्धॆ मर्दार्धग्रहणॆन प्रॊक्तरीत्या
मिश्रिता कार्यॆति शम् ..14.15.16.17 इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां सौरर
पिकायॊ पञ्चमः सूर्यग्रहणाधिकारः समाप्तः .. 5 ..
6 अथ छॆद्यकाधिकारः.
तत्र तं सप्रयॊजनं प्रतिजानीतॆ—
न छॆद्यकमृतॆ यस्माद्भॆदा ग्रहणयॊः स्फुटाः..
ज्ञायन्तॆ तत्प्रवक्ष्यामि छॆद्यकज्ञानमुत्तमम् .. 1..
- सौरदीपिका.
यस्मात्कारणात्
चन्द्रसूर्यग्रहणयॊ
कस्यां दिशि स्पर्शमॊक्षौ सम्मीलनॊन्मीलनॆ ग्रस्तॊंऽश कियानित्यादिभॆदाः
वास्तवाः
गॊलस्थिति प्रदर्शकः प्रकारश्छॆद्यकपदवाच्यस्तं
विना . छॆद्यकव्यतिरॆकॆ णॆत्यर्थः .
न बुध्यन्तॆ तस्मात्कारणात्
तत् श्रॆष्ठं
परिलॆखसाधकग्रन्थं सूर्यांशपुरुषॊऽहं
कथयामि .. 1 ..
अथ वलनवृत्तस्य परिलॆखमाह—
सुसाधितायामवनौ बिन्दुं कृत्वा ततॊ लिखॆत् ..
सप्तवर्गांगुलॆनादौ मण्डलं वलनाश्रितम् .. 2..
सौरदीपिका.
जलवत्समीकृतायाम्
भूमौ
अभीष्टस्थानॆ वृत्तमध्यज्ञापकचिह्नं
विधाय
चिह्नात्
ऎकॊनपञ्चाशदंगुलमितॆन व्यासार्धॆन
प्रथमं
वलनाश्रयीभूतं वलन दानार्थं
वृत्तं
रचयॆत् . गणक इति
शॆषः .. 2 ..
अक द्वितीयतृतीयवृत्तॆ आह—
ग्राहगाह्यकयॊगार्धसम्मितॆन द्वितीयकम् ..
मण्डलं तत्समासाख्यं ग्राह्यार्धॆन तृतीयकम् .. 3..
सौरदीपिका.
ग्राह्यग्राहकबिम्बयॊ र्यॊगार्धॆन
द्वितीयमॆव द्वितीयकं
वृत्तं
रचयॆत्
द्वितीयवृत्तं
समाससंज्ञं ज्ञॆयम् .
ग्राह्यबिम्बस्य मानार्धॆन
तृतीयवृत्तं लिखॆत् .. 3 ..
अथ तवृत्तषु दिवसाधनं स्पर्शमॊक्षदिनियमं चाह—
याम्यॊत्तराप्राच्यपरासाधनं पूर्ववद्दिशाम् ..
प्रागिन्दॊर्ग्रहणं पश्चान्मॊक्षॊऽर्कस्यविपर्ययात् ..4..
सौरदीपिका.
अष्टदिशां मध्यॆ
दक्षिणॊत्तरापूर्वापरायाश्च साधनं
त्रिप्रश्नाधिकारॊक्तवत्कार्यम् .
चन्द्रस्य
पूर्वदिशि
ग्रहणारम्भॊ भवति .
पश्चिमादशि
ग्रहणान्तॊ भवति .
सूर्यस्य
दिग्विपर्ययात् . पश्चिमदिशि स्पर्शः पूर्वस्यां मॊक्षॊ भवतीत्यर्थः .. 4 ..
अथ वलनवृत्तॆ वलनदानमाह—
यथादिशं प्राग्ग्रहणं वलनं हिमदीधितॆः ..
मौक्षिकं तु विपर्यस्तं विपरीतमिदं रवॆः ..5..
सौरदीपिका.
चन्द्रस्य
स्पार्शिकं
हरिजं
पूर्वचिह्नाद्यथादिशं दक्षिणं चॆद्दक्षिणाभिमुखमुत्तरं चॆदुत्तराभिमुखं पूर्वापरसूत्रादर्धज्यावद्वलनाश्रितवृत्तॆ दॆयम् .
मौक्षिक वलनं तु
विपरीतं पश्चिमचिहा पूर्वापरसूत्राद्दॆयम् .
वलनं
सूर्यस्य
व्यस्तं दॆयम् . मौक्षिकं वलनं पूर्वचिह्नाद्दक्षिणं चॆद्दक्षिणाभिमुखमुत्तरं चॆदुत्तराभिमुखं दॆयं स्पार्शिकं वलनं पश्चिमचिह्नाद्दक्षिणं चॆदुत्तराभिमुखमु तरं चॆद्दक्षिणाभिमुख दॆयमित्यर्थः .. 5 ..
अथ शरदानमाह—
वलनापानयॆन्मध्यं सूत्रं यद्यत्र संस्पृशॆत् ..
तत्समासॆ ततॊ दॆयौ विक्षॆपौ ग्रासमौक्षिकौ .. 6 ..
सौरदीपिका.
स्पार्शिकमौक्षिकवलनयॊरपात्
वृत्तस्य मयं कॆन्द्रं प्रति
रॆखात्मक सूत्रं
रचयॆत् .
तत्सूत्रं
समाससंज्ञकॆ द्वितीयवृत्तॆ
यस्मिन्प्रदॆशॆ
स्पर्श कुर्यात्
तस्मात्प्रदॆशात्स मासवृत्तॆ
स्पर्शमॊक्षकालिकॊ
शरौ
अर्धज्यावत् यथादिशं दॆयौ .. 6..
अथ स्पर्शमॊक्षस्थानशानमाह—
विक्षॆपाग्रात्पुनः सूत्रं मध्यविन्दुं प्रवॆशयॆत् ..
तग्राह्यबिन्दुसंस्पर्शाद् ग्रासमॊक्षौ विनिर्दिशॆत्..7..
.
शरामात्
द्वितीयवारं
रॆखारूपसूत्रं
वृत्तस्य कॆन्द्रं प्रति
प्रविष्टं कुर्यात् .. नयॆदित्यर्थः .
तत्सूत्रग्राह्यबिम्बपरिध्यॊ सम्पातात्
स्पर्शमॊक्षौ
कथयॆत् .. 7 ..
अथ ग्रहणॆ विक्षपस्य दिग्ख्यवस्थां मध्यग्रहणज्ञानार्थ
मध्यकालिकवलनदानं चाह—
नित्यशॊऽर्कस्य विक्षॆपाः परिलॆखॆ यथादिशम् ..
विपरीताः शशाङ्कस्य तदशादथ मध्यमम् .. 8 ..
वलनं प्राङ्मुखं दॆयं तद्विक्षॆपैकता यदि ..
भॆदॆ पश्चान्मुखं दॆयमिन्दॊ नॊविपर्ययात .. 6 ..
सौरदीपिका.
सूर्यस्य ग्रहणॆ
चन्द्रस्य विक्षॆपाः
ग्रहणभॆददर्शनप्रकारॆ
नित्यं
यथास्थितदिशं ज्ञॆयाः .
चन्द्रस्य ग्रहणॆ चन्द्रविक्षॆपाः
विपरीतदिक्काः . दक्षिणाश्चॆदुत्तरा उत्तरा रचॆद्दक्षिणा ज्ञॆया इत्यर्थः .
अनन्तरं
मध्यग्रहणका लिकविक्षॆपदिगनुरॊधात् . सूर्यग्रहणॆ मध्यग्रहणकालिकस्पष्टशरदिक्चि ह्राचन्द्रग्रहणॆ मध्यकालिकविक्षॆपदिग्विपरीतदिचिह्नादित्यर्थः .
यहीत्यर्थः .
मध्यग्रहण कालिकवलनशरदिशॊरैक्यता चॆत्तदा
ग्रहणमध्यकालिक
स्फुटवलनं
पूर्वचिह्नसम्मुखं
दानं कुर्यात् .
वलनशरयॊर्दिग्भॆदॆ
पश्चिमचिह्नाभिमुखं
दानं कुर्यात् . ऎवम्
चन्द्रस्य वलनदानक्रममुक्तम् .
सूर्यस्य
उक्तवैपरीत्यात् . ऎकदिशि पश्चिमचिह्नाभिमुखं भिन्नदिशि पूर्वदिचिह्नाभिमुखं दॆयमित्यर्थः .. 8 ..6..
अथ मध्यग्रहणपरिलॆखमाह—
वलनाग्रात्पुनः सूत्रं मध्यबिन्दुं प्रवॆशयॆत् ..
मध्यसूत्रॆण विक्षॆपं वलनाभिमुखं नयॆत् .. 10..
विक्षॆपामाल्लिखॆद्वृत्तं ग्राहकार्धॆन तॆन यत् ..
ग्राह्यवृत्तं समाक्रान्तं तद्ग्रस्तं तमसा भवॆत् ..11..
सौरदीपिका.
मध्यकालिकवलनाग्रात्
द्वितीयवारं
वृत्तस्य कॆन्द्र प्रति
रॆखां
नयॆदित्यर्थः .
अनॆन सूत्रॆण
- मध्यवलनामाभिमुखं
मध्यविक्षॆपं
प्रापयॆत् . वृत्तस्य कॆन्द्रादित्यर्थः .
शराग्रात्
ग्राहकबिम्बस्य मानार्धॆन
मण्डलं
रचयॆत् .
वृत्तॆन
यन्मितं
छाद्यवृत्तं
व्याप्तं
तन्मितं
अन्धकारॆण छादकॆन
आच्छादितं
स्यात् .. 10 .. 11 ..
पूर्वापरकपालभॆदॆन परिलॆखॆ विशॆषमाह—
छॆद्यकं लिखता भूमौ फलकॆ वा विपश्चिता..
विपर्ययॊ दिशां कार्यः पूर्वापरकपालयॊः..12..
सौरदीपिका.
समभूमौ
अथवा
काष्ठपट्टिकायां
परिलॆखं
गणकॆन
तत्त्वज्ञॆन
पूर्वादिदिशां
प्राक्पश्चिमकपालयॊः
व्यत्यासः
संपादयॆत् पूर्वकपालॆ यथा दिशां परिलॆखं कृतं तथा पश्चिमकपालॆन कार्यम् . किन्तु पश्चिमकपालॆ विलॊमक्रमॆण दिगङ्कनं कार्यमित्यर्थः .. 12 ..
अथानादॆश्यग्रहणमाह—
स्वच्छत्वाद्वादशांशॊऽपि ग्रस्तश्चन्द्रस्य दृश्यतॆ ..
लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वान्न विवस्वतः.. 13..
.
इन्दुमण्डलस्य
द्वादशभागः
आच्छादितॊऽपि
ग्रस्तातिरिक्त संपूर्णदृश्यबिम्बस्य प्रकाशमानत्वात्
ग्रस्तॊंऽशः न दृश्यतॆ संपूर्णदृश्यबिम्बमुज्ज्वलं दृश्यतॆ . तत्र ग्रहणं न वदॆदित्यर्थः .
सूर्यस्य
कलात्रयं
छादकबिम्बॆनाच्छादितमपि
सूर्यस्य तॆजस्तैक्ष्ण्याल्लॊ कनयनप्रतिघातत्वाच्चॆत्यर्थः .
न भासतॆ . संपूर्ण बिम्बं प्रकाशमानमॆव भासत इत्यर्थः .. वृद्धवशिष्ठॆन तु-"ग्रस्तं शशांकस्य कलाद्वयं चॆत्कलात्रयं भानुमतॊ न लक्ष्यम् . तत्किञ्चिदूनं ह्युदया स्तकालॆ लक्ष्यं यतस्तौ करगुम्फहीनौ-" इत्युक्तम् .. 13 ..
अथॆष्टग्रासपरिलॆखार्थं ग्राहकमार्गज्ञानमाह—
स्वसंज्ञितास्त्रयः कार्या विक्षॆपाग्रॆषु विन्दवः..
तत्र प्राङ्मध्ययॊर्मध्यॆ तथा मौक्षिकमध्ययॊः..14..
लिखॆन्मत्स्यौ तयॊर्मध्यान्मुखपुच्छविनिःसृतम् ..
प्रसार्य सूत्रद्वितयं तयॊर्यत्र युतिर्भवॆत् .. 15 ..
तत्र सूत्रॆण विलिखॆच्चापं बिन्दुत्रयस्पृशा ..
स पन्था ग्राहकस्यॊक्तॊ यॆनासौ सम्प्रयास्यति ..16..
सौरदीपिका.
स्पर्शमध्यमॊक्षकालिकशराग्रॆषु
स्पर्शमध्यमॊक्षसंज्ञिताः
स्पर्शशराग्रॆ स्पर्शबिन्दु मध्यशराग्रॆ मध्यबिन्दुर्मॊक्षशराग्रॆ मॊक्षबिन्दुरिति त्रयॊ बिन्दवः . गणकॆन
विधॆयाः .
बिन्दुत्रयॆषु
स्पर्शमध्यबिन्द्वॊः
अन्तरालॆ
मॊक्षमध्यबिन्द्वॊः
अन्तरालॆ
मत्स्यद्वयं
रचयॆत् .
मत्स्ययॊः
गर्भात्
मुखपुच्छ
मुखपुच्छाभ्यां निष्कासितं
द्वॆ सूत्रॆ
अग्रॆऽपि स्वमार्गॆ निःसार्य
स्वस्वमार्गॆ प्रसारितसूत्रयॊः
यस्मिन्स्थानॆ
यॊगः
स्यात्
तस्मिन्स्थानॆ कॆन्द्रं प्रकल्प्य
बिन्दुत्रयाणां स्पर्श कुर्वता
व्यासार्धरूपॆण
धनुः
कुर्यादित्यर्थः .
चापात्मकः
छादकस्य
मार्गः
कथितः .
मार्गॆण
ग्राहकः
गमिष्यतिः.. 14 . 15 . 16 ..
अथॆष्टग्रासपरिलॆखमाह—
ग्राह्यग्राहकयॊगार्धात्पॊज्झ्यॆष्टग्रासमागतम् ..
अवशिष्टांगुलसमां शलाकां मध्यबिन्दुतः ..17..
तयॊर्मार्गॊन्मुखीं दद्याद् ग्रासतः प्राग्ग्रहाश्रिताम् ..
विमुञ्चतॊ मॊक्षदिशि ग्राहकार्धॆनमॆव सा ..18..
स्पृशॆद्यत्र ततॊ वृत्तं ग्राहकार्दॆन संलिखॆत् ..
तॆन ग्राह्याद्यदाक्रान्तं तत्तमॊग्रस्तमादिशॆत् ..16..
सौरदीपिका.
छायच्छादकबिम्बमानयॊर्यॊगार्धात्
ग्रहणाधिकारॊक्तप्रकारावगतम्
इष्ट कालिकाभीष्टग्रासं
त्यक्त्वा
शॆषाङ्गुलप्रमाणां
यष्टिं
वृत्तत्रयमध्य कॆन्द्रबिन्दॊः सकाशात्
स्पर्शमॊक्षविक्षॆपाग्रयॊः
मार्गरॆखाभिमुखी
मध्यग्रासतः
पूर्वकालॆ इष्टग्रासॆ सति
स्पर्शशराग्रसम्बन्धिमार्गचाप रॆखासक्तां
मध्यादनन्तरं मॊक्षात्प्राक्स्थितस्याभीष्ट ग्रासस्य
मॊक्षविक्षॆपाग्रसम्बन्धिमार्गचापरॆखायां सक्तां रॆखारूपशलाकां
दानं कुर्यात् .
शलाका
ग्राहकमार्गचापरॆखां
यस्मिन्भागॆ
स्पर्शं कुर्यात्
तस्मात्प्रदॆशादॆव
ग्राहकबिम्बस्य मानार्धरूपव्यासार्धॆन
मण्डलं
सम्यक्प्रकारॆण रचयॆत् .
वृत्तॆन
यन्मितं वृत्तभागं
व्याप्तं
तन्मितं ग्राह्यवृत्तांशं
तमसा छादकबिम्बॆन भूभयॆत्यर्थः अस्त माच्छादितम्
कथयॆत् .. 17 .. 18 ..19..
अथ निमीलनपरिलॆखमाह—
मानान्तरार्धॆन मितां शलाकां ग्रासदिङ्मुखीम् ..
निमीलनाख्यां दद्यात्सा तन्मार्गॆयत्रसंस्पृशॆत् ..20..
ततॊ ग्राहकखण्डॆन प्राग्वन्मण्डलमालिखॆत् ..
तद्भाग्रामण्डलयुतिर्यत्र तत्र निमीलनम् .. 21..
सौरदीपिका.
ग्राह्यग्राहकबिम्बमानयॊरन्तरार्धॆन
तुल्यां
निमीलनसंज्ञकां
रॆखारूपशलाकां
स्पर्शशराग्राभिमुखीं मध्यबिन्दॊः सकाशात्
दानं कुर्यात् .
शलाका
ग्राहकमार्गॆ
यस्मिन्प्रदॆशॆ
संलग्ना स्यात्
तस्मात्प्रदॆशात्
ग्राहकबिम्बमानार्धॆन
पूर्वॊक्तवत् . यथॆष्टग्रासार्थॆ वृत्तं कृतं तद्वत्
वृत्तम्
कुर्यादित्यर्थः
लिखितवृत्तग्राह्यवृत्तयॊर्यॊगः
यस्मिन्प्रदॆशॆ भवॆत्
तस्मिन्प्रदॆशॆ
ग्राह्यबिम्बस्य निमज्जनं स्यात् ..20..21..
अथॊन्मीलनपरिलॆखमाह—
ऎवमुन्मीलनॆ मॊक्षदिङ्मुखी संप्रसारयॆत् ..
विलिखॆन्मण्डलं प्राग्वदुन्मीलनमथॊक्तवत् .. 21 ..
सौरदीपिका. .
उन्मीलनज्ञानायॆत्यर्थः .
मानान्तरार्धमितां शलाकां मध्यबिन्दॊः सकाशात्
मॊक्ष शराग्राभिमुखी
सम्यक्प्रकारॆण कुर्यादित्यर्थः .
पूर्ववत् मौक्षिकमार्गदत्तशलाकायॊगस्थानात्
ग्राहकवृत्तं
रचयॆत् .
अनन्तरम्
पूर्वॊक्तवत् . ग्राह्यग्राहकयॊगदिशीत्यर्थः
ग्राह्य बिम्बस्यॊन्मज्जनं स्यात् .. 22 ..
अथ ग्रहणॆ चन्द्रस्य वर्णानाह—
अर्धादूनॆ स धूम्रं स्यात्कृष्णमर्धाधिकं भवॆत् ..
विमुश्चतः कृष्णताम्रं कपिलं सकलग्रहॆ .. 23 ..
सौरदीपिका.
अर्धबिम्बात्
अल्पॆ अस्तॆ सति
अस्तभागः
चन्द्रबिम्बं धूम्रवर्णं
भवॆत् .
अस्तबिम्बमर्धाधिकं चॆत्तदा
चन्द्रबिम्बकृष्णवर्णं
स्यात् .
मुच्यमानस्य . पादॊनबिम्बाधिकग्रस्तबिम्बस्य
श्यामरक्तमिश्रवर्णः स्यात् .
सम्पूर्णग्रहणॆ
पिशङ्गवर्णबिम्बं भवॆत् . अत्र भूमायास्तॆजॊऽमावतया चन्द्राच्छादकत्वादॆत वर्णाः सम्भवन्ति . सूर्यस्य तु चन्द्रॊ जलगॊलरूप आच्छादकः स दर्शान्तादिवशॆऽस्मद्दृश्यार्धॆ सदा कृष्ण ऎवॆति कृष्ण ऎव सूर्यस्य ग्रस्तॊऽशः सर्वदा . अत ऎवापिकृतत्वाद्भगवता सूर्यस्य वर्णॊ नॊक्तः .. 23..
अथॊक्तच्छॆधकस्य गॊप्यत्वमाह—
रहस्यमॆतद्दॆवानां न दॆयं यस्य कस्यचित् ..
सुपरीक्षितशिष्याय दॆयं वत्सरवासिनॆ .. 24..
सौरदीपिका.
ग्रहणच्छॆचकं
अमराणामपि
गॊप्यं वस्तुवर्ततॆ . अतऎव
यस्मै कस्मैचिदपरीक्षिताय
न दातव्यम् . किन्तु
सुष्टु परीक्षितः सुपरीक्षितः स चासौ शिष्यरच तस्मै
यः वर्षपर्यन्तं स्वसमीपॆ वासं करॊति तस्मै . वर्षपर्यन्तं तत्सङ्गत्या तस्य तत्त्वतया ज्ञानं भवतीति हॆतुना "वत्सरवासिनॆ" इति विशॆषणं दत्तम् . ऎतादृशाय सदाचरणशीलाय
दातव्यम् .. 24 ..
इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां सौरदीपिकायां षष्ठश्छॆधकाधिकारः समाप्तः .. 6 ..
7 अथ ग्रहयुत्यधिकारः.
तत्र युतिभॆदानाह—
ताराग्रहाणामन्यॊन्यं स्यातां युद्धसमागमौ ..
समागमः शशाङ्कॆन सूर्यॆणास्तमनं सह ..1..
- सौरदीपिका.
भौमादिपञ्चखॆटानाम्
परस्परं
वक्ष्यमाणलक्षणभिन्नौ
भवॆताम् .
चन्द्रॆण
पञ्चताराणां यॊगः
समागमसंज्ञः स्यात् .
अर्कॆण सह भौमादिपञ्चताराणामन्यतमस्य चन्द्रस्य वा यदा यॊगस्तदा
अदर्शनं पूर्णास्तगतत्वं भवतीत्यर्थः ..1..
अथ युतॆर्गतैष्यत्वमाह—
शीघ्रॆ मन्दाधिकॆऽतीतः संयॊगॊ भवितान्यथा ..
द्वयॊः प्राग्यायिनॊरॆवं वक्रिणॊस्तु विपर्ययात् ..2..
प्राग्यायिन्यधिकॆऽतीतॊ वक्रिण्यॆष्यः समागमः ..
.
ययॊर्ग्रहयॊर्यॊगॊऽभिमतस्तयॊर्मध्यॆ यः शीघ्रगतिर्ग्रहस्तस्मिन्
मन्दगतिग्रहादधिकॆ सति
तयॊर्युति संज्ञः
गतॊ ज्ञॆयः .
शीघ्रगतिग्रहान्मन्द गतिग्रहॆंऽधिकॆ सति
ऎंष्यः संयॊगॊ ज्ञॆयः .
उक्तलक्षणयॊः
पूर्वगतिकयॊः
ग्रहयॊर्भवति .
वक्रगतिग्रहयॊः
तुकाराद्गतैष्यत्वं
उक्तवैपरीत्याद्भवति .
पूर्वगतिग्रहॆ
वक्रगतिग्रहादधिकॆ सति
गतयॊगः .
वक्रगतिग्रहॆ पूर्वगतिग्रहादधिकॆ सति
गम्यः
यॊगः स्यात् .. 2..
अथ युतिकालॆ तुल्यग्रहयॊरानयनं युतिकालस्य गतैष्य दिनाद्यानयनं चाह—
ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः..3..
भुक्त्यन्तरॆण विभजॆदनुलॊमविलॊमयॊः..
द्वयॊर्वक्रिण्यथैकस्मिन्मुक्तियॊगॆन भाजयॆत् .. 4..
लब्धं लिप्तादिकं शॊध्यं गतॆ दॆयं भविष्यति ..
विपर्ययाद्वक्रगत्यॊरॆकस्मिंस्तु धनव्ययौ .. 5..
समलिप्तौ भवॆतां तौ ग्रहौ भगणसंस्थितौ ..
विवरं तद्वदुद्धृत्य दिनादि फलमिष्यतॆ .. 6..
सौरदीपिका.
युतिसम्बन्धिग्रहयॊरभीष्टैककालिक्यॊरन्त रकलाः
पृथक् पृथक् स्वस्वगतिक कलाभिर्गुणिताः
मार्गगयॊर्वक्रगयॊर्वॆत्यर्थः
ग्रहयॊः
स्पष्टभुक्त्यन्तरॆण
गणकॊ भजॆत् .
द्वयॊर्मध्य ऎकतरॆ
वक्रगतिग्रहॆ सति
गतियॊगॆन
हरॆदित्यर्थः .
गतयॊगॆ
फलं कलादिकं स्वं स्वं
पूर्वगतिग्रहयॊर्हीनं
ऎष्ययॊगॆ
यॊज्यम् .
वक्रगतिग्रहयॊः स्वं स्वं फलं
उक्तवैपरीत्यात्कार्यम् . गतयॊगॆ यॊज्यमॆष्ययॊगॆ हीनमित्यर्थः .
द्वयॊर्मध्य ऎकतरॆ वक्रिणि तु स्व स्वफलॆ
युतहीनौ कार्यौ . ऎवं कृतॆ सति
युतिसम्बन्धिनौ
राश्यधिष्ठितचक्रस्थितौ राश्याद्यात्मकौ
खॆटौ
समकलौ
स्याताम् .
अभीष्टैककालिकग्रहयॊरन्तरं
पूर्वॊक्तवत् . भुक्त्यन्तररूपहरॆणॆत्यर्थः
भक्त्वा
दिनघटिकॆत्यादि
गतैष्ययुतिवशाद्गतैष्यफलम्
इष्यतॆ. उच्यत इत्यर्थः .. 3. 4 . 5 . 6..
अथ दृक्कर्मार्थमुपकरणानि साध्यानीत्याह—
कृत्वा दिनक्षपामानं तथा विक्षॆपलिप्तिकाः..
नतॊन्नतं साधयित्वा स्वकाल्लग्नवशात्तयॊः .. 7..
सौरदीपिका!
समयॊर्ग्रहयॊः
स्वस्वक्रान्ति वशाच्चरासुभिः
दिनरात्रि मानं
साधयित्वा
शरकलाः
प्रसाध्यॆत्यर्थः .
स्वकीयलग्नवशात्
नतॊन्नतकालं
साधनं कृत्वा वक्ष्यमाणं दृक्कर्म कार्यमित्यर्थः .. 7 ..
अथाक्षदृक्कर्म तत्संस्कारचाह—
विषुवच्छाययाभ्यस्ताद्विक्षॆपाद्द्वादशॊद्धृतात् ..
फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम् ..8..
लब्धं प्राच्यामृणं सौम्याद्विक्षॆपात्पश्चिमॆ धनम् ..
दक्षिणॆ प्राक्कपालॆ स्वं पश्चिमॆ तु तथा क्षयः ..6..
सौरदीपिका.
पलभया
गुणितात्
पूर्वसाधितग्रहविक्षॆपात्
द्वादशभिर्भक्तात्
लब्धं
स्वकीयनतघटिकाभिर्गुणितं
स्वकीयॆन दिनार्धॆन रात्रौ . रात्र्यर्धॆन भक्तमित्यर्थसिद्धम् . उक्तरीत्या
उत्तरात्
शरात्
कालादिफलं
प्राच्या प्राक्क पालॆ
ग्रहॆ हीनं
पश्चिमकपालॆ
यॊज्यम् .
याम्यॆ तु
शरॆ सति
पूर्वकपालॆ
धनं
पश्चिमकपालॆ
हीनं कार्यम् .. 8 ..
अथायनदृक्कर्माह—
सत्रिभग्रहजक्रान्तिभागघ्नाः क्षॆपलिप्तिकाः..
विकलाः स्वमृणं क्रान्तिक्षॆपयॊर्भिन्नतुल्ययॊः ..10..
सौरदीपिका.
सत्रिभग्रहस्य क्रान्त्यशैर्गुणिताः
शरकलाः
आयन दृक्कर्मविकला भवन्ति . ता ग्रहॆ विकलास्थानॆ
भिन्नैकदिक्कयॊः
सत्रिभग्रहक्रान्तिग्रहशरयॊः क्रमॆण .
कार्याः क्रान्तिक्षॆपयॊर्भिन्नदिक्त्वॆ ग्रहॆ यॊज्याः दिगैकत्वॆ सति . रहिता कार्या इत्यर्थः ..10..
अथ प्रसंगाद्दृक्कर्मसंस्कारस्थलान्याह—
नक्षत्रग्रहयॊगॆषु ग्रहास्तॊदयसाधनॆ .
शृङ्गॊन्नतौ च चन्द्रस्य दृक्कर्मादाविदं स्मृतम् .. 11 ..
.
नक्षत्रग्रहयॊगॆषु
ग्रहाणामस्तॊदयौ नित्यास्तॊदयौ सूर्यसान्निध्यवशॆनास्तॊदयौ च
तयॊः साधनॆ
इन्दॊः
शृङ्गॊन्नतिसाधन इत्यर्थः
समुच्चयार्थकः
प्रथमं
प्रागुक्तं
आयनाक्षजं दृक्कर्म
कथितम् .. 11 ..
अथ दृकर्मसंस्कृतग्रहयॊर्युतिकालं तात्कालिकतद्विक्षॆपाभ्यां
ग्रहयॊर्याम्यॊत्तरान्तरं चाह—
तात्कालिकॊ पुनः कार्यॊ विक्षॆपौ च तयॊस्ततः ..
दिक्तुल्यॆ त्वन्तरं भॆदॆ यॊगः शिष्टं ग्रहान्तरम् ..12..
सौरदीपिका.
द्वितीयवारं तादृशग्रहाभ्यां युतिकालं ज्ञात्वा युतिकालॆ ग्रहयॊः साधनं दृक्कर्मद्वयं च तावत्कार्यं यावदविशॆषः . तस्मिन्कालॆ
युतिकालिकॊ ग्रहौ
समुच्चयॆ
तात्कालिकग्रहयॊः
स्वस्वविक्षॆपौ
साध्या वित्यर्थः .
सूक्ष्मयुतिसमयॆ ग्रहयॊः शरसाधनानन्तरं
दिगैकत्वॆ
शरयॊरन्तरं
दिग्भॆदॆ तु
विक्षपयॊर्यॊगः कार्यः
संस्कारॊत्पन्नं
युतिसम्बन्धिग्रहबिम्बकॆन्द्रयॊर्याम्यॊत्तरमन्तरं भवति .. 12 ..
अथ पञ्चताराणां विम्बमानकलानयनमाह—
कुजार्किज्ञामरॆज्यानां त्रिंशदर्धार्धवर्धिताः ..
विष्कम्भाश्चन्द्रकक्षायां भृगॊः षष्टिरुदाहृताः..13
त्रिचतुःकर्णयुक्त्थ्याप्तास्तॆ द्विघ्नास्त्रिज्यया हताः..
स्फुटाः स्वकर्णास्तिथ्याप्ता भवॆयुर्मानलिप्तिकाः..
सौरदीपिका.
स्वस्य यदर्थं तस्यार्धॆन स्वचतुर्थांशॆनॆत्यर्थः वर्धिता युक्ताः
खरामाः
भौमशनिबुधगुरूणां
बिम्बव्यासाः यॊजनात्मकाः
चन्द्राकाशगॊलॆ
कथिताः .
शुक्रस्य
षष्टिसंख्यामितॊ ज्ञॆयः
विष्कम्भाः
द्विगुणाः
त्रिराशिज्यया
गुणिताः
तृतीयचतुर्थकर्णयॊर्यॊगॆन भक्ता इति साम्प्रदायिकव्याख्यानम् . नव्यास्तु, त्रिशब्दॆन त्रिज्या
चतुःकर्णश्चतुर्थकर्मणि शीघ्रकर्णस्तयॊर्यॊगॆन भक्ता इत्यर्थ कुर्वन्ति .
स्वबिम्बव्यासाः
स्पष्टा भवन्ति .
पञ्चदशभक्ताः
मानकलाः
स्युः .. 13 . 14 ..
अथ युतिसम्बन्धिनौ ग्रहौ युतिसमयॆ प्रदर्शनीयावित्याह—
छायाभूमौ विपर्यस्तॆ स्वच्छायाग्रॆ तु दर्शयॆत् ..
ग्रहः स्वदर्पणान्तस्थः शङ्क्वग्रॆ सम्प्रदृश्यतॆ ..15..
सौरदीपिका.
छायादानार्थं जलवत्समीकृतायां पृथिव्यां
ग्रहॊ यस्मिन्ककालॆ तद्वैपरीत्यॆन भिन्नकपालॆ दत्तॆ
ग्रहस्य छायाग्रस्थानॆ स्थापितॆ
स्वस्य यॊ दर्पण आदर्शस्तत्र स्थापितस्तन्मध्यस्थितः
खॆटः स्यात् . तं
गणकॊ दर्शयॆत् .
दिक्संपातस्थापित शंकॊरग्रॆ मस्तकॆ आकाशॆ ग्रहः
गणकॆनति शॆषः ..15..
ननु कथं दृश्यत इत्यतः प्रकृतग्रहयॊर्युतिसम्बन्धिनॊर्दर्शनप्रकारमाह—
पञ्चहस्तॊच्छ्रितौ शङ्कू यथा दिग्भ्रमसंस्थितौ ..
ग्रहान्तरॆण विक्षिप्तावधॊ हस्तनिखातगौ .. 16 ..
छायार्कौ ततॊ दद्याच्छायाग्रच्छङ्कु मूर्धगौ ..
छायाकर्णाग्रसंयॊगॆ संस्थितस्य प्रदर्शयॆत् .. 17 ..
स्वशङ्कुमूर्धगौ व्यॊम्नि ग्रहौ दृक्तुल्यतामितौ ..
सौरदीपिका. यस्मिन्कालॆ ग्रहौ द्रष्टुमभिमतौ तात्कालिकलग्नादात्रौ यदुदयास्त लग्नॆ क्रमॆण न्यूनाधिकॆ यदि भवतस्तौ सूर्यसान्निध्यजनितास्ताभावॆ दर्शनयॊग्यौ . तदा
पञ्चहस्तप्रमाणॆन
काष्ठादिनिर्मितसरलदण्डौ
ग्रहयॊर्युतिकालॆ यस्यां दिशि भ्रमणं तत्र संस्थितौ
ग्रहयॊर्याम्यॊत्तरान्तरॆण अङ्गुलात्मकॆन
अन्तरितौ
भूमॆरन्तः
हस्तप्रमाणॆ यॊ गर्तस्तत्र स्थितौ . तयॊरधः पतनं न भवॆत्तथा दृढतया रॊपणीयाविति . भूम्यां शङ्कॊहस्तमात्रं रॊपयित्वा भूमॆरूर्ध्वं चतुर्हस्तप्रमाणदीर्घौ शंकू स्यातामित्यर्थः .
शंकुमूलाभ्यां
महाधिष्ठितकपाल दिशि पूर्व या छाया दत्ता तदग्रात्
स्वस्वशङ्क्वग्ररूप मस्तकप्रापिणौ
स्वस्वच्छायाकर्णौ
गणकॊ दद्यात् . ऎतदुक्तं भवति . युतिकालॆतिसम्बन्धिग्रहयॊश्छायां चतुर्हस्तप्रमाणॆन साधयित्वा पूर्वॊक्तप्रकारॆण शङ्कु मूलात्स्वस्वछायादानं कृत्वा छायाग्रॆ चिह्नं कार्यं तत्र कीलादिना सूत्रं बध्वा शङ्क्वग्र पर्यन्तं प्रसार्यमिति .
छायाकर्णाग्रयॊः सम्पातॆ
छायाग्रस्थानकृतगर्तॊपविष्टस्य
आकाशॆ
स्वस्वङ्कारूपमस्तकसमसूत्रस्थितौ
दृष्टिगॊचरताम्
प्राप्तौ
खॆटौ
सन्दर्शयॆत् .. 16 .. 17 ..
अथ पञ्चताराग्रहाणां पूर्वकथितयुद्धसमागमादीनां लक्षणान्याह—
उल्लॆखं तारकास्पर्शाद्भॆदॆ भॆदः प्रकीर्त्यतॆ .. 18..
युद्धमंशुविमर्दाख्यमंशुयॊगॆ परस्परम् ..
अंशादूनॆऽपसव्याख्यं युद्धमॆकॊऽत्र चॆदणुः ..16..
समागमॊंऽशादधिकॆ भवतश्चॆद्बलान्वितौ ..
.
भौमादिपञ्चताराणां बिम्बनॆम्यॊः स्पर्श मात्रात्
उल्लॆखसंज्ञं युद्धं वदन्ति .
मण्डलभॆदॆ
भॆदसंज्ञॊ युद्धावान्तरभॆदः
कथ्यतॆ .
अन्यॊन्यम्
किरणयॊगॆ सति
किरणसंघट्टनसंज्ञं
समरं स्यात् .
द्वयॊर्ग्रहयॊर्याम्यॊत्तरान्तरॆऽशात्षष्टिकलात्मकैकभागादूनॆऽनधिकॆ सति
अपसव्यसंज्ञं
ग्रहयुद्धं स्यात् .
अपसव्ययुद्धॆ
ऎकग्रहः
अणुबिम्बश्चॆत्तदाप सव्याख्यं युद्धं व्यक्तं स्यादन्यथात्वव्यक्तं स्यात् . ऎषां चतुर्णां फलम् . ’अपसव्यॆ विग्रहं ब्रूयात्संग्रामं रश्मिसंकुलॆ . लॆखनॆऽमात्यपीडा स्याद्भॆदनॆ तु धनक्षयः .. इति भार्गवीयॊक्तं ज्ञॆयम् . युद्धभॆदानुक्त्वा समागम माह-समागम इति .
द्वयॊर्याम्यॊत्तरान्तरॆंऽशादभ्यधिकॆ सति
यॊगॊ भवति .
स्थूलमण्डलतयान्वितौ स्थूलबिम्बावित्यर्थः . चॆत्तदा तयॊः समागमः व्यक्तः स्यादन्यथा त्वव्यक्तः समागमः . तथा चॊक्तम्
“द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमॆ भवतः .
अत्रान्यॊन्यं प्रीतिर्विपरी तावात्मपक्षघ्नौ ..
युद्धॆ समागमॊ वा यद्यव्यक्तौ तु लक्षणैर्भवतः .
भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्दिष्टम् ..’ इत्युक्तॆः .
भॆदॊल्लॆखांशुसम्मर्दा अपसव्यस्तथापरः . ’ततॊ यॊगॊ भवॆदॆषामॆकांशकसमापनात् ..’
इति काश्यपॊक्तॆश्च सर्व निरवद्यम् .. 18 .. 16 ..
अथ युद्ध पराजितस्य ग्रहस्य लक्षणमाह—
अपसव्यॆ जितॊ युद्धॆ पिहितॊऽणुरदीप्तिमान् ..20..
रूक्षॊ विवर्णॊ विध्वस्तॊ विजितॊ दक्षिणाश्रितः ..
सौरदीपिका.
अपसव्याख्यॆ
ग्रहयॊर्युद्धॆ यः
जयलक्षणैर्विवर्जितः स
पराजितॊ ज्ञॆयः . जितस्य लक्षणमाह
आच्छादितः
इतरग्रहापॆक्षया सूक्ष्मबिम्बः
प्रभारहितः
अस्निग्धः
स्वाभाविकवर्णॆन रहितः
इतरग्रहा पॆक्षया दक्षिणदिशि स्थितः . ऎतादृशः
हतॊ ज्ञॆयः..20..
अथ जयिनॊ ग्रहस्य लक्षणमाह—
उदकस्थॊदीप्तिमान् स्थलॊजयी याम्यॆऽपियॊबली 21..
सौरदीपिका.
इतरग्रहापॆक्षयॊत्तरदिशि स्थितः
प्रभायुक्तः
इतरग्रहापॆक्षया पृथुबिम्बः
जययुक्तः स्यात् .
ग्रहः
दक्षिणस्यामपि
दीप्तिमान् पृथुबिम्बः स जयी भवति .. 21 ..
अथ युद्ध विशॆषमाह—
आसन्नावप्युभौ दीप्तौ भवतश्चॆत्समागमः..
स्वल्पॊ दावपि विध्वस्तौ भवॆतां कूटविग्रहौ ..22..
सौरदीपिका.
द्वौ
ऎकभागान्तर्गतान्तरितावपि
प्रभायुक्तौ
तदा
समागमाख्ययुद्धॊ भवति
द्वौ, ग्रहावपि
सूक्ष्मबिम्बौ
पराजयलक्षणाक्रान्तौ चॆत्स्यातां तदा
कूटविग्रहसंज्ञकॊ युद्धभॆदौ
स्याताम् .. 22 ..
अथॊत्सर्गतः शुक्रस्य जयलक्षणाक्रान्तत्वमस्तीति वदन् समागमः
शशाङ्कॆनॆति प्राक्प्रतिज्ञातसमागम उक्तप्रकारमतिदिशति—
उदस्थॊ दक्षिणस्थॊ वा भार्गवः प्रायशॊ जयी .
शशाङ्कॆनैवमॆतॆषां कुर्यात्संयॊगसाधनम् .. 23 ...
सौरदीपिका.
इतरग्रहापॆक्षयॊत्तरदिक्स्थः
अथवा
दक्षिणदिक्स्थः . उभयदिशि स्थितॊऽपीत्यर्थः .
शुक्रः
उत्सर्गतॊ जयलक्षणाक्रान्तत्वॆन्द्र
जययुक्तॊ भवति . कदाचित्पराजयलक्षणाक्रान्तॊ भवतीति तात्पर्यार्थः .
भौमादिपञ्चताराग्रहाणां
चन्द्रॆण सह
उक्त प्रकारॆण
युति साधनं
उक्तरीत्या गणकः कुर्यात् . अत्र विशॆषार्थकम् . ’अवनत्या स्फुटॊ ज्ञॆयॊ विक्षॆपः शीतगॊर्युतौ .’ इत्यर्धं श्लॊकं क्वचित्पुस्तकॆ दृश्यतॆ न सर्वत्रॆति क्षिप्तं प्रतिभात्यत उपॆक्षितम् . अधिकारस्यापूर्ण श्लॊकत्वापत्तॆश्च .. 23 ..
नन्वॆषां ग्रहाणां दूरान्तरॆण सदॊर्ध्वाधरान्तरसद्भावात्परस्परं
यॊगासम्भवॆन कथं युतिः सङ्गतॆत्यत आह—
भावाभावाय लॊकानां कल्पनॆयं प्रदर्शिता..
स्वमार्गगाःप्रयान्त्यॆतॆ दूरमन्यॊन्यमाश्रिताः..24..
. ’
ग्रहाः
स्वस्वकक्षायां स्थिताः
परस्परम्
युतिकाल ऊर्ध्वाधरान्तराभावॆन संयुक्ताः सन्तः
गच्छन्ति .
दूरान्तरॆण दर्शनात्
ग्रहयुतिः
कल्पनात्मिका वास्तवा
पूर्वॊक्तग्रन्थॆन कथिता . नन्ववस्तुभूता किमर्थमुक्तॆत्यत आह—
भावाभावायॆति .
भूस्थितप्राणिनां
भावः शुभफलमभावॊऽशुभफलं तस्मै शुभाशुभफलादॆशायावस्तुभूतापि
युतिरुक्तॆतिभावः .. 24 .. इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां सौर दीपिकायां ग्रहयुत्यधिकारः सप्तमः समाप्तः .. 7 ..
अथ नक्षत्रग्रहयुत्यधिकारः. 8
तत्र प्रथम नक्षत्राणां धृवज्ञानमाह—
प्रॊच्यन्तॆ लिप्तिका भानां स्वभॊगॊऽथ दशाहतः .
भवन्त्यतीतधिष्ण्यानां भॊगलिप्ता युता ध्रुवाः ..1..
सौरदीपिका.
अश्विन्यादिनक्षत्राणामुत्तराषाढाभिजिच्छ्रवण धनिष्ठावर्जितानां
भॊगसंज्ञाः कलाः
, समनन्तरमॆव कथ्यन्तॆ .
अनन्तरं
स्वाभीष्ट नक्षत्रस्य कलात्मकभॊगॊ वक्ष्यामाणः
दशभिर्गुणिताः
अश्विन्यादिगतनक्षत्राणां
भभॊगॊऽष्टशतीलिप्ता इत्युक्ताष्टशतकलाः
प्रत्यॆक युताः . अश्विन्यादिगतनक्षत्रसंख्यागुणितकलाष्टाशतं युतमित्यर्थः .
नक्षत्राणां ध्रुवा भवन्ति .. 1 ..
अथ अश्विन्यादिनक्षत्राणां भॊगलिप्ताः शरांशाश्चाह—
अष्टार्णवाः शून्यकृताः पञ्चषष्टिनगॆषवः..
अष्टार्था अब्धयॊऽष्टागा अङ्गागा मनवस्तथा ..2..
कृतॆषवॊ युगरसाः शून्यबाणा वियद्रसाः ..
खवॆदाः सागरनगा गजागाः सागरर्तवः .. 3 ..
मनवॊऽथ रसा वॆदा वैश्वमाप्यार्धभॊगगम् ..
आप्यस्यैवाभिजित्प्रान्तॆ वैश्वान्तॆ श्रवणस्थितिः 4..
त्रिचतुःपादयॊः सन्धौ श्रविष्ठा श्रवणस्य तु ..
स्वभॊगतॊ वियन्नागाः षद्कृतिर्यमलाश्विनः..5..
रन्ध्राद्रयः क्रमादॆषां विक्षॆपाः स्वादपक्रमात् ..
दिङ्मासविषयाः सौम्यॆ याम्यॆ पञ्च दिशॊनव ..6..
सौम्यॆ रसाः खं याम्यॆऽगाः सौम्यॆ खार्कास्त्रयॊदश..
दक्षिणॆ रुद्रयमलाः सप्तत्रिंशदथॊत्तरॆ ..7..
याम्यॆऽध्यत्रिककृता नव सार्धशरॆषवः ..
उत्तरस्यां तथा षष्टिस्त्रिंशत् षट् त्रिंशदॆव हि .. 8..
दक्षिणॆ त्वर्धभागस्तु चतुर्विशतिरुत्तरॆ ..
भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम् ..
सौरदीपिका. - अष्टार्णवा इत्यारभ्य वॆदा इत्यन्तं पाठक्रमॆणान्वयरूपॆणाश्विन्यादि. पूर्वाषाढान्तनक्षत्राणां भॊगलिप्ताः सन्ति .
पूर्वाषाढनक्षत्रस्यार्धभॊगॆ स्थितम् . धनुराशॆर्विंशतिभागॆ स्थितमित्यर्थः .
उत्तराषाढायॊगतारानक्षत्रं ज्ञॆयम् . ऎतॆनॊत्तराषाढायाधृवॊ ऽष्टौराशय विंशतिभागाः सिद्धम् .
पूर्वाषाढाया ऎव
अवसानॆ
अभिजिद्यॊगतारा ज्ञॆया .. चत्वारिंशत्कलाधिकषड्विंशतिभागाधिका अष्टौ राशयॊऽभिजितॊ ध्रुव इत्यर्थः .
उत्तराषाढाया अवसानॆ
श्रवणस्य यॊगतारायाः स्थितिरस्ति . दशभागसहिता नवराशयः श्रवणस्य . ध्रुवक इत्यर्थः .
श्रवणनक्षत्रस्य
तृतीयचतुर्थचरणयॊः
अन्तादिसन्धौ . तृतीयचरणान्त इत्यर्थः .
धनिष्ठा वर्ततॆ . ऎतॆन नवराशयॊ विंशतिभागा धनिष्ठाधृवः सिद्धः .
धनिष्ठाभॊगात् . अग्रॆ वियन्नागा इत्यारभ्यरन्ध्राद्रय इत्यन्तं
800युतॊ 1200 जातॊ भरण्या ध्रुवः 1200 . ऎवमन्यॆषामपि ज्ञॆयम् . अथ नक्षत्राणां विक्षॆपभागानाह-
उक्त ध्रुवकस म्बन्धिनाम्
अश्विन्यादिनक्षत्राणां
पाठक्रमादित्यर्थः
स्वकीयात्
क्रान्त्यमात्
विक्षॆपभागा दक्षिणा उत्तरा वा भवन्ति .
उत्तरदिशि
क्रमॆण दश द्वादश पञ्च दास्रादित्रयाणां
दक्षिणस्यां दिशि क्रमॆण रॊहिण्यादि त्रयाणां
पञ्च दश नव
उत्तरदिशः पुनर्वसुपुष्ययॊः क्रमॆण
षट् शून्यम् .
दक्षिणॆ
सप्तारलॆषायाः.
उत्तरदिशि मघा दित्रयाणां क्रमॆण
शून्यं द्वादश त्रयॊदश .
दक्षिणदिशि हस्तचित्रयॊः ’क्रमॆण
ऎकादश द्वौ .
अनन्तरम्
उत्तरदिशि स्वात्याः
त्र्यूनचत्वारिंशत् .
दक्षिणॆ विशाखादि षण्णां क्रमॆण
सार्धैकाः त्रयः, चत्वारः,
नव, सार्धपञ्च, पञ्च .
विक्षॆपभागाः
उत्तरदिशि क्रमॆणाभिजिच्छ्रवणधनिष्ठानां
षष्टिः, खरामाः, रसाग्नयः .
ऎवकारॊ न्यूनाधिकव्यवच्छॆदार्थः .
निश्चयॆन
दक्षिणदिशि शततारायाः
भागस्यार्द्धः . त्रिंशत्कला इत्यर्थः .
उत्तरदिशि पूर्वाभाद्रपदॊत्तराभाद्रपदारॆवतीनां क्रमॆण
चतुर्विशतिः, षड्विंशतिः शून्यम् . ज्ञॆयम् .
चकारः पूरणार्थः .. 2 . 3 . 4 . 5. 6 . 7.8.1..
अथागस्त्यलुब्धकवह्निब्रह्महृदयताराणां ध्रुवकविक्षॆपांस्तदुपपत्तिञ्चाह—
अशीतिभागैर्याम्यायामगस्त्यॊ मिथुनान्तगः..
विंशॆ च मिथुनस्यांशॆ मृगव्याधॊ व्यवस्थितः ..10..
विक्षॆपॊ दक्षिणॆ भागैः खार्णवैः स्वादपक्रमात् ..
हुतभुग्ब्रह्महृदयॊ वृषॆ दाविंशभागगौ .. 11..
अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरॆण तौ
गॊलं बध्वा परीक्षॆत विक्षॆपं ध्रुवकं स्फुटम् .. 12..
सौरदीपिका.
स्वकीयात्
क्रान्त्यग्रात्
अशीत्यशैः
दक्षिणस्यां दिशि
कर्कादिभागॆ स्थितः
तारात्मकॊऽगस्त्यॊ वर्ततॆ . अगस्त्यस्य राशित्रयं ध्रुवकः . दक्षिणविक्षॆपॊऽशीत्यशमित इत्यर्थः .
लुब्धकः च
मिथुनराशॆः
विंशतिमितॆ
भागॆ
विशॆषणावस्थितः . लुब्धकनक्षत्रस्य राशिद्वयं विंशतिभागा ध्रुवक इत्यर्थः .
दक्षिणदिशि
चत्वारिंशता
अंशैः परिमितस्तस्य
शरः . लुब्धकस्य दक्षिणविक्षॆपश्चत्वारिंशदंशमित इत्यर्थः .
अग्निब्रह्महृदयौ
वृषराशौ
द्वाविंश भागस्थितौ . वह्निब्रह्महृदयनक्षत्रयॊविंशतिभागाधिककराशिदृवकः .
वह्निब्रह्महृदयौ
उत्तरस्यामित्यर्थः .
अष्टांशैस्त्रिंशदंशैः
चकारः क्रमार्थॆ
ऎवकारॊ न्यूनाधिकव्यवच्छॆदार्थः .
विक्षॆपवन्तौ . वह्नॆरष्टभागमित उत्तरशरः . ब्रह्महृदयस्यॊ त्तरविक्षॆपस्त्रिंशदित्यर्थः . नन्वॆतॆ ध्रुवा विक्षॆपाश्च कालक्रमॆण नियता अनियता वॆत्यत आह .
वक्ष्यमाणं
वंशशलाकादिभिर्निबध्य
स्पष्टं
क्रान्तिसंस्कारयॊग्यं ध्रुवप्रॊतवृत्तगतशरं
आयनदृकर्मसंस्कृतं
दृग्गॊचरसिद्धमङ्गीकुर्यात् . तथा च क्रान्तिसंस्कारयॊग्य विक्षॆपानयनसंस्कृतध्रुवकयॊरयनांशवशादस्थिरत्वादपि, मयॆदानीन्तनसम ’ यानुरॊधॆन लाघवार्थमायनकर्मसंस्कृता ध्रुवाः क्रान्तिसंस्कारयॊग्यविक्षॆपाश्च नियता उक्ताः . कालान्तरॆ वॆधसिद्धा ज्ञॆयाः . नैत इति फालितार्थः .. 10. 11 . 12 ..
अथ रॊहिणीशकटभॆदमाह—
वृषॆ सप्तदशॆ भागॆ यस्य याम्यॊंऽशकद्वयात् .. विक्षॆपॊऽभ्यधिकॊभिन्द्याद्रॊहिण्याःशकटं तु सः..13..
.
वृषराशौ
सप्तदशॆंऽशॆ
ग्रहस्य
दक्षिणः
शरः
भागद्वयात्
महान्स्यात्
ग्रहः
रॊहिणीनक्षत्रस्य
शकटाकारसन्निवॆशं
छिन्द्यात् . तन्मध्यगतॊ भवॆदित्यर्थः .. 13 ..
अथ भग्रहयॊगसाधनातिदॆशमाह—
ग्रहवद् द्युनिशॆ भानां कुर्याद् दृक्कर्म पूर्ववत् ..
ग्रहमॆलकवच्छॆषं ग्रहभुक्त्या दिनानि च .. 14..
सौरदीपिका.
नक्षत्राणां
दिनरात्रिमानॆ
ग्रहाणां यथा दिनरात्रिमानॆ कृतॆ तद्वत्साध्य इत्यर्थः . तदनन्तरं
पूर्वतुल्यं
आक्षकर्म
तदनन्तरं
नक्षत्रग्रहयुतिसाधनं ग्रहध्रुवतुल्यतारूपं
ग्रहयॊगसाधनरीत्या कार्यमित्यर्थः
कॆवलया ग्रहगत्या
ग्रहनक्षत्रयुतिदिनानि
नक्षत्राणां गत्यभावात् .
चकारः समुच्चयॆ .. 14 ..
अथ ग्रहनक्षत्रयुतिकालस्य गतैष्यत्वमाह—
ऎष्यॊ हीनॆ ग्रहॆ यॊगॆ धृवकादधिकॆ गतः..
विपर्ययादागतॆ ग्रहॆ ज्ञॆयः समागमः .. 15 ..
सौरदीपिका.
आयनाक्षदृक्कर्मसंस्कृतग्रहॆ
आक्षकर्मसं स्कृतनक्षत्रध्रुवात्
न्यूनॆ सति
ग्रहनक्षत्रयॊगः .
स्वाभीष्टसमयाद्भावी .
ग्रहॆ ऽधिकॆ सति
पूर्व जातः .
विलॊमयायिनॆ
खॆटॆ
उक्तवैपरीत्यात्
नक्षत्रग्रहयॊगः
बॊध्यः .. 15 ..
अथाश्विन्यादिनक्षत्रस्य बहुतारात्मकत्वात्कस्यास्ताराया ऎतॆध्रुवका इत्याशङ्काया उत्तरं वद नक्षत्राणां यॊगतारामाह— फाल्गुन्यॊर्भाद्रपदयॊस्तथैवाषाढयॊर्द्वयॊः..
विशाखाश्विनिसौम्यानां यॊगतारॊत्तरा स्मृता ..16..
पश्चिमॊत्तरताराया द्वितीया पश्चिमॆ स्थिता..
हस्तस्य यॊगतारा सा श्रविष्ठायाश्व पश्चिमा ..17..
ज्यॆष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा ..
भरण्याग्नॆयपित्र्याणां रॆवत्याश्चैव दक्षिणा ..18..
रॊहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि ..
यथा प्रत्यवशॆषाणां स्थूला स्याद्यॊगतारका .. 16..
सौरदीपिका.
पूर्वाफाल्गुन्युत्तराफाल्गुन्यॊः
पूर्वाभाद्रपदॊत्तराभाद्रपदयॊः
पूर्वाषाढॊत्तरा षाढयॊः
विशाखाश्विनिमृगशिरसाम्
उत्तरदिक्स्था
ध्रुवकादिज्ञानार्थं वॆधॊपयॊगितारा
कथिता .
हस्तपञ्चाङ्गुलिसन्निवॆशकारस्य हस्तनक्षत्रस्य
नैर्ऋत्यदिगाश्रितपश्चिमाव स्थितताराया उत्तरदिगवस्थिततारायाः
पूर्वॊक्तातिरिक्ता
वायव्याश्रितॆ
वर्तमानॆत्यर्थः .
वायव्याश्रिता
स्मृता .
धनिष्ठायाः
चः समुच्चयॆ
यॊगतारा स्मृतॆत्यर्थः .
ज्यॆष्ठाश्रवणानुराधानां
पुष्यस्य
प्रत्यॆकं तारात्रयात्मकत्वात्मध्यतारा यॊगतारा स्यात् .
भरणीकृत्तिकामघानां
रॆवतीनक्षत्रस्य
दक्षिणदिक्स्था ऎव यॊगतारा स्मृता . .
समुच्चयॆ .
रॊहिणीपुनर्वसुमूलानां
आश्लॆषायाः
समुच्चयॆ या
पूर्वदिक्स्था
सैवॆत्यर्थः . यॊगतारा स्मृता .
अवशिष्टनक्षत्राणामार्द्राचित्रास्वात्यभिजिच्छतताराणां स्वतारासु यात्यन्तं
महती क्रान्तिमती च सा
यॊगतारैव यॊगतारका
भवॆत् कथितॆत्यर्थः ..16.17.18.16..
अथ ब्रह्मसंज्ञकनक्षत्रावस्थानमाह—
पूर्वस्यां ब्रह्महृदयादॆशकैः पञ्चभिः स्थितः..
प्रजापतिर्वृषान्तॆऽसौ सौम्यॆऽष्टत्रिंशदंशकैः .. 20 ..
- सौरदीपिका.
ब्रह्महृदयसंज्ञकनक्षत्रावस्थानात्
पूर्वभागॆ
पञ्चाशैः
वृषान्तनिकटॆ
तारात्मकॊ ब्रह्मा
क्रान्तिवृत्तॆ स्थितः .
ब्रह्मा
उत्तरस्यां दिशि
- द्यूनचत्वारिंशदंशकैः स्थितः . अष्टत्रिंशद्भागा अस्य विक्षॆप इत्यर्थः ..20..
अथापांवत्सापयॊरवस्थानमाह—
अपांवत्सस्तु चित्राया उत्तरॆऽशैस्तु पञ्चभिः..
बृहत्किञ्चिदतॊ भागैरापः षभिस्तथॊत्तरॆ .. 21 ..
.
चित्रातारकायाः सकाशात्
पञ्चभागैः
उत्तरस्यां दिशि
अपांवत्ससंज्ञकस्तारात्मकः स्थितः . प्रथमतुकारश्चित्रातुल्यध्रुवकार्थकः . द्वितीयतु कारश्चित्राविक्षॆपस्य दक्षिणभागद्वयात्मकत्वादपांवत्सविक्षॆप उत्तरस्त्रिभाग इति स्फुटार्थकः .
अपांवत्सात्-
अल्पान्तरॆण
स्थूलतारात्मकः
आपसंज्ञकः
अपांवत्सात्
षड्भिरंशः
उत्तरस्यां दिशि स्थितः . चित्राध्रुवक ऎवापस्य ध्रुवकॊ विक्षॆप उत्तरॊ नवांशा इत्यर्थः .. 21 ..
. इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां सौरदीपिकायां नक्षत्रग्रहयुत्यधिकारॊऽष्टमः समाप्तः .. 8 ..
सूर्यसिद्धांतः अध्यायः 9 ॥ 9.18 ॥
9 अथॊदयास्ताधिकारः.
तत्र ग्रहाणामुदयास्तयॊः कारणमाह—
अथॊदयास्तमययॊः परिज्ञानं प्रकीर्त्यतॆ ..
दिवाकरकराक्रान्तमूर्तीनामल्पतॆजसाम् .. 1..
सौरदीपिका.
ग्रहनक्षत्रयुत्यधिकारानन्तरं
सूर्यकिरणैरभिभूता मूर्तयॊ यॆषां तॆषां चन्द्रादिषड्ग्रहाणां नक्षत्राणां च
न्यूनप्रभावताम्
सूर्यान्निसृतस्य ग्रहस्य यस्मिन्कालॆ यदन्तरॆण प्रथमादर्शनं सम्भावितं सः उदयः . सूर्यादरस्थितस्य यस्मिन्कालॆ यदन्तरॆण प्रथमदर्शनं सम्भावितं सॊऽस्तः . अनयॊः
सूक्ष्मज्ञानप्रकारः
अतिसूक्ष्मत्वॆन मयॊच्यत इत्यर्थः .. 1 ..
तत्र प्रथम पञ्चताराणां पश्चिमास्तपूर्वॊदयावाह—
सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्कजाः ..
ऊनाः प्रागुदयं यान्ति शुक्रज्ञॊ वक्रिणौ तथा .. 2..
.
अर्कात्
राश्यादिनाधिकाः
गुरुभौमशनयः
पश्चिमस्यां दिशीत्यर्थः
अदर्शनं
गच्छन्ति
सूर्यादूनाः गुरुभौमशनयः
पूर्वस्याम्
दर्शनं यान्ति .
तॆनैव प्रकारॆण
वक्रगति प्राप्तौ
शुक्रबुधौ ज्ञॆयौ . सूर्यादधिकॊ पश्चिमास्तं गच्छतः सूर्यादल्पौ पूर्वॊदयं प्राप्नुत इत्यर्थः .. 2..
- अथ चन्द्रबुधशुक्राणां पूर्वास्तपश्चिमॊदयावाह—
ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः..
व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः .. 3..
सौरदीपिका.
सूर्यात्
अल्पाः
सूर्यादधिकगतयः
चन्द्रबुधशुक्राः
पूर्वस्याम्
अदर्शनं
यान्ति .
सूर्यादधिकाः
पश्चिमदिशि
दर्शनं यान्ति .. 3 ..
अथॊदयास्तज्ञानार्थमासन्नॆऽभीष्टदिनॆ सूर्यग्ग्रहौ कार्यावित्याह—
सूर्यास्तकालिकॊ पश्चात्प्राच्यामुदयकालिकौ ..
दिवा चार्कग्रहॊ कुर्याद् दृकर्माथ ग्रहस्य तु .. 4 ..
सौरदीपिका.
पश्चिमॊदयास्तसाधनॆ
सूर्यस्या स्तकालिकॊ सूर्यास्तकालॆ साध्यावित्यर्थः .
चकारॊ विकल्पार्थकः .
पूर्वॊदयास्तसाधनॆ
सूर्यॊदयकालि कौ
दिनॆऽभीष्टकालॆ
सूर्यग्रहौ
साधयॆत् .
अनन्तरं
खॆटस्य
आयनाक्षदृक्कर्मद्वयं कुर्यात् .. 4 ..
अथॆष्टकालांशानयनमाह—
ततॊ लग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः ..
प्रतीच्यां षड्भयुतयॊस्तद्वल्लग्नान्तरासवः ..5..
सौरदीपिका.
ताभ्यां सूर्यदृग्ग्रहाभ्यां
सूर्यदृग्ग्रहयॊरन्तरासवः
षष्टि भक्ताः
इष्टकालांशा भवन्ति . प्रागुदयास्तसाधनॆ .
पश्चिमॊदयास्तसाधनॆ
षड्राशियुतयॊः सूर्यदृग्ग्रहयॊः
अन्तरासवः
षष्ठिभक्ता इष्टकालांशा भवन्तीत्यर्थः .. 5 ..
अथ यैः कालांशै र्भौदीनामुदयॊऽस्तॊ वा भवति तानाह—
ऎकादशामरॆज्यस्य तिथिसंख्यार्कजस्य च ..
अस्तांशा भूमिपुत्रस्य दश सप्तादिकास्ततः ..6..
पश्चादस्तमयॊऽष्टाभिरुदयः प्राङ्महत्तया ..
प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भृगॊः ..7..
ऎवं बुधॊ द्वादशभिश्चतुर्दशभिरंशकैः ..
वक्री शीघ्रगतिश्चात्करॊत्यस्तमयॊदयौ .. 8 ..
सौरदीपिका.
इष्टकालांशसाधनानन्तरम्
यैरंशैरस्त भवति तॆऽशाः . उपलक्षणादुदयांशा ज्ञॆयाः
गुरॆ
कालांशाः .
शनॆः कालांशानां
पञ्चदशसंख्या
भौमस्य
सप्तभ्यः सहिता दश . सप्तदश कालांशा इत्यर्थः
शुक्रस्य
वक्रत्वॆन नीचासन्नत्वात्स्थूलबिम्बतया
पश्चिमायाम्
अष्टकालांशैः
अस्तमयः अस्तॊ भवतीत्यर्थः
पूर्वस्याम्
अष्टाभिः कालांशैरुदयश्च भवतीत्यर्थः
प्राच्याम्
शुक्रस्याणुबिम्बत्वात्
दशकालांशैः
अदर्श भवति .
पश्चिमायाम्
उदयॊ भवतीत्यर्थः
विलॊम गतिः
द्रुतगतिः
समुच्च यॆ
सौम्यः .
सूर्यात्
द्वादशभिश्चतुर्दशभिश्च कालांशैः
शुक्ररीत्या
पश्चादस्तं प्रागुदयं द्वादशभिः कालांशैर्महाबिम्बतया . तथा प्रागस्तं पश्चादुदयं च चतुर्दशभिः कालांशैरणुबिम्बत्वाद्बुधः
सम्पादयतीत्यर्थः .. 6 . 7 . 8 ..
अथ दृश्यादृश्यत्वमाह—
ऎभ्यॊऽधिकैः कालभागैर्दृश्या न्यूनै रदर्शनाः ..
भवन्ति लॊकॆ खचरा भानुभाग्रस्तमूर्तयः ..6..
सौरदीपिका.
भानुभाभिर्महत्तॆजॊधिकार्करश्मिभिर्ग्रस्ताच्छादिता मूर्तयॊ बिम्बा यॆषां तॆ तथॊक्ताः .
खॆटाः
प्रॊक्तॆभ्यः परमकालांशॆभ्यः
अधिकॆष्टकालांशैः
अभीष्टकालॆ दर्शनयॊग्या भवन्ति .
न्यूनॆष्टकालांशैः
भूलॊकॆ
अदृश्याः
जायन्त इत्यर्थः .. 6 ..
अथॊदयास्तयॊर्गतैष्यदिनाद्यानयनमाह—
तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः..
दिनादि तत्फलं लब्धं भुक्तियॊगॆन वक्रिणः .. 10 ..
सौरदीपिका.
पठितॆष्टकालांशयॊरन्तरकलाः
सूर्यग्रहयॊर्वक्ष्यमाणॆन कालगत्यन्तरॆण भक्ताः .
वक्रगतिग्रहस्य
सूर्यग्रहयॊः कालभुक्तियॊगॆन भक्ताः
तत् प्राप्तफलं
उदयास्तयॊर्गतैष्यदिनाद्यं भवतीत्यर्थः .. 10 ..
कालगतिमाह—
तल्लग्नासुहतॆ भुक्ती अष्टादशशतॊद्धृतॆ ..
स्यातां कालगती ताभ्यां दिनादि गतगम्ययॊः..11..
सौरदीपिका.
सूर्यग्रहयॊगती कलात्मकॆ
ग्रहा
धिष्ठितराश्युदयासुभिर्गुणितॆ
अष्टादशशतॆन भक्तॆ फलॆ
क्रमॆण सूर्यग्रहयॊः कालगती
भवॆताम् .
कालगतिभ्यां
उदयास्तयॊः
पूर्वॊक्तप्रकारॆण दिनादि फलं साध्यम् .. 11 ..
अथ नक्षत्राणां सूर्यसानिध्यवशादस्तॊदयज्ञानार्थं
कालांशानाह—
स्वात्यगस्त्यमृगव्याधचित्राज्यॆष्ठाः पुनर्वसुः..
अभिजिब्रह्महृदयं त्रयॊदशभिरंशकैः .. 12 ..
हस्तश्रवणफाल्गुन्यः श्रविष्ठारॊहिणीमघाः ..
चतुर्दशांशकैर्दृश्या विशाखाश्विनिदैवतम् ..13..
कृत्तिकामैत्रमूलानि सार्प रौद्रर्क्षमॆव च ..
दृश्यन्तॆ पञ्चदशभिराषाढाद्वितयं तथा .. 14 ..
भरणीतिष्यसौम्यानि सौक्ष्म्यास्त्रिःसप्तकांशकैः..
शॆषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु..15..
सौरदीपिका.
स्वात्यादिब्रह्महृदयं यावत्
त्रयॊदशकालांशैः
हस्तश्रवणपूर्वाफाल्गुन्युत्तराफाल्गुनिधनिष्ठारॊहिणीमघाः
चतुर्दशकालांशैः
उदिताः . उपलक्षणत्वाददृश्या अपि भवन्ति .
विशाखाश्विनिकृ त्तिकानुराधामूलाश्लॆषार्द्राः
पञ्चदशकालांशैः
दर्शनमायान्ति . उपलक्षणत्वान्न दृश्यन्तॆऽपि .
पूर्वाषाढॊत्तराषाढाद्वयं
पञ्चदशकालांशैः द्दृश्यन्त इत्यर्थः .
भरणीभ तिष्यः पुष्यः सॊमदैवतं मृगशिरॊ नक्षत्रमॆतानि नक्षत्राणि
अणुबिम्बत्वात्
ऎकविंशतिकालांशैः
पूर्वाधिकारॊक्तनक्षत्रॆषूक्तातिरिक्तानि
नक्षत्राणि . शततारा पूर्वॊत्तराभाद्रपदारॆवतीसंज्ञानि . वह्निब्रह्मांपांवत्सापसंज्ञानि च
सप्तदशकालांशैः
दर्शनादर्शनयॊग्यानि भवन्ति
समुच्चयार्थकः .. 12 . 13 . 14 . 15 ..
अथ दिनाद्यानयनार्थमिच्छाया ऎव प्रमाणजातीयकरणत्वमाह—
अष्टादशशताभ्यस्ता दृश्यांशाः स्वॊदयासुभिः..
विभज्य लब्धाः क्षॆत्रांशास्तैदृश्यादृश्यताथवा ..16..
सौरदीपिका.
कालांशाः
अष्टादशशतगुणिताः
ग्रहराश्युदयासुभिः
भक्त्वा
प्राप्ताः
क्रान्तिवृत्तस्थांशा भवन्ति
प्रकारान्तरॆण
क्षॆत्रांशैः
दर्शनादर्शनयॊग्यता च ज्ञॆया . कालांशाभ्यां क्षॆत्रांशावानीय तद न्तरकला यथास्थितगत्यॊरन्तरॆण यॊगॆन वा भक्ताः फलमुदयास्तयॊर्गतैष्य दिनाचं पूर्वागतमॆव स्यादित्यर्थः .. 16 ..
ननु यथा ग्रहाणाममुकदिश्वस्तॊऽमुकदिश्युदय इत्युक्तम् .
तथा नक्षत्राणां नॊक्तम् . गत्यभावाद्वियॊगयॊगासम्भवॆन गतैष्यदिनाद्यानयनासम्भवश्चॆत्यत आह—
प्रागॆषामुदयः पश्चादस्तॊ दृक्कर्म पूर्ववत् ..
गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि ..17..
सौरदीपिका.
नक्षत्राणां
प्राच्याम्
दर्शनं
पश्चिमायाम्
अदर्शनं भवति . गत्यभावादल्पगतिग्रहवद्भवतीत्यर्थः . ऎषां नक्षत्राणां
पूर्वप्रकारॊक्तवत्
आक्षदृक्कर्म कार्यम् .
सर्वदैव
रविगत्या
गतैष्यदिवसानां लब्धिः स्यात् .
निश्चयार्थॆ .. 17 ..
अथ सदॊदितनक्षत्राण्याह—
अभिजिब्रह्महृदयं स्वातीवैष्णववासवाः..
अहिर्बुध्न्यमुदस्थित्वान्न लुप्यन्तॆऽर्करश्मिभिः ..18..
सौरदीपिका.
अभिजिब्रह्महृदयं स्वातीवैष्णववासवा अह्नि
अभिजिद्ब्रह्महृदयस्वातीश्रवणधनिष्ठॊत्तराभाद्रपदाः
सौम्यशरातिदैर्घ्यात्
सूर्यकिरणैः
न छाद्यन्तॆ . अस्तं न यान्तीत्यर्थः .. 18 .. इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचिताया
सौरदीपिकायामुदयास्ताधिकारॊ नवमः समाप्तः .. 1 ..
10 अथ शृङ्गॊन्नत्यधिकारः.
तत्र कालांश कथन पुरःसरं चन्द्रस्यॊदयास्तयॊः
साधनातिदॆशं करॊति—
उदयास्तविधिः प्राग्वत्कर्तव्यः शीतगॊरपि ..
भागौदशभिः पश्चाद्दृश्यः प्राग्यात्यदृश्यताम् ..1..
.
चन्द्रस्यापि
पूर्वाधिकारॊक्तरीत्या
उदयास्तसाधनप्रकारः
विधातव्यः .
द्वादशसंख्याकैः कालांशैः
पश्चिमायां
उदितॊ भवति .
प्राच्याम्
अस्तं
प्राप्नॊति ऎतादृशावुदयास्तौ मासॆ ऎक दैव भवतः . प्रत्यहमुदयास्तौ वक्ष्यमाणप्रकारॆण भवतः ..1..
अथ सूर्यास्तमयात्परतश्चन्द्रस्य नित्यास्तसाधनमाह—
रवीन्द्वॊः षड्भयुतयॊः माग्वलग्नान्तरासवः..
ऎकराशौ रवीन्द्वॊश्च कार्या विवरलिप्तिकाः..2..
तन्नाडिकाहतॆ भुक्ती रवीन्द्वॊः षष्टिभाजितॆ ..
तत्फलान्वितयॊर्भूयः कर्तव्या विवरासवः .. 3..
ऎवं यावस्थिरीभूता रवीन्दॊरन्तरासवः..
तैः पाणैस्तमॆतीन्दुः शुक्लॆऽर्कास्तमयात्परम् .. 4..
सौरदीपिका. शुक्लपक्षॆऽभीष्टदिनॆ सूर्यास्तकालॆ स्पष्टौ सूर्यचन्द्रौ साध्यौ चन्द्रमध्यॆ दृक्कर्मद्वयं संस्कार्यम् . तयॊः
षड्राशियुतयॊः
सूर्याचन्द्रमसॊर्मध्यॆ
रविलग्नान्तरासुवत् अन्तरकालासवः
भॊग्यासूनूनकस्यॆत्यादिना साध्याः . तौ सूर्य चन्द्रौ
अभिन्नराशौ चॆत्स्यातां तदा
सषड्भ सूर्याचन्द्रमसॊः
अन्तरकलाः
कार्याः विधॆयाः .
अन्तरकलानां यॆऽसवस्तॆषां घटिका स्ताभिर्गुणितॆ
सूर्यचन्द्रयॊः
कालात्मकगती
षष्टिभक्तॆ
स्वस्वफलयुतयॊः
पुनः
अन्तरासवः
कर्तव्याः पूर्वरीत्या विधातव्याः .
तद्घटिकाभिः सूर्यास्तकालिकॊ सषड्भ सूर्यदृक्कर्मसंस्कृतचन्द्रौ प्रचाल्य
सूर्यचन्द्रयॊः
अन्तरप्राणासवः
अभिन्नास्ता वत्साध्याः .
अभिन्नैरसुभिः
चन्द्र
शुक्लपक्षॆ
सूर्यास्तादनन्तरम्
अदर्शनताम्
प्रानॊति .. 2 .. 3 .. 4 ..
अथॊदयसाधनमाह—
भगणार्ध रवॆर्दत्त्वा कार्यास्तद्विवरासवः..
तैः प्राणैः कृष्णपक्षॆ तु शीतांशुरुदयं व्रजॆत् .. 5..
.
असितपक्षॆ
षड्राशीन्
सूर्यस्य
संयॊज्य
तुकाराच्चन्द्रस्यादवॆत्यर्थः .
तयॊद्दृकर्मसंस्कृतचन्द्रसषड्भसूर्यकरैरन्तरासवः पूर्वॊक्त प्रकारॆण
साध्याः
साधितैः
असुभिः.
चन्द्रः
सूर्यास्तानन्तरमुदयं
गच्छॆत् .. 5 ..
अथ शृङ्गॊन्नतिरुच्यतॆ—
अर्कॆन्दॊः क्रान्तिविश्लॆषॊ दिक्साम्यॆ युतिरन्यथा ..
तज्ज्यॆन्दुरकाद्यत्रासौ विज्ञॆया दक्षिणॊत्तरा ..6..
मध्याह्नॆन्दुप्रभाकर्णसंगुणा यदि सॊत्तरा..
तदानाक्षजीवायां शॊध्या यॊज्या च दक्षिणा
शॆषं लम्बज्यया भक्तं लब्धॊ बाहुः स्वदिङ्मुखः ..
कॊटिः शङ्कुस्तयॊर्वर्गयुतॆर्मूलं श्रुतिर्भवॆत् .. 8..
सौरदीपिका.
सूर्यचन्द्रयॊः
दिगैकत्वॆ
क्रान्ति
] शृङ्गॊनत्यधिकार. 321
स्पष्टक्रान्त्यॊरन्तरम् .
दिग्भॆदॆ
यॊगः कार्यः . अत्र क्रान्तिशब्दः क्रान्तिज्यापरॊ ज्ञॆयः . उपपत्यविरॊधात् .
सा त्रासौ ज्या च संस्कारासद्धाऋमिता ज्यॆत्यर्थः .
सूर्यात्
चन्द्रः
यस्यां दिशि तद्दिका
याम्यॊत्तरा
ज्या
बॊध्या.
अह्नॊऽहॊरात्रस्य मध्यमिति मध्याह्नः सूर्यास्तकालस्तस्मिन्समयॆ चन्द्रस्य छायाकर्णः साध्यस्तॆन मध्याह्नः च्छायाकर्णवत्साधितॆन्दुच्छायाकर्णॆन संगुणा
हॆ साज्यॊत्तरदिक्का
तर्हि
द्वादश गुणिताक्षज्यायां
अन्तरिता
याम्याचॆत्तदा
अर्कनाक्षजीवायां युक्ता कार्या
स्वदॆशलम्बज्यया
भाजितं
फलं
संस्कारदिगभिमुखः
द्वादशांगुलःश ङ्कुः
कॊटिर्भवॆत् .
भुजकॊट्यॊः
वर्गयॊगात्
पदं
कर्णः
स्यात् .. 6 . 7.8..
अथ शुक्लानयनमाह—
सूर्यॊनशीतगॊलिप्ताः शुक्लं नवशतॊद्धृताः.
चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम् .. 6..
सौरदीपिका.
अर्कॊनितचन्द्रस्य
कलाः
नवशतभक्ताः
फलं चन्द्रस्यरवॆतं स्यात् . तत्
चन्द्रग्रहणाधि कारॊक्तप्रकारॆणागतचन्द्रबिम्बांगुलैर्गुणितं
द्वादशांगुलैः
भक्तं फलं
स्पष्टशुल्लमानं स्यात् .. 1..
अथ श्रुङ्गॊन्नतिपरि लॆखमाह—
दत्त्वार्कसंज्ञितं बिन्दुं ततॊ बाहुं स्वदिङ्मुखम् ..
ततः पश्चान्मुखी कॊटिं कर्णं कॊट्यग्रमध्यगम्..10..
कॊटिकर्णयुताद्बिन्दॊर्बिम्बं तात्कालिकं लिखॆत् ..
कर्णसूत्रण दिक्सिद्धिं प्रथमं परिकल्पयॆत् ..11..
शुक्लं कर्णॆन तद्बिम्बयॊगादन्तर्मुखं नयॆत् ..
शुक्लाग्रयाम्यॊत्तरयॊर्मध्यॆ मत्स्यौ प्रसाधयॆत् ..12.. तन्मध्यसूत्रसंयॊगाद्बिन्दुत्रिस्पृग्लिखॆद्धनुः..
प्राग्बिम्बं यादृगॆव स्यात्तादृक् तत्रदिनॆ शशी..13..
सौरदीपिका.
सूर्यसंज्ञितं
चिह्नं
दिक्साधितसमायां भूमौ दिक्संपातॆ कृत्वा
सूर्यबिन्दॊः सकाशात्
पूर्वसाधितभुजं
स्वस्य या दक्षिणॊत्तरा दिक् तदभिमुखं दत्त्वा
भुजाग्रचिह्नात्
पश्चिमदिगभिमुखीं
द्वादशांगुलात्मिकां दत्त्वा
कॊट्यग्रसूर्यचिह्नयॊर्गतं स्पष्टं
पूर्व साधितं दत्त्वा
कॊटिकर्णरॆखायॊगात्
चिह्नात्
सूर्यॊदयास्तकालिकं
साधित चन्द्रमण्डलं
चन्द्रबिम्बार्धांगुलप्रमाणॆन कारयॆत् . तत्र
आदौ
कर्णरॆखया
दिशानिष्पत्तिं
कुर्यात् . चन्द्रबिम्बकर्णरॆखयॊः संपात स्थानॆ चन्द्रमण्डलॆ पूर्वा, स्वमार्गॆणानॆ वर्धिता सैव कर्णरॆखा चन्द्रमण्ड लस्यापरभागॆ यत्र लग्ना तत्र पश्चिमा, तन्मत्स्याभ्यां दक्षिणॊत्तरा रॆखा च चन्द्रमण्डलॆ कुर्यादित्यर्थः .
कर्णरॆखाचन्द्र बिम्बपरिध्यॊः संपातादपूर्वात्
कर्णरॆखामार्गॆण
चन्द्रबिम्बकॆन्द्राभिमुखं
पूर्वसाधितश्वॆतं
शुक्लाग्रचिह्नं कुर्यात् .
शुक्लचिह्नयाम्यॊत्तरचिह्नयॊः
अन्तरालॆ
द्वौ मत्स्यौ
संपादयॆत् . शुक्लाग्रदक्षिणचिह्नाभ्यां मत्स्यः शुक्लानॊत्तरचिह्नाभ्यां मत्स्यश्चॆति पूर्वॊक्तरीत्या मत्स्यौ कुर्यादित्यर्थः .
तयॊमत्स्ययॊर्मध्यसूत्रयॊर्यत्र संपातस्तत्स्था नात्
शुक्लाग्रचिह्नयाम्यॊत्तरचिह्नस्पर्शि
वृत्तैकदॆशात्मकं
कुर्यात् .
पूर्वकालॆ
लिखितचन्द्रबिम्बं
लिखितचापच्छॆदॆन यादृशं पश्चिमभागॆ भवति
तादृशः ऎव
तस्मिन्
अहनि
चन्द्रः
भवॆत् . आकाशॆऽपि तामॆव स्यादित्यर्थः .. 10 . 11 . 12 . 13 ..
अथ शृङ्गॊन्नतौज्ञानमाह—
कॊट्या दिक्साधनात्तिर्यक्सूत्रान्तॆ शृङ्गमुन्नतम् ..
दर्शयॆदुन्नतां कॊटिं कृत्वा चन्द्रस्य सा कृतिः .. 14 ..
.
कॊटिरॆखया
चन्द्रवृत्तॆ कर्णरॆखावद्दिक्साधनात्
अग्रभागामिकाम्
उच्चां
विधाय
दक्षिणॊत्तररॆखाया अवसानॆ
उच्च
चन्द्रशृङ्गं
अवलॊकयॆत् .
परिलॆखसिद्धा
स्वरूप
इन्दॊः . आकाशस्थचन्द्रस्यॆत्यर्थः . भवति .. 14 ..
अथ कृष्णपक्षॆ विशॆषमाह—
कृष्णॆ षड्भयुतं सूर्यं विशॊध्यॆन्दॊस्तथासितम् ..
दद्यादामं भुजंतत्र पश्चिममण्डलं विधॊः .. 15 ..
सौरदीपिका.
कृष्णपक्षॆ
षड्राशिसहितं
अर्कम्
चन्द्रात्
न्यूनीकृत्य
पूर्वॊक्तप्रकारॆण
कृष्णमानं साधयॆत् .
कृष्ण शृङ्गॊन्नतिसाधनॆ
पूर्वॊक्तभुजं
विपरीतं
अर्कचिह्नादुत्तरं भुजं दक्षिणतॊ दक्षिणं भुजमुत्तरतॊ गणकॊ दद्यात् .
चन्द्रस्य
बिम्बं
पश्चिमभागॆ कृष्णाभिवृद्धि दर्शयॆदित्यर्थः .. 15 ..
इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां , सौरदीपिकायां शृङ्गॊन्नत्यधिकारॊ दशमः समाप्तः .. 10..
11 अथ पाताधिकारः. .. 23 ..
तत्र भॆदद्वयात्मकपातस्य सम्भवं विवक्षुः प्रथमं वैधृत
संज्ञापातस्य सम्भवमाह—
ऎकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा..
तद्युतॊ मण्डलॆ क्रान्त्यॊस्तुल्यत्वॆ वैधृतामिधः ..
सौरदीपिका.
सूर्यचन्द्रौ
ऎकस्मिन्नॆवायनस्थौ
यस्मिन्कालॆ
भवॆतां तत्र
सूर्यचन्द्रयॊर्भाद्यॆ यॊगॆ
द्वादशराशिमितॆ सति
अपमयॊः
समत्वॆ
वैधृतसंज्ञः - पातॊ भवति मङ्गलं विशॆषॆण प्रियतॆ अवरॊध्यत इति विधृतः . विधृत ऎव वैधृतः इति ..1..
अथ व्यतिपातसंज्ञकपातस्य सम्भवमाह—
विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिकाः..
समास्तदाद्वा व्यतीपातॊ भगणार्धॆ तयॊर्युतिः .. 2..
सौरदीपिका. यदा
चन्द्रसूर्यौ
भिन्नायनस्थौ भवतस्तत्र तदा तयॊः
क्रान्तिकलाः
तुल्याः
सूर्याचन्द्रमसॊः
राश्यादियुतिः
राशिषट्कॆ सति
तस्मिन्कालॆ
व्यतीपातसंज्ञकः पातॊ भवति मङ्गलं विशॆषॆण पात यतीति व्यतीपात इति .. 2..
क्रान्त्यॊः समत्वॆ पातॊ भवतीत्यत्र कारणमाह—
तुल्यांशुजालसम्पर्कात्तयॊस्तु प्रवहाहतः..
तद्दृक् क्रॊधभवॊ वह्निर्लॊकाभावाय जायतॆ .. 3 ..
सौरदीपिका.
सूर्याचन्द्रमसॊः
तुकारात्क्रान्तिसाम्यकालिकयॊः . .
समकिरणानां जालं समूहस्तयॊरन्यॊ न्याभिमुखयॊः संपर्कात् संयॊगात्
तयॊदृष्टि
संयॊगाभ्यां क्रॊधॊत्पन्नः
अग्निः
प्रवहवायुवॆगॆन प्रज्वलितः
जनानामशुभफलाय
उत्पद्यतॆ .. 3 ..
अथायं वह्निर्व्यतीपाताख्यॊ वैधृताख्यॊ वॆत्यत पाह—
विनाशयति पातॊऽस्मिल्लॊकानामसकृद्यतः ..
व्यतीपातः प्रसिद्धॊऽयं संज्ञाभॆदॆन वैधृतिः .. 4 ..
सौरदीपिका.
क्रान्तिसाम्यकालॆ
पूर्वश्लॊकॊक्तस्वरूपः
वह्निः
यस्मात्कारणात्
वारंवारं
जनानां मङ्गलानि
नाशं करॊति . अतः कारणात्
व्यतीपातसंज्ञॊऽस्ति .
वह्निः
नामान्तरॆण
वैधृतसंज्ञॊ भवति . उभयत्र पाताख्यॊ वह्निर्भवतीति भावः .. 4 ..
अथ तत्स्वरूपमाह—
स कृष्णॊ दारुणवपुलॊंहिताक्षॊ महॊदरः..
सानिष्टकसॆ रौद्रॊ भूयॊ भूयः प्रजायतॆ .. 5 ..
- सौरदीपिका.
क्रान्तिसाम्यकालॊत्पन्नॊऽग्निपुरुषः
श्याम वर्णः
कठिनशरीरः
आरक्तनॆत्रः
पृथूदरः
सर्वलॊकानामशुभ कारकः
भयानकः
अनॆकवारं प्रतिमासं प्रायॊ वारद्वयं
प्रत्यॆकक्रान्तिसाम्यकाल उत्पन्नॊ भवती त्यर्थः .. 5 ..
अथ स्पष्टकालज्ञानार्थं क्रान्तिसाधनमाह—
भास्करॆन्द्वॊभचक्रान्तश्चक्राविधिसंस्थयॊः..
दृक्तुल्यसाधितांशादियुक्त्यॊः स्वावपक्रमौ .. 6..
सौरदीपिका.
त्रिप्रश्नॊक्तरीत्यानीत
छायार्कस्फुटार्कयॊरन्तरसाधितैरयनांशैः संस्कृतयॊः
ययॊर्यॊगॊ द्वादशराशयः षड्राशयस्तदवधिसंस्थयॊः
सूर्याचन्द्रमसॊः
स्वस्व क्रान्ती साध्यॆ . सूर्यस्य क्रान्तिः साध्या चन्द्रस्य विक्षॆपसंस्कृता क्रान्तिः साध्यत्यर्थः .. 6 ..
अथ क्रान्तिभ्यां स्पष्टपातकालस्य गतैष्यत्वं विशॆष चाह—
अथौजपदगस्यॆन्दॊः क्रान्तिर्विक्षॆपसंस्कृता .
यदि स्यादधिका भानॊः क्रान्तॆः पातॊ गतस्तदा ..7..
ऊना चॆत्स्यात्तदा भावी वामं युग्मपदस्य च .. .
पदान्यत्वं विधॊः क्रान्तिर्विक्षॆपाच्चॆद्धि शुध्यति .. 8..
.
क्रान्तिसाधनानन्तरम्
विषमपदस्थस्य
चन्द्रस्य
शरसंस्कृता
अपमः . स्पष्टक्रान्तिरित्यर्थः
यर्हि
सूर्यस्य
साधितक्रान्तॆः सकाशात्
महती
भवॆत्
तर्हि
स्पष्टक्रान्तिसाम्यात्मकः
साधितक्रान्तिकालात्पूर्वकालॆ जात इत्यर्थः .
यहि
लघुः
भवॆत् .
तर्हि
गम्यः . साधितक्रान्तिकालादुत्तरकालॆ भवतीत्यर्थः .
समपदस्थचन्द्रस्य
उक्त गतैष्यक्रमॆण वैपरीत्यम् . चन्द्रस्य स्पष्टक्रान्तिः सूर्यक्रान्तॆरधिका तदा गम्यपातः न्यूना चॆद्गतपातः स्यादित्यर्थः .
यहि
चन्द्रक्रान्तिः
भिन्नदिक्कशरात्
हीना भवति . तदा
चन्द्रस्य
भिन्नपदत्वं ज्ञॆयम् .. 7 .. 8..
अथ गतैष्यकालानयनं विवक्षः प्रथमं स्पष्टक्रान्तिसाम्यानयन
प्रकारमाह—
क्रान्त्यॊर्ज्यॆ त्रिज्ययाभ्यस्तॆ परक्रान्तिज़्ययॊद्धृतॆ ..
तच्चापान्तरमधं वा यॊज्यं भाविनि शीतगौ .. 9 ..
शॊध्यं चन्द्राद् गतॆ पातॆ तत्सूर्यगतिताडितम् ..
चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत्फलम्..10..
तद्वच्छशाङ्कपातस्य फलं दॆयं विपर्ययात् ..
कर्मैतदसकृत्तावद्यावत्क्रान्ती समॆ तयॊः.. 11 ..
सौरदीपिका.
सूर्याचन्द्रमसॊः साधितक्रान्त्यॊः
जीवॆ
त्रिज्यागुणितॆ
परमा पमज्यया
भक्तॆ
लब्धफलयॊश्चापान्तरम्
अथवा
चापान्तरार्थं
गम्यपातॆ सति
चन्द्रॆ
युक्त कार्यम् .
गतपातॆ सति
इन्दॊः सकाशात्
त्याज्यम् . हीनं कार्यमित्यर्थः .
चन्द्रसम्बन्धिसंस्कृतफलं
सूर्यगत्या गुणितं
इन्दुगत्या
हृतं, भक्तं
कलादिफलं
चन्द्रवत्
सूर्यॆ संस्कार्यम् .
चन्द्रपातस्य
पूर्वॊक्तप्रकारॆण साधितं
कलादिकं फलं चन्द्र पातॆ
विलॊमक्रमात्
संस्कार्यम् . चन्द्रयुत हीनक्रमॆण चन्द्रपातॆ हीनयुतं कार्यमित्यर्थः .
यावत्काल पर्यन्तं
सूर्यचन्द्रयॊः
स्पष्टक्रान्ती समॆ तुल्यॆ स्तः
तावत्कालपर्यन्तं
गणितक्रिया रूपॊक्तं कर्म
अनॆकवारंकार्यम् .. 1.10.11 ..
अथ पातकालस्य गतगम्यत्वमाह—
क्रान्त्यॊः समत्वॆ पातॊऽथ प्रक्षितांशॊनितॆ विधौ ..
हीनॆऽर्धरात्रिकाद्यातॊ भावी तात्कालिकॆऽधिकॆ ..12..
सौरदीपिका.
सूर्यचन्द्रयॊः स्पष्टक्रान्त्यॊः
तुल्यत्वॆ
स्पष्टपातः स्यात् . पातमध्यः स्पष्टः स्यादित्यर्थः .
अनन्तरं
क्रान्तिचापान्तरसिद्धचन्द्रफलॆन युतॊनितॆ
चन्द्रॆ
स्पष्टपातसम्बन्धि चन्द्रासन्नार्धरात्रकालिकचन्द्रात्
न्यूनॆ सति
तदर्धरात्रकालात्पातकालॊ गतः .
क्रान्तिसाम्यकालिकचन्द्रॆ
अर्धरात्रकालिकचन्द्रादधिकॆ सति
गम्यपातः . तदर्धरात्रकालात्पातकाल ऎष्य इत्यर्थः .. 12 ..
अथ स्पष्टपातस्य कालज्ञानमाह—
स्थिरीकृतार्धरात्रॆन्द्वॊर्द्वयॊर्विवरलिप्तिकाः..
षष्टिघ्नाश्चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः ..13..
सौरदीपिका.
पूर्वप्रतिपादितयॊः
स्पष्टक्रान्तिसाम्यकालिकचन्द्रतदासन्नार्धरात्रकालिकस्पष्टचन्द्रयॊः
अन्तरकलाः
षष्टिगुणिताः
अर्धरात्रकालिकस्पष्टचन्द्रगत्या भक्ताः फलं
स्पष्टक्रान्तिसाम्यकालस्य
गतैष्यघटिका भवन्ति .. 13..
अथ पातकालस्य स्थित्यर्धानयनमाह—
रवीन्दुमानयॊगार्धं षष्ट्या सङ्गुण्य भाजयॆत् ..
तयॊर्भुक्त्यन्तरॆणाप्तं स्थित्यर्धं नाडिकादि तत् .. 14 ..
सौरदीपिका.
सूर्यचन्द्रयॊः कलात्मकबिम्बयॊर्यॊगार्धं
षष्टिसङ्ख्यया
गुणयित्वा
सूर्यचन्द्रयॊः
गत्यन्तरॆण
हरॆत्
यल्लब्धं
फलं
घटिकादि
पातकालात्पूर्वमपरत्र च स्थित्यर्धकालपर्यन्तं पातस्याव स्थानमित्यर्थः .. 14 ..
अथ पातस्यादिमध्यान्तकालानाह—
पातकालः स्फुटॊ मध्यः सॊऽपि स्थित्यर्धवर्जितः.. .
तस्य सम्भवकालः स्यात्तत्संयुक्तॊऽन्त्यसंज्ञितः ..15..
सौरदीपिका.
स्पष्टः
क्रान्तिसाम्यकालः
मध्यसंज्ञॊ ज्ञॆयः .
मध्यकालः
पूर्वानीतस्थित्यर्थॆन हीनः
पातस्य
आरम्भकालः स्यात् .
समुच्चयॆ
स्थित्यर्ध युक्तॊ मध्यकालः
पातस्यान्तकालः पातनिवृत्ति काल इत्यर्थः .
भवॆत् .. 15 ..
अथ पातस्थितिकालस्य मङ्गलकृत्यॆ निषिद्ध त्वमाह—
आद्यन्तकालयॊर्मध्यः कालॊ ज्ञॆयॊऽतिदारुणः..
प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः .. 16 ..
ऎकायनगतं यावदर्कॆन्द्वॊर्मण्डलान्तरम् ..
सम्भवस्तावदॆवास्य सर्वकर्मविनाशकृत् .. 17..
सौरदीपिका.
पातारम्भसमाप्तिकालयॊः
अन्तरालवर्ती
समयः
अत्यन्तकठिनः
दॆदीप्यमानाग्निस्वरूपः
सर्वॆषु मङ्गलकृत्यॆषु
निन्दितः
बॊध्यः . तथा च कृतं मङ्गलकृत्यं भस्मावशॆषं स्यादिति भावः . अयमॆव पुण्यकालः .
सूर्यचन्द्रयॊः
प्रत्यॆकं बिम्बैक दॆशरूपं
यावत्कालपर्यन्तम्
तुल्यमा गस्थितं
तावत्कालपर्यन्तम्
ऎवकारॆणन्यूनाधिक व्यवच्छॆदः
पातस्य
सकलशु भकर्माणामाचरितानां नाशकारी
उत्पत्तिः . स्थितिरिति यावत् .. 16 .. 17 ..
नन्वयं कॆवलं मङ्गलनाशकॊ न शुभकारक इत्यत आह—
स्नानदानजपश्राद्धव्रतहॊमादिकर्मभिः..
प्राप्यतॆ सुमहच्छ्रॆयस्तत्कालज्ञानत स्तथा .. 18 ..
. तस्मिन्कालॆ
स्नानदानादिपुण्यक्रियाभिः
सुतरां महत्कल्याणं
मनुष्यैर्लभ्यतॆ .
पातकालज्ञा नात्
स्नानदानादितुल्यं पुण्यं भवति . तं च कालं गणयित्वा यः सम्यग्जानाति तस्य स्नानदानादितुल्यफलं स्वत ऎव भवतीत्यर्थः .. 18 ..
अथ पातविशॆषमाह—
रवीन्दॊस्तुल्यता क्रान्त्यॊर्विषुवत्सन्निधौ यदा ..
द्विर्भवॆद्धि तदा पातः स्यादभावॊ विपर्ययात् ..19 ..
सौरदीपिका.
यस्मिन् कालॆ
सूर्यचन्द्रयॊः
स्पष्टक्रान्त्यॊः
समता
विषुवन्निकटॆ क्रान्त्यभावासन्नॆ रबिगॊलसन्धिसमीप इत्यर्थः स्यात्
तस्मिंस्तदासन्नकालॆ
व्यतीपातवैधृतभॆदद्वयात्मकः
द्विवारं
स्यात्
उक्तव्यत्यासात् . चन्द्र- स्थायनसन्धिनिकटॆ यदि सूर्यक्रान्तितश्चन्द्रक्रान्तिद्यूना स्यात्तदॆत्यर्थः .
क्रान्तिसाम्यरूपपातस्याभावॊ भवति .. 16 ..
अथ शुभकार्यॆ महापातस्य निषिद्धत्वॊक्तिप्रसङ्गात्पञ्चाङ्गा न्तर्गतयॊगान्तर्गतव्यतीपातस्यैव ज्ञानमाह—
शशाङ्कार्कयुलिप्ता भभॊगॆन विभाजिताः..
लब्धं सप्तदशान्तॊऽन्यॊ व्यतीपातस्तृतीयकः..20..
सौरदीपिका.
अयनांशसंस्कृतयॊः सूर्यचन्द्रयॊर्यॊगस्य
कलाः
अष्टशतॆन
भक्ताः
फलं
सप्तदशमध्यॆ षॊडशानन्तरं सप्तदशपर्यन्तमित्यर्थः .
ऎतदधिकारपूर्वॊक्तातिरिक्तः
तृतीय ऎवं तृतीयकः
व्यतीपातयॊगः स्यात् . रवीन्द्वॊर्यॊगॆ सप्तराशयॊ भागाः षॊडशलिप्ताश्चत्वारिंशद्भवन्ति 7 . 16 . 40
तल्लिप्ता अष्टशताप्तः लब्धं सप्तदश भवन्ति . तदन्तॆ सप्तदशॊ विष्कम्भादियॊगपातॊ व्यतीपातसंज्ञकः सॊऽपि खर्जूरिकचक्र ऎक रॆखाग्रस्थयॊरनुलॊमविलॊमयॊश्चन्द्रार्कयॊदृष्टयुद्भवॊ वह्निरॆव रौद्रः परुषॊ लॊकॆ शुभकार्यविनाशार्थमुत्पद्यतॆ. असौ व्यतीपातः सकलॊऽपि शुभकार्य विनाशकृद्भवतीति भावः .. 20 ..
अथ भसन्धिगण्डान्तयॊः स्वरूपज्ञानमाह—
सार्पॆन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादा भसन्धयः..
तदग्रभॆष्वाद्यपादॊ गण्डान्तं नाम कीर्त्यतॆ .. 21 ..
सौरदीपिका.
आश्लॆषाज्यॆष्ठारॆवती नक्षत्राणाम्
चतुर्थाः
चरणाः
नक्षत्रसन्धयॊ भवन्ति .
आश्लॆषाज्यॆष्ठा रॆवतीनक्षत्राणामाग्रिमनक्षत्रॆषु . मघामूलाश्विनीनक्षत्रॆष्वित्यर्थः .
प्रथमचरणः
नक्षत्रगण्डान्तं प्रसिद्धं
कथ्यतॆ .. 21 ..
अथैतदधिकारॊक्तानां व्यतीपातादीनां निषिद्धत्वमाह—
व्यतीपातत्रयं घॊरं गण्डान्तत्रितयं तथा ..
ऎतद्भसन्धित्रितयं सर्वकर्मसु वर्जयॆत् .. 22..
सौरदीपिका.
व्यतीपातानां त्रयमुपलक्षणत्वाद्वैधृतित्रयमपि
दुष्टम् .
गण्डान्तत्रयं
घॊरम् .
नक्षत्रसन्धित्रयं तथा घॊरम् .
पूर्वॊक्तघॊरं
सकलमाङ्गल्यकर्मसु
जह्यादित्यर्थः .. 22 ..
अथार्कांशपुरुषः शिष्टावशिष्टं स्ववाक्यमुपसंहरति—
इत्यॆतत्परमं पुण्यं ज्यॊतिषां चरितं हितम् ..
रहस्यं महदाख्यातं किमन्यच्छ्रॊतुमिच्छसि .. 23 ..
सौरदीपिका. हॆ मयासुर ! तुभ्यम्
ऎवम्
शृणुष्वैकमना इत्यादिः सर्वकर्मसु वर्जयॆदित्यन्तं
ग्रहनक्षत्रादीनां
माहात्म्यं गणितादिज्ञानमिति यावत्
इह लॊकॆ कीर्तिकरं
परलॊक उत्कृष्टं
धर्म्यम् . अतऎव
अतिगॊप्यम्
मया कथितम् .
उक्तातिरिक्तं
कतरत्
ज्ञातुम्
अभिलषसि . तथा च मया तुभ्यं यत् पूर्वमुक्तं तत्र यत्र यत्र तव संशयंस्तत्र तत्र मत्सङ्कॊचमुपॆक्ष्य मां प्रति प्रश्नस्त्वया कार्यः .
तव समाधानं करिष्यामीति भावः .. 23 ..
इति, श्रीसिद्धान्तवागीशपण्डितमाधवप्रप्तादपुरॊहितविरचितायां सौरदीपिकायां पाताधिकारॊ नामैकादशः समाप्तः .. 11 ..
12 अथ भूगॊलाध्यायः. 198
अथ भूगॊलाध्यायॊ व्याख्यायतॆ . तत्र मयासुरॆण सूर्यांशपुरुषः पृष्ट इत्याह—
अथार्कांशसमुद्भूतं प्रणिपत्य कृताञ्जलिः ..
भक्त्या परमयाभ्यर्च्य पप्रच्छॆदं मयासुरः ..1..
सौरदीपिका. -
सूर्यांशपुरुषवचनश्रवणानन्तरं
मयनामा श्रॊता दैत्यः
रचितहस्ताग्राञ्जलिपुटः
सूर्याशॊत्पन्नं पुरुषं स्वाध्यापकं गुरुं
उत्कृष्टया
आराध्यत्वॆन ज्ञानरूपया
सम्पूज्य
नमस्कृत्य
वक्ष्यमाणं प्रश्नवृन्दं
पृष्टवान् .. 1..
अथ तत्प्रश्नानाह—
भगवन्किम्प्रमाणा भूः किमाकारा किमाश्रया .
किंविभागा कथं चात्र सप्तपातालभूमयः..2..
अहॊरात्रव्यवस्थां च- विदधाति कथं रविः .
कथं पर्यॆति वसुधां- भुवनानि विभावयन् ॥ 12.03 ॥
दॆवासुराणामन्यॊन्य-महॊरात्रं विपर्ययात् .
किमथ तत्कथं वा स्या-द्भानॊर्भगणपूरणात् ॥ 12.04 ॥
पित्र्यं मासॆन भवति- नाडीषष्ट्या तु मानुषम् .
तदॆव किल सर्वत्र- न भवॆत्कॆन हॆतुना ॥ 12.05 ॥
दिनाब्दमासहॊराणा-मधिपा न समाः कुतः .
कथं पर्यॆति भगणः- सग्रहॊऽयं किमाश्रयः ॥ 12.06 ॥
भूमॆरुपर्युपर्यूर्ध्वाः- किमुत्सॆधाः किमंतराः .
ग्रहर्क्षकक्षाः किंमात्राः- स्थिताः कॆन क्रमॆण ताः ॥ 12.07 ॥
ग्रीष्मॆ तीव्रकरॊ भानु-र्न हॆमंतॆ तथाविधः .
कियती तत्करप्राप्ति-र्मानानि कति किं च तैः ॥ 12.08 ॥
सौरदीपिका.
षड्गुणैश्वर्यसम्पन्न ! . सर्वबॊधकॆति तात्पर्यार्थः .
भूमिः
कियत्प्रमाणं यस्याः सा . भूमॆः परिधियॊजनानि कियन्तीत्यर्थः .
कथमाकारः स्वरूपः यस्याः सा .
का आश्रया यस्याः सा . तथास्या आश्रय आधारः क इत्यर्थः . कथं तिष्ठतीति यावत् .
कथं विभागा विभक्तांशा यस्याः सा .
भूम्यां
पातालविभागरूपा आश्रयाः सप्तसंख्याकाः
कॆन प्रकारॆण तिष्ठन्तीत्यर्थः .
समुच्चयार्थॆ .
सूर्यः
दिनरात्र्यॊर्विवॆकं
कॆन प्रकारॆण
विद
करॊति .
वक्ष्यमाणानि
प्रकाशयन्
पृथ्वी
कॆन प्रकारॆण
प्रदक्षिणतया भ्रमति . भूमॆनिराधारावस्था नासम्भवॆन साधारत्वॆ भूम्यभितॊ ग्रहभ्रमणमाधारॆ बाधितमिति भावः .
दॆवदैत्यानाम्
परस्परम् .
अहॊरात्रं सुप्रसिद्ध दिवानक्तमित्यर्थः .
वैपरीत्यात् यदा दॆवानामहस्तदा दैत्यानां रात्रिर्यदा दॆवानां रात्रिस्तदा दैत्यानामह इति
किंप्र यॊजनमभिप्रॆत्य भवति .
दॆवासुरयॊरहॊरात्रं
सूर्यस्य
द्वादशराशिभॊगात्
कुतॊ भवति
समुच्चयॆ ..
पितृणामहॊरात्रं
मासॆन दर्शावधिकचान्द्रमासॆन
कॆन कारणॆन
भवति जायतॆ .
घटीषष्ट्या
मनुष्याणामहॊ रात्रं यद्भवति
मानुषाहॊरात्रमॆव
सर्वलॊकॆ
निश्चयॆन कॆन हॆतुना
न स्यात् .
दिनवर्षमासहॊराणाम्
स्वामिन
अभिन्नाः
कस्मात्कारणान्न भवन्ति तॆषामॆक ऎव पतिः किमु नॆत्यर्थः .
ग्रहसहितः
ज्यॊतिश्चक्रं
कॆन प्रकारॆण
भ्रमति . अयं दृश्यमानः सग्रहॊ भगणः
क आधारॊ यस्यॆति भगणस्याधारश्च क इत्यर्थः .
पृथिव्याः सकाशात्
आकाशॆ ऊर्ध्वाधः क्रमॆण स्थिताः
ग्रह नक्षत्राणामाकाशॆ मार्गाः
कियानुत्सॆध उच्चता यासाः ताः .
कियदन्तरालं यासां ताः . ग्रहनक्षत्राणां कक्षान्तराल प्रमाणं कियदित्यर्थः.
किमात्मिकाः
किंप्रमाणा वा .
ग्रहर्क्षकक्षाः
कॆन क्रमॆणाकाशॆ अधिष्ठिताः सन्ति . पूर्व कस्त दुत्तरं क इत्यादिक्रमॊ न ज्ञात इत्यर्थः .
ग्रीष्मर्तौ
सूर्यः
तीक्ष्णकिरणॊ भवति .
तादृशः .. तीक्ष्णाकरण इत्यर्थः
हॆमन्तौ
कथं नॆ भवती त्यर्थः .
सूर्यकिरणानां गमनपद्धतिः
कियत्प्रमाणा . सूर्यकिरणैः कियदाकाशस्यान्धकारॊ विनष्टं भवतीत्यर्थः . भानॊः करैः क्रियद्दॆशं समन्ततॊ व्याप्तमिति यावत्
सौर सावननाक्षत्रचान्द्रादीनि
कतिसंख्याकानि मानानि सन्ति ..
मानश्च
किं प्रयॊजनम् ..2.3.4.5.6.7. 8 .. -
ऎतान्प्रश्नान्कृत्वा मयः प्रार्थयति—
ऎतं मॆ संशयं चिन्धि भगवन्भूतभावन ..
अन्यॊ न त्वामृतॆ छॆत्ता विद्यतॆ सर्वदर्शिवान् .. 9 ..
सौरदीपिका.
षड्गुणैश्वर्यसम्पन्न ! . सर्वबॊधकॆति तात्पर्यार्थः .
भूतस्यातीतकालस्य भावना विचारॊ यस्य तत्सम्बुद्धौ. भूतस्यॊपलक्षणाद्वर्तमानभविष्यतॊरपि कालज्ञॆति सिद्धॊऽर्थः . त्वं
मम
पूर्वॊक्तं
संदॆहं मत्कृतप्रश्नानियर्थः .
छॆदय . दूरीकुर्वित्यर्थः .
त्वां विना
अपरः
सर्वद्रष्टा . सर्वज्ञ इत्यर्थः .
संशयापनॊदकः
नास्ति . भॊ भगवन्त्वां विनान्यॊ मम संशयच्छॆत्ता सर्वदर्शी च कॊऽपि नास्तीत्यर्थः .. 6 ..
अथ मयासुरॊक्तप्रश्नानुवादं श्रुत्वा सूर्यांशपुरुषॊ मयासुरं
प्रति पुनर्वदतिस्मॆत्याह—
इति भक्त्यॊदितं श्रुत्वा मयॊक्तं वाक्यमस्य हि ..
रहस्यं परमध्यायं ततः प्राह पुनः स तम् .. 10..
सौरदीपिका.
सूर्याशपुरुषः
पूर्वॊक्तं
आराध्यज्ञानॆनॊत्पन्नं
मयॆन कथितं
वचनं
आकर्ण्य
द्वितीयवारं
पूर्वार्धकथनानन्तरं
मयासुरं प्रति
द्वितीयं
ग्रन्थम् . ग्रन्थस्यॊत्तरखण्डमित्यर्थः
पूर्वखण्डस्य
गॊप्यत्वॆन तत्त्वभूतं
निश्चयॆन
उवाच . प्रकर्षणावददित्यर्थः .. 10 ..
अथ सूर्यांशपुरुषवचनानुवादॆ सूर्यांशपुरुषॊ मयासुरं प्रति
मदुक्तं सावधानतया श्रॊतव्यमित्याह—
शृणुष्वैकमना भूत्वा गुह्यमध्यात्मसंज्ञितम् ..
प्रवक्ष्याम्यतिभक्तानां नादॆयं विद्यतॆ मम .. 11 ..
सौरदीपिका.
सूर्यांशपुरुषस्य
अत्यन्त मद्भजन कारकाणाम्
अदातव्यं वस्तु
न वर्ततॆ . अतिभक्तानां सर्वमॆव दॆयमित्यर्थः . अतः कारणाददं त्वां प्रति
गॊप्यं स्वतॊ ज्ञातुमशक्यत्वात् . अतऎव
अध्यात्मज्ञानसंज्ञम् . यथात्मज्ञानमतिकाठिनं तथॆदमित्यर्थः . उपदॆशमात्रगम्यमिति भावः .
कथयिष्यामि . तत्त्वम्
ऎकस्मिन्मनॊ विद्यतॆ यस्यासौ . ऎकचित्तॊ भूत्वॆत्यर्थः
श्रॊत्रद्वारात्मनः संयॊगॆन प्रत्यक्षं कुर्वित्यर्थः .. 11..
गुह्यं वक्ष्यामीति तदुक्तञ्चाह—
वासुदॆवः परं ब्रह्म- तन्मूर्तिः पुरुषः परः .
अव्यक्तॊ निर्गुणः शांतः- पञ्चविंशात्परॊऽव्ययः ॥ 12.12 ॥
प्रकृत्यंतर्गतॊ दॆवॊ- बहिरंतश्च सर्वगः .
संकर्षणॊऽपः सृष्ट्वादौ- तासु वीर्यमवासृजत् ॥ 12.13 ॥
तदण्डमभवद्धैमं- सर्वत्र तमसावृतम् .
तत्रानिरुद्धः प्रथमं- व्यक्तीभूतः सनातनः ॥ 12.14 ॥
हिरण्यगर्भॊ भगवा-नॆष छंदसि पठ्यतॆ .
आदित्यॊ ह्यादिभूतत्वात्- प्रसूत्या सूर्य उच्यतॆ ॥ 12.15 ॥
परं ज्यॊतिस्तमः पारॆ- सूर्यॊऽयं सवितॆति च .
पर्यॆति भुवनानॆष- भावयन्भूतभावनः ॥ 12.16 ॥
प्रकाशात्मा तमॊहंता- महानित्यॆष विश्रुतः .
ऋचॊऽस्य मंडलं सामा-न्युस्रा मूर्तिर्यजूंषि च ॥ 12.17 ॥
त्रयीमहॊऽयं भगवान्- कालात्मा कालकृद्विभुः .
सर्वात्मा सर्वगः सूक्ष्मः- सर्वमस्मिन् प्रतिष्ठितम् ॥ 12.18 ॥
रथॆ विश्वमयॆ चक्रं- कृत्वा संवत्सरात्मकम् .
छंदांस्यश्वाः सप्त युक्ताः- पर्यटत्यॆष सर्वदा ॥ 12.19 ॥
त्रिपादममृतं गुह्यं- पादॊऽयं प्रकटॊऽभवत् .
सॊऽहंकारं जगत्सृष्ट्यै- ब्रह्माण मसृजत् प्रभुः ॥ 12.20 ॥
सौरदीपिका.
वसत्यस्मिन् जगत्समस्तमसौ वा जगति समस्तॆ
वसतीति वासुः . दॆवनाद्भासनाद्दॆवः . वासुश्चासौ दॆवश्च वासुदॆवः . तथा चॊक्तम् . सर्वत्रासौ समस्तं च वसत्यत्रॆति वै यतः . अतॊऽसौ वासुदॆवाख्यॊ विद्वद्भिः परिगीयतॆ . इति
परं सर्वॊत्तम ब्रह्म . जीवानामपि ब्रह्मात्मकतया . तद्वारणाय परमिति सर्वॊत्तममित्यर्थकम् .
वासुदॆवस्य मूर्तिरंशः
पुरुषॊत्तम इत्यर्थः .
अतीन्द्रियः
निर्मताः गुणाः सत्त्वरजस्तमांसि यस्मात्सः प्रकृतरॆव गुणसम्बन्धात् .
रागद्वॆषादिरहितः
पञ्चविंशतितत्त्वात् . षॊडश विकृतयः, सप्त प्रकृतिविकृतयॊ, मूलप्रकृतिश्चॆति चतुर्विंशतितत्त्वानि पञ्चविंशस्तु जीवस्तस्मादित्यर्थः .
अतिरिक्तः
क्षयरहितः . नित्य इत्यर्थः .
मायॊपहित सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः . सान्तर्गता परावर्तिनी यस्य पुरुषाधिष्ठिताया ऎव तस्याः सृष्ट्यादौ प्रवर्तनात् . यतः प्रकृतिरचॆतना पुरुषश्चॆतन इति .
दीव्यतीति दॆवः
जगदुपादानत्वात्सर्वव्यापक ऎवंभूतः
वासुदॆवांशः
प्रथमम् . सृष्ट्यादावित्यर्थः
पयांसि सृष्ट्वा निर्माय
अप्सु
सत्त्वविशॆषम्
चिक्षॆप .
वीर्य
सौवर्णम्
गॊलाकारं
बहिरन्तश्च
अन्धाकारॆरणा
आच्छादितम्
अन्धकारसहिताकाशॆ सुवर्णाण्डमजनीत्यर्थः .
अण्डमध्यॆ
पूर्वं
नित्यः
अनिरुद्धाख्यः पुरुषः
अभिव्यक्तः . नतत्पन्नः . सत्कार्यवादाभ्युपगमात् . यथा तिलॆभ्यस्तैलं सदैवाभिव्यक्तं न तूत्पन्नम् .
सङ्कर्षणांशॊऽनिरुद्धः
षडैश्वर्यसम्पन्नःः
वॆदॆ
हिरण्यगर्भ इति नाम्ना
अभिधीयतॆ. सुवर्णाण्डमध्यरूपगर्भॆ स्थितत्वात् . वॆदॆऽस्य हिरण्यगर्भ इति प्रसिद्ध मभिधान्तरमित्यर्थः
निश्चयॆन
सर्वॆषां प्रथममभिव्यक्तत्वात्
अयं आदित्य इति नाम्नॊच्यतॆ .
सर्वॆषां प्रसवस्थानतया
सूयतॆऽस्माजगदिति सूर्यः
कथ्यतॆ . “हिरण्यगर्भः समवर्तताग्रॆ भूतस्य जातः पतिरॆक आसीत्’ इति श्रुतिः .
अनिरुद्धः
सर्वस्मादुत्कृष्टं
तॆजॊभाः
सूर्यशब्दवाच्यः .
तमसॊंऽधकारस्य विरामॆ वर्तमानत्वात्
सवितॆति नाम्नॊच्यतॆ . सवितृशब्दवाच्यॊ भवतीत्यर्थः . "आदित्यवर्णं तमसः परस्तात्" इति श्रुतिः .
सविता
भूतानां स्थावरजङ्गमात्मकानां भावन उत्पत्तिस्थितिसंहारकारकः
लॊकान्
प्रकाशयन्
अहॊरात्र पर्यटति .
अनिरुद्धाख्यः
प्रकाशमानत्वात्प्रकाशात्मा तथा
अन्धकारस्य नाशकत्वात्तमॊहन्ता . अत ऎव
महत्तत्त्वम् .
नाम्ना
वॆदपुराणादौ निरुक्तः .
सूर्यस्य
ऋग्वॆदमन्त्राः
तॆजॊविशॆषपिण्डं
सामवॆदमन्त्राः
किरणाः
यजुर्वॆदमन्त्राः
स्वरूपम्
समुच्चयॆ . अत ऎवं
निरुक्तः
षड्गुणैश्वर्यसंपन्नः
वॆदत्रयात्मकः
कालरूपस्तदुदयादिनैव कालपरिगणनात् . अत ऎव
कालस्याहॊरात्रादॆः कर्ता
ईश्वरः अत ऎव
सर्वत्र स्थितॊ व्यापकः
जग स्वरूपः
अव्यापकमूर्तिधारी . सर्वगॊऽपि सूक्ष्मत्वान्नॊप लभ्यत इत्यर्थः .
निरुक्तसूर्यॆ
जगत्
स्थितम् सर्वाधारक इत्यर्थः .
संसारात्मकॆ
स्यन्दनॆ
वर्षात्मकं
रथाङ्गं कालचक्रं
सप्त सप्तसंख्याकानि छन्दांसि गायत्त्र्युष्णिगनुष्टुप्बृहतीपंक्तित्रिष्टुंब्जगत्यॊऽश्वास्तुरङ्गमाः
संयॊजिताः
नियॊज्य
अनिरुद्धनामा
नित्यं
भ्रमति .
वॆदात्मनस्त्रिचरणम्
दिवि ज्ञॆयम् . अत ऎव
अग म्यमिदम्
स्थावरजङ्गमात्मकजगद्रूपः
चतुर्थचरणः
प्रत्यक्षः
बभूव . ’त्रिपादूर्ध्वमुदैत्पुरुषः पादॊऽस्यॆहाभवात्पुनः’ इति श्रुतिरपि व्यक्ता .
अनिरुद्ध नामा
उत्पत्तिसमर्थः
जगत्सर्जननिमित्तम्
अहङ्कारतत्त्वरूपं
पुरुषम्
उत्पादयामास .. 12 . 13 . 14 . 15 . 16 . 17 . 18 . 16 . 20..
अथॊत्पादितब्रह्मपुरुषं जगत्सर्जनार्थ नियुज्य स्वयं भ्रम-
नवतिष्ठत इत्याह—
तस्मै वॆदान् वरांदत्त्वा- सर्वलॊकपितामहम् .
प्रतिष्ठाप्याण्डमध्यॆऽथ -स्वयं पर्यॆति भावयन् ॥ 12.21 ॥
.
ब्रह्मॊत्पादनानन्तरं
अनिरुद्धनामा
उत्पादितब्रह्मपुरुषाय
श्रॆष्ठान्
चत्वारॊ वॆदान्
अर्पयित्वा
सर्वलॊकानां पितामहरूपं तं ब्रह्माणम्
सुवर्णाण्डमध्यॆ
निधाय
जगत्प्रकाशयन्सन्
स्वयं तदण्डमध्यगतॊ भ्रमति .. 21 .. .
अथ जातसृष्टीच्छॊ ब्रह्मा चन्द्रसूर्यावस्मात्प्रत्यक्षा
वुत्पादयामासॆत्याह—
अथ सृष्ट्यां मनश्चक्रॆ ब्रह्माहङ्कारमूर्तिभृत् ..
मनसश्चन्द्रमा जज्ञॆ मूर्यॊऽक्ष्णॊस्तॆजसां निधिः .. 22 ..
सौरदीपिका.
अधिकारप्राप्त्यनन्तरम्
अहङ्कारतत्वमार्तिधारकं
सर्वलॊकापितामहा
सृष्ट्युत्पादनॆ
अन्तःकरणं
करॊतिस्म . ब्रह्मणॊऽहं सृष्टिं करॊमीतीच्छा जातॆत्यर्थः . अनन्तरं
ब्रह्मणॊ मनसः सकाशात्
इन्दुः
उत्पन्नः . चन्द्रॊ भवत्विति मनसा सलिलात्मकश्चन्द्रॊ जात इत्यर्थः .
नॆत्राभ्यां सकाशात्
तॆजःपुञ्जः
रविरुत्पन्नः .. 22 ..
अथ महाभूतॊत्पत्तिमाह—
मनसः खं ततॊ वायुरग्निरापॊ धरा क्रमात् ..
गुणैकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरॆ .. 23 ..
सौरदीपिका.
अनन्तरं
ब्रह्मणॊ मनसः
आकाशं
आकाशात्
पवनः . वायॊः सकाशात्
वह्निः . वह्नॆः
जलम् . जलाद्
भमिरुत्पन्ना . ऎतानि
पञ्चसंख्याकानि
तत्वानि
यथॊत्तरं
गुणस्यैकॊपचयॆन
उत्पन्नानि .
ऎवकारान्न्यूनाधिकव्यवच्छॆदः . शब्दैकगुणमाकाशम् . शब्दस्पर्शगुणवान्वायुः . शब्दस्पर्शरूपगुणात्मकं तॆजः . शब्दस्पर्शरूपरसात्मकगुणचतुष्टययुतं जलम् . शब्दस्पर्शरूपरसगन्धगुणा पृथ्वी जातॆति भावः .. 23 ..
अथ चन्द्रसूर्ययॊः स्वरूपं वदन्पञ्चताराणामुत्पत्तिमाह—
अग्नीषॊमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः..
तॆजॊभूखाम्बुवातॆभ्यः क्रमशः पञ्च जज्ञिरॆ .. 24..
सौरदीपिका.
सूर्यचन्द्रौ
वहिजल गॊलात्मकॊ जातौ . सूर्यॊऽग्निस्वरूपस्तॆजॊगॊलकरचाक्षुषत्वात् . चन्द्रस्तु सॊमस्वरूपः, मद्यस्य सॊमवाच्यत्वाजलगॊलरूपः . अग्नीषॊमाविति प्रयॊगरछान्दसिकः .
अनन्तरं
अग्निभूम्यम्बरजलपवनॆभ्यः
क्रमात्
भौमादयः
पञ्चताराग्रहाः
उत्पन्नानि . तॆजसॊ भौमः, पृथिव्या बुधः, आकाशाद्गुरुः, अद्भ्यः शुक्रः, वायॊः शनिरुत्पन्न इत्यर्थः .
तुकारादुक्तभूतस्य भागाधिक्यमन्यभूतानां भागसाम्य मित्यर्थः .. 24 ..
अथ राशि नक्षत्राणि चाह—
पुनर्द्वादशधात्मानं व्यभजद्राशिसंज्ञकम् ..
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी ..25..
सौरदीपिका.
अनन्तरम्
मनःकल्पितं वृत्तं
द्वादशस्थानॆषु
मॆषादिद्वादशराशिसंज्ञक
चकारॆत्यर्थः .
द्वितीयवारं
इच्छाविषयं वशं विद्यतॆ यस्यॆति वशी, ब्रह्मा
अश्विन्यादिनक्षत्ररूपिणं
सप्तविंशतिविभागात्म कमकरॊत् . वशी ब्रह्मा द्वादशधा मॆषादिराशिरूपॊजातस्तत आत्मानमश्विन्यादि सप्तविंशतिनक्षत्ररूपं चकारॆत्यर्थः .. 25 ..
अथ चराचरं जगदकरॊदित्याह—
ततश्चराचरं विश्वं निर्ममॆ दॆवपूर्वकम् ..
ऊर्ध्वमध्याधरॆभ्यॊऽथ स्रॊतॊभ्यः प्रकृतीः सृजन् ..26..
.
भचक्रसर्जनानन्तरम्
श्रॆष्ठमध्याधमॆभ्यः
व्यक्तिभ्यः
सत्त्वरजस्तमॊविभॆदात्मिकाः
निर्मायन्
दॆवमनुष्यासुरादिकं
जगत्
चॆतनाचॆतनात्मकं
कृतवान् .. 26 ..
अथ रचितपदार्थानामवस्थानं कृतवानित्याह—
गुणकर्मविभागॆन सृष्ट्वा प्राग्वदनुक्रमात् ..
विभागंकल्पयामास यथास्वं वॆददर्शनात् .. 25
सौरदीपिका.
पूर्वकल्पॆ यॆन यादृशं सदसत् कृतं तस्य यादृशा गुणाः सत्वरजस्तमॊरूपास्तदनुसारॆण
चन्द्रसूर्यादिप्रागुक्तसृष्टिरचनानुक्रमात्
दॆवमनु ष्यासुरभूमिपर्वतादिकचराचरसर्जनं कृत्वा
वॆदॊक्तप्रकारात्
यथादॆशं यथाकालं
अवस्थानविभागं
कृतवान् .. 27 ..
कॆषामित्याह—
ग्रहनक्षत्रताराणां भूमॆर्विश्वस्य वा विभुः..
दॆवासुरमनुष्याणां सिद्धानां च यथाक्रमम् .. 28
सौरदीपिका.
समर्थः
खॆटर्क्षत्रताराणां
पृथिव्याः
त्रैलॊक्यस्य
वा
समुच्चयॆ
दॆवदानव नराणां
विद्याधरादिकानां
चकारः समुच्चयॆ
यथायॊग्य
मवस्थानं कृतवान् .. 28 ..
अथावस्थानं ब्रह्माण्डाकाशॆ कृतमित्यत आह—
ब्रह्माण्डमॆतत्सुषिरं तत्रॆदं भूर्भुवादिकम् ..
काहद्वितयस्यैव सम्पुटं गॊलकाकृतिः .. 26 ..
सौरदीपिका.
प्रागुक्तं
ब्रह्मणाधिष्ठितं सुवर्णाण्डं
अवकाशात्मकं
अवकाशॆ
जगत्
भूर्भुवःस्वर्गात्मकमवस्थितं न बहिः . अस्य स्वरूप माह
कटाहॊऽर्धगॊलाकारं सावकाशं पात्रं तस्य द्वितयं तस्य
ऎवकारॊ न्यूनाधिकव्यवच्छॆदकार्थः .
आभिमुख्यॆन मिलितं
गॊलाकारः स्यात् .. 21 ..
अथ ब्रह्माण्डान्तःपरिधि वदस्तदन्तर्भग्रहादिकमाकाशॆ
यथास्थानं भ्रमतीत्याह—
ब्रह्माण्डमध्यॆ परिधिर्व्यॊमकक्षाभिधीयतॆ ..
तन्मध्यॆ भ्रमणं भानामधॊऽधः क्रमशस्तथा ..30.. मन्दामरॆज्यभूपुत्रसूर्यशुक्रॆन्दुजॆन्दवः..
परिभ्रमन्त्यधॊऽधस्थाः सिद्धविद्याधरा घनाः..31..
सौरदीपिका.
ब्रह्माण्डान्तः
वृत्तमानं
आकाशकक्षा
उच्यतॆ .
ब्रह्माण्डमध्यॆ
नक्षत्राणां
गमनं भवति .
तद्वत्
नक्षत्रकक्षाया अधॊऽधः
क्रमात्
शनिगुरुभौमार्कभृगुबुधचन्द्राः
भ्रमणं कुर्वन्तीत्यर्थः .
सिद्धविद्याधरा मॆघाश्च
चन्द्रादधः क्रमॆणाकाशॆऽवस्थिताः सन्ति .. 30..31..
अथ भूम्यवस्थानमाह—
मध्यॆ समन्तादण्डस्य भूगॊलॊ व्यॊम्नि तिष्ठति ..
विभ्राणः परमां शक्तिं ब्रह्मणॊ धारणात्मिकाम् ..32..
सौरदीपिका.
ब्रह्माण्डस्य
सर्वप्रदॆशात्
मध्यस्थानॆ कॆन्द्ररूपॆ
आकाशॆ
पृथ्वी मण्डलः
स्थितॊऽस्तीत्यर्थः . किं विशिष्टॊ भूगॊलः
ईश्वरस्य
निराधारावस्थानरूपां
उत्कृष्टां
सामर्थ्यविशॆषं
धारयन् . ऎतॆन भूः किमाकारा किमाश्रयॆति प्रश्नद्वयमुत्तरितम् .. 32 ..
अथ ’कथं चात्र सप्त पातालभूमय’ इति प्रश्नस्यॊत्तरमाह—
तदन्तरपुटाः सप्त नागासुरसमाश्रयाः..
दिव्यौषधिरसॊपॆता रम्याः पातालभूमयः .. 33 ..
- सौरदीपिका.
रमणीयाः
दिव्या या ऒषधयः स्वप्रकाशास्तासां रसैर्युक्ताः
नागा वासुकिप्रमुखादयः सर्पाः असुराः दैत्या ऎषामाश्रयॊ यॆषु सन्तीत्यॆ तादृशाः
सप्तसङ्ख्याकाः
पातालप्रदॆशाः . अतलवितलसुतलादिकाः
तस्य भूगॊलस्या न्तरपुटा मध्यस्थपुटा गुहारूपाः सन्ति .. 33 ..
अथ मॆरॊरवस्थानमाह—
अनॆकरत्ननिचयॊ जाम्बूनदमयॊ गिरिः..
भूगॊलमध्यगॊ मॆरुरुभयत्र विनिर्गतः .. 34..
सौरदीपिका.
अनॆकानि नानाविधानि माणिक्यवज्रादीनि तॆषां निचयः समूहॊ यत्रासौ बहुविधरत्नपूरित इत्यर्थः
स्वर्णमयः
मॆरुनामाख्यः
पर्वतः
भूगॊलस्य मध्यप्रदॆशगतः
भूगॊलस्यॊभयत्र
बहिः स्थितदण्डाकारस्वर्णाद्रिमध्यॆ भूगॊलः प्रॊतस्तिष्ठतीत्यर्थः, अतऎव भूभृदित्यन्वर्थसंज्ञॆति तात्पर्यार्थः ..34..
अथ मॆरौ दॆवादीनां निवासस्थानमाह—
उपरिष्टात् स्थितास्तस्य- सॆंद्रा दॆवा महर्षयः .
अधस्तादसुरास्तद्व-द्द्विषंतॊऽन्यॊन्यमाश्रिताः ॥ 12.35 ॥
सौरदीपिका.
मॆरॊः
उपरिभागॆ उत्तरध्रुवादधॊ भाग इत्यर्थः .
इन्द्रॆण संहिताः
अमराः
मुनयश्च
तिष्ठन्ति
अधॊभागॆ दक्षिणध्रुवाधॊभागॆ
दैत्याः
यथॊर्ध्वभागॆ दॆवास्तद्वदित्यर्थः .
आस्थिताः सन्ति . तॆ दॆवदैत्याः
परस्परं
द्वॆषं कुर्वन्तस्तत्र तिष्ठन्तीत्यर्थः .. 35 ..
अथ भूगॊलॆ समुद्रावस्थानमाह—
ततः समन्तात्परिधिः क्रमॆणायं महार्णवः ..
मॆखलॆव स्थितॊ धात्र्या दॆवासुरविभागकृत् .. 36..
सौरदीपिका.
मॆरुगिरॆः सकाशात्
अभितः
परिधिरूपः
दॆवासुराणां विभागयॊः सीमीभूतः
प्रत्यक्षः
लवणसमुद्रः
निरन्तरालक्रमॆण
भूम्याः
काञ्चीव .
तिष्ठति तॆन समुद्रादुत्तरं भूगॊलस्याध जम्बूद्वीपं दॆवानाम् ,
दाक्षिणं भूगॊलस्यार्धं दैत्यानामिति सिद्धम् . मॆरुदण्डानुरुद्धभूगॊलमध्यॆ परिधिरूपॊ लवणसमुद्रॊऽस्तीति फलितार्थः .. 36 ..
अथ समुद्रॊत्तरतटॆ चत्वारि नगराणि सन्तीत्याह—
समन्तान्मॆरुमध्यात्तु तुल्यभागॆषु तॊयधॆः..
दीपॆषु दिक्षु पूर्वादि नगर्यॊ दॆवनिर्मिताः .. 37..
सौरदीपिका.
दण्डाकारमॆरॊर्मध्यप्रदॆशात् . भूगॊलगर्भात्मकात्यर्थः
अभितः
भूमॆर्वलयाकारॆण स्थितजलधॆः
चतुर्षु दिक्षु
समानभागॆषु द्वीपॆषु जम्बूद्वीपारम्भॆषु
दॆवैः कृताः
मॆरॊः पूर्वदक्षिणपश्चिमॊत्तरदिक्षु चत्वारॊ नगर्यः सन्ति..37..
अथासां स्थितिमाह—
भूवृत्तपादॆ पूर्वस्यां यमकॊटीति विश्रुता ..
भद्राश्ववर्षॆ नगरी स्वर्णप्राकारतॊरणा ..38..
याम्यायां भारतॆ वर्षॆ लङ्का तद्द्वन्महापुरी ..
पश्चिमॆ कॆतुमालाख्यॆ रॊमकाख्या प्रकीर्तिता ..36..
उदक्सिद्धपुरी नाम कुरुवर्षॆ प्रकीर्तिता ..
तस्यां सिद्धा महात्मानॊ निवसन्ति गतव्यथाः..40..
- सौरदीपिका.
पूर्वदिशि
भूपरिधिचतुर्भागॆ
भद्राश्वसंज्ञकवर्षॆ
सुवर्णनिर्मिताः प्रासादास्तॊरणानि च यस्यामॆतादृशी
पुरी
यमकॊटिनाम्ना
विख्याता .
दक्षिणस्यां दिशि
भारतसंज्ञकवर्षॆ .
स्वर्णप्राकारतॊरणा
लङ्कासंज्ञा
महानगरी विख्याता
पश्चिमस्यां दिशि
कॆतुमालसंज्ञकवर्षॆ
रॊमकसंज्ञा नगरी
उक्ता .
उत्तरस्यां दिशि
कुरुसंज्ञकवर्षॆ
सिद्धपुरीसंज्ञा
कथिता .
सिद्धपुर्यॊ
दुःखरहिताः
यॊगाभ्यासरताः
अस्मदादिभ्यॊ महानुत्कृष्ट आत्मा यॆषां तॆ . दॆवसदृशा इत्यर्थः
निवासं कुर्वन्ति .. 38 .
39 . 40 ..
अथॊक्तानां चतुर्णां पुरीणां परस्परमन्तरालमव्यवहितं
मॆरॊरासामन्तरञ्चाह—
भूवृत्तपादविवरास्ताश्चान्यॊन्यं प्रतिष्ठिताः..
ताभ्यश्चॊत्तरगॊ मॆरुस्तावानॆव सुराश्रयः ..41..
सौरदीपिका. -
उक्तनमर्यः
परस्परं
भूपरिधिचतुर्थांशान्तरालः
स्थिताः सन्तीत्यर्थः .
चकारः समुच्चयार्थकः .
उक्तपुरीभ्यः सकाशात्
उत्तरदिक्स्थः
दॆवैरधिष्ठितः
पूर्वॊक्तः
भूपरिधिचतुर्थांशान्तरॆण स्थित इत्यर्थः .
ऎवकारॊ न्यूनाधिकव्यवच्छॆदार्थकः .. 41..
अथ तॆषां पुराणां निरक्षत्वमस्तीत्याह—
तासामुपरिगॊ याति विषुवस्थॊ दिवाकरः..
न तासु विषुवच्छाया नाक्षस्यॊन्नतिरिष्यतॆ .. 42 ..
सौरदीपिका. -,
विषुववृत्तस्थः सायनमॆषतुलादिगत इत्यर्थः .
सूर्यः
उक्तपुरीणाम्
उर्ध्वगः सन्
गच्छति . अर्थात्ताश्चतस्रॊ नगर्यः विषुववृत्तस्य धरातलॆ सन्ति . अतः कारणात्
नगरीषु
अतच्छाया
न भवति .
अक्षध्रुवस्य
उच्चता
नाङ्गीक्रियतॆ . अक्षांशाभावान्निरक्षदॆशत्वं तॆषां सिद्धमिति भावः .. 42 ..
अथ ध्रुवस्थितिमाह—
मॆरॊरुभयतॊ मध्यॆ ध्रुवतारॆ नभःस्थितॆ ..
निरक्षदॆशसंस्थानामुभयॆ क्षितिजाश्रयॆ .. 43 ..
सौरदीपिका. __
दण्डाकारमॆरॊः
उभयपार्श्वयॊरुपरिः दॆवभागॆ दैत्यभागॆ चॆत्यर्थः
आकाशस्थितॆ
दक्षिणॊत्तरॆ तारॆ क्रमॆण
आकाशमध्यॆ भवतः .
प्रागुक्तनगरस्थितमनुष्याणाम्
दक्षिणॊत्तरॆ ध्रुवतारॆ
तद्भूगर्भक्षितिजवृत्तस्थॆ भवत इत्यर्थः .. 43 ..
अथ लम्बांशाक्षांशयॊः परमत्वमाह—
अतॊ नाक्षॊच्छ्रयस्तासु ध्रुवयॊः क्षितिजस्थयॊः..
नवतिलम्बकांशास्तु मॆरावक्षांशकास्तथा .. 44..
- सौरदीपिका.
उभयॆ क्षितिजाश्रय इति कारणात्
उक्तनगरीषु
ध्रुवौच्यं
नास्ति . क्षितिजाद्धृवौच्यमक्षंशा इति ध्रुवॊन्नतरभावादक्षांशाभाव इति भावः .
लम्बांशास्तु
नवतिसंख्याकाः सन्ति . शून्याक्षांशॊननवतॆर्लम्बांशत्वात् .
मॆरुगिरौ, अक्षांशाः पलांशाः
नवतिः . ध्रुवस्य परमॊच्चत्वात् . यथा निरक्षदॆश ऽक्षांशाभावाल्लम्बांशाः परमास्तथा मॆरावक्षांशपरमत्वाल्लम्बांशाभाव इत्य
र्थसिद्धम् .. 14 ..
अथ दॆवदानवयॊर्दिनारम्भमाह—
मॆषादौ दॆवभागस्तॆ दॆवानां याति दर्शनम् ..
असुराणां तुलादौ तु सूर्यस्तद्भागसञ्चरः .. 45 ..
सौरदीपिका.
दॆवभागं निरक्षदॆशादुत्तरभूगॊलार्धं तत्र
मॆषादिप्रवॆशॆ
मॆरॊरुत्तराग्रवर्तिनां
अर्कः
प्रथमदर्शनं
गच्छति . मॆषादिस्थॆ सूर्यॆ दॆवानां दिनारम्भॊ भवतीत्यर्थः
दैत्यानां
तुलादिप्रवॆशॆ
दानवभागॆ दक्षिणभूगॊलाधः सञ्चरॊ गमनं यस्यॆत्यॆतादृशः सूर्यः दर्शनं याति . तुलादिस्थॆ सूर्यॆ दैत्यानां दिनॊदयं भवतीत्यर्थः .. 45 ..
अथ ग्रीष्मॆ तीव्रकर इत्याद्यथॊक्तप्रश्नस्यॊत्तरमाह—
अत्यासन्नतया तॆन ग्रीष्मॆ तीव्रकरा रवॆः ..
दॆवभागॆ सुराणां तु हॆमन्तॆ मन्दतान्यथा .. 46..
. -
उत्तरदक्षिणगॊलयॊः सूर्यस्य सञ्चाररूपकारणॆन
- ग्रीष्मौ
सूर्यस्य
उत्तरगॊलॆ
अत्यन्तनिकटस्थत्वॆन
दॆवानां
तीव्ररश्मयॊ भवन्ति .
हॆमन्तर्तौ
सूर्यस्य दूरास्थितत्वॆन
अत्युष्णताभावॊ भवति .. 46.. .
अथ मॆषादौ दॆवभागस्थ इत्युक्तं दॆवासुराहॊरात्र
कथनव्याजॆन विशदयति—
दॆवासुरा विषुवति क्षितिजस्थं दिवाकरम् ..
पश्यन्त्यन्यॊन्यमॆतॆषां वामसव्यॆ दिनक्षयॆ ..47..
सौरदीपिका.
विषुवद्दिनॆ
दॆवदानवाः
क्षितिजवृत्तस्थितं
सूर्य
अवलॊकनं कुर्वन्ति . दॆवाः विषुवति मॆषादौ क्षितिजस्थं सर्यमुद्यन्तं पश्यन्ति, दैत्या अस्तं गच्छन्तं पश्यन्ति . तुलादौ विषुवति दॆवा अस्तं यातमर्कं पश्यन्ति, असुराः उद्यन्तं पश्यन्तीति भावः . अतः
दॆवदैत्यानाम्
परस्परं
अपसव्यसव्यॆ
दिवसरात्री भवतः .. 47 ..
अथ पूर्वश्लॊकस्य सन्दिग्धत्वशङ्कया दिनपूर्वापरार्ध कथनच्छलॆन तदर्थॆ विशदयति—
मॆषादावुदितः सूर्यस्त्रीन्राशीनुदगुत्तरम् ..
सञ्चरन्प्रागहर्मध्यं पूरयॆन्मॆरुवासिनाम् .. 4 ..
कर्कादीन्सश्चरंस्तद्वदह्नः पश्चार्धमॆव सः ..
तुलादीस्त्रीन्मृगादींश्च तददॆव सुरद्विषाम् .. 16 ..
सौरदीपिका.
विषुवद्वृत्तक्रान्तिवृत्तयॊः सम्पातॆ रॆवत्यासन्नॆ
दर्शनतां प्राप्तः
सविता
यथॊत्तरं क्रमॆणॆति यावत्
उत्तरभागस्थान्
मॆष वृषमिथुनान्
अतिक्रामन्सन्
दॆवानां
प्रथम दिनस्यार्धं
पूर्णं करॊतीत्यर्थः . मिथुनान्तॆ सूर्य मॆरुस्थानां मध्याह्नं स्यादिति फलितार्थः
कर्कादीस्त्रीनाशीन्कर्कसिंहकन्याः
क्रमॆणॆत्यर्थः
अतिक्रामन्सन्
सूर्यः
दिवसस्य
अपरदलं पूरयॆत् .
ऎवकारॊ न्यूनाधिकव्यवच्छॆदार्थः . कन्यान्तॆ सूर्यॆ मॆरुस्थानां सूर्यास्तॊ भवतीति फलितार्थः .
तुलावृश्चिकधनुराख्यानराशीन्
मकरकुम्भमीनान् च
क्रमॆणातिक्रामन्सन्सूर्यः
दैत्यानां दिनं पूरयति .
चकारॆण तुलामृगादिक्रमॆण पूर्वापरार्धयॊः पूर्तिज्ञॆया .
ऎवकार उक्तातिरिक्तव्यवच्छॆदार्थः . धन्वन्तॆ सूर्यॆ दैत्यानां मध्याह्नं मीनान्तॆ सूर्यॆ सूर्यास्तॊ भवतीति फलितार्थः .. 48 . 46 ..
अथातॊ दॆवासुराणामिति प्रश्नस्यॊत्तरमाह—
अतॊ दिनक्षपॆ तॆषामन्यॊन्यं हि विपर्ययात् ..
अहॊरात्रप्रमाणं च भानॊर्भगणपूरणात् .. 50 ..
सौरदीपिका. -
उक्तकारणात्
दॆवदैत्यानाम्
परस्परं
निश्चयॆन
व्यत्यासात्
दिनरात्री भवतः . “अथ तत्कथं वा स्यात् . भानॊर्भगणपूरणादिति प्रश्नस्याप्युत्तरं फलितमित्याह—
सूर्यस्य
मॆषादिद्वादशराशिभॊगात्
दॆवदानवानामहॊरात्रमानं भवति .
चकारः पूर्वार्धॆन समुच्चयार्थक स्तॆन द्वयॊः पूर्वॊक्तमॆकं कारणमिति स्पष्टम् .. 50 ..
अथ मॆषादावुदित इत्यादिश्लॊकस्य फलितार्थॆ तदुपपत्तिं चाह—
दिनक्षपार्धमॆतॆषामयनान्तॆ विपर्ययात् ..
उपर्यात्मानमन्यॊन्यं कल्पयन्ति सुरासुराः..51..
सौरदीपिका.
दॆवदैत्यानाम्
अयनसन्धौ
विप-
व्यत्यासात्
दिनार्धं रात्र्यर्धं च भवति . मिथुनान्तॆ दॆवानां दिनार्धमसुराणां रात्र्यर्धं तथा धनुरन्तॆ सुराणां निशार्धमसुराणां दिनार्धं च स्यादिति फलितार्थः .
दॆव दानवाः
परस्परम्
स्वम्
ऊर्ध्वभागॆ
अङ्गीकुर्वन्ति .. 51..
अथ दॆवदैत्ययॊरूर्ध्वाधॊरीतिमन्यत्रापि सदृष्टान्तमतिदिशति—
अन्यॆऽपि समसूत्रस्था मन्यन्तॆऽधः परस्परम् ..
भद्राश्वकॆतुमालस्था लङ्कासिद्धपुराश्रिताः ..52..
सौरदीपिका.
दॆवदैत्यभिन्ना अपि
भूव्यासान्तरिता नराः
भद्राश्वकॆतुमालस्यान्तर्गतयमकॊटिरॊमकपट्टनस्थाः
लङ्कासिद्ध पुरीस्थिताश्च
अन्यॊन्यम्
स्वस्मादधॊभागॆ
इष्यन्तॆ . मदीयमॆव स्थानमुपरिस्थितमिति मन्यन्तॆ ..52..
अथॊक्तकाल्पनिकमॆवॆति दृढयन्नाह—
सर्वत्रैव महीगॊलॆ स्वस्थानमुपरिस्थितम् ..
मन्यन्तॆ खॆ यतॊ गॊलस्तस्य क्वॊर्ध्व क्व वाप्यधः..53..
- सौरदीपिका.
भूगॊलॆ
सर्वप्रदॆशॆषु मध्यॆ
निजाधिष्ठितस्थानम्
ऊर्ध्वभागॆ
वसन्तं
अङ्गीकुर्वन्ति .
यस्मात् कारणात् .
भूगॊलः
आकाशॆऽस्ति .
भूगॊलस्य
कस्मिन्भागॆ
ऊर्ध्वत्त्वं
कस्मिन्भागॆ
अधस्त्वमप्यर्थादस्य भूगॊलस्य कुत्राप्यूर्ध्वाधरत्वं नास्तीति भावः .
वा समुच्चयॆ .. 53 ..
नन्वियं भूः समा दर्पणॊदराकारा प्रत्यक्षा कथं
गॊलाकारॆत्यत आह—
अल्पकायतया लॊकाः स्वात्स्थानात्सर्वतॊ मुखम् ..
पश्यन्ति वृत्तामप्यॆतां चक्राकारां वसुन्धराम् ..54..
सौरदीपिका.
जनाः
हस्वशरीरत्वॆन
स्वकीयस्थानात्
सर्वदिक्षु
अभिमुख
गॊलाकारामपि
प्रत्यक्षां
भूमि
वर्तुलदर्पणॊदराकारां
लॊकयन्ति अत्यल्पॊच्चॊ नरः स्वस्थानात्सर्वदिक्षु पृथिव्याः शतांशादप्यल्प भाग पश्यत्यतस्तत्र भूवृत्तस्याल्पभागत्वाद्वक्रता नॊपलक्ष्यतॆ . गॊलाकारां न पश्यतीत्यर्थः . तथा चॊक्तं शाकल्यसंहितायाम्-’वृत्तस्य षण्ण्वत्यंशॊ दण्डव दृश्यतॆ तु सः’ इति .. 54 ..
अथ दॆवदानवयॊर्निरक्षदॆशॆषु च भचक्रभ्रमणमाह—
सव्यं भ्रमति दॆवानामपसव्यं सुरद्विषाम् ..
उपरिष्टाद्भगॊलॊऽयं व्यक्षॆ पश्चान्मुखः सदा ..55..
भूगॊलाध्याय. 391
सौरदीपिका.
प्रत्यक्षः
नक्षत्राधिष्ठितगॊलः
सुराणां
पूर्वदक्षिणादिक्रमॆण
दैत्यानाम्
पूर्वॊत्तरादिक्रमॆण
अटति
. निरक्षदॆशॆ
मस्तकॊर्ध्वमध्यभागॆ
पश्चिमदिगभिमुखः
नित्यं भ्रमति .. 55 ..
अथ निरक्षॆ दिनरात्र्यॊर्मानं कथयन्नन्यत्रापि ततॊ न्यूना
धिकं मानं भवतीत्याह—
अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरी तथा ..
हानिवृद्धी सदा वामं सुरासुरविभागयॊः .. 56 ..
सौरदीपिका.
निरक्षॆ मस्तकॊर्ध्वॆ भगॊलॊ भ्रमतीति कारणात्
निरक्षदॆशॆ नतॊन्नताभावात्सदा
त्रिंशद्घटीमितं
अहः स्यात् .
त्रिंशद्घटीपरिमिता
रात्रिः स्यात् .
समुद्रादुत्तरदक्षिणदॆशयॊः
नित्यं
दिनरात्र्यॊः क्षयवृद्धी
व्यस्तं स्यात् . दॆवांशॆ यदा दिनह्रासॆ रात्रिवृद्धिस्तदा दानवभागॆ रात्रि हानिर्दिनवृद्धिश्च भवति . दॆवांशॆ दिनवृद्धौ रात्रिहानिस्तदा सुराणां भागॆ दिनह्रासॊ रात्रिवृद्धिश्च भवतीति भावार्थः .. 56 ..
अथैतच्छ्लॊकॊत्तरार्धं विशदयति—
मॆषादौ तु सदा वृद्धिरुदगुत्तरतॊऽधिका ..
दॆवांशॆ च क्षपाहानिर्विपरीतं तथासुरॆ .. 57..
तुलादौ द्युनिशॊर्वामं क्षयवृद्धी तयॊरुभॆ .
दॆशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरॊदितम् ..58..
- .
मॆषादिषड्भॆ
उत्तरगॊलॆ सूर्यॆ सति
यथॊत्तरं
उत्तरगॊलॆ
दॆवभागॆ
यथॊत्तरमधिका
दिनवृद्धिः.
तुकारात् निरक्षदॆशाद्यथा यथा सूर्यस्यॊत्तरगमनं तथा तथा दिनवृद्धिः परमॊत्तरगमनॆ परमदिनवृद्धिस्ततॊ यथॊत्तरं न्यूना वृद्धिस्ततः सूर्यस्य परावर्तनादित्यर्थः .
रात्रॆरपचयॊ भवति .
दानवभागॆ
दिनरात्र्यॊः क्षयवृद्धी
व्यस्तम् . दिनॆ हानी रात्रौ वृद्धिरित्यर्थः .
तुलादिषड्भॆ सूर्यॆ सति
दॆवासुरभागयॊः
दिनरात्र्यॊः
द्वॆ
उपचयापचयौ
व्यस्तम् . तुलादिषडाशिस्थितॆऽर्कॆ दॆवभागॆ दिनरात्र्यॊः क्रमॆण क्षयवृद्धी भवतस्त दैव दानवानां दिनरात्र्यॊः क्रमॆण वृद्धिक्षयौ भवत इति फलितार्थः .
तयॊः क्षयवृद्धयॊनि संख्याज्ञानं
प्रत्यहं
दॆशस्याक्षांशानां क्रान्त्यशानां च वशा- दुभयानुरॊधादित्यर्थः
पूर्वखण्डॆ स्पष्टाधिकारॆ "क्रान्तिज्या विषुवद्भाघ्नी-" इत्यादिप्रकारॆण दिनरात्र्यॊरर्धम्
उक्तम् . दिनरात्र्यॊर्ध्वं द्विगुणं दिनरात्र्यॊर्मानं भवतीत्यर्थसिद्धम् .. 57 . 58 ..
क्रान्त्यंश यॊजनान्याह—
भवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम् ..
अवाप्तयॊजनैरर्कॊ व्यक्षाद्यात्युपरिस्थितः.. 56 ..
सौरदीपिका.
भूगॊलपरिधियॊजनमानं
स्वाभीष्टक्रान्त्यशैर्गुणनीयं
षष्ट्यधिकशत त्रयॆण भक्तम्
लब्धयॊजनैः
निरक्षदॆशाद्दक्षिणत उत्तरतॊ वा
आकाशॆ वर्तमानः
सूर्यः
गच्छति . क्रान्त्यभावॆ तु निरक्षदॆशॊपर्यॆव परिभ्रमति .. 56 ..
अथ दिनमानानयनगणितस्यावधिदॆशज्ञानमाह—
परमापक्रमादॆवं यॊजनानि विशॊधयॆत् ..
भूवृत्तपादाच्छॆषाणि यानि स्युर्यॊजनानि तैः..60..
अयनान्तॆ विलॊमॆन दॆवासुरविभागयॊः..
नाडीषष्ट्या सकृदहर्निशाप्यस्मिन्सकृत्तथा ..61..
.
परमकान्तॆः
पूर्वॊक्तरीत्या -
साधितयॊजनानि
भूपरिधिचतुर्थांशात्
परिवर्जयॆत्
अवशिष्टानि
यत्संख्यामितानि
क्रॊशचतुष्टयात्मकानि
भवन्ति
यॊजनैः
निरक्षदॆशादुत्तरदक्षिणप्रदॆशयॊर्यौ दॆशौ तयॊः
उत्तरदक्षिणायनसन्धौ
व्यत्यासॆन
ऎकवारं
घटीषष्ट्या
दिनमानं भवति .
ऎतादृशॆ दॆशॆ तस्मिन्नॆवायनसन्धौ
ऎकवारं
घटीषष्ट्या विलॊमॆन
रात्रिर्भवति .
अपि शब्दॊ दिनॆन समुच्चयार्थः . ऎतदुक्तं भवति . कर्कादिस्थॆऽर्कॆ निरक्षदॆशादुत्तरतद्यॊजनान्तरितदॆशॆ षष्टिघटीमितं दिनं तदैव निरक्षदॆशा दक्षिणतयॊजनान्तरितदॆशॆ षष्टिघटीमिता रात्रिः . मकरादिस्थॆ सूर्यॆ तादृशॊत्तरभागॆ षष्टिघटीमिता रात्रिर्दक्षिणभागॆ तादृशॆ षष्टिघटीमितं . दिनमिति .. 60 . 61 ..
अथॊक्तदिनरात्रिमानगणितं तवधिदॆशपर्यन्तं दक्षिणॊत्तर
भागयॊर्नाग्र इत्याह—
तदन्तरॆऽपि षष्ट्यन्तॆ क्षयवृद्धी अहर्निशॊः..
परतॊ विपरीतॊऽयं भगॊलः परिवर्ततॆ .. 62 ..
- सौरदीपिका.
निरक्षदॆशॊक्तावधिदॆशयॊरन्तरालॆ दक्षिणॊत्तरविभाग दॆशॆ
षष्टिघटीमध्यॆ
अपचयॊपचयौ
दिनरात्र्यॊर्यथायॊग्यं भवतः .
अवधिदॆशादग्रिमदॆशॆ दॆवदानवस्थाननिकटॆ
प्रत्यक्षः
नक्षत्रगॊलः
अवधिदॆशान्तर्गतदॆशसम्बन्धीगणितविरुद्धः
भ्रमति
अपिशब्दात्तत्रॊक्तरीत्या दिनरात्र्यॊर्वृद्धिक्षयौ न भवत इत्यर्थः .. 12 ..
अथ विपरीतगॊलस्थिति प्रदर्शयति—
ऊनॆ भूवृत्तपादॆ तु द्विज्यापक्रमयॊजनैः..
धनुर्मृगस्थः सविता दॆवभागॆ न दृश्यतॆ .. 63 ..
तथा चासुरभागॆ तु मिथुनॆ कर्कटॆ स्थितः ..
नष्टच्छायामहीवृत्तपादॆ दर्शनमादिशॆत् .. 64 ..
.
द्विराशिज्याया यॆ क्रान्त्यशास्तॆषां यॊजनैः
हीनॆ
भूपरिधिचतुर्थांशॆ
धनुर्मकरराशिस्थः
सूर्यः
उत्तरभागॆ
तद्दॆशवासिभिर्नालॊक्यतॆ . धनुर्मकरस्थॆऽर्कॆ तॆषां रात्रिः स्यादित्यर्थः .
निरक्षदॆशादक्षिणदॆशॆ
तुकारात्तद्यॊजनान्तरितप्रदॆशॆ
मिथुनराशौ
- कर्कराशौ
वर्तमानः सूर्यः
तद्दॆशवासिभिर्न दृश्यतॆ .
अभावं प्राप्ता छाया भूच्छाया यत्र तादृशॆ भूपरिधिचतुर्थांशॆ
सूर्यालॊकनम्
कथयॆत्.
यत्र भूच्छायात्मिका रात्रि स्ति तत्र दिनमित्यर्थः . तथा च निरक्षदॆशा त्तद्यॊजनान्तरितॊत्तरप्रदॆश कमिथुनस्थॊऽर्कॊ दृश्यतॆ . तद्यॊजनान्तस्ति दक्षिणप्रदॆशॆ धनुर्मकरस्थॊऽर्कॊ दृश्यत इति फलितार्थः .. 63.. 64 ..
अथान्यत्रापि विपरीतस्थिति दर्शयति—
ऎकज्यापकमानीतैर्यॊजनैः परिवर्जितैः..
भूमिकक्षाचतुर्थांशॆ व्यक्षाच्छॆषैस्तु यॊजनैः ..65..
धनुर्मृगालिकुम्भॆषु संस्थितॊऽर्कॊ न दृश्यतॆ ..
दॆवभागॆऽसुराणां तु वृषाद्यॆ भचतुष्टयॆ .. 66 ..
सौरदीपिका.
ऎकराशिज्यायाः क्रान्त्यशॆभ्यः साधितैः
क्रॊशचतुष्टात्मकैः
भूपरिधिचतुर्भागॆ
शॊधितैः
निरक्ष दॆशात्
अवशिष्टयॊजनैः
तुकारादन्तरितॆ दॆशॆ
उत्तरभागॆ
धनुर्मकर वृश्चिककुम्भराशिषु
वर्तमानः सूर्यः
तद्दॆशवासिभिर्नालॊक्यतॆ .
दानवानां तद्यॊजनान्तरितदक्षिणभागॆ
वृषादिकॆ
राशि चतुष्टयॆ स्थितॊऽर्कस्तदॆशवासिभिर्न दृश्यतॆ .
तुकारादुत्तरभागॆ वृषादिचतुष्टयस्थितॊऽर्कस्तद्दॆशवासिभिर्दृश्यतॆ, वृश्चिकादिचतुष्टयस्थितॊऽका दक्षिणभागॆ तद्दॆशवासिभिर्दृश्यत इत्यर्थः .. 55 . 66 ..
अथ मॆर्वग्रभागयॊरपि स्थितिवैलक्षण्यमाह—
मॆरौ मॆषादिचक्रार्धॆ दॆवाः पश्यन्ति भास्करम् ..
सकृदॆवॊदितं तद्वदसुराश्च तुलादिगम् .. 67 .
उत्तरभागस्थमॆरौ
अमराः
मॆषादिराशिषट्कॆ
स्थित्तम्
ऎकवारम्
अदर्शनानन्तरं प्रथमदर्शनविषयं निरन्तरं
आलॊकयन्ति .
दैत्याः
तुलादिराशिषट्कस्थं
सकृदुदितं - सूर्यॆ निरन्तरं पश्यन्ति .. 67 .. -
कॆनचिदिष्टॆन भूव्यासं सूर्यकर्णं चापवर्त्य पुनस्ताभ्यां समायां भूमौ भूवृत्तं सूर्यकक्षावृत्तं च विलिख्यॊर्ध्वाधरयाम्यॊत्तररॆखॆ च कार्यॆ . अत्रॊ धिरसूत्रं मध्यसूत्रं ज्ञॆयम् . मध्यसूत्रं स्वॊर्ध्वॆ यन्त्र सूर्यकक्षावृत्तं स्पृशॆत्तत्र खमध्यम् . सूर्यकक्षावृत्तयाम्यॊत्तररॆखयॊर्यत्र संपातस्तस्माद्गर्भक्षितिजस्थ सूर्यचिह्नाद्भूपरिधि स्पृष्ट्वान्तॆ मध्यसूत्रं यावद् दृक्सूत्र नॆयम् . दृक्सूत्रमध्य सूत्रयॊर्यॊगॆ दृक्चिह्नम् . तत्रस्थद्रष्टा गर्भक्षितिजस्थसूर्यं पश्यतीति . भू गर्भाद् दृक्सूत्रभूगॊलस्पर्शचिह्नावधिसूत्रं नॆयं तत्सूत्रं दृक्सूत्रॊपरि लम्बॊ भवति, अस्माद्द्वॆ सजातीयॆ क्षॆत्रॆ उत्पद्यतॆ . ऎषां साजात्यं स्पष्टमॆव . अथानुपातॆनॊच्छ्रितियॊजनानामानयनम् . अत्र सूर्यकर्णभूव्यासार्धयॊर्वर्गा न्तरमूलं कॊटिः, कुखण्डं भुजः, सूर्यकर्णः कर्ण इत्यॆक जात्यम् . कुखण्डं कॊटिः, स्पर्शचिह्नाद् दृक्चिह्नपर्यन्तं दृक्सूत्रखण्डं भुजः, भू गर्भादृक्चिह्नावधिसूत्रं कर्ण इति . द्वितीयं जात्यम् . रविकर्णॊ भुजः, मध्यसूत्रॆ कॊटिरनयॊर्वर्गयॊगमूलं दृक्सूत्रं कर्ण इति पूर्वसजातीयं बृहत् क्षॆत्रम् . अथानुपातः . सूर्यकर्णभूव्यासार्धयॊर्वर्गान्तरमूलरूपकॊटौ रवि कर्णः कर्णस्तदा कुखण्डकॊटौ क इति कुकॆन्द्रद्वचिह्नान्तरं कुखण्डॊनं स्वभूपृष्ठॊ दृक्चिह्नमानं स्यात् . तद्वशाद्गर्भकुजस्थार्कदर्शनं भवतीत्यु पपन्नम् . ___ यथा यथा तद्दृक्चिह्नादप्यूर्व दृक्चिह्न स्यात्तथा तथा गर्भक्षिति जादप्यधॊऽधःदृश्यांशैरुद्गमार्कं पश्यति तद्दृक्चिह्नात् . तज्ज्ञानार्थमुपायः . सूर्यकक्षावृत्तॆ गर्भक्षितिजाधॊ दृश्यांशास्तत्रस्थसूर्यचिह्नाद्भूपरिधि स्पृष्ट्वाग्रॆ मध्यसूत्रं यावद् दृक्सूत्रं नॆयम् . दृक्सूत्रमध्यसूत्रयॊः संपातॆ दृक् चिह्नम् . अथ च भूगर्भकॆन्द्राद् दृक्सत्रसमानान्तरमन्यत्सूत्रं विधॆयम् . अनयॊर्दृक्सूत्रसमान्तरसूत्रयॊर्मध्यॆ कुच्छन्नांशाः . गर्भक्षितिजात्समानान्तर सूत्रं यावद् दृश्यांशकुच्छन्नांशयॊर्यॊगॊऽस्ति . मध्यसूत्रॊत्समानान्तरसूत्रपर्यन्तं दृश्यांशकुच्छन्नांशयॊर्यॊगस्य कॊटिर्भुजः, समानान्तरसूत्रॆ कॊटि मध्यसूत्रॆ त्रिज्याकर्णः . इत्यॆकं जात्यम् . तथा च भूगर्भात्स्पर्शचिह्नावधि कुखण्डं भुजः, दृक्सूत्रखण्डं कॊटिः, कुकॆन्द्रादृचिह्नावधि मध्यसूत्रॆ कर्णः . इति द्वितीयं जात्यम् . अथानुपातः . यदि कुच्छन्नदृश्यांशजकॊटिमौर्व्या त्रिज्या लभ्यतॆ तदा कुखण्डॆन किं लब्धं कुखडॊनं स्वभूपृष्ठॊर्ध्वं दृक्चिह्नमानं स्यात्तद्वशाद्गर्भक्षितिजादप्यधः स्थितदृश्यांशैः सूर्यं पश्यति तद्दचिह्नात् .
ध्रुवाधःस्थितानां तु नाडीवृत्तमॆव कुजं तदधॊ दृश्यांशाः क्रान्त्यंशा ऎव परापमान्तम् . तत्र यथॊक्तवद् दृक्चिह्नसिद्धिः . अथ सर्वदॆशॆऽपि यथा सदॊदितॊऽर्कस्तथॊच्यतॆ . कुजान्नाडीवृत्तावधि लम्बांशाः, ततॊ जिनांशा स्तद्यॊगतुल्यदृश्यांशः कुजादधःस्थैरक्तवद्दृक्चिह्नमानीयतॆ तत्सदॊदया र्कदर्शनयॊग्यं स्यादॆव . परं तॆ दृश्यांशाः कुच्छन्नकॊट्यल्पका ऎव नाधिका न समास्तथा हि . दृक्चिहं मध्यसूत्रस्थमॆवॆति नियतम् . ततॊऽदृक्सूत्रं भूगॊलस्पर्शनार्हं यत्तु कुगॊलॆ गॊलचतुर्थांशाल्पदॆशॆ ऎव स्पृशति तत्संपूर्ण न, यत्तच्चतुर्थांशदॆशस्थं तिर्यग्गतं तत्तु मध्यसूत्रसमानान्तरितं दृक्चिह्नार्हम् . अर्कगॊलॆ तत्सूत्रावधि गर्भकुजात्कुच्छन्नकॊट्यंशाः स्वदृक्चिह्नान्यथानुपपत्त्या कुच्छन्नकॊट्यल्पका ऎव दृश्यांशाः स्वदृक्चिह्नार्हा नॆतरा, जिनाढ्यकुच्छन्नलवाक्षदॆशॆ लम्बांशसिद्धांशयॊगः कुच्छन्नकॊटितुल्यस्तदधिकदॆशॆ तु तदल्प इति यथॊक्तमुपपन्नम् .. __
यदा दृश्यांशाः कुजीव पृष्ठकुजाधस्तदा तदन्तरतॊ यथॊक्त्या पृष्ठॊर्ध्व गर्भकुजीयदृक्चिह्नाधस्तदृक्चिह्न स्यात् ..
दृक्चिह्नज्ञानाद् दृश्यांशकज्ञानं विलॊमगणितॆन सुबॊधम् ..
अथ पितॄणां सूर्यॊदयास्तावाह—
इन्दॊर्मण्डलतश्चॊर्ध्वॆ स्थितास्तॆ पितरॊ रविम् ..
उदितं कृष्णपक्षार्धॆ पश्यन्त्यस्तं सितार्धकॆ .. 6..
पितृगणाः
चन्द्रस्य
मण्डलाकाराबिम्बात्
ऊर्ध्वभागॆ
अधिष्ठिताः . अतः
पितरः
कृष्णपक्षाष्टम्याम्
उदयप्राप्तं
सूर्यं
आलॊकयति ’
शुक्लपक्षाष्टम्याम्
अस्तगामिनं पश्यन्ति . ऎतॆन पितृणाममावास्यायां मध्याह्नं, पूर्णिमायां निशीथॊभवतीति सिद्धमॆव . अतऎव दर्शमध्याह्नस्य श्राद्धादौ विशिष्टकालत्वमुक्तम्
.. 68 ..
अथ निरक्षदॆशादयनसन्धौ कियद्भिर्यॊजनैरूर्ध्वमर्कॊ भवति तदाह—
भूमण्डलात्पञ्चदशॆ भागॆ दॆवॆऽथवासुरॆ ..
उपरिष्टाद्रजत्यर्कः सौम्ययाम्यायनान्तगः .. 66 ..
- सौरदीपिका.
उत्तरभागॆ
वा दक्षिणभागॆ
निरक्षदॆशात्
भूपरिधिपञ्चदशभाग तुल्यान्तरितदॆशॆ क्रमॆण
उत्तरायणान्तदक्षिणायनान्तगः
सूर्यः
ऊर्ध्वं
भ्रमति .. 66 ..
अथ निरक्षदॆशाद्भूपरिधिपञ्चदशभागपर्यन्तं सूर्यस्य दक्षिणॊ
त्तरगमनमुक्त्वा तच्छायागमनं प्रतिपादयति—
तदन्तरालयॊश्छाया याम्यॊदसम्भवत्यपि ..
मॆरॊराभिमुखं याति परतः स्वविभागयॊः.. 70 ..
- .
निरक्षदॆशात्पञ्चदशभागमध्यस्थितदक्षिणॊत्तरदॆशयॊः
द्वादशाङ्गलशङ्कुप्रभा
दक्षिणा
उत्तरापि
सम्यक् भवति . निरक्षदॆशात्पञ्चदशभागान्तरालॊत्तरदॆशॆ मध्याह्ननतांशानां दक्षिणत्वॆ छायाग्रमुत्तरम् . नितांशानामुत्तरत्वॆ दक्षिणम् . ऎवं निरक्षदॆशात्पञ्चदशभा गान्तरालस्थितदक्षिणदॆशॆ सूर्यस्यॊत्तरस्थत्वॆ छायाग्रं दक्षिणं दक्षिण स्थत्वॆ छायाग्रमुत्तरं भवति .
पञ्चदशभागात्परतः
दक्षिणॊत्तरविभागयॊः
मॆरुसम्मुखं
गच्छति दक्षिणभागॆ दक्षिणमॆरॊरभिमुखमुत्तरभाग
उत्तरमॆरॊः सम्मुखं छायाग्रं गच्छतीति फलितार्थः .. 70 ..
अथ कथं पर्यॆति वसुधां भुवनानि विभावयन्निति प्रश्नस्यॊत्तरमाह—
भद्राश्वॊपरिंगः कुर्याभारतॆ तूदयं रविः..
रात्र्यर्ध कॆतुमालॆ तु कुरावस्तमयं सदा ..71 ..
भारतादिषु वर्षॆषु तद्वदॆव परिभ्रमन् ..
मध्यॊदयार्धरात्र्यस्तकालान्कुर्यात्मदक्षिणम् ..72..
___ सौरदीपिका.
यमकॊटयां मध्याह्नगः
सूर्यः
लङ्कायाम्
स्वॊदयं
करॊती
त्यर्थः .
तस्मिन्कालॆ
रॊमकाख्यायाम्
रा-
निशीथं कुर्यात् .
कुरुवर्षॆ सिद्धपुर्याम्
अस्तमनं कुर्यात् .
तुकारादुक्तवर्षयॊरन्तरालॆ दिनस्य गतं शॆषॆ वा रात्रॆश्च तद्यथायॊग्यं कुर्यादित्यर्थः .
भारतादित्रिषु
वर्षसंज्ञॆषु भारतकॆतुमालकुरुवर्षॆषु
भद्राश्वॊपरिगवत्
ऎवकारान्न्यूनाधिकव्यवच्छॆदः .
परिभ्रमॆण स्वस्वाभिमतस्थानॊपरिस्थितं कुर्वन् सूर्यः
प्रदक्षिणं यथा स्यात्तथा सव्यक्रमॆणं स्वस्थानादिक्रमॆणॆति यावत् . उक्तचतुर्वर्षॆषु
मध्याह्नॊ दयार्धरात्र्यस्तसंज्ञान्कालान्
संपादयॆत् . ऎतदुक्तं भवति . लङ्कायां मध्याह्नगॊऽर्कॊ रॊमक उदयं सिद्धपुर्यामर्धरात्रं यमकॊट्यामस्तं करॊति . रॊमकॆ मध्याह्नगॊऽर्कः सिद्धपुर्यामुदयं यमकॊट्यामर्धरात्रं लङ्कायामस्तं करॊति . सिद्धपुर्या मध्यगॊऽर्कॊ यमकॊट्यामुदयं लङ्काया मर्धरात्रं रॊमकॆऽस्तं करॊति . ऎवमॆवान्यॆष्वन्तरालदॆशॆषु सर्वत्र मध्यॊदयार्धरात्रास्तमया रवॆज्ञातव्याः .. 71 . 72 ..
अथ ध्रुवयॊर्भचक्रस्य चॊन्नतिनत्यॊर्व्यवस्थामाह—
ध्रुवॊन्नतिर्भचक्रस्य नतिर्मॆरुं प्रयास्यतः..
निरक्षाभिमुखं यातुर्विपरीतॆ नतॊन्नतॆ .. 73 ..
सौरदीपिका. -
मॆरॊरुत्तराग्रं दक्षिणाग्रं वा तदभिमुखं
गच्छतः पुरुषस्य .
क्रमॆणॊत्तरदक्षिणयॊर्भुवयॊरौच्यं
नक्षत्राधिष्ठितगॊलमध्यभागवृत्तस्य
क्रमॆण दक्षिणॊत्तरयॊर्नतत्वं भवति .
निरक्षदॆशाभिमुखं
गच्छतः पुरुषस्य
पूर्वॊक्तॆ
व्यस्तॆ भवतः .. 73 ..
अथ कुत ऎवमित्यतः . कथं पर्यॆति भगणः सग्रहॊऽयं किमाश्रय
इति प्रश्नस्यॊत्तरं भचकभ्रमणवस्तुस्थितिमाह—
भचक्रं ध्रुवयॊर्बद्धमाक्षिप्तं प्रवहानिलैः..
पर्यॆत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् .. 74 ..
सौरदीपिका.
ऊर्ध्वाधःस्थितमॆरॊरग्राद्वयॊर्ध्वाधः स्थितयॊवतारयॊः
ब्रह्मणा निबद्धं
नक्षत्राधिष्ठितमूर्तगॊलरूपं
प्रवहवाय्वंशैः
अभिघातं प्राप्तं सद्
निरन्तरं
पश्चिमाभिमुखं भ्रमति .
नक्षत्रकक्षया बद्धा
शन्यादिग्रहाणां कक्षा
यथाधॊऽधः क्रमॆण निबद्धास्तॆनैव क्रमॆण भचक्रॆण सह भ्रमति . भचक्रॆ निबद्धत्वात् .. 74 ..
- अथ पित्र्यं मासॆन भवतीति प्रश्नस्यॊत्तरमाह—
सकृदुद्गतमब्दार्थं पश्यन्त्यः सुरासुराः..
पितरः शशिगाः पक्षं स्वदिनं च नरा भुवि ..7..
सौरदीपिका.
दॆवदैत्याः
ऎकवारम्
उदितं सूर्यं
सौरवर्षार्धपर्यन्तं
आलॊकयन्ति .
चन्द्रबिम्बगॊलॊर्ध्वस्थिताः
पितृगणाः
पञ्चदशतिथिपर्यन्तं पश्यन्ति .
भूमौ
मनुष्याश्च
स्वदिनपर्यन्तं पश्यन्ति ..7..
अथ ग्रहकक्षाणां महदल्पत्वं तत्रस्थभागानां महदल्पत्वं चाह—
उपरिस्थस्य महती कक्षाल्पाधःस्थितस्य च ..
महत्या कक्षया भागा महान्तॊऽल्पास्तथाल्पया ..76..
ऊर्ध्वस्थग्रहस्य
भ्रमणमार्गरूपा
बृहती
अधःस्थग्रहस्य कक्षा
अल्पपरिमाणास्ति .
बृहत्कक्षया
महाप्रमाणाः
अल्पकक्षया
लघुप्रमाणाः
अंशा भवन्ति . सर्वत्र द्वादशभागानामङ्कनत्वात् .. 76 ..
अथ ग्रहभगणभॊगकालयॊर्महदल्पत्वमाह—
कालॆनाल्पॆन भगणं भुङ्क्तॆऽल्पभ्रमणाश्रितः..
ग्रहः कालॆन महता मण्डलॆ महति भ्रमन् .. 77 ..
सौरदीपिका. __
अल्पभ्रमणं परिधिमानं यस्या साल्पभ्र मणाधःकक्षा तत्स्थः
खॆटः
लघुना
समयॆन
द्वादशराश्यात्मकं
अतिभ्रमतॆ .
बृहत्कक्षामण्डलॆ
गच्छन्
बहुना
समयॆन भगणं भुङ्क्तॆ . वक्ष्यमाण- यॊजनगतॆरभिन्नत्वात् .. 77 ..
अथात ऎवॊधिःक्रमॆण प्रहयॊर्भगणास्तुल्यकालॆऽल्पा
- बहवॊ भवन्तीति सॊदाहरणमाह—
स्वल्पयातॊ बहून् भुङ्क्तॆ भगणाञ्छीतदीधितिः..
महत्या कक्षया गच्छंस्ततः स्वल्पं शनैश्चरः .. 78 ..
.
चन्द्रस्य कक्षाल्पत्वात्
चन्द्रः
लघुप्रमाणकक्षया
बहुप्रमाणा न्भचक्रान् . बहुवारं द्वादशराशीनित्यर्थः .
अतिक्रामतॆ
मन्दः
महाप्रमाणया
वायुवृत्तमार्गरूपया
भ्रमन्सन्
चन्द्रात्
भगणमल्पप्रमाणान्भगणान् . जात्यभिप्रायॆणैकवचनम् . अल्पवार द्वादशराशीन्भुङ्क्तॆ . अतऎव शनैश्चर इति मन्दस्यान्वर्थ नामारितं .. 78..
अथ दिनाब्दमासहॊराणासधिपा न समाः कुत इति-
प्रश्नस्यॊत्तरमाह—
मन्दादधःक्रमॆण स्युश्चतुर्थी दिवसाधिपाः..
वर्षाधिपतयस्तदत्तृतीयाश्च प्रकीर्तिताः..79 ..
ऊर्ध्वक्रमॆण शशिनॊ मासानामधिपाः स्मृताः..
हॊरॆशाः सूर्यतनयादधॊऽधः क्रमशस्तथा ..8..
सौरदीपिका.
शनॆः सकाशात्
अधःकक्षाक्रमॆण
चतुर्थसंख्याका ग्रहाः
वारॆश्वराः
भवॆयुः .
मन्दादधःक्रमॆण
तृतीयसंख्याका ग्रहाः
समुच्चयार्थॆ .
षष्ट्यधिकशतत्रयदिनात्मकस्य वर्षस्य स्वामिनः
प्रकथिताः
चन्द्रसकाशात्
ऊर्ध्वकक्षाक्रमॆण
त्रिंशद्दिनात्मकानाम्
स्वामिनः
कथिताः .
शनॆः सकाशात्
अधःकक्षाक्रमॆण
मासॆश्वरवदव्यवहिताः
हॊराधिपतयः कथिताः .. 76 . 80 ..
अथ ’ग्रहर्षकक्षाः किं मात्राः’ इति प्रश्नस्यॊत्तरं विवक्षुः
प्रथमं नक्षत्राणां कक्षामानमाह—
भवॆद्भकक्षा तिग्मांशॊर्भ्रमणं षष्टिताडितम् ..
सर्वॊपरिष्टाद्भ्रमति यॊजनैस्तैर्भमण्डलम् .. 81..
सौरदीपिका.
सूर्यस्य
वक्ष्यमाणकक्षापरिधिमानं यॊजनात्मकं
षष्ट्या गुणितं सन्
नक्षत्रकक्षा
स्यात् .
नक्षत्रकक्षामितैर्यॊजनैः
चन्द्रादिसप्तग्रहॆभ्य उपरिदूरं
नक्षत्रमण्डलं
पर्यॆति .. 81 ..
अथ ग्रहकक्षाणां मानज्ञानार्थं खकक्षामानम् . कियती तत्कर
प्राप्तिरिति प्रश्नस्यॊत्तरमाह—
कल्पॊक्तचन्द्रभगणा गणिताः शशिकक्षया .
आकाशकक्षा सा ज्ञॆया करव्याप्तिस्तथा रवॆः..2..
- सौरदीपिका.
" ऎतॆ सहस्रगुणिताः कल्पॆ स्युर्भगणादयः" इत्युक्त्या युगचन्द्रभगणाः सहस्रगुणिताः कल्पचन्द्रभगणा इत्यर्थः .
वक्ष्यमाणया चन्द्रकक्षया
ताडिताः
तन्मिता
खकक्षा
बॊध्या .
सूर्यस्य
किरणप्रचारः
आकाशकक्षापरिमित इत्यर्थः . सूर्यकिरणानां समूहॆन निहततमसॊ नभसः परिधिमानं भवतीति भावः .. 82 ..
अथ ग्रहाणां कक्षानयन यॊजनगत्यानयनं चाह—
सैव यत्कल्पभगणॆ भक्ता तद्भ्रमणं भवॆत् ..
कुवासरैविभज्याहः सर्वॆषां प्राग्गतिः स्मृता ..3..
सौरदीपिका.
आकाशकक्षैव
यस्य ग्रहस्य कल्पभगणैः
विभाजिता
फलं तस्य ग्रहस्य कक्षापरिधिमानं यॊजनात्मकं
स्यात् .
कल्पकुदिनैः
सैव खकक्षा विभज्य फलं
उक्तभगणसम्बन्धिनां ग्रहादीनाम्
दिवसस्य . दिनसम्बन्धिनीत्यर्थः
यॊजनात्मिका पूर्वगतिः
कथिता .. 83 ..
अथ यॊजनात्मकगतॆः कलात्मकगति स्वीयामाह—
भुक्तियॊजनजा सङ्ख्या सॆन्दॊर्भ्रमणसंगुणा ..
स्वकक्षाप्ता तु सा तस्य तिथ्याप्ती गतिलिप्तिकाः 84
सौरदीपिका.
गतियॊजनॊत्पन्ना या
अङ्क सङ्ख्या
सङ्ख्या
चन्द्रस्य
क्षया गुणिता
अभिमतग्रहस्य कक्षया भक्ता
फलरूपा
पञ्चदशभक्ता
तुकारात्फलं
अभिमतग्रहस्य
गतिकला भवन्ति .. 84 ..
अथ किमुत्सॆधा इति प्रश्नत्यॊत्तरमाह—
कक्षा भूकर्णगुणिता महीमण्डलभाजिता ..
तत्कर्णा भूमिकर्णॊना ग्रहॊच्यं स्वं दलीकृताः 85..
- सौरदीपिका.
ग्रहकक्षाः
भूव्यासॆन ’ गुणिताः
भूपरिधिना भक्ताः
फलं तस्याः कक्षायाः कर्णा व्यासा भवन्ति . ऎतॆ
भूव्यासॆन हीनाः
अर्धिताः सन्तः
स स्वगृहीतव्याससम्बन्धि
ग्रहस्यॊच्चता भूमॆः सकाशाद्भवति .. 85 ..
अथ नीताः कक्षाः स्वयमुदाहरति—
खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितॆः..
ज्ञशीघ्रस्याङ्कखद्वित्रिकृतशून्यॆन्दवस्ततः..86..
शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः..
ततॊऽबुधशुक्राणां खखार्थॆकसुरार्णवाः..87..
कुजस्याप्यङ्कशून्याङ्कषड्वॆदैकभुजङ्गमाः..
चन्द्रॊच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः..88..
कृतर्तुमुनिपञ्चाद्रिगुणॆन्दुविषया गुरॊः..
स्वर्भानॊर्वॆदतर्काष्टद्विशैलार्थखकुञ्जराः..86..
पञ्चबाणाक्षिनागर्तु रसाद्र्यर्काः शनॆस्ततः..
भाना रविखशून्याङ्कवसुरन्ध्रशराश्विनः .. 6 ..
सौरदीपिका. -
चन्द्रस्य
भ्रमणमार्गरूपा
सहस्रगुणितसिद्धरामाः .
तुकारादागम प्रामाण्यॆनाङ्गीकार्या .
बुधशीघ्रॊच्चस्य
नवखदन्तवॆददिशः .
चन्द्रकक्षायां ऊर्ध्वं ज्ञॆयम् . तदूर्ध्वं
शुक्रशीघ्रॊच्चस्य
अद्रित्र्यङ्गवॆदषड्सपक्षाः.
तदूर्ध्वं
सूर्यबुधशुक्राणां
खखपञ्चभूदॆवाब्धयः .
भौमस्य
, आपिशब्दात्सूर्यादूर्ध्वम्
नवखनवषडिन्द्रसर्पाः .
चन्द्रमन्दॊच्चस्य
वॆदाहिवॆदसर्पपक्षरामनागरामाः . भौमा चन्द्रॊच्चादूर्ध्वं
बृहस्पतॆः
वॆदाङ्गमुनिपञ्चस्वररामचन्द्रशराः .
राहॊः
वॆदाङ्गगजयमसप्तपञ्चाशीतयः
बृहस्पतॆराहॊर्वॊर्ध्वं
मन्दस्य
पञ्चपञ्चद्वयष्टषड्ससप्तार्काः .
शनॆरूर्ध्वं नक्षत्राणां
द्वादश नवशताष्टनवतत्त्वानि कक्षायॊजनानि सन्ति . खत्रयाब्धिद्विदहना इत्यारभ्य रविखशून्याङ्कवसुरन्ध्रशराश्विन इत्यन्तं चन्द्रकक्षात ऊर्ध्वकक्षाक्रमॆण चन्द्रान्नक्षत्रपर्यन्तं कक्षायॊजनानि कथितानीत्यर्थः .. 86 . 87 .
88 . 86 . 10 ..
अथाकाशकक्षापरिधियॊजनान्याह—
खव्यॊमखत्रयखसागरषट्कनाग-
व्यॊमाष्टशून्ययमरूपनगाष्टचन्द्राः..
ब्रह्माण्डसम्पुटपरिभ्रमणं समन्ता-
दभ्यन्तरॆ दिनकरस्य करप्रसारः .. 91..
.
वॆदाङ्गाष्टाशीतिनखभूसप्तधृतयः प्रयुतगुणिता
यॊजनानि
ब्रह्माण्डगॊलस्य परिधिः स्मृतः .
ब्रह्माण्डगॊलाभ्यन्तरॆ
सूर्यस्य
अभितः
सूर्यकिरणानां प्रचारः स्यात् . ऎतॆन ब्रह्माण्डगॊलान्तः परिधिर्न बाह्य इति सूचितम् .. 11..
अथ कक्षाभ्य ग्रहानयनमाह—
आकाशकक्षा षष्टिघ्ना कल्पभूवासरॊद्धृता..
लब्धं गुणकमाख्यातं तॆन हन्याद्यवृन्दकम् .92..
कक्षाभिः षष्टिनिघ्नाभिर्ग्रहाणां भगणादयः..
सौरदीपिका!
खकक्षा
षष्टिगुणिता
कल्पकुदिनैर्भक्ता
फलं
गुण ऎवं गुणकस्तम्
कथितं
गुणकॆन
अहर्गणं
गुणयॆत्
षष्टिगुणिताभिः
अभिमतग्रहकक्षाभिर्भक्तं सत्
खॆट्यन्य
भगणं द्वादशराश्यात्मकमादिर्यॆषां तॆ तथॊक्ता भवन्ति .. 12 ..
इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां सौरदी
- पिकायां भूगॊलाघ्यायॊ नाम द्वादशः समाप्तः .. 12 ..
13 अथ ज्यॊतिषॊपनिषदध्यायः.
तत्र पुनर्मुनयः श्रॊतृन्प्रति श्लॊकाभ्यामाह—
अथ गुप्तॆ शुचौ दॆशॆ स्नातः शुचिरलङ्कृतः ..
संपूज्य भास्करं भक्त्या ग्रहान्भान्यथ गुह्यकान् .. 1..
पारम्पर्यॊपदॆशॆन यथाज्ञानं गुरॊर्मुखात् ..
आचार्यः शिष्यबॊधार्थं सर्व प्रत्यक्षदर्शिवान् .. 2..
सौरदीपिका.
अथ शब्दॊ मङ्गलार्थकः .
भूगॊलकथनानन्तरं
रहसि
पवित्रॆ
स्थानॆ
कृतस्नानः
शुद्धमनाः
हस्तकर्णकण्ठा- दिभूषणभूषितः .
सूर्यांशपुरुषॊ . मयासुराध्यापकः
श्रीसूर्यं
आराध्यत्वॆन ज्ञानरूपया
नमस्कारस्तुतिविषयं कृत्वा
चन्द्रादिखॆटान्
नक्षत्राणि राशींश्च
पक्षादीन् संपूज्य . समुच्चयार्थक श्चकारॊऽत्रानुसन्धॆयः .
श्रीसूर्यस्य
वदनार विन्दात्
परम्परया कथनॆन
स्वशक्त्या यादृशं ज्ञानमवगतं
भयासुरस्याभ्रमज्ञा नॊत्पादनार्थ
प्रागध्यायॊक्तं
प्रत्यक्षं दर्शितवानित्यर्थः .. 1.2 ..
कथं दर्शितवानिति मयासुरं प्रत्युक्तसूर्यांशपुरुषवचन स्यानुवादॆ सूर्यांशपुरुषॊ मयासुरं प्रति गॊलबन्धॊहॆशं तदुपक्रम चाह—
भूभगॊलस्य रचनां कुर्यादाश्चर्यकारिणीम् .
अभीष्टं पृथिवीगॊलं कारयित्वा तु दारवम् .. 3..
दण्डं तन्मध्यगं मॆरॊरुभयत्र विनिर्गतम् .
आधारकक्षाद्वितयं कक्षा वैषुवती तथा .. 4..
सौरदीपिका. .
भूगॊलादभितः संस्थितस्य नक्षत्रगॊलस्य
आश्चर्यॊत्पादिकां
स्थितिज्ञानार्थं दृष्टान्तात्मकगॊलस्य निर्मितं
सम्पादयॆत् . गणकॊ गॊल शिल्पज्ञ इतॆ शॆषः . कथं रचनां कुर्यादित्यत आह .
स्वल्पं बृहद्वास्वॆच्छाकल्पितपरिधिप्रमाणकं
काष्ठघटित सच्छिद्रं
भुवॊ गॊलं
काष्ठशिल्पज्ञ द्वारा कृत्वॆत्यर्थः .
मॆरुगिरॆः
काष्ठदण्डम् . मॆरॊरनुकल्परूपं काष्ठदण्डामित्यर्थः .
काष्ठघटितभूगॊ लस्य मध्यॆ छिद्रमध्यॆ स्थितम्
भूगॊलस्थव्यासप्रमाणच्छिद्रव्याग्राभ्यां बहिरित्यर्थः .
ऎकाग्रादन्यतरामावशिष्ट दण्डप्रदॆशतुल्यं निःसृतम् . उभयाग्राभ्यां तुल्यौ दण्डप्रदॆशौ पथा स्था त्तथा कुर्यादित्यर्थः . भगॊलनिबन्धनार्थमाधारवृत्तद्वयमाह .
भूगॊलस्यॊभयपारर्वाभ्यां तुल्यान्तरस्थिता दण्डॊभयप्रदॆ शयॊः प्रॊतां याम्यॊत्तरसंज्ञिकां वंशशलाकया निर्मिता कक्षा कुर्यात् . तत्तुल्यमुन्मण्डलसंज्ञिका तदर्धकारिणी भूगॊलस्य पूर्वापरप्रदॆशयॊः संसक्ता दण्डॊभयप्रदॆशयॊः प्रॊतामपरां कक्षां कुर्यात् . अनयॊराधारकॊति संज्ञा ज्ञॆया .
विषुवसम्बन्धिनी
वृत्तपरिधि विषुववृत्तमित्यर्थः .
आधारवृत्तद्वयस्यार्धच्छॆदॆन भगॊलमध्य वृत्तानुकल्पॆन गणकॆन निबद्धमित्यर्थः
.. 3 .. 4 ..
अथ मॆषादिद्वादशराशीनामहॊरात्रवृत्तनिबन्धनमन्यदप्याह—
भगणांशाङ्गुलैः कार्या दलितैस्तिस्र ऎव ताः..
स्वाहॊरात्रार्धकर्णैश्च तत्प्रमाणानुमानतः .. 5..
क्रान्तिविक्षॆपभागैश्च दलितैर्दक्षिणॊत्तरैः..
स्वैः स्वैरपक्रमैस्तिस्रॊ मॆषादीनामपक्रमात् ..6..
कक्षाः प्रकल्पयॆत्ताश्च कर्कादीनां विपर्ययात् ..
तद्वत्तिस्रस्तुलादीनां मृगादीनां विलॊमतः..7..
याम्यगॊलाश्रिताः कार्याः कक्षाधाराद्वयॊरपि .
याम्यॊदग्गॊलसंस्थानां भानामभिजितस्तथा ..8..
सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयॆत् ..
मध्यॆ वैषुवती कक्षा सर्वॆषामॆव संस्थिता ..
सौरदीपिका. -
कक्षाः
त्रिसङ्ख्याकाः
षष्ट्यधिकशतत्रयपरिमिताङ्गुलैः
समविभागॆन खण्डितैरङ्कितैरित्यर्थः .
शिल्पज्ञॆन गॊलगणितज्ञॆन कार्या .
विषुवत्कक्षा प्रमाणानुमानात्
स्वशब्दॆन मॆषादित्रिकं तस्य प्रतिराश्यहॊरात्रवृत्तस्या र्धकर्णॊ व्यासार्धं द्युज्या ताभिरित्यर्थः .
चकारान्मॆषादिराशि त्रयान्तानां वृत्तत्रयं सिद्ध कृत्वा वक्ष्यमाणप्रकारॆण गॊलॆ निबन्धयॆत् .
क्रान्तिवृत्तस्य विषुवद्वृत्तप्रदॆशाद्विक्षिप्त प्रदॆशायैरशैः
चकारादाधारवृत्तस्थैः
समविभागॆन खण्डितैरङ्कितैः
विषुववृत्तक्रांन्तिवृत्तप्रदॆशयॊदक्षिणॊ त्तरान्तरात्मकैरुक्तलक्षणैः
स्वकीयैः स्वकीयैः स्वराशिसम्बन्धैः
क्रान्त्यशैः
मॆषादिराशित्रयान्तानां मॆषान्तवृषान्तमिथुनान्तानामित्यर्थः
त्रिसङ्ख्याकाः प्राङ्निर्मिता वृत्तरूपाः कक्षाः
अपशब्दस्यॊपसर्गत्वात्क्रमादित्यर्थः
शिल्पज्ञगणकॊ विषुववृत्तानुरॊधॆनाधारवृत्तद्वयॆ उत्तरतॊ निबन्धयॆदित्यर्थः .
मॆषादीनां कक्षाः
व्यत्यासात्
कर्कसिंहकन्यानामादिप्रदॆशानां
चकारात्कल्पयॆत् . मिथुनान्तवृत्त कर्कादॆवृषान्तं सिंहादॆर्मॆषान्तवृत्तं कन्या दॆरिति फलितम् .
तुलावृश्चिकधन्विनां
अन्यास्त्रिसङ्ख्याकाः कक्षाः
ऎकद्वित्रिराशिक्रान्त्यशैस्तुलान्त वृश्चिकान्तधनुरन्तानां
विषुवद्वृत्ताद्दक्षिण भाग आधारवृत्तद्वयॆ निबद्धाः
गणकॆन कार्याः .
उत्क्रमात्तुलादीनां कक्षाः
मकरादीनां
भवन्ति . धनुरन्तवृत्तं मकरादॆवृश्चिकान्तवृत्तं कुम्भादॆस्तुलान्तवृत्तं मीनादॆरिति फलितम् .
अश्विन्यादिसप्तविंशतिनक्षत्रबिम्बानां .
विषुववृत्ताद्दक्षिणॊत्तरभागयॊर्यथा यॊग्यमवस्थितानां यन्नक्षत्रध्रुवकस्पष्टक्रान्तिरुत्तरातनक्षत्राणामुत्तरभागवस्थितानां यॆषां स्पष्टक्रान्तिर्दक्षिणा तॆषां दक्षिणभागावस्थितानामित्यर्थः .
दक्षिणॊत्तरभागयॊः
अपि शब्दाद्याम्यॊत्तरनक्षत्र क्रमॆणॆत्यर्थः .
कक्षाणामाधारवृत्तद्वयात्तयॊरित्यर्थः . सप्तम्यर्थॆ पञ्चमी . कक्षाः स्वस्पष्टक्रान्तिज्यॊत्पन्नद्युज्याव्यासार्धप्रमाणॆन वृत्ताकाराः प्रकल्पयॆत् . शिल्पज्ञॊ निबन्धयॆत् . अन्यॆषामप्याह .
अभिजिनक्षत्रस्य
मरीचिवशिष्ठा दीनाम्
घटजस्य
ब्रह्मसंज्ञकतारा णामादिशब्दाल्लुब्धकापांवत्सादिनक्षत्रबिम्वानां
चकारः समुच्चयार्थकः .
कक्षा यथायॊग्य प्रकल्पयॆदित्यर्थः .
उक्तकक्षाणां
तुल्याभागॆऽनाधारवृत्तमध्यप्रदशॆ
ऎवकारादन्ययॊगव्यवच्छॆदः
विषुवसम्बधिनी वृत्तरूपा कक्षा
अवस्थिता भवति . तथा .
शिल्पज्ञः कक्षा निबन्धयॆदित्यर्थः . विषुववृत्तात्स्वस्पष्ट क्रान्त्यन्तरॆण स्वाज्याव्यासाप्रमाणॆनाहॊरात्रवृत्तमाधारवृत्तयॊर्निबन्धयॆ दिति निकृष्टॊऽर्थः .. 5 .. 6 . 7 . 8 . 1 ..
अथ गॊलॆ मॆषादिराशिसन्निवॆशमाह—
तदाधारयुतॆरूर्ध्वमयनॆ विषुवद्वयम् ..
विषुवस्थानतॊ भागैः स्फुटैर्भगणसञ्चरात् .. 10 ..
क्षॆत्राण्यॆवमजादीनां तिर्यग्ज्याभिः प्रकल्पयॆत् ..
- सौरदीपिका. !
विषुवकक्षॊन्मण्डलसंज्ञकाधारकक्षयॊर्युतॆः संपा- तात्
उपरि . अन्तिमाहॊरात्रवृत्तयॊः संपातॆ
दक्षिणॊत्तरायणसन्धिस्थानॆ भवतः . अत्रॊर्ध्वपदसञ्चारादाधारवृत्तमूर्ध्वा धरं ग्राह्यं न तिर्यगुन्मण्डलाकारम् . तॆनैतत्फलितम्-विषुववृत्तस्यॊ र्ध्वाधराधारवृत्त ऊर्चमधश्च संपातस्तत्रॊर्ध्वासंपातान्मकराद्यहॊरात्रवृत्तं चतुर्विंशत्यशैस्तदाधारवृत्तॆ दक्षिणतॊ यत्र लग्न तत्रॊत्तरायणसन्धिस्थानम् . ऎवमधः संपातात्कर्काद्यहॊरात्रवृत्तं चतुर्विंशत्यशैस्तदाधारवृत्त उत्तरतॊ यत्र लग्नं तत्र दक्षिणायनसन्धिस्थानमिति .
विषुवस्थायनाद्विपरीतास्थितत्वादूर्ध्वशब्दद्यॊतितविपरीताधः शब्दसम्बन्धा
द्विषुववयं भवति . तात्पर्यार्थस्तु तिर्यगुन्मण्डलाकाराधारवृत्तविषुववृत्तसंपातौ पूर्वापरौ क्रमॆण मॆषादितुलादिरूपॊ विषुवत्स्थानॆ भवत इति . अथ राशिसाफल्यसन्निवॆशमाह .
विषुवप्रदॆशात्
स्फुटैः राशिसम्बन्धिभिः
अंशैस्त्रिंशन्मितै रंशैरित्यर्थः .
राशिसाफल्यसन्निदॆशात्
उक्तवृत्तानुकारातिरिक्तानुकारसूत्रवृत्तप्रदॆशैः
मॆषादीनां
स्थानानि
सुधीर्गणकॊऽङ्कयॆत् . यद्यथापूर्वदिक्स्थविषुवस्थानाद्गॊलवृत्तद्वादशांश खण्डप्रदॆशॆन मॆषान्ताहॊरात्रवृत्तॆ पूर्वभागॆ यत्र स्थानं तत्र मॆषान्तस्थानं तस्मात्तदन्तरॆण वृषान्ताहॊरात्रवृत्तॆ वृषान्तस्थानमस्मादयनसन्धिस्थान तत्प्रदॆशान्तरॆण मिथुनान्तस्थानमस्मात्तदन्तरॆण क्रान्त्याहॊरात्रवृत्तॆ कर्का न्तस्थानमस्मादपि सिंहान्ताहॊरात्रवृत्तॆ तदन्तरॆण सिंहान्तस्थानमस्मादपि तदन्तरॆण पश्चिमविषुवस्थानं कन्यान्तस्थानमस्मादपि पूर्वभागॆ तुलान्ताहॊरात्रवृत्तॆ तदन्तरॆण तुलान्तस्थानमस्मादपि वृश्चिकान्ताहॊरात्रवृत्तॆ तदन्त रॆण वृश्चिकान्तस्थानमस्मादपि तदन्तरॆणायनसन्धिस्थानं धनुरन्तस्थान मस्मात्कुम्भायहॊरात्रवृत्तॆ तदन्तरॆण मकरान्तस्थानमस्मादपि मीनाद्यहॊरात्र वृत्तॆ तदन्तरॆण कुम्भान्तस्थानं मीनादिस्थानं च . अस्मादपि पूर्वाविषुवॆ मीनान्तस्थान मॆषादिस्थानं च तदन्तरॆणॆति व्यक्तम् .. 10 ..
अथ सूर्यभ्रमणमार्गरूपां क्रान्तिसंज्ञककक्षामाह—
अयनादयनं चैव कक्षा तिर्यक् तथापरा .. 11 ..
क्रान्तिसंज्ञा तया सूर्यः सदा पर्यॆति भासयन् ..
सौरदीपिका.
अयनस्थानमारभ्य
द्वितीयायनपर्यन्तं
चकार आरम्भसमाप्त्यॊर्भिन्नायनस्थाननिरासार्थकः
गॊल आधारवृत्तसमा वृत्तरूपा
भ्रमणमार्गरूपा वृत्ताकारा
राश्यङ्कमार्गॆण
ऎवकारॊऽन्यमार्गव्यवच्छॆदार्थकः .
उक्तवृत्तानुकारविलक्षणानुकारा
क्रमणं क्रान्तिः . ग्रहगमनभॊगज्ञानार्थ वृत्तं तत्संज्ञमुपकल्पितम् . अयनविषुवद्वयसंसक्तं क्रान्तिवृत्तं द्वादशराश्यङ्कितं गॊलॆ निबन्धयॆदिति तात्पर्यार्थः .
भुवनानि प्रकाशयन् सन्
आदित्यः
निरन्तरं
क्रान्तिसंज्ञया कक्षया
स्वगत्या गच्छन्भगणपरिपूर्तिभॊगं करॊति सूर्यगत्यनुरॊधॆन नियत क्रान्तिवृत्तं कल्पितमिति भावः .. 11 ..
ननु चन्द्राद्याः क्रान्तिवृत्तॆ कुतॊ न गच्छन्तीत्यत आह—
चन्द्राद्याश्च स्वकैः पतिरपमण्डलमाश्रितैः .. 12 ..
ततॊऽपकृष्टा दृश्यन्तॆ विक्षॆपान्तॆष्वपक्रमात् ..
.
चन्द्रॊदयॊऽन्यतिरिक्ता ग्रहाः
स्वीयैः
पाताख्यदैवतैः
क्रान्तिवृत्तम्
स्वस्वभॊगस्थानॆऽधिष्ठितैः
क्रान्तिवृत्तान्तर्गतग्रहभॊग स्थानात्
चकाराद्विक्षपान्तरॆण
दक्षिणत
उत्तरतॊ वा कर्षिता भवन्ति . अतः कारणात्
क्रान्तिवृत्तान्तर्गतस्वस्वभॊगस्थानादित्यर्थः . दक्षिणत उत्तरतॊ वा
गणितागतविक्षॆपकलाग्रस्थानॆषु
भूस्थजनैदृश्यन्तॆ . तथा च क्रान्तिवृत्तं यथा विषुवन्मण्डलॆऽवस्थित तथा क्रान्तिवृत्तॆ पातस्थानॆ तत्पड्भान्तरॆ स्थानॆ च लग्नमुक्तपरमविक्षॆ पकलाभिस्तत्रिभान्तरस्थानादूर्ध्वाधःक्रमॆण दक्षिणॊत्तरतॊ लग्नं च वृत्तं विक्षॆपवृत्तं चन्द्रादिगत्यनुरॊधॆन स्वं स्व भिन्न कल्पितं तत्र गच्छन्तीति भावः .. 12 ..
अथ त्रिप्रश्नाधिकारॊक्तलग्नमध्यलग्नयॊः स्वरूपमाह—
उदयक्षितिजॆ लग्नमस्तं गच्छच्च तद्वशात् .. 13 ..
लकॊदयैर्यथा सिद्धं खमध्यॊपरि मध्यमम् ..
सौरदीषिका ..
उदयं गच्छत्यः क्षितिजवृत्तॆ
क्रान्तिवृत्तस्य यः प्रदॆशः संसक्तः तत्प्रदॆशॊ मॆषाद्यवधिभॊगॆनॊयल्लग्न मुच्यत इत्यर्थः .
उदयलग्नानुरॊधात्
अस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदिक्प्रदॆशमित्यर्थः
क्रान्तिवृत्तं गच्छद्यप्रदॆशन प्रवहवायुना संलग्नं तत्प्रदॆशॊ मॆषाद्यवधिभॊगॆनास्तलग्नमुच्यत इत्यर्थः
निरक्षॊदयासुभिः
त्रिप्रश्नाधिकारॊक्तप्रकारॆण
निष्पन्नं
मध्य लग्नं
दृश्याकाशविभागस्य मध्यं मध्यगतदक्षिणॊत्तरसूत्रवृत्तानुकारप्रदॆशरूपं न तु खमध्यं तस्यॊपरिस्थितं क्रान्तिवृत्तं याम्यॊत्तरवृत्तॆ तत्प्रदॆशॆन लग्नं तत्प्रदॆशॆ मॆषाद्यवधिभॊगॆन मध्यलग्न- मुच्यत इति तात्पर्यार्थः .. 13 ..
अथ त्रिप्रश्नाधिकारॊक्तान्त्यायाः स्वरूपं स्पष्टाधिकारॊक्त
चरज्यायाः स्वरूपं चाह—
मध्यक्षितिजयॊर्मध्यॆ या ज्या सान्त्याभिधीयतॆ 14..
ज्ञॆया चरदलज्या च विषुवक्षितिजान्तरम् ..
सौरदीपिका.
उत्तरगॊलॆ त्रिज्याचरज्यायुतिरूपा दक्षिणगॊलॆ चरज्यॊन- त्रिज्यारूपा त्रिप्रश्नाधिकारॊक्ता
अन्त्या ज्ञॆया
अन्त्या
याम्यॊत्तरवृत्तक्षितिजवृत्तयॊः
अन्तरालॆऽहॊरात्रवृत्तस्यैकदॆशॆ
ज्यासंज्ञा
गॊलतत्त्वज्ञैः कथ्यतॆ .
निरक्षक्षितिजस्व स्वक्षितिजवृत्तयॊरन्तरं
चकारॊ विशॆषार्थकस्तुकारपरस्तॆन तदन्त रालस्थिताहॊरात्रवृत्तैकदॆशस्यार्धज्यांरूपमृजुसूत्रमन्तरविशॆषात्मकम् . तथा च स्वनिरक्षदॆशयॊरुदयास्तसूत्रयॊरन्तरमूर्ध्वाधरमिति फलितार्थः.
तदन्तरालस्थिताहॊरात्रवृत्तैकदॆशरूपचराख्यखण्डकस्य . न तु दलमर्धम् . ज्या चरज्यॆत्यर्थः .
गॊलतत्त्वज्ञैर्ज्ञातव्या ..14..
अथ क्षितिजस्वरूपमाह—
कृत्वॊपरि स्वकं स्थानं मध्यॆ क्षितिजमण्डलम् ..15..
सौरदीपिका.
स्वीय
भूप्रदॆशैकरूपम्
सर्व प्रदॆशॆभ्य ऊर्ध्वं
प्रकल्प्य
तादृशभूगॊल ऊर्ध्वाधःखण्डसन्धौ, यद्वृत्तं तत्
क्षितिजवृत्त कार्यम् .. 15 ..
अथैनं दृष्टान्तगॊलं सिद्धं कृत्वास्य स्वतः ऎव पश्चिमभ्रमॊ
- यथा भवति तथा प्रकारमाह—
वस्त्रच्छन्नं बहिश्चापि लॊकालॊकॆन वॆष्टितम् ..
अमृतस्रावयॊगॆन कालभ्रमणसाधनम् .. 16 ..
सौरदीपिका.
गॊलॊपरीत्यर्थः
गॊलाकारॆण वस्त्रॆण छन्नं छादितं दृष्टान्तगॊलं
क्षितिजवृत्तॆन
संसक्तं कृत्वा
अस्मिन्गॊलॆ यथामृतस्रावयॊगः . बलयॊगं कार्यं तॆन
षष्टिनाक्षत्रघटीभिदृष्टा न्तगॊलस्य भ्रमणं यथा भवति तथा साधनं कार्यम् . स्वयंवहगॊलयन्त्रं कार्यमित्यर्थः . ऎतदुक्तं भवति . दृष्टान्तगॊलं वस्त्रच्छन्नं कृत्वा तदाधारयष्ट्यग्रॆ दक्षिणॊत्तरभित्तिक्षिप्तनलिकयॊर्मध्यॆ तथा क्षॆप्यॆ यथा यष्ट्यग्रं ध्रुवाभिमुखं स्यात् . ततस्तस्मिन्वक्ष्यमाणममृतस्रावं तथा यॊजयॆद्यॆन तस्य. गॊलस्य षष्टिघटिकाभिः पश्चिमभ्रमणं भवॆत् .. 16 ..
अथ स्वयंवहार्थॆ यन्त्रॆ बीजप्रक्षॆपास्य गॊप्यत्वं चाह—
तुङ्गबीजसमायुक्तं गॊलयन्त्रं प्रसाधयॆत् ..
गॊप्यमॆतत्सकाशॊक्तं सर्वगम्यं भवॆदिह .. 17..
- सौरदीपिका.
दृष्टान्तगॊलरूपं यन्त्रं
तुङ्गॊ महादॆवस्तस्य बीजं वीर्य पारद इत्यर्थस्तॆन गॊजितं सत्
गणकः शिल्पज्ञः संपादयॆत् . यथा नाक्षत्रषष्टिवटीभिर्गॊलयन्त्रभ्रमस्तथा पारदप्रयॊगॆण सिद्धं कुर्यादित्यर्थः .
स्वयंवहकरणं
अप्रकाश्यम् . कुत इत्याह-
अतिव्यक्ततयॊक्तं स्वयंवहकरणम्
भूलॊकॆ
सर्वजनगम्यं
स्यात् . तथा च सर्वज्ञॆयॆ वस्तुनि चमत्कारानुत्पत्तॆश्चमत्कृत्यार्थ सर्वत्र न प्रकाश्यामित्याशयॆन तत्करणं . व्यक्त नॊक्तमिति भावः .. 17 ..
ननु त्वया गॊप्यत्वॆनॊक्तं मया कथमवगन्तव्यं मादृशैरन्यैश्च कथ
मवगन्तव्यमित्यत आह—
तस्माद्गुरूपदॆशॆन रचयॆगॊलमुत्तमम् ..
युगॆ युगॆ समुच्छिन्ना रचनॆयं विवस्वतः .. 18..
प्रसादात्कस्यचिद् भूयः प्रादुर्भवति कामतः..
_ . -
स्वयंवहकरणस्य गॊप्यत्वात्
परम्पराप्राप्तगुरॊर्नियाजकथनॆन
दृष्टान्तगॊलम्
स्वयंवहात्मकं
गणकः कुर्यात् . तथा च मया तुभ्यमुक्ता ग्रन्थॆ गॊप्यत्वॆनातिव्यक्ता नॊक्तॆति भावः . अन्यैः कथं ज्ञॆयमित्यत आह .
सूर्यमण्डलाधिष्ठातुर्जीवविशॆषस्य
स्वयंवह रूपा
क्रिया
बहुकाल इत्यर्थः .
लॊकॆ लुप्ता
मादृशस्य
अनुग्रहाद्
वारंवारं
इच्छया
व्यक्ता भवतीत्यर्थः . तथा च यथा मत्तस्त्वयावगतं तथान्यस्मान्मादृशा दन्यैरवगन्तव्यं कालस्य निरवधित्वात् सृष्टॆरनादित्वाचॆति भावः .. 18 ..
अथॊक्तस्वयंवहक्रियारीत्या स्वयंवहगॊलातिरिक्तान्यस्वयं-
वहयन्त्राणि कालज्ञानार्थं साध्यानि तत्साधनं रहति
कार्यमिति चाह—
कालसंसाधनार्थाय तथा यन्त्राणि साधयॆत् ..19..
ऎकाकी यॊजयॆद्री यन्त्रॆ विस्मयकारिणि ..
सौरदीपिका.
कालस्य दिनगतादॆः सूक्ष्मज्ञाननिमित्तिं
यथा स्वयंवहयन्त्रं साधितं तद्वदित्यर्थः
स्वयंवहगॊलातिरिक्तानि स्वयंवहयन्त्राणि
रचयॆत् . गणकः शिल्पादिस्वकौशल्यॆन कारयॆदित्यर्थः .
आश्चर्यॊत्पादकॆ
कालसाधकॆ
स्वयंवहतासंपादकं कारणम्
ऎकव्यक्तिकॊऽद्वितीयः सन्
शिल्पज्ञतया स्वयमॆव निष्पादयॆदित्यर्थः . अन्यथा द्वितीयस्य तज्ज्ञानॆन न्मुखात्तद्यन्त्रहार्दृस्य लॊकश्रवणगॊचरतायां कदाचित्सॆभावितायां विस्मयानुत्पत्तः .. 16 ..
अथैषां स्वयंवहयन्त्राणां दुर्घटत्वाच्छक्कादियन्त्रैः कालज्ञानं ज्ञॆयमित्याह—
शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनॆकद्या ..20
गुरुपदॆशादिज्ञॆयं कालज्ञानमतन्द्रितः..
सौरदीपिका. ’
शङ्कुयन्त्र यष्टियन्त्र धनुर्यन्त्रचक्रयन्त्रैः
नानाप्रकारकैः
छायासाधक यन्त्रैः
स्वाध्यापकस्य निर्व्याजकथनात्
अभ्रमैः पुरुषैः
दिनगतादिज्ञानं
सूक्ष्म त्वॆनावगम्यम् . ऎतत्सर्वॆ सिद्धांतशिरॊमणी भास्कराचार्यैः स्पष्टीकृतम् ..
अथ घटीयत्रादिभिश्चमत्कारि यन्त्रैर्वा सर्वॊपजीव्यं कालं सूक्ष्म
साधयॆदिति कालसाधनमुपसंहरति—
तॊययन्त्रकपालाद्यैर्मयूरनरवानरैः .. 21..
ससूत्ररॆणुगर्भैश्च सम्यक्कालं प्रसाधयॆत् ..
.
तॊययन्त्रं च तत्कपालं कपालं
जलयन्त्रं वक्ष्यमाणं च तदाद्यं प्रथमं यॆषां तैर्यन्त्रैर्बालुकाप्रभृतिभिः सापॆक्षघटीयन्त्रैः
मयूराख्यं स्वयंवजयन्त्रं निरपॆक्षं
नरयन्त्रं शंक्वाख्यं छायायन्त्रं पूर्वॊद्दिष्टवानरयन्त्रं स्वयंवहं निरपॆक्षतः -
सूत्रसहिता रॆणवॊ धूलयॊं गर्भॆ मध्यॆ यॆषां तैः
सूत्रप्रॊताः षष्टिसङ्ख्याका मृद्घटिका मयूरॊदरस्था मुखाद्घटिकान्तरॆण स्वत ऎव निःसरन्तीति लॊकप्रसिद्धया तादृशैर्यन्त्ररित्यर्थः . यद्वा सूत्राकारॆण रॆणवः सिकतांशा गर्भॆ उदरॆ यस्यैतादृशं यन्त्रं वालुकायन्त्रं प्रसिद्धम् .. तॆन सहितैर्मयूरादियन्त्रैर्वालुकायन्त्रॆण चॆति सिद्धॊऽर्थः .
चकार स्तॊययन्त्रकपालाद्यैरित्यनॆन समुच्चयार्थकः .
दिनगतादिरूपं
सूक्ष्मं
प्रकर्षॆण सूक्ष्मत्वॆनॆत्यर्थः . जानीयादित्यर्थः .. 21 ..
ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधन
प्रकारा बहवॊ दुर्गमाश्च सन्तीत्याह—
पारदाराम्बुसूत्राणि शुल्बतैलजलानि च .. 22..
बीजानि पांसवस्तॆषु प्रयॊगास्तॆऽपि दुर्लभाः ..
सौरदीपिका.
मयूरादियन्त्रॆषु
पारदयुक्ता आरा यन्त्रपालिगता अङ्कुशाकृतयस्तॆषां प्रयॊगा जलस्य प्रयॊगाः सूत्र साधनप्रयॊगा ऎतॆषां प्रयॊगाः .
शुल्ब शिल्पनैपुण्यं ताम्रं च तैलजलानि, तैलयुक्तजलस्य प्रयॊगः
चकारात्तयॊः पृथक्प्रयॊगॊऽपि
कॆवलं तुङ्गबीजप्रयॊगः
धूलिप्रयॊगास्तैर्युक्ताः
ऎतॆ सर्वॆ प्रयॊगाः
अपि शब्दात्सुगमतरा इत्यर्थः
साधारणत्वॆन मनुष्यैः कर्तुमशक्या इत्यर्थः . अन्यथा प्रतिगृहं स्वयंवहानां प्राचुर्यापत्तॆः .. 22 ..
अथ कपालाख्यं जलयन्त्रमाह—
ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डॆ ऽमलाम्भसि ..23..
षष्टिर्मज्झत्यहॊरात्रॆ स्फुटं यन्त्रं कपालकम् ..
सौरदीपिका.
अधॊभागॆ छिद्रं यस्य तत्
ताम्रघटितं पात्रम्
अमलं निर्मलं जलं विद्यतॆ यस्मिंस्तत्तादृशॆ
बृहद्भाण्डॆ
धरितं सद्
नाक्षत्राहॊरात्रॆ
षष्टिवारं
अधश्छिद्रमार्गॆण जलागमनॆन जलपूर्णतया जलॆ निमग्नं भवति . तत्
कपालमॆव कपालकं घटखण्डानां कपालपदवाच्यत्वा घटाधस्तनार्धाकारं
घटीयन्त्रं
सूक्ष्मं ज्ञॆयम् . तद्घटनं तु . वृत्तं ताम्रमयं पात्रं कारयॆद्दशभिः पलैः . षडङ्गुलादि तदधॊस्तारॆ द्वादशाङ्गुलम् .. तस्याधः कारयॆच्छिद्रं कर्षॆणाष्टाङ्गुलॆन तु . इत्यॆतद्घटिकासंज्ञं पलषष्ट्यम्बुपूरणम् .. स्वॆष्टं वान्यदहॊरात्रॆ षष्ट्याम्भसि निमज्जनैः . ताम्रपात्रमधश्छिद्रमम्बुयन्त्रं कपालकम् .. तलॆ द्व्यङ्गुल विस्तारषड्वृत्तॊ द्वादशॊर्द्धतः . इति व्यक्तम् .. 23 ..
अथ शङ्गुयन्त्रं दिवैव कालज्ञानार्थं नान्यदित्याह—
नरयन्त्रं तथा साधु दिवा च विमलॆ रवौ .. 24 ..
छायासंसाधनैः प्रॊक्तं कालसाधनमुत्तमम् ..
सौरदीपिका.
मॆषादिव्यवधानरूपमलॆन रहितॆ
सूर्यॆ
दिनॆ
चकार ऎवकारार्थकस्तॆन साभ्रदिनव्यवच्छॆदः .
द्वादशाङ्गुलशङ्गुयन्त्रं
घटीयन्त्रवत्कालसाधकं
सूक्ष्मं रात्रौ नैत्यर्थसिद्धम् . ननु शङ्कॊछायासाधकत्वं न काल साधकत्वं तॆन तस्य कथं यन्त्रत्वं कालसाधकवस्तुनॊ यन्त्रत्वप्रतिपादनादित्यत आह—
इदं शङ्गुरूपनरयन्त्रं छायायाः सम्यक् सूक्ष्मत्वॆन साधनैरवगमैः कृत्वा
दिनगता कालस्य कारणं
कथितम् . अन्ययन्त्रॆभ्यॊऽस्मानिरन्तरतयाति
श्रॆष्ठम् . तथा च छायासाधकत्वॆनैव छायाद्वाराशङ्कॊः
कालसाधकत्वमान यन्त्रत्वन्याघातः . अतऎव साभ्रदिनॆ रात्रौ चानुपयुक्तः . नरस्य छायायन्त्रॊपलक्षणत्वाद्यष्टिधनुश्चक्राण्यपि तथॆति ध्यॆयम् .. 24 ..
अथास्यफलमाह—
ग्रहनक्षत्रचरितं ज्ञात्वा गॊलं च तत्वतः .. 25..
ग्रहलॊकमवाप्नॊति पर्यायॆणात्मवान्नरः..
.
ग्रहनक्षत्राणां चरितं गणितविषयकं ज्ञानं ग्रन्थपूर्वखण्डरूपं
भूगॊलभगॊलस्वरूपप्रतिपादकग्रन्थं ग्रन्थॊ त्तरार्धान्तर्गतं
चकारः समुच्चयॆ
वस्तुस्थितिसद्भावॆन सार्वविभक्ति कस्तासरित्यॆकॆ .
अवगम्य
पुरुषः
चन्द्रादिग्रहाणां लॊकं तल्लॊकाधिष्ठितस्थानं ग्रहॊ पलक्षणत्वान्नक्षत्राधिष्ठितस्थानमपि ध्यॆयम् .
प्राप्नॊति ..
जन्मान्तरॆण पुरुषः
आत्मज्ञानी भवति . तथाचात्मज्ञानान्मॊक्षप्राप्तिरॆवॆतिभावः .. 25 ..
इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां सौरदीपि
कायां ज्यॊतिषॊपनिषदध्यायस्त्रयॊदशः सम्पूर्णः .. 13..
14 अथ मानाध्यायः प्रारभ्यतॆ.
अथ मानानि कति किं च तैरित्यवशिष्टप्रश्नस्यॊत्तरभूत आरब्धमानाध्यायॊ व्याख्यायतॆ . तत्र प्रथमं मानानि . कतीति प्रथमप्रश्नस्यॊत्तरमाह—
ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरॊस्तथा ..
सौरं च सावनं चान्द्रमार्क्षं मानानि वै नव .. 1 ..
सौरदीपिका. ’
"कल्पॊ ब्राह्ममहः प्रॊक्तम्-" इत्यादिना प्रतिपादित ब्राह्ममानम् .
"दिव्यं तदह उच्यतॆ— इत्यादिना प्रति पादितं द्वितीयं दॆवमानम् .
पितॄणां मानॆ वक्ष्यमाणं
तृतीयम् .
प्रजापतिमानं वक्ष्यमाणं चतुर्थम् .
बृहस्पतॆः
वक्ष्यमाणं पञ्चममानम् .
सूर्यमानं
चकारात् षष्ठं मानम् .
सावनमानं सप्तमम् .
चान्द्रमानमष्टमम् .
नाक्षत्रमानं नवमम्
निश्चयॆन
ऎतानि नवसंख्याकानि
कालमानानि सन्ति .. 1 ..
अथ किञ्च तैरिति द्वितीयप्रश्नस्यॊत्तरं विवक्षुः प्रथम व्यवहारॊपयुक्तमानानि दर्शयति—
चतुर्भिर्व्यवहारॊऽत्र सौरचान्द्रर्क्षसावनैः..
बार्हस्पत्यॆन षष्ट्यब्दं ज्ञॆयं नान्यैस्तु नित्यशः ..2..
सौरदीपिका.
मनुष्यलॊकॆ
सौरचान्द्र नाक्षत्रसावनैः
चतुर्भिर्मानैः
कर्मघटना भवति .
प्रभवादिषष्टिवर्षॆ
बृहस्पतिमानॆन . बृहस्पतिमध्यमराशियॊगात्मककालॆन प्रत्यॆकं
बॊध्यम् .
अवशिष्टैर्बाह्मदिव्यपित्र्यप्राजापत्यैः
सदॆत्यर्थः
व्यवहारॊ नास्ति .
तुकारात्कादाचि " त्कत्वॆन तैर्व्यवहारः .. 2 ..
अथ सौरॆण व्यवहारं प्रदर्शयति—
सौरॆण द्युनिशॊर्मानं षडशीतिमुखानि च ..
अयनं विषुवचैव संक्रान्तॆः पुण्यकालता ..3..
भचक्रपरिवर्तॆन भानॊर्दॆवसुरद्विषाम् ..
अहॊरात्रं कृतादीनां संख्या ज्ञॆया तथॊदिता .. 4..
सौरदीपिका.
सौरमानॆन
अहॊरात्रयॊः
प्रमाणं ज्ञॆयम् . प्रात्याह्निकसूर्यगतिभॊगादहॊरात्रं भवतीत्यर्थः .
वक्ष्यमाणानि
चकारात् सौरमानॆन ज्ञॆयानि .
उत्तरायणं दक्षिणायनं च
सायनमॆषतुलादिमानं
चकारः समुच्चयार्थॆ
मॆषादिराशीनामन्यॆषामपि शॆषसंक्रान्तीनां
सूर्यबिम्बकलासम्बद्धा
ऎवकारात्सौरमानॆन ज्ञॆयम् .
सूर्यस्य
द्वादशराशिभॊगकालॆन
दॆवदैत्यानाम्
दिनरात्रिमानं ज्ञॆयम् .
सौरमानॆन
कृतत्रॆताद्वापरकलियुगानां
प्रथमाध्यायॊक्ता
वर्षसंख्या
बॊध्या ..3.. 4 ..
अथ षडशीतिमुखमाह—
तुलादिषडशीत्यहां षडशीतिमुख क्रमात् ..
तचतुष्टयमॆव स्याद् द्विस्वभावॆषु राशिषु .. 5 ..
षड्विंशॆ धनुषॊ भागॆ द्वाविंशॆ तिमिनस्य च ..
मिथुनाष्टादशॆ भागॆ कन्यायास्तु चतुर्दशॆ .. 6 ..
ततः शॆषाणि कन्याया या न्यहानि तु षॊडश ..
क्रतुभिस्तानि तुल्यानि पितृणां दत्तमक्षयम् .. 7..
सौरदीपिका.
- तुलारम्भात् षडशीतिदिक्सङ्ख्यानां सौराणां
षडशीतिमुखसंज्ञं भवति .
षडशीतिमुखस्य चतुः संख्या
द्विस्वभावसंज्ञकराशिषु
वक्ष्यमाणा
भवॆत् .
धनुराशॆः
षड्विंशतितमॆ
अंश .
मीनस्य
द्वाविंशतितमॆंऽशॆ .
मिथुनराशिरष्टादशॆ
अंशॆ .
कन्याराशॆः
चतुर्दशॆ भागॆ षडशीति मुखं भवति .
कन्यादिचतुर्दशभागानन्तरं
भगणभागॆऽवशिष्टानि
कन्याराशॆः
सौरभागसमानि
षॊडशसंख्याकानि
सौरदिनानि
यज्ञैः
समानि . अतिपुण्यानीत्यर्थः . तत्र
पितृजनानां
श्राद्धादि कृतम्
अनन्तफलदं भवति . तुलाराशिमारभ्य धनुराशॆः षड् विंशतिभागपर्यन्तं सूर्याक्रान्तषडशीति भागाः प्रथमं षडशीतिमुखम् . ततः धनुराशॆः सप्तविंशतिभागमारभ्य मीनराशॆः द्वाविंशतिभागपर्यन्तं
सूर्याक्रान्तषडशीतिभागाः द्वितीयं षडशीतिमुखम् . ततॊऽनन्तरं मीनरा शॆस्त्रयॊविंशतितमभागमारभ्य मिथुनाष्टादशभागपर्यन्तं सूर्याक्रान्तषडशीति . भागास्तृतीयं षडशीतिमुखम् . ततॊऽनन्तरं मिथुनराशॆरॆकॊनविंशतितम भागमारभ्यकन्यायाश्चतुर्दशभागपर्यन्तं सूर्याक्रान्तषडशीतिभागाश्चतुर्थं षडशीतिमुखं भवति . ततॊऽनन्तरं कन्यायाः पञ्चदशभागमारभ्य कन्यान्तपर्यन्तं सूर्याक्रान्ताः षॊडशभागाः सौरदिनानि तॆषु पितृणां श्राद्धादिकं कृतं चॆत्तदा पितॄणामक्षयतृप्तिः श्राद्धकर्तुः प्रतिदिनं यज्ञतुल्यफलं स्यादित्यर्थः .. 5 .. 6 .. 7 ..
अथ राश्यधिष्ठितक्रान्तिवृत्तॆ चत्वारि स्थानानि पदसन्धिस्थानॆ
’विषुवायनाभ्यां प्रसिद्धानीत्याह—
भचक्रनाभौ विषुवद्वितयं समसूत्रगम् ..
अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः ..8..
सौरदीपिका.
भगॊलस्य ध्रुवाभ्यां तुल्यान्तरॆण मध्यभागॆ
विषुवद्द्वयं
परस्परं व्यास सूत्रान्तरितं ध्रुवमध्यॆ विषुववृत्तस्थानाद्विषुववृत्तॆ क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमॆण पूर्वापरौ विषुवत्संज्ञौ मॆषतुलाख्यौ चॆत्यर्थः .
अयनद्वयं कर्कमकरादिरूपम् .
चकारः समुच्चयॆ . तॆन समसूत्रगं
विषुवायनाख्याः ’क्रान्तिवृत्तप्रदॆशरूपाभूमयः
चतुःसंख्याकाः
गणितादौ पदादित्वॆन प्रसिद्धाः .
ऎवकारादन्यराशीनां निरासः .
तुकारा त्तासां समसूत्रस्थत्वॆऽपि विषुवायनत्वाभावात्पदादित्वॆन प्रसिद्धिरित्यर्थः ..8..
अथावशिष्टनामादिस्वरूपमन्यदप्याह—
तदन्तरॆषु संक्रान्तिद्वितयं द्वितयं पुनः..
नैरन्तर्यान्तु संक्रान्तॆज्ञॆयं विष्णुपदीद्वयम् .. 6 ..
सौरदीपिका.
विषुवायनान्तरारॆषु
संक्रान्तिद्वितयं द्वितयं
राश्यादिभागॆ ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तरालॆ राश्या दिभागौ द्वौ भवत इत्यर्थः . यथा हि मॆषाख्यविषुवकर्काख्यायनयॊरन्त रालॆ वृषमिथुनयॊरादी . कर्कतुलयॊरन्तरालॆ सिंहकन्ययॊरादी . तुलामकर यॊरन्तरालॆ वृश्चिकधनुषॊरादी . मकरमॆषयॊरन्तरालॆ कुम्भमीनयॊरादी इति . ऎवं विषुवानन्तरं संक्रमणद्वयमनन्तरमयनं तदनन्तरसंक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरसंक्रान्तिद्वितयमनन्तरमयनमित्यादि पौनः पुन्यॆन, ज्ञॆयमित्यर्थः . संक्रान्तिद्वयमध्यॆ प्रथमसंक्रान्तौ विशॆषमाह .
निरन्तरतया सम्भूतायाः
राश्यादिभागॆ ग्रहाणामाक्रमणसकाशात्
प्रथमसंक्रान्तिर्विष्णुपदसंज्ञा तयॊर्द्वयं तदन्तरॆ प्रत्यॆकं भवतीति तात्पर्यार्थः
तुकारात् षडशीतिसंज्ञं द्वितीयसंक्रमणं पूर्वसूचितं तयॊरपि द्वयं तदन्तरालॆ भवतीति ध्यॆयम् .. 1 ..
अथायनद्वयमाह—
भानॊर्मकरसंक्रान्तॆः षण्मासा उत्तरायणम् ..
कर्कादॆस्तु तथैव स्यात् षण्मासा दक्षिणायनम्..10..
- .
सूर्यस्य
मकराख्यसंक्रान्तॆः सकाशात्
षट्सौरमासाः
उत्तरायणसंज्ञकाः स्युरित्यर्थः .
कर्कसंक्रान्तॆः सकाशात्
सूर्यभॊगात्
ऎवकारादन्यग्रहनिरासः
षट्सौरमासाः
दक्षिणायनसंज्ञकाः सन्तीत्यर्थः
तुकारात्सौराः मासा ज्ञॆया इत्यर्थः ..10..
अथर्तुमासवर्षाण्याह—
द्विराशिनाथा ऋतवस्ततॊऽपि शिशिरादयः..
मॆषादयॊ द्वादशैतॆ मासास्तैरॆव वत्सरः .. 11 ..
सौरदीपिका.
मकरसंक्रान्तॆः सकाशात्
अपि शब्दादुत्तरायणपर्यन्तं
द्विराशिस्वामिका राशिद्वयार्कभॊग्यास्मका इत्यर्थः .
शिशिरवसन्तग्रीष्मवर्षाशरद्धॆमन्ताः
कालविभागविशॆषा भवन्ति .
सूर्यभॊगविषयकाः
अजादिराशयः
द्वादशसंख्याकाः
सौरमासाः सन्ति
द्वादशभिर्मासैः
ऎव कारान्न्यूनाधिकव्यवच्छॆदः
सौरवर्षं भवति .. 11 ..
अथ प्रसंगात्संक्रान्तौ पुण्यकालानयनमाह—
अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः..
तदर्धनाड्यः संक्रान्तॆर्वाक् पुण्यं तथापरॆ .. 12..
सौरदीपिका.
सूर्यबिम्बकलाः
षष्टिसंख्यया
ताडिताः
सूर्यभुक्त्या मताः . फलं किञ्चिन्यूनाधिका द्वात्रिंशद्घटिका भवन्ति .
तत्संख्याका घटिकाः षॊडश घटिका इत्यर्थः
सूर्यस्य राशिप्रवॆशकालादित्यर्थः
पूर्व
स्नानदानादिधर्मकृत्यॆ पुण्यघटिकाः पुण्यवृद्धिकारकाः.
संक्रान्त्युत्तरकालॆ षॊडश घटिका
स्नानादि धर्मकृत्यॆ पुण्यवृद्धिदा इत्यर्थः . अत्रापि धर्मशास्त्रॊक्तः कालविशॆषॊऽपि संक्रान्तिषु तज्ज्ञैर्विज्ञयः . तत्रादौ प्रथमतः संक्रान्तिसूक्ष्म कालः कथ्यतॆ . सुस्थॊ नरः सुखासीनॊ यावत्स्पन्दति लॊचनम् . तस्य त्रिंशत्तमा भागस्त- स्परः परिकीर्तितः .. तत्पराच्छतभागस्तु त्रुटिरित्यभिधीयतॆ . त्रुटॆः सहस्र भागॊ यः स कालॊ रविसंक्रमी .. रविभवति तत्कालॆ त्रैलॊक्यं सचरा चरम् . ब्रह्मापि तं न जानाति किं पुनः प्राकृतॊ जनः .. इति .. तथा
सति संक्रान्तौ स्नानदानादिकं कथमित्याह—
अर्वाक् षॊडश नाड्यस्तु नाड्यः पश्चाच षॊडश . पुण्यकालॊऽर्कसंक्रान्तॆः स्नानदानजपादिषु . इति सर्व संक्रान्तिसाधारणधर्मविशॆषः, पुनरुच्यतॆ . मध्यॆ विषुवति दान विष्णुपदॆ दक्षिणायनॆ चादौ . षडशीतिमुखॆऽतीत्याथॊदगयनॆऽपि भूरि फलम् .. इति सौरमानम् .. 12 ..
अथ सौरमुक्त्वा क्रमप्राप्तं चान्द्रमानमाह—
अर्काद्विनिसृतः प्राचीं यद्यात्यहरहः शशी ..
तच्चान्द्रमानमंशैस्तु ज्ञॆया द्वादशभिस्तिथिः .. 13 ..
सौरदीपिका.
सूर्यात्
सूर्यसमागमं त्यक्त्वा . पृथग्भूतः सन्
चन्द्रः
प्रतिदिनं
यत्संख्यामितं
पूर्वी
गच्छति
तत्संख्यामितं
चन्द्रप्रमाणं प्रतिदिनॆ गत्यन्तरांशमितम् . ननु सौरदिनं सूर्यांशॆन यथा भवति तथैतद्रूपैर्भागः कियद्भिः पूर्ण चान्द्र दिनं भवतीत्यत आह
द्वादशसंख्याकैः
भागः
तुकारात्सूर्यचन्दान्तरॊत्पन्नस्तस्य तद्रूपत्वात् .
ऎका तिथिः
बॊध्या . सूर्यचन्द्रान्तरॊत्पन्नादशभागैरॆकं चान्द्र दिनं भवतीति भावार्थः . उपपत्तिस्तु प्रागॆव स्पष्टाधिकारॆ कथिता ..13..
अथ चान्द्रव्यवहारमाह—
तिथिः करणमुद्द्वाहः क्षौरं सर्वक्रियास्तथा ..
व्रतॊपवासयात्राणां क्रिया चान्द्रॆण गृह्यतॆ .. 14 ..
.
प्रतिपदाद्याः
बवादिकम्
विवाहः
चौलकर्म . ऎतदाद्याः
व्रतबन्धाद्युत्सवरूपाः
नियमॊपवासगमनानां
करणं
समुच्चयार्थकः
चन्द्रमानॆन
अङ्गीक्रियतॆ .. 14 ..
अथ चान्द्रमासं प्रसङ्गात्पितृमानं चाह—
त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम् ..
निशा च मासपक्षान्तॊ तयॊर्मध्यॆ विभागतः..15..
- सौरदीपिका.
त्रिंशन्मितैः
चान्द्रदिनैः
ऐन्दवः
त्रिंशत्तिथ्यात्मकः
पितृसम्बन्धि
दिनं
कथितम् .
रात्रिः पितृसंबद्धा
चकारॊ व्यवस्थार्थकः . तॆनॊभयं नैकः प्रत्यॆकं किंतु मिलितं स्मृतमिति लिङ्गानुरॊधॆनॊभयत्रान्वॆति . तथा च चान्द्रॊ मासः . पित्र्याहॊरात्रमिति फलितार्थः .
मासान्तॊ दर्शान्तः पक्षान्तः पूर्णिमान्तः ऎतावित्यर्थः .
क्रमॆणॆत्यर्थः .
पित्र्याहॊरात्रयॊः
अर्धॆ भवतः . दर्शान्तः पितृणां मध्याह्नः पूर्णिमान्तः पितॄणां निशीथ इत्यर्थः . अर्था त् कृष्णाष्टम्यर्धॆ दिनस्यारम्भः . शुक्लाष्टम्यर्धॆ दिनान्त इति सिद्धम् ..15..
अथ क्रमप्राप्तं नक्षत्रमानं प्रसङ्गान्माससंज्ञां चाह—
भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यतॆ ..
नक्षत्रनाम्ना मासास्तु ज्ञॆया पर्वान्तयॊगतः..16..
सौरदीपिका.
प्रत्यहं
नक्षत्रसमूहस्य प्रवहवा युकृतपरिभ्रमः
नक्षत्रसंबन्धि
अहः
मानतत्त्वज्ञैः कथ्यतॆ . नित्यमित्यनॆन चन्द्रभॊगनक्षत्रभॊगौ नाक्षत्रमित्यस्य निरासः . भचक्रभ्रमणानुपपत्तॆः .
पर्वान्तः पूर्णिमान्तस्तस्य यॊगात्तत्संबन्धात् .
नक्षत्रस्य नाम्ना
चान्द्रमासाः
अवगम्याः .
तुकाराच्चान्द्रा मासा ज्ञॆया . पूर्णिमान्तॆ यस्मिनक्षत्रॆ चन्द्रः स्थितस्तन्नक्ष त्रनाम्ना मासॊ ज्ञॆय इति तात्पर्यार्थः . यथा चित्रया युक्ता पौर्णमासी चैत्री, सा चैत्री यस्मिन्मासॆ असौ चैत्रः, चित्रासम्बन्धाच्चैत्र इति फलितार्थः . विशाखासंबन्धाद्वैशाखः . ज्यॆष्ठायाः सम्बन्धाज्ज्यैष्ठः . ऎवमाषाढादयॊ मासा ज्ञॆयाः .. 16 ..
ननु पूर्णिमान्तॆ तत्तन्नक्षत्राभावॆ चैत्रादिमाससंज्ञा कथं
भवन्तीत्यत आह—
कार्तिक्यादिषु संयॊगॆ कृत्तिकादि द्वयं द्वयम् ..
अन्त्यॊपान्त्यॊ पञ्चमश्च त्रिधा मासत्रयं स्मृतम् 17
471 सौरदीपिका.
कार्तिकमासादीनां पौर्णमासीस्वित्यर्थः . “अत्र नक्षत्रसंयॊगार्थमिति निमित्तसप्तमी
नक्षत्राणां संयॊगॆ."
कृत्तिकादि द्वयं द्वयं नक्षत्रं कथितम्
अन्त्य आश्विनः . उपान्त्यॊ भाद्रपदः . ऎतौ मासौ .
फाल्गुनः
चकारः समुच्चय इति
मासानां त्रयं
स्थानत्रयॆ
कथितम् . तथा हि . कृत्तिकारॊहिणीभ्यां कार्तिकः, मृगाभ्यां मार्गशीर्षः, पुनर्व सुपुष्याभ्यां पौषः, आश्लॆषामघाभ्यां माघः, पूर्वॊत्तराफाल्गुणीहस्तॆभ्यः फाल्गुनः, चित्रास्वातीभ्यां चैत्रः, विशाषानुराधाभ्यां वैशाखः, ज्यॆष्ठा मूलाभ्यां ज्यैष्ठा, पूर्वॊत्तराषाढाभ्यामाषाढः, श्रवणधनिष्ठाभ्यां श्रावणः, शततारापूर्वॊत्तरा भाद्रपदाभिर्भाद्रपदः, रॆवत्यश्विनीभरणीभराश्विन इति . अत्र सुधावर्षिण्यां सुधाकरपण्डितैस्तु ऎवं निरयणमानागतनक्षत्रैर्मासानां संज्ञान लिखिता तथैवार्थर्ववॆदॆऽपि मासानां संज्ञा . सायनमानवशात् तत्तत् नक्षत्राणां संबन्धाभावात्संज्ञास्वनापत्तिरतॊ निरयणमानॆनैव व्यवहारः समुचित इत्यॆव प्राचीनानां वैदिकानां सम्मतिरिति स्फुटम्, इति लिखितं तदतीवरमणीयम् .. 17 ..
अथ प्रसङ्गात्कार्तिकादिबृहस्पतिवर्षाण्याह—
वैशाखादिषु कृष्णॆ च यॊगः पञ्चदशॆ तिथौ ..
कार्तिकादीनि वर्षाणि गुरॊरस्तॊदयात्तथा .. 18 ..
सौरदीपिका.
पूर्वॊक्तप्रकारॆण . यथा पौर्णमास्यां नक्षत्रसम्बन्धॆन तत्संज्ञॊ मासॊ भवति तथैवत्यर्थः .
बृहस्पतॆः
अस्तादुदयाद्वा
वैशाखादिद्वादशमासॆषु
कृष्णपक्षॆ
अमायामित्यर्थः .
चंकारः पौर्णमासीसम्बन्धात्समुच्चयार्थकः .
दिननक्षत्र सम्बन्धः
कार्तिकमादिर्यॆषां तानि
द्वादशवर्षाणि भवन्ति . वैशाख मास सूर्यः प्रायॆण कृत्तिकानक्षत्रस्थॊ भवति तदैव गुरुः कृत्तिकानक्षत्रॆ रॊहिणीनक्षत्रस्थॊ वा वैशाखॆ मासि .
पञ्चदश्याममारूपायामुदॆति, अथवास्तं गच्छति तदा—
गुरॊः कार्तिक वर्षस्य प्रवॆशः स्यात् . ज्यॆष्ठॆ, यदा मृगशीर्षनक्षत्रॆ स्थितः सूर्यस्तदा मृग शिरसि आर्द्रायां वा गुरुः स्थित उदॆत्यस्तं वा गच्छति तदा मार्गशीर्षवर्षः . प्रायॆणाषाढॆ सूर्यः पुनर्वसौ तिष्ठति तदा गुरुः पुनर्वसौ पुष्य वा स्थित उदॆत्यस्तं वा गच्छति तदा पौषं वर्षम् . ऎवमग्रॆऽपि ज्ञॆयम् .. 10 ..
अथ क्रमप्राप्तं सावनमाह—
उदयादुदयं भानॊः सावनं तत्सकीर्तितम् ..
सावनानि स्युरॆतॆन यज्ञकालविधिस्तु तैः .. 19 ..
सौरदीपिका.
सूर्यॊदयात्
उदयकालमारभ्याव्यवहितॊ दयकालपर्यन्तं यत्कालात्मकं
कालात्मकं
सावन दिनं
कथितम् .
उदयद्वयान्तरात्मककाल
स्य गणनया
वसुद्वयष्टाद्रीत्यादीनि मध्याधिकारॊक्तानि
भवॆयुः
अर्कसावनैः
यज्ञस्य यः कालस्तस्य गणना भवति .
तुकारादन्यॆषामपि खॆटाना मुदयादुदयपर्यन्तं यानि सावनदिनानि भवन्ति तॆषां निरासः . सौरसा वनैरॆव यज्ञकालस्य गणना भवतीत्यर्थः .. 16 ..
अथ व्यवहारान्तरमाह—
सूतकादिपरिच्छॆदॊ दिनमासाब्दपास्तथा ..
मध्यमा ग्रहभुक्तिस्तु सावनॆनैव गृह्यतॆ .. 20 ..
.
सूतकं जन्ममरणसम्बन्धि, आदिपद ग्राह्यं चिकित्सितचान्द्रायणादि तस्य परिच्छॆदॊ निर्णयः .
दिनाधिपमासॆश्वरवर्षॆश्वराः
समुच्चयॆ
ग्रहाणां गतिः
स्थिरा .
तुकारा स्पष्टगतॆर्निरासः . तस्याः प्रतिक्षणं वैलक्षण्यादिनसम्बन्धस्याभावात् .
सावनमानॆन
ऎवकारादन्यमाननिरासः
सुधीभिरङ्गीक्रियतॆ . अत्र बहुवचनानुरॊधॆन गृह्यत इत्यत्र बहुवचनं ज्ञॆयम् .. 20 ..
अथ दिव्यमानमहा—
सुरासुराणामन्यॊन्यमहॊरात्रं विपर्ययात् ..
यत्प्रॊक्तं तद्भवॆद् दिव्यं भानॊर्भगणपूरणात् ..21..
सौरदीपिका.
सूर्यस्य
भगणभॊगपूर्तॆः
दॆवदानवानाम्
व्यत्यासात्
यद्दिनरात्रिमानं
पूर्वमनॆकधा निर्णीत
अहॊरात्रं
दिव्यमानं
स्यात् .. 21..
अथावशिष्टॆ प्राजापत्यब्रह्ममानॆ आह—
मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् ..
न तत्र द्युनिशॊर्भॆदॊ ब्राह्मं कल्पः प्रकीर्तितम्..22..
सौरदीपिका.
मन्वन्तरावस्थितिः
चकारॆण "युगानां सप्ततिः सैका-" इत्यादिना मध्याधिकारॊक्ता ग्राह्या . ,
प्रजापतिमानम्
कथितम् . मनूनां प्रजापतिपुत्रत्वात् . ननु दॆवपितृमानयॊर्दिनरात्रिभॆदॊ यथॊक्तस्तथास्मिन्मानॆ दिनरात्रिभॆदप्रतिपादनं कथं नॊक्तमित्यत आह .
प्राजापत्य मानॆ
दिनरात्र्यॊः
विवॆकॊ
सौर- चान्द्रवन्नास्ति.
यॊ युगसहस्रात्मकः कल्पः प्रागुक्त स्तदॆव
ब्रह्ममानं
कथितम् .. 22 ..
अथ स्वॊक्तमुपसंहरति—
ऎतत्तॆ परमाख्यातं रहस्यं परमाद्भुतम् ..
ब्रह्मैतत् परमं पुण्यं सर्वपापप्रणाशनम् .. 23 ..
सौरदीपिका.
हॆ दैत्यश्रॆष्ठ ! सूर्यभक्तत्वात् .
तु- भ्यम्
अधुनॊक्त
द्वितीयकथनम्
आश्चर्यकरम्
निराकाङ्क्षतया संपूर्ण कथितम् .
मदुक्तं
ब्रह्मसमं तथा चान्यशास्त्राणां ब्रह्मसमत्वाभावॆऽपि तज्ज्ञानाद्ब्रह्मानन्दावाप्तिरस्माद्ब्रह्मस्वरूपाद्ब्रह्मानन्दा- याप्तौ किं चित्रमिति भावः . कुत इदं ब्रह्मसममित्यत आह .
उत्कृष्टम् . अत्र हॆतुभूतं विशॆषणद्वयमाह .
पुण्यजनकम्
सर्वपापानां नाशकम् .. 23 ..
नन्वस्माद् ब्रह्मानन्दप्राप्तिरुक्त्वा पूर्व ग्रहलॊकप्राप्तिश्चॊक्ता
तत्रानयॊः किं फलं भवतीत्यत आह—
दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानमुत्तमम् ..
विज्ञायाकादिलॊकॆषु स्थानंप्राप्नॊतिशाश्वतम् .. 24..
सौरदीपिका.
नक्षत्रसम्बन्धिज्ञानं
खॆटानां
बॊधं
समुच्चयॆ
सर्वशास्त्रॆभ्यः उत्कृष्टम् . अत्र हॆतु भूतं विशॆषणमाह .
स्वर्गलॊकॊत्पन्नं
मया तुभ्यमुपदिष्टम्
ज्ञात्वा
सूर्यादि ग्रहलॊकॆषु
अधिष्ठानं
आलभतॆ
नित्यं ब्रह्मसायुज्यरूपं स्थानं प्राप्नॊति . पूर्वार्धस्य द्वितीयत्रकारः समुच्चयार्थकॊऽत्रान्वॆति . तथाः चॊभयं फलं क्रमॆण भवतीति भावः .. 24 ..
यत्त्वॆतत्तॆ परमाख्यातमित्यादिश्लॊकः कचित्पुस्तकॆऽस्माच्छ्लॊकात्पूर्वं
नास्ति किंतु माननिरूपणान्तस्थॆ दिव्यं चार्क्षमित्यादि श्लॊकान्तॆ
मानाध्यायसमाप्तिं कृत्वाग्रॆ ..
___ यथा शिखा मयूराणां नागानां मणयॊ यथा . तद्वद्वॆदाङ्गशा
स्त्राणां गणितं मूर्धनि स्थितम् .. 1.. न दयं तत् कृतघ्नाय वॆदविप्लव काय च . अर्थलुब्धाय मूर्खाय साइङ्काराय पापिनॆ .. 2 .. ऎवं विधाय
पुत्रायाप्यदॆयं सहजाय च . दत्तॆन वॆदमार्गस्य समुच्छॆदः कृतॊं भवॆत् .. 3 .. ब्रजॆतामन्धतामित्रं गुरुशिष्यौ सुदारुणम् . ततः शान्ताय शुचयॆ ब्राह्मणायैव दापयॆत् .. 4 .. चक्रानुपातजॊ मध्यॊ मध्यवृत्तांशजः स्फुटः . कालॆन दृक्समॊ न स्यात्ततॊ बीजक्रियॊच्यतॆ .. 5 .. राश्या दिरिन्दुरङ्कनॊ भक्तॊ नक्षत्रकक्षया . शॆष नक्षत्रकक्षायास्त्यजॆच्छॆषकयॊ स्तयॊः .. 6 .. यदल्यं तद्भजॆद्भानॊं कक्षया तिथिनिघ्नया . बीजं भागा दिकं तत्स्यात्कारयॆत्तद्धनं रवौ .. 7 .. त्रिगुणं शॊधयॆदिन्दौ जिननं भूमिजॆ क्षिपॆत् . दृश्यमध्नामृणं ज्ञॊचॆ खरामघ्नं गुरावृणम् .. .. ऋणं व्यॊमनवघ्नं स्यादानवॆज्यचलॊच्चकॆ .. धन सप्ताहतं मन्दॆ परि धीनामथॊच्यतॆ .. 1 .. युग्मान्तॊक्ताः परिधयॊं यॆ तॆ नित्यं परिस्फुटाः .. ऒजान्तॊक्तास्तु तॆ ज्ञॆयाः परबीजॆन संस्कृताः .. 10 .. वच्मि निर्बीज कानॊजपदान्तॆ वृत्तभागकान् .. सूर्यॆन्द्वॊर्मनवॊ दन्ता धृतितत्त्वकलॊ निताः .. 11 .. बाणतर्का महीजस्य सौम्यस्याचलबाहवः . वाक्पतॆ रष्टनॆत्राणि व्यॊमशीतांशवॊ भृगॊः .. 12 .. शून्यतयॊऽर्क पुत्रस्य बीज मॆतॆषु कारयॆत् .. बीजं खागन्युद्धृतं शॊध्यं परिध्यशॆषु भास्वतः .. 13 .. इनाप्तं यॊजयॆदिन्दॊः कुजस्याश्वहतं क्षिपॆत् .. विदश्चन्द्रहतं यॊज्यं सुरॆ रिन्द्रतं धनम् .. 14 .. धनं भृगॊर्भुवा निनं रविप्नं शॊधयॆच्छनॆः .. ऎवं "मान्दाः परिध्यंशाः स्फुटाः स्युर्वच्मि शीघ्रकान् .. 15 .. भौमस्यांभ्रगु णाक्षीणि बुधस्याब्धिगुणॆन्दवः .. बाणाक्षा दॆवपूज्यस्य भार्गवस्यॆन्दुष ड्यमाः .. 16 .. शनश्चन्द्राब्धयः शीघ्रा औजान्तॆ बीजवर्जिताः .. द्विघ्नं
स्वं कुजभागॆषु बाजं द्विघ्नमृणं विदः .. 17 .. अत्यष्टिनं धनं सुरॆरि न्दुघ्नं शॊधयॆत्कवॆः .. चन्द्रघ्नमृणमार्कस्य स्युरॆभिईक्समा ग्रहाः .. 18 .. ऎतद्बीजं मयाख्यातं प्रीत्या परमया तव .. गॊपनीयमिदं नित्यं नॊपदॆश्य यतस्ततः .. 16 .. परीक्षिताय शिष्याय गुरुभक्ताय साधयॆ .. दॆयं वि प्राय नान्यस्मै प्रतिकञ्चुककारिणॆ .. 20 .. बीजं निःशॆषसिद्धान्तरहस्य . परमं स्फुटम् .. यात्रापाणिग्रहादीनां कार्याणां शुभसिद्धिदम् .. 21 .. इत्यस्य कचित् पुस्तकॆ लिखितस्य बीजॊपनयनाध्यायान्तॆ लिखितॊ दृश्यतॆ तत्तु न समञ्जसम् .. उत्तरखण्डॆ ग्रहगणितनिरूपणाभावात् तनिरूपणप्रसङ्गनिरूपणीयाध्यायस्य लॆखनानौचित्यात् स्पष्टाधिकारॆ तदन्तॆ वास्य लॆखनस्य युक्तत्वाच्च . किं च ’मानानि कति किं च तैः! इति प्रश्नाग्रॆ प्रश्नानाममावाप्रश्नॊत्तरभूतॊत्तरखण्डॆऽस्य लॆखनमसङ्गतम् .. अपि च . उपदॆशकालॆ बीजाभावादॊऽन्तरदर्शनमनियतं कथमुपदिष्ट मन्यथान्तर्भूनत्वॆनैवॊकः स्यादित्यादिविचारॆण कॆनचिदुष्टॆन बीजस्यार्ष मूलकत्वज्ञापनायान्तॆऽत्र बीजापनयनाध्यायः प्रक्षिम इत्यवगम्य न व्या ख्यात इति मन्तव्यम् .. 24 ..
अथ मुनीनप्रति कथितसंवादस्यॊपसंहारमाह-
इत्युक्त्वा मयमामन्त्र्य सम्यक् तॆनाभिपूजितः..
दिवमाचक्रमॆऽकांशः प्रविवॆश स्वमण्डलम् .. 25 ..
.
सूर्यांशपुरुषः
मयासुरम्
तत्त्वतः
ग्रहादिचरितमुपदिश्य
"ऎतत्तॆ-" इत्यादि श्लॊकद्वयम्
कथयित्वा
मयासुरॆण
गन्धपुष्पधूपदीपनैवॆद्यवस्त्रालङ्कारादिभिः पूजाविषयी कृतः सन् . मयद्वारा मर्त्यलॊकॆ प्रसिद्धिं सूर्यतुल्यत्वॆन प्राप्त इति भावः .
स्वर्गम्
आक्रमणविषयं चक्रॆ . ननु स्वर्गॆऽपि किं स्थानं गत इत्यत आह .
सूर्यबिम्बं
विशतिस्माधिष्ठितवान् इत्यर्थः .. 25 ..
अथ मयासुरावस्थां तात्कालिकीमाह—
मयॊऽथ दिव्यं तज्ज्ञानं ज्ञात्वा साक्षाद्विवस्वतः..
कृतकृत्यमिवात्मानं मॆनॆ निर्धूतकल्मषम् .. 26 ..
सौरदीपिका.
सूर्यांशपुरुषाऽन्तर्धानानन्तरं
मयासुरः
अनन्यद्वारॆत्यर्थः
सूर्यात्
स्वर्गस्थं
ग्रहस्थित्यादिज्ञानं पूर्वॊक्तं
प्राप्य
स्वं
निवारितपापं
संपादितकार्यं
मन्यतॆस्म .. 26 ..
अथ त्वमिदं ज्ञानं कथं प्राप्तवानिति श्रॊतृमुनिभिः पृष्टॊ मुनिस्तान्
प्रति तत्रत्या अस्मत्प्रभृतय ऋषयॊ मयं प्रत्यॆतज्ज्ञानं
पृष्टवन्त इत्याह—
ज्ञात्वा तमृषयश्चाथ सूर्यलब्धवरं मयम् ..
परिबव्रुरुपॆत्याथॊ ज्ञानं पप्रच्छुरादरात् .. 27..
सौरदीपिका.
मयासुरस्य ज्ञानप्राप्त्यनन्तरम्
सूर्यांश पुरुषमयासुरसंवादाविभूमिप्रदॆशासनभूमिप्रदॆशस्था अस्मत्प्रभृतयॊ मुनयः
कृतकृत्यं
मयासुरं
सूर्यात्प्राप्नॊ वरॊ ज्ञानप्रसादॊ यॆनैतादृशं
निश्चयं कृत्वा
उपसमीपॆ ऎत्यागत्य
वॆष्टितवन्तः सन्तः सम्प्रॊचुः
अनन्तरम्
अत्यन्तसाभिलाषतया
ग्रहादि चरितं
पृष्टवन्तः .. 27 ..
अथ मयासुरः स्वज्ञानं तत्प्रश्नकारकानस्मत्प्रभृतीन्मुनीन् प्रति
कथयामासॆत्याह—
स तॆभ्यः प्रददौ प्रीतॊ ग्रहाणां चरितं महत् ..
अत्यद्भुततमं लॊकॆ रहस्यं ब्रह्मसम्मितम् ..28..
.
मयासुरः
सन्तुष्टः सन्
अस्मत्प्रभृतिभ्य ऋषिभ्यः
अपरिमॆयम् . अतऎव
ब्रह्मतुल्यं
भूलॊकॆ
अत्यन्तमाश्चर्य कारकं श्रॆष्ठम् . अतऎव
गॊप्यं
खॆटानां
ज्ञानं
प्रकर्षॆण निर्व्याजतया दत्तवान् . कथयामासॆत्यर्थः .. 28 ..
इति श्रीसिद्धान्तवागीशपण्डितमाधवप्रसादपुरॊहितविरचितायां सौरदीपिकायां मानाध्यायश्चतुर्दशः समाप्तः .. 14 .. समाप्तश्चायं ग्रन्थः श्रीपरमॆश्वरः प्रसीदतुः..